सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/षष्ठोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः काशिकाविवरणपञ्जिका
चतुर्थः पादः
[[लेखकः :|]]

अथ षष्ठोऽध्यायः

चतुर्थः पादः

1. अङ्गस्य। (6.4.1)
`अधिकारोऽयम्‌' इति। स्वरितलिङ्गासङ्गात्‌। इह केचित्‌ प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारो युक्त इति मन्यन्ते। एवं हि `गुणो यङ्लुकोः' (7.4.82) इत्यस्मिन्‌ सत्रे लुग्ग्रहणं न कर्त्तव्यं भवति; यङ्लुक्यापि प्रत्ययलक्षणेन गुणस्य सिद्धत्वात्‌। यदि पुनरा सप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारः स्यात्‌, ततोऽवश्यं लुग्ग्रहणं कर्त्तव्यम्‌, न ह्यन्यथा यङ्लुकि गुणः सिध्यति; `न लुमताङ्गस्य' (1.1.63) इति प्रतिषेधादित्येदं तेषामभिप्रायः। वृत्तिकारस्तु--यदि प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः स्यात्‌, ततो वव्रश्चेत्यत्र वृश्चतेर्लिटि द्विर्ववचने कृते हलादिशेषात्‌ प्राक्‌ सम्प्रसारणं पूर्वप्रतिषेधेन, `उभयेषाम्‌' इति वचनसामर्थ्याद्धापरमपि हलादिशेषं बाधित्वा सम्प्रसारणं स्यात्‌, ततश्च `सम्प्रसारणाच्च' (6.1.108) इति पूर्वरूपत्वे `उरत्‌' (7.4.66) इत्यत्त्वे रपरत्वे हलादिशेषे च कृते वकारस्यापि सम्प्रसारणं प्रसज्येत। आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सति `उरत्‌' (7.4.66) इत्यस्य परनिमित्तत्वात्‌ प्रत्ययो निमित्तत्वेनाश्रीयते। तेन परनिमित्तत्वादुरदत्तवस्य सम्परसारणम्‌' (6.1.37) इति वकारस्य सम्प्रसारणं प्रतिषिध्यते। प्रागभ्यासविकारेभ्यः पुनरङ्गाधिकारे सत्यपरनिमित्तत्वा दुरदत्त्वसय स्थानिवद्भावो न स्यात्‌, ततश्च `न सम्प्रसारणे सम्प्रसारणम्‌' (6.1.37) इत्यस्य प्रतिषेधस्याभावाद्वकारसय समप्रसारणं स्यादेव। ततश्चोव्रश्चेत्यनिष्टं रूपं स्यात्‌। तस्मादा सप्तमाध्यायपरसमाप्तेरङ्गाधिकारो युक्तः, न तु प्रागभ्यासविकारेभ्य इति मन्यमान आह--`आ सप्तमाध्यायपरिसमाप्तेः' इति। सप्तमाध्यायपरिसमाप्तेस्तु परेण `पदस्य' (8.1.16) इत्यधिकृतय कार्यं विधीयते। तेन तत्राङ्गाधिकारो नानुवर्त्तते। `ह्वेञ्‌ स्पर्धायाम्‌' [ह्वेञ्‌ स्पर्धायां शब्दे च--धा.पा.] (धा.पा.1008) निष्ठा, यजादीत्वात्‌ सम्प्रसारणम्‌। `जीनः' इति। ` ज्या वयोहानौ' (धा.पा.1499) ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्‌, `ल्वादिभ्यः' (8.2.44) इति निष्ठानत्वम्‌। `संवीतः' इति। `व्येञ्‌ संवरणे' (धा.पा.1007) वच्यादिना (6.1.15) सम्प्रसारणम्‌।
`निरुतम्‌, दुरुतम्‌' इति। `वेञ्‌ तन्तुसन्ताने' (धा.पा.1006) पूर्ववत्‌ सम्प्रसारणम्‌। असत्यङ्गाधिकारे निर्दुरोरवयवो यो हल्‌ ततोऽप्युत्तरस्य सम्प्रसारणस्य दीर्घः स्यात्‌। अङ्गाधिकारे पुनरङ्गावयवो यो हल्‌ तदुत्तरं यत्‌ सम्प्रसारणं तदन्तस्याङ्गस्य दीर्घत्वं विज्ञायत इति न भवति दीर्घत्वप्रसङ्गः। न ह्यत्राङ्गावयवाद्धल उत्तरं सम्प्रसारणम्‌। `अग्नीनाम्‌' इति। `ह्रस्वनद्यापो नुट्‌' (7.1.54)। `क्रिमिणां पश्य पामनां पश्य' इति। क्रियमोऽस्यां सन्तीति, पामानोऽस्यां सन्तीति `लोमादि' (5.2.100) इत्यादिना नप्रत्ययः, ततष्टाप्‌, द्वितीयैकवचनम्‌। `अमि पूर्वः' (6.1.107) इति पूर्वरूपत्वम्‌। यद्यङ्गस्येति नाधिक्रियते, ततोऽत्रापि क्रिमिशब्दस्य पामशब्दसय च नामि परतो दीर्घत्वं स्यात्‌। अङ्गाधिकारे तु न दोषः, न ह्यत्र क्रिमिपामशब्दयोर्नामि परतोऽङ्गत्वमस्ति, अपि तु नप्रत्यये `ब्राह्मणभिस्सा, ओदनभिस्सिटा' इति। भिस्साभिस्सिटाशब्दौ टाबन्तौ। तत्रैक ओदनस्य वाचकः, अपरस्तु तद्दग्धिकायाः। ताभ्यां यथाक्रमं ब्राह्मणौदनशब्दयोः षष्ठीसमासः। तत्रासत्यङ्गाधिकारे अनङ्गाब्यामपि ब्राह्मणौदनशब्दाभ्यां परस्य भिस ऐस्भावः प्रसज्येत।
ननु च `तर्थवद्ग्रहणे नानर्थकस्य' (व्या.प.1) इति वचनाद्यथा क्रिमिणां पश्य, पामनां पश्येत्यत्र दीर्घत्वं न भविष्यति, तथा ब्राह्मणभिस्सौदनभिस्सिटेत्यत्राप्यैस्भावः, न ह्यत्र नामोऽर्थवत्त्वम्‌, नापि भिसः, तत्‌ किं तन्निवृत्यर्थेनाङ्गाधिकारेण? इत्याह--`अङ्गाधिकारः' इत्यादि। `नामिदीर्घत्वाद्यपि' इत्यादि। आदशब्देन `अतो भिस ऐस्‌' (7.1.9) इत्यैस्‌ गृह्यते। इतिकरणो हेतौ। यस्मादसत्यङ्गाधिकारे `हलः' (6.4.2) इति दीर्घत्वं यथा हूतः जीन इत्यत्र भवति, तथा निरुतम्‌, दुरतमित्यत्रापि स्यात्‌। `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वं यथा चिकीर्षतीत्यत्र भवति, तथा दधि सनोति, मधु सनोतीत्यत्रापि स्यात्‌। `एर्लिङि' (6.4.67) `वान्यसय संयोगादेः' (6.4.68) इत्येत्त्वं यथा ग्लेयादित्यत्र भवति, तथा निर्यायात्‌ निर्वायादित्यत्रापि भवेत्‌। तस्मादेवमाद्यर्थोऽवश्यकर्त्तव्योऽङ्गाधिकारः। सोऽन्यार्थः क्रियमाणो नामि दीर्घत्वाद्यपि व्यवस्थापयति=विषयान्तराद्व्यावर्त्त्याभिमते विषये नियमति। तेन तदर्थमेषा परिभाषा नाश्रयितव्या भवति। अगत्या हि खलु परिभाषाऽऽश्रीयत इति भावः।
ननु `षष्ठी स्थानेयोगा' (1.1.49) इति वचनादङ्गस्येति स्थानषष्ठीयम्‌, ततश्च `अतो भिसऐस' (7.1.9) इत्येतत्‌ पञ्चम्यन्तेनाङ्गस्येत्येतत्षष्ठ्यन्तस्य समानाधिकरणत्वं न स्यात्‌; भिन्नविभक्तिकत्वात्‌। तथा च सत्यकारान्तात्‌ परस्य भिस्सेत्यत्रस्यैस्भावः प्रसज्येत `ऊदुपघाया गोहः' (6.4.89) इत्यत्र `गोहः' इत्यस्याः स्थानषष्ठ्या `अलोऽन्त्यस्य' (1.2.52) इत्यन्तेऽल्युपसंहारादुपधागरहणसामर्थ्याच्छ गोहश्चान्त्यस्य स्यादूत्त्वम्‌। उपधामात्रस्य च `शास इदङ्हलोः' (6.4.34) इत्यत्रापि शास इति स्थानषष्ठीत्वेन विज्ञातायाः षष्ठ्या अन्तेऽल्युपसंहारादुपधाग्रहणानुवृत्तिसामर्थ्याच्च शासश्चान्त्यस्येत्त्वम्‌, उपधामात्रस्य चेत्येतद्देश्यमपाकर्त्तुमाह--`अङ्गस्येति सम्बन्धसामान्य एषा षष्ठी' इत्यादि। सम्बन्धसामान्ये=अविशेषितसम्बन्धमात्रे। तत्रानेकसम्बन्धानुग्रहार्थमनाश्रितविशेषं सम्बन्धसामान्यमुपादाय प्रवृत्ता सत्युत्तरेषु भिन्नार्थेषु लक्षमवाक्येषु यथायोगं विशेषेष्ववतिष्ठते। सा क्वचित्‌ स्थाने योगा भवति, यथा `हन्तेर्जः' (6.4.36) इत्येवमादौ। क्वचिन्निमित्तनिमित्तिसम्बन्धविषया, यथा--`युवोरनाकौ' (7.1.1) इत्यादौ। यथैव हि देवदत्तस्येत्येका षष्ठ्यभेदेन प्रवृत्ता ज्ञात्यवयवादिषु सम्बन्धभेदैर्भिद्यमाना जन्यजनकभावाद्यैः सम्बन्धविशेषे यथायोगमुपतिष्ठते--देवदत्तस्य पुत्रः पाणिः कम्बल इति, तथाङ्गस्येत्येषापि। तत्र यस्मिन्‌ वाक्ये `शास इदङ्हलोः' (7.4.34) इत्येवमादौ सम्बन्धिविशेषो विद्यते--अवयवोऽन्यो वा, तत्र यथायोगमवयवादिसम्बन्धे षष्ठी वेदतव्या। यत्र न विद्यते तत्र स्थाने षष्ठी, यथा--`हन्तेर्जः' (6.4.36) इतयवमादौ। कथं पुनरेषा सम्बन्धसामान्ये षष्ठीति लभ्यते, यावता `षष्ठी स्थानेयोगा' (1.1.49) इत्युक्तम्‌? एवं मन्यते--न हि सर्वा षष्ठी स्थानेयोगा भवति, अपि तु यस्याः कलादिकं लिङ्गं प्रतिज्ञायते; अन्यथा हि `उदीचामातः साथाने' (77.3.46) इति स्थानग्रहणमनर्थकं स्यात्‌। तस्माद्विशिष्टैव या षष्ठी यस्याः कलादिकं लिङ्गं प्रतिज्ञायते सा स्थानेयोगेत्युक्तम्‌। न चास्याः कलादिकं लिङ्गं प्रतिज्ञायते। ततो नेयं स्थानेयोगा भवितुमर्हति।
`अथ वा' इत्यादि। अङ्गशब्दस्य प्रातिपदिकस्य योऽर्थस्तन्मात्रधिक्रियते, न त्वेङ्स्येत्येतच्छब्दरूपम्‌। मात्रशब्दो विभक्त्यर्थव्यवच्छेदाय। अत एवाह--`अविवक्षितविभक्त्यर्थम्‌' इति। न विवक्षितो विभक्त्यर्थी यस्मिन्नर्थमात्रे तत्‌ तथोक्तम्‌। यतश्चेतदेवं तेन षष्ठी स्थानेयोगेति। नात्रेयं परिभाषोपतिष्ठते। अनेकसम्बन्धप्रसङ्गे हि सम्बन्धान्तरव्यवच्छेदार्थमेषा प्रणीता। ततो यत्र सम्बन्धो विवक्ष्यते तत्रैव नियमार्थमुपतिष्ठते, न चात्र कश्चित्‌ सम्बन्धः षष्ठ्या विवक्षितः केवलं निर्देशार्थ एवास्याः प्रयोगः। अवश्यं हि यथा कयाचिद्विभक्त्या निर्देशः कर्त्तव्य इति षष्ठ्यां निर्देशः कृतः। ननु च स्वरितेनाधिकारः, स च शब्दधर्मः, नार्थधर्मः, तत्‌ कथं स्वरितरहितोऽर्थः शक्यतोऽधिकर्त्तुम्‌? नैष दोषः; अङ्गशब्दप्रतिपादितो योऽर्थः स शब्दात्मक एव। तथा हि यस्मात्‌ प्रतययविविस्तदादेः शब्दस्याङ्गसंज्ञा विहिता। `तदुत्तरत्र यथायोगं विपरिणम्यते' इत्यादि। अर्थवशात्‌ क्वचित्‌ षष्ठ्यन्तत्वेनैव क्वचिद्विभक्त्यन्तरत्वेन, यथा--आढ्यो र्बधवेयो देवदेत्तः, उच्चान्यस्य गृहाणि, आमन्त्रयस्वैनं देवदत्तमिति। तेन `अतो भिस ऐस्‌ (7.1.9) इत्यत्र पञ्चम्यन्ततया विभक्तिविपरिणामे हि सत्यकारान्तादङ्गादुत्तरस्य भिस ऐसादेशो भवतीत्येवमाद्यर्थरूपं सम्पन्नं भवति। आदिशब्देन युष्मदस्मद्भ्यामुत्तरस्य ङसोऽश्‌ भवतीति परिगृह्यते। पिशब्दादवयवषष्ठ्यादयोऽपि परिसम्पन्ना भवन्ति। पूर्वत्र तु परिहारे `अतो भिस्‌ ऐस्‌' (7.1.9) इत्यत्रात्‌ इत्येषा निमित्तनिमित्तिसम्बन्दे षष्ठी द्रष्टव्या। तत्रायं सूत्रार्थः--अकारान्तस्याङ्गस्य यी भिस्‌ तस्यैस्भवतीति। तेन ब्राह्मणभिस्सेत्येवमादौ न भवति। अङ्गस्य हि को भिम्‌? यस्तस्य निमित्तम्‌। कस्तस्य पुनर्निमित्तम्‌ भिस्‌? परभूते यस्मिन्नङ्गमित्येषं भवति। कस्मिंश्चैतद्भवति? प्रत्यये। न च ब्राह्मणभिस्सेत्येवमादौ भिस्प्रत्यय इति कुतस्तस्यैस्प्रसङ्गः।।

2. हलः (6.4.2)
अण्ग्रहणं सम्प्रसारणग्रहणं दीर्घग्रहणञ्चैतत्‌ तरयमनुवर्त्तते। कुतः पुनः प्रकृतमण्ग्रहणम्‌? `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इत्यतः। ननु तत्‌ `इकः काशे' (6.3.123) इतीग्ग्रहणेन व्यवच्छिन्नम्‌, तत्‌ कथमिहानुवर्त्तते? नैष दोषः, इग्ग्रहणेन ह्यणेव विशिष्यते--अण्णिगित। ततो विरोधाभावन्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा--`अवाचा, स्वराचा' इत्यत्र दीर्घत्वं न स्यात्‌। `चौ' (6.3.138) इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्ग्रहणं तु निवृत्तमित्येषोऽपयदोषः। अथ वा--यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्‌, तथापीह मण्डूकप्लुतिन्यायेनानुवर्त्तते।
ननु यथा `शेषे' (4.2.92) इत्येतल्लक्षणं विधिरधिकारश्च, तथा `अङ्गस्य' (6.4.1) इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं `हलः' इत्येतद्वचनम्‌। अतो न कर्त्तव्यमेवेति मन्यमान आह--`हल इति किम्‌' इति। किमर्थं `हलः' इत्येतत्‌ सूत्रमारभ्यत इत्यर्थ। `उतः, उतवान्‌' इति। असत्यस्मिन्‌ सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्‌। भवति ह्येतदपि व्यपदेशिवद्भावेन सम्प्रसारणान्तमङ्गम्‌, तस्मात् `हलः' इति सूत्रं कर्त्तव्यम्‌। `विद्धः' विचितः' इति। `व्यध ताडने' (धा.पा.1181) `व्यच व्याजीकरणे' (दा.पा.1293) निष्ठा, ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्‌। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि `विध्यत्यधनुषा' (4.4.83) `ग्रहिज्यावयिव्यधिवष्टिविचति' (6.1.16) इति निर्देशात्‌ हलन्तस्य यत्‌ सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्‌। `तृतीयः' इति। `द्वेस्तीयः' (5.2.54) इति `त्रेः सम्प्रसारणञ्च' (5.4.55) इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्‌? कस्मान्नास्त्यण्‌? यस्मात्‌ `ढ्रलोपे' पूरवस्य दीर्घोऽणः' (6.3.111) इत्यत इहाण्ग्रहणमनुवर्त्तते, तत्र च पूर्वेणैव णकारेण प्रत्याहारग्रहणम्‌, न च तत्र ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्‌। `तृतीयेति वा' इत्यादि। अथ वा `अण' इत्येतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; `कर्त्तुकरणयीस्तृतीया' (2.3.18) इति निपातनात्‌।
`हलः' इत्येतसय त्रयोऽर्थाः सम्भाव्यन्ते, हल उत्तरस्य सम्प्रसारणान्तस्याङग्सय् दीर्घो भवति--अयमेकोऽर्थः, अङ्गवयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति--इति द्वितीयः, तृतीयस्तु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्‌, दुरुतमित्यत्रापि स्यात्‌। भवति ह्येतदपि हल उत्तरं समप्रसारणान्तमङ्गम्‌। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्‌। अत्राप्याङ्गवयवाद्धल उत्तरं सम्प्रसारणमिति। अथ `विध्यत्यधनुषा' (4.4.83), `ग्रहिज्यावयिव्यधिवष्टिविचति' (6.1.16) इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण द्रशितः। अत्रापि देश्यमिदमाशङ्क्यते--ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्‌। तच्च हलो विशेषणं वा स्यात्‌, अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्ट सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्‌ विशेषितो न स्यात्‌। तस्माद्‌द्वितीयमङ्गग्रहणं कर्त्तव्यं स्यात्‌। न ह्येकेन शक्यमेतदुभयं प्रतिपादयितुम्‌। अतोऽस्य देश्यस्य निरासायाऽऽवृत्तिन्यायमाश्रित्याह--`अङ्गग्रहणम्‌' इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्‌, तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्‌ विशिष्यते, आवृत्तेन त्वङ्गस्य दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति।।

3. नामि। (6.4.3)
अण्ग्रहणं सम्प्रसारणग्रहँ दीर्घग्रहणञ्चैतत्‌ त्रयमनुवर्त्तते। कुतः पुनः परकृतमण्ग्रहणम्‌? `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इत्यतः। ननु तत्‌ `इकः काशे' (6.3.123) इतीग्ग्रहणेन व्यवच्छिन्नम्‌, तत्‌ कथमिहानुवर्त्तते? नैष दोषः, इग्ग्रहणेन ह्यणेव विशिष्यते--अण्णिगिति। ततो विरोधाभावान्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा--`अवाचा, स्वराचा' इत्यत्र दीर्घत्वं न स्यात्‌। `चौ' (6.3.138) इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्गरहणं तु निवृत्तमित्येषोऽप्यदोषः। अथ वा--यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्‌, तथापीह मण्डूकप्लुतिन्यायेनानुवर्त्तते।
ननु यथा `शेषे' (4.2.92) इत्येतल्लक्षणं विधिरधिकारश्च, तथा `अङ्गस्य' (6.4.1) इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं `हलः' इत्येतद्वचनम्‌। अतो न कर्त्तव्यमेवेति मन्यमान आह--`हल इति किम्‌' इति। किमर्थं `हलः' इत्येतत्‌ सूत्रमारभ्यत इत्यर्थः। `उत्तः, उतवान्‌' इति। असत्यस्मिन्‌ सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्‌। भवति ह्येतदपि व्यपदेशिवद्भावेन सम्परसारणान्तमङ्गम्‌, तस्मात्‌ `हलः' इति सूत्रं कर्त्तव्यम्‌। `विद्धः, विचितः' इति। `व्यघ ताडने' (धा.पा.1181) `व्यच व्याजीकरणे' (धा.पा.1293) निष्ठा, ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्‌। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि `विध्यत्यधनुषा' (4.4.83) `ग्रहिज्यावयिव्यधिवष्टिविचति' (6.1.16) इति निर्देशात्‌ हलन्तस्य यत्‌ सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्‌। `तृतीयः' इति। `द्वेस्तीयः' (5.2.54) इति `त्रेः सम्प्रसारणञ्च' (5.4.55) इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्‌? कसमान्नास्त्यण्‌? यस्मात्‌ `ढ्रलोपे' पूर्वस्य दीर्घोऽणः' (6.3.111) इत्यत इहाण्ग्रहणमनुवर्त्तते, तत्र च पुर्वेणैव णकारेण प्रत्याहारग्रहणम्‌, न च ततर ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्‌। `तृतीयेति वा' इत्यादि। अथ वा `अण' इत्यतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; `कर्त्तुकरणयोस्तृतीया' (2.3.18) इति निपातनात्‌।
`हलः' इत्येतस्य त्रयोऽर्थाः सम्भाव्यन्ते। हल उत्तरस्य सम्प्रसारणान्तस्याङ्गस्य दीर्घो भवति--अयमेकोऽर्थः, अङ्गावयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति--इति द्वितीयः, तृतीयसतु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्‌, दुरुतमित्यत्रापि स्यात्‌। भवति ह्येतदपि हल उत्तरं सम्प्रसारणान्तमङ्गम्‌। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्‌। अत्राप्याङ्गावयवाद्धल उत्तरं सम्प्रसारणमिति। अथ `विध्यत्यधनुषा' (4.4.83), `ग्रहिज्यावयिव्यधिवष्टिविचति' (6.1.16) इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण दर्शितः। अत्रापि देश्यमिदमाशङ्क्यते--ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्‌। तच्च हलो विशेषणं वा स्यात्‌, अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्टस्य सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्‌ विशेषितो न स्यात्‌। तस्माद्‌द्वितीयमङ्गगरहणं कर्त्तव्यं स्यात्‌। न ह्येकेन शक्यमेतदुभयं प्रतिपादयितुम्‌। अतोऽस्य देश्यस्य निरासायाऽऽवृत्तिन्यायमाश्रित्याह--`अङ्गग्रहणम्‌' इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्‌, तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्‌ विशिष्यते, आवृत्तेन त्वङ्गसय दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति।।

3. नामि। (6.4.3)
अङ्गाधिकारान्नामि परतोऽङ्गस्य दीर्घो विधीयते। अङ्गञ्च प्रत्यये परतो भवति। न चेह शास्त्रे क्वाचिन्नाम्प्रत्ययो विहितः, ततो न ज्ञायते--नामीति कस्येदं ग्रहणमिति? अतस्तत्परिज्ञानार्थमाह--`नामीति षष्ठीबहुवचनम्‌' इत्यादि। आगतः प्राप्तो नुड्‌ येन तदागतनुट्कम्‌। अथ वा आगतः= प्राप्तो नुड्‌ यतर तदागतनुट्कम्‌। `कर्ततॄणम्‌' इति। कथं पुनरत्र दीर्घत्वम्‌, यावताऽण्ग्रहणमत्रानुवर्त्तते? अत माह--`अण इत्येतन्निवृत्तम्‌' इति। `न तिसॄचतसृ' (6.4.4) इति तुसृचतस्रोर्दीर्घत्वप्रतिषेधादीत्यभिप्रायः।
`उत्तरार्थम्‌' इति। `नोपधायाः' (6.4.7) इति। अत्र नामि परतो नोपधाया दीर्घत्वं यथा स्यात्‌, आमि मा भूदिति--एवमर्थमागतनुट्कग्रहणम्‌। तेन वर्मणामित्यत्र दीर्घो न भवति। कृते च नुटु दीर्घत्वप्रतिपत्त्यर्थमित्यागतनुट्कस्य ग्रहणमिति परकृतेन सम्बन्धः। `अन्यथा हि' इत्यादि। अन्यथा यद्यागतनुट्कस्यामो ग्रहणं न क्रियते तदा नुट आम्भक्तत्वादाम्ग्रहणेन ग्रहणे कृते सति नुटि दीर्घत्वेन भवितव्यम्‌, अकृतेऽपि। ततश्च कृताकृतप्रसङ्गो यो विधिःस नित्य इति नित्यत्वात्‌ परमपि नुटं बाधित्वा दीर्घत्वमेव स्यात्‌। एवञ्च सति ह्रस्वान्तमङ्गं न भवतीति नुडेव न स्यात्‌। ननु न नुडु ह्रस्वान्ताद्विधीयते, न च नित्यत्वाद्दीर्घत्वे कृते ह्रस्वान्तमङ्गमास्ति, तत्र वचनसामर्थ्याद्भूतपूर्वगतिर्भविष्यति, भूतपूर्वगत्या ह्रस्वान्तादङ्गादुत्तरस्यामो नुङ्भवतीति, न च शक्यते वक्तुम्‌; तिसृणाम्‌, चतसृणामित्यत्र `न तिसृचतसृ' (6.4.4) इति प्रतिषेधात्‌। ह्रस्ववचनं सावकाशमिति। यस्मात्‌ `ह्रस्वनद्यापो नुट्‌' (7.1.54) इत्यतर--`त्रेस्त्रयः' (6.3.48) इत्यतस्त्रिग्रहणमनुवर्त्तते, तेन त्रिग्रहणानुवृत्तेरेव स्थानिवद्भवेन तिसृणामित्यत्र नुङ्भविष्यति। तथा चतसृणामित्यत्रापि `षट्‌ चतुर्भ्यश्च' (7.1.55) इत्यनेन स्थानिवद्भावादिति। नापि शक्यते वक्तुम्‌--नृणामित्यत्र `नृ च' (6.4.6) इति पक्षे दीर्घत्वाभावात्‌ ह्रस्ववचनस्य सावकाशत्वमिति। न ह्येकमुदाहरणं प्रति ह्रस्ववचनं प्रयोजयति। यदि ह्येतावत्‌ प्रयोजनं स्यात् `नृनद्यापो नुट्‌' इत्येवं ब्रूयात्‌। तदेवं ह्रस्ववचनमनवकाशम्‌। अतः कृतेऽपि दीर्घत्वे अग्नीनामित्यादौ भूतपूर्वगत्या नुङ् भविष्यति; ह्रस्वग्रहणसामर्थ्यात्‌। तस्मादयुक्तमिदमुक्तम्‌--अन्यथा हि नुडेव न स्यादिति।
एवं तर्ह्यन्यथा व्याख्यायते वृत्तिग्रन्थे--`आगतनुट्कस्य ग्रहणमुत्तरार्थम्‌' इत्युक्ते चोदक आह--`कृते च नुटि' इत्यादि। कस्मान्न भवतीति वाक्यशेषः। कृते च नुटि दीर्घस्य प्रतिपतिर्यथा स्यादित्येवमर्थमागतनुट्कस्य ग्रहणं कस्मान्न भवतीति। युक्तं चैतत्‌, तथधा हि यद्यागतनुट्कस्य ग्रहणं न स्यात्‌ ततो नित्यत्वाद्दीर्घत्वे कृते ह्रस्वाभावादग्नीनामित्यादौ नुड्‌ न स्यात्‌। सनुट्कस्य ग्रहणे तु भवतीत्येवं चादकेनोक्ते सतीदमाह--`अन्यथा हि' इत्यादि। हिशब्दोऽयमपिशब्दार्थे वर्त्तते। नशब्दोऽपि नन्वित्यर्थे वर्त्तते। अनेकार्थत्वा न्नेपातानाम्‌। एवकारो भिन्नक्रमः, स्यादित्यस्यानन्तरं द्रष्टव्यः। तदयमत्रार्थः--अन्यथापि ननु नुट् स्यादेव, न केवलं सनुट्कसय ग्रहणे सत्यग्नीनामित्यादौ नुड् भवति, अपि त्वन्यथाप्यनागतनुट्कस्यापि ग्रहणे नुट्‌ स्यादेवेति।
अथ किमर्थमागतनुट्कसय ग्रहणम्‌, `आमि दीर्घः' इत्येव नोच्येत? अस्मिन्‌ पर्यनुयोगे सति `नामि दीर्घः' इत्यादेः श्लोकस्योपन्यासः। योऽयं नामि दीर्घ उक्तः स यद्यामि भवेदामीत्येवं सूत्रप्रणयने सति कृताकृतप्रसङ्गित्वेन नित्यत्वात्‌ परमपि नुटं बाधित्वा दीर्घत्वमेव स्यात्‌, ततश्च नुङ् न स्यादेव, अह्रस्वान्तत्वादङ्गस्य? नैष दोषः; `वचनात्‌' इति। वचनान्नुडु भविष्यति। यदि दीर्घत्वे नुड्‌ न स्यात्‌, तदा `ह्रस्वनद्यापो नुट्‌' (7.1.54) इत्यत्र ह्रस्ववचनमनर्थकं स्यात्‌; अनवकाशत्वात्‌। तस्माद्‌ ह्रस्ववचनसामर्थ्यादसति साम्प्रतिके ह्रस्वान्तेऽङ्गे भूतपूर्वगत्या कृतेऽपि दीर्घत्वेऽङ्गस्य नुङ भविष्यति। यत्र तन्नास्तीति तत्र वचनस्यावकाश इति वाक्यशेषः। यत्र दीर्घत्वं नास्ति--तिसृणाम्‌, चतुसृणामिति तत्र ह्रस्ववचनस्यावकाशः। अतोऽग्नीनामित्यादौ दीर्घत्वे कृते भूतपूर्वगत्या नुडागमो न लक्ष्यते। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति। ननु तिसृणामित्यादावपि नैव ह्रस्ववचनस्यावकाशः। अन्यथैवात्र नुटः सिद्धत्वादिति भावः। ह तावत्‌ तिसृणामिति विनापि ह्रसवग्रहणेनानेनैव सूत्रेण नुङ् भविष्यति, त्रिग्रहणानुवृत्तेः। चतसृणामित्यत्र `षट्चतुर्भ्यश्च (7.1.55) इत्यनेनैव नृणामित्यत्र यद्यपि ह्रस्वान्तमङ्गं तथापि नैकमुदाहरणं प्रति ह्रस्ववचनं प्रयोजयति, अन्यथा हि नृग्रहणमेव कुर्यात्‌, न ह्रस्वग्रहणम्‌। तस्मन्नास्त्येव ह्रस्ववचनस्यावकाशः। तदेतदपार्थकं मा भूदिति ह्रसववचन सामर्थ्यात्‌ कृतेऽपि नुड्‌ भवतीतयविचलमेतत्‌। एवमक्रियमाणेऽपि सनुट्कस्य ग्रहणे दीर्घत्वे कृतेऽपि नुङ भविष्यतीति परमतमाशङ्क्य प्रयोजनान्तरमाह--`नोपधायाश्च' इत्यादि। चशब्दस्तर्ह्यर्थे। एवं तर्हि `नोपधायाः' (6.4.7) इति दीर्घत्वं नामि परभूते या नोपधा तस्या यथा स्यात्‌--पञ्चानाम्‌, सप्तानामित्यादौ। अत्र हि `षट्चतुर्भ्यश्च' (7.1.55) इत्यनेन पञ्चनामित्येवमादेर्नान्तादङ्गादामो नुटि कृते नामि परतो नोपधा भवति। यदि पुनः `आमि' इत्येवोच्येत, तदा वर्मणामित्यादावपि दीर्घत्वं प्रसज्येत। सनुट्कस्य ग्रहणे सति न भवति, नुटो लक्षणाभावात्‌। अत्र हि केवल आमि नोपधा, न तु सनुट्के। तदेवं वर्मणामित्यत्र `नोपधायाः' (6.4.7) इति दीर्घत्वं मा भूदित्येवमर्थं नामीत्युक्तम्‌।।

4. न तिसृचतसृ। (6.4.4)
`तिसृ, चतसृ' इति `सुपां सुलुक्‌' (7.1.39) इति षष्ठीद्विवचनस्य लुकं कृत्वा निर्देशः कृतः। `तिसृणाम्‌, चतसृणाम्‌' इति। `त्रिचतुरोः स्त्रियां तिसृचतसृ' (7.2.99) इति तिसृचतस्रादेशौ भवतः। ननु चात्र दीर्घत्वस्य प्राप्तिरेव नास्ति। तत्‌ किं प्रतिषेधेनेति? तथा ह्यत्रादेशयोः कृतयोरुभयं प्राप्नोति--नुडागमः, `अचि र ऋतः' (7.2.100) इति रेफादेशश्च, तत्र परत्वाद्रेफादेशे सत्यनजन्तमङ्गं भवति। अजन्तस्य दीर्घत्वेन भवितव्यम्‌, दीर्घग्रहणेन `अचश्च' (1.2.28) इत्यस्या उपस्थापितत्वादित्यत आह--`इदमेव' इत्यादि। यद्यत्र रेफादेशः स्यादयं प्रतिषेधो न कृतः स्यात्‌, कृतश्च, तस्‌मादयं प्रतिषेधो ज्ञापयति--`अचि र ऋतः' (7.2.100) इत्यस्मात्‌ पूर्वविप्रतिषेधेन नुडागमो भवतीति। तेन `नुमचिरऋत ज्वद्भावेभ्यो नुड्‌ भवति पूर्वविप्रतिषेधेन' इत्येतदुक्तं भवति।।

5. छन्दस्युभयथा। (6.4.5)
वेति वक्तव्ये `उभयथा' इति वचनं वैचित्र्यार्थम्‌।।

6. नृ च। (6.4.6)
`केचिदेतचछन्दसीति नानुवर्त्तयन्ति' इति। त एवं मन्यन्ते--यद्ययं योगश्चन्दस्येव स्यात्‌ `छन्दसि नृ चोभयथा' इत्येकयोगमेव कुर्यात्‌। चकारो हि तिसृचतस्रोरनुकर्षणार्थः। तत्रैकयोगेनैव सिद्धे पृथग्योगकरणान्निश्चीयते--भाषायामप्येष योग इति।।

7. नोपधायाः। (6.4.7)
अनजन्तार्थ आरम्भः। न इति षष्ठ्येकवचनान्तम्‌, सौत्रत्वन्निर्देशस्य यकारलोपस्यासिद्धत्वमनाश्रित्य `आद्गुणः' (6.1.87) कृतः। न इति वर्णग्रहणम्‌, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयन्तीति नकारान्तस्याङ्गस्योपधायाः तस्या दीर्घत्वं विज्ञायत इत्याह--`नकारान्तस्याङ्गस्य' इति। `पञ्चानाम्‌' इति। `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नकारलोपः।।

8. सर्वनामस्थाने चासम्बुद्धो। (6.4.8)
`सामानि' इति। `जस्शोः शिः' (7.1.20) इति शिभावः। `राजनि' इति। सपतम्येकवचनान्तम्‌। चकारः `नोपधायाः' (6.4.7) इत्यनुकर्षणार्थः। यद्येवम्‌, `चानुकृष्टं नोत्तरत्रामिसम्बध्यते' (व्या.प.76) इत्येतदनुवृत्तिर्न प्राप्नोति? एवं तर्ह्यतदसन्देहार्थश्चकार इति। असति हि चकारे सर्वनामस्थाने सम्बुद्धावित्युच्यमाने सन्देहः स्यात्‌--किमयसम्बुद्धावथ सम्बुद्धाविति। यद्येतत्‌ प्रयोजनं स्यात्‌ `असम्बुद्धौ सर्वनामस्थाने' इत्येवं ब्रूयात्‌। एवं तर्हि वैचित्र्यार्थश्चकारः।।

9. वा षपूर्वस्य निगमे। (6.4.9)
अत्र दीर्घग्रहणेन `अचश्च' (1.2.28) इत्यस्याः परिभाषाया उपस्थाने सत्यच्‌ सन्निधापितः। `नोपधायाः' (6.4.7) इत्यधिकारादुपधापि। `षपूर्वस्य' इति। षः पूर्वो यस्मादिति बहुव्रीहिः। तत्र यद्युपधाऽन्यपदार्थत्वेनाश्रीयेत, `षपूर्वस्य' इत्यस्त्रीलिङ्गेन निर्देशो नोपपद्यते, तस्मादजत्रान्यपदार्थत्वेनाश्रीयत इत्याह--`षपूर्वस्याचः' इत्यादि। `उपधायाः' इत्येतदचः समानाधिकरणं विशेषणम्‌। ऋभुक्षाणाम्‌' इति। ऋभृक्षोऽस्यास्तीति द्वितीयैकवचनम्‌, `पथिमथ्यृभुक्षाणाम्‌' (7.1.85) इत्यनुवर्त्तमाने `इतोऽत्सर्वनामस्थाने' (7.1.86) इत्यत्त्वम्‌। पूर्वग्रहणमुत्तरार्थम्‌। इह तु `वा षो निगमे' इत्येतावत्युच्यमाने षकारात्‌ परस्याचः `नोपधायाः' (6.4.7) इति विकल्पेन दीर्घत्वं लक्ष्यत एव।।

10. सान्तमहतः संयोगस्य। (6.4.10)
सकारेऽकार उच्चारणार्थः। सोन्तोऽस्य स तथोक्तः। `सान्त' इत्यविभक्तिकोऽयं निर्देशः, तत्रोत्पन्नायाः षष्ठ्या लुप्तत्वात्‌। `सकारान्तस्य संयोगो नकारो महतश्च' इति। तत्रापि नकार इत्यपेक्षते। सकारान्तस्य महतश्चेति द्वे अप्यवयवषष्ठ्यौ, सान्तसंयोगो यो नकारोऽवयवो महच्छब्दस्य च योऽवयव इत्यर्थः। एतेन सान्तसंयोगो महच्छब्दश्चोभयमप्येतन्नकारस्य विशेषणमिति दर्शयति। `तस्योपधायाः' इति। तस्येत्यनेन नकारः प्रत्यवमृश्यते। तस्य नकारस्य सम्बन्धिन्या उपधाया इत्यर्थः। एतैनापि नकार उपधाया विशेषणमित्याचष्टे। कः पुनर्नकारस्योपधायाश्च सम्बन्धः येनासौ तस्येति व्यपदिश्यते? निमित्तनिमित्तिभावः। अन्तयनकारापेक्षया हि पर्वत्वे सत्यन्तनकारात्‌ पूर्वो वर्ण उपधा भवति। तस्मान्नकारो निमित्तम्‌, उपरधा निमित्तनौ। अथ वा--समीपसमीपिलक्षणः सम्बन्धः, एतेन नकारसमीपवर्त्तिन्या उपधाया इत्यर्थः। `श्रेयान्‌' इति। प्रशस्योऽयम्‌, प्रशस्योऽयम्‌, अनयोरयम्प्रकर्षेण प्रशस्य इति `द्विवचनविभज्योपपदे तरबीयसुनौ' (5.3.57) इतीयसुन्‌, `प्रशस्यस्य श्रः' (5.3.60) इति श्रादेशः, `प्रकृत्यैकाच्‌' (6.4.163) इति प्रकृतिवद्भावाट्टिलोपः, `यस्येति च' (6.4.148) इति लोपश्च न भवति। `उगिदचाम्‌' (7.1.70) इत्यादिना नुम्‌, हल्ङ्यादि (6.1.68) संयोगान्त (8.2.23) लोपौ। `श्रेयांसि, पयांसि' इति। पूर्ववज्जसः शिभावः `नपुंसकस्य झलचः' (7.1.72) इति नुम्‌। कथं पुनरत्र नकारात्‌ पूर्वस्योपधात्वम्‌, यावता `अलोन्त्यात्पूर्व उपधा' (1.1.65) इत्यलां सन्निविष्टानां योऽन्त्योऽल्‌ ततः पूर्वस्योपधासंज्ञा विहिता। न चात्र नकारोऽन्त्यः, किं तर्हि? सकारः? नैष दीषः; अपेक्षितं ह्यन्त्यत्वम्‌। तत्‌ सकारात्‌ पूर्वे ये वर्णास्तेषां नकारोऽन्त्य इति। ततः पूर्वो वर्ण उपधा भवति। यद्येवम्‌, तक्षको रक्षक इत्यत्रापि सकारात्‌ पूर्वे ये वर्णास्तेषां ककारोऽन्त्य इति, ततः पूर्वोऽवर्ण उपधा स्यात्‌, ततश्च `अत उपधायाः, (7.2.116) इति वृद्धिः स्यात्‌? नैतदस्ति; अङ्गस्य योऽकार उपधा तस्या वृद्धिर्विधीयते। न चात्राकारोऽङ्गस्यीपधा, अतो न भविष्यतीति--एतचचाशक्यं वक्तुम्‌, अकारस्याङ्गावयवत्वात्‌। पाचक इत्यादावप्यङ्गावयवत्वादकारोऽङ्गस्योपधेत्युच्यते, तस्मात्‌ प्राप्नोत्येव वृद्धिः? नैष दोषः, `अत उपधायाः' (7.2.116) इत्यत्र हि 'ञ्णिति' (7.2.115) इत्यनुवर्त्तते, तेनोपधा विशिष्यते--ञिति प्रत्यये परतो योपधेति, तत्र `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्‌' (व्या.प.49) इत्येकेन वर्णेन व्यवधानमाश्रोयते, न पुनरनेकेन। तक्षकः, रक्षक इत्यत्रानेकेन वर्णेन व्यवधानम्‌ अतो न भवति वृद्धिप्रसङ्गः।
इह तु सूत्रेन सर्वनामस्थानेनोपधा विशिष्यते, किं तर्हि? संयोगः--तेन सर्वनामस्थाने परतो यः संयोग इति। तेन यत्र संयोगादनन्तरं सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्‌, तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्‌, तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानेन संयोगसय विशेषणात्‌ हंसौ, हंसा इत्यत्र दीर्घत्वं न भवति। न ह्यत्र संयोगादनन्तरं सर्वनामस्थानमस्ति, अकारेण व्यवधानात्‌। अथेह कस्मान्न भवति--हंसमाचष्ट इति, `तदाचष्टे' (वा.201) इति णिच्‌ णाविष्ठवत्‌ कार्यं प्रातिपदिकस्य (वा.813) इति टिलोपः, हंसयतेः क्विप्‌--हन्‌, हंसौ हंस इति? `वा षपूर्वस्य निगमे' (6.4.9) इत्यतो वाग्रहणानुवृत्तेः। न चैवं सति सर्वत्र विकल्पप्रसङ्गः; व्यवस्थितविभाषात्वात्‌। एतेन `हिसि हिंसायाम्‌' (धा.पा.1829) इत्यस्य क्विबन्तस्य सुहिन्‌ सुहिंसौ सुहिंस इत्यत्र दीर्घत्वाभावो वेदितव्यः।
यस्त्वाह--`इदितो नुम्‌ धातोः' (7.1.58) इत्यनेन नित्यो नुम्‌; नुम्विधावुपदेशिवद्वचनात्‌, ततो नुमः पृथक्सिद्धत्वं नास्ति, अत्र तु सिद्धानां सम्बन्धः समवायो भवति, न तु संयोगः। तेन संयोगाभावादिह दीर्घत्वं न भवति तन्मतेन संयोगान्तलोपोऽपि सुहन्नित्यत्र न स्यात्‌। नेह वैशेषिकशास्त्रप्रसिद्धोऽयं संयोगो गृह्यते अपि तु `हलोऽन्तराः संयोगः' (1.1.7) इति हलान्नैरन्तर्यलक्षण इह शास्त्रे प्रसिद्धः संयोग एव। स चेहास्त्येवेत्यसारः परिहारः। `महान्‌' इति। `वर्त्तमाने पृषद्वृहन्महज्जगच्छतृवच्च' (द.उ.6.5) इति निपातनसूत्रेण शतृवदित्यतिदेशादुगित्कार्यं नुम्‌। सान्तमहत इति किम्‌? बृहन्ति।।

11. अप्तृन्तृच्स्वसृनप्तृनेष्ट्टक्षत्तृहोतृपोतृप्रशास्तॄणाम्‌। (6.4.11)
`आपः' इति। अप्शब्दस्य बहुत्वादेकवचनद्विवचने न सम्भवत इति बहुवचनमुपन्यस्तम्‌। `बह्वाम्पि' इति। बहव आप एष्विति बहुव्रीहिः। तदन्तविधेरिष्टत्वात्‌ तदन्तस्यापि दीर्घत्वं भवति। तथा हि `येन विधिस्तदन्तस्य' (1.1.72) इत्यत्र सूत्रे `कानि पुनरत्र प्रयोजनानि' इति प्रश्ने इदमुक्तं प्रयोजनम्‌--महदपस्वसृनप्तृनेष्टृत्वष्टृ इति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते' (व्या.पा.89)? नैष दोषः; `सर्वनामस्थाने चासम्बृद्धौ' (6.4.8) इत्यतश्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः। तेन तदन्तस्यापि दीर्घत्वं भविष्यति। `केचित्' इति वचनात्‌ केचिन्नेच्छन्तीत्युक्तम्‌। तन्मतेन बह्वम्पीत्येवं भवति। कस्मात्‌ पुनरत्र `ऋक्पूरब्धूःपथामानक्षे' (5.4.74) इत्यनेनाकारः समासान्तो न क्रियते? इत्याह--`तत्र समासान्तो विधिरनित्यः' इत्यादि। इयञ्च परिभाषा `स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनाम नाम च' (6.2.187) इत्यत्राध्वग्रहणेन ज्ञापिता। यथाध्वग्रहणं ज्ञापकं तथा तत्रैदोक्तम्‌। नन्वेवमपि बह्वाम्पीति नैव सम्भवति, तथा हि--बह्वप्‌+शि इति स्थितेऽनेन दीर्घत्वं प्राप्नोति, `नपुसकस्य झलचः' (7.1.72) इति नुम्‌ च, तत्र कृतकृतप्रङ्गित्वेन नित्यत्वात्‌ परत्वाच्च नुम्‌ कर्त्तव्यः, तस्मिन्‌ कृत उपधाया अदीर्घभाविनीत्वाद्दीर्घत्वं न प्राप्नोति? इत्यत आह--`नित्यमपि च' इत्यादि। नित्यमपीत्यपिशब्दात्‌ परमपि। कथं पुनरिष्यमाणं नुममकृत्वा दीर्घत्वं लक्ष्यते? `वा षपूर्वस्य निगमे' (6.4.9) इत्यतः पूर्वग्रहणानुवृत्तेः। तस्यैतदेव प्रयोजनम्‌--यदन्यत्‌ कार्यं प्राप्नोति तदकृत्वा दीर्घत्वमेव पूर्व कर्त्तव्यमिति।
अन्यस्त्वाह--`नपुंसकस्य झलचः' (7.1.72) इति नुम्‌ विधीयते, नपुंसकञ्चार्थधर्मः, अर्थे च शब्दानुशासनेऽस्मिन्‌ कार्याभावान्नपुंसकामिधायी शब्दो नुम्विधावाश्रयणीयः। तञ्च शब्दं ग्रहीतुं प्रयोगोऽनुगमनीय इति नुमो बहिरङ्गत्वम्‌। अयं तु दीर्घः साक्षादप्शब्दमुच्चार्य विधीयमानो यथोच्चारितस्यैव क्रियमाणोऽल्पाश्रयत्वादन्तरङ्ग इति पूर्वं दीर्घः प्रवर्त्तते, पश्चान्नुमिति। एतच्चायुक्तम्‌, अनेन हि न्यायेन बह्वाम्पीति न सिध्येत्‌। एवदपि कैश्चिदिष्यते--अस्य च न्यायस्य साधारणत्वादिहापि पर्वमेव दीर्घत्वेन भवितव्यम्‌, पश्चान्नुमा। पूर्वस्मिंस्तु परिहारे न दोषः। ये हि बह्वम्पीतीच्छन्ति ते पूर्वग्रहणमिह नानुवर्त्तयन्ति।
`कर्त्तारः' इति। तच्छीलादावर्थे तृन्निति `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः। `जनापवादान्‌' इति। द्वितीयान्तस्यानुप्रयोगस्तृन्नन्ततां दर्शयितुम्‌। तृनो हि प्रयोगे `न लोकाव्ययनिष्ठा' (2.3.69) इत्यादिना षष्ठ्यां प्रतिषिद्धायाम्‌, द्वितीयैव भवति। एकवचनं नोदाहृतम्‌। तत्र `ऋदुशनस्पुरुदंशोऽनेहसाञ्च' (7.1.94) इत्यनङादेशे कृते `नोपधायाः' (6.4.7) `सर्वनामस्थाने च' (6.4.8) इत्यादिना दीर्घस्य सिद्धत्वात्‌। `कटस्य' इति षष्ठ्यन्तस्यानुप्रयोगस्तृचोऽभिव्यक्तये। तस्य प्रयोगे कर्मणि षष्ठी भवति `कर्त्तृ कर्मणोः कृति' (2.3.65) इत्यनेन। अथ यथा `तुरिष्ठेमेयस्सु' (6.4.154) इत्यत्र तुरिति तृंस्तृचोर्यत्‌ समानं रूपं तस्यैव ग्रहणं कृतम्‌, न तु तयोर्भेदेन, ततेहापि किमर्थं न कृताम्‌? `अर्वणस्त्रसावनञः' (6.4.127) इत्यर्वादेशस्य तृशब्दस्य ग्रहणं मा भूदित्येवमर्थमिति चेत्‌, नैतत्‌ प्रयोजनम्‌; अर्थवद्ग्रहणपरिभाषयैव (व्या.प.1) हि तस्य ग्रहणं न भविष्यति। एवं तृंस्तृचोर्भेदेनोपादानमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्‌। तेन `अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च प्रयोजयन्ति' (व्या.प.129) इत्युपपन्नं भवति। अथ वा--`सामान्यनिर्देशे क्वचिद्विशेष एव गृह्यते' इति ज्ञापनार्थम्‌। तेन `न कोपधायाः' (6.3.37) इत्यत्र सामान्योक्तावपि तद्धितवुसम्बन्ध्येव ककारो गृह्यते, न ककारमात्रम्‌।
अथ नप्त्रादीनां ग्रहणं किमर्थम्‌, यावता ते हि केचित्‌ तृजन्ता व्युत्पाद्यन्ते केचित्‌ तृन्नन्ताः। तत्र तृस्तृज्ग्रहणेनैव सिदधम्‌? इत्याह--`नप्त्रादीनाम्‌' इत्यादि। केचिदार्या नप्त्रादीन्यक्ष्युत्पन्नानि प्रातिपदिकानीच्छन्ति, केचिद्व्युत्पन्नानि। तत्रैषा व्युत्पत्तिः--नप्त्रिति नमेस्तृचि मकारस्य पकारो निपात्यते। नेष्ट्रति--नयतेस्तृचि षुक्‌ च। त्वष्ट्रिति--त्विषेस्तत्रैवाकार उप(धाया अनिट्त्वञ्च। क्षित्रिति--क्षदेस्तृच्‌। होतृपोत्रिति-जृहोतेः पुनातेश्च स एव। प्रशास्त्रिति--शासेः [तृन्‌तृचौ शंसिक्षदादिब्यः संज्ञायां चानिटौ--पं.उ.2.94] प्रपूर्वाच्छसिक्षदादिभ्यः संज्ञायां चानिट्त्वञ्चेति तृन्ननिट्त्वञ्च। तत्राव्युत्पत्तिपक्ष एषां तृन्तृजन्तत्वाभावात्‌ तृंस्तृज्ग्रहणेन ग्रहणं न भवतीति विध्यर्थ पृथगुपादानम्‌। व्युत्पत्तिपक्षे तु तृंस्तृजन्तादेव सिद्धे नियमार्थम्‌--एषामेव संज्ञाशब्दानां यथा स्यात्‌, अन्ये य एवम्भूताः संज्ञाशब्दास्तेषां मा भूदिति। तेन मातरौ मातरः इत्यादौ न भवति। अथ प्रशास्तृणामित्यत्र केन णत्वम्‌, `रषाभ्याम्‌' (8.4.1) इत्यादिनेति चेत्‌? न; यस्मात्‌ `रषाभ्याम्‌' इत्युच्यते, न चात्र रषौ स्तः। एवं तर्ह्येष निर्देशी ज्ञापयति--यतो विहितं णत्वं ततोऽन्यत्रापि भवतीति। तेन मातॄणाम्‌ पितॄणाम्‌, ग्रामणीः अग्रणोरित्यादौ णत्वं सिद्धं भवति। ततश्च रषाभ्यां णत्वे `ऋवर्णाच्चचेति वक्तव्यम्‌' (वा.946) न वक्तव्यं भवति।।

12. इन्हन्पूषार्यम्णां शौ। (6.4.12)
`अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति' (व्या.प.129) इतीन्ग्रहणेन तदन्तं गृह्यते। इतरेभ्योऽपि केवलेभ्यः शिनं भवतीति। तथा हि--हन्निति हन्तेः क्यिबन्तस्येदं ग्रहणम्‌, न च केवलस्य हन्तेः क्विब्दृश्यते। इतरौ तु पुंल्लिङ्गौ। नपुंसकादुत्तरयोः जस्शसोः शिर्विधीयते। तस्मात्‌ तैरपि सामर्थात्तदन्तविधिर्विज्ञायत इत्याह--`इन्‌, हन्‌, पूषन्‌, अर्यमन्‌ इत्येवमन्तानामङ्गानाम्‌' इति। `बहुदण्डीनि' इति। दण्ड एषामस्तीति मत्वर्थीय इनिः, बहवो दण्डिनः एषां सन्तीति बहुव्रीहिः, ततो जश्शसौ, तयोश्च पूर्ववच्छिभावः, अनेन दीर्घत्वम्‌। ननु चेन्नितिप्रत्ययग्रहणम्‌, तत्र `प्रत्ययग्रहणे यस्मात्‌ स विहितस्तदादेसतदन्तस्य च ग्रहणं भवति' (भो.प.सू.7) इति दण्डिनीत्यत्रैव दीर्घत्वेन भवितव्यम्‌, न तु बहुदण्डीनीत्यत्र? नेतदस्ति; यत्र हि प्रत्यस्यैव ग्रहणं तत्रैवेयं परिभाषा, नेदं प्रत्ययस्यैव ग्रहणम्‌, अपि तु प्रस्ययाप्रत्यययोः; अन्यथा वाच एषां सन्तीति `वाचो ग्मिनः' (5.2.124) वाग्‌मीनि, स्रज एषां सन्तीति `अस्मायामेधास्रजो विनिः' (5.2.121) `स्रग्विणीत्येवमादौ न स्यात्‌। तस्मान्नात्रासौ परिभाषोपतिष्ठते। `बहुबृत्रहाणि' इति। बृत्रं हतवन्तः `ब्रहमभ्रुणवृत्रेषु क्विप्‌' (3.2.87) बहवो वृत्रहणो येषु तानि बहुवृत्रहाणि। `प्रातपदिकान्तनुम्विभाक्तिषु च (8.4.11) इति णत्वम्‌। बहवः पूषणो येषु तानिबहुपूषाणि। बहवोऽर्यमणो येषु तानि बह्वर्यमाणि।
ननु `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इत्यनेन दीर्घत्वं सिद्धम्‌, तत्‌ किमर्थोऽयमारम्भः? इत्यत आह--`सिद्धे सत्यारम्भः' इत्यादि।
युक्तोऽसय नियमार्थः आरम्भः, किन्त्वारभ्यमाणेऽप्येतस्मिन्‌ नियमर्थे भ्रूणहनीत्यत्र `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घत्वं प्राप्नोत्येव, तथा ह्ययं शौ सर्वनामस्थाने नियम आरभ्यते। अत्र यथा विशिष्टायाः प्रकृतेर्नियम आरभ्यमाणः प्रकृत्यन्तरस्य न भवति--प्रतामौ, प्रताम इति, तथा सर्वनामसंज्ञाविशिष्टे शित्प्रत्यय आरभ्यमाणः सर्वनामस्थान एव स्यात्‌, अन्यत्र न स्यात्‌; तुल्यजातीयापेक्षत्वान्नियमस्य। ततश्चासरवनामस्थाने नियमाभावाद्दीर्घत्वं स्यादेवेत्यत आह--`दीर्घविधिः' इत्यादि श्लोकम्‌। य इह शास्त्र इन्नन्तादीनां दीर्घत्विवधानं तं विनियम्य तस्य नियमं कृत्वा। कव विनियम्य? सुटि। सर्वनामस्थानोपलक्षणमेतत्‌ सङ्ग्रहणम्‌। सर्वनामस्थान इत्यर्थः। ततः किं कुर्यात्‌? इत्यत आह--`शौ नियमम्‌' इत्यादि। सर्वनामस्थाने नियमं कृत्वा पुनः शौ नियमं कुर्यात्‌। एवकारोऽवधारणार्थः, स तु भिन्नक्रमः, विदध्यादित्यस्यानन्तरं द्रष्टव्यः सुविद्धान्‌=सुपण्डितः। कथं पुनरेकेन योगेन द्वौ नियमौ शक्येते कर्त्तुम्? एवं मन्यते--इमं योगं विभज्य द्वौ योगौ कर्त्तव्याविति। `इन्हन्पूषार्यम्णाम्‌' इत्येको योगः, ततः `शौ' इति द्वितीयः। सर्वनामग्रहणं चात्रानुवर्त्तते। तत्र पूर्वयोगः--दर्घविधिर्य इहेन्प्रभृतीनां तं विधिं विनियम्य सुटीत्यनेन दर्शितः। द्वितीयस्तु `शौ नियमं पुनरेव विदध्यात्‌' इत्यनेन। तत्र पूर्वेण योगेन दीर्घत्वं भवेत्‌। `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इत्यनेन `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इत्यनेन वा दीर्घत्वं विनियम्यते--इन्प्रभृतीनां सर्वनामस्थान एव दीर्घत्वम्‌, नान्यत्र। तेन सप्तम्यां दीर्घो न भवति--वृत्रहणि, भ्रूणहनीत्यत्र। द्वितीयेन तु शौ नियम्यते, तत्रापि सर्वनामस्थाने शावेव दीर्घो भवति, नान्यत्रेति। तेन बहुवृत्रहाणीत्यत्र भवति, वृत्रहण इत्यत्र न भवति। एवं योगद्वयेन नियमद्वये क्रियमाणे सति योऽर्थः सम्पद्यते तं दर्शयितुमाह--`भ्रूणहनि' इति। `तथास्य न दुष्येत्‌' इति। तथैवं योगद्वये कृतेऽस्य पाणिनेः भ्रूणहनीत्येतच्छब्दरूपं नैव दुष्येन्नासिद्धत्वदोषवद्भववतीत्यर्थः। इतिकरणो हेतौ। यस्मादेवं योगद्वयेन नियमद्वये क्रियमाणे भ्रूणहनीत्येतन्न दुष्येत; तस्माद्दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि शौ नियमं सुविद्धान्‌ पुनर्विदध्यात्‌। द्वितीयस्त्वितिकरणो भ्रूणहनीत्येतस्य स्वरूपपदार्थकतां द्योतयति।
एवं योगद्वयेन भ्रूणहनीत्यत्र दीर्घत्वं परिहृत्यैकस्मिन्‌ योगे परिहर्त्तुमाह--`शास्मि' इत्यादि। शास्मि=उपदशामि तमपरमुपायम्‌, येनैकस्मिन्‌ योगे सति भ्रूणहनौ, भ्रूणहन इति न दुष्यति। नापि भ्रूणहनीत्येतत्‌। कः पुनरसावुपायः? इत्याह--`निवर्त्त्य' इत्यादि। सुटीत्येकयोगेन सर्वनामस्थानं लक्ष्यते। `सर्वनामस्थाने' इति यदेतत्प्रकृतं तं निवर्त्त्य। `अविशेषे' इति। नास्य विशेषो विद्यत इत्यविशेषः; तस्मिन्नविशेषे=अनाश्रितविशेषे प्रत्ययमात्रे शौ इत्येवं तं नियमं कुरु। एवं वा नियमं कुर्वित्यर्थः। वाशब्दः पक्षान्तरत्वमस्य परीहारस्य द्योतयति। अपिशब्दो भ्रूणहनीत्यत्रापि पक्षान्तर आश्रीयमाणे न दुष्यति? शावेव दीर्घत्वस्य नियतत्वात्‌। इन्प्रभृतोनां यदि दीर्घत्वं भवति तदा शावेव प्रत्यये, नान्यत्रेति। निवर्त्त्य सुटीत्यनेन शास्त्रीयस्याधिकारस्य निवृत्तिर्दर्शिता। निवृत्ते तु तस्मिन्‌ यदि लौकिकोऽधिकारोऽपेक्षालक्षण आश्रीयते तदा पूर्ववत्‌ भ्रूणहनीत्यत्र स्यादेव दीर्घत्वम्‌। अतो लौकिकाधारनिरासायाह--`असमीक्ष्य' इति। सुटीत्यनेनास्य सम्बन्ध-। सर्वनामस्थानमपेक्ष्येत्यरेथः। एवं सर्वनामस्थानग्रहणनिवृत्तेऽनपेक्षिते च प्रत्ययमात्रापेक्षया शावित्ययं नियमः प्रत्ययमात्रं नियमयति, न तु तुल्यजातीयं सर्वनामस्थानमेव। तेन न केवलमन्यत्र सर्वनामस्थाने दीर्घो न भवति, अपि तु भ्रूणहनीत्यत्रापि।
यदि तर्हि प्रत्ययमाश्रित्य सर्वनामस्थानविषयमनपेक्ष्य शौ नियमः, एवं हि सति दीर्घत्वस्य शावेव नियतत्वाद्यथा भ्रूणहनीत्यत्र न भवतिष तथाचारे क्यङ्यपि `अकृत्सार्वधातुकयोर्दीर्घः' (7.4.25) इति दीर्घत्वं न स्यात्, ततश्च भ्रूणहेवाचरतीति `कर्त्तुः क्यङ्‌ सलोपश्च' (3.1.11) इति क्यङि विहिते भ्रूणहयत इत्यनिष्टं रूपमापद्येतेत्यत आह--`दीर्घविधेः' इत्यादि। `नोपधायाः' (6.4.7) इत्यत उपधाग्रहणमनुवर्त्तते, तेन न सर्वस्य दीर्घविधेरयं नियमः, अपि तूपधादीर्घविधेः। न च `अकृत्सार्वधातुकयोः' (7.4.25) इत्युपधादीर्घविधिः, किं तर्हि? अजन्तदीर्घविधिः। तस्मादयमत्र प्रवर्त्तत एव। हन्त! `यि दीर्घविधौ च न दोषः' इति। यकारादौ प्रत्यये क्पङि दोषो न भवतीत्यर्थः। हन्तेति निपातो वचनारम्भेऽभिमुखीकरणे वा वर्त्तते। अन्ये तु `हन्तयि दीर्घविधौ च न दोषः' इति पठन्ति। त एवं व्याचक्षते--हन्तर्यो हन्तियः, `पञ्चमी' (2.1.37) इति योगविभागात्समासः, तस्मिन्‌ हन्तियि। सप्तम्येकवचनमेतत्‌। हन्तेर्धातोर्यकारादिर्यः प्रत्य इति। तत्र दीर्घविधौ न दोषः। चकारः पूर्वत्र परीहारे वक्ष्यमाणे च। अत एवोपधानियमाद्धन्तेर्यकारादौ प्रत्यये न दोष इत्यस्यार्थस्य द्योतनाय।
सम्प्रति सर्वनामस्थानग्रहणेऽनुवर्त्तमाने, असति च योगविभागे भ्रूणहनीत्यत्र यथा दीर्घत्वं न भवति तथा तद्दर्शयितुमाह--`सुट्यपि वा' इत्यादि। वाशब्दोऽत्र पक्षान्तरं द्योतयति। अपिशब्दो भिन्नक्रमः `अप्रकृतप्रतिषेधे' इत्यस्यानन्तरं द्रष्टव्यः। अत्रापि सुटीत्येतत्‌ सर्वनामस्थानोपलक्षणार्थं वेदितव्यम्‌। नास्य विद्यतेऽवकाशः। व्यावृत्तिविषयो व्यवच्छेद्य इत्यनवकाशः। प्रकृतात्‌ सर्वनामस्थानदन्यदप्रकृतम्‌। सर्वनासस्थानव्यतिरिक्तं प्रत्ययान्तरमप्रकृतम्‌, तत्र दीर्घत्वस्य प्रतिषेधोऽप्रकृतप्रतिषेधः। अप्रकृते प्रतिषेधोऽप्रकृतप्रतिषेधः। `सप्तमी' (2.1.40) इति योगविभागात्समासः। `अप्रकृतप्रतिषेधे' इति। विषयसप्तमीयम्‌। अयं तादत्‌ पूर्वार्धस्यावयवार्थः। समुदायार्थस्तूच्यते--अथ वाऽनुवर्त्तमानेऽपि सर्वनामस्थानग्रहणे तत्र शावित्यस्य नियमस्य किञ्चिद्व्यावत्त्यमस्तीत्यनवकाशः सन्‌ सामर्थ्याद कृतप्रतिषेधेऽपि कर्त्तव्यता विषयभूते प्रवर्त्तते=व्याप्रियते। अपिशब्दादन्यत्रापि सर्वनामस्थाने। कथं पुनरवकाशः? इत्याह--`यस्य हि' इत्यादि। यस्येति शावित्यपेक्षया षष्ठी। हिशब्दो यस्मादर्थे। द्विविधं हि सर्वनामस्थानम्‌--सुट्‌, शिश्च। तयोः पूर्वं स्त्रीपुंसयोः सम्बन्धि, न नपुंसकस्य; `सुडनपुंसकस्य' (1.1.43) इति वचनात्‌। इतरत्‌ पुनर्नपुंसकस्य; तत एव तस्य विधानात्‌। तत्र यत्सम्बन्धिनि शौ सर्वनामस्थाने शावित्ययं नियमः क्रियते, सुटि नैतत्‌। सुटि सर्वनामस्थाने परतस्तन्नपुंसकं न भवतीत्यर्थः। अनेन सुटः सर्वनामस्थानस्यानपुंसकसम्बन्धित्वमाख्यातम्‌। तेन न तत्र भवेद्विनियम्यम्‌। यस्मादेव सुट्‌ सर्वनामस्थानं नपुंसकस्य सम्बन्धि न भवति, तेन कारणेन तत्रानपुंसकसम्बन्धिनि सर्वनामस्थाने शावित्यस्य नियमस्य विनियम्यं व्यावत्त्यं नास्तीति नपुंसकसम्बन्धिनि हि क्रियमाणो नियमो युक्तः। अनपुंसकसम्बन्धिन्येवास्मिन्‌ सर्वनामस्थाने तुल्यजातीये निवृत्तिं कुर्यात्‌। न च शिव्यतिरिक्तं नपुंसकसम्बन्धि सर्वनामस्थानमस्ति, ततो नास्ति तुल्यजातीये व्यावर्त्त्यम्‌। शौ नियमस्येति तस्यानवकाशत्वम्‌। तस्मादप्रकृतप्रतिषेधेऽपि व्याप्रियते।
`हन्तेरनुनासिकस्य' इत्यादिना कारिकात्रयस्यापि यथाप्रधानमर्थमाचष्टे। तत्र हन्तेरनुनासिकस्येत्यादिना `भ्रूणहनीति तथास्य न दुष्येत्‌' इत्यस्यार्थ आख्यातः। `योगविभागः' इत्यादिना `दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि' इत्यस्य। `ततः' इत्यादिना `शौ नियमं पुनरेव विदध्यात्‌' इत्यस्य। `सर्वनामस्थान' इत्यादिना द्वितीयश्लोकपूर्वार्धस्य। `यस्तु' इत्यादिनोत्तरार्धस्य।
`अथ वा' इत्यादिना `सुट्यपि वा प्रकृतेरनवकाशः' इत्यस्य। `सामर्थ्यात्‌' इति। सामर्थ्याम्‌=अनवकाशत्वम्‌। `अविशेषेण नियमः' इत्यनेन `शौ नियमोऽप्रकृतप्रतिषेधे' इत्यसय। अविशेषेणेति सामान्येन, न प्रकृत एव, अपि तु प्रत्ययमात्र इत्यर्थः। यस्त्वप्रकृतपरतिषेधारथतामेवास्य नियमस्य व्याचष्टे तस्यैव तद्वचनमविशेषेणेत्यनेन वृत्तिकारवचनेन विरुध्यते। एवं ह्यविशेषेण नियमो भवति यदि सर्वत्र प्रकृते चाप्रकृते च प्रत्ययमात्रे भवति। अथ तु प्रकृतं परितयज्याप्रकृत एव स्यात्‌ ततो विशेषेणैव स्यात्‌, नाविशेषेण। अविशेषेण वास्मिन्नियमे सत्यनेनैव सर्वत्र दीर्घत्वस्य निवर्त्तितत्वात्‌ `सौ च' (6.4.13) इत्ययं योगो विध्यर्थो वेदितव्यः। सामर्थ्यादविशेषेण नियम इत्युक्तम्‌। अतस्तत्सामर्थ्यं दर्शयन्‌ `शिशब्दे हि' इत्यादिना `यस्य हि शौ नियमः' इत्यस्यार्थमाचष्टे। यत्र शिशब्दे नियमः क्रियते स यस्मान्नपुंसकस्य सर्वनामस्थानं न स्त्रीपुंसयोः; नपुंसकादुत्तरयोर्जश्शसोः व्यादेशस्य विधानात्‌। `न च तस्यान्यत्‌ सर्वनामस्थानमस्ति' इति। अनेन सुटः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं दर्शयति। इतिकरणो हेतौ। यत एवं नियमो विधीयते नपुंसकसम्बन्धिनि शौ सर्वनामस्थाने तज्जातीयमन्यत्‌ सर्वनामस्थानं हि नास्ति। तस्मात्‌ तुल्यजातीयव्यवचछेद्यस्यासम्भवादविशेषेम नियमः।
`तत्र तु' इत्यादि। तुशब्दोऽवधारणार्थो भिन्नक्रमश्च नेत्यस्यानन्तरं द्रष्टव्यः। तत्रैतस्मिन्नियमे क्रियमाण इन्नादीनां नपुंसकस्येत्येतद्विशेषणं नैवाश्रीयते। अनाश्रीयमाणे च तस्मिन्नेषोऽर्थः सम्पद्यते--इन्नादीनां शावेव दीर्घो भवति, नान्यत्रेति। तेनानपुंसकस्यापि भ्रूणहनीत्यत्र नियमेन व्यावर्त्तितत्वाद्दीर्घो न भवति। यदि नपुंसकस्येत्येतद्विशेषमं तेषामाश्रीयते, ततोऽयमर्थः स्यात्‌--इन्प्रभृतीनां नपुंसकानां शावेव दीर्घो भवति, नान्यत्रेति। ततश्च नपुंसक एव नियमः स्यात्‌। तत्र को दोषः? भ्रूणहनि ब्राह्मणकुले इत्यत्रैव दीर्घनिवृत्तिः स्यात्‌, भ्रूणहनि ब्राह्मणे इत्यत्र न स्यात्‌। तस्मात्‌ तद्दोषपरिजिहीर्षया नपुंसकस्येत्येतद्विशेषणं नाश्रीयते। यद्येवम्‌, यदुक्तम्‌--`अनवकाशः शौ नियमः' इति, तन्नोपपद्यते, अनाश्रिते ह्येतस्मिन्‌ विशेषणे तेषामनाश्रितविशेषणानां नपुंसकानामनपुंसकाताञ्च सम्बन्धिनि शौ सर्वनामस्थाने नियमः स्यात्‌, तथाभूतानाञ्च तेषामन्यदपि सुट्सर्वनामस्थानमस्त्येव, ततश्च तुल्यजातीयवयवच्छेदविषये सति कुतो नियमस्यानवकाशत्वम्‌? नैतदस्ति; नियमविधानवेलायां तेषां नपुंसकत्वं विशेषणं यद्यपि नाश्रीयते, तथापि तेषां नपुंसकादेव शेर्विधानान्नपुंसकस्य निमित्तभावः, शेस्तु निमित्तिभाव इति निमित्तनिमित्तिभावलक्षणेन सम्बन्धेन शेः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं विद्यत एव। न चान्यन्नपुंसकसम्बन्धि सरवनामस्थानं विद्यत इत्युपपन्नमेतत्‌--अनवकाशः शौ नियम इति।
ननु चात्र नपुंसकस्येति न प्रकृतम्‌, नाप्युपात्तम्‌, ततश्च तदाश्रयणशङ्का नास्त्येवेति तन्निवृत्तये न युक्तमिदम्‌, तत्र तु `नपुंसकस्य' इत्येतन्नाश्रीयते? इत्यत आह--`सर्वनामस्थानसंज्ञाविधाने तु' इत्यादि। तुशब्दो हेतौ। यतो नपुंसकेनोत्पादितस्य विशब्दस्य `शि सर्वनामस्थानम्‌' (1.1.42) इति सर्वनामस्थानसंज्ञा विधीयते, तस्मात्‌ सर्वनामस्थानसंज्ञाविधानं प्रति नपुंसकमिति निमित्तभावमापद्यते। तदेवं निमित्तभावोपयमनं नपुंसकस्य सर्वनामस्थानसंज्ञाविधाने व्यापारः। तस्माद्यत्र शिशब्दः सर्वनामस्थानसंज्ञकस्तत्रावश्यं नपुंसकेनोपस्थातव्यम्‌। इह तु सर्वनामस्थानग्रहणानुवृत्तेः सर्वनामस्थानसंज्ञकस्य शिशब्दस्य ग्रहणम्‌। ततो नपुंसकं सामर्थ्यात्‌ सन्निहितम्‌। तेन सम्भाव्यते तदाश्रयणमित्यभिप्रायः।।

13. सौ च। (6.4.13)
पूर्वेण नियमेन सौ दीर्घत्वं न प्राप्नोतीति विध्यर्थोऽयमारम्भः। चकार इन्प्रभृतीनामनुकर्षणार्थः।।

14. अत्वसन्तस्य चाधातोः। (6.4.14)
`अत्र कृते दीर्घत्वे नुमागमः' इति। कथं पुनरेतल्लभ्यते, यावता कृताकृतप्रसङ्गित्वात्‌ परत्वाच्च नुमैव भवितव्यं पूर्वमित्याह--`यदि हि' इत्यादि। इह दीर्घग्रहणेन `अचश्च' (1.2.28) इत्युपस्थापिते सत्यज्लक्षणाया उपधाया दीर्गो विधीयते। यदि च परत्वान्नित्यत्वान्नुम्‌ प्राग्विधीयते, अच उपधात्वं विहन्येत। तस्माद्वचनसामर्थ्याद्दीर्घः प्राग्भवति, ततो नुमागमः। `सुपयाः, सुयक्षाः, `सुस्रोताः' [`सुश्रोताः--काशिका] इति। `असुन्‌' (द.उ.9.49) इति वर्त्तमाने `पिबतेरिच्च' (द.उ.9.50) [`पिबतेरि च'--द.उ.] इति, `अशेर्देवने युट्‌ च' (द.उ.9.51) [`अशेर्धने'--द.उ.] `स्रुरिभ्यां तुट्‌ च' (द.उ.9.62) [स्ररीभ्यां--द.उ.] इति--एते यथाक्रममसुन्परत्ययान्ता पयोयशःस्रोतःशब्दा व्युत्पद्यन्ते।
`पिण्डग्रः, चर्मवः' इति। `ग्रसु ग्लसु अदने' (धा.पा.630,631), `वस आच्छादने' (धा.पा.1023), `अन्येम्योऽपि दृश्यते' (3.2.178) इति क्विप्‌। ननु चार्थवद्ग्रहणपरिभाषया(व्या.प.1)ऽर्थवानेवासित्ययं गृह्यते, यथा मूलोदाहरणेषु, पयःप्रभृतीनामसुन्प्रतययान्तत्वात्‌ प्रत्ययार्थेनार्थवानसौ, न तथा प्रत्युदाहरणयोः, धात्ववयवस्तत्र दोर्घत्वस्यापरसङ्गादपार्थकोऽदातोरिति प्रतिषेधः? इत्यत आह--`अनर्थकोऽपि' इत्यादि। कथमेतल्लभ्यते? इत्याह--`अनिनस्मन्ग्रहणानि' इत्यादि। अथेह कथं दीर्घत्वम्‌--गोमन्तमिच्छति गोमत्यति, `सुपआत्मनः क्यच्‌' (3.1.8) गोमत्यतेरप्रत्ययो गोमानिति, कथञ्च न स्यात्‌? अधातोरिति प्रतिषेधात्‌ अस्य `सनाद्यन्ता धातवः' (3.1.32) इति धातुत्वात्‌? नैतदस्ति; `अधातोः' इति प्रतिषेध आनन्तर्य्यादनन्तरस्यैव, नान्तरस्य।
अथ वा चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेनेह धातोरपि भविष्यते। अथान्तग्रहणं किमर्थम्‌, यावता `अङ्गस्य' (6.4.1) इत्यनुवर्त्तते, तत्र गृह्यमाणेनातुशब्देनासशब्देन च प्रकृतेऽङ्गे विशिष्यमाणे विशेषणेन च तदन्तविधिर्भवतीत्यन्तरेाप्यन्तग्रहणं तदन्तस्यैव दीर्घत्वं भविष्यति? इत्यत आह--`अन्तग्रहणम्‌' इत्यादि। उपेशः=लक्षमदाक्यानि, गणपाठः, प्रातिपदिकपाठ। प्रयुज्यत इति प्रयोगः, कर्मणि घञ्‌। उपदेशे प्रयोग उपदेशप्रयोग इति। `सप्तमो' (2.1.40) इति योगविभागात्‌ समासः। तदयमस्य वाक्यस्यार्थः--उपदेशे प्रयुज्यते यच्छब्दरूपं तदेकदेशस्याप्यत्वन्तस्य परिग्रहो यथास्या दित्येवमर्थमन्तग्रहणमिति। कस्य पुनरसत्यन्तग्रहण उपदेशे प्रयोगैकदेशस्य ग्रहणं न स्यात्‌, यतस्तत्परिग्रहार्थमन्तग्रहणं क्रियते? इत्याह--`अन्यथा हि' इत्यादि। किं कारणं न स्यात्‌? इत्याह--`उपदेशे रूपनिर्ग्रहहेतौ' इत्यादि। निर्ग्रहणं निग्रहः=निश्चय इत्यर्थः। रूपस्य स्वरूपस्य शब्दस्य निर्ग्रहो निश्चयनो रूपनिर्ग्रहः, तस्य हेतू रूपनिर्ग्रहहेतुः। उपदेशग्रहणमुपलक्षममात्रम्‌। लौकिकोऽपि हि प्रयोगो गृह्यते। उपदेशाद्धि शब्दरूपं निश्चीयते, लौकिकाद्वा प्रयोगात्‌। मतुप्चायं लौकिके प्रयोगे नात्वन्तः श्रयते, नाप्युपदेशे, अतोऽत्वन्ततया नावधार्यते। ततश्चानवधार्यमाणत्वान्न गृह्यते। अन्तग्रहणे च सत्यन्तग्रहण सामर्थ्यादत्वन्तमात्रग्रहणे विज्ञायमाने यो ह्युपदेशे प्रयोगैकदेशभूतस्तस्यापि ग्रहणं भवतीत्युपपद्यते मतुपो ग्रहणम्‌।।

15. अनुनासिकस्य क्विझलो क्ङिति। (6.4.15)
`क्विप्प्रत्यये परतो झलादौ च क्ङिति' इति। अत्र `क्ङिति' इत्येतज्झलादावित्यनेनैव सम्बध्यते, न तु क्विप्प्रत्ययेन; यतः सम्भवव्यभिचारे हि विशेष्यविशेषणभावो भवति। कित्त्वङित्त्वयोस्तु सम्भव्यभिचारा वुभावपि झलादौ स्तः, न तु क्वौ। तथा हि कित्त्वस्य क्वावव्यभिचारः, ङित्त्वस्य तवसम्भवः। `प्रशान्‌ प्रतान्‌ प्रदान्‌' इति। `शमु उपशमे' (धा.पा.1201), `तमु कांक्षायाम्‌' (धा.पा.1202), `दमु उपशमे' (धा.पा.1203)--एतेभ्यः प्रपूर्वेभ्यः क्विपि `मो नो धातोः' (8.2.64) इति नत्वम्‌। `शंशान्तः' इति। शमेर्यङः, द्विवचनम्‌, `नृगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्‌, `यङोऽचि च' (2.4.74) इति यङो लुक्‌, लट्‌, तस्‌, तस्य `सार्वधातुकमपित्‌' (1.2.4) इति ङित्त्वम्‌, `चर्करीतञ्च' (धा.पा.1081) इत्यदादौ पाठाददादित्वाच्छपो लुक्‌।।

16. अज्झनगमां सनि। (6.4.16)
`उपधायाः' (6.4.7) इति निवृत्तम्‌, अत एव वृत्तौ `उपधायाः' इति नोक्तम्‌। कः पुनस्तदनुवृत्तौ दोषः स्यात्‌? व्यञ्जनस्यापि दीर्घत्वं प्रसज्येत। चिकीर्षति, तुष्टूषतीत्यत्र हि यथा `अचः' (1.2.28) इति वचनादचो भवति, तथा `उपधायाः' इति वचनादनचोऽपि स्यात्‌। यद्येवम्‌, हनिगम्योरच्युपधाया दीर्घत्वं न स्यात्‌, कस्य तर्हि स्यात्‌? `अलोऽन्त्यस्य' (1.1.52) इत्यन्त्यस्य? नैतदस्ति; अत्र हि दीर्घग्रहणेन यत्‌ `अचः' (1.2.28) इत्युपस्थापितं तद्धनिगमिभ्यां विशेषयिष्यामः--अचो दीर्घो भवति स चेद्धनिगम्योरिति। यद्येवम्‌, अभ्यासस्यापि स्यात्‌? नैतत्‌; कृतदीर्घस्यैव द्विर्वचनविधानात्‌। कुत एतत्‌? द्विर्वचनात्‌ दीर्घस्य परत्वात्‌। `तुष्टूषति' इति। `शर्पूर्वाः खयः शेषः' [`शेषः' इति सूत्रे नास्ति--7.4.61] (7.4.61)। `चिकीर्षति' इति। `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्‌, रपरत्वम्‌, `हलि च' (8.2.77) इति दीर्घः, अभ्यासस्य `कुहोश्चुः' (7.4.62) इति चुत्वम्‌। `जिघांसति' इति। `अभ्यासाच्च' (7.3.55) इति हन्तेः कुत्वम्‌--घकारः, अभ्यासस्य पूर्ववच्चुत्वम्‌--झकारः, तस्य `अभ्यासे चर्च' (8.4.54) इति जकारः। `अधिजिघांसते' इति। `इङश्च' (2.4.48) इतीङो गमिरादेशः, `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्‌। `सञ्जिगांसते' इति। अत्रापि `पूर्ववत्सनः' (1.3.62) इति तङ। गमेर्ह्यसनन्तात्‌ `समो गम्युच्छि' (1.3.29) इत्यादिनात्मनेपदं विहितम्‌। इङोऽपि `अनुदात्तङितः' (1.3.12) इत्यादिना। यदि गमेरिङादेशस्येति वचनं, तत्कथं छन्दस्यनिङादेशस्यापि स्वर्गं लोकं समजिगांसदित्यत्र दीर्घत्वं दृश्यते? इत्याह--छन्दसि यदनिङादेशस्यापि' इत्यादि। `समजिगांसत्‌' इति। गमेः सनन्ताल्लुङ, `गमेरिट्‌ पस्मैपदेषु (7.2.58) इतीडागमो न भवति; `न वृद्भ्यश्चतुर्भ्यः' (7.2.59) इत्यत्र नेति योगविभागात्‌।
`इह' इत्यादिना यदुक्तं `गमेरिङादेशस्य' (वा.775) इति, तत्प्रत्याचष्टे। `सनि' इति प्रथमो योगः, हनिगम्योस्तु दीर्घविधानाय `हनिगम्योः' इति द्वितीयो योगः कत्तव्य इत्यभिप्रायः। कथं पुनरेतावति योगे क्रियमाणेऽजन्तस्यैव दीर्घत्वं सिध्यति? इत्यत आह--`तत्र' इत्यादि। `गृह्यमाणस्य' इति। कृद्योगे कर्मणि षष्ठी। `विशेषणे'इति। भावे ल्युट्‌। विशेषणमनजनतव्यवच्छेदाय। यत्र ह्रस्वदीर्घप्लुताः शिष्यनेते तत्र `अचश्च' (1.2.28) इत्येतदुपतिष्टते, तत्राङ्गस्य दीर्घो भवति, किंविशिष्टस्याचः? एवमचा गृह्यमाणस्याङ्गस्य विशेषणे व्यवच्छेदे सति विनाऽप्यज्ग्रहणेनान्तस्यैव दीर्घत्वं सिद्धम्‌, यथा--`अकृत्सार्वधातुकयोः' (7.4.25) इत्यत्र। तस्मादपार्थकत्वान्न कर्त्तव्यमेव। किमर्थं तद्धि क्रियते? इत्याह--`तत्क्रियते' इति। प्रवर्त्तनं प्रवृत्तिः=व्यापारः, तस्य भेदो नानात्वम्‌। प्रवृत्तिभेदश्चैकस्यां सत्यामावृत्तो न सम्भवतीत्यावृत्तिरभ्युपगन्तव्या। ननु च `अचश्च' (1.2.28) इत्यस्योपश्ताने सति द्वे अज्ग्रहणे भवत इति किमित्यावृत्तिराश्रीयते? नैतदस्ति; असति ह्यजग्रहणे `अचश्च' (1.2.28) इत्यस्योपस्थानं भवति। अत्राजग्रहणे तु सति निर्दिष्टस्थानिकत्वात्‌ `अचश्च' (1.2.28) इत्येतन्नोपतिष्टते, यथा `अचो ञ्णिति' (7.2.115) इत्यत्रेक्परिभाषा `अजन्तस्याङ्गस्य' इत्यादिना प्रवृत्तिभेदेनाङ्गमचा गमिञ्च विशेषयति। `ततो न वक्तव्यमिदम्‌' इति। अज्गरहणेनैवैतत्प्रतिपाद्यसयार्थस्यासिद्धत्वात्‌। न हीङादेशमुक्त्वाऽन्यो गमिरचः स्थाने सम्भवति।।

17. तनोतेर्विभाषा। (6.4.17)
`तनोतेरुपसंख्यानात्‌' इति। `तनिपतिदरिद्राणाम्‌' (कात्या.वा.5059-7.2.49) इत्यस्मात्‌। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। प्रकृतिगरहणपरिभाषाया (व्या.प.77) तदन्तादपि विकल्पः सम्भवेत्‌--तन्तंसति।।

18. क्रमश्च क्त्वि। (6.4.18)
`अनुनासिकस्य क्विझलोः' (6.4.15) इत्यादिना नित्ये प्राप्ते विकल्पार्थ वचनम्‌। `उपधायाः' इति। कुत एतत्‌? `अचश्च' (1.2.28) इत्यस्योपस्थानादुपधाया एव क्रमोऽच्त्वात्‌।
`क्रमित्वा' इति। `उदितो वा' (7.2.56) इति पक्ष इडागमः। `प्रक्रम्य' इति। `समासेऽनञ्पूर्वेक्त्वो ल्यप्‌' (7.1.37)। ननु दीर्घत्वं कत्वाप्रत्ययमपेक्षत इत्यन्तरङ्गम्‌। ल्यबादेशस्त्वनेकपदाश्रयत्वात्‌ समासमपेक्षमाणो बहिरङ्गो भवति। तत्रान्तरङ्गत्वाल्लयबदेशात्‌ प्रागेव झलादौ दीर्घत्वं कस्मान्न भवति? इत्याह--`बहिरङ्गोऽपि' इत्यादि। `अदो जग्धिर्ल्यप्ति किति' (2.4.36) इत्यत्र ज्ञापितमेतत्‌--`बहिरङ्गो ल्यबादेशोऽन्तरङ्गान्‌ विधीन्‌ बाधते' इति।।

19. च्छ्वोः शूडनुनासिके च। (6.4.19)
यदि केवलस्य च्छकारमात्रस्य ग्रहणं क्रियते, तदा `प्रच्छ ज्ञीप्सायाम्‌' (धा.पा.1413) इत्यस्य क्तप्रत्यये कृतेऽन्तरङ्गत्वात्‌ `च्छे च' (6.1.73) इति तुकि कृते छकारमात्रस्य शकारादेशे कृते पृट्ष्ट इत्यनिष्टं रूपं स्यात्‌। सतुक्कसय ग्रहणे तु सति स्थान्यन्तर्भावात्‌ तुगप्यादेशेन निवर्त्त्यत इति न भवत्येव दोषप्रसङ्ग इत्येतदालोच्य सतुक्कस्य ग्रहणमिति दर्शयितुमा--``छ' इत्येतस्य सतुक्कस्य' इति। सतुक्कस्य ग्रहणं `यजयाचयतविच्छप्रच्छिरक्षो नङः' (3.3.90) इति ङित्करणादवगम्यते। तस्य हि ङित्करणस्यैतत्प्रयोजनम्‌--विश्न इत्यत्र `पुगन्तलघूपधस्य' (7.3.86) इति गणो मा भूदिति; यदि चात्र तुग्रहितः केवल एव च्छकारः स्थानित्वेन परिगृह्यते तदा तुकि कृते छकारमात्रस्य सकारे कृते गुरूपधत्वादेव गुणोन भविष्यतीति ङित्करणमनर्थकं स्यात्। सतुक्कस्य तु ग्रहणे कृते तुकि सतुककस्यैव शकारादेशः क्रियते, ततश्च लध्व्यामुपधायां समुपजातायां गुणः प्राप्नोतीति तत्प्रतिषेधार्यं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्‌; सतुपजातायां गुणः प्राप्नोतीति तत्प्रतिषधार्‌थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्‌; सतुपजातायां गुणः प्रप्नोतीति तत्प्रतिषेधार्थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्‌; सतुक्कस्याप्यादेशे कृते निष्ठितमङ्गं भवति, प्रयोगार्हत्वात्‌। तत्र `अङ्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य' (व्या.प.38) इत्यनया परिभाषया गुणो न भविष्यतीति। तस्मात्‌ सतुक्कस्याप्यादेशे क्रियमाणे सति ङित्करणमनर्थकमेव, कथं तेन सतुक्कस्य ग्रहणमवसीयते? एवं तर्हि `ननौ पृष्टपरतिवचने (3.2.120) इति निर्देशात्‌ सतुक्कस्य ग्रहणमवसीयते। तुग्रहितस्य ग्रहणे पृट्ष्टेत्येवं यथोक्त प्राक्‌। नङस्तु ङित्करणं `अनित्यमागमशासनम्‌' (व्या.प.99) इति ज्ञापनार्थम्‌। अनित्यत्वे हि तस्य यदा तुगभावस्तदाऽसति ङित्करणे गुणः प्रसज्येत। ननु चासति प्रयोजने ज्ञापकं भवति, अस्ति च तस्य ङित्करणस्य प्रयोडजनम्‌, किं तत्‌? ग्रह्यादिसूत्रेण (6.1.16) प्रच्छेः सम्प्रसारणं यथा स्यादिति? नैतदस्ति; न हि प्रच्छेर्नङि सम्प्रसारणमिष्यते। कथमेतज्ज्ञायते? `प्रश्ने चासन्नकाले' (3.2.117) इति निर्देशात्‌। तदेतत्‌ ङित्करणम्‌ `अनित्यमागमशासनम्' (व्या.प.99) इत्यस्य ज्ञापकमेव। अथ तु सतुक्कस्यापि ग्रहणे कथं सतुक्कस्यादेशो भवति, यावता `अलोऽन्त्यस्य' (1.1.52) इति वचनादन्त्यस्यैव स्यात्‌? नैतदस्ति; सतुक्कस्य ग्रहणसामर्थ्यान्न भविष्यति। एवमपि तदन्तस्याङ्गस्य स्यात्‌। `निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इति तदन्तस्य न भविष्यति। `प्रश्नः' विश्न' इति। `प्रच्छ ज्ञीप्सायाम्‌' (धा.पा.1413) `विच्छ गतौ' (धा.पा.1423) `यजयाच' (3.3.90) इति नङ्‌।
`अन्तरङ्गत्वात्‌' इत्यादि। `छे च' (6.1.73) इति ह्रस्वस्य वर्णस्य तुग्विधीयत इति वर्णाश्रयत्वात्‌ तुगन्तरङ्गः, शकारस्त्वङ्गाश्रयः। तत्राङ्गस्यैव तावद्‌ प्रत्ययाश्रयत्वाद्वहिरङ्गत्वम्‌। किं पुनस्तदाश्रयस्य शकारस्य। ननु च `वार्णादाङ्गं बलीयः' (व्या.प.39) इति शकारस्यैव बलीयस्त्वम्‌? नैतदस्ति; यत्र ह्याङ्गवार्णयोर्युगपदेकनिमित्तमाश्रित्य प्राप्तिस्तत्रास्या उपस्थानं भवति। यथा `इयाय' इत्यत्र यमेवाकारमाश्रित्य `इको यणचि' (6.1.77) इत्यभ्यासेकारकस्य यणादेशः प्राप्नोति, तमेवाकारमाश्रित्य `अभ्यासस्यासवर्णे' (6.4.78) इतीयङपि। तत्र युगपदेकत्रोभयप्राप्तौ `वार्णादाङ्गं बलीयः' (व्या.प.39) इत्यस्या उपस्थाने सत्यङ्गकार्यमिङेव भवति। इह तु प्रागेव नङुत्पत्तेश्छकारमाश्रित्य तुक्प्राप्नोति, उत्तरकालं नङि विहिते तदाश्रः शकार इति भिन्नाश्रयत्वम्‌, अतो नेयमुपतिष्टते।
`सिदेः' इति। `षिवु तन्तुसन्ताने' (धा.प.1108) इत्यस्य। `औणादिके नप्रत्यये' इति। `धापृवस्यजतिभ्यो नः' (द.उ.5.39) इति वादिभ्यो विधीयमानो नप्रत्ययो बहुलवनात्‌ सिवेरपि भवति। केनचित्‌`सिवेष्ठेर्यू च' (द.उ.4.5) [`सिवेष्टेरूच'--इत्युत्त्वम्‌] इत्यनेन सूनशब्दस्य व्युत्पत्तये नकारो विधीयते, दीर्घोच्चारणसामर्थ्यात्‌ तत्र गुणो न भवति। ये तु स्योनशब्दव्युत्पत्तय एवेदं सूत्रं वर्णयन्ति, तेषां दीर्घोच्चारणमनर्थकं स्यात्‌। त न हि ह्रस्वस्य दीर्घस्य वा गुणे कृते कश्चिद्विशेषोऽस्ति। `लघूपधगुणात्‌ पूर्वमूठ्‌ क्रियते' इति। `अन्तरङ्गत्वात्‌' इति। वक्ष्यमाणो हेतुरिहापि द्रष्टव्यः। गुणो ह्यार्द्धधातुकमङ्गसम्बन्धिनीञ्चोपधां लध्वीमिग्लक्षणां विशिष्टामेवाश्रयति। ऊडादेशस्त्वनुनासिकादिं प्रत्ययमङ्गसम्बन्धिताविशिष्टं वकारमात्रम्‌्। तस्माद्गुणो बहिरङ्गः। ऊडादेशस्त्वन्तरङ्गः। अतोऽन्तरङ्गत्वाल्लधूपधगुणात्‌ पूर्वमेवोठ्‌ क्रियते। ततर कृतेऽन्तरङ्गत्वाद्यणादेश इति लघूपधगूणात्‌ पूर्व क्रियत इति प्रकृतेन सम्बन्धः। अन्तरङ्गत्वं तु वर्णाश्रयत्वाद्यणादेशस्य। ननु च `वर्णादाङ्गं बलीयः' (व्या.प.39) इत्याङ्गस्य गुणस्यैव बलीयस्त्वम्‌, ततः स एव यणादेशात्‌ पूर्वं कस्मान्न क्रियते? इत्याह--`नानाश्रयत्वात्‌' इत्यादि। यत्र ह्युभावप्याङ्गवार्णौ विधी एकं निमित्तमाश्रित्य प्राप्नुतस्तत्रेयमुपतिष्ठत इत्युक्तम्‌। इह तु यणादेश ऊडाश्रयः, गुणस्त्वार्द्धधातुकाश्रय इति भिन्नाश्रयत्वम्‌। अतो नैयं परिभाषोपतिष्टते।
`शब्दप्राट्‌' इति। शब्दं पृच्छतीति `क्विब्वचि' (वा.288) इत्यादिना क्विप्‌, दीर्घश्च, वश्चादिसूत्रेण (8.2.36) शकारस्य षकारः, तस्यापि जश्तवं डकारः, तस्यापि चर्त्वं टकारः। `गोविट्‌' इति। `विच्छ गतौ' (दा.पा.1423) गां विच्छतीति क्विप्‌। `क्विप्च' (3.2.76) इत्यनेन। तथा `अक्षुद्यः, हिरण्यष्ठ्यूः' इत्यत्रापि दिविष्ठिविभ्याम्‌। ननु यणादेशोऽन्तरङ्गो वर्णाश्रयत्वात्‌। ऊडादेशस्तु प्रत्ययाश्रयत्वाद्बहिरङ्गः, तत्र `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति यणादेशनात्र न भवितव्यम्‌? इत्यतद आह--`असिद्धं बहिरङ्गमन्तरङ्गे' इत्यादि। यत्र द्वयोरचोरानन्तर्य्यं तत्रैषा प्रतिषिध्यते `नाजानन्तर्ये बहिष्ट्वपरक्लृप्तिः' (व्या.प.44) इति। अस्या अयमर्थः--अचोरानन्तर्ये सति बहिरङ्गपरिभाषा न प्रकल्पते, न भवतीत्यर्थः। अत्रार्थे ज्ञापकम्--`षत्वतुकोरसिद्धः' (6.1.86) इति तुकि कर्त्तव्येऽसिद्धवचनम्‌। तस्य ह्येतदेव प्रयोजनम्‌--अधीत्येत्यत्र सवर्णदीर्घस्यासिद्धत्वाद्ध्रस्वलक्षणस्तुग्यथा स्यादिति। यदि चाचोरानन्तर्ये बहिरङ्गपरिभाषा स्यात्‌ तदैकपदाश्रयत्वादन्तरङ्गे तुकि कर्त्तव्ये पदद्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कर्त्तव्ये पद्द्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तत्क्रियतेजानन्तर्ये बहिरङ्गपरिभाषा नास्तीति ज्ञापनार्थम्‌। `हिरण्यष्ठ्यूः' इत्यत्र `धात्वादेः षः सः' (6.1.64) इति सत्वं न भवति; `सुब्धातुष्टिवुष्वष्कतीनं प्रतिषेधो वक्तव्यः' (वा.671) इति वचनात्‌।
`पृष्टः' इति। ग्रह्यादिसूतद्रेण (6.1.16) सम्प्रसारणम्‌, पूर्ववत् षत्वं ष्टुत्वञ्च। `द्युभ्याम्‌' इति। `दिव उत्‌' (6.1.131) इत्युत्तवम्‌।
`येऽत्र क्ङितीति नानुवर्त्तयन्ति तेषामन्यत्राप्यनेन विधिना भवितव्यम्‌, ततः द्युभ्याम्‌, द्युभिरिति न सिध्यतीति मन्यमान आह--`कथं द्युभ्याम्‌, द्युभिरिति ऊठि कृते' इति। ऊठि कृते न किञ्चित्‌ सिध्यतीत्यर्थः। `दिव उदिति तपरत्वान्मात्राकालो भविष्यति' इति। `दिव उत्‌' (6.1.131) इत्यत्र तपरकरणं न कर्त्तव्यम्‌। यद्यपि हि `भाव्यमान उकारः सवर्णान्‌ गृह्णाति' (चान्द्र प.44), तथाप्यान्तरतम्यादर्धमात्राकालस्य व्यञ्जनस्य मात्राकाल एवोकारो भविष्यति। न दीर्घ इति किं तन्निवृत्त्यर्थेन तपरकरणेन? तक्रियते लक्षणान्तरेणापि यो दीर्घः प्राप्नोति स मा भूदित्येवमर्थम्‌। तेनात्र `दिव उत्त' (6.1.131) इत्यनेनैव तपरत्वान्मात्राकालो भविष्यति, अन्यथा यदि `च्छ्वोः शूडनुनासिके च' (6.4.19) इत्यनेन दीर्घः स्यात्‌ ततो निष्फलं `दिव उत्‌' (6.1.131) इत्यत्र तपरकरणं स्यात्‌; व्यावर्त्त्याभावात्‌।
अथ वा `ऊठि कृते' इत्युत्तरेण परिहारग्रन्थेन सम्बध्यते। तत्रायमर्थः--क्रियतां नाम सामान्येन क्ङिति चाक्हिति चोठ्‌। कृतेऽपि तत्र `एकादेशविकृतमनन्यवद्भवति' (व्या.प.16) इति तस्यैव स्थाने `दिव उत्‌' (6.1.131) इत्यनेन तपरत्वाद्ध्रस्वो भविष्यति। एतदेव हि तस्य प्रयोजनम्‌--ऊठ्स्थाने भवन्‌ मात्रिको यथा स्यात्‌, आन्तरतम्याद्दीर्घो मा भूदिति। अस्मिंश्च व्याख्याने यदुकग्तम्‌--`दिव उदिति तपकरणमूठो निवृत्त्यर्वम्‌, द्युभ्याम्‌, द्युभिरित्यत्र परत्वादूठ्‌ प्राप्नोति' इति तद्विरुध्यते। न हि तेनोत्त्वस्योठः स्थान्यादेशभाव उपपद्यते, किं तर्हि? बाध्यबाधकभावः। तथा हि तस्यायम्रथो वर्ण्यते--ऊठो निवृत्त्यर्थ बाधनार्थ तपरकरणम्‌। असति हि तस्मिन्‌ परत्वाटूठ्‌ प्राप्नोति, तस्मात्‌ तद्बाधनार्थं तपरकरणम्‌। परमप्यूठं बाधित्वाऽनेनैवमात्रिक उकारो यथा स्यादिति नास्ति विरोधः। ये हि स्थान्यादेशभावमिच्छन्ति त एवं ग्रन्थं व्याचक्षते। ऊठो निवृत्त्यर्थ स्थानिभूतस्योठो निवृत्त्यर्थमित्यर्थः। ऊडादेशे कृत ऊठ्‌स्थितिमतो निवृत्तिर्यथा स्यादित्येवमर्थं तपरकरणमित्यर्थः। परत्वादूठ्‌ प्राप्नोतीत्यत्र विहितश्च। श्रुतिमानित्यध्याहार्य्यम्‌। तदेतदुक्तं भवति--अत्र हि परत्वादूड्‌विहितः सन्‌ श्रतिमानेव प्राप्नोति, निवृत्तिमांश्चेष्यते। तस्मात्‌ तस्य निवृत्तये तपरत्वमिति। अतपरेऽप्यादेशे विधीयमाने सत्यूठो निवृत्तिर्भवत्येव; निवृत्तिधर्मत्वात्‌ स्थानिनः। उच्यते चेदं तपरकरणसूठो निवृत्त्यर्थमिति। तत्र वचनसामर्थ्याद्यस्यां निवृत्तौ सत्यां विशेषो भवति तदर्थं तपरकरणमिति विज्ञायते। ततश्च सामर्थ्यादिदमुक्तम्‌--भवत्यूठो ह्रस्वादेशार्थं तपरकरणमिति। यतस्तपर आदेशे सत्यूठो या निवृत्तिः क्रियते तस्यां सत्यां विशेषो भवति। नातपरे। अतपरे ह्यादेशे सत्यान्तरतम्याद्दीर्घस्य दीर्घ एव स्यादिति कुतो विशेषः।
किं पुनः किद्ग्रहणे निवृत्ते सतीष्टं सिध्यति, यदर्तं केचिदत्र क्ङितीति नानुवर्त्तयन्तीत्याह--`छशां षः इत्यत्र' इत्यादि। क्ङिद्ग्रहणे निवृत्ते सत्यविशेषेण क्ङिति चाक्ङिति चानेने च्छकारस्य शकारो विधीयते, तेन व्रश्चादिसूत्रे (8.2.66) छग्रहणं न कर्त्तव्यं भवेत्‌। शकारस्य षत्वविधानेनैव सर्वस्य षत्वस्याभावाच्छकारस्य षत्वविधानार्थं व्रश्चादिसूत्रे (8.2.36) छग्रहणं कर्त्तव्यमेव। अथ तेषां कथं प्रष्ठेति सिध्यति, यावता तुकि कृते छकारमात्रस्य षत्वे प्रट्ष्टेत्यनिष्टं रूपं प्राप्नोति? नैष दोषः, ते हि व्रश्चादिसूत्रे (8.2.36) सतुक्कस्य च्छकारस्य ग्रहणमिच्छन्ति।
ऊडयं यदि टित्‌ स्यात्‌ `आद्यन्तौ टकितौ' (1.1.46) इत्यादौ स्यात्‌। तत्र यद्यपि वकारस्य वलि लोपे कृते सत्यक्षद्यूरित्यादि सिध्यति, जूरित्यादि तु न सिध्ये। टित्त्वे हि सति ज्वरत्वरादि (6.4.20) सूत्रेणैको वकारात्‌ पूर्वमूडपरोऽकारादिति द्वावूठौ स्याताम्‌। तस्मादूठष्ठित्त्वमङ्गीकर्त्तव्यम्‌ न टित्त्वम्‌। तस्यापि ठित्त्वस्य यदि प्रयोजनं न स्याद्वैयर्थ्य स्यादित्येतच्चेतसि कृत्वोडादेशस्य यट्ठित्त्वं तस्य प्रयोजनं दर्शयितुमाह--`ऊठष्ठित्करणम्‌' इत्यादि। एवं ब्रूवता `एत्येधत्यूठ्सु' (6.1.89) इत्यत्रापि ठित एव ग्रहणं भवति। एवं ह्यूठष्ठित्करणस्य विशेषणार्थतोपपद्यते, यदि तत्रापि ठित एव ग्रहणं भवति, नान्यथा। यद्यत्र ठकारोऽनुबन्धो न क्रियते तदा `एत्येधत्यूठ्सु' (6.1.89) इत्यत्रापि न कर्त्तव्यम्‌; ठकारानुबन्धवत ऊकारस्य क्वचिदसम्भवात्‌। एवञ्चोच्यमाने प्रऊहते, प्रोहत इत्यत्रापि वृद्धिः स्यात्‌। तस्माद्विशेषणार्थं ठित्करणं क्रियते। ठकारस्य तु श्रवणं न भवति; कृतचर्त्वस्य निर्देशात्‌। यदि तर्हि ठिदयम्‌, `एत्येधत्यूठ्सु' (6.1.89) इत्यत्रापि ठित एव ग्रहणम्‌, एवं सति `वाह ऊठ्‌' (6.4.132) इत्यस्य तत्र ग्रहणं न स्यात्‌, ततश्च प्रष्ठौह इत्यत्र वृद्धिर्न स्यादित्यत आह--`वाह ऊठित्ययमपि' इत्यादि। ठकारस्यापि पूर्ववदेवाश्रवणम्‌।।

20. ज्वरत्वरस्रिव्यविमवामुपधायाश्च। (6.4.20)
स्रिव्यविमवां वकारसय पूर्णेणैव सिद्धम्‌। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्‌। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्‌। तस्मात्‌ तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्‌। `जूः, जुरौ, जुरः' इति। `ज्वर रोगे' (धा.पा.776) वकारस्योपधायाश्चोठि कृते `सम्प्रसारणाच्च' (6.1.108) इति पूर्वरूपत्वम्‌। `जर्त्तिः' इति। क्तिन्‌। `तूः' इति। `ञि त्वरा सम्भ्रमे' (धा.पा.775) `तूर्णः'[`तूर्त्तिः--काशिका-`तूर्णः' इति नास्ति] इति। `रदाब्यां निष्ठातो नः' (8.2.42) इति नत्वम्‌। `स्रूः इति। `स्रिवुगतिशोषणयोः' (धा.पा.1109)। सवरणदीर्घः। `स्रुवौ, स्रुवः' इति। `अचि श्नुधातु' (6.4.77) इत्यादिनोवङ। `ऊः' इति। `अव रक्षणे' [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु--धा.पा] (धा.पा.600)। `मूः' इति। `मव बन्धने' (धा.पा.599)।
इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्‌विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्‌; तत्र यथा--श्रेयान्, श्रेयांसावित्यत्र सकारात्‌ पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्‌ पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्‌ पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्‌, ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्‌ भ्रान्तिः स्यात्‌। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह--`ज्वरत्वरयोरुपधा वकारात्परा' इत्यादि। यस्या उपधाया ऊठा भवितव्यम्‌, सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविसेषणात्‌। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते--ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र `येन नाव्यवधानं तेन व्यवहितेऽपि' (व्या.प.46) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति,

21. राल्लोपः। (6.4.21)
`मूर्छा' इति। `मुर्छा मोहसमुच्छ्राययोः' (धा.पा.212)। `हूर्छा' इति। `हुर्छा कौटिल्ये' (धा.पा.211) कथं पुनरत्र च्छकारलोपो भवति, यावता नात्र सूत्रे छकार उपात्तः; योऽपि प्रकृतः सोऽपि सतुक्कः, नात्र तुगस्ति, न हि रेफस्य च्छे क्वचित्‌ तुग्विहितः? इत्याह--`राल्लोपे सतुक्कस्य' इत्यादि। उत्तरत्रानुवृत्तिर्यथा स्यादिति पूर्वसूत्रे च्छकारस्य स्वरितत्वं प्रतिज्ञातम्‌, न च रः परः सतुक्कः सम्भवति। तत्र समार्थ्यात्‌ तुग्रहित एवानुवर्त्तते। अथ वा--पूर्वसूत्रे द्विच्छकानिर्देशः; तत्रैकः सतुक्कः, परस्तुग्रहितः। सम्भवति चागमशासनस्यानित्यत्वाद्धा तुग्रहितश्छकारः। एवञ्च कृत्वा यदुक्तम्‌--नङो ङित्त्वं गुणप्रतिषेधार्थमिति, तदुपपन्नं भवति। तदेवं यद्यपि पूर्वसूत्रे छकारौ प्रकृतौ, तथापि रेपात्‌ परः सतुक्को न सम्भवति। केवलो यस्तुग्रहितः स एवानुवर्त्तते। `तूः, धूः' इति। `तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः' (धा.पा.570-573)।।

22. असिद्धवदत्रा भात्‌। (6.4.22)
`असिद्धवद्भवतीत्येवं वेदितव्यम्‌' इति। सिद्धशब्दोऽयं परिनिष्पन्नवचनः। यथा--`सिद्ध ओदनः' इति। न सिद्धमसिद्धम्‌, सिद्धकार्याकरणसाधर्म्येणासिद्धेन तुल्यं वर्त्तत इत्यसिद्धवत्‌। किं पुनस्तत्‌? प्राधान्यात्‌ कार्यमित्येके; शास्त्रं हि कार्यार्थम्‌, अतः शास्त्रापेक्षया कार्यस्य प्राधान्यम्‌; व्याप्तेर्न्यायात्‌। शास्त्रस्यावधित्वेनोपादानाच्च शास्त्रस्यासिद्धवदभावो युक्तः, अन्यथा हि कार्यमेव किञ्चिदवधित्वेनोपादीयेत। अथाभाट्ग्रहणं किमर्थम्‌, यावता स्वरितलिङ्गासङ्गादन्तरेणाप्याभाद्ग्रहणमा पादपरिसमाप्तेरसिद्धवदित्यनुवर्त्तिष्यते? इत्याह--`आ भादिति विषयनिर्देशः' इति। असति ह्या भाद्ग्रहणे न ज्ञायते--कस्मिन्‌ कर्त्तव्य इदं प्रकरणमसिद्धवद्भवति; तस्मादा भादिति विषयनिर्देशः क्रियते--आ भसंशब्दनाद्यद्वक्ष्यते तस्मिन्‌ कर्त्तव्यतया विषयभूतेऽसिद्धवद्भवतीत्यस्यार्थस्य परिज्ञानाय। यद्येवम्, अत्रेत्येतपदार्थकलमेतद्विषयनिर्देशार्थं क्रियते, स च विषय आ भादित्यनेनैव निर्दिष्टः? इत्यत आह--`अत्र' इत्यादि। समान एव आश्रयो निमित्तं यस्य तत्‌ समानाश्रयम्‌, तस्य भावः समानाश्रयत्वम्। तस्य प्रसिद्धये परिज्ञानायात्रग्रहणम्, तच्चेदत्रेति भवतीति वाक्शेषः। तदित्यनेन यस्यासिद्धवद्भावो विधीयते तन्निर्दिश्यते। अत्रेत्यनेनापि यत्र ततोऽन्यदाभाच्छास्त्रीयं तत्‌ तदाश्रयमेव भवतीति। असिद्धवदिति वक्ष्यमाणेनाभिसम्बध्यते। तदित्यनेन यत्रा भाच्छास्त्रीयं विधीयते तस्य परामर्शः। स आश्रयो निमित्तं यस्य तत्‌ तदाश्रयम्‌। एवकारोऽवधारणार्थः। तदेवासिद्धवद्भवतीति यावत्‌। `व्याश्रयस्तु नासिद्धवद्भवति' इति। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। यत्र तदाभाच्छास्त्रोयं कार्यं विधीयते ततो भिन्नोऽर्थान्तरभूत आश्रयो यस्य तत्‌ तथोच्यत इत्यर्थ इति। इतिकरणेनानन्तरं व्याख्यातोऽर्थः प्रत्यवमृश्यते। अत्रग्रहणे समानाश्रयत्वप्रसिद्ध्यर्थे सतद्येषोऽस्य सूत्रस्यार्थः सम्पद्यत इति यावत्‌।
किमर्थं पुनरसिद्धवद्भवतीत्यत आह--`असिद्धवचनम्‌' इत्यादि। उत्सर्गशब्देन स्थान्यत्रोपदिश्यते, उत्सृजयत आदेशेन निवर्त्त्यत इति कृत्वा। उत्सर्गसाधर्म्याद्वोत्सर्गः। यथा ह्युत्सर्गस्य सामान्येन प्रवृत्तस्य सतः कुतश्चिद्विसेषान्निवृत्तिर्भवति, एवं स्थानिनोऽप्यादेशात्‌। उत्सर्गौ लक्षणम्‌=निमित्तं यस्य तदुत्सर्गलक्षणम्‌ आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्‌, तयोर्यथाक्रमं भावप्रतिषेधौ यथा स्यातम्‌--इत्येवमर्थमसिद्धवचनम्‌। `एधि, शाधि' इति। उत्सर्गलक्षणभावस्योदाहरणम्‌। `अस भूवि' (धा.पा.1065), `शास अनुशिष्टौ' (धा.पा.1075), [`शासु' धा.पा.] लोट्‌, सिप्‌, `सेर्ह्यपिच्च' (3.4.87) इति हरादेशः, अदादित्वाच्छपो लुक्‌, श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः। परत्वान्नित्यत्वाच्च घिभावात्‌ पूर्वं `ध्वसोरेद्धावभ्यासलोपश्च' (6.4.119) इत्येत्त्वम्‌। शासेरपि नित्यत्वात्‌ `शा हौ' (6.4.35) इति शादेशः पूर्वं घिभावात्‌ तयोरेत्त्वशाभावयोः `हुझल्भ्यो हेर्धिः' (6.4.101) इति झलन्तलक्षणं धित्वं न प्राप्नोति, निमित्ताभावात्‌। असिद्धत्वाद्भवति। `आगहि, जहि' इति। आदेशलक्षणप्रतिषेधस्योदाहरणम्‌। अगाहीति--गमेराङपूर्वाल्लोट्‌, सिप्‌, तस्य हिरादेशः, `बहुलं छन्दसि' (2.4.76) इति शपो लुक्‌, `अनुदात्तोपदेश' (6.4.36) इत्यादिनानुनासिकलोपः। जहीति--हन्तेरलोडादि पूर्ववत्‌, अदादित्वाच्छपो लुक्‌, `हन्तेर्जः' (6.4.36) इति जभावः। अत्रेदानीमनुनासिकलोपजादेशयोरुत्तरकालं `अतो हेः' (6.4.105) इति हेर्लोपः प्राप्नोति; असिद्धत्वान्न भवति।
`अभाजि' इति। `भन्जो आमर्दने' (धा.पा.1453) लुङः, कर्मण्यात्मनेपदम्‌, `चिण्बावकर्मणोः' (3.1.66) इति च्लेश्चिण्‌, `चिणो लुक्‌' (6.4.104) इति तकारलोपः, `भञ्जेश्च चिणि' (6.4.33) इत्युनुनासिकलोपः। तस्य समानाश्रयस्यापि वृद्धावनाबाच्छास्त्रीयायां कर्त्तव्यायामा भादिति वचनादसिद्धत्वं न भवति। `रागः' इति। रञ्जेर्घञ्‌, `घञि च भावकरणयोः' (6.4.27) इत्यनुनासिकलोपः। तस्यापि समानाश्रयायमपि साप्तमिक्यां वृद्धौ कर्त्तव्यायामा भादति वचनादसिद्धत्वं न भवति। `पपुषः चिच्युषः लुलुवुषः' इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्‌, `वसोः सम्प्रसारणम्‌' (6.4.131) तस्य व्याश्रयत्वात्‌ इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्‌, `वसोः सम्प्रसारणम्‌' (6.4.131) तस्य व्याश्रयत्वात्‌ `आतो लोप इटि च' (6.4.64) इत्यकारलोपः, `एरनेकाचोऽसंयोगपूर्वसय' (6.4.82) इति यणादेशे `अचि इन्‌ धातु' (6.4.77) इत्यादिनोवङादेशे च कर्त्तव्येऽसिद्धवत्त्वं न भवति। ननु च `उस्यपदान्तात्‌' (6.1.96) इत्यनेनैव पररुपेण सरवं सिद्धम्‌? नैतदस्ति; प्रतिपदोक्तस्य ह्युस्शब्दस्य तत्र ग्रहणम्‌, लाक्षणिकोश्चात्रोस्‌।
कथं पुनरत्र व्याश्रयत्वमित्याह--`आल्लोपादीनि हि' [`हि'--नास्ति काशिकायाम्‌] इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्थे। नन्वेवमपि `असिद्धं बहरङ्गमन्तरङ्ग' (व्या.प.42) इति अन्तरङ्गेष्वाल्लोपादिषु बहिरङ्गस्य समप्रसारणस्यासिद्धत्वादाल्लोपादयो न प्राप्नुवन्त्येव। तत्र हि विभक्तेः, पूर्वो वसवन्तो भागः, तदाश्रया लोपादय इति, सम्प्रसारणं तु विभक्त्याश्रयम्‌, प्रकृत्याश्रयञ्चान्तरङ्गम्‌, प्रत्ययाश्रयं च बहिरङ्गमित्याह--`असिद्धं बहिरङ्गम्‌' इत्यादि। `एतदपि' इति। एतदपीति वचनापेक्षया नपुंसकेन निर्वेशः। `एषा हि' इत्यादिना परिभाषाया अप्रवृत्तौ कारणमाह। यत्रान्तरङ्गबहिरङ्गयोर्युगपदुपस्थानं तत्रैषा परिभाषा प्रवर्त्तते, अन्तरङ्गे कर्त्तव्ये बहिरङ्गस्यासिद्धतामापादयितुम्‌। इयञ्च परिभाषा `वाह ऊठ्‌' (6.1.132) इत्यत्राभाच्छास्त्रे ज्ञापितत्वादाभाच्छास्त्रीया। अतोऽस्यां कर्त्तव्यायां `असिद्धवदत्रा भात्‌' (6.4.22) इति `वसोः सम्प्रसारण' (6.4.131) स्याल्लोपादीनाञ्चासिद्धत्वादन्तरङ्गबहिरङ्गयोयुर्गपदुपस्थानं नास्तीति न प्रवर्त्तते। तदप्रवृत्तौ नास्ति बहिरङ्गसम्प्रसारणस्यासिद्धत्वम्‌। तेन भवन्त्येवाल्लोपदयः।
`वुग्युटौ' इत्यादि। वुग्युडित्येतौ यथा क्रममुवङि यणि च कर्त्तव्ये सिद्धौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--इह वतिग्रहणं न कर्त्तव्यम्‌, विनापि तेनातिदेशः सिद्ध एव, यथा--`षत्वतुकोरसिद्धः' (6.1.86), `पूर्वतरासिद्धम्‌' (8.2.1) इति च। तत्‌ क्रियते क्वचित्‌ स्वाश्रयमपि सिद्धं यथा स्यादित्येवमर्थम्‌। तेन वुग्यृटावुवङ्यणोः सिद्धौ भविष्यतः। `बभूव' इति। `भवतेरः' (7.4.73) इत्यभ्यासस्यात्वम्‌, `भुवो वुग्लुङलिटोः' (6.4.88) इति वुक्‌। तत्र यद्यसिद्धं स्यात्‌ `अचिश्नुधातु' (6.4.77) इत्यादिना उवङ स्यात्‌, तस्य सिद्धत्वान्न भवति। `उपदिदीये' इति। `दीङः क्षये' (धा.पा.1134) लिट्‌ तस्य `लिटस्तझयोः' (3.4.81) इत्यादिनेशु, `दीङो युडचि क्ङिचि' (6.4.63) इति युट्‌। तस्यापि यद्यसिद्धत्वं स्यात्‌ `एरनेकोचोऽसंयोगपूर्वस्य' (6.4.82) इति यणादेशः स्यात्‌। सिद्धत्वान्न भवति।
आ भादित्याङ मर्यादायां वा स्यात्‌? अभिविधौ वा? तत्र यद्याद्य पक्ष आश्रीयत भाधिकारीयस्यासिद्धत्वं न स्यात्‌। ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यस्याः परिभाषाया अनाभाच्छास्त्रीयत्वादस्थां प्रवर्त्तमानायां वसोः सम्प्रसारणस्याल्लोपादीनां चासिद्धत्वं न स्यात्‌। एवमपि वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवर्त्तमानया वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवर्त्तमानया वसोः सम्प्रसारणस्यासिद्धत्वे उत्पादितेऽन्तरङ्गत्वादल्लोपादयः पपुषः, चिच्युषः, लुलुवष इत्यत्र न स्युः? इतोमं मर्यादापक्षे दोषं वृष्ट्वा द्वितीयं पक्षमाश्रित्याह--`आ भादित्ययमभिविधावाङ्‌' इति। गतार्थश्च।।

23. श्नान्नलोपः। (6.4.23)
अन्यस्य श्नशब्दस्यासम्भवादसत्यपि श्नमो मकारस्य श्रवणे सामर्थ्यात्‌ श्नम एव ग्रहणं विज्ञायते, इत्यत आह--`श्नमयमुत्सृष्टमुकारः' इति। उत्सृष्टः=परित्यक्तो मकारो यस्य स तथोक्तः। `अनक्ति' इत्यादि। `अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' (धा.पा.1458) `भन्जो आमर्दने' (धा.पा.1453) `हिसि हिंसायाम्‌', (धा.पा.1456) अस्योदित्त्वान्नुम्‌, रुधादित्वात्‌ श्नम्‌।
शकारवतोग्रहणमेतदर्थं क्रियते--`नन्दिता, नन्दकः' इत्यत्र मा भूदिति, एतच्चाप्रयोजनम्‌; `प्रत्ययाप्रतयययोः प्रत्ययस्यैव ग्रहणम्‌' (व्या.प.72) इत्यनया परिभाषयाऽत्र न भविष्यति। ज्ञापकाच्च, यदयं नन्दिनन्दनशब्दौ क्षुभ्नादिषु पठति, तज्ज्ञापयति--नन्देर्नकारलोपो न भवतीति। सामान्यापेक्षञ्च ज्ञापकम्‌, तेन `नन्दिता, नन्दकः' इत्यत्रापि न भविष्यति। तस्मात्‌ `नान्न लोपः' इत्येवं वक्तव्यमित्यभिप्रायेणाह--`शकारवतो ग्रहणं किम्‌' इति। `यज्ञानाम्‌, यत्नानाम्‌' इति। `यजयाच' (3.3.90) इति नङ्‌, तदन्तात्‌ षष्ठीबहुवचनम्‌, नुट्‌। यदि शकारवतो ग्रहणं न क्रियेत तदा तत्र नलोपः स्यादेव। स्यादेतत्‌--दीर्घे कृते `नात्‌' इति व्यपदेशाभावान्न भविष्यतीति? अत आह--`सुपि च' इत्यादि। `सुपि च' (7.3.102) इत्यर्थ दीर्घोऽजादेशः, तस्य नकारलोपपूर्वविधौ कर्त्तव्ये `अचः परस्मिन्‌ पर्वविधौ' (1.1.57) इति स्थानिवद्भावेन तद्रूपतामापन्ने परात्वाद्दीर्घत्वे यदि कृतेऽपि शकारविशिष्टस्य ग्रहणं न क्रियते तदा स्यादेवात्र नलोपः। कृताकृतप्रसङ्गित्वाच्च। दीर्घत्वं तु नकारलोपे कृते निमित्तविहितत्वान्न प्राप्नोतीति तदनित्यम्‌। ननु च पूर्वविधौ स्थानिवद्भाव उक्तः, न चायं पूर्वविधिः? नैष दोषः; अयमपि पूर्ववधिरेव। `पूर्वस्माद्‌ विधिः पूर्वविधिः' इत्यस्यापि समामस्य तत्राश्रयणात्‌।
अथ क्रियमाणेऽपि शकारवतो ग्रहणे कस्मादिह न भवति--`विश्वानाम्‌, प्रश्नानाम्‌' इति, भवति ह्यत्रापि शकारवान्नकारः? इत्याह--`विश्नानां प्रश्नानामित्यत्र' इत्यादि। इह हि लक्षणप्रतिपदोकतपरिभाषया (व्या.प.3.) प्रतपदोक्तो यः साक्षान्निर्दिष्टः श्नशब्दस्तस्य ग्रहणम्‌, न तु लाक्षणिकस्य। `विश्नानाम्‌, परश्नानाम्‌' इत्यत्र हि `च्छ्वोः शूडनुनासिके च' (6.4.19) इति शकारे कृते श्नशब्दः सम्पद्यते, स च लाक्षमिकः। तस्मात्‌ ततः परस्य लोपो न भवति। `राल्लोपः' (6.4.21) इत्यतो मण्डूकप्लुतिन्यायेन लोपग्रहणानुवृत्तौ सत्यां सिद्धायां यत्‌ पुनर्लोपग्रहणं क्रियते तद्‌ योग वेभागार्थम्‌। `श्नान्न' इत्येको योगः, अत्र च नेत्यविभक्तिकोऽयं निर्देशः, लोपग्रहणञ्चानुवर्तते, तेनायमर्थो भवति--श्नादुत्तरस्य नकारस्य लोपो भवतीति; ततः `लोपः' इति द्वितीयो योगः, ततः `श्नान्न' इत्यतो नेत्यनुवर्तते--इष्टे विषये नकारलोपो यथा स्यादिति। तेन लङ्गिकम्पिप्रभृतीनामुपतापशरीरविकारादिषु नलोपः सिद्धो भवति।।

24. अनिदितां हल उपधायाः क्ङिति। (6.4.24)
इद्‌ इद्‌ येषां त इदितः, न इदितोऽनिदित इति षष्ठीबहुवचनस्य स्थाने सुब्व्यत्येनैकवचनम्‌, तच्चानिदितां विशेषणम्‌, विशेषणेन च तदन्तविधिर्भवतीत्यत आह--`हलान्तानाम्‌' इत्यादि। `उपधाया नकारस्य' इति। उपधाया इत्येतन्नकारस्य विशेषणम्‌। `स्रस्तः, ध्वलस्तः' इति। `स्रन्सु ध्वन्सु अधः [`अवन्नंसने'--धा.पा] पतने (धा.प.754,755) निष्ठा। `स्रस्यते, ध्वस्यते' इति। भावे कर्मणि वा लकार। `सनीस्रस्यते दनीध्वस्यते' इति। यङन्ते एते। `नीग्वञ्चु' (7.4.84) इत्यादिनाभ्यासस्य नीगागमः।
`नन्द्यते' इति। `टु णदि समृद्धौ' (धा.पा.67) [`टु नदि'--धा.पा.] `नानन्द्यते' इति। यङन्तम्‌। `दीर्घोऽकितः' (7.4.83) इत्यभ्यासस्य दीर्घः। `नेनीयते' इति। नयतेः `गणो यङ्लुकोः' (7.4.82) इति गुणोऽभ्यासस्य। `नह्यते' इति। `णह बन्धने' (धा.पा.1166)।
`लङ्गिकम्प्योः' इत्यादि। लङ्गिकम्प्योरिदित्त्वान्नलोपो न प्राप्नोति, अतस्तयोरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम्‌। उपसंख्यानाम्‌=प्रतिपादनम्‌। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु कृतमेव। उपतापः=व्याधिः। शरीरविकारः=शरीरस्यान्यथात्वम्‌। स पुनरिहोपतापादनयो गृह्यते, अन्यथा `उपताप' इत्येवं सिद्धे शरीरविकारग्रहणमनर्थकं स्यात्‌। `विलगितः' इति। `अगि वगि लगि' गत्यार्थाः। (धा.पा.146,147,145)। `उपतापे विलङ्गितः' इत्येव प्रयोगो मा भूदित्येवमर्थं लङ्गर्ल्लोपो विधीयते, न तु रूपसिद्ध्यर्थम्‌; `लगे सङ्गे' (धा.पा.786) इत्यस्य प्रकृत्यन्तरस्य तस्य सिद्धत्वात्‌।
`रञ्जेर्णौ' इत्यादि। अक्ङिदर्थं वचनम्‌। मृगरमणम्‌=मृगक्रीडा। `रजयतिः मृगान्‌' इति। रममाणान्‌ मृगान्‌ प्रयुङ्क्ते इत्यर्थः।
`रजनरजकरजःसूपसंख्यानम्‌' इति। अत्र भूयः प्रतिपादनं क्रियते। `घञि च भावकरणयोः' (6.4.27) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेन रजकादिषु प्रतिपाद्येषु रञ्जेः ष्वुन्नादिप्रत्यये परतो नलोपो भवति। `रजकः' इति। `शिल्पिनि ष्वुन्‌' (3.1.145)। `रजनम्‌' इति। ल्युट्। `रजः' इति। `सार्वधातुभ्योऽसुन्‌' (द.उ.9.49)[`असुन्‌'--द.ु.] इत्यसुन्‌।
`घिनुणि च' इत्यादि। `रागी' इति। सम्पृचान्वादिसूत्रेण(3.2.142) घिनुण्‌, `चजो कु घिण्ण्यतोः' (7.3.52) इति कुत्वम्‌। `त्यज रज भज' इति निपातनात्‌ सिद्धम्‌' इति। यतोऽयमक्ङिति निमित्ते सम्पृचादिसूत्रे (3.2.142) रञ्जेरनुनासिकलोपं कृत्वा निर्देशं करोति, तज्ज्ञापयति--घिनुप्यति नलोपो भवतीति। ननु च `रञ्जेश्च' (6.4.26) इति लक्षणेनैव शपि नलोपोऽभिनिर्वृत्तः? न तदस्ति; यथैव `इन्धिभवतिभ्याञ्च' (1.2.6) इत्यागन्तुकेनेकारेणेन्धेर्निर्देशः, तथेहाप्यागन्तुकेनाकारेण, न तु शपा। न हि `इन्धिभवतिभ्याञ्च' (1.2.6) इत्यत्रेका निर्देशः, अन्यथा हि `अनिदिताम्‌' (6.4.24) इत्यनुनासिकलोपः स्यात्‌।।

25. दंशसञ्जस्वञ्जां शपि। (6.4.25)
`दंश दंशने' (धा.प.989), `ष्वन्ज परिष्वङ्गे (धा.पा.976)। `परिष्वजते' इति। `उपसर्गात्‌ सुनोति' (8.3.65) इत्यादिना षत्वम्‌।।

26. रञ्जेश्च। (6.4.26)
अथ पृथग्योगकरणं किमर्थम्‌, न पूर्वयोग एव रञ्जेर्ग्रहणं क्रियते? इत्याह--`पृथग्योगकरणम्‌' इत्यादि। उत्तरसूत्रे रञ्जेरेवानुवृत्तिर्यथा स्यात्‌ दंशप्रभृतीनां मा भूदिति।।
 
27. घञि च भावकरणयोः। (6.4.27)
`रज्यतेऽनेनेति रागः' इति। `हलश्च' (3.3.121) इति घञ्‌। एवं `रङ्गः' इत्यत्रापि।।

28. स्यदो जवे। (6.4.28)
जवः=वेगः, गतिविशेषः। `वृद्ध्यभावश्च' इति। `अत उपधायाः' इति। नलोपे कृते `अत उपधायाः' (7.1.116) इति वृद्धिः प्राप्नोति, अतस्तदभावो निपात्यते। ननु च `न धातुलोप आर्धधातुके' (1.1.4) इत्यनेनैव वृद्धिप्रतिषेधः सिद्धः, तत्‌ किमर्थं वृद्ध्यभावो निपात्यते? इत्याह--`इक्प्रकरणात्‌' इत्यादि। तत्र `इको गुणवृद्धी' (1.1.3) इत्यत `इक्‌' इति परकृतमनुवर्तते, तेनेग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चेयमिन्लक्षणा वृद्धिः, किन्तूपधालक्षणा। न चेयमुपधालक्षणा वृद्धिरिग्लाक्षणा भवति, निर्दिष्टस्थानिकत्वात्‌। तेन नास्त्यत्र तस्याः प्रतिषेधः। `गोस्यदः' इति। भावे धञ्‌। गवां स्यद इति गोस्यदः, `कृद्योगा षष्ठी समस्यते' (धा.86) इति समासः। `तैलस्यन्दः' इति। तैलस्य स्रवणमित्यर्थः। `स्यन्दू स्रवणे'[`प्रस्रवणे' धा.पा.] (धा.पा.761)।।

29. अवोदैधोद्मपरश्रथहिमश्रथाः। (6.4.29)
`अवोदः' इति। उपसर्गेण सह `आद्गुणः' (6.1.87)। `न धातुलोपः' (1.1.4) इत्यादिना प्रतिषेधो न भवति; अनिग्लक्षणत्वाद्गुणस्य।
`गुणश्च निपात्यते' इति। ननु च `पुगन्तलधूपधस्य' (7.3.86) इत्येवं गुणः सिद्धः। तत्‌ किमर्थं निपात्यते? इत्याह--`न धातुलोपः' इत्यादि।
`औणादिके मन्प्रत्ययः' इति। `अर्त्तिसतुसुहुसृधृक्षिक्षुभायावापदयक्षिनौब्यो मन्‌' (द.उ.7.26) [अर्त्तिस्तुसुहुसृधृक्षिक्षुभायापदियक्षिनीभ्यो मन्‌--द.उ.] इत्यर्त्त्यादिभ्यो विधीयमानो बहुलवचनादुन्देरपि भवति। `श्रन्तेः' इति। `श्रन्थ मोचनप्रतिहर्षणयोः' (धा.प.1510) इत्यस्य।।

30. नाञ्चेः पूजायाम्‌। (6.4.30)
`अनिदिताम्‌' (6.4.24) इत्यनेन प्राप्तस्य नलोपस्यायं प्रतिषेधः। एतस्मादेव प्रतिषेधान्नकारोऽयं इतचुत्वो निर्दिश्यत इति गम्यते। अथ `नाञ्चेरिटि' इत्येव कस्मान्नोक्तम्‌ एवमपि ह्युच्यमाने पूजायमेव प्रतषेधो लभ्येत, तथा हि--पूजायामेवाञ्चतेरिङ् विहितः? अशक्यमेवं वक्तुम्‌, `अञ्चेः पूजायाम्‌' (7.2.53) इत्यनेन क्त्वानिष्ठयोर्नित्यमिङ विहितः। यस्तु क्त्वाप्रत्ययः `उदितो वा' (7.2.56) इति पाक्षिक इडागमः, स पूजायामपि भवति, तत्रैवमुच्यमाने यदा क्त्वाप्रत्ययस्य पूजायामिण्न स्यात्‌, तदा प्रतिषेधो न स्यात्‌। `गुरुमङ्क्त्वा' इति। `न' इत्येतत्प्रतिषेधवचनमुत्तरार्थम्‌। इह `अञ्चेरपूजायाम्‌' इत्युच्यमाने सतीष्टं सिद्ध्यत्येव। `अञ्चिता अस्य गुरवः' इति। `मतिबुद्धि' (3.2.188) इत्यादना क्तः। `क्तस्य च वर्तमाने' (2.3.67) इति षष्ठी। `यस्य विभाषेतीट्‌प्रतिषेधः' इति। अञ्चितेः `उदितो वा' (7.2.56) इति विकप्लेनेङविधानात्‌।।

31. क्त्वि स्कन्दिस्यन्दोः। (6.4.31)
`स्कन्त्वा' इति। `स्कन्दिर गतिशोषणयोः' (धा.प.979) `पक्षे इडागमः' इति। `स्वरति' (7.2.44) इत्यादिना। `कित्त्वप्रतिषेधान्नलोपभावः' इति। `अनिदिताम्‌' (6.4.24) इत्यादिना हि क्ङिति नलोपो विधीयते। सेट्क्त्वाप्रत्ययस्य `न क्त्वा सेट्‌' (1.2.18) इति कित्त्वप्रतिषेधः कृतः, ततश्चेडागमपक्षे कित्त्वाभावादेव नलोपाभाव इति नासाविमं योगं प्रयोजयति। तेन न सेट्क्त्वापरत्ययस्योदाहरणं प्रदर्शितमित्यभिप्रायः।।

32. जान्तनशां विभाषा। (6.4.32)
`नष्ट्वा, नंष्ट्वा' इति। नशेः व्रश्चादि (8.2.36) सूत्रेण षत्वम्‌, ष्टुत्वम्‌। `मस्जिनशोर्झलि' (7.1.60) इति मुमागमः। `ज' इति वर्णग्रहणम्‌, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतत्यन्तरेणाप्यन्तग्रहणेन तदन्तविधौ सिद्धे, यदिहान्तग्रहणं क्रियते तद्धिस्पष्टार्थम्‌, यत्त्वाह--अनुपधाया अपि पक्षे लोपस्य प्रतिषेधार्थमन्तग्रहणम्‌, तद्यथा--`भक्त्वा, भङ्क्त्वा' इति, तन्न; केन पुनरनुपधाभूतस्य नकारस्या लोपः प्राप्नोति, यतोऽसौ पक्षे प्रतिषिध्यते। उपधानकारस्य लोप उक्तः, न चायमुपधानकारः। एवं तर्हि विधि विषयादन्यत्रापि क्वचिल्लोपो नकारस्य भवतीति ज्ञापयति। तेनैतत्‌ सिद्धं भवित--`मग्नः, मग्नदान्‌' इति। ततश्चैतद्रथं `मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गलोपार्थम्‌' इत्येतन्न वक्तव्यं भवति। तत्र यदीदं नोच्येत, तदा यस्मिन्‌ पक्षे क्त्वाप्रत्ययेन लोपो न भवति, तस्मिन्‌ पक्षे `स्कोः संयोगाद्योरन्ते च' (8.2.29) इति सलोपोऽपि न स्यात्‌; असंयोगादित्वात्‌। तस्माद्वक्तव्यमेवेदम्‌--`मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति' इति। ततश्चानुपधाभूतस्य नकारस्य लोपभाविनोऽसम्भवादनुपधाभूतस्य नकारस्य लोपप्रतिषेधो यथा स्यादेवमर्थमन्तग्रहणं न युज्यते।।

33. भञ्जेश्च चिणि। (6.4.33)
चकारः `विभाषा' (6.4.32) इत्यनुकर्षणार्थः। `अभाजि' इति। पूर्वमेव व्युत्पादितम्‌।
`अप्राप्तोऽयं नकारलोपः' इति। क्ङिति नलोपविधानात्‌, चिणश्चाक्ङित्वात्‌। अतः प्रतिषेध्याभाबान्नति नानुवर्तते। तेन विधिरेवायमित्यभिप्रायः।।

34. शास इदङ्हलोः। (6.4.34)
`अन्वशिषत्‌' इति। `सर्त्तिशास्त्यर्तिभ्यश्च' (3.1.56) इति च्लेरङादेशः `शिष्वः, शिष्मः' इति। वस्मसोरुदाहरणे, अदादित्वाच्छपो लुक्‌। `शासति' इति। `जक्षित्यादयः षट्‌' (6.1.6) इत्यभ्यस्तसंज्ञा, `अदभ्यस्तात्‌' (7.1.4) इति झेरदादेशः। `शशासतुः, शशासुः' इति। लिट्यतुस्युसि रूपे।
`क्वौ च शासः' इति। क्वौ परतः शासेरित्त्वं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्‌--यद्यपि कृताकृतप्रसङ्गित्वेन नित्यत्वादत्र पूर्वमित्त्वात्‌ क्विब्लोपस्य विधानम्, तथापि लुप्तेऽपि तस्मिन्‌ प्रत्ययलक्षणेनात्रेत्त्वं भविष्यति।
`वर्णाश्रये प्रत्ययलक्षणं नास्ति' (व्या.प.96) इत्येतत्तु प्रायिकम्‌। तथा हि--वर्णश्रयेऽपि क्वचिद्भवति। तद्यथा--`अतृणेट्‌' इति। अत्र `तृ ह इम्‌' (7.3.92) इतीमागमः। अथ वा वर्णाश्रयमेवेदमित्त्वं न भवति। कथम्‌? अङ्गग्रहणेनात्र प्रत्ययः सन्निधापितः। स हल्ग्रहणेन विशिष्यते। अत एव वृत्तावुक्तम्‌--`हलादौ क्ङिति' इति। तेन यद्यपि क्विब्‌ वर्णात्मकः प्रत्ययः, तथापि नासौ वर्णरूपत्वेनाश्रीयते, किं तर्हि? प्रत्ययरूपत्वेन।
`आर्यशीः' इति। सकारस्य रुत्वे कृते `र्वोरुपधाया दीर्घः' (8.2.76) इति दीर्घः।
अथ `आशास्ते, आशास्यमानः' इत्यत्र कथमित्त्वं न भवति? इत्याह--`यस्माच्छासेः' इत्यादि द्वाविमौ शासी--एकः परस्मैपदी, अपरस्त्वात्मनेपदी, तत्र यस्मात्‌ शासेरङ् विहितं तस्येवं ग्रहणम्‌। स च `शासु अनुशिष्टौ' (धा.पा.1075) इत्यस्य `सत्तिशास्त्यर्त्तिभ्यश्च' (3.1.56) इति विधीयते, तत्र `परस्मैपदेषु' (3.1.55) इत्यनुवर्तते, अस्यैव परस्मैपदे सम्भवात्‌। कथं पुनः सामान्येनोपादाने परस्मैपदिन एव विज्ञायते? अङः संसर्गात्‌। संसर्गे हि सति विशेषपरिच्छेदो भवति, तथा हि--`सकिशोरा धेनुरानीयताम्‌' इत्युक्ते किशोरेण संसर्गाद्‌ वडवायामेव सम्प्रत्ययो भवति। इह शासेरित्त्वं प्रत्यङ निमित्तत्वेनोपात्तः, अतस्तेन संसर्गाद्‌ विशिष्ठ एव परस्मैपदी शासिः प्रतीयते। ननु चाङेवात्र केवलो निमित्तत्वेन नोपात्तः, किं तर्हि? हलपि, स चात्मनेपदिनोऽपि सम्भवति, तत्‌ कुतोऽङ्संसर्गाद्‌ विशिष्टस्य शासेः प्रतीति? नैतदस्ति; साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सन्निहितः सम्बन्धी तत्रैव प्रत्ययो जायते। तथा हि `वृद्धानां किशोरणाञ्च मध्ये धेनवोऽनुबध्यन्ताम्‌' इत्युक्ते बडवा एव प्रतीयन्ते। तस्मादङहलोरुपदानेऽपि यस्मादङ विहितस्तस्यैव ग्रहणं युक्तम्‌।
यदि तर्हि यतोऽङ विहितस्तस्येदं ग्रहणम्‌, एवं सति यथाशास्ते, आशास्यमान इत्यत्र न भवति, तथा क्विप्प्रत्ययेऽपि न स्यात्‌? इत्यत आह--`क्विप्प्रत्यये ति' इत्यादि। `क्षियासीः' इत्यादि। अथ वा नैव तस्या ह्यपि क्विष्प्रत्यय इत्येवं वक्तव्यमिति। विक्लपर्थो वाशब्दः। अथ तशब्दः किमर्थः, आन्तरतम्याद्दीर्घो मा भूदिति चेत्‌? नैतदस्ति; `भाव्यमानोऽण्‌ सवर्णान्न गृह्णाति' (व्या.प.35) इति न भविष्यति? एवं तर्हि विस्पष्टार्थः। अथासन्देहार्थः कस्मान्न भवति? `शास यङङलोः' इत्युच्यमाने सन्देहः स्यात्‌--किमयमिकारः कृतयणादेशो निर्दिष्टः? आहोस्विदीकारः? अथ वा यकार इति? नास्ति सन्देहः, यदयम्‌ `तदशिष्यं संज्ञाप्रमाणत्वात्‌' (1.2.53) इति निर्देशं करोति, ततो निश्चीयते--इकारोयम्‌, न हीकारः, नापि यकार इति।।

35. शा हौ। (6.4.35)
यद्यत्र `उपधायाः' (6.4.24) इति वर्त्तते, ततो यथा पूर्वसूत्रे `शासः' (6.4.34) इत्यवयवभूता षष्ठी, तथेहापि स्यात्‌ एवञ्चोपधाया एवायमादेशः, प्रसज्येत, सर्वादेशश्चेष्यत इति मनसि कृत्वाह--`उपधाया इति निवृत्तम्‌' इति। तद्धि उपधागरहणं क्ङिद्ग्रहणेन सम्बद्धम्‌, इह च क्ङिद्ग्रहणं निवृत्तम्‌। तस्मात्‌ `उपधायाः' (6.4.24) इत्यस्यापि निवृत्तिर्भवति। `क्ङिति' इत्येतदपि निवृत्तम्‌' इति। `अनुदात्तोपदेश' (6.4.37) इत्यादौ सूत्रे पुनः क्ङिद्ग्रहणात्‌। `तेन' इत्यादिना क्ङिद्ग्रहणे निवृत्ते यदिष्टं सम्पद्यते तद्दर्शयति--यद्यत्र `क्ङिति' (6.4.24) इत्येतदनुवर्त्तेतततो `वा च्छन्दसि' (3.4.88) इति यसमिन्पक्षे हेरपित्त्वं न भवति तस्मिन्‌ पक्षे `सार्वधातुकमपित्‌' (1.2.4) इति वचनात्‌ ङित्त्वं नास्तीति शाभावो न स्यात्‌। क्ङिद्ग्रहणे तु निवृत्तेऽपित्त्वपक्षेऽपि भवत्येव। स्यादेतत्‌--व्यवस्थितविभाषाविज्ञानाच्छास उत्तरस्य हेः पित्त्वं न भविष्यति, ततो नार्थः क्ङिद्ग्रहणेन निवर्त्तितेन? इत्यत आह--`शाधीत्येतत्‌' इत्यादि। यदि शास उत्तरस्य हेः पक्षे पित्त्वं न स्यात्‌, तदा शाधीत्येतत्‌ सतिशिष्टत्वेन प्रत्ययस्वरेणान्तोदात्तमेव स्यात्‌। आद्युदात्तमपि च्छन्दसीष्यते। तच्च हेः पित्त्वे सति धातुस्वरेण सम्पद्यते, नान्यथा। तस्मादवश्यं च्छन्दसि यक्षे पित्त्वं विधेयम्‌।
अथ `आ हौ' इत्येवं कस्मान्नोक्तम्‌, अकोरेऽपि हि `अलोऽन्त्यस्य' (1.1.52) इति सकारस्य विहिते सवर्णदीर्घत्वेन शाधीत्येतत्‌ सिद्धं भवति? न सिद्ध्यति; पूर्वसूत्रेणोपधाया इत्त्वं स्यात्‌। न चायं तस्य बाधको युज्यते; असति च सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्‌, अत्रास्ति सम्भवः। तस्मादकारेऽन्त्यसय विहित उपधाया इत्त्वं स्यादेव।।

36. इन्तेर्जः।
`हन्तेः' इति। स्पिपा निर्देशो यङलुग्निवृत्त्यर्थः--`जङ्घहि'।।

37. अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति। (6.4.37)
`अनुनासिक' इति षष्ठ्या बहुवचनस्य लुकं कृत्वाऽविभक्तिकोऽयं निर्देशः। अत एवाह--`अनुनासिकान्तानाम्‌' इति। `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घत्वे प्राप्ते लोपोऽयं विधीयते। अत्र लोपे कृते दीर्घत्वं न प्राप्नोति; विहितनिमित्तत्वात्‌। `यमि रमि गमि नमि हनि मन्यतयः' इति--`यम उपरमे' (धा.पा.984) `रमु क्रीडायाम्‌' (धा.पा.853) `गन्लृ सृप्लृ गतौ' (धा.पा.982,983) `णम पह्वत्वे' (धा.पा.981) [प्रह्वत्वे शब्दे च--धा.पा] `हन हिंसागत्योः' (धा.पा.1012) `मन ज्ञाने' (धा.पा.1176)।
`वतिः' इति। `वन षण सम्भक्तौ' (धा.पा.463,464)। `तितुत्रतथ' (7.2.9) इत्यादिनेट्प्रतिषेधः। `क्तिनि' इत्यनेन क्तिन्येव वनतेरुदाहरणं सम्भवति, नान्यत्रेति दर्शयति। किं कारमम्‌? इत्याह--`क्तिचि तु' इत्यादि। क्तिचि तु `न क्तिचि दीर्घश्च' (6.4.39) इति प्रतिषेधं वक्ष्यति। ये त्वन्ये झलादयः प्रत्ययास्तेष्वपीटा भवितव्यम्‌, ततो झलादित्वाभावाद्वनतेरनुनासिकलोपं प्रति ते निमित्तभावं नोपयान्तीति पारिशेष्यात्‌ क्तिन्येव वनतेरनुनासिकलोपेन भवितव्यम्‌।
`सनोतेरात्त्वं वक्ष्यति' इति। तेन तस्यानुनासिकलोपोदाहरणं न भवतीति भावः। आत्त्वं पुनः `जनसनखनाम्‌' (6.4.42) इत्यादिना वक्ष्यति। `क्षतः' इति। `क्षणु हिंसायाम्‌' (धा.पा.1465)। `ऋतः' इति--`ऋणु गतौ' (धा.पा.1467)। `तृतः' इति। `तृणु दाने' [`अदने' धा.पा.] (धा.पा.1468)। `घृतः' इति। `घृणु दीप्तौ' (धा.पा.1469) `वतः' इति। `वनु याचने' (धा.पा.1470) `मतः' इति। `मनु अवबोधने' (धा.पा.1471) `अतत, अतथा' इति। तनोतेर्लुङ। आत्मनेपदप्रथममध्यमैकपुरुषवचने। `तनादिभ्यस्तथासोः' (2.4.79) इति सिचो लुक्‌।
`शान्तः, तान्तः, दान्तः' ति। शमितमिदमीनां रूपाणि। एते नानुदात्तोपदेशाः। `इह च' इत्यादि। गमिरमिभ्यां क्तिनि कृते तयोर्नित्स्वरेणाद्युदात्तत्वेऽनुदात्तत्वाभावादसत्युपदेशग्रहणे लोपो न स्यात्‌, अस्मिंस्तु सति भवति। किञ्च--असत्युपदेशग्रहणे शान्तः, दान्त इत्यत्रापि स्यात्‌। भवति हि शमिः सतिशिष्टप्रत्ययस्वरे कृते `अनुदात्तं पदमेकवर्जम्‌' (6.1.158) इति शेषस्यानुदात्तत्वेऽनुदात्तः। उपदेशग्रहणात्तु न भवति, न ह्यमुपदेशेऽनुदात्तः।।

38. वा ल्यपि। (6.4.38)
अझलाद्यर्थ आरम्भः। `प्रयत्य' इति। प्रादसमासे कृते `समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (7.1.37) `ह्रस्वसय पिति कृति तुक्‌' (6.1.71)।।

39. न क्तिचि दीर्घश्च। (6.4.39)
`यन्तिः' इत्यादि। `क्तिच्कतौ च संज्ञायाम्‌' (3.3.174) इति क्तिच्‌। अत्र चानुदात्तोपदेशादिप्रहणमनुवर्तते, तेन `कान्तिः शान्तिः' इत्यत्र धीर्घप्रतिषेधो न भवति। अनुनासकलोपस्य त्वत्र प्राप्तिरेव नास्ति; उदात्तोपदेशत्वात्‌।
`अनुनासिकलोपे प्रतिषिद्धे' इत्यादिना दीर्घग्रहणस्य प्रयोजनमाचष्ठे। ननु च प्रकरणापेक्षया यदस्मिनप्रकरणे विहितं तन्न भवतीति विज्ञायमानेऽन्तरेणापि दीर्घग्रहणं दीर्घस्यापि प्रतिषेधो भविष्यति, तत्‌ किं दीर्घग्रहणेन? एवं तर्ह्यतज्ज्ञापयति--अस्तीयं परिभाषा `अनन्तरसय विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति।।

40. गमः क्वौ। (6.4.40)
अयमप्यझलाद्यर्थ आरम्भः। `अध्वगतो हरयः' इति। अध्वानं गच्छन्तीति क्विप्‌, तदन्तज्जस्‌।
`गमादीनाम्‌' इत्यादि। गमादीनामनुनासिकलोपः क्वौ भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्‌--पूर्वसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन गमादीनां भविष्यति, न तु गमेरेव केवलस्येति। `संयत्‌' इति। संपूर्वाद्‌ यमेः क्विप्‌। `परितत्‌' इति। परिपूर्वात्‌ तनोतेः, `नहिवृति' (6.3.116) इत्यादिना दीर्घः।
`ऊ च' इत्यादि। चकारादनुनासिकलोपः। क्वचिद्‌ `ऊङ च' इति पठ्यते, तत्र ङकारस्य प्रयोजनं चिन्त्यम्‌। अलोऽन्त्यपरिभाषयैवात्र भविष्यति। `अग्रेगूः' इति। गमेः, भ्रमेश्चानुनासिकलोपे कृतेऽकारस्योकारः।।

41. विङ्वनोरनुनासिकस्यात्‌। (6.4.41)
`अब्जाः' इति। अप्सु जायत इत्युपपदसमासः, पकारस्य जश्त्वम्‌--बकारः। `गोषा' इति। `षणु दाने' (धा.पा.1464) `विजवा' इति। `जन जनने' (धा.पा.1105), `जनी प्रादुर्भावे' (धा.पा.1149) इति वा। `अग्रेगाव' [`अग्रेजावा' इति काशिका पाठः] इति। `तत्पुरुषे कृति बहुलम्‌' (6.3.14) इति सप्तम्या अलुक्‌।
अथानुनासिकग्रहणं किमर्थम्‌, यावतानुदात्तोपदेशेत्यादेः (6.4.37) सूत्रादनुनासिकगरहणमनुवर्तत एव? इत्याह--`अनुनासकस्येति वर्तमाने'--इत्यादि। तद्धि प्रकृतमनुनासिकग्रहणमनुदात्तोपदेशग्रहणेन सम्बद्धम्‌, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्‌। तस्माददमन्यदनुनासिकग्रहणं क्रियते--अनुनासिकमात्रस्य यथा स्यात्‌। अथेह दीर्घोच्चारणं किमर्थम्‌? ह्रस्व एवोच्येत, ह्रस्वेऽपि कृते सत्यकः सवर्णे दीर्घत्वेन सिद्ध्यत्येव; `अतो गुणे' (6.1.97) पररूपत्त्वं प्राप्नोति, अतो न सिद्धयतीत्येतन्नाशङ्कनीयम्‌, अकारविधानसामर्थ्यात्‌; यदि हि `अतो गुणे' पररूपत्वं स्यात्‌, तदा प्रकृतं लोपग्रहणमेव विदध्यात्‌ ततो ह्रस्व एव कर्तर्व्यः। नैतदस्ति; ह्रत्वे हि सति `घुण धूर्णने' (धा.पा.437) [`भ्रमणे'--धा.पा.] इत्यस्माद्वनिपि विहिते `ध्वावा' इति न सिद्ध्येत्‌? ततो दीर्घस्यैव विधानं युक्तम्‌।।

42. जनसनखनां सञ्झलोः। (6.4.42)
`झलि क्ङिति चानुवर्तते' इति। यथाक्रमं सनो झलश्च विशेषणम्‌ सूत्रोपात्तेन तु झल्ग्रहणेन न शक्यते सन्‌ विशेषयितुम्‌, विशेषणं ह्यप्राधानं भवति, विशेष्यन्तु प्रधानम्‌। `सञ्झलोः' इति चार्य द्वन्द्वः। तत्र सर्वेषां द्वन्द्वपदानां प्राधान्यादन्योऽन्यं प्रधानगुणभावो नोपपद्यते। सन्ग्रहणञ्चाक्ङिदर्थम्‌।
`तदिह' इत्यादि। यस्मात्‌ सनोतेः पक्ष इडागमस्तस्मात्‌ तत एव परो झलादिः सन्‌ सम्भवतीति तदर्थमेव सन्ग्रहणम्‌, न तु जनखनार्थम्‌। न हि ताभ्यां परो झलादिः सन्‌ सम्भवति, तयोर्नित्यं सेट्त्वात्‌। यद्येवं, सनोतेः सनि कृतार्थत्वादात्त्वं न स्यात्‌, अन्यत्र निष्ठादौ झलादौ क्ङितिप्रत्यये `अनुदात्तोपदेशः' (6.4.37) इत्यादिना नलोपः स्यात्‌? इत्यत आह--`अन्यत्र' इत्यादि। सनोतेस्तनोत्यादिषु पाठस्यावकाशोऽन्यत्‌ तनादिकं कार्यम्‌--`तनादिभ्यस्तथासोः' (2.4.79) इत्यादि, आत्त्वविधौ च सन्ग्रहणस्यावकाशः--सन्‌, सिषासतीति; इहोभयं प्राप्नोति--सातः, सातवानिति। अत्रानुनासिकलोपं बाधित्वाऽऽत्त्वं भवति विप्रतिषेधेन। ननु चोभयः सिद्धयोर्विप्रतिषेधो भवति, इह च `असिद्धवदत्रा भात्‌' (6.4.22) इत्युभयमप्यसिद्धम्‌, तत्‌ कुतो विप्रतिषेधः? इत्यत आह--`घुमास्थागा' इत्यादि। कथं कृत्वा ज्ञापकम्‌? हल्ग्रहणस्यैतदेव प्रयोजनम्‌--हलादावीत्त्वं यथा स्यात्‌, इह मा भूत्‌--`आतोऽनुपसर्गे कः' (3.2.3) गोदाः, कम्बलद इति यदि चात्र विप्रतिषेधः? इत्यत आह--`घुमास्थागा' इत्यादि। कथं कृत्वा ज्ञापकम्‌? हल्ग्रहणस्यैतदेव प्रयोजनम्‌--हलादावीत्त्वं यथा स्यात्‌, इह मा भूत्‌--`आतोऽनुपसर्गे कः' (3.2.3) गोदः, कम्बलद इति। यदि चात्र विप्रतिषेधो न स्याद्‌ हल्ग्रहणमनर्थकं स्यात्‌। अस्त्वत्रेत्त्वम्‌, तस्यासिद्धत्वाल्लोपो भविष्यत। पश्यति त्वाचार्यः--भवतीह प्रकरणे विप्रतिषेध इति; यतो हल्ग्रहणं करोति। ननु चासति हल्ग्रहणेऽजादावपीत्त्वं स्यात्‌, ततश्चेपङः प्रसज्येतेत्यनिष्टं रूपमापद्येत। तस्मादनिष्टनिवृत्त्यर्थत्वाद्धल्ग्रहणस्य न युज्यते ज्ञापकत्वम्‌? नैष दोषः; असिद्धत्वादेवेत्त्वस्येयङादेशो न भविष्यति। व्यवस्थार्थं तर्हि हल्ग्रहणं स्यात्‌, असति हि तस्मिन्नीत्त्वस्यासिद्धत्वा दाल्लोपः, आकारलोपस्यासिद्धत्वादीत्त्वमीति चक्रवद्व्यवस्था स्यात्‌? एतदप्यप्रयोजनम्‌, यदि व्यवस्थार्थं हल्ग्रहणं स्यात्‌, नैवायं हल्ग्रहहँ कुर्वीत। अविशेषेणेकारमुक्त्वा तस्याजादौ लोपमपवादं विदध्यात्‌। तत्‌ कथमिदमस्तु `आतो लोप इटि च' (6.4.64) इति? ततः `धुमास्थागापाजहातिसाम्‌' (6.4.66) आकारलोपो भवतीटयजादौ च क्ङिति। किमर्थमिदम्‌? प्रत्ययमात्रे ध्वादीनां यदीत्त्वं वक्ष्यते, तस्यायमिट्यजादौ च क्ङित्यपदादः, ततः `ईत्‌' (6.4.68) इतीत्त्वं भवति घादीनामनचि क्ङिति, ततः `एर्लिङि' (6.4.37) `दान्यस्य संयोगादेः' (6.4.68) `न ल्यपि' (6.4.69), `मयतेरिदन्यतरस्याम्‌' (6.4.70); ततो यतीत्त्वं भवति--सोऽयमेव लगीयसा न्यासेन सिद्धे यद्धल्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः--`भवतीह विप्रतिषेधः' इति।।

43. ये विभाषा। (6.4.43)
असज्झलाद्यर्थ आरम्भः। `जायते, जन्यते' इति। भावे लकारः। `जाजायते' इति। यङ्‌, `दीर्घोऽकितः' (7.4.83) इत्यभ्यासस्य दीर्घत्वम्‌। `जञ्जन्यते' इति। `नुगतोऽनुनासिकान्तस्य' (7.4.85) नुगागमः `सायते, सन्यते' इति। भावे कर्मणि वा लकारः। जनेः श्यन्यपि विभाषाऽऽत्त्वेन भवितव्यमिति कस्यचिद्‌ भ्रान्ति स्यात्‌, अतस्तां निराकर्तुमाह--`जनेः श्यनि' इत्यादि। जनेर्दिवादित्वात्‌ श्यनि विहिते सत्युमयं प्राप्नोति, अनेन विभाषाऽऽत्त्वम्‌, `ज्ञाजनोर्जा' (7.3.79) इति जाभावश्च, तत्र जादेशस्यानवकाशत्वात्‌ स एव नित्यं भवति। तेन श्यनि `जायते' इत्येवं नित्यं भवति, न तु कदाचित्‌ `जन्यते' इति।।

44. तनोतेर्यकि। (6.4.44)

45. सनः क्तिचि लोपश्चास्यान्यतरस्याम्‌। (6.4.45)
अस्यग्रहणमनन्तरस्य क्तिचो लोपो मा भूत; व्यवहितस्यापि नलोपो यथा स्यादित्येवमर्थम्‌। अथ क्रियमाणेऽप्यस्यग्रहणे कस्मादेव क्तिचो लोपो न भवति? अस्यग्रहणसामर्थ्यात्‌। अथान्यतरस्यांग्रहणं किमर्थम्‌, यावता `विभाषा' (6.4.46) इत्यनुवर्तते? इत्याह--`अन्यतरस्यांग्रहणम्‌' इत्यादि। कथं पुनर्विभाषाग्रहणस्य निवृत्तिराशङ्क्यते, यतो विस्पष्टार्थमन्यतरस्यांग्रहँ कृतम्? इत्याह--`यकारसम्भन्धं हि' [ये सम्बबद्धं हि--काशिका] इत्यादि। तद्विभाषाग्रहणं यकारादिप्रत्ययस्य सम्बन्धेन। इह च `ये' इत्येतस्मिन्‌ निवृत्ते क्तिचो निमित्तान्तरस्योपादानातदतस्तान्निवृत्तौ विभाषाग्रहणमपि निवृत्तमिति कस्यचिदाशङ्का स्यात्‌, अतो विस्पष्टार्थमन्यतस्यांग्रहणं क्रियते।।
46. आर्धधातुके। (6.4.46)
`चिकीर्षिता' इति। सन्नन्तात्‌ तुच्‌। `भवति, भवतः' इति। `आर्धधातुके' इत्यधिकारात्‌ सार्वधातुकेऽत्र शपो लोपो न भवति। यद्यत्र शपो लोपो मा भूदित्येवमर्थ आर्धधातुकाधिकारः क्रियते, तर्हि न कर्तव्यः, ज्ञापकादेव शपो लोपो न भविष्यति, आचार्यप्रवृत्तिर्ज्ञापयति--`नानेन शपो लोपो भवति' इति यदयम्‌ `अदिप्रभृतिभ्यः शपः' (2.4.72) इति शपो लुकं शस्ति? इत्यत आह--`अदिप्रभृतिभ्यः' इत्यादि। इतिकरणो हेतौ। असति हि प्रयोजने ज्ञापकं भवति। अस्ति चादिप्रभृतिभ्यः शपो लुग्वचनस्य प्रयोजनम्‌। किं तत्‌? `वित्तः' इत्यत्र गुणो मा भूत्‌। यदि `वित्तः' इत्यत्र लोपः स्यात्‌, प्रत्ययलक्षणेन `पुगन्तलघूपधस्य' (7.3.86) इति गुणः स्यात्‌। `मृष्टः' इत्यत्र `मृजेर्वृद्धिः' (7.2.114) लुकि तु सति न भवति, `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्‌। तस्माददिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षमप्रतिषेधार्थं स्यादिति न ज्ञापकं शपो लोपाभावस्य।
`बेभिदिता' इति। यङो लोपः। `बेभिद्यते' इत्यत्र शपि सार्वधातुके न भवति।
`कारणा' इति। `ण्यासश्रन्थो युच्‌' (3.3.107)। `कारयति' इति शपि सार्वधातुके न भवति।
`पपतुः, पपुः'। `ववतुः' ववुः' इति। अतुसुसौ। पातेर्वातेश्च `आतो लोप इटि च' (6.4.64) इत्यकारलोपः।
`दीयते धीयते' इति। आर्धधातुके यकीत्त्वम्‌। `अदाताम्‌ अधाताम्‌' इति। लुङ, `तस्थस्थ' (3.4.101) इति तसस्ताम्‌; `गातिस्था' (2.4.77) इत्यादिना सिचो लुक्‌। `स्नायात्‌, स्नेयात्‌' इति। स्नातेराशिषि लिङ, तस्य `लिङाशिषि' (3.4.116) इत्यार्धधातुकसंज्ञा, यासुट्‌, `स्कोः संयोगाद्योः' (8.2.29) इत्यादिना सकारलोपः। `आशीर्लिङोऽक्यत्र न भवति' इति। आशीर्लिङोऽन्यद्‌ विष्यादिलिङः, तत्र न भवति; तस्य सार्वधातुकसंज्ञकत्वात्‌। तेन तत्र नित्यं `स्नायात्‌' इत्येवं भवति। अत्र `लिङः सलोपोऽनन्त्यस्य' (7.2.79) इति सकारलोपः।
`कारिषीष्ट' इति। आशिषि लिङः, सीयुट्‌, `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्‌, `सुट्‌ तिथोः' (3.4.107) इति सुट्‌ चिण्वद्भावाद्वृद्धिः। `क्रियेत' इति। विष्यादिलिङः। पूर्ववदात्मनेपदम्‌, सार्वधातुके यक्‌, सीयुडीकरेण सह `आद्गुणः' (6.1.87) `लोपो व्योर्वलि' (6.1.66) इति यकारलोपः, `रिङशयग्लिङक्षु' (7.4.28) इति रिङादेशः। अत्र चिण्वद्भादेन यो दोषः स्यात्‌ तं `यगन्तस्य' इत्यादिना दर्शयति। यद्यत्र चिण्वद्भावात्‌ वृद्धिः स्यात्‌, ततश्च `आतो युक्‌ चिण्कृतोः' (7.3.33) इति युक्‌ प्रसज्येत।
`अतो लोपो यलोपश्च' इत्यादि। आर्धधातुकाधिकारप्रयोजनसंग्रहश्लोकः। गतार्थः।
नन्वत्र `भ्रस्जो रोपधयो रमन्यतरस्याम्‌' (6.4.47) इति रम्‌, `दीङो युडचि क्ङिति' (6.4.63) इति युडार्धधातुकाधिकार एव विधास्यते, तत्‌ कस्मात्‌ तौ तत्र प्रयोजनत्वेन नोपात्तौ? एवं मन्यते--भ्रस्जो रम्भाव आर्धधातुकाधिकारं न प्रयोजयति, स, तु तुदादौ पठ्यते, ततः सार्वधातुके परतः शेन भवितव्यम्‌। शे च सति पूर्वविप्रतिषेधाद्‌ ग्रहिजयादि (6.1.16) सूत्रेण सम्प्रसारणेन भवितव्यम्‌। युडपि नैव प्रयोजयति, दीङो हि दिवादित्वात्‌ सार्वधातुके श्यना भवितव्यम्‌। ततोऽजादित्वाभावादेव युडागमस्याभाव एव। `आर्धधातुके' इति यदार्धधातुकसामान्यं विवक्ष्यते, तदा सामान्ये पौर्वापर्यासम्भवात्‌ विषयसप्तमीयम्‌। यदार्धधातुकव्यक्तिस्तदा परसप्तमी। प्रतिपादितञ्चास्मभिः `न धातुलोपः' (1.1.4) इत्यत्र ज्ञापकद्वारेण परसप्तमीत्वं विषयसप्तमीत्वञ्चास्येति।।

47. भ्रस्जो रोपधयो रमन्यतरस्याम्‌। (6.4.47)
रमयं यदि रेफोपधयोः स्थाने स्यात्‌ मित्त्वमनर्थकं स्यात्‌ अथायं रमागमोऽचोऽन्यात्‌ परो भवति रेफोपधयोः अवणमापद्येत? इत्येतच्चोद्यमाशङ्क्याह--`रोपधयोः' इत्यादि। मित्त्वाद्रमनेनावश्यमचोऽन्त्यात्‌ परेण भवितव्यम्‌, अन्यथा तदनर्थकं स्यात्‌। तत्र यदि रेफोपधयोः श्रवणं स्यात्‌ `रोपधयोः' इति षष्ठीनिर्देशोऽनर्थकः स्यात्‌। तस्मात्‌ षष्ठीनिर्देश एव तयोर्निवृत्तिमाचष्टे। तस्या ह्येतदेव प्रयोजनम्‌--षष्ठ्या निर्दिरुयमानस्य यो धर्मो निवृत्तिः, सा यथा स्यात्‌। न ह्यन्यत्‌ षष्ठीनिर्देशस्य प्रयोजनमस्ति। तस्मान्मित्त्वादचोऽन्त्यापरो भवति रम। षष्ठीनिर्देशसामर्थ्याद्‌ रेफोपधे स्थानिधर्मनिवृत्तिं प्रतिपद्येते। `भ्रष्टा' इति। `भ्रस्ज पाके' (धा.पा.1284) व्रश्चादिसूत्रेण (8.2.36) षत्वम्‌। `भ्रज्जनम्‌' इति। सकारस्य जश्त्वम्‌--दकारः, तस्यापि श्चुत्वम्‌--जकारः।
अथेह कस्मान्न भवति--भृष्टः, भृष्टवान्‌? इत्याह--`भृष्टः, भृष्टवान्‌' इत्यादि। रमोऽवकाशः--भर्ष्टा, भ्रष्टाः सुम्प्रसारणस्यावकाशः--`भृज्जति' इति, इहोभयं प्राप्नोति--भृष्टा, भृष्टवानिति, ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणमेव भवति पूर्वविप्रतिषेधेन। पूर्वविप्रतिषेधश्चेष्टवाचित्वात्‌ परशब्दस्य लभ्यते।
`बरीभृज्यते' इति। यङ्। `रीगृदुपधस्य' (7.4.90) इति रोगागमः। `अत्र उपदेश' (6.4.45) इत्यतो हि यदन्तरस्यांग्रहणं प्रकृतं, तत्‌ सनादिसम्बद्धम्‌, इह च सनादेर्निवृत्तिः। अतस्तन्निवृत्तौ तस्यापि निवृत्तिराशङ्क्येत। अनन्तरयोगस्य चान्यार्थत्वात्‌, तत्रान्यतरस्यांग्रहणस्य प्रयोजनाभावात्‌।
अथ भ्रस्जो भर्जेत्येवं कस्मान्नोक्ततम्‌? अशक्यमेवं वक्तुम्‌। एवं ह्युच्यमाने `प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणं भवति' (व्या.प.77) इति यङ्लुगन्तादार्थधातुक उत्पन्ने सत्यभ्यासस्य भ्रस्जो भर्ज्जादेशः स्यात्‌? नैष दोषः; उपदेशग्रहणेन भ्रज्जिं विशेषयिष्यामः--`उपदेश यो भ्रज्जिः' इति। श्तिपा निर्देशोऽत्र वा करिष्यते--भृज्जतेर्भजं इति; तेन यङःलुगन्तस्य ग्रहणं न भविष्यति। एतमपि `भुज्जयते' इत्यत्र प्राप्नोति, भवति ह्यत्रोपदेशे भ्रस्जिरिति? नैतदस्ति; अत्र हि पूर्वविप्रतिषेधात्‌ सम्प्रसारणेन भवितव्यम्‌, यथा--भृष्ट इत्यत्र। एवं तर्हि वैचित्र्यार्थ तथा नोक्तम्‌।।

48. अतो लोपः। (6.4.48)
`धिनुतः, कृणुतः' इति। `हिवि दिवि धिवि प्राणनार्थाः' (धा.पा.591,592,593), `कृवि हिंसाकरणयोः' (धा.पा.598) इदित्वान्नुम्‌, लट्‌, तस्‌, `धिन्विकृण्व्योर च' (3.1.80) इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्यानेन लोपः। अथ तपकरणं किमर्थम्‌, यावता धातेत्यत्र मा भूत्‌? ननु च `आतो लोप इटि च' (6.4.64) इति नियमार्थ भविष्यति--आकारस्येट्येवाजादौ क्ङिति लोपो भवति? नैतद्सित; विपरीतनियमोऽपि सम्भाव्येत--आत एवेटि क्ङिति नान्यस्येति। तथा च चिकीर्षितेत्यत्र न स्यात्‌। तस्माद्‌ विपरीतनियमसम्भावनानिवृत्त्यर्थ तपरकरणम्‌। विस्पष्टार्थं वा।
`वृद्धिदीर्धाभ्याम्‌' इत्यादि। `अचो ञ्णिति' (7.2.115) इत्यस्यावकाश--कारयति, हारयति, अतो लोपस्यावकाशः--चिकीर्षिता, जिहीर्षितेति; इहोमयं प्राप्नोति--चिकीर्षकः, जिहीर्षक इति, अतो लोप एव भवति पूर्वविप्रतिषेधेन। `अकृत्सार्वधातुकयोर्दीर्घः' (7.4.25) इत्यस्यावकाशः---चीयते, लूयत इति, अतो लोपस्यावकाशः स एव; इहोभयं प्राप्नोति--चिकीर्ष्यते, जिहीर्ष्यत इति, लोप एव भवति पूर्वविप्रतिषेधेन।।

49. यस्य हलः। (6.4.49)
`बेभिदिता' इति। यङ्न्तादार्धधातुकं तृच्‌, तस्मिन्‌ परतो यशब्दस्य लोपः। `यस्य' इतीदं वर्णनिर्देशो वा स्यात्‌ यकाराकारग्रहणं वा? तत्र यद्याद्यः पक्ष आश्रीयेत तदोर्ष्यिता, मव्यितेत्यत्रापि स्यादिति द्वितीयं पक्षमाश्रीत्याह--`यस्येति सङ्घातग्रहणम्‌' इति। कुत एतत्‌? निर्देशात्‌। यदि वर्णग्रहणं स्यात्‌, तदा `यो हलः' इत्येवं ब्रूयात्‌। यदि तर्हि सङ्घातग्रहणम्‌? एवं तर्हि `अलोऽन्त्यस्य' (1.1.52) इत्यन्त्यस्य स्यादित्यत आह--`तत्रालोऽन्त्यस्य' इत्यादि। कस्मान्न प्रवर्तते? इत्याह--`अतो लोपः' इत्यादि। पूर्वेणाप्यलोऽन्त्यस्य लोपः सिद्धः, तत्रारम्भसामर्थ्यात्‌ सर्वस्य भवति।
`हल इति वा' इत्यादिना परीहारान्तरमाह। `हलः' इति पञ्चमीनिर्देशः, तत्र `हल उत्तरो यो यशब्दस्तस्य लोपः' इत्युच्यमाने `आदेः परस्य' (1.1.54) इति वचनाद्‌ यकारस्यैवनेन लोपो भवति। अकारस्य तु `अतो लोपः' (6.4.48) इत्यनेन।
`ईर्ष्यिता, मव्यित'[`भव्यिता' इति न्यासमद्रितपाठः] इति। `सूर्क्ष्यं इक्ष्यं ईर्ष्य ईर्ष्यार्थाः' (धा.पा.509,510,511), `मव्य बन्धने' (धा.पा.508)। अत्र सङ्घातात्मको यशब्दो न भवतीति न प्रवर्तते लोपः। `लोलुयिता' इति। यङः, `गुणो यङलुकोः' (7.4.82) इति गणः।।

50. क्यस्य विभाषा। (6.4.50)
`क्य' इति क्यच्क्यङोरुत्सृष्टानुबन्धयोः सामान्येन ग्रहणम्‌; विशेषानुपादानात्‌। `समिधमिवात्मानमाचरति' इति। वेति वाशब्दः समुच्चये वर्त्तमानः समिदिवाचरतीत्यमुमर्थं ग्राहयति। `यथायोगम्‌' इति। यदात्मनः समिधमिच्छतीत्यर्थो विवक्ष्यते, तदा `सुप आत्मनः क्यच्‌' (3.1.8) इति क्यच्‌ कर्त्तव्यः, यदा समिधमिवात्मानामाचरतीति तदा `उपमानादाचारे' (3.1.10) इति क्यजेव, यदा समिदिवाचरतीति तदा `कर्तुः क्यङ्‌ सलोपश्च' (3.1.11) इति क्यङ्--इत्येष यथायोगशब्दार्थः।।

51. णेरनिटि। (6.4.51)
`णेः' इति। णिङणिचोर्विशेषकरावनुबन्धावुबन्धावुत्सॄज्य यत्‌ समान्यं णिमात्रं तस्य ग्रहणम्‌। इयङादिभिः सर्वस्य विषयस्यावष्टब्धत्वादनवकाशीऽयं णिलोपस्तेषामपवादोऽयं विज्ञायत इत्यत आह--`इयङ्यण्‌' इत्यादि। `अततक्षत्‌, अररक्षत्‌' इति। तक्षिरक्षिभ्यां हेतुमण्णिच्‌, तदन्तालुङ्‌ `णिश्रिदुस्रुभ्यः (3.1.48) इत्यादिना च्लेश्चङ्‌, ङित्त्वाद्‌ गुणस्य प्रसङ्ग एव नास्तीतीयङादेशः स्यात्‌। अतस्तस्यापवादो णिलोपः। `आटिटत्‌, आशिशत्‌'। अट्यशिभ्यां पूर्वं णिजादिषु कृतेषु `अजादेर्द्वितीयस्य' (6.1.2) इति टिशब्दशिशब्दौ द्विरुच्येते। अत्र `एरनेकाचः' (6.4.82) इत्यादिना प्राप्तस्य यणादेशस्यायमपवादः। `कारणा, हारणा' इति। अत्र `सार्वधातुकार्धधातुकयोः' (7.3.84) इति प्राप्तस्य गुणस्य। `कारकः, हारकः' इति। अत्र `अचो ञ्णिति' (7.2.115) इति वृद्धेः। `कार्यते, हार्यते' इति। अत्र `अकृत्सार्वधातुकयोः' (7.4.25) इति प्राप्तस्य दीर्घस्य। `ज्ञीप्सति' इति। `अज्झनगमां सनि' (6.4.16) इति प्राप्तस्य दीर्घस्यैव। जानातेर्णिचि `अर्त्तिह्री' (7.3.36) इत्यादिना पुक्‌, `मारणतोषणनिशामनेषु ज्ञा' (धा.पा.811) इति घटादिपाठात्‌ `घटादयो मितः' (ग.सू.धा.पा.817) इति मित्संज्ञा, `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वम्‌, `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यभ्यासलोपः।
`कारयिता, हारयिता' इति। `अनिटि' इति वचनादिह न भवति। `अनिटि' इति शक्यमकर्तुम्‌। कथम्‌? `निष्ठायां सेटि' (6.4.52) इति नियमार्थं भविष्यति--निष्ठायामेव सेटि, नान्यत्रेति? अयुक्तमेतत्‌, विपरीतनियमोऽप्याशङ्क्येत--`सेट्येव निष्ठायाम्‌' इति। तथा च सति `कारयिता' इत्यत्र स्यादेव णिलोपः। तस्माद्विपरीतनियमाशङ्कानिरासार्थं `अनिटि' इत्युक्तम्‌।।

52. निष्ठायां सेटि। (6.4.52)
`गणितम्‌, लक्षितम्‌' इति। `गण संख्याने' (धा.पा.1853) `लक्ष दर्शनाङ्कनयोः' (धा.पा.1538)।
`संज्ञपितः पशुः' इति। ननु चात्र यदि `सेटि' इति वचनादनेन न भवितव्यम्‌, तदा पूर्वसूत्रेण कस्मान्न भवति? इत्याह--`सेङ्ग्रहणसामर्थ्यात्‌' इत्यादि। यदि ह्यनिटि पूर्वेण णिलोपः स्यात्‌ सेङ्ग्रहणमनर्थकं स्यात्‌, `निष्ठायाम्‌' इत्येवं ब्रूयात्‌, आरम्भसामर्थ्यादेव हि सेङर्थो भविष्यति। तस्मात्‌ सेङ्ग्रहणसामर्थ्यात्‌ पूर्वेणापि `संज्ञापितः पशुः' इत्यत्र णिलोपो न भवति। कथं पुनरत्र सेङ्‌ निष्ठा न भवति? इत्याह--`सनीवन्तर्ध' इत्यादि। `अथ' इत्यादि। अथ `यस्य विभाषा' (7.2.15) इत्यत्र `एकाच उपदेशेऽनुदात्तात्‌' (7.2.10) इत्यत्र एकाज्ग्रहणमनुवर्तते, ततोऽनेकाच्त्वाज्ज्ञपेः प्रतिषेधाभावाद्‌ भवितव्यमिडागमेन निष्ठायाम्‌। तस्मात्‌ सेङ्ग्रहणमनर्थकं स्यात्‌; व्यावर्त्त्याभावात्‌। ननु च `ज्ञप्तः' इत्यत्र मा भूदित्येवमर्थं सेङ्ग्रहणं भविष्यति? नैतदस्ति; क्रियमाणेऽपि सेङ्ग्रहणे `वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः' (7.2.27) इति निपातानादत्र भवितव्यमेव णिलोपेन।
यदि तर्ह्यनर्थकं सेङ्ग्रहणम्‌, तत्‌ किमर्थं क्रियते? इत्याह--`तत्‌ क्रियते' इत्यादि। पूर्वमिडागमे कृते सेटि निष्ठायां जातायां पश्चाण्णिलोपो यथा स्यादित्येवमर्थं सेङ्ग्रहणं कृतम्‌। कः पुनरकृत इटि णिलोपे सति दोषः स्यात्‌, यन्निवृत्त्यर्थं पूर्वमिडागम इष्यते? इत्याह--`अकृते हि' इत्यादि। असति सेङ्ग्रहणे कारित इति स्थिते णिलोपः प्राप्नोति, इट्‌ च्‌, तत्र कृताकृतप्रसङ्गित्वेन णिलोपेनैव भवितव्यम्‌; णिलोपे च सत्येकदेशविकृतसयानन्यत्वात्‌ स एवायं करोतिरिति `एकाच उपदेशेऽनुदात्तात्‌' (7.2.10) इतीट्‌प्रतिषेधः प्रसज्येत, ततश्च `कारितम्‌' इत्येतन्न सिद्ध्येत्‌। तस्मात्‌ सेङ्ग्रहणं कर्त्तव्यम्‌।।

53. जनिता मन्त्रे। (6.4.53)
`इङादौ णिलोपो निपात्यते' इति। `जनिता' इति तृजन्तम्‌, तत्र `अनिटि' इति प्रतिषेधादिडादौ न न प्राप्नौति, अतो निपात्यते। ह्रसवत्वन्तु `जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' (ग.सू.धा.पा.817) इति मित्संज्ञकत्वात्‌ `मितां ह्रस्वः' (6.4.92) इत्यनेनैव सिद्धम्‌।।

54. शमिता यज्ञे। (6.4.54)
`शमितः' इत्यत्र पूर्धवद्‌ ह्रस्वत्वम्‌। `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः, हल्ङ्यादिना (6.1.68) सुलोपः, रेफस्य विसर्गः। `तृचि सम्बुद्ध्यन्तमेतत्‌' इति। निष्ठान्तमेतदिति कस्यचिदाशङ्का स्यात्‌, अतस्तां निराकर्तुमिदमुक्तम्‌। `शमयितः' इत्येतदपि तृचि सम्बुद्ध्यन्तम्‌।।

55. अयामन्ताल्वाय्येन्त्विष्णुषु। (6.4.55)
`कारयाञ्चकार' इति। `कास्प्रत्ययात्‌' (3.1.35) इत्यादिनाम्‌, `आमः' (2.4.81) इति लेर्लुक्‌, `कृञ्च' (3.1.40) इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः द्विर्वचनमब्यासकार्यम्‌। `गण्डयन्तः, मण्डयन्तः' इति। `गडि सेचने' (धा.पा.777) [`गड' धा.पा.(गडि वदनैकदेशे--धा.65,361)] `मडि भूषायाम्‌' (धा.पा.321), हेतुमण्णिच्‌, गडेर्घटादित्वाम्मित्त्वे सति पूर्ववद्‌ ह्रस्वत्वम्‌। `जृवृषिब्यां झच्‌' (द.उ.6.17)[`जृविशिभ्यां--द.उ.] इत्यनुवर्त्तमाने `तॄभूवहिवसभासिसाधिगमिमण्डिजिनन्दिभ्यश्च' (द.उ.6.19) [तॄभूवहिवसिभासिसाधिगडिमण्डिजिवन्दिभ्यश्च--द.उ.] इति झच्‌, अन्तादेशः। `स्पृहयालुः, गृहयालुः' इति। `स्पृह ईप्सायाम्‌' (धा.पा.1871) `गृह ग्रहणे' (धा.पा.1899) चौरादिकावदन्तौ, `अतो लोपः' (6.4.48) इत्यकरलोपः, तस्य स्थानिवत्त्वाल्लधूपधगुणाभावः, `स्पृहि गृहि' (3.2.158) इत्यादिनाऽऽलुच्‌। `स्पृहयाय्यः' इति। `तनुदक्षिस्पृहिगृहिभ्य [श्रुदक्षिस्पृहिगृहिभ्य आय्यः--पं.उ.] आय्यः' (पंउ.3.96) इति आय्यप्रत्ययः। `स्तनयित्नुः' इति। `स्तत गदी देवशब्दे' (धा.पा.1859,1860) चुरादावदन्तः, `अतो लोपः' (6.4.48)। तत्रकारलोपस्य स्थानिवद्भावात्‌ `अत उपधायाः' (7.2.116) इति वृद्धिर्न भवति। `स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्‌' [स्तनिहृषिपुषिगदिमदिधुषिगन्धिमडिजनिनदिभ्यो णेरित्नुच्‌--द.उ.] (द.उ.1.140) इतीलुष्प्रत्ययः। `पोषयिष्णवः, पारयिष्णवः' इति। `पुष पुष्टौ' (धा.प.700) हेतुमाण्णिच्‌, `पार तीर कर्मसमाप्तौ' (धा.पा.1911,1912), चुरादिणिच्‌, `णेश्छन्दसि' (3.2.137) इतीष्णुच्‌।
अथ `न' इत्येवं कस्मान्नोक्तम्‌, णिलोपे हि प्रतिषिद्धे गुण एव स्यात्‌, तत्र `एचोऽयवायावः' (6.1.78) इत्ययादेशो भविष्यति; लधु चैवं सूत्रं भवति, `अय' इत्युच्यमाने मात्राधिक्येन सूत्रं गुरु भवतीति मत्वाऽऽह--`न इतिवक्तव्ये' इत्यादि। `ल्यपि लघुपूर्वात्‌' (6.4.56) इत्यत्र गुणाभावादयादेशो न स्याद्यदि नेत्युच्यते। तस्मादुत्तरार्थमयादेशवचनम्‌।।

56. ल्यपि लघुपूर्वात्‌। (6.4.56)
`लधूपूर्वात्‌' इति। लघुः पूर्वो यस्मादिति बहुव्रीहिः। वर्णोऽन्यपदार्थः। `प्रणमप्य, प्रतमय्य, प्रदमय्य, प्रशमय्य' इति। अत्र नमादीनां मित्त्वात्‌ पूर्ववद्‌ ह्रस्वत्वे कृते मकारो लघूपूर्वः। `प्रवेभिदय्य गतः' इति। भिदेर्यङन्ताण्णिच्‌। `यस्य हलः' (6.4.49) इति यकालोपः। अत्रापि दकारो लघूपूर्वः। `प्रगणय्य' इति। `गण संख्याने' (धा.पा.1853), चुरादावन्तः पूर्धवदल्लोपः। अत्रापि णकारो लघूपूर्वः।
ननु ह्रस्वादय एवा भाच्छास्त्रीयाः, अयादेशोऽपि; तत्र `असिद्धवदत्रा भात्‌' (6.4.22) इति ह्लस्वादीनामसिद्धत्वाल्लधुपूर्वत्वं मकारादेर्वर्णस्य नोपपद्यते? इत्यत आह--`ह्रस्वयलोपाल्लोपानाम्‌' इत्यादि। कथमसमानाश्रयत्वम्‌? इत्याह--`ह्रस्वादयो हि' इत्यादि।
अथ पूर्वग्रहणं किमर्थम्‌, न लघोरित्येवोच्येत? अशक्यमेवं वक्तुम्‌; एवमुच्यमाने लघोरुत्तरस्य णेर्ल्यप्ययादेशो भवतीत्येष वाक्यार्थः। तथा च `प्रतमय्य' इत्यादौ न स्यात्‌, हला व्यवधानात्‌। क्व तरहि स्यात्‌? `प्रगणय्य' इत्यादौ। ननु चात्राप्यतो लोपे कृते लघोरुत्तरो णिनं सम्भवत्येव, तत्र वचनसामर्थ्याद्ध्यवधानमाश्रयिष्यते? नैतदेवम्‌; वचनसामर्थ्याद्भूतपूर्वगतिराश्रायिष्यते। कृत एतल्लभ्यते--वचनसामर्थ्याद्ध्यवधानमाश्रयितव्यम्‌, न तु भूतपूर्वगतिरिति? भूतपूर्वगतावाश्रीयमाणायां `प्रगणय्य' इत्यादादेव स्यात्‌, `प्रणमय्य गतः' इत्यादौ तु न स्यात्‌। तस्मात्‌ पूर्वग्रहणं कर्त्तव्यम्‌।।

57. विभाषाऽऽपः। (6.4.57)
`प्रापय्य' इति। `आप्लृ लम्भने' (धा.प.1839), `आप्लृ व्याप्तौ' (धा.पा.1260) द्वयोरपि ग्रहणम्‌। पूर्धकश्चुरादिः, अपरः स्वादिः।
अथ `अध्याप्य गतः' इत्यतर कस्मान्न भवति, अत्रापि `क्रीङजीनां णौ' (6.1.48) इतीङ आत्त्वे कृते `अर्त्तिह्री' (7.3.36) इत्यादिना पुक्याप उत्तरो णिर्भवति? इत्यत आह--`इङादेशस्य' इत्यादि। यद्येवम्‌, `अप आचष्टे' इत्यप्शब्दाण्णिचि कृते `प्रापय्य' इत्यादि न स्यात्‌, लाक्षणिकत्वादेव मा भूदनेन, पूर्वेण सूत्रेण भविष्यति, ननु चैकादेशे कृते सत्यलघुपूर्वत्वान्न प्राप्नोति? एकादेशस्यासिद्धत्वान्न दोषः। कथम्‌? `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.पा.42) इति बहिरङ्गत्वन्त्वेकादेशस्य द्विपदाश्रयत्वात्‌। अयादेशस्य पुनर्णिमात्राश्रयत्वादन्तरङ्गत्वम्‌।।

58. युप्लुवोर्दीर्घश्छन्दसि। (6.4.58)
`यु मिश्रणे' (धा.पा.1033) [मिश्रणेऽमिश्रणे च--धा.पा.] `प्लुङः गतौ' (धा.पा.958) अनयोर्धात्वोस्तुकि प्राप्ते दीर्घाथं वचनम्‌।।

59. क्षियः। (6.4.59)
`छन्दसि' इति निवृत्तम्‌। `क्षियः' इति `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति `क्षि क्षये' (धा.पा.236) `क्षि निवासगत्योः' (धा.पा.1407) इत्यनयोर्ग्रहणम्‌, न `क्षिष्‌ हिंसायाम्‌' (धा.पा.1506) [`क्षीष्‌'--धा.पा.] इत्यसय।।

60. निष्ठायामण्यदर्थ। (6.4.60)
`ष्यतः कृत्यस्यार्थो भावकर्मणी' इति। तयोरेव कृत्यक्तखलर्थाः' (3.4.70) इति वचनात्‌। `ताभ्यामन्यत्र' इति। कर्त्तर्यधिकरणे च। `आक्षीणः' इति। `क्षियो दीर्घात्‌' (8.2.46) इति निष्ठानत्वम्‌। `अकरमकात्‌ क्षियः कर्तरि क्तप्रत्ययोऽयम्‌' इति। `गत्यर्थ'(3.4.72) इत्यादिना।
`प्रक्षीणमिदं देवदत्तस्य' इति। `अधिकरणवाचिनश्च' (2.3.68) इति कर्त्तरि षष्ठी। `अधिकरणे' इति। क्तप्रत्ययोऽयमिति प्रकृतेन सम्बन्धः। प्रक्षीयतेस्मिन्निति प्रक्षीणम्‌--अधिकरणभूतं द्रव्यमुच्यते। `क्षितमिति भावे' इति। अस्यापि पूर्ववत्सम्बन्धः। कर्मणि न प्रत्युदाहरति; क्षियोऽकर्मकत्वात्‌।।

61. वाऽऽक्रोशदैन्ययोः। (6.4.61)
`क्षितायुः' इति। पूर्ववत्‌ कर्तरि क्तः। एवमुतरत्रापि। `क्षितकः' इति। अनुकम्पायां कन्‌। आकोशदैन्याभ्यामन्यत्र पूर्वेण नित्यं भवति।
अण्यदर्थ इति किम्‌? क्षितं जाल्मस्य, क्षितकमस्य तपस्विनः।।

62. स्यसिच्सीयुद्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च। (6.4.62)
`स्यसिच्सीयुट्तासिषु' इति सप्तम्या प्रतियोगिनो निर्देशाच्चिणीव चिण्वदिति सप्तमीसमर्थाद्वतिर्विज्ञायते, यथा--मथुरावत्‌ पाटलिपुत्रे प्रकार इति। `भावकर्मविषयेषु' इति। अनेन `भावकर्मणोः इत्यस्य विषयसप्तमीत्वं दर्शयति। भावकर्मणी विषयौ येषान्ते तथोक्ताः के पुनः स्यादयो भावकर्मविषयाः? ये स्यादयो लादेशेन भावकर्मणोर्विवक्षितयोर्भवतन्ति। चकारोऽत्र सन्नियोगार्थः क्रियते। तेन यदा चिण्वद्भावो इत्यादि। `कस्य' इति। षष्ठीनिर्दिष्टस्य ह्यागमा भवन्ति, स्यादयश्चेह सप्तम्या निर्दिष्टाः; न चान्य आगमीश्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, न चान्य आगमी श्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, तथापि यथा `हनश्च वधः' (3.3.76) इति पञ्चमी निर्दिष्टोऽपि हन्तिः प्रत्ययमुत्पाद्यदेशेन सम्बन्धमनुभवन्‌ षष्ठ्यन्ततां प्रतिपद्यते तथा स्यादयोऽपि यदागमेन सम्बन्धमनुभवन्ति तदा षष्ठ्यन्ततां प्रतिपद्यन्त इत्यभिप्रायेणाह--`स्यसिच्‌' इत्यादि। अत्रैव हेतमाह--`ते हि प्रकृताः' इत्यादि। इडयमागमलिङ्गः, तस्यावश्यमागमिना भवितव्यम्‌, तत्‌ किमश्रुतानामागमित्वं परिकल्प्य, तस्यैव विधीयतामुत प्रकृतानामेव स्यादीनामिति? युक्तं यत्‌ प्रकृतानामेव विधीयते; अश्रुतप्रकल्पनाया गरीयस्त्वात्‌। ननु चाङ्गमपि प्रकृतम्‌, तस्य कस्मान्न क्रियते? इत्यत आह--`अङ्गस्य' इत्यादि। अङ्गस्य न क्रियते, लक्ष्यविरोधात्‌। यद्यङ्गस्य स्यात्‌, तदेटि कृते लक्ष्यावरधादनिष्टं स्यात्‌। न ह्यनण्टार्था शास्त्रे प्रक्लृप्तिरयुक्ता। तस्मान्मा भूल्लक्ष्यविरोध इति यद्यप्यङ्गमपि प्रकृतम्‌, तथापि स्यादीनामेव क्रियते, नाङ्गस्य।
इह द्वौ पक्षौ सम्भवतः--चिण्निमित्तं यत्कार्यं, यदाहत्य चिणि विधीयते तद्वातिदिश्यते। यद्वा चिणियद्दृष्टं चिण्णिमत्तमचिण्णिमित्त्ञ्च तत्‌ सामान्येन। तत्र यदि पर्वकः पक्ष आश्रीयेत, तदा `आतो युक्‌ चिण्कृतोः' (7.3.33) इति युगागमः। `विण्णमुलोर्दोर्घोऽन्यतरस्याम्‌' (6.4.93) इति दीर्घत्वञ्च--एते द्वे एवाङ्गकार्येऽतिविश्ये स्याताम्‌। नान्यात्‌ वृद्ध्यादिकम्‌, न हि तदाहत्य चिणि विधीयते। आहत्य=उच्चार्येत्यर्थः। यद्धि साक्षाच्चिणं निमित्तमुपादाय विधीयते तच्चिण्याहत्य विधीयते, न चैवं वृद्ध्यादिकं विधीयते। अथ द्वितीयस्ततो न भवत्येष दोषप्रसङ्गः; वृद्ध्यादीनामपि चिणि दृष्टत्वात्‌।
यदि चिणि यद्दृष्टं तदतिदिश्यते, तर्हि हनिणिङामादेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वादिति? अनेनाभिप्रायेणाह--`कानि पुनः' इत्यादि।
द्वितीये पक्षे यो दोषस्तमुत्तरत्र परिहरिष्यामीति चेतसि कृत्वा चिणि यद्दृष्टं कार्यं तन्निमित्तमितरद्वा तदिह सामान्येन निर्दिश्यत इति दर्शयन्नस्य योगस्य यानि प्रयोजनानि तेषां संग्रहश्लोकसमाह--`वृद्धिश्चिण्वत्‌' इत्यादि।
`चायिष्यते' इत्यत्र वृद्धिः प्रयोजनम्‌। चिनोतेर्लुट्‌, स्यप्रगतययः। `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्‌, अत्रेदानीं चिण्वद्भावाद्‌ वृद्धिर्भवति यथा--चिणि `अचो ञ्णिति' (7.2.115) इति वृद्धिर्भवत्य चायीति, एवमुत्तरत्रापि चिण्वदित्येतस्य प्रत्येकमभिसम्बन्धं कृत्वा यथायोगमतिदेशो योजनीयः। `अचायिष्यते' इति। लुङः, शेषं पूर्ववत्‌। युक्‌ च प्रयोजनम्‌--`दायिष्यते' इत्यत्र। दीर्घश्चोक्तो यो मितां वा चिणोति स च। प्रयोजनं शमिष्यते, शामिष्यत इत्यत्र। शमेः `जनिजृष्क्नसुरञ्जोऽमन्ताश्च' (धा.पा.817) इति मित्संज्ञा, स च ण्यन्तः `सनाद्यन्ता धातवः' (3.1.32) इत्यत्रोपदिष्ट इत्युपदेशेऽजन्तो भवति। यत्तु हन्तेः `हो हन्तेञ्चिन्नेषु' (7.3.54) इति कुत्वं विधास्यते, तच्च प्रयोजनं `घानिष्यते' इत्यत्र। हनिष्यत इत्यत्र तु `ऋद्धनोः स्ये' (7.1.70) इतीट्‌।
सन्त्येतानि प्रयोजनानि, किन्त्वनेनेटि कृते शमिष्यते, शमिष्यत इत्यत्र `णेरनिटि' (6.4.51) इति णिलोपो न सिद्ध्यतिः सेट्त्वात्‌। अत आह--`इट्‌ चासिद्धः' इत्यादि। `असिद्धवदत्रा भात्‌' (6.4.22) इत्यसिद्धेऽयं चिण्वदिट्‌, तेन णिलोपो भविष्यति। स्यादेतत्‌--येऽनुदात्तोपदेशाश्चिनोत्यादयस्तेभ्यः परेषां स्यादीनामनेनेङ्विधीयत इति युक्तमसिद्धत्वम्‌, ये तूदात्तोपदेशाः शमिप्रभृतयस्तेम्यः परत्वात्‌ `आर्धधातुकस्येङ्वलादेः' (7.2.35) इति वल्निमित्तेनेटा भवितव्यम्‌, स च सिद्ध एव; तस्मिंस्तु तदवस्थ एव दोषः? इत्यत आह--`नित्यश्चायम्‌' इत्यादि। कृताकृतप्रसङ्गी यो विधिः स नित्यः--इत्येतदाश्रित्यायं चिण्वदिण्नित्यः। कृतेऽपि हि वलादित्वस्य विहितत्वात्‌। `वल्निमित्तो विधाती' इति। वल्‌ निमित्तं कारणं यस्य स तथोक्तः। विघातोऽस्यास्तीति विघाती। विघातः=निमित्ताभावादप्रवृत्तिः। तदेवं नित्यत्वादुदात्तेभ्योऽप्यनेनैव चिण्वदिटा भवितव्यम्‌, अयञ्चासिद्ध इति न भवति णिलोपाभावप्रसङ्गः।
`ग्राहिष्यते' इति। `अत उपधायाः' (7.2.116) इति वृद्धिः प्रयोजनम्‌। अथेह `ग्रहोऽलिटि दीर्घः' (7.2.37) इति दीर्घः कस्मान्न भवति? इत्याह--`ग्रहोऽलिटि' इत्यादि। वलादिलक्षणस्तत्रेट्‌ प्रकृत इति तस्यैव दीर्घो विज्ञायते, नान्यस्य। `द्रक्ष्यते' इति। `सृजिदृशोर्झल्यमकिति (6.1.58) इत्यमागमः, व्रश्चादिना (8.2.36) षत्वम्‌ `षङोः कः सि' (8.2.41) इति कत्वम्‌ `इण्कोः (8.3.57) इति षत्वम्‌। `दर्शिष्यते' इति। `पुगन्तलघूपधस्य' (7.3.86) इत्यनेनात्र गुणः सिद्ध्यत्येव। इडर्थस्तु चिण्वद्भावो विधीयते।
`अचेषाताम्‌' इति। आताम्‌, सिचि रूपम्‌। `अदिषाताम्‌' इति। `स्थाध्वोरिच्च' (1.2.17) इतीत्त्वम्‌, सिचश्च कित्वम्‌। `अवधिषाताम्‌' इति। `आत्मनेपदेष्वन्यतरस्याम्‌' (2.4.44) इति वधादेशः। `अदृक्षाताम्‌' इति। `लिङसिचावात्मनेपदेषु' (1.2.11) इति कित्त्वम्‌। तेनामागमगुणौ न भवतः, षत्वादि पूर्ववत्‌।
`चेता' इति। लुट्‌, तासिः, `लुटः प्रथमस्य डारौरसः' (2.4.85) इति डादेशः, टिलोपः। `द्रष्टा' इति। पूर्ववदमादिः। `चेतव्यम्‌' इति। कर्मणि तव्यः। `चेष्यति' इति। अत्र कर्तुर्लादेशेन विवक्षित्वात्‌ कर्तृविषयः स्यप्रत्ययः।
`गुणे कृते रपरत्वे च न प्राप्नोति' इति। कृ ष्यत इति स्थिते गुणः प्राप्नोति, चिण्वद्भावश्च; तत्र परत्वाद्गुणः, तत्र कृते रपरत्वम्‌। यद्युपदेशग्रहणं न क्रियेत ततोऽनजन्तत्वादिह न स्यात्‌। उपदेशग्रहणाद्भवति। यद्यपि करोतिरुत्तरकालमनजन्तः, उपदेशे त्वजन्त एव।
यदि चिणि यद्दृष्टं कार्यं तदतिदिष्टं हनिणिङादेशा अपि प्राप्नुवन्ति। तेषामपि तन्न दृष्टत्वात्‌? इत्यत आह--`अङ्गाधिकारविहितम्‌' इत्यादि। `अङ्गस्य' इत्यधिकारे सति प्रत्यसत्तेरङ्गाधिकारे विहितं कार्यं यच्चिणि दृश्यते सामान्येन तदतिदिश्यते, न तु यद्विप्रकृष्टं प्रकरणान्तरविहितम्‌। न च हनिणिङामादेशा अङ्गाधिकारे विहिताः, अपि तु प्रकरणान्तरे। तस्मान् तेऽतिदिश्यन्त इति न भवन्ति तत्र। `धानिष्यते' इत्यत्र `लुङि च' (2.4.43) इत्यनेन विहितो वधादेशो न भवति। `आयिष्यते' इति। `इणो गा लुङि' (2.4.45) इत्यनेन विहितो गादेशः। `अध्यायिष्यते' इति। अत्र `विभाषा लुङ्लृङोः' (2.4.50) इत्यनेन विहितौ गाङादेशः। एवमपि स्यादिभ्यः परस्य प्रत्ययसय लुक्‌ प्राप्नोति; अङ्गाधिकारे चिण उत्तरसय प्रत्ययस्य `चिणोलुक्‌' (6.4.104) इति लुग्विधानात्‌? नैष दोषः; इह हि सप्तमीसमर्थाद्विहितस्य वतेराश्रयणम्‌। तेन चिणि यद्दृष्टं कार्यं पूर्वस्य सम्भवति तदतिदिश्यते, न तूत्तरस्य यत्‌ कार्यं तदपि।।

63. दीङो युडचि क्ङिति। (6.4.63)
`उपदिदीये' इति। `दीङ क्षये' (धा.पा.1134), `असंयोगाल्लिट्‌ कित्‌' (1.2.5) इति कित्त्वम्‌, लिटस्तझयोरेशिरेचौ।
`दीङः' इति षष्टीयं वा स्यात्‌, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा `आद्यन्तौ टिकितौ' (1.1.46) इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्यते; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह--`दीङ इति पञ्चमीनिर्देशात्‌' इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमनिर्देशो बलीयान्‌' (शाक.प.97) इति `दीङः' इति पञ्चम्याः `अचि' इति सम्पम्याः षष्ठीत्वे प्रकल्पते `तस्मादित्युत्तरस्य' (1.1.67) इत्यजादेरादिर्युडागमो भवति। `अचि' इति सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः' (6.4.82) इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्‌, ततश्चोपदिदीय इति न सिद्ध्येत्‌, `उपदिद्ये' इत्यनिष्टं रूपं प्राप्नोति, अत आह--`विधानसामर्थ्यात्‌' इत्यादि। यदि यणादेशे कर्त्तव्ये युटोऽसिद्धत्वं स्यात्‌, तदा युटो विधानमनर्थकं स्यात्‌; विशेषाभावात्‌। कथं पुनर्विशेषाभावः, यावताऽसति हि युट्येकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्‌।
`उपदेदीयते' इति। `दीङ क्षये' (धा.पा.1134), `असंयोगाल्लिट्‌ कित्‌' (1.2.5) इति कित्त्वम्‌, लिटस्तझयोरेशिरेचो।
`दीङः' इति षष्टीयं वा स्यात्‌, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा `आद्यन्तौ टकितौ' (1.1.46) इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्येत; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह--`दीङ इति पञ्चमीनिर्देशात्‌' इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमीनिर्देशो बलीयान्‌' (शाक.प.97) इति `दीङः' इति पञ्चम्याः `अचि' इति सप्तम्याः षष्ठीत्वे प्रकल्पिते `तस्मादित्युत्तरस्य' (1.1.67) इत्यजादेरादिर्युडागमो भवति। `अचि' इति। सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः' (6.4.82) इति यणादेशे कर्त्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्‌, ततश्चोपदिदीय इति न सिद्ध्येत्‌, `उपदिद्ये' इत्यनिष्टं रूपं प्राप्नोति। अत आह--`विधानसामर्थ्यात्‌' इत्यादि। यदि यणादेशे कर्त्तव्ये पुटोऽसिद्धत्वं स्यात्‌, तदा युटो विधानमनर्थकं स्यात्‌; विशेषाभावात्‌। कथं पुनर्विशेषाभावः, यावताऽसति हि युट्येकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य का हला श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्‌।
`उपदेदीयते' इति। यङः। `उपदानम्‌' इति। ल्युट्‌, `मीनातिमिनोतिदीङीं ल्यपि च' (6.1.50) इत्यात्त्वम्‌। `दीङ' इत्यनुबन्धनिर्देशो यङलुकि मा भूदित्येवमर्थः--देद्यतु, देद्युरिति। ननु चात्र `कास्प्रत्ययादाममन्त्रे' (3.1.35) इत्यामा भवितव्यम्‌, तेनाक्ङित्वादेव न भविष्यति? सत्यमेतत्‌; अमन्त्रे न भविष्यति, मन्त्रे तु स्यादेव; तत्रामोऽभावात्‌। अथ यङ्लुगन्तस्य मन्त्रे प्रयोगो न दृश्यते, तदा विस्पष्टार्थम्‌।।

64. अतो लोप इटि च। (6.4.64)
`इट्यजादावार्धधातुके क्ङिति च' इति। `अजादावार्धधातुके' इति प्रत्येकमभिसम्बध्यते--इट्यजादावार्धधातुके, क्ङिति चाजादावार्धधातुक इति। इङ्ग्रहणमक्ङिदर्थम्‌। `पपिथ' इति। पातेः विबतेर्वा लिट्‌, सिप्‌, `परस्मैपदानाम्‌' (3.4.82) इत्यादिना तस्य थल्‌ `ऋतो भारद्वाजस्य' (7.2.63) इति नियमादिट्‌। `गोदः' इति। `आतोऽनुपसर्गे कः' (3.2.3)।
`व्यत्यरे, व्यत्यले' ति। `कर्त्तरि कर्मव्यतीहारे' (1.3.14) इत्यात्मनेपदम्‌ उत्तमपुरुषैकवचनम्‌--इट्‌, तस्य `सार्वधातुकमपित्‌' (1.2.4) इति ङित्त्वम्‌। तत्रार्धधातुकत्वं नास्तीति न भवति लोपः।
`ग्लायते' इति। भावे लकारः। `दासीय' इति। आशिषि लिङः, आत्मनेपदोत्तमैकवचनम्‌, तस्य `इटोऽत्‌' (3.4.106) इत्यदादेशः। अत्र सीयुटस्तद्भक्तत्वादिटोजादित्वं नास्तीति सत्यपयार्धधातुकाजादीत्वे लोपाभावः।।

65. ईद्यति। (6.4.65)
`क्ङिति' इत्युत्तरार्थमनुवर्तमानमपीह नाभिसम्बध्यते; यत क्ङित्त्वासम्भवात्‌। तकार उच्चारणार्थः; अनण्त्वादेव हि सवर्णग्रहणं न भविष्यति। असत्यपि वा जातिपक्षे सवर्णग्रहण आन्तरम्याद्दीर्घ एव भविष्यति; न ह्रस्वः। दीर्घोच्चारणमुत्तरार्थम्‌। इह तु गुणेन भवितव्यम्‌। न चात्र दीर्घस्य ह्रस्वस्य वा गुणे कृते कश्चिद्विविशेषोऽस्ति। `देयम्‌' इति। `अचो यत्‌' (3.1.97)।।

66. घुमास्थागापाजहातिसां हलि। (6.4.66)
`दीयते' इति। कर्मणि लकारः। `देदीयते' इति। यङः। अथ मेति कस्येदं ग्रहणम्‌, किम्‌ `मेङ्‌ प्रणिदाने' (धा.पा.961) इत्यस्य भौवादिकस्य? उत्त `माङ्‌ माने' (धा.पा.1088) [`माने शब्दे च'--धा.पा.] इत्यस्य जौहोत्यादिकस्य? आहोस्वित्‌ `मा माने' (धा.पा.1062) इत्यस्यादादिकस्य? तत्र केचिदाहुः--`निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इत्यादादिकस्य ग्रहणम्‌। अन्ये त्वाहुः--`लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्‌' (व्या.प.50) इत्यलुग्विकरणयोर्माङमेङोरिति। अपरे ब्रुवते--`गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति त्रयाणामपीति; एतदेव वृत्तिकारस्याभिमतमिति लक्ष्यते। तथा हि--`पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात्‌' इति। ब्रुवता `पा रक्षणे (धा.पा.1056) इत्यस्य ग्रहणाभावः स्वयमेवोक्तः। यदि चात्रालुग्विकरणयोर्लुग्विकरणस्य वा ग्रहणमभिमतं स्यात्‌, तदपि प्रतिपादयेत्‌, न च प्रतिपादितम्‌, अतोऽवगम्यते--त्रयाणामापि ग्रहणमभिमतमिति। `गा' इति। `गाङ गतौ' (धा.पा.950) `के गै शब्दे' (धा.पा.916,917) एतौ भौवादिकौ; `गा स्तुतौ छन्दसि' (धा.पा.1106) [`छन्दसि' नास्ति--धापा.] इति जौहोत्यादिकः, `इणो गा लुङि' (2.4.45) इतीणो गादेशः, `इण्वादिक इति वक्तव्यम्‌' (वा.167) इतीको गादेशः `गाङ्‌ लिटि' (2.4.49), `विभाषा लुङ्लृङो (2.4.50) इति चेङो गाङादेशः--एषां पूर्ववत्‌ सर्वेषामविशेषेण ग्रहणम्‌। सत्यपि सर्वेषां ग्रहणे यस्य क्ङिदार्धधातुकपरं सम्भवति तस्यैवेत्त्वं भवति, नेतरस्य; निमित्ताभावात्‌। `गीयते, जेगीयते' इति। भौवादिकयोरुदाहरणे। `अध्यगीष्ट' इत्यादि। इङो गाङ्‌, गाङ्कुटादि(1.2.1) सूत्रेण सिचो ङित्त्वम्‌, `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः।
अथ किमर्थं `जहाति' इति स्तिपा सिर्देशः क्रियते, न हेत्येवोच्येत? इत्यत आह--`जहातेः' इत्यादि। यदि हेति निर्देशः क्रियते, तदा जिहातेः `ओ हाङ गतौ' (धा.पा.1089) इत्यस्यापि स्यात्‌, जहातीति निर्देशे तु न भवति। अत्र हिनिर्देशे सात यस्यैतद्रूपं भवति तस्यैव ग्रहणेन भवितव्यम्‌। कस्य चैतद्रूपम्‌? `ओ हाक्‌ त्यागे' (धा.पा.1090) इत्यस्य, इतरसय `भृञामित्‌' (7.4.76) इत्यभ्यालस्येत्त्वे कृते जिहातीति रूपं भवतीति। कामं हागित्यपि निर्देशे न भवति जिहीतेः प्रसङ्गः, वैचित्र्यार्थस्तु न तथा निर्देशः कृतः।
`अवसीयते' इति। `षोऽन्तकर्मणि' (धा.पा.1147)।
`ददतुः' इत्यादि। ननु चात्र `आतो लोपः' (6.4.64) इत्यादिनाकारलोपो भविष्यति, तत्‌ किमेतन्निवृत्त्यर्थेन हलीत्यनेन? इत्यत आह--`आतो लोपाद्धि' इत्यादि। आतो लोपस्यावकाशः--ययतुः, ययुरिति, ईत्त्वस्यावकाशः---दीयते, धीयत इति; इहोभय प्राप्नोति--ददतुः ददुरिति। तत्र यदि हल्ग्रहणं न क्रियेत, तदा परत्वादीत्त्वं स्यात्‌। ननु सिद्धयोर्द्वयोर्विप्रतिषेध उपपद्यते, इह तु `असिद्धवदत्रा भात्‌' (6.4.22) इति द्वयोरप्यसिद्धत्वम्‌, तत्‌ कुतो विप्रतिषेधः, अस्मिंश्च सति परत्वादीत्त्वं स्यादिति न युक्तं वक्तुम्‌, तथा हि--`विप्रतिषेधे परं कार्यम्‌' (1.4.2) इत्युक्तम्‌? अत आह--`एतदेव' इत्यादि। यद्यत्र विप्रतिषेधे कर्त्तव्येऽसिद्धत्वं स्यात्‌, हल्ग्रहणमनर्थकं स्यात्‌। भवत्वत्रेत्त्वम्‌, तस्यासिद्धत्वात `आतो लोपः' (6.4.64) भविष्यति, तत्‌ किं हल्ग्रहणेन? तदेतत्कथमर्थवद्भवति? यदि विप्रतिषेधे कर्त्तव्ये सिद्धत्वं स्यात्‌ नान्यथा।।

67. एर्लिङि। (6.4.67)
`पूर्वेणेत्त्वे प्राप्त एत्वं विधीयते। `मेयात्‌' इति। `मा माने' (धा.पा.1062) इत्यस्येदम्‌दाहरणम्‌, न तु माङ् मेङोः, तयोर्ह्यात्मनेपदित्वात्परस्मैपदं न सम्भवति। `गेयात्‌' इति। `कै गै' (धा.पा.916,917) इत्यस्योदाहरणम्‌, न तु गाङः; तस्य परस्मैपदासम्भवात्‌। नापीणिगिङादेशानाम्‌; तेषामपि लिङ्यसम्भवात्‌। इङादेशस्य तु पूर्वस्माच्च हेतोः।।

68. वाऽन्यस्य संयोगादेः। (6.4.68)
`अन्यस्येति किं? `स्थेयात्‌' इति। यद्यन्यस्येति न क्रियेत, तदा पूर्वयागोऽन्येषु ध्वादिषु सावकाशः, अयमपि ग्लायादित्यादिषु; स्थेयादित्यत्रोभयप्राप्तौ परत्वादनेन विकल्पः स्यादित्यन्यग्रहणम्‌।
यदि पूर्वयोगस्तिष्ठ्यत्यर्थोऽप्यारभ्येत तदा तदर्थस्य तस्यारम्भसामर्थ्यात्‌ पूर्वेण नित्यमेत्त्वं भविष्यति, अन्यथां तदर्थस्य तस्यारम्भो निष्फलः स्यादिति शक्यमन्यग्रहणमकर्तुम्‌। तत्‌ क्रियते विस्पष्टार्थम्‌।।

69. न ल्यपि। (6.4.69)
वेति निवृत्तम्‌; उत्तरसूत्रे पुनरन्यतस्यांग्रहणात्‌। `यदुक्तम्‌' इति। ईत्त्वम्‌, न पुनरनन्तरमेत्त्वम्‌; तस्य ल्यपि प्राप्त्यभावात्‌। प्रतिषेधस्य च प्राप्तिपूर्वकत्वात्‌।।

70. मयतेरिदन्यतरस्याम्‌। (6.4.70)
`न ल्यपि' (6.4.69) इति प्रतिषेधादाकारस्य श्रवणे प्राप्ते सतीत्त्वमारभ्यते। `अपमित्य' इति। `मेङ्‌ प्रणिदाने' (धा.पा.961)। `उदीचां माङी व्यतीहारे' (3.4.19) इति क्त्वा, इत्त्वे कृते तुक्‌। ननु च `अपमित्ययाचिताभ्यां कक्कनौ' (4.4.21) इति निपातनात्‌ सिद्धमेतत्‌ तदपार्थकोऽयमारम्भः? नैतदस्ति; `चाधकान्यपि निपातनानि भवन्ति' (नी.प.वृ.109) इति पक्षे अपमायेति न स्यात्‌। `माङ्‌ माने' (धा.पा.1088) [`माने शब्दे च'--धा.पा.] इत्यस्य भविष्यतीति चेत्‌? न; अर्थभेदात्‌। अथापि `अबाधकान्यपि निपातनानि' (नौ.प.वृ.110) स्युः? एवमप्यारब्धव्यमेवेदमसन्देहार्थम्‌? असति ह्यस्मिन्‌ सन्देहः स्यात्‌--किं मयतेरिदं निपातनम्‌, अथ धात्वन्तरस्येति। उपसर्गनियमश्च विज्ञायेत--अपपूर्वस्यैवेति। अस्मिंस्तु सत्यन्योपसर्गस्यापि भवतीत्येतदर्थो युक्त आरम्भः।।

71. लुङ्लङ्लृङ्क्ष्वडुदात्तः। (6.4.71)
`उदात्तश्च स भवति' इति। आगमानुदात्तत्वे प्राप्त उदात्तत्वं विधीयते। एतच्चोदात्तवचनम्‌ अभेदका इह शास्त्रे गुणाः` (पु.प.वृ.57) इत्यस्यार्थस्य ज्ञापकम्‌। कथं कृत्वा? यदि च भेदका गुणाः स्युः, तदोदात्तयुक्तेनैवाटं समुच्चारयेत्‌। पश्यत्वाचार्यः--`अभेदका इह शास्त्रे गुणाः' इति, यतः स्वरान्तरनिवृत्त्यर्थमुदात्तवचनं कृतवान्‌। किमेतस्य ज्ञापनेन प्रयोजनम्‌? `वृद्धिरादैच्‌' (1.1.1) इत्यत्रोदात्तादिभेदभिन्नानामपि वृद्धिसंज्ञा सिध्यतीति।।

72. आडजादीनाम्‌। (6.4.72)
`ऐक्षिष्ट, ऐहिष्ट' इति। `ईक्ष दर्शने' (धा.पा.610) `ईह चेष्टायाम्‌' (धा.पा.632)--अनुदात्तेतौ, `आटश्च' (6.1.90) इति वृद्धिः। `औब्जीत्‌ `औम्भीत्‌' इति। `उब्ज आर्जने' (धा.पा.1303), `उभ उन्भपूरणे' (धा.पा.1319,1320), `आर्धधातुकस्येट्‌' (7.2.35), `अस्ति सिचोऽपृक्ते' (7.3.96) इतीट्‌ `इट ईटि' (8.2.28) इति सिचो लोपः।
अथैज्यत, औप्यत, औह्यतेत्यत्र कथमाट्‌; यतो यजिवपिवहिभ्यो लङः विहितः कर्मणि, ते च हलादयः, नाजादयः। न च शक्यते वक्तुम्‌--सम्प्रसारणे कृतेऽजादित्वं भविष्यतीति। यस्मात्‌ प्रागेव लादेशात्‌ परत्वादडागमेन भवितव्यम्‌, ततो लादेशेन, ततो यका, ततः सम्प्रसारणेन? इत्यत आह--`इह' इत्यादि। यद्यप्यडागमः परः, तथाप्यन्तरङ्गत्वादादेशस्य पूर्व स एव क्रियते। लादेशो हि धातोर्विहितं लकारमात्रमपेक्ष्य भवतीत्यन्तरङ्गः। अडागमस्तु लकारविशेषम्‌; अङ्गस्य विधीयमानत्वात्‌। अङ्गञ्च प्रत्ययमपेक्षत इति बरिरङ्गः। पूर्वोत्पत्तिनियित्तोपलक्षणमात्रं चेहान्तरङ्गत्वम्‌, तेन नित्यत्वमप्युक्तं भवति। लादेशो हि नित्यः, कृतेऽप्यटि प्राप्नोति, अकृतेऽपि; अडागमस्त्वनित्यः, शब्दान्तरप्रप्तेः। कृते हि लादेशे नित्यत्वाद्विकरणेन भवितव्यम्‌। विकरणे च कृते विकरणान्तरस्याङ्गस्य तेन भवितव्यम्‌, अकृते तु धातुमात्रस्य। तस्मादन्तरङ्गत्वान्नित्यत्वाच्चाडागमात्पूर्वं लादेशः क्रियते। `तत्र कृते' इति। लादेशे कृते। `विकरणः' इति। यक्‌। `नित्यत्वात्‌' इति। कृताकृतप्रसङ्गित्वेन विकरणस्य नित्यत्वम्‌। स हि कृतेऽप्यटि प्राप्नोति, अकृतेऽपि। स्यादेतत्‌--अडागमोऽपि कृते विकरणे प्राप्नोति अकृतेऽपि, अतस्तस्यापि नित्यत्वम्‌, तत्रोभयोर्नित्यत्वे परत्वादडागम एव पूर्वं भविष्यति? इत्यत आह--`शब्दान्तरप्राप्तिः' इत्यादि। कथं पुनः शब्दान्तरप्राप्तिः? इत्याह--`कृते हि' इत्यादि। अङ्गस्याडागमो विधीयते; कृते च विकरणे तदादिग्रहणस्य स्यादिति नुमर्थत्वाद्विकरणान्तमङ्गे भवति, अकृते तु धातुमात्रम्‌। अन्यच्च विकरणान्तादङ्गाद्धातुमात्रमङ्गम्‌, अतोऽन्यसय कृते प्राप्नोति, अकृते त्वन्यस्य इति स्फुटैव शब्दान्तरप्राप्तिः, तत्रैतत्स्यात्‌। विकरणस्यापि शब्दान्तरप्राप्तेरेवानित्यत्वम्‌, तथा हि--तेनापि कृते सत्यडागमे तदादेर्धातोर्भवितव्यम्‌; अकृते धातुमात्रादित्यत आह--`शब्दान्तरस्य च' इत्यीदि। यद्यप्यटः कृताकृतयोरेवावस्थयोर्विकरमः शब्दान्तरात्‌ प्राप्नोति, तथापि न तस्यानित्यत्वमुपपद्यते, यस्मात्‌ `शब्दान्तरस्य प्राप्नुवन्‌ विधिरनित्यो भवति' (व्या.प.100) इत्येषा हि शास्त्रव्यवस्था; न तु `शब्दान्तरात्‌ प्राप्नुवन्‌ विधिरनित्यः' इत्येषा। न च विकरणः कस्यचिच्छब्दस्यागम आदेशो वा विधीयते; यतः `शब्दान्तरस्य प्राप्नुवन्‌ विधिरनित्यः' स्यात्‌। तथा हि--सार्वधातुके परे धातोः परः प्रत्ययो विधीयते, न तु तस्यागमः, आदेशो वेति कुतो विकरणस्यानित्यत्वम्‌।
विकरणे तर्हि कृते सम्प्रसारणात्पूर्वमाडागमो भविष्यति? इत्यत आह--`विकरणे कृते सम्प्रसारणम्‌' इत्यादि। नित्यत्वन्तु सम्प्रसारणस्य पूर्ववत्‌; कृताकृतप्रसङ्गित्वात्‌। आडागमस्तु कृते सम्प्रसारणे प्राप्नोति, कृते हि सम्प्रसारणेऽजादित्वादाटा भवितव्यमित्यनित्योऽयमाडागमः।।

73. छन्दस्यपि दृश्यते। (6.4.73)
`यतो विहितस्ततोऽन्यत्रापि भवति' इति। अपिशब्दात्‌ तत्रापि। `आवः' इति। गुणे रपरत्वपे च कृते तिपो हलङ्यादिना (6.1.68) लोपः, रेफस्य विसर्जनीयः। `तथा' इत्यादि। यथा `आवः' इति `मन्त्रे घसह्वर' (2.4.80) इत्यादिना लेर्लुकि कृते भवति, तथानगिति लेर्लुकि कृते नशेर्भवतीत्यर्थः। तत्र `नर्शर्वा' (8.2.63) इति कुत्वम्‌। `आयुनक्‌' इति। `युजिर्‌ योगे' (धा.पा.1444) रुधादित्वात्‌ श्नम्‌, `चोः कुः' (8.2.30) इति कुत्वम्‌--गकारः, तस्य चर्त्वम्‌--ककारः। `बहुलं छन्दस्यामाङ्योगेऽपि' (6.4.75) इति वक्ष्यति, तस्यैवायं प्रपञ्चः।।

74. न माङ्योगे। (6.4.74)
`अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इत्याट एवायं प्रतिषेध इति कस्यचिद्‌भ्रान्तिः स्यात्‌, अतस्तां निराकर्त्तुमाह--`माङ्योगे लुङलङलृङक्षु परतो यदुक्तं तन्न भवति' इति। एतोनोभयोरप्यडाटोः प्रतिषेध इति दर्शयति। उभावपि तौ लृङ्लङ्‌लृङ्क्षूक्तौ। कथं पुनर्द्वयोरपि प्रतिषेधो लभ्यते? आटाप्यत्रानुवृत्तेः। न च तस्मिन्ननुवर्तमाने सत्यजादीनामष्यट्‌ प्राप्नोतीत्येष दोषः प्रसज्यते; मण्डूकपलुतिन्यायेनात्राटोऽनुवृत्तेः। योगविभागाद्वा, अयमटोऽपि प्रतिषेध इत्यवसीयते; यदि ह्याट एव प्रतिषेधोऽभिमतः स्यात्‌ तदा `आडजादीनां न माङ्योगे' इत्येकमेव योगं कुर्यात।
अथ वा--`लुङ्लङ्लृङ्क्षु' (6.4.71) इत्येतावन्मात्रमनुवर्तते, तेन लुडादिषु यदुक्तं तस्य सर्वस्य प्रतिषेधो न विज्ञायते। न चैवमतिप्रसङ्ग; यतः प्रत्यागन्तेरस्मिन्नेव लुङलङ्लृङ्प्रकरणे यत्‌ कार्यं विहितं तस्यैव प्रतिषेधो लभ्यते, न सर्वस्य प्रकरणान्तरविहितस्य। अत्र तु प्रकरणेऽडाटावेव विहितौ, अतस्तयोरेव प्रतिषेधः।
`मा भवान्‌ कार्षीत्‌' इति। `माङि लुङ', (3.3.175) इति लुङः। `मा स्म करोत्‌' इति। `स्मोत्तरे लङः च' (3.3.176) इति लङः। `माङ्‌' इति ङ्कारानुबन्धवत उपादानम्‌--अस्मादादेशी यो माशब्दस्तस्य ग्रहणं मा भूदित्येवमर्थम्‌; अन्यथा `भवान्‌ सुखिनं मात्राकार्षींत्‌' इत्यत्रापि प्रतिषेधः स्यादिति केचित्‌। लाक्षणिकत्वादेवास्मदादेशस्याग्रहणमित्ययुक्तमेतत्‌। निपात एव त्वनयोऽङिन्माशब्दोऽस्ति--`मा बालिपथमन्वगाः'। `मा भवतु तस्य पापम्‌' इति तु यस्य प्रयोगस्तद्योगे प्रतिषेधो मा भूदित्येवमर्थं ङिद्विशिष्टस्य ग्रहणम्‌। योगग्रहणन्तु--योगमात्रे प्रतिषेधो यथा स्यादिति, तेन व्यवहितेऽपि भवति।।

75. बहुलं छन्दस्यामाङ्योगेऽपि।
`अमाङ्योगेऽपि न भवतः' इत्यादिना माङ्योगेऽपीत्यस्यार्थमाचष्टे। अत्र च वाक्यद्वयेऽपि `बहुलं छन्दसि' इत्येतत्सम्बध्यते। `बहुलं छन्दसि' इत्येतावतैव सिद्धेऽमाङ्योगेऽपीति वचनं विस्पष्टार्थम्‌। अनुच्यमाने ह्येस्मिन्‌ माङ्योगसय प्रकृतत्वात्‌ तत्रैव छन्दसि बहुलमडाटौ न भवत इत्याशंक्येत। `जनिष्ठाः' इति। जनेर्लुङ्, थास, इट्‌, षत्वम्‌ ष्टुत्वञ्च। `ऊनयीत्‌, अर्दयीत्‌' इति। `ऊन परिहाणे' (धा.पा.1888) `अर्द्द हिंसायाम्‌' (धा.पा.1828) चुरादी। `ह्यन्तक्षण' (7.2.5) इत्यादिना वृद्धिप्रतिषेधः। `इट ईटि' (8.2.28) इति सिचो लोपः, गुणायादेशौ । `अवाप्सुः' इति। `आप्लु व्याप्तौ' (धा.पा.1260) अवपूर्वः। `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुसादेशः। `मा अभित्थाः' इति। भिदेस्थास्‌, `झलो झलि' (8.2.26) इति सिचो लोपः। `माऽऽवः' इति। पूर्वमेव व्युत्पादितम्‌।।

76. इरयो रे। (6.4.76)
`दध्रे' इति। दधातेर्लिट्‌, `लिटस्थझयोरेशिरेच्‌' (3.4.81) इतोरेच्‌। तस्यानेन रयादेशः `आतो लोपः' (6.4.64) इत्याकारलोपः। `परिददृश्रे' इति। दृशः परिपूर्याल्लिडादिरातोलोपदर्ज विधेयः। अथ `दध्रे इत्यत्र कथमातो लोपः? यावता `दवा+हरे' इति स्थित आकारलोपः प्राप्नोति? रेभावश्च, तत्र परत्वाद्रेभावः; तस्मिन्‌ कृतेऽनजादित्वादाकारलोपो न प्राप्नोति? अत आह--`धाञो रेभावस्यासिद्धत्वात्‌' इत्यादि असिद्धत्वन्तु `्सिद्धवदत्रा भात्‌' (6.4.22) इत्यनेन।
`चक्रिरे' इति। कृञो रूपम्‌। ननु च रेभावे कृते दृशिप्रभृतयो ये लिटि सेटो धातवः, क्रादिमियमात्‌ तेभ्यो र इत्यस्येटि कृते ददृश्रे इति रूपं न सिद्धयेत्‌ ददृशिर इत्यादिना रूपेण भवितव्यम्‌, न च शक्यते वक्तुम्‌--रेभावविधानसामर्थ्यादिङ् न भविष्यति; रेभावस्थ क्रादिषु चारितार्थत्वात्‌ तेब्यो हि परस्य लिटः `कृसृ' (7.2.13) इत्यादिनेट्प्रतिषेधः? इत्यत आह--`अत्र' इत्यादि। कथं पुना रेभावो लभ्यते? इत्याह--`तदर्थञ्च' इत्यादि। इटि कृते पुना रेभावो यता स्यादित्येवमर्थमिरेश्च इरेश्चेत्येकशेषं कृत्वेरयोरिति द्विवचनेन निर्देशः। तेन यश्च झस्थान इरेच्‌ शब्दः क्रियते, यश्चेरे इत्यस्येटि कृते सत्युत्तरकालमिरेशब्दः सम्पद्यते, तयोरपि रेभावः सिद्धो भवति।।

77. अचि श्नुधातुभ्रुवां व्योरियङुवङौ। (6.4.77)
`आर्धधातुके' इति निवृत्तम्‌। कुतः? `समः क्ष्णुवः' (1.3.65), `क्षियः (6.4.59) इति निर्देशात्‌। ह्रस्वयोरिवर्णोयोरिदं ग्रहणम्‌। कु एतत्‌? तत एव निर्देशात्‌। अत्राण्‌ गृह्यमाणः सवर्णान्‌ ग्राहयतीति ह्रस्वौ गृहयमाणौ दीर्घावपि ग्राहयतः, तेन तदन्तस्यापि भवतः। `अचि' इति वर्णग्रहणम्‌ तत्र `यस्मिन्विधिस्तदादावलगरहणे' (व्या.प.127) इत्यजादौ विज्ञायत इत्याह--`अजादौ प्रत्यये' इति। प्रत्यय इत्येतत्‌ कृतो लभ्यते, अङ्गधिकारात्‌। अङ्गाधिकारो ह्यस्ति, प्रत्यसन्निधापितत्वात्‌। प्रत्यये हि परतोऽङ्गसंज्ञा विधीयते। यद्यजदौ प्रत्यय इयङुवङौ भवतः, नियौ, लुवौ--इत्यतर न प्राप्नुतः। अत्र ह्यजेव प्रत्ययः, न त्वजादिः? अत्रापि व्यपदेशिवद्भावे, नाजादित्वमस्तीत्यदोषः। `इवर्णोवर्णान्तस्य' इति। धातोरेवेदं विशेषणम्‌, नेतरयोः; व्यभिचाराभावात्‌, असम्भवाच्च। इवर्णोवर्णान्तता चाङ्गस्य ताभ्यां विशेषणाल्लभ्यते। इयङुवङोङकारोऽन्तादेशार्‌थः। असति त्वस्मिन्ननेकाल्वात्‌ सर्वस्याङ्गस्य स्याताम्‌। ननु च `निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इत्यन्तरेणापि ङ्कारमन्तवस्यैव भवतः? एवं तर्हि विस्पष्टार्थम्‌। `आप्नुवन्ति, राध्नुवन्ति' इति। `आप्लु व्याप्तौ' (धा.पा.1260), `राध साध संसिदौ' (धा.पा.1262,1263) स्वादित्वाच्श्नुः। शकारवतो ग्रहणं किमर्थम्‌? `दभाभ्यां नुः' (द.उ.य1.143) दानुः, भानुरित्यत्र मा भूत्‌। `चिक्षियतुः, चिक्षियुः' इति। त्रयाणामपि क्षिधातूनामन्यतमस्य रूपम्‌। `नियौ, नियः, `लुवौ, लुवः' इति। अत्र `क्विदन्ता धातूत्वं न जहति' (व्या.प.132) इति धातुत्वं वेदितव्यम्‌। तत्र नयतेः `सत्यूद्विष' (3.2.61) इत्यादिना क्विप्‌। लुनातेस्तु `अन्येभ्योऽपि दृश्यते' (3.2.178) इत्यनेन।
`इयङुवङ्भ्याम्‌' इत्यादि। गुणस्यावकाशः--चेतव्यम्‌, स्तोतव्यमित्यादि, इयङ्वङोः--चिक्षियतुः, चिक्षियुः, लुलुवतुः, लुलुवुरिति; इहोभयं प्राप्नोति--चयनम्‌, लवनमिति। विप्रतिषेधेन गुण एव भवति। वृद्धेरवकाशः--सखायौ, सखायः, गावौ, गाव इति; इयङुवङोः स एव; इहोभयं प्राप्नोति--चायकः, लावक इति। वृद्धिरेव भवति विप्रतिषेधेन।
`इयङुवङ्प्रकरणे' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्‌--`बहुलं छन्दसि' (6.4.75) इत्यादेः सूत्राद्बहुलग्रहणमनुवर्तते। तेन तन्वदीनां छन्दसि विकल्पेनेयङुवङौ भविष्यतः। `तन्वम्‌' इति। यत्रोवङ् नास्ति, तत्रामि परपूर्वत्वमपि नास्ति; बहुलवचनादेव। `विध्वम्‌, विषुवम्‌' इति। सूधातोः क्विप्‌; `उपसर्गा सुनोति' (8.3.65) इत्यादिना षत्वम्‌। `स्वर्गः, सुवर्गः' इति। `सु' इत्येतस्मादर्गशब्दे परत उवङादेशः। योगश्चायं यणादेशापवादः।।

78. अभ्यासस्यासवर्णे। (6.4.78)
`इयेष, उवोष' इति। `इषु इच्छायाम्‌' (धा.पा.1351) [`इष'--धा.पा.] `उष दाहे' (धा.पा.696)--आभ्यां लिट्‌ णल्‌। अत्र च द्विर्वचनं प्राप्नोति, `पुगन्तलघूपधस्य च' (7.3.86) इति गुणश्च, तत्र परत्वाद्गुणः--एष, ओष इति स्थिते `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावादिषुषित्येतयोर्द्विर्वचनम्‌, तत इयङ्वङौ। ननु च तयोः कर्तव्ययोः `अचः परस्मिन्‌ पूर्वविधौ' (1.1.57) इति स्थानिवद्भावात्सवर्णता नास्ति? नैतदस्ति; यो ह्यनादिष्ठादचः पूर्वस्तस्य विधी कर्तव्ये स्थानिवद्भावेन भवितव्यम्‌, आदिष्टाच्चात्राचः पूर्व एषोऽभ्यासः, तत्‌ कुतेऽत्र स्थानिवद्भावः। `इयर्ति' इति। `ऋ गतो' (धा.पा.1098) जुहोत्यादित्वाच्छपः श्लुः, अभ्यासस्य `उरत्‌' (7.4.66) इत्यत्त्वम्‌, `अर्तिपिपर्त्त्योश्च' (7.4.77) इतीत्त्वम्‌, तत इयङादेशः।
`ईयतुः, ईयुः' इति। `ऊवतुः उवुः' इति। `असंयोगाल्लिट्‌ कित्‌' (1.2.5) इति। कित्त्वाद्गुणाभावः, तेन सवर्णोऽज्न भवति।
`इयाज' इति। `उवाप' इति। यजिवप्योः `लिट्यभ्यासस्योभयेषाम्‌' (6.1.17) इति सम्प्रसारणम्‌।।

79. स्त्रियाः। (6.4.79)
`स्त्रियाः' इति। `आण्नद्याः' (7.3.112), `जातेरस्त्रीविषयादयोपधात्‌' (4.1.63) इति निर्देशान्नेदं स्त्रीप्रत्ययानां ग्रहणम्‌, नापि स्त्र्यर्थवृत्तेः शब्दस्येति निश्चित्य स्त्रीशब्दस्यैव स्वरूपेण ग्रहणमिति दर्शयितुमाह--`स्त्री इत्येतस्य' इत्यादि। इतिकरणः स्त्रीशब्दस्य स्वरूपपदार्थता दर्शयति। अथ षष्ठीबहुवचने कस्मान्न भवतीत्याह--`स्त्रीणाम्‌' इत्यादि। परत्वात्‌ षष्ठीबहुवचने नुटा भवितव्यम्‌, तस्मिंश्च सत्यजादिः परः प्रत्ययो न भवतीतीयङ न प्रवर्तते।
अथ किमर्थं पृथग्योगः क्रियते? न, `अचि श्नुधातुस्त्रीभ्रुवाम्‌' इत्येक एव योगः क्रियेतेति? अत आह--`प्रथग्योगकरणम्‌' इत्यादि। `वाऽम्शसोः' (6.4.80) इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्‌, धातुभ्रुवोर्माभूदित्येवमर्थं पृथग्योगकरणम्‌।।

80. वाऽम्शसोः। (6.4.80)

81. इणो यण्‌। (6.4.81)
अत्र पक्षद्वयं सम्भाव्यते--`इणः' इति प्रत्याहारग्रहणं स्यात्‌, धातुग्रहणं वा? तत्र `एरच्‌' (3.3.56) इति, `ओरावश्यके' (3.1.125) इति, `उरत्‌' (7.4.66) इत्यवमादिभ्यो निर्देशेभ्य एव नेदं प्रत्याहारग्रहणम्‌। अतः परिशेष्याद्‌धातुग्रहणमेवेदं विज्ञायते। णकारोच्चारणमिगिङोर्निवृत्त्यर्थम्‌। ये तु `इण्वदिकः' (वा.167) इति सामान्येनातिदेशमिच्छन्ति, तेषामिङ एव निवृत्त्यर्थम्‌। इकस्त्वधियन्तीति भवितव्यमेव यणा। अथ `नेणः' इत्येव कस्मान्नोक्तम्‌, इयङादेशेऽचि प्रतिषिद्धे सति `इको यणचि' (6.1.77) इति यण्‌ भविष्यति? सत्यमेतत्‌; उत्तरार्थन्तु यण्ग्रहणम्‌। `यन्ति' इत्यद्युदाहरणेष्वदादित्वाच्छपो लुक्‌। `आयन्‌' इति। लङ्‌ झोऽन्तादेशे संयोगान्तलोपः, असिद्धत्वादजादित्वादाट्‌। अथेह कस्मान्न भवति--अयनम्‌ आयक इति? अत आह--`इयङादेशापवादोऽयम्‌' इति। ननु यथेयङि प्राप्तोऽयमारभ्यते, तथा गुणवृद्ध्योरपि, तत्‌ कुत एतल्लभ्यते--अयमियङोऽपवादः, न गुणवृद्ध्योरित्याह--`मध्येऽपवादाः' इत्यादि। इतिकरणो हेतौ। यस्मात्‌ `मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्‌' (व्या.प.10), तस्मादियङ एव पूर्वस्य विधेरयमपवादः, न तु परयोर्गुणवृद्ध्योः यतश्चैतदेवं तेन गुणवृद्धिभ्यां तु परत्वाद्बाध्यते। अस्यावकाशः--यन्ति, यन्त्विति। `गुणवृद्ध्योः--चयनम्‌, चायक इति; अयनम्‌, आयक इत्यत्रोभयं प्राप्नोति। परत्वाद्यणं बाधित्वा गुणवृद्धी भवतः।।

82. एरनेकाचोऽसंयोगपूर्वस्य। (6.4.82)
`तेन संयोगो विशेष्यते' इति। ननु चान्यपदार्थे गूणीभूतत्वादुपसर्जनमत्र संयोगः। नचोपसर्जनं विशेषणेन सम्बन्धमनुभवति। तथा हि शोभनो राजपुरुष इत्युक्ते पुरुषस्येव प्रधानस्य शोभनत्वेन योगो गम्यते, नोपसर्जनस्य राज्ञः; नैतदस्ति; धातोरित्यनुवृत्तिसामर्थ्यादुपसर्जनमपि संयोगविशेषणेन सम्बन्धमनुभविष्यति, अन्यथा धात्वानुवृत्तिरपार्थिका स्यात्‌। न त्विवर्णविशेषणार्थं धातुग्रहणमिहानुवृत्तं स्यात्‌? नैतदस्ति; यदधातोरिवर्णान्तं तस्य हि भवितव्यमेव यणादेशेन `इको यणचि' (6.1.77) इत्यनेनेन। `निन्यतु; निन्युः' इति। नयतोर्लिट्‌। इयङादेशे प्राप्ते यणादेशः। `उन्न्यौ उन्न्यः' इति। उन्नयतीति `सत्सूद्विष' (3.1.61) इत्यादिना क्विप्‌। एवं `ग्रामण्यौ, ग्रामण्यः' इत्यत्रापि। `अग्रग्रामाभ्याञ्च' (वा?) इति णत्वम्‌।
`असंयोगपूर्वग्रहणम्‌' इत्यादि। यद्येरिति। नोच्येत, ततोऽसंयोगपूर्वङ्गस्य विशेषणं स्यात्‌, एवञ्च यवक्रियौ, यवक्रिय इत्यत्रापि स्यात्‌। भवति ह्येतदंसयोगपूर्वमङ्गम्‌, तस्मात्‌ `एः' इत्युच्यते। असंयोगपूर्वग्रहणमिकारस्य विशेषणं यथा स्यादङ्गस्य मा भूदित्येवमर्थम्‌। ननु च `य्वोः' इति प्रकृतम्‌, तत्र यद्येरिति नोच्येत, तदोवर्णान्तस्यापि स्यात्‌; ततश्च लुलुवतुः, लुलुवुरिति न सिद्ध्येत्‌। तस्मादुवर्णान्तस्य मा भूदित्येवमर्थमेरिति स्यादित्यत आह--`लुलुवतुः, लुलुवुः' इत्यादि। इहैरोरित्युच्यमाने, अनेनैवोवर्णस्यापि सिद्धे सति `ओः सुपि' (6.4.83) इति नियमर्थं स्यात्‌--उवर्णान्तस्य यदि भवति तदा सुप्येव, नान्यत्रेति। ततश्चास्मादेव नियमात्‌ ल्लुलुवतुः, लुलुवुरिति सिद्ध्यतीति एरित्येतदुवर्णान्तनिवृत्त्यर्थं नोपपद्यते। तस्मात्‌ पूर्वोक्तमेवास्य प्रयोजनं युक्तम्‌। `यवक्रियौ यवक्रियः" इति। यवान्‌ क्रीणातीति `अनेयभ्योऽपि दृश्यते' (3.2.187) इति क्विप्‌। अत्रेकारस्य धात्ववयवसंयोगपूर्वत्वान्न भवति। `इहापि न स्यात्‌' इति। यदि धातुना संयोगो न विशिष्येतेति शेषः। क्वचिदिहापि यथा स्यादिति पाठः। तत्र प्रकृतत्वाद्यणादेश इति विज्ञायते। यदि धातुनासंयोगो न विशिष्येत, तदा धात्ववयवोऽधात्ववयवो वा संयोगः पूर्वो यस्माद्भवति तदन्तस्य न भवतीति विज्ञायते। ततश्चोन्न्यौ, उन्न्य इत्यत्रापि न स्यात्‌; संयोगपूर्वत्वादिवर्णस्य। धातुना संयोगे विशेषिते तु भवति। न ह्यत्रेवर्णो धात्ववयवसंयोगपूर्वः। तस्मादिहापि यथा स्यादिदि धातुना संयोगो विशिष्यतदे।
`गतिकारकाभ्याम्‌' इत्यादि। अथ कथमिदं पुनरिष्यमाणमपि न भवति? पूर्वग्रहणात्‌। इह पूर्वग्रहणं न कर्त्त्यम्‌, `एरनेकाचोऽसंयोगात्‌' इत्येवोच्येत। तत्र, धात्ववयवसंयोगाद्य इवर्णः परो न भवति तदन्तस्याङ्गस्य यण्भवति--इत्येवं विज्ञायमाने सिद्ध्यत्येवेष्टमिति किं पूर्वग्रहणेन? तत्‌ क्रियते पूर्वाचार्यैः--यस्य विहितोऽयं यण्‌ तस्यैव कर्तव्यो नान्यस्येत्यस्यार्थस्य सूचनार्थम्‌। पूर्वाचार्याश्च क्विबन्तस्य गतिकारकपूर्वस्यैव कृतवन्तः, नान्यस्येति। तस्मादिहापि गतिकारकाभ्यामन्यपूर्वस्य न क्रियते। अथ वा `वाम्शसोः' (6.4.80) इत्यतो मण्डूकप्लुतिन्यायेन `वा इत्यनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गतिकारकाभ्यामन्यपूर्वस्य न भविष्यतीति। अस्मिंश्च व्याख्याने पूर्वग्रहणं विस्पष्टार्थं वेदितव्यम्‌। `परमनियौ' इति। `सन्महत्‌' (2.1.61) इत्यादिना समासः। अत्र परमशब्दो न गतिः, न च कारकमिति तत्‌ पूर्वस्य न भवति।।

83. ओः सुपि। (6.4.83)
`खलप्वौ' इति। खलं पुनातीति `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विप्‌। `शतस्वौ' इति। अत्रापि शतं सूत्र इति `सत्सूद्विष' (3.1.61) इत्यादिना क्विप्‌। `सकृल्ल्वौ' इति। `तोर्लि' (8.4.60) इति परसवर्णः। `कटप्रुवौ' इति। `प्रूङ्‌ गतौ' (धा.पा.957), [`प्रुङ्‌'--धा.पा.] `क्विब्‌ वचप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च' इति क्विप्‌, दीर्घत्वञ्च।
`ओः' इति स्पष्टार्थम्‌। अनुकारान्तनिवृत्यर्थन्तु न युज्यते; `य्वोः इत्यनुवृत्तेः। इकारस्य च पूर्वेणैव सिद्धो यण्‌--उन्न्यौ; ग्रामण्याविति।।

84. वर्षाभ्वश्च। (6.4.84)
`न भूसुधियोः' (6.4.85) इति प्रतिषेधे प्राप्ते तदपवादोऽयमारभ्यते। `वर्षाभ्यौ' इति। वर्षाशब्दाद्भवतेः क्विप्‌।
`पुनर्भ्वश्चेति वक्तव्यम्‌' इति। `नपुनर्भ्वित्येतस्याचि सुपि यणादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--चकारोऽत्रि क्रियते, स चानुक्तसमुच्चयार्थः। तेन पुनर्भ्वित्यस्यापि भविष्यतीति। `कारापूर्वस्यापीष्यते' इति। सोऽपि तत एव चकाराद्भवतीति वेदितव्यम्‌।।

85. न भूसुधियोः। (6.4.85)
भ्रूग्रहणेन तदन्तस्य ग्रहणम्‌, न केवलस्य। केवलस्य ह्येकाचो यणादेशप्रापत्यसम्भवादनर्थकं वचनं स्यात्‌। उवङादेशप्रतिषेधार्थत्वान्नानर्थकमिति चत्‌? न; एवं हि `वर्षाभ्वश्च' (6.4.84) इति यणादेशविधानमनर्थकं स्यात्‌, यदि ह्ययं यणादेशस्य प्रतिषेधः स्यात्‌--एवं हि तत्‌ सर्थकं भवति, नान्यथा? नैतदस्ति; उवङपरतिषेधार्थेऽपि ह्यस्मिंस्तन्नियमार्थं स्यात्‌। एवं तर्हि यणो यत्रानुवृत्तिस्तस्यैवायं प्रतिषेधो युज्यते। स चानेकाचो विहित इति केवलस्य ग्रहणं न प्राप्नोतीति युक्तमुक्तम्‌--भूग्रहणेन तदन्तस्य ग्रहणमिति।
`प्रतिभुवौ, प्रतिभुवः' इति। `भुवः संज्ञान्तरयोः' (3.2.179) इति क्विप्‌। `सुधियौ' इति। शोभनं ध्यायतीति `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विप्‌, `ध्यायतेः सम्प्रसारणञ्च' (वा.292) इत्युपसंख्यानात्‌ सम्प्रसारणम्‌।।

86. छन्दस्युभयथा। (6.4.86)

87. हुश्नुवोः सार्वधातुके। (6.4.87)
`यण्‌' (6.4.81) इति, `अनेकाचोऽसंयोगपूर्वस्य' (6.4.82), `ओः' (6.4.83) इति चानुवर्त्तेते। ननु च `हुरित्येतत्‌ श्नुप्रतययान्तञ्चाङ्गमुकारान्ततां न व्यभिचरत्येव, तत्‌ किमर्थम्‌ `ओः' इतीहानुवर्तते? असंयोगपूर्वग्रहणमुकारस्य विशेषणं यथा स्यादित्येवमर्थम्‌; अन्यथा `हुश्नुवोरेवैतद्विशेषणं विज्ञायेत। ततश्च `तक्ष्णुवन्ति' इत्यादावेव प्रतिषेधो विज्ञायेत। `राध्नुवन्ति' इत्यादौ तु यणादेशः स्यादेव। जुहोतेरपि--`जुह्वति' इत्यत्र संयोगपूर्वत्वाद्यणादेशो न स्यात्‌। ननु च धातुग्रहणमनुवर्त्तते, तत्रैवं विज्ञास्यते--धात्ववयवः संयोगः पूर्वः `क्विबन्ता धातुत्वं न जहति' (व्या.प.132) इति कृत्वा। अन्यथाप्यवयववचनं पूर्वशब्दमाश्रित्यैवं विज्ञायते--धात्ववयवः संयोगो यस्य पूर्वो न भवतीति? एवमपि राध्नुवन्तीत्यत्र यणादेशः स्यात्‌, न ह्यत्र श्नुप्रत्ययस्य धात्ववयवः संयोगपूर्वः। तस्मात्‌ `ओ' इत्येतदनुवर्तनीयम्‌, तद्विशेषणे हुश्नुवौ। तत्रासंयोगपूर्वग्रहणं श्नुप्रत्ययस्याववस्योकारस्य विशेषणं वेदितव्यम्‌, जुहोत्यवयवस्य; तस्याव्यभिचारात्‌। `श्नुप्रत्ययान्तस्यासंयोगपूर्वस्य' इति। व्यधिकरणे षष्ठ्यौ। श्नुप्रत्ययान्तस्याङ्गस्य योऽवयवोऽसंयोगपूर्व उकारः, तस्येत्यर्थः। `अनेकाचः' इत्येतज्जुहोतेः श्नुप्रत्ययान्तस्य समान्धिकरणं विशेषणं वेदितव्यम्‌। `सार्वधातुके' इति जुहोत्यर्थम्‌, न श्नुप्रत्ययान्तार्थम्‌; अव्यभिचारात्‌। `जुह्वति' इति। `अदभ्यस्तात्‌' (7.1.4) इत्यदादेशः। `योयुवति, रोरुवति' इति। `यु' `रु' इत्येताभ्यां यङ, तस्य `यङोऽचि च' (2.4.74) इति लुक्‌, `गुणो यङ्लुकोः' (7.4.82) इत्यभ्यासस्य गुणः, पूर्ववज्झेरवादेशः।
`इदमेव' इत्यादि। कथं पुनरिदं ज्ञापकम्? इत्याह--छन्दसि' इत्यादि। यदि च्छन्दस्येव यङ्लुक्‌ स्यात्‌, तदा `चन्दस्युभयथा' (6.4.86) इत्यार्धधातुकत्वादेव योयुवति, रोरुवतीत्यत्र न भविष्यतीत्यनर्थकमेव हुश्नुग्रहणं स्यात्‌। यदा तु भाषायामपि यङ्लुगस्ति, तदार्धधातुकत्वाभावादसति हुश्नुग्रहणे योयुवतीत्यदौ प्राप्नोतीति तन्निवृत्त्यर्थमुपपद्यते हुश्नुग्रहणम्‌। तस्मादेतदेव ज्ञापयति--भाषायमपि यङ्लुङस्तीति। तेन बेभिदीति, चेच्छिदीतीत्यादि भाषायामप्युपपन्नं भवति। स्यादेतत्‌--यङ्लुगान्तादन्यत्‌ यदुवर्णान्तमनेकाच्‌ संयोगपूर्वं तन्निवृत्त्यर्थमेतद्भविष्यतीति? नेदं ज्ञापकमित्यत आह--`न च' इत्यादि। ननु चेदं विद्यते--युवन्‌ अरुवन्निति? नैतदस्ति; यद्यप्येतदसंयोगपूर्वम्‌, अनेकाज्न भवति; अटोऽसिद्धत्वात्‌।।

88. भुवो वुग्लुङ्लिटोः। (6.4.88)
`अभूवन्‌' इति। `गातिस्था' (2.4.77) इत्यादिना सिचो लुक्‌। झेरन्तादेशे कृते संयोगान्तलोपः। `अभूवम्‌' इति। `तस्थस्थ' (3.4.101) इत्यादिना मिपोऽम्भावः। `बभूव' इत्यादि। `भवतेरः' (7.4.73) इत्यभ्यासस्यात्त्वम्‌। `इन्धिभवतिभ्याञ्च' (1.2.6) इति लिटः कित्त्वम्‌, तेन गुणबुद्धी न भवतः। किमर्थं पुनर्भवेतेः परस्य लिटः कित्त्वमारभ्यते, यावता `एकदेशविकृतमनन्यवद्भवति' (व्या.प.16) इति कृतयोरपि गुणवृद्ध्योर्वुक्‌ प्राप्नोत्यकृतयोरपि, वुकि कृतेऽनिगन्तत्वादलघूपधत्वादनजन्तत्वाच्च नास्ति गुणवृद्ध्योः प्राप्तिः, ततः कृताकृतप्रसङ्गित्वेन नित्यत्वाद्‌वुकि कृते गुणवृद्ध्योः प्राप्तिरेव नास्तीत्यनर्थकं कित्त्वम्‌? नैतदस्ति; वुगप्यनित्य एव, न ह्यसौ कृतयोर्गुणवृद्ध्योः प्राप्नोति, ओरित्यनुवृत्तेरुवर्णान्तस्य वुका भवितव्यमिति कृत्वा। अत्रोभयोरनित्ययोः परत्वात्‌ गुणवृद्धी स्याताम्‌। तस्मात्‌ कित्त्वमारब्धव्यम्‌। किमर्थं पुनः ओरित्यनुवर्तते? बोभाव, बोभवेति गुणवृद्ध्योः कृतयोर्वृङ मा भूदित्येवमर्थम्‌। ननु च कित्त्वे सत्यत्रापि गुणवृद्धिभ्यां न भवितव्यम्‌? नैतदस्ति; न हि यङलुगन्ताद्‌ भवतेः परस्य लिटः कित्वं भवति, `इन्धिभवतिभ्याञ्च' (1.2.6) इत्यत्र भवतीति श्तिपा निर्देशात्‌।।

89. ऊदुपधाया गोहः। (6.4.89)
`निगूहयति' इति। `गुहू संवरणे' (धा.पा.896), हेतुमाण्णिच्‌। `निगूहकः' इति। ण्वुल्‌। `साधुनिगूहि' इति। `सुप्यजातौ णिनिस्ताच्छील्ये' (3.2.78) इति णिनिः। `निगूहं निगूहम्‌' इति। `आभीक्ष्ण्ये णमुल्‌ च' (3.4.22) इति णमुल्‌, `आभीक्ष्ण्ये द्वे भवतः' (वा.887) इति द्विर्वचनम्‌। `निगूहः' इति। भावे घञ्‌। `अलोऽन्यस्य मा भूत्‌' इति। उत्तरत्र इत्यभिप्रायः। इह त्वोरित्यनुवर्त्य विनाप्युपधाग्रहणेन शक्यत एवायमर्थः प्रतिपादयितुमित्येतदेव मनसि कृत्वा परं पृष्टवान्‌--`उपधाग्रहणं किं? इति; इत्तरार्थञ्चोपधाग्रहणं क्रियमाणमत्राप्यलोऽन्त्यस्य विधिं निवर्त्तयति। तेन प्रयोजनाभावात्‌ ओरित्येतन्नानुवर्तते।
अथ किमर्थम्‌ `गोहः' इति विकृतनिर्देशः क्रियते, न `गुहः' इत्येवोच्येत, लघु ह्येवं सूत्रं भवति? इत्याह--`गोह इति विकृतग्रहणम्‌' इत्यादि। ऊत्त्वस्य विशिष्टविषयो यथा स्यादित्येवमर्थम्‌। `गोह' इति विकृतस्य कृतोकारस्थ ग्रहणमित्यर्थः। एतदेव व्यक्तीकर्त्तुमाह--`यत्र' इत्यादि। अस्य कश्चिदमुमर्थमाचष्टे। एतदुक्तं भवति--गुणे कृते ऊत्त्वेन भवितव्यमिति लक्ष्यते; एतच्चायुक्तम्‌; एवं हि व्याख्यायमाने `अयादेशप्रतिषेधार्थं `निगूह्य गतः' इति `केचिदिच्छन्ति' इत्युक्त्वा यद्वक्ष्यति--"उत्त्वस्यासिद्धत्वात्‌ `ल्यपि लघूपूर्वात्‌' (6.4.56) इति णेरयादेशः स्यात्‌" इति, तन्नोपपद्यते। यदि गूणं कृत्वोकारस्योत्त्वं विधीयते, ततश्च सत्यूकारस्यासिद्धत्वेनैव लघुपूर्वत्वमुपपद्यते, ओकारपूर्वत्वात्‌; तत्‌ कुत ऊकारस्यासिद्धत्वेऽयादेशप्रसङ्गः? तस्मादयमत्रार्थः--यस्मिन्‌ विषये गुहेर्गोह इत्येतद्रूपं सम्भाव्यते तत्र यथा स्यात्‌। यत्र प्रत्यये गुणः सम्भवति तस्मिन्‌ कृतेऽकृत एव गुणे यथा स्यात्‌, अन्यत्र मा भूदिति। तस्माद्विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्‌ गुणविषये सम्मुखीभूत एवाकृत एव गुण ऊत्वेन भवितव्यम्‌। एवञ्च सति `ऊत्तवस्यासिद्धत्वात्‌' इत्यादिकः प्रसङ्गग्रन्थो युज्यते, नान्यथा। ननु च गुणनिमित्ते प्रत्यय उत्पन्ने परत्वाद्‌ गुणेनैव भवितव्यम्‌, तत्कथमकृत एव गुण ऊत्त्वं भवेत्‌? कृताकृतप्रसङ्गित्वात्‌। तद्धि कृते गुणे प्राप्नोत्यकृतेऽपि, विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्‌। न तूत्त्वे कृते गुणः प्राप्नोति, अलघूपधत्वात्‌। तस्माद्‌ गुणात्‌ पूर्वमूत्त्वेन नित्यत्वाद्भवितव्यम्‌। अत एव दीर्घोच्चारणमर्थवद्भवति, नान्यथा। यदि गुणे कृते सत्ययमादेशः स्यात्‌, दीर्घोच्चारणमनर्थकं स्यात्‌। आन्तरतम्यादेव दीर्घस्य दीर्घो भविष्यति। ज्ञापितं हि `दिव उत्‌' (6.1.131) इति तपकरमेन--`भाव्यमानोऽप्युकारः सवर्णान्‌ गृह्णति' (चान्द्र.प.44) इति। यदन्यत्‌ प्राप्नोति तन्निवृत्त्यर्थं दीर्घोच्चारणमिति चेत्‌? स्यादेतत्‌--`अजुगूहत्‌' इत्यत्र `णौ चङ्यपधायाः' (7.4.1) इति ह्रस्वो मा भूदित्येवमर्थं दीर्घोच्चारणमिति। कुतः पुनरेष नियमोऽत्र ह्रस्वत्वेन न भवितव्यमिति? न हीह कात्यायनस्य भाव्यकारस्य वा वचनमस्ति, नापि शिष्टप्रयोगः, यत एष निश्चयः स्यात्‌। `यथालक्षणमप्रयुक्तेषु' इति चोच्यत। तस्मात्‌ `अजूगुहत्‌' इत्येवं भवितव्यम्‌। यदि गुणे कृतेऽयमादेशः क्रियेत, ततः किमनिष्टं स्यात्‌? दीर्घोच्चारणमनर्थकं स्यात्‌। अत्रापि दीर्घोच्चारणं वैचित्त्र्यार्थं प्रकल्प्येत? एवमपि प्रक्रियागौरवं स्यात्‌। तस्माद्दीर्घोच्चारणसामर्थ्यादकृत एव गुण ऊत्त्वेन भवितव्यम्‌। `निगूह्य गतः' इति। ण्यन्तात्‌ कत्वा, प्रादिसमासः। `समासोऽनञ्पूर्व' (7.1.37) इत्यादिना क्त्वो ल्यप्‌। `तत्र व्याश्रयत्वात्‌' इत्यादि। एतेनायादेशप्रतिषेधार्थतां विकृतिनिर्देशस्य प्रत्याचष्टे। कथं पुनर्व्याश्रयत्वम्‌? इत्याह--`णावूत्त्वम्‌' इत्यादि।
`निगोढा' इति। तृच्‌। `हो ढः' (8.2.31), `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वम्‌, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्त्वम्‌, `ढो ढे लोपः' (8.3.13)।।

90. दोषो णौ। (6.4.90)
`दीषयति' इति। `दुष वैकृत्ये' (धा.पा.1185)।
अथ किमर्थम्‌ `दोषः' इति विकृतस्य ग्रहणम्‌, न `दुषः' इत्येवोच्येत, विषयावधारणार्थमिति चेत्‌? न; णाविति साक्षाद्विषयस्य निर्देशादित्यत आह--`विकृतग्रहणम्' इत्यादि पूर्वसूत्रे हि `गोङः' इत्युक्तम्‌, अत्र यदि `दूषः' इत्येवोच्येत, प्रक्रमस्यारम्भस्य भेदः स्यात्‌, अभेदश्चेष्यते। अतदस्तदर्थं विकृतस्य ग्रहणम्‌। किमर्थं पुनः प्रक्रमस्याभेद इत्यते? अत्यल्पमिदं पृच्छ्यते, वैचित्त्र्यस्यापि नाम प्रयोजनं प्रष्टव्यम्‌। वैचित्त्र्यस्य ह्ययं प्रकारः--प्रक्रमाभेद इति, किं तदर्थेन प्रश्नपरिश्रमेण!।।

91. ना चित्तविरागे। (6.4.91)
पूर्वेण नित्ये प्राप्ते विकल्पोऽयमारभ्यते। `चित्तविरागे' इति। चित्त्स्याप्रीतता। `चित्तं दोषयति' इति। चित्तदमप्रीतं विमुखं करोतीत्यर्थः।
`चित्तविराग इति किम्‌? साधनं दूषयत--अत्र पूर्वेण नित्यं भवति। णावित्येव--चित्तस्य दोषः। भावे घञ्‌।।

92. मितां ह्वस्वः। (6.4.92)
`एवमादिना' इति। आदिशब्देन `जनीजॄष्कनसुरञ्जोऽमन्ताश्च' (धा.पा.817) इत्येवमादिग्रहणम्‌। `घटयति' व्यथयति' जनयति' इति। `घट चेष्टायाम्‌' (धा.पा.763) `व्यथ भयचलनयोः (धा.पा.764) `जनौ प्रादुर्भावे' (धा.पा.1149)। ननु च जनेः `जनिवध्योश्च' (7.3.35) इति वृद्धिः प्रतिषिध्यते, तदयुक्तमिदमुदाहरणम्‌, मित्सज्ञाप्यापार्थिका? नैतदस्ति; चिण्कृतोर्हि स वृद्धिप्रतिषेधः, तत्र हि `आतो युक्‌ चिण्कृतोः' (7.3.33) ित्यनुवर्त्तते। `रजयित' इति। `रञ्जेर्णौ मृगरमण उपसंख्यानम्‌' (वा.778)। इत्यनुनासिकलोपे कृते `अत उपधायाः' (7.2.116) इति वृद्धिः। तस्यानेन ह्रस्वः। `शमयति' इति। शमेरमन्तत्वान्मित्त्वम्‌। अस्यापि `नोदात्तोपदेश' (7.3.34) इत्यादिना वृद्धिप्रतिषेधश्चिण्कृतोरेव। `ज्ञापयति' इति। `ज्ञा अवबोधने' (धा.पा.1507) इत्यस्य क्र्यादिपरिपठितस्य `मारणतोषणनिशामनेषु (धा.पा.811) ज्ञा, मिच्च' इति मित्संज्ञा, `अर्तिह्री' (7.3.36) इत्यादिना पुकि कृते ह्रस्वः।
`केचिदत्र' इत्यादि। `क्रमु पादविक्षेपे' (धा.पा.437)इत्यस्यामन्तत्वान्मित्संज्ञा, तस्य च ह्रस्वत्वे संक्रामयति, उत्क्रामयतीति न सिद्ध्येत्‌। तस्मादेतत्सिद्धये `वा चित्तविरागे' (6.4.91) इत्यतो वाग्रहणमनुवर्तयन्‌ति। तस्मिंश्चानुवर्त्तमाने सर्वत्र विकल्पः प्रसज्येतेत्यतिप्रसङ्गपरिहारार्थं `सा च व्यवस्थितविभाषा' इति। व्याचक्षते। अथ `मितामत्‌' इत्येवं कस्मान्नोक्तम्‌, लघु ह्येवं सूत्रं भवति? अशक्यमेवं वक्तुम्‌, `वेष्ट वेष्टने' (धा.पा.255) इति घटादौ पठ्यते, तत्रैवमुच्यमाने तस्याप्कारः प्रसज्येत्‌, `ह्रस्वः' इत्युच्यमाने `एच इग्‌ ह्रस्वादेशे' (1.1.48) इतीकारः सिद्धो भवति।।

93. चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌। (6.4.93)
`णौ' इति वर्त्तते, चिण्णमुलौ च तद्विशेषणे। `अशमि' इति। शमेर्ण्यन्ताल्लुङ, `चिण्‌ भावकर्मणोः' (3.1.66) इति च्लेश्चिण्‌, `चिणो लुक्‌' (6.4.104) इति तशब्दस्य लुक्‌ णेरनिटि' (6.4.51) इति णिलोपः। `शर्मशममम्‌, शामंशामम्‌' इति। पूर्ववण्णमुल्दिविर्वचने।
`दीर्घग्रहणं किम्‌' इति। एवं मन्यते--ह्रस्वस्यैवानन्तरसय प्रकृतस्य विकल्पमात्रं विषेयम्‌, एवमप्यभीष्टं सिद्ध्यत्येव। तथा हि--यस्मिन्‌ पक्षे ह्रस्वो विधीयते, तस्मिन्नशमीत्यादि सिद्ध्यति। यस्मिंस्तु ह्रस्वो न विधीयते, तत्र `अत उपधायाः' (7.2.116) इति दीर्घे वृद्धिसंज्ञके विहिते तेनैव रूपेणावस्थानात्‌ `अशामि' इत्यादि सिद्ध्यतीत्यभिप्रायः। इतरस्तु दीर्घग्रहणमन्तरेण यन्न सिद्ध्यति, तद्दर्शयति--`शमयन्तं प्रयुङक्ते' इत्यादिना। शमेर्ण्यन्तात्‌ पुनः प्रयोजकविवक्षायां द्वितीयो णिच्‌, तत्र पूर्वस्य णेर्लोपः, लुङ, चिण्‌। पक्षे दीर्घत्वम्‌।
`अशमि, अशामि, शमंशमम्‌, शामंशामम्‌' इति। द्वितीयणिजन्तण्णमुलि कृते पक्षे दीर्घत्वम्‌। `शंशमयतेः' इत्यादि। अत्यर्थं शाम्यतीति यङ्‌, द्विर्वचनम्‌, `नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्‌--`शंशम्य' इति। स्थिते हेतुमण्णिच्‌, `अतो लोपः' (6.4.48) इत्यकारस्य लोपः, `यस्य हलः' (6.4.49) इति यकारस्य, शंशमीति स्थिते यदा ततः परश्चिण्भवति, तदा पक्षे दीर्घत्वे कृतेऽशंशम्यशंशामीति भवति। यद तु णमुल्‌ तदा शंशमंशंमम्‌ शंशामंशंशाममिति, तत्र योऽसो णौ णिर्लुप्यते, यश्च यङोऽकारस्तयोर्दीर्धग्रहणे सति `अचः परस्मिन्‌ पूर्वविधौ' (1.1.57) इति स्थानिवद्भावो न भवति; `न पदान्त' (1.1.58) इत्यादिना प्रतिषेधात्‌। तेनासति व्यवधाने दीर्घः सिद्धो भवति। स्यादेतत्‌--ह्रस्वविकल्पे विधीयमाने यस्मिन्‌ पक्षे ह्रस्वो नास्ति तस्मिन्पक्षे स्वरूपेणैवावस्थितो दीर्घः स्यात्‌? इत्यत आह--`ह्रस्वविकल्पे तु' इत्यादि। न हि ह्रस्वे विधातव्ये केनचित्‌ स्थानिवद्भावः प्रतिषिध्यते। तत्र ह्रस्वविकल्पे विधीयमाने णेर्लोपस्य यङ्कारस्य च स्थानिवद्भावः स्यादेव। ततश्च स्थानिवद्भावाद्विकल्पेन ह्रस्वत्वं न स्यात्‌। चिण्णमृल्परे हि णौ परतो मितामङ्गानां ह्रस्वत्वं विधेयम्‌। यश्चात्र णिश्चिण्णमुल्परो न तत्र मिदङ्गम्; पूर्वेम णिचा व्यवधानात्‌। यस्मिंश्च णौ मिदङ्गं नासौ चिण्णमुल्परः; परेण चिणा व्यवधानात्‌। तस्मान्नायमस्य योगस्य विषय इति पाक्षिकं ह्रस्वत्वमनेन न स्यात्‌। पूर्वेणैव योगेन नित्यं स्यात्‌, ततश्च दीर्घो न स्यात्‌।
`णिण्यन्ते' इत्यादि। णेणिरन्तः समीपो यस्मिन्‌ स णिण्यन्तः। अथ वा णेणिः णिणिः सोऽन्तो यस्य स णिण्यन्तः। अस्मिन्‌ पक्षेऽन्तशब्दोऽवयववचनः। `यङण्यन्ते त्वसिद्धिरेव' इति। यङ्ण्यन्तशब्दस्यापि पूर्ववद्‌ द्विधा व्युत्पत्तिः। कस्यासिद्धिः? प्रकृतत्वाद्दीर्घस्येति वेदितव्यम्‌। एवकारेणैतद्दर्शयति--णिण्यन्ते स्यादपि केनचित्‌ प्रकारेण दीर्घस्य सिद्धिः, यङ्ण्यन्ते त्ववसिद्धिरेव। न केनचित्‌ प्रकारेण सिद्धिरित्यर्थः। कथ पुनर्णिण्यन्ते सिद्धिर्भवति? णिजातेराश्रयणात्‌। णिजातिविवक्षायां हि यद्यपि णिलोपस्य स्थानिवद्भावः, तथापि नास्तिव्यवधानम्‌; जातेरेकत्वात्‌। न हि तत्रैव तस्या व्यवधानमुपपद्यते। तेन व्यवधानाभावाण्णिण्यन्ते दीर्घस्य सिद्धिः। अथ वैतदेवकारेण दर्शयति--णिण्यन्ते पूर्वं णिचमाश्रित्य `अत उपधायाः' (7.2.116) इति वृद्धि विधानादस्ति दीर्घस्य सिद्धिः, तस्यास्तु ह्रस्वत्वेन निवृत्तिः क्रियते, न तु सर्वथा नास्त्येव। यङ्ण्यन्ते तु सर्वथैव दीर्घसिद्धेरभावः, तत्र वृद्धेरसम्भवादिति। स्यादेतत्‌--विक्लपे दीर्घत्वे विधीयमानेऽपि नैवाऽत्र दीर्घः सिध्यति। `असिद्धवदत्रा भात्‌' (6.4.22) इति णियङोर्लोपस्यासिद्धत्वादित्यत आह--`व्याश्रयत्वात्‌' इत्यादि। कथं पुनर्ध्याश्रयत्वम्‌? इत्याह--`णौ हि' इत्यादि।
अन्यतरस्यांग्रहणं विस्पष्टार्थम्‌; शक्यते हि `वा चित्तविरागे' (6.4.9) इत्यतो मण्डूकप्लुतिन्याथेन वाग्रहणमनुवर्त्तयितुम्‌।।

94. खचि ह्वस्वः। (6.4.94)
`द्विषन्तपः, परन्तपः' इति। `द्विषत्परयोस्तापे' (3.2.39) इति खच्‌, `अरुर्द्विषदजन्तस्य' (6.3.67) इति मुम्‌। `पुरन्दरः' इति। `पूःसर्वयोर्दारिसहोः' (3.2.41) इति खच्‌, `वाचंमपुरन्दरौ च' (6.3.69) इति निपातनान्मुमागमः।
ह्रस्वग्रहणं विस्पष्टार्थम्‌, शक्यते `मितां ह्रस्वः' (6.4.92) इत्यतो मण्डूकप्लुतिन्यायेन ह्रस्वग्रहणमनुवर्त्तयितुम्‌।।

95. ह्लादो निष्ठायाम्‌। (6.4.95)
`प्रह्लन्नः' इति। `ह्लादी सुखे च' (धा.पा.27) `रदाभ्याम्‌' (8.2.42) इत्यादिना नत्त्वम्‌। `प्रह्लादयति' इति हेतुमण्णिच्‌।।

96. छादेर्घेऽद्व्युपसर्गस्य। (6.4.96)
`उरश्छदः' इति। `छद अपवारणे' (धा.पा.1935), चुरादिणिच्‌, `पुंसि संज्ञायां घः प्रायेण' (3.3.118) इति घः। `उरसश्छदः' इति विगृह्य `कृद्योगा च षष्ठी समस्यते' (वा.86) इति समासः।
ननु च णिलोपस्य `असिद्धवदत्रा भात्‌' (6.4.22) इत्यसिद्धत्वात्‌ `अचः परस्मिन्पूर्वविधौ' (1.2.57) इति स्थानिवद्भावाद्वा ह्रस्वभाविन्यज्लक्षणोपधा न सम्भवति, तत्‌ कथं ह्रस्वत्त्वं प्रवर्त्तते? इत्याह--`णिलोपस्य' इत्यादि। यद्यत्र णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा स्यात्‌, तदा वचनमनर्थकं स्यात्‌। तस्माद्वचनसमर्थ्यादुभयमपि न भवति, तेन ह्रस्वभाविन्युपधा भवति।
`अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्‌' इति। ननु च त्रिप्रभृतयो यत्र सन्ति तत्र द्वावपि स्तः, ततश्चाद्व्युपसर्गस्येत्येवं सिद्धम्‌? इत्यत आह--`उत्तरा हि' इत्यादि। यद्यपि त्रिप्रभृतिषु द्वावपि स्तः, तथापि न ताविह द्विशब्देनोपात्तौ; यत उत्तरा हि संख्या पूर्वसंख्याया यः कृतो व्यपदेशस्तदभिधानं निवर्त्तयति। कथं ज्ञायते? इत्याह--`न हि' इत्यादि। यद्युत्तरा संख्या पूर्वसंख्याकृतव्यपदेशं न निवर्त्तयेत्‌, तदा त्रिपुत्रोऽपि लोके द्विपुत्र इत्यभिधीयेत, न चाभिधीयते। तथा हि `द्विपुत्रः आनीयताम्‌' इत्युक्ते नैव त्रिपुत्र आनीयते, अपि तु यस्यं द्वादेव पुत्रौ स एव। अद्विप्रभृतीत्यादेश्च वाक्यस्यायमर्थः--अद्धिप्रभृत्युपसर्गस्य छादेर्ह्रस्वत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--द्विशब्दोऽत्रानेकोपलक्षणार्थम्‌, द्व्युपसर्गस्यानेकोपसर्गस्येति यावत्‌। अद्व्युपसर्गस्येते च प्रसज्यप्रतिषेधोऽयम्‌। तेनायमर्यो भवति--छादेरङ्गस्यानेकोपसर्गस्य घप्रत्यये परत उपधाह्रस्वो न भवतीति। केन पुनः प्राप्तस्य ह्रस्वस्यानेन प्रतिषेधः क्रियते? एतस्मादेव प्रतिषेधाद्विधायकं वाक्यमनुमीयते। योगविभागाद्वा--`छादेर्घे' इति। यदि च द्विशब्दोऽत्रानेकोपलक्षणार्थः, योगविभागश्चाभ्युपेयेतैवं तदा पर्युदासेऽप्यदोषः। कथम्‌? द्व्युपसर्गादनेकोपसर्गादन्योऽद्व्युपसर्गः=एकोपसर्गः, तस्य ह्रस्वत्त्वं भवति। किमर्थमिदम्‌, न `छादेर्घे' इत्यनेनैव सिद्धम्‌? सिद्धे सत्यारम्भो नियमार्थः--एकोपसर्गस्यैव भवति, नान्यस्येति। यद्येदम्‌ `उरश्छदः' इत्यत्र न प्राप्नोति? नैष दोषः, एवं हि योगविभागोऽनर्थकः स्यात्‌। तुल्यजातीयापेक्षत्वान्नियमस्य, सोपसर्गस्य नियमः क्रियमामः सोपसर्गस्येव ह्रस्वत्वं निवर्त्तयति, नानुपसर्गस्य। तेन `उत्तरश्छदः' इत्यत्र प्रवर्तत एव।।

97. इस्मन्त्रन्क्विषु च। (6.4.97)
चकारश्चादेरनुकर्षणार्थः। `छदिः' इति। `अचिशुचिहुसृपिच्छादिच्छदिभ्य इसिः' (द.उ.9.30) इतीसिप्रत्ययः। `छद्म' इति। `सर्वधातुभ्यो मनिन्‌' (पं.उ.4.156) इति मिन्‌। `छत्त्रम्‌' इति। `सर्वधातुभ्यः ष्ट्रन्‌' (द.उ.8.79) इति ष्ट्रन्‌। योगविभागोऽनेकोपसर्गस्यापि यथा स्यात्‌--समुपातिच्छदिरिति।।

98. गमहनजनखनघसां लोपः क्ङित्यनङि। (6.4.98)
`अनङि' इति अजादावयं प्रतिषेधः, तेन तत्तुल्येऽजादावेव प्रत्यये कार्यं विज्ञायते, इत्याह--`अजादौ प्रत्यये' इति। `जध्नतुः, जध्नुः' इति। `अभ्यासाच्च' (7.3.55) इति कुत्वम्। `जज्ञतुः, जज्ञुः' इति। `जन जनने' (धा.पा.1105), परस्मैपदी जौहोत्यादिकः, `स्तोः श्चुना श्चः' (8.4.40) इति श्चुत्वम्‌। `जज्ञे' इति। `जनि प्रादुर्भावे' (धा.पा.1149) आत्मनेपदी दिवादिः, `लिटस्तझयोरेशिरेच्‌' (3.4.81) इत्येश्‌। `जक्षतुः' इति। अदेः `लिट्यन्यतरस्याम्‌' (2.4.40) इति घस्लादेशः, `खरि च' (8.4.55) इति घकारस्य ककारः, `शासिवसिधसीनाञ्च' (8.3.60) इति षत्वम्‌। अथ वा--`घरलृ अदने' (धा.पा.715) इत्यस्यैतद्रूपम्‌। `अक्षन्‌' इति। लुङ्‌, `लुङ्सनोर्घस्लृ' (2.4.37) इति घस्लादेशः, `मन्त्रे घसह्वर' (2.4.80) इत्यादिना लेर्लुक्‌, झेरन्तादेशः, संयोगान्तलोपः। शेषं पूर्ववत्‌। `अधसत्‌, अगमत्‌' इति। पुषादिसूत्रेण (3.1.55) अङ।।

99. तनिपत्योश्चन्दसि। (6.4.99)
`वितत्निरे' इति। अत्र यद्युपधालोपस्यासिद्धत्वम्‌ तथापि लोपविधानसामर्थ्यात्‌ `अत एकहल्मध्ये' (6.4.120) इत्यादिनैत्वाभ्यासलोपौ न भवतः। `पप्तिमा' इति। लिट्‌ क्रादिनियमादिट्‌।।

100. घसिभसोर्हलि च। (6.4.100)
`धत्वं तकारस्य' इति। `झषस्तथोर्धोऽधः' (8.2.40) इति। `जश्त्वं धकारस्य' इति। `झलां जश्‌ झशि' (8.4.53) इति। `समासे कृते' इति। `पूर्वापरप्रथम' (2.1.58) इत्यादिना। `समानस्य सभावः' इति। `समानस्य च्छन्दसि' (6.3.84) इत्यादिना।
यदि द्विर्वचनात्पूर्वमुपधालोपः क्रियते, तदैकाच्त्वाभावाद्द्विर्वचनं न प्राप्नोति? इत्यत् आह--`छान्दसत्वात्‌' इत्यादि। `बन्धाम्‌' इति। छान्दसमेतत्‌। तत्र `बहुलं छन्दसि' (2.4.39) इति वचनाद्बहुलं विषयो भवन्ति। तेन यद्यपि परत्वान्नित्यन्तावच्च द्विर्वचनात्‌ पूर्वमुपधालोपः प्रप्नोति, तथापि स तथा न क्रियते। द्विर्वचनात्‌ पूर्वं न क्रियत इति भावः। `बप्सति' इति। भसेः परस्य झेरदादेशः, शपः श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्‌, अभ्यासकार्यम्‌, उपधालोपे कृते भकारस्य चर्त्वम्‌--पकारः। `बस्ति' इति। तिपि रूपम्‌।।

101. हुझल्भ्यो हेर्धिः। (6.4.101)
`हलादेः' इति। कुतः पुनर्हल्ग्रहणं प्रकृतं येन हिशब्दो विशिष्यते? अनन्तरसूत्रादिति चेत्‌? न; तद्धि सप्तमीनिर्दिष्टम्‌, षष्ठीनिर्दिष्टेन चेहार्थः। `हुझल्भ्यः' इत्येषा पञ्चमी `हलि' (6.4.100) इत्येतस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। `तस्मादित्युत्तरस्य' (1.1.67) इति वचनादित्यदोषः। `भिन्धि' इति। `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः। `क्रीणीहि' इति। `सेर्ह्यपिच्च' (3.4.87) इति हिरादेशः `ई हल्यघोः' (6.4.113) इत्तीत्त्वम्‌। `जुहुताम्‌' इति। लोट्‌, तसस्ताम्‌। `रुदिहि, स्वपिहि' इति। अदादित्वाच्छपो लुक्‌, `रुदादिभ्यः सार्वधातुके' (7.2.76) इतीट्‌।
अथेह कस्मान्न भवति--`जुहुतात्‌ त्वम्‌' इति? आह--`इह' इत्यादि। धिभावस्यावकाशोऽनाशिषि--झुहुधीति। तातङोऽवकाशः--जीवतात्‌ त्वमिति; आशिषि लोटि उभयप्राप्तौ परत्वात्तातङेव भवति। अथ कृतेऽपि तस्मिंस्तस्य स्थानिवद्भावात्‌ पुनः प्रसङ्गविज्ञानाद्‌धिभावः कस्मान्न भवति? इत्याह--`तत्र' इत्यादि।
यद्येवम्‌, भिन्धकि, छिन्धकीत्यत्र परत्वाद्‌धिभावे सत्यनन्तरोक्तादेव हेतोरकज्न स्यात्‌? इत्यत आह--`भिन्धकि, छिन्दकि' इत्यादि। व्यक्तौ हि पदार्थे `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव' (व्या.प.40) इत्येतत्‌ प्रवर्त्तते। जातौ च `पुनःप्रसङ्गविज्ञानात्‌ सिद्धम्‌' (व्या.प.41) इति `विप्रतिषेधे परं कार्यम्‌' (1.4.2) इत्यत्र प्रतिपादितम्‌। पाणिनेस्तूभयं मतम्‌, लक्ष्यानुरोधात्क्वचित्‌ किञ्चिदाश्रीयते। तत्र तातङविधौ व्यक्तिपदार्थस्याश्रयणात्‌ `सकृद्गतौ विप्रतिषेधे यद्‌ बाधितं तद्बाधितमेव' इत्यस्या उपस्थानम्‌; अकज्विधौ तु जातेः पदार्थस्याश्रयणात्‌ `पुनःप्रसङ्गविज्ञानात्सिद्धम्‌' इत्यस्याः। `भिन्धकि' इति। `अव्ययसर्वनाम्नाम्‌' (5.3.71) इत्यादिनाकच्‌। तत्र `तिङश्च' (5.3.56) इत्यनुवर्त्तते।।

102. श्रुशृणुपॄकृवृभ्यश्छन्दसि। (6.4.102)
`श्रुणुधी' इति। `श्रुवः शृ च' (3.1.74) इति श्नुप्रत्ययः, श्रृभावश्च। `पूर्द्धि' इति। `पॄ पालनपूरणयोः' (धा.पा.1086), `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्‌, `हलि च' (8.2.77) इति दीर्घः। `उपरुणस्कृधि' इति। उरु अस्माकं कृधीति स्थिते `बहुवचनस्य वस्नसौ' (8.1.21) इत्यस्मदो नसादेशः, `नश्च धातुस्थोरुषुभ्यः' (8.4.27) इति णत्वम्‌, सकारस्य रुत्वम्‌, विसर्जनीयः। तस्य `अतः कृकमि' (8.3.46) इत्यादिना सत्वम्‌। `अपावृधि' इति। वृङो वृञो वा रूपम्‌। वृङोऽपि हि `व्यत्ययो बहुलम्‌' (3.1.85) इति च्छन्दसि परस्मैपदं भवत्येव।
अथ श्रृणुधीत्यत्र `उतश्च प्रत्ययादसंयोगपूर्वात्‌' (6.4.106) इत्यनेन लुक्‌ कस्मान्न भवति? इत्याह--`श्रृणुधीत्यत्र' इत्यादि। यद्यत्र लुक्‌ स्यात्‌ धिमावस्यानर्थस्यं स्यादिति भावः। `अन्येषामपि दृश्यते' (6.3.137) इति दीर्घत्वमपावृधीत्यत्र। ननु च श्रुध़त्यत्र `श्रुवः श्रृ च' (3.1.74) इति शृभावेन इनुप्रत्ययेन च भवितव्यम्‌, पूर्धीत्यत्र क्र्यादित्वात्‌ श्नाप्रत्ययेन, उरुणस्कृधीत्यत्र `तनादिकृञ्भ्यः उः' (3.1.79) इत्युप्रत्ययेन; अपावृधीत्यतत्र यदि वृङ तदा क्र्यादित्वात्‌ श्नाप्रत्ययेन, अथ वृञ्‌ तदा स्वादित्वात्‌ श्नुप्रत्ययेन; एवञ्चैतानि रूपाणि न सिध्यन्ति? इत्यत आह--`अतोऽन्यतर' इत्यादि। श्रृणुधीत्येतस्मादुदाहरणादन्येषूदाहरणेषु `व्यत्ययो बहुलम्‌' (3.1.85) इति शप्‌, तस्यापि `बहुलं छन्दसि' (2.4.73) इति लुक्‌।।

103. अङितश्च। (6.4.103)
`वा छन्दसि' इत्यादि। `सार्वधातुकमपित्‌' (1.2.4) इत्यपितः सार्वधातुकस्य ङित्त्वं विधीयते, छन्दसि विषये `वा छन्दसि' (3.4.88) इत्यनेन हेर्यदपित्त्वं तद्विकल्प्यते। तेन पक्षे तस्य ङित्त्वं न भवति।
अथ रारन्धीति कथं परस्मैपदम्‌, यावता रमिरयमात्मत्मनेपदी? कथं वात्र शपः श्रवणं न भवति? कथञ्चाब्यासस्य दीर्घत्वम्‌, कथञ्च `अनुदात्तोपदेश' (6.4.37) इत्यादिना मकारलोपो न भवति? इत्याह--`रारन्धि' इत्यादि। `शपः श्लुः' इति ब्रुवामेन `श्लौ' (6.1.10) इति द्विर्वचनमित्युक्तं भवति। मकारलोपाभावस्त्वङित्त्वादे सिद्ध इति नासौ यत्नसाध्य इत्यभिप्रायः। `यमेः शपः' इति। `बहुलं छन्दसि (2.4.73) इत्यनेन। `योतेः शपः श्लुः' इति। `बहुलं छन्दसि' (2.4.76) इत्यनेन।।

104. चिणो लुक्‌। (6.4.104)
`चिण उत्तरस्य प्रत्ययस्य' इति। अथ प्रत्ययस्यैतत्कुतो लभ्यते? `अङ्गस्य'(8.4.1) इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात्‌।
यदि चिण उत्तरसय प्रत्ययस्य लुग्भवति, अकारितराम्‌, अकारितमामित्यत्र तरप्तममोर्लुक्‌ कस्मान्न भवति? इत्याह--`अकारितराम्‌' इत्यादि। योऽसौ तशब्दस्य लुक्‌, तस्य तरप्तमपोर्लुकि कर्त्तव्ये `असिद्धवदत्राभात्‌' (6.4.22) इत्यसिद्धत्वम्‌। अतस्तशब्देन व्यवदानाच्चिणोऽनन्तरौ तरप्तमपौ न भवत इति तयोर्लुग्न भवति। ननु चान्यस्यान्यास्मेन्नसिद्धवचनादेकस्य तत्रैवासिद्धत्वं नोपपद्यते? इत्यत आह--`चिणो लुगित्येतत्‌' इत्यादि। `चिणो लुक्‌' इत्यभेदेनापि श्रुतमिदं लक्षणं विषयस्य लक्ष्यस्य भेदाद्भिद्यते, व्यक्तौ पदर्थे प्रतिव्यक्ति लक्षणं भिद्यत इति कृत्वा, तेन भेदे सत्युपपद्यत एवासिद्धत्वम्‌। अकारि, अहारीति स्थिते अतिशयविवक्षायां तरप्तमपौ `तिङश्च' (5.3.56) इत्यनेन, तदन्तात् `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (5.4.11) इत्यामौ कृते, अकारितमाम्‌, अकारितमामिति भवति।।

105. अतो हेः। (6.4.105)
`गच्छ' इति। गमेर्लोट्‌, `इषुगमियमां छः' (7.3.77) इति छत्वम्‌। `धाव' इति। `धावु गतिशुद्ध्योः' (धा.पा.601) अथ वा सर्त्तेः `पाघ्रा' (7.3.78) इत्यादिना धावादेशः। `युहि, रुहि' इति। अदावित्वाच्छपो लुक्‌। `लुनोहि, पुनीह' इति। `प्वादीनां ह्रस्वः' (7.3.80) इति ह्रस्वत्वम्‌, `ई हल्यधोः' (6.4.113) इतीत्त्वम्‌।
ननु चेत्त्वे कृते सत्यनकारान्तत्वान्न भविष्यति, ततः किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--`ईत्वसय' इत्यादि। असिद्धत्वान्तु पूर्ववत्‌।।

106. उतश्च प्रत्ययादसंयोगपूर्वात्‌। (6.4.106)
`उकारो योऽसंयोगपूर्वः' इति। अविद्यमानः संयोगः पूर्वो यस्मास्त तथोक्तः। एतेनासंयोगपूर्वग्रहणमकारविशेषणमिति दर्शयति। स एवं विध उकारः प्रत्ययस्य विसेषणम्‌, विशेषणेन च तदन्तविधिर्भवतीत्याह--`तदन्तात्‌' इत्यादि। किमर्थं पुनस्तदन्तदिधिरब्युपगम्यते? `सुन्‌ चिन्वित्यत्र यथा स्यात् अस्त्वेतत्‌ प्रयोजनम्‌, अयं तु दोषः--तनु, कुर्वित्यत्र न प्राप्नोति, अत्र ह्युकार एव प्रत्ययः न तदन्तः? अत्रापि व्यपदेशिवद्भावेन तदन्तत्त्वं प्रत्ययस्यास्तीत्यदोषः। `कुरु' इति। धातोर्गुणे रपरत्वे च कृते `अत उत्सार्वधातुके' (6.4.110) इत्युत्त्वम्‌।
`तरुणुहि' इति। `तूनूकरणे तक्षः' (3.1.76) इति श्नुः।
`च्छन्दोवावचनम्‌' इति। अभिधानेऽभिधेयोपचाराद्वार्थो विकल्पो वाशब्देन विवक्षितः। उच्यते व्याख्यायतेऽनेनेति वचनम्‌, वार्थस्य वचनं वावचनम्‌, छन्दसि वावचनं छन्दोवावचनमिति `सप्तमी' (2.1.40) इति योगविभागात्‌ समासः। `छन्दसि वेति वक्तव्यम्‌' इति। छन्दसि विषये विकल्पेनायं विधिर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--उत्तरसूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः, सा च व्यवस्थितविभाषा। तेन छन्दसि विषये विकल्पेनायं विधिर्भवतीति। `धिनुहि, कृणुहि' इति। `हिवि दिवि, धिवि, प्रीणनार्थाः' (धा.पा.591-593), `कृवि हिंसाकरणयोः' (धा.पा.598) इदित्वान्नुम्‌, `धिन्विकृण्व्योर च' (3.1.80) इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्य `अतो लोपः (6.4.48) इति लोपः।।

107. लोपश्चास्यान्यतरस्यां म्वोः। (6.4.107)
`योऽयमुकारोऽसंयोगपूर्वः' इति। एतेनास्येत्यनेन प्रकृत उकारः प्रत्यवमृश्यत इति दर्शयति। ननु च `अतः' (6.4.106) इत्यनुवृत्तेरुकारस्यैव लोपो विज्ञास्यते, तत्किम्‌ `अस्य' इत्यनेन? षष्ठीप्रक्लृप्त्यर्थमस्येत्येतदिति चेत्‌? न; `म्वोः' इत्येषैव हि सप्तम्यकृतार्था `उतः' इत्यस्याः पञ्चम्याः पूर्वयोगे कृतार्थायाः षष्ठीत्वं प्रकल्पयिष्यति, `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति वचनात्‌। स्यादेतत्‌। यदि `म्वोः' इत्येषा सप्तमी विज्ञायते, एतदेव तु न विज्ञायते--किमियं षष्ठी उत सप्तमीति? तस्मात्‌ षष्ठीप्रक्लृप्यर्थमस्येत्युक्तम्‌। `लुगित्त्यनुवर्त्तमाने' इत्यादि। यदि प्रकृत एव लुक्‌ क्रियते तदा सर्वस्यैव प्रत्ययस्य लुक्‌ स्यात्‌, नान्त्यस्य; यतः प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तु प्रत्ययावयवस्यादर्शनस्य। सर्वस्य तु लुकि कृते `सुन्वः सुन्मः' इति न सिध्यति? लोपग्रहणाददोषः. तत्र ह्युकारमात्रस्य लोपः `अलोऽन्त्यस्य' (1.1.52) इति वचनात्‌। तस्मादन्त्यस्य लोपार्थं लोपग्रहणम्‌। किञ्च कुर्वः कुमं इत्यत्र गुणो लुकि सति न स्यात्‌; `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणाप्रतिषेधात्‌। लोपे तु सति भवति। ततो गुणार्थमपि लोपग्रहणं कर्त्तव्यम्‌।।

108. नित्यं करोतेः। (6.4.108)
`करोतेरुकारप्रत्ययस्य' इति। ननु चकारेण पूर्वसूत्र उकारोऽनुकृष्टः, `चानुकृष्टञ्चोत्तरत्र नानुवर्त्तते' (व्या.प.76) तत्‌ कथमुकारस्य लोपो लभ्यते? नैवम्‌; पूर्वसूत्रे ह्युकारस्य सन्निधानमस्येत्यनेनैव लभ्यत इति तत्र तस्य चकारेण याऽनुकृष्टिः सैतदर्थैव वेदितव्या। `उकारलोपस्य' इत्यादिना कुर्वः कुमं इत्यत्र सोपपत्तिकां दीर्घप्राप्तिं दर्शयति, `न भकुर्छुराम्‌' (8.2.79) इत्यनेन च तत्प्रतिषेधम्‌। नित्यग्रहणं विस्पष्टार्थम्‌। आरम्भसामर्थ्यादेव हि नित्यो विधिर्भविष्यति।।

109. ये च। (6.4.109)
`चकारो लोपस्यानुकर्षणार्थः।।

110. अत उत्सार्वधातुके। (6.4.110)
`उकारप्रत्ययान्तस्य' इत्यादि। उकारः प्रत्ययोऽन्तो यस्य स तथोक्तः। उकारप्रत्ययान्तश्च करोतिः सार्वधातुकत्त्वं न व्यभिचरति, अनेनाभिप्रायेणाह--`सार्वधातुकग्रहणं किम्‌' इति? `भूतपूर्वेऽपि' इत्यादि। असति सार्वधातुकग्रहणे करोतेरुकारप्रत्ययान्तस्य क्ङिति प्रत्यये परत उत्त्वमुच्यमानं यत्र क्ङित्‌ सार्वधातुकं परभूतं तत्रैव स्यात्‌--कुरुतः, कुर्वन्तीत्यादिषु; कुर्वित्र हेर्लुकि कृते क्ङित्प्रत्ययस्याभावात्‌ `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्तु न स्यात्‌। तस्माद्भूतपूर्वेऽपि सार्वधातुके यथा स्यादित्येवमर्थं सार्वधातुक्ग्रहण्‌।
अथ तपरकरणं किमर्थम्‌, यावता यद्यपि भाव्यमान उकारः सवर्णानां ग्राहको भवति, तथाप्यान्तरतम्यान्मात्रिकस्थ स्थाने मात्रिक एव भविष्यति? इत्यत आह--तपरकरणम्‌' इत्यादि। असति हि तपरकरण उकारप्रत्ययमाश्रित्य `सार्वधातुकार्धधातुकयोः' (7.3.84) इति गुणे कृते रपरत्वे च यदुत्त्वं तस्योकारस्य `पुगन्तलघूपधस्य च' (7.3.86) इति गुणः स्यात्‌। तस्मात्‌ तपरकरणं क्रियते--ह्रस्वस्यैव श्रवुणं यथा स्यात्‌, लक्षमान्तरेण यो दीर्घः। प्राप्नोति स मा भूदिति।।

111. श्नसोरल्लोपः। (6.4.111)
`रुन्धः' इति। `झषस्तथोर्धोऽधः' (8.2.40) इति तकारस्य धकारः। `स्तः' इति। अदादित्वाच्छपो लुक्‌।
अथ श्नसोरिति कोऽयं निर्देशः, यावता `अकः सवर्णे दीर्घः' (6.1.101) इति दीर्घत्वे कृते `श्नसोः' इति निर्देशेन भवितव्यम्‌? इत्याह--`श्नसोरित्याकारस्य पररूपत्वम्‌' इत्यादि।
अत्र तपरकरणं किमर्थम्‌, आस्ताम्‌, आसन्नित्यत्राडागमस्य मा भूदिति चेत्‌? नैतदस्ति; इह हि लङि कृते लावस्थायामाडागमात्पूर्वमन्तरङ्गत्वाल्लादेशः क्रियते। तत्र कृते विकरणः कृताकृतप्रसाङ्गित्वादाडागमं बाधते। आडागमस्य त्वशब्दान्तरप्राप्तेरनित्यत्वम्‌। तथा हि कृते विकरणे विकरणान्तस्याङ्गस्य तेन भवितव्यम्‌, अकृते धातुमात्रस्य। कृते विकरणे यद्यप्याडागमाकारलोपयोर्द्वयोरपि कृताकृतप्रसङ्गित्वेन नित्यत्वम्‌, तथापि परत्वादकारलोपः क्रियते, तस्मिन्‌ कृते तस्यासिद्धत्वादाट्‌, तस्यासिद्धत्वादेव च लोपो न भविष्यतीति किं तपरकरणेन? एवं तर्ह्येतज्ज्ञापयति--`आबाच्छास्त्रीयमसिद्धत्वमनित्यम्‌' इति। तेन `वुग्युटावुवङयणोः सिद्धौ भवतः' इत्येतद्वक्तव्यं न वक्तव्यं भवति।।

112. श्नाभ्यास्तयोरातः। (6.4.112)
`लुनते' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यादेशः। `लुनताम्‌' इति। लोट्‌ `आमेतः' (3.4.90)। `अलुनत' इति। लङ। मिमते' इति। `माङ माने' (धा.पा.1088) [`माने शेब्दे च'--धा.पा.] अभ्यासस्य `भृञामित्‌' (7.4.76) इतीत्त्वम्‌। एवं `सञ्जिहते' इत्यत्रापि `ओहाङ गतौ' (धा.पा.1089) इत्यस्य। `बिभ्रति' इति। पूर्वादित्वम्‌। `अलुनात्‌' इति। ननु चासति क्ङितीत्यस्मिन्नीत्वेनात्र भवितव्यम्‌, तत्‌ कुतो लोपस्य प्रसङ्ग? नैतदस्ति; ईत्त्वमपि हि क्ङितीत्यनुवर्त्यम्‌, तत्र यदि `क्ङिति' इति नानुवर्त्तते तदा स्यादेव लोपः।
नन्वाद्ग्रहणं किमर्थम्‌, `श्नाभ्यस्तयोरतः' इत्येवोच्येत, एवं ह्येकमात्रया लघु भवति? इत्यत आह--`आद्ग्रहणं स्पष्टार्थम्‌। जगर्तेः `जक्षित्यादयः षट्‌' (6.1.6) इत्यभ्यस्तसंज्ञायामपि ऋकारलोपो न भवति--जाग्रतीति। एतच्च श्नेत्यकारान्तेन साहचर्यादभ्यस्तस्याकारान्तस्यैव ग्रहणाल्लभ्यते।।

113. ई हल्यघोः। (6.4.113)
`लुनीतः, पुनीतः; `लुनीथ, पुनीथ' इति। तस्थसौ। `मिमीते' इति। आत्मनेपदैकवचनम्‌। `मिमीषे' इति। `थासः स' (3.4.80)। `मिमीध्वम्‌' इति। ध्वम्‌। `लुनन्ति, पुनन्ति' इति। झिप्रत्ययः।
ननु च यद्यप्यजादावपीत्त्वं स्यात्‌, लोपोऽनवकाशः स्यात्‌ अतोऽनवकाशत्वाल्लोप ईत्त्वं बाधिध्यते, तत्‌ किं `हलि' इत्यनेन? नैतदस्ति; असति हल्ग्रहणे वचनादुभयं स्यात्‌। घुसंज्ञकेष्वाल्लोपः प्रसज्येत। तस्मात्‌ `हलि' इति वक्तव्यम्‌। `दत्त्ः' इति। `खरि च' (8.4.55) इति चर्त्त्वम्‌। `धत्तः' इति। धाञो द्विर्वचने कृते `अभ्यासे चर्च्च' (8.4.54) इत्यभ्यासस्य जशत्वे च `दधस्तथोश्च' (8.2.38) इति भष्भावेन दकारस्य धकारः, धातोस्त्वाकारलोपे कृते जश्त्वचर्त्त्वे।।

114. इद्दरिद्रस्य। (6.4.114)
`दरिद्रति' इति। `जक्षित्यादयः षट्‌' (6.1.6) इत्यभ्यस्तसंज्ञा, तेनाभ्यस्तलक्षण आकारलोपो भवति।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्‌--`श्नसोरल्लोपः' (6.4.111) इत्यतो मण्डूकल्पुतिन्यायेन लोपग्रहणमनुवर्त्त्य सार्वधातुके, हलि, क्ङितत्येतान्‌ विशेषान्‌ निवर्त्त्य दरिद्रातेः सामान्येनेत्त्वलोपौ विधातव्यौ। न चैवं सति तौ सङ्करेम प्रसजतः, यस्माद्वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतम्‌। सा च व्यवस्थितविभाषा। तेन यत्रैवेष्यते यत्‌ तत्‌ तत्रैव भविष्यति, नान्यत्रेति।
`सिद्धश्च प्रत्ययविधौ' इति। तथासौ कर्त्तव्यौ यथा प्रत्ययविधौ=प्रत्ययविधानकाले, सिद्धः=निष्पन्नो भवति। एतदुक्तं भवति--आर्धधातुके प्रत्यये विषयभूतेऽनुत्पन्ने एव लोपः कर्त्तव्य इति। एवं ह्यसौ प्रत्ययविधौ सिद्धो भवति, नान्यथा। `सिद्धश्च प्रत्ययविधौ' इत्यस्योपादाने यत्‌ फलं तद्‌ `आकारान्तलक्षणः' इत्यादिना दर्शयति। यद्यार्धधातुक उत्पन्ने सति लोपः क्रियते, तदा `श्याद्व्यधास्रु' (3.1.141) इति सूत्रेण णप्रत्ययः स्यात्‌; दरिद्रातेराकारान्तत्वात्‌। ततश्च `आतो युक्‌ चिम्कृतोः' (7.3.33) इति युकि कृते, `दरिद्राय' इत्यनिष्टं रूपं स्यात्‌। `सिद्धश्च प्रत्ययविधौ' इत्युच्यमाने तु प्रागेव प्रत्ययोत्पत्तेर्लोपः, तस्मिन्‌ स्यनाकारान्तत्वात्‌ पचाद्यजेव भवति। तेन `दरिद्रः' इतीष्टं सिद्धं भवति।
`न दरिद्रायके लोपः' इत्यादिना श्लोकेन यत्रार्द्धधातुके लोपो नेष्यते यत्र विकल्पेन चेष्यते कैश्चित्‌, तद्दर्शयति। `दरिद्रायके' इत्यत्र ण्वुलन्ते शब्दे सिसाधयिषिते लोपो नेष्यते। दरिद्रातीति दरिद्रायाक इति। पूर्ववद्युक्‌। `दरिद्राणे' इति। अत्रापि ल्युङते लोपो नेष्यते। `दिदरिद्रासतीत्येके' इति। सनि कृते द्विर्वचनम्‌, अभ्यासकार्यम्‌। `दिदरिद्रिषतीति वा' इति। `सनीवन्तर्ध' (7.2.49) इत्यत्र `तनिपतिदरिद्राणाम्‌' इत्युपसंख्यानाद्विकल्पेनेट्‌।
`अद्यतन्याम्‌' इति। लुङीत्यर्थः `लुङोऽद्यतनि' इति पूर्वाचार्यसंज्ञा। `अदरिद्रासौत्‌' इति। `यमरमनमातां सक्‌ च' (7.2.73) इति सगिटौ, `अस्ति सिचोऽपृक्ते' (7.3.96) इतीट्‌, `इट ईटि' (8.2.28) इति सिचो लोपः। ननु च `आतो धातोः' (6.4.140) इत्याकारालोपे कृते दरिद्र इति निर्देशेन भवितव्यम्‌, तत्‌ कथं दरिद्रस्येति निर्देश इत्याह--`दरिद्रस्येति निर्देशः' इत्यादि। `छन्दोवत्सूत्राणि भवन्ति' इत्यतः `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्‌' (6.3.63) इति बहुलवचनाच्छान्दसमिह ह्रस्वत्वम्‌।
तपकरणं विस्पष्टार्थम्‌। भाव्यमानतया सवर्णाग्रहणादेव दीर्घो न भविष्यति।।

115. भियोऽन्यतरस्याम्‌। (6.4.115)
`हलादौ सार्वधातुके क्ङिति परतः' इति। यद्यप्येते विशेषाः पूर्वस्मिन्निवर्तिताः, तथापीह मण्डूकप्लुतिन्यायेनानुवर्त्तन्त इत्यभिप्रायः। `बिभीतः' इति। `ञि भी भये' (दा.पा.1084) जुहोत्यादित्वाच्छपः श्लुः। हलादावित्येव--बिभ्यतीति। इत्त्वविधानसामर्थ्यादेव `एरनेकाचः' (6.4.82) इति यणादेशो न स्यात्‌। सार्वधातुक इत्येव--भीतः, भीतवान्‌। क्ङितीति किम्‌? बिभेति।।

116. जहातेश्च। (6.4.116)
ईत्त्वापवाद इत्त्वमारभ्यते; अन्यतरस्यांग्रहणानुवृत्तेः। पक्षे तदपि भवत्येव। सार्वधातुक इत्येव--हीनः, हीनवान्‌। इह केचित्‌ `सार्वधातुके' (6.4.110) इत्यस्यानुवृत्तिं प्रत्याचक्षते। कथम्‌? `हलि परत ईत्त्वेत्त्वे प्राप्नुतः, द्विर्वचनं च; तत्र यदि परत्वादीत्त्वेत्त्वे स्यातां ततश्चेवर्णन्तताभ्यासस्य स्यात्‌; तस्मादभ्यस्त ग्रहणमनुवर्त्तनीयम्‌, तस्मिंश्चानुवर्त्तमाने सार्वधातुकानुवृत्तिरपार्थिका' इति। एतच्चायुक्तम्‌; अन्तरङ्गत्वात्‌। `द्विर्वचनेनैव प्रागीत्त्वेत्त्वाभ्यां भवितव्यम्‌, तत्‌ कुतोऽभ्यासस्येवर्णान्तताप्रसङ्गः! अन्तरङ्गत्वन्तु द्विर्वचनस्याल्पापेक्षत्वात्‌। तद्धि श्लुमात्रमपेक्षते। इत्त्वेत्त्वयोश्च बह्वपेक्षत्वाद्बहिरङ्गता, बहवपेक्षा च; तयोः पुनरङ्गस्य हलादौ क्ङिति सार्वधातुके विधानात्‌। जहातेरिति निर्देशात्‌ जिहीत इत्यतद्र जिहातेर्न भवति।
`पृथग्योगकरणमुत्तरार्थम्‌' इति। `आच हौ' (6.4.117) इत्येष विधिर्जहातेरेव यता स्यात्‌, बिभेतेर्मा भूदिति।।

117. आ च हौ। (6.4.117)
चकार इत्त्वान्यतरस्यांग्रहणयोरनुकर्षणार्थः।।

118. लोपो यि। (6.4.118)

119. ध्वसोरेद्धावभ्यासलोपश्च। (6.4.119)
`अभ्यासलोपश्च' इति धुसंज्ञकार्थमभ्यासलोपग्रहणम्‌; न त्वस्त्यर्थम्‌; अस्तेरभ्यासम्भवात्‌। `देहि चेहि' इति। दाञ्‌धाञोरेते रूपे। अन्येषान्तु घुसंज्ञकानामुदाहरणं न सम्भवति; विकरणेन हेर्व्यवधानात्‌। असम्भवाच्च यथायोगम्‌। तत्र `दो' इत्येतस्य श्यना हिशब्दो व्यवधीयते, दणो धेटस्तु शापा, देङः पुनरात्मनेपदित्वाद हेरसम्भवः। `एधि' इति। सकारस्यैत्त्वे कृते तस्यासिद्धत्वात्‌ `हुझलभ्यो हेर्धिः (6.4.101) इति धिभावः। ननु च `अलोऽन्त्यस्य' (1.1.52) इत्यलामन्त्यस्य लोपेन भवितव्यम्‌, तत्‌ कथं सर्वस्याभ्यासस्य लोपो भवति? इत्यत आह--`शिदयम्‌' इत्यादि। `लोपश्च' इत्यत्र द्वौ शकारौ निर्दिष्टौ। तत्रैको लोपस्य समबन्धी, द्वितीयस्तु विभक्तेः। यश्च लोपस्य सम्बन्धी तस्येत्संज्ञा प्रतिज्ञायत इति शिदयं लोपो भवति। तेन सर्वस्याभ्यासस्थ लोपो भवति। `आ च हौ' (6.4.117) इत्यतो होग्रहणं मण्डूकप्लुतिन्यायेन शक्यतेऽनुवर्त्तयुतुम्‌। तत्रन्यतरस्यांग्रहणेन सम्बद्धमिति तदनुवृत्तौ `अन्यतरस्याम्‌' इत्येतस्याप्यनुवृत्तिरित्याशङ्का स्यात्‌, अतस्तन्निवृत्त्यर्थं `हौ' इत्युक्तम्‌। चकारस्य सन्नियोगर्थत्वाल्लोपो भवत्येत्त्वञ्च।।

120. अत एकहल्‌मद्येऽनादेशादेर्लिटि। (6.4.120)
`एकहल्मध्ये' इति। एकशब्दोऽयमसहायवाची। एकश्च एकश्च एकौ, एकौ च तौ हलौ चेत्येकहलौ, एकहलोर्मध्य इति द्विवचनान्तस्य षष्ठीसमासः। द्व्योरेव हि हलोर्मध्यं सम्भवति, नैकस्य। अत्र यदि लिट्यादशो न विशिष्यते ततो नेमतुः, नेमु; सेहे सेहाते, सेहिर इत्यत्र न स्यात्‌। अस्तिह्यत्राप्यङ्गस्यादेश आदिरित्येतच्चेतसि कृत्वा लिट्यादेशं विशेषयितुमाह--`लिटि परतः' इत्यादि। लिटि परभूते य आदेशो विधीयते स आदियंस्याङ्गस्य नास्तीत्यर्थः। `तस्य' इति। तस्यैवंविधस्याङ्गस्येत्यर्थः। तस्येति चाङ्गस्य योऽकार इत्यनेन सम्बन्धः। अवयवषष्ठी चेयम्‌, तस्यैवंविधस्याङ्गस्य यो।़कारोऽवयवस्तस्येत्यर्थः। `एक हल्मध्ये' इत्यस्येदं विवरणम्‌--`असहाययो र्हलोर्मध्ये' इति। तत्येत्यनन्तरोक्तोऽकारः सम्बध्यते। तस्याङ्गस्यावयवस्याकारस्येत्यर्थः। स्थानषष्ठी चेम्‌--तस्य स्थान एकार आदेशो भवति। `रेणतुः, रेणुः' इति। `अण रण' (धा.पा.444,445) इति `रणिः शब्दार्थः' पठ्यते। `येमतुः, येमुः' इति। `यम उपरमे' (धा.पा.984)। `देमतुः, देमुः' इति। `दमु उपशमे' (धा.पा.1203)।
`रराशे'[ररासे--काशिका.] इति। `राशृ शब्दे' [राशृ शब्दे--धा.पा.] (धा.पा.626) आत्मनेपदी। `शश्रमतुः शश्रमुः' इति। `श्रमु तपसि खेदे च' (धा.पा.1204)।
केचित्तु ततक्षतुः, ततक्षुरित्येतदेकहल्यध्यस्य प्रत्युदाहरणं पठन्ति; एतच्चायुक्तम्‌; क्ङितीत्यनुवर्त्तते, न च पक्षेः परस्य लिटः कित्त्वमस्ति। `असंयोगात्‌' इति प्रतिषेधात्‌ । `तत्सरतुः, तत्सरुः' इति। `त्सर छद्मगतौ' (धा.पा.554)। `चकणतुः, चकणुः' इति। `अण रण वण भण क्वण कण शब्दार्थाः' (धा.पा.444,445,446,447,450449)। तत्र कणतिर्भ्वादौ पठ्यते। `जगणतुः, जगणुः' इति। `गण संख्याने' (धा.प.1853) चुरादौ पठ्यते। ननु च चौरादिकत्वाण्णिचि कृते `कास्प्रत्ययादाममन्त्रे लिटि' (3.1.35) इत्यामा भवितव्यम्‌? `अनित्यण्यन्ताश्चुरादयः' (है.प.पा.97) इत्यदोषः। अनित्यण्यन्तत्वन्तु तेषां सप्तमे ज्ञापयिष्यते। `बभणतुः' इति। भणतिर्भ्वादौ पठ्यते शब्दार्थ एव।
`नेमतुः' इति। `णम प्रह्वत्वे शब्दे' (धा.पा.981)। `णो नः' (6.1.65) इति नत्वम्‌। `सेहे' इति। `षह मर्षणे' (धा.पा.852) `धात्वादेः षः सः' (6.1.64) इति सत्वम्‌। कथं पुनर्नत्वे सत्वे च लिटयादेशादी न भवतः? इत्यत आह--`अनैमित्तिके नत्वसत्वे' इत्यादि। नत्वसत्वविधाने हि न किञ्चिन्निमित्तमाश्रीयत इत्यनैमित्तिके एते भवतः, ततश्च प्रागेव लिडुत्पत्तेस्ताभ्यां भवितव्यम्‌। तेन तदादि यदङ्गं तल्लिट्यादेशादि न भवति। यदि तर्हि लिटाऽदेशो विशिष्यत एवं सत्यङ्गमविशेषितं स्यात्‌, ततश्च पक्वः पक्ववानित्यत्रापि प्रसज्येत, पचेरपि ह्यङ्गस्य लिटि परभूते य आदेशः क्रियते स इहाप्यादिर्नास्ति? नैतदस्ति; अभ्यासलोपसन्नियोगेन ह्येत्त्वमुच्यते। तेन यत्रैवाभ्यासलोपः तत्रैवैत्त्वेन भवितव्यम्‌। न चात्राभ्यासलोपः; असम्भवात्‌। इह तर्हि स्यात्‌--पापच्यत इति? अयमप्यदोषः; इह परत्वात्‌ `दीर्घोऽकितः' (7.4.83) इति दीर्घो भविष्यति। ह्रस्वहलादिशेषावुत्सर्गौ, तयोर्दीर्घत्वमेत्त्वञ्चापवादः। तत्र दीर्घस्यावकाशः--बाभास्यते, एत्वस्यावकाशः---पेचतुः, पेचुरिति; इहोभ्यं प्राप्नोति--पापच्यत इति, अपवादविप्रतिषेधे सति परत्वाद्दीर्घत्वं भविष्यति।
अथ बभणतुः, बभणुरित्यत्रेत्त्वं कस्मान्न भवति, `अभ्यासे चर्च' (8.4.54) इति जश्त्वे कृत आदेशादित्वादिति चेत्‌? न; एत्त्वे कर्त्तव्ये जश्त्वस्यासिद्धत्वात्‌। तस्माद्भवितव्यमेवैत्त्वेन। विप्रतिषेधस्य तु यत्र `कुहोश्चुः (7.4.62) इति श्चुत्वं क्रियते--चकणतुः, चकणुः, जहसतुः, जहसुरित्यादाववकशः स्यादित्यत आह--`इह' इत्यादि। कथमेतज्ज्ञायते--नास्त्यसिद्धत्वम्‌? इत्याह--`तथा च' इत्यादि। तदैव `तृफलभजत्रपश्च' (6.4.122) इति फलिभज्योरेत्त्वमुपपद्यते यदि जश्त्वचत्वंयोरसिद्धत्वं न भवति, नान्यथा। अनादेशादित्वादनेनैवैत्त्वस्य सिद्धत्वात्‌ तन्नोपपद्यते। तस्मात्‌ फलिभज्योरेत्त्वविधानाददसीयते--जश्त्वचर्त्त्वयोरसिद्धत्वमिह नास्तीति। `रूपाभेदे च' इत्यादि। `शब्दरूपस्य स्थानिनोऽबेदे सति य आदेशः स इह नाश्रीयते' इत्यस्यार्थस्य `न शसददवादिगुणानाम्‌' (6.4.126) इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्‌। `अभ्यासे चर्च' (8.4.54) इत्यनेन प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचरो भवन्तीति शसः शकारस्य शकारो भवति, ददेर्दकारस्यापि दकार; तेनोभावपि तावादेशादी भवतः। तत्र यदि स्थान्यभेदे सति य आदेशः सोऽपीहाश्रीयेत, तत आदेशादित्वादेव न भविष्यतीति शसिद्योरेत्त्वप्रतिषेधो न विधीयेत; विहितश्च, तस्मादेतदेव प्रतिषेधवचनं ज्ञापयति--रूपाभेदे सति य आदेशः स इह नाश्रीयत इति। यदि तर्ह्याश्रीयत किं स्यात्‌? इत्यत आह--`अन्यथा हि' इत्यादि। अन्यथा योऽपि रूपाभेदादादेशः स्थानिनाभिन्नरूपः सोऽपीहाश्रयेत, ततो यथा चकणतुरित्येवमादीनामेत्त्वं न भवति, तथा पेचतुः, पेचुरित्येवमादीनामपि प्रकृतिजश्चरादीनां न स्यात्‌। प्रकृतिजशः प्रकृतिचरश्चादयो येषान्ते तथोक्ताः। `अहं पपठ, अहं पपच' इति। अत्र स्थानिवद्भावेन पित्त्वात्‌ कित्त्वं नास्ति, तेनैत्त्वाभ्यासलोपौ न भवतः। वृद्धिरपि न भवति; `णलुत्तमो वा' (7.1.91) इति पक्षे णित्त्वाभावात्‌। णित्त्वपक्षे तु परत्वाद्‌वृद्ध्या बाधित्वादेत्त्वादेत्त्वाभायासलोपाभ्यां न भवितव्यम्‌, इत्यणित्त्वपक्ष एवोदाहृतम्‌।
`दम्भेः' इति। किं पुनः कारणं दम्भेरेत्त्वं न भवति, यावता `लिट्यनादेशाद्ह्येतदङ्गम्‌। `अनिदिताम्‌' (6.4.24) इत्यादिना न लोपे कृत एकहल्मध्य एवाकारः? इत्यत आह--`नलोपस्य' इत्यादि। `ग्रन्थिश्रन्थिदम्भिस्वञ्जीनाम्‌' (वा.17) इति सूत्रे [?] दम्भेः परस्य लिटः कित्त्वमुक्तम्‌, तस्मिन्‌ सति य उपधाया लोपस्तस्य `असिद्धवदत्रा भात्‌' (6.4.22) इत्यसिद्धत्वान्न प्राप्नोति। तस्माद्दम्भेरेत्त्वं वक्तव्यम्‌। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--`श्नसोरल्लोपः (6.4.111) इत्यत्रा भाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वं ज्ञापितम्‌, तेन दम्भेरेत्त्वे कर्त्तव्ये लोपस्यासिद्ध्त्त्वं न भवति, ततश्च दम्भेर्लिट्यत्त्वं भविष्यतीति। अथ वा `अत एकहल्मध्ये' (6.4.120) इत्यत्र `अतः' इति योगविभागः कर्त्तव्यः, तेन यत्र यत्रेत्त्वमिष्यते तत्र तत्र भविष्यतीति। एवञ्च कृत्वा `नशिमन्योरलिट्येत्त्वम्‌' (वा.793) इत्याद्यपि नोपसंख्येयम्‌; योगविभागेनैव सिद्धत्वात्‌। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थ इति सर्वत्र वेदितव्यम्‌। `अनेशम्‌' इति। `तस्थस्थ' (3.4.101) इत्यादिना मिपोऽम्भावः।
अथ `मेनका' इत्यत्र `प्रत्ययस्थात्‌' (7.3.44) इत्यादिनेत्त्वं कस्मान्न भवति? इत्याह--`क्षिपकादिषु' इत्यादि। क्षिपकादिष्वित्त्वस्य प्रतिषेधो वक्ष्यते। अस्य च क्षिपकादिषु प्रक्षेपः, तेनेत्त्वं न क्रियते।
`चानशि' इति। `तच्छील्यवयोवचनशक्तिषु चानश' (3.2.129) `मुक्‌ न क्रियते' इति। `आने मुक्‌' (7.2.82) इति मुक्‌ प्राप्नोति, स न भवति `अनित्यमागमशासनम्‌' (व्या.पा.95) इति कृत्वा। छान्दसत्वाद्वा--`सर्वे विधयश्छन्दसि विकल्प्यन्ते' (भो.प.99) इति। `छान्दसं ह्रस्वत्वम्‌' इति। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्‌' (6.3.63) इति ङ्यापोर्विधीयमानं ह्रस्वत्वं बहुलवचात्‌ `पेरिरन्नित्यत्रापि वति। पचेर्लिङ्, सीयुट्‌, झस्य रन्‌, शप्‌, `आद्गुणः' (6.1.87)। पचेरन्निति प्राप्त एत्त्वे ह्रस्वत्त्वे च कृते पेचिरन्निति भवति।।

121. थलि च सेटि। (6.4.121)
`पेचिथ, शेकिथ' इति। `उपदेशेऽत्वतः' (7.2.62) इतीट्प्रतिषेधप्राप्तः `ऋतो भारध्वाजस्य' (7.2.63) इति नियमादिहेङभवति। तदयमत्रार्थः--ऋत एव भारध्वाजस्येेति, नान्येषां धातूनामिति।
`पपक्थ' इति। अन्येषामाचार्याणां मतेनेट्प्रतिषेधो भवत्येव।
अथ थल्ग्रहणं कमर्थम्‌, `न सोटि इत्येवोच्येत; यत्र हि पूर्वेण न सिद्ध्यते तदर्थं वचनम्‌, अन्यत्रेडादौ कित्त्वात्‌ पूर्वेणैव सिद्धम्‌, तत्रान्तरेणापि थल्ग्रहणं थल्येव भविष्यति? इत्यत आह--`थल्ग्रहणम्‌' इत्यादि असति थल्ग्रहणे, आरम्भसार्थ्यादेतावान्‌ निश्चयः स्यात्‌--यत्र पूर्वेण न सिद्ध्यति तदर्थमेतदिति। अक्ङिदर्थमित्येतत्‌ तु दुरवसानम्‌; बहवो विशेषाः प्रकान्ताः, तत्र सन्देहः स्यात्‌--किमक्ङिदर्थमेतत्‌ स्यात्‌, उतादेशार्थम्‌? आहोस्विदनेकहल्मध्यार्थम्‌? किमु अनेकाकारार्थमिति? तत्रासन्देहार्थम्‌ `अत एकहल्मध्येऽनादेशादेर्लिटि' (6.4.120) इत्येते विशेषाः सर्व एवेहानुवर्त्तन्ते। क्ङिद्ग्रहणन्तु निवृत्तम्‌। तस्मात्‌ क्ङिदर्थोऽयमारम्भः। न च थलोऽन्यदिहाक्ङिदस्ति सेट्‌। ततः सामर्थात्‌ थल्येवायं विधिर्व्याख्येयः। व्याख्यानद्वारेण प्रतिपत्तौ मन्दधियां प्रतिपत्तिगौरवं स्यात्‌। तस्माद्विस्पष्टार्थं थल्ग्रहणं क्रियते। थलो ह्यक्ङित उपादाने सुखमेव प्रतीयते--अक्ङिदर्थोऽयमारम्भ इति।।

122. तॄफलभजत्रपश्च। (6.4.122)
`तेरतुः तेरुः' इति। `ऋच्छत्यॄताम्‌'(7.4.11) इति गुणः। `फेलतुः, फेलुः' इति। `फल निष्पत्तौ' (धा.पा.530), `ञि फला विशरणे' (धा.पा.516) इति च। `तरतेर्गुणार्थम्‌' इति। `न शसददवादिगुणानाम्‌' (6.4.123) इति प्रतिषेधं वक्ष्यति। अतस्त्रतेरिदं वचनं गुण इत्येवमभिनिवृत्तस्यापि यथा स्यादित्येवमर्थम्‌।
`श्रन्थेश्चेति वक्तव्यम्‌' इति। `ग्रन्थ श्रन्थ सन्दर्थे' (धा.पा.1511,1512) इत्यस्याप्येत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--चकारोऽतत्र क्यिये, स चानुक्तसमुच्चयार्थः, तेन श्रन्थेरपि भविष्यतीति। `श्रेथतुः, श्रेथुः' इति पूर्ववदुपसंख्यानेन लिटः कित्त्वे नकारलोपः।।

123. राधो हिंसायाम्‌। (6.4.121)
`राधो हिंसायामर्थे' इत्यादि। यद्यपि `राध साध संसिद्धौ' (धा.पा.1262,2363) इति राधिः संसिद्धौ पठ्यते, इह तथाप्यनेकार्थत्वाद्धातूनां हिंसार्थता वेदितव्या। राधेर्हिसायमर्थेऽवर्णस्यैकारादेशो भवतीत्युच्यते।
ननु च नात्र सूत्रेऽवर्णग्रहणमस्ति, योऽप्यत्रत्योऽवर्णः प्रकृतः सोऽपि मात्राकालः, न च राधेर्मात्राकलोप्रऽवर्णोऽस्ति, तत्‌ कथमवर्णस्य स्थान एत्त्वं लभ्यते? इति यश्चोदयेत्‌ तं प्रत्याह--`अत इत्येतदिहोपस्थितम्‌' इत्यादि। `अतः' इति स्वरितत्वादिहोपस्थितम्‌, यदिहोपस्थितं तत्‌ तपरत्वकृतस्य कालविशेषस्याभावात्‌ तदपास्य=परित्यज्यावर्णमात्रं स्थानित्वेन प्रत्याययति=दोधयति; अन्यथा तस्योपस्थानमनर्थकं स्यात्‌।
`अथ वा' इत्यादि। `श्नाभ्यास्तयोः' (6.4.112) इत्यनेन यतः सूत्रात्‌ स्थान्यनुवर्त्तते तदुपलक्षयति। `आतः' इत्यनेनापि यः स्थान्यनुवर्त्तते तं दर्शयति--`श्नाभ्यरत्तयोरात्‌ इत्यत आत इत्यनुवर्त्तत इति व्याख्येयम्‌' इति। एवञ्च व्याख्यायमाने राधेरवर्णस्येत्त्वं विज्ञायते यदि तर्ह्यत इत्यनुवर्त्तते, एवञ्च सति `अत एकहल्मध्ये' (6.4.120) इत्यत्रापि तस्यातः सन्निधानादिहापि प्राप्नोति--शशासिव शशसिमेति? नैष दोषः; मण्डूकपलुतिन्यायेन तस्येहानुवृत्तिः।
`एकहल्मध्ये वा' इत्यादि। अथ वा--एकहल्मध्य इत्यनुवर्त्तते, तत्राप्यनुवर्त्तमानेऽसम्भवादत इतीह न व्याप्रियते। तेन राधेर्यः एकहल्मध्येऽवयवः स स्थानी भवति, स पुनराकार एव भवति, तस्यैवैत्त्वं भविष्यति।।

124. वा जॄभ्रमुत्रसाम्‌। (6.4.124)
`जॄ वयोहानौ' (धा.पा.1494) [`जृ--मु.पाठः] इत्यस्य गुणार्थं वचनम्‌। भ्रमेरादेशार्थम्‌, अनेकहल्मध्यार्थञ्च त्रसेश्चानेकहल्मध्यर्थम्‌। `जजरतुः' इति। पूर्ववद्गुणः।।

125. फणाञ्च सप्तानाम्‌। (6.4.125)
बहुवचननिर्देशादाद्यर्थो गम्यते। अत आह--`फणादीनाम्‌' इत्यादि। `फण गतौ' (धा.पा.821) `राजृ दीप्तौ' (धा.पा.822) `टु भ्राजृ टु भ्राश्रृ टु भ्लाश्रृ दीप्तौ' (धा.पा.823-825)। `स्यमु स्वन ध्वन शब्दे' (धा.पा.826-828) इत्येते ध्वनवर्जिताः फणादयः सप्त। तत्राद्यस्य नित्ये प्राप्ते विकल्पार्थं वचनम्‌, इतरेषामप्राप्ते। तत्र राजृप्रभृतीनां चतुर्णामवर्णस्यैत्त्वस्य प्रतिप्रत्तये `राधो हिंसायाम्‌' (6.4.123) इत्यत्र `अत इत्येतदिहोपस्थितम्‌' इत्यादिना यदुक्तं तद्यथासम्भवं वेदितव्यम्‌।।

126. न शसददवादिगुणानाम्‌। (6.4.126)
अत्र यदि गुण इत्येनेन यस्यैत्त्वं विहितं स एत्राकार उच्यते, ततोऽयमर्थः--अकारस्य गुणस्य न भवतीति। तथा चैत्त्वविधिरनवकाश एव स्यादित्येतद्बुद्धौ कृत्वा नात्र गुणेनाकार एवोच्यते, अपि तु गुणशब्दभिनिर्वृत्त इति दर्शयन्नाह--`गुण इत्येवमभिनिर्वृत्तस्य च' इत्यादि। गुणशब्दमुच्चार्य योऽभिनिर्वृत्तः शब्दस्तस्य सम्बन्धी योऽकारस्तस्य स्थान एत्त्वं न भवतीत्यर्थः। तत्सम्बन्धित्वं पुनस्तस्य तत्स्थानिकत्वात्‌ तदवयवत्वाच्च यद्यायोगं वेदितव्यम्‌। तदेवं गुणशब्दाभिनिर्वृत्तस्य सम्बन्ध्यकारः प्रतिषेधस्य निमित्तम्‌, इतरस्तु विधेरित्येव विधिप्रतिषेधयोर्विषयविभागः। `विशशसतुः' इति। `शसु हिंसायाम्‌' (धा.पा.727)। `दददे' इति। `दद दाने' धा.पा.17)। `ववमतुः' इति। `टु वम उद्‌गिरणे' (धा.पा.849) `विशशरतुः' इति। `शृ हिंसायाम्‌' (धा.पा.1488)। `गुणशब्दभिनिर्वृत्तस्य' इत्यादिना यदुक्तं तस्यार्थमुदाहरणे दर्शयति। `विशशरतुः' इत्यत्रारित्ययं शब्दो गुणशब्दाभिनिर्वृत्तः। तत्सम्बन्ध्यकारस्य तदेकदेशात्वात्‌। `लुलविथ' इति। अत्राप्योकारो गुणशब्दाभिनिर्वृत्तः तत्सम्बन्ध्यकारस्य तत्स्थानिकत्वात्‌। ननु `विशशरतुः' इत्यत्राकारमात्रं गुणशब्देनाभिनिर्वृत्तम्‌, नाऽर्‌शब्दः! नैतदस्ति; रेफस्य गुणभक्तत्वात्‌। तथा च भाष्यम्‌--`अर्भवति गुणो भवति, आर्भवति वृद्धिर्भवति--रेफसहितो गुणवृद्धिसंज्ञो भवति' इति।।

127. अर्वणस्त्रसावनञः। (6.4.127)
`त्‌' इत्ययमादेशो भवति' इति। `नानुबन्धकृतमनेकाल्त्वम्‌' (व्या.प.14) इत्यन्तस्य भवति; एकाल्त्वात्‌, कारस्यानुबन्धत्वात्‌। उकारस्यानुबन्धत्वात्‌ प्रथमैकवचनं सुशब्दो गृह्यते, तेन सप्तमीबहुवचने भवत्येव--अर्वत्स्वित। स च नञ उत्तरो न भवतीति चेदिति यत्‌ प्रकृतं तदिहापि सम्बध्यते। `अर्वन्तौ' इति। ऋकारस्योगित्कार्यार्थत्वात्‌ `उगिदचाम्‌' (7.1.70) इति नुम्‌। `अर्वति' इति। `उगितश्च' (4.1.6) इति ङीप्‌। `आर्वतम्‌' इति। अपत्यार्थविवक्षायामण्‌। ननु च नञिवयुक्तन्यायेन (व्या.प.65) सादृश्यात्‌ सोरन्यत्र विभक्तादेव भवितव्यम्‌? नैतत्‌; असाविति प्रसज्यप्रतिषेधोऽयम्‌। अत एव वृत्तिकृतोक्तम्‌--`सुश्चेत्‌ ततः परो न भवति' इति। अन्यथा सोरन्यो यः सुप्‌ स चेत्‌ ततः परो भवतीति ब्रूयात्‌। अथापि पर्युदासः? एवमप्यदोषः; अनित्यत्वान्नञिवयुक्तपरिभाषायाः। अनित्यत्वन्तु तस्याः `ओषधेश्च विभक्तावप्रथमायाम्‌' (6.3.132) इत्यत्र विभक्तिग्रहणाद्विज्ञायते। यदि हि सा नित्या स्यात्‌, प्रथमापर्युदासेन विभरक्तावेव भविष्यतीति विक्तक्तिग्रहणं न कुर्यात्‌। कुर्वन्नपि तज्ज्ञापयति--अनित्येयं परिभाषेति।।

128. मघवा बहुलम्‌। (6.4.128)
मधवेति सुव्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। `मधोनः' इति। `श्वयुवमधोनाम्‌' (6.4.133) इति समप्रसारणम्‌, परपूर्वत्वम्‌, `आद्गुणः' (6.1.87)। ननु च मघोऽस्यास्तीति मत्वर्थविवक्षायां `छन्दसीवनिपो वकतव्यौ' (वा.582) इति वनिप्‌रत्ययान्तोऽयं मघवन्शब्दः। तत्र वनिपः सम्प्रसारणे भसंज्ञायां सत्याम्‌, `यस्येति च' (6.4.148) इति लोपेन भवितव्यम्‌, ततश्च `मधुनः' इत्यनिष्टं रूपं स्यात्‌? नैतत्‌; अन्येव हीदमव्युत्पन्नं प्रातिपदिकम्‌, तथा हि भावायामपि तस्य प्रयोगो दृश्यते। अथापि वनिप्प्रत्ययान्तः स्यात्‌? एवमपि बहुलवचनात्‌ `यस्येति' (6.4.148) इति लोपो न भविष्यतीत्यदोषः। `मघोनी' इति। `ऋन्नेभ्यो ङीप्‌' (4.1.5)। `माघवनम्‌' इति। पूर्ववदण्‌। `अन्‌' (6.4.67) इति प्रकृतिवद्भावः।।

129. भस्य। (6.4.129)

130. पादः पत्‌। (6.4.130)
`पादः' इति। `पादशब्दो लुप्ताकारो गृह्यते' इति। अथ पादयतेः क्विबन्तस्य यः पाच्छब्दः सम्पद्यते स कस्मान्न गृह्यते? तस्यासम्भवात्‌। पादयतेर्हि क्विप्‌ `अन्येभ्योऽपि दृश्यते' (3.2.178) इत्यनेन स्यात्‌? स च `दृश्यते' इति वचनान्न भवति। यत्र लोके क्विबन्तप्रोयगो दृश्यते तत्र यथा स्यादित्येवमर्थं हि तत्र `दुश्यते' इत्तयुक्तम्‌, न च पादयतेः क्विबन्तस्य प्रयोगो दृश्यते? पादशब्दस्य समास एवाकारो लुप्यते, तेन सामर्थ्यात्‌ तदन्तस्याङ्गस्य कार्यं विज्ञायत इत्याह--`तदन्तस्याङ्गस्य' इत्यादि। यदि तर्हि पाच्छब्दन्तस्याङ्गस्य पदित्ययमादेशो विज्ञायेत, एवं तर्हि `ये न विधिस्तदन्तस्य' (1.1.72) इति सर्वस्य तदन्तस्य प्राप्नोतीत्याह--`स च' इत्यादि। `द्विपदः' इति। द्वौ पादवस्येति बहुव्रीहिः। `संख्यासुपूर्वस्य' (5.4.140) इत्यकारलोपः। `द्विपदिकाम्‌' इति। द्वौ द्वौ पादौ ददातीति `पादशतस्य' (5.4.1) इत्यादिना वुन्‌। `वैयाघ्रपद्यः' इति। व्याघ्रस्येव पादावस्येति बहुव्रीहिः, `पादस्य लोपोऽहस्त्यादिभ्यः' (5.4.138) इत्यकारलोपः, व्याघ्रपदोऽपत्यमिति गर्गादित्वाद्यञ्‌।।

131. वसोः सम्प्रसारणम्‌। (6.4.131)
प्रत्ययग्रहणपरिभाषया (भो.प.सू.7) तदन्तस्य कार्यं विज्ञायत इत्याह--`वस्वन्तस्य, इत्यादि। `विदुषः' इति। `विदेः शतुर्वसुः' (7.1.36)। `पेचषः' इति। `क्वसुश्च' (3.2.107) इति लिटः क्वमुः, `अत एकहल्मध्ये' (6.4.120) इत्यादिनैत्तवाभ्यासलोपौ। `पपुषः' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। ननु चाकारलोपे कर्त्तव्ये सम्प्रसारणमसिद्धम्‌, तत्‌ कुतोऽत्राकारलोपः? इत्याह--`आकारलोपे कर्त्तव्ये' इत्यादि। आकारलोपः सम्प्रसारणे, तत्तु विभक्ताविति वयाश्रयत्वम्‌, अतो नास्त्यसिद्धत्वम्‌। ननु च एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य' (व्या.प.52) इति, `तदनुबन्धकग्रहणे नातदनुबन्धकस्य' (व्या.प.54) इति वा न क्वसोरिह ग्रहणेन भवितव्यम्‌, तत्‌ कथं पपुषः, पेचुष इत्यत्र सम्प्रसारणं भवति? इत्याह--`वसुग्रहणे' इत्यादि। एतत्तु शत्रादेशस्य वसोरुकारानुबन्धकरणाद्वेदितव्यम्‌। उकारानुबन्धस्य ह्येतदेव फलम्‌--इह सामान्येन ग्रहणं यथा स्यात्‌। ननु चोगत्त्वार्थं तत्‌ स्यात्‌? नैतत्‌; उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात्‌।।

132. वाह ऊठ्‌। (6.4.132)
`वाहः' इति। वहिरयं ण्विप्रत्ययान्तः, स चास्मात्सोपपदादेव ण्विर्विहितः। तेन सामर्थ्यात्‌ तदन्तविधिर्विज्ञायत इत्याह--`वाह इत्येवमन्तस्य' इत्यादि। `ऊडित्येतत्‌' इति। ठिदयमूकारः। `एत्येधत्यूठ्सु' (6.1.89) इति विशेषणार्थः। `सम्प्रसारणं भवति' इति। सम्प्रसारणमित्येष विशेषः कुतो लभ्यते। पूर्वसूत्रात्‌ सम्प्रसारणमित्यस्यानुवृत्तेः। किमर्थं पुनः सम्प्रसारणमनुवार्यते? स्थानिनियमार्थम्‌। यद्येतन्नानुवर्त्यते, यण एव स्थाने `इग्यणः सम्प्रसारणम्‌' (1.1.45) इति भवितव्यम्‌। `प्रष्ठौहः' इति। प्रष्ठं वहतीति `भजो ण्विः' (3.2.62) इत्यनुवर्त्तमाने `वहश्च' (3.2.64) इति ण्विः।
अथ किमर्थमूठ्‌ क्रियते, न `वाह' इत्येतावदेव सूत्रं कर्त्तव्यमित्यभिप्रायः। `सम्प्रसरण एव कृते' इति। पूर्वसत्रात्‌ समप्रसारणग्रहणानुवृत्तेः। `गुणे च' इति। कृत इति सम्बन्धः। गुणस्तु `पुगन्तलघूपधस्य च' (7.3.86) इति लुप्तेऽपि ण्वौ प्रत्यलक्षणेन। ननु च `अङ्गवृत्ते पुनरङ्गवृत्तावविधि निष्ठितस्य' (व्या.प.38) इति सम्प्रसारणे कृते गुणेन न भवितव्यम्‌? `निष्ठितस्य' इति। `वचनाददोषः। निष्ठा हि शब्दस्य परिसमाप्तिः, सा च तदा भवति यदा शब्दसय प्रयोगार्हता भवति। न च यावद्गुणादिसंस्कारो न क्रियते तावदस्य प्रयोगार्हता भवति। तस्मात्‌ कृतेऽपि सम्प्रसारणे भवत्येव गुणः, तत्रेतत्‌ स्यात्‌। यद्यूड् न क्रियते, तदा शार्लि वहति, दितिं वहति, शाल्युहः, दित्यूह इत्येवमाद्यनकारन्ते शालिदितिशब्द उपपदे वहेर्ण्वि प्रत्यये विहिते सति न सिद्ध्यतीत्यत आह--`अनकारान्ते चोपपदे' इत्यादि। `वहश्च' (3.2.64) इत्यनेन `छन्दसि सहः' (3.2.63) इत्यतोऽत्र छन्दोग्रहणानुवृत्तेश्छन्दस्येव ण्विर्विधीयते, दृष्टार्थविधिश्छन्दसि, अकारान्त एव चोपपदे प्रष्ठादौ वहेश्छन्दसि ण्विर्दृश्यते न त्वकारान्ते शाल्यादौ। कथं पुनरनेन बहिरङ्गपरिभाषा ज्ञाप्यते? इत्याह--`तस्यां हि' इत्यादि। बहिरङ्गत्त्वं पुनः सम्प्रसारणस्य बाह्याजादिप्रत्ययनिमित्तां भसंज्ञामाश्रित्य प्रवृत्तात्वात्‌। गुणस्य त्वन्तरङ्गत्त्वम्‌; अबाह्मप्रत्यये प्रवृत्तत्वात्‌। किं पुनरस्याः परिभाषायाः ज्ञापनेनप्रयोजनम्‌? पचावेदम्‌, यजावेदमित्यत्रः सिद्धत्त्वं बहिरङ्गलक्षणस्य। अतोऽन्तरङ्गलक्षणमेत ऐत्वं न भवति; बहिरङ्गलक्षणत्वाद्गुणस्य। बहिरङ्गत्वन्तु पदद्वयाश्रितत्वात्‌। ऐत्वस्य त्वन्तरङ्गत्वं विपर्ययात्‌।।

133. श्वयुवमघोनामतद्धिते। (6.4.133)
`यूनः' इति। सम्प्रसारणे कृते परपूर्वत्वे च सवर्णदीर्घत्वम्‌। `शौवम्‌' इति। `नस्तद्धिते' (6.4.144) इति टिलोपः। `यौवनम्‌' इति। यूनो भाव इति `हायनान्तयुवादिभ्योऽण्‌' (5.1.130) इत्यण्‌, `अन्‌' (6.4.167) इति प्रकृतिभावात्‌ `टेः' (6.4.143) इति टिलोपाल्लोपौ न भवतः। `माघवनम्‌' इति--मघवा देवताऽस्येति `सास्य देवता' (4.2.24) इत्यण्‌, पूर्ववत्प्रकृतिभावः। `शौवम्‌' इत्येतद्व्युत्पादयितुमाह--`शुनो विकारः' इत्यादि। युवशब्दस्य तिप्रत्ययान्तस्यापि `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्‌' (व्या.प.29) इति सम्प्रसारणं प्राप्नोति। मधवन्नित्यस्यापि त्रित्यादेशे कृते `एकदेशविकृतमनन्यवद्भवति' (व्या.प.16) इति तकारान्तस्यापि प्राप्नोति। तत्‌ कथं न भवति? इत्याह--`श्वादीनाम्‌' इत्यादि।
`तदर्थम्‌' इति। नकारान्तानामेव यथा स्यात्‌, अनकारान्तानां मा भूदित्येवमर्थम्‌। `अन इत्युभयोः शेषः' इति। अन इत्यस्योभयोर्योगयोः शेषत्वेऽवयवत्वे सत्यन इत्यनेन सम्प्रसारणशेषस्यातिदेश इति न भवति।।

134. अल्लोपोऽनः। (6.4.134)
तपरकरणं नञ्समासोऽयमित्याशङ्कानिरासार्थम्‌।

`राजकीयः' [`राजकीयम्‌'--काशिका] इति। `गर्त्तोत्तरपदाच्छः' (4.2.137) इति छे प्रकृते `राज्ञः क च' (4.2.140) इति छः, ककारश्चान्तादेशः। अत्रापि `एकदेशविकृतमनन्यवद्भवति' (व्या.प.16) इति।।

135. षपूर्वहन्धृतराज्ञामणि। (6.4.135)
`अन्‌' (6.4.167) इति प्रकृतिभावेनाल्लोपस्य निवृत्तिर्मा भूदित्येवमर्थ वचनम्‌। `औक्ष्णः, ताक्ष्णः' इति। उक्षन्‌, तक्षन्‌, इत्येताभ्यामपत्यार्थेऽण्‌। `भ्रौणाध्नः' इति। भ्रूणं हतवानिति `ब्रह्मभ्रूणवृत्रेषु हनः' (3.2.87) [`ब्रह्मभ्रूणवृत्रेषु क्विप्‌' इति सूत्रम्‌] इति क्विप्‌, तदन्तादण्‌, `हो हन्तेर्ञ्णिन्नेषु' (7.3.54) इति कुत्वम्‌। `धार्त्तराज्ञः' इति। घृतराजशब्दाद्बहुव्रीहेरण्‌।
`सामनः, वैमनः' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌, `उभावपि न भवतिः' इति। अल्लोपटिलोपावुभावपि चापेक्ष्य प्रकृतिभावस्य विधानात्‌। `ताक्षण्यः' इति। `कुर्वादिब्यो ण्यः' (4.1.151) इति ण्ये प्रकृते सेनान्तलक्षणकारित्वाण्ण्यप्रत्ययः' (4.1.152), `ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिभावः।।

136. विभाषा ङिश्योः। (6.4.136)
`शीशब्दे च' इति। एतेन `नपुंसकाच्च' (7.1.19) इति यो विहितः शोशब्दस्तस्येदं ग्रहणम्‌, न तु `जश्शसोः शिः' (7.1.20) इति यो विहितः शिशब्दस्तस्येदं ग्रहणमिति दर्शयति। कुतः पुनरेतज्ज्ञायते? शिशब्दे भसंज्ञाया अभावात्‌।।

137. न संयोगाद्वमन्तात्‌। (6.4.137)
`प्रति दीव्ना' इति। `हलि च' (8.2.77) इति दीर्घः। अथान्तग्रहणं किमर्थम्‌, न `दमः' इत्येवोच्येत, वकारमकाराभ्यां संयोगेन विशिष्यमाणेन च तदन्तविधिर्भवतीत्यन्तरेणाप्यन्तग्रहणं तदन्तविधिर्लभ्यत एव? सत्ययेतत्‌, विस्पष्टार्थमन्तग्रहणम्‌।।

138. अचः। (6.4.138)
`अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यते' इति। कुत एतत्‌, प्रत्याहारः कस्मान्न गृह्यते? `अल्लोपः' (6.4.134) इत्यानुवृत्तेर्न शक्यते प्रत्याहारो ग्रहीतुम्‌। प्रत्याहारग्रहणे सति तेनाकारो विशिध्येत, तथा चानर्थकं प्रत्याहारग्रहणं स्यात्‌। न ह्यकारोऽचत्वं व्यभिचरति। ननु चाङ्गं प्रकृतम्‌, तत्‌ प्रत्याहारेण विशिष्यते--अजन्तस्याङ्गस्येति? न; एवं सत्यजन्तस्याङ्गस्याल्लोपो भवतीत्येष सूत्रार्थः स्यात्‌। तथा च `यस्येति च' (6.4.148) इति लोपोऽनर्थकः स्यात्‌; अनेनैव सिद्धत्वात्‌। अपि च `द्युप्रागपागुदक्प्रतीचो यत्‌' (4.2.101) इत्येत्रमादिनिर्देशो लिङ्गं ह्यत्राप्रत्याहारग्रहणस्य। यदि हि प्रत्याहारग्रहण स्यात्‌, अत्राञ्चतेर्ग्रहणं न स्यात्‌, न ह्येतदजन्तमङ्गम्‌। अत एव निर्देशात्‌ पचाद्यजपि न गृह्यते। न ह्येतत्‌ पचाद्यजन्तमङ्गम्‌। `दधीचः' इति। दध्यञ्चतीति ऋत्विगादिना (3.2.59) क्विन्‌, `आनिदिताम्‌' (6.4.24) इत्यादिनानुनासिकलोपः; `चौ' (6.3.138) इति दीर्घः।।

139. उद ईत्‌। (6.4.139)

140. आतो धातोः। (6.4.140)
`कीलालपः' इति। `विजुपे छन्दसि' (3.2.73) इति विचि प्रकृते `आतो मनिन्क्वनिब्वनिपश्च' (3.2.74) इति विच्‌। `नियेः' इति। क्विप्‌ इयङ।।

141. मन्त्रेष्वाङ्यादेरात्मनः। (6.4.141)
`आङ' इति तृतीयैकवचनस्यैषा संज्ञा पूर्वाचार्यैर्विहिता। `आङोऽन्यत्रापि दृश्यते' इति। `मन्त्रेषु' इति बहुवचननिर्देशादेतल्लभ्यते। बहुवचननिर्देशेन ह्ययमर्थः सूचितः--बहुविषयोऽयं निर्देश इति। एवञ्च बहुविषयो भवति यद्याङोऽन्यत्रापि क्वचिद्भवति, नान्यथा। `त्मान्यासमञ्जत' इति। सप्तम्येकवचने। अत्रादिलोपः।
आदिग्रहणमुत्तरार्थम्‌। इह तु पूर्वसूत्रात्‌ `आतः' (6.4.140) इत्यनुवृत्तेरन्तरेणाप्यादिग्रहणमादेरेवलोपो भवतीति शक्यते विज्ञातुम्‌।।

142. ति विंशतेर्डिति। (6.4.142)
`विंशकः' इति। `विंशतिर्त्रिशद्भ्यां ड्वुनसंज्ञायाम्‌' (5.1.24) इति ड्वुन्‌, तिशब्दस्य लोपे कृते अतो गुणे' (6.1.97) पररूपत्वम्‌। `विंशं शतम्‌' इति। विंशतिरधिकाऽस्मिन्निति `शदन्तर्विशतेश्च' (5.2.46) इति डप्रत्ययः। `विंशः, एकविंशः' इति। तस्य पूरणे डट्‌ (5.1.48)। तिग्रहणमनत्यस्य मा भूदित्येवमर्थम्‌।।

143. टेः। (6.4.143)
`कुमुद्वान्‌' इत्यादि। कमुदनडवेतसेभ्यश्चातुरर्थिको ड्मतुप्‌ (4.2.87)। `उपसरजः' इति। `सप्तम्यां जनेर्डः' (3.2.97) एवं `मन्दुरजः' इत्यत्रापि। अत्र हि `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्‌' (6.3.63) इति पूर्वपदस्य ह्रस्वत्वम्‌। `त्रिंशकः' इति। पूर्ववत्‌ ड्वुन्‌। ननु च `भस्य' (6.4.129) इत्यनुवर्त्तते, न च ड्मतुपि डप्रत्यये च धातोर्विहिते पूर्वस्य भसंज्ञा प्राप्नोति, उभयोरनजादित्वात्‌ अस्वादित्वाच्च यथायोगम्‌, तत्‌ कथमत्र लोपो भवति? इत्याह--`डित्यभस्यापि' इत्यादि। यदि टिलोपो न स्यात्‌, तदा डित्त्वमनर्थकं स्यात्‌। अथैवं कस्मान्न विज्ञातुम्‌। एवं तर्हि `प्रावृट्शरत्कालदिवां जे' (6.3.15) इति कृतटिलोपस्य जनेर्निर्देशो नोपपद्येत? तस्मादत एव निर्देशादवसीयते--भवति धातुप्रत्ययडकारस्येत्संज्ञेति। तस्याञ्चासत्यां यदि टिलोपो न स्यात्‌, तस्यास्तदा वैयर्थ्यं स्यात्‌। ड्मतुपोऽपि यदि डकारस्य लोपो न स्यात्‌, तदन्तेन तन्नामादेशो न गम्येत, तत्र च `देशे तन्नाम्नि' (4.2.67) इति वर्त्तते। तस्मादवश्यं तत्रापि डकारस्येत्संज्ञया भवितव्यम्‌, तस्याञ्च तत्सामर्थ्याट्टिलोपेन।।

144. नस्तद्धिते। (6.4.144)
`सात्वतः' इति। सत्वतोऽपत्यमित्यण्‌। `नान्तस्य टिलोपः' इत्यादि। किं पुनः कारणं न सिद्ध्यति यत उपसंख्यानं कर्त्तव्यम्‌? इत्याह--`अत्र य इन्नन्ताः' इत्यादि। ये त्वन्नन्तास्तेषाम् अन्‌' (6.4.167) इति प्रकृतिभावः प्राप्त इति प्रकृतेन सम्बन्धः। `साब्रह्मचारः' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌। `पीठसर्पिणः' इति। इम इति प्रकृतेन सम्बन्धः। `पैठसर्पाः' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌। `पीठसर्पिणः' इति। इम इति प्रकृतेन सम्बन्धः। `पैठसर्पाः' इति। पूर्ववदण्‌। `कालापाः' इति। पूर्ववत्प्रोक्तार्थे `कलापिवैशम्यायनान्तेवासिभ्यश्च' (4.3.104) इति वैशम्पायनान्तेवासित्वाण्णिनिप्रत्यये प्राप्ते तदपवादः `कलापिनोऽण्‌' (4.3.108), ततः `तदधीते तद्वेव' (4.2.59) इत्यण्‌, तस्य `प्रोक्ताल्लुक्‌' (4.2.64) इति लुक्‌, `छन्दोब्राह्मणानि च तद्विषयाणि' (4.2.66) इत्यध्येतृवेदितृविषयता। `कोथुमाः' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌। `तत्कृतो ग्रन्थ उपचारात्‌' इत्यादि। उपचारस्य तु तत्कृतत्वात्र निबन्धनम्‌। भवति हि तत्कृतत्वे तदुपचारः, यथा सर्वमिदं पुराणं कर्म शुभाशुभं भुज्यत इति। अथ कस्मादुपचार आश्रीयते, न `अधिकृत्य कृते ग्रन्थे' (4.3.87) इत्येवमादिशैषिकार्थविवक्षायां तद्धित एव क्रियेत? इत्यत आह--`शैषिकेष्वर्थेषु' इत्यादि। तैतिलिजाजलिशब्दौ वृद्धसंज्ञकौ, तयोर्वृद्धत्वात्‌ शैषिकेष्वथषु विधीयमानोऽसौ तद्धितः `वृद्धाच्छः' (4.2.114) इति छः प्रसज्येत। तस्मिंश्च सति `तैतिलाः, जाजलाः' इति न सिद्ध्येत्‌, तस्मान्मा भूदेष दोष इत्युपचार आश्रितः। `एवम्‌' इत्यनेनान्तरोक्तां व्युत्पत्तिं दर्शयति छप्रत्ययनिवृत्तये। लाङ्गलिशब्दस्याप्येवं व्युत्पत्तिः कर्त्तव्या। लाङ्गलिः आचार्यः, तत्कृती ग्रन्थ उपचारात्‌ लाङ्गलशब्देनाभिधीयते। `लाङ्गलाः' इति। `शिखण्डाः` इत्याद्युदाहरणत्रयेऽपि `तस्येदम्‌' (4.3.120) इत्यण्‌।
`आश्मः' इति। अत्रापि `तस्य विकारः' (4.3.134) इत्यण्‌। `आश्मनोऽन्यत्र' इति। अत्रापि `तस्येदम्‌' (4.3.120) इत्यत्रार्थाभिधाने। `चार्मः' इत्यत्रापि `तस्येदम्‌' (4.3.120) इत्यणेव।
`चर्मणोऽन्यः' इति। चर्मणो विकार इति। `शौवः' इति। `द्वारादीनाञ्च' (7.3.4) इत्यैजागमः।
सायम्प्रातिकायः प्रातिपदिकेषु न पठ्यन्त इत्यतः पृच्छति--`के पुनः सामम्प्रातिकादयः इति। सायम्प्रातिकप्रकारा इत्यनेन प्रकारवचनतामादिशब्दस्य दर्शयति।
ननु च `सायञ्चिरम्‌' (4.3.23) इत्यादिनाऽव्ययेभ्यष्ट्युल्भ्यां भवितव्यम्, तत्‌ कथं ठञ्‌ भवति? इत्याह--`ट्युट्युलौ तु नेष्येते' इति। अनभिधानात्‌। अत्र च सर्वत्रोपसंक्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्‌--मन्त्रेष्वित्यादेः (6.4.141) सूत्रादादिग्रहणमनुवर्त्तते, तद्धितग्रहणञ्चेदमर्थमेव कृतम्‌। तदनुवृत्तौ चायमर्थो भवति--नान्तादीनां तद्धिते परतष्टिलोपो भवतीति। आदिशब्देन सायम्प्रातिकादयो गृह्यन्ते। तेन सर्वत्र टिलोपः सिद्धो भवति। `इत्येवमादिषु न दृश्यते टिलोपः' इति। एतेनारातीयः इत्येवमादीनामसायम्प्प्रातिकत्वं दर्शयति। अथ `शाश्वतः' इत्यत्र कथमण्‌, यावता `कालट्ठञ' (4.3.11) इति ठञा भवितव्यम्‌? नैतदस्ति; `कालट्ठञ्‌' (4.3.11) इत्यत्र `कालात्‌' इति योगविभागः कर्त्तव्यः, तेन शश्वच्छब्दाद्यथादिहितमण्‌ भवति। न च योगविभागेन ठञ्‌ बाध्यते; `येषाञ्च विरोधः शाश्वतिकः' (2.4.9) इति निपातनात्‌। तेन पक्षे ठञपि भवत्येव। ट्युट्युलौ तु शाश्वतशब्दान्नेष्येते, अनभिधानादेव। अथ `शाश्वतिकः' इत्यत्र `इसुसुक्तान्तात्कः' (7.3.51) इति ठञः कादेशः कस्मान्न भवति? अत एव निर्देशात्‌।।

145. अह्नष्टखोरेव। (6.4.145)
`द्व्यहः' इति। `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति समासः, `राजहःसखिभ्यष्टच्‌' (5.4.91) इति टच्‌ समासान्तः। अत्र `अह्नोह्न एतेभ्यः' (5.4.88) इत्यह्नादेशः प्राप्तः स च `न संख्यादेः समाहारे' (5.4.89) इति प्रतिषेधान्न भवति। `द्व्यहीनः' इति। तद्धितार्थे `समायाः' (5.1.85) इति वर्त्तमाने `रात्र्यहःसंवत्सराच्च' (5.1.87) इति खः।
केन पुनरहीन इत्यत्र खप्रत्ययः? इत्याह--`अह्नः समूहे खो वक्तव्वः' इति। ननु च अह्नो नकारान्तत्वात्‌ पूर्वेणैव सिद्धष्टिलोपः, तत्‌ किमर्थोऽयमारम्भः? इत्याह--`सिद्धे सति' इत्यादि। `आह्निकम्‌' इति। आर्हीयष्ठक्‌। यदि सिद्धे सति नियमर्थोऽयमारम्भः, एवं सत्येवग्रहणमनर्थकं स्यात्‌, विनापि तेन सिद्धे सत्यारम्बो नियमार्थो विज्ञास्यते? इत्याह--`एवकारकरणं विस्पष्टार्थम्‌' इति। अथ विपरीतनियमाशङ्कानिरासार्थं कस्मान्न भवति? इत्याह--`अह्न एव' इत्यादि। यद्यह्न एव टखोः--इत्येव विपरीतनियमः स्यात्‌, एवं सत्यन्यस्य खे टिलोपप्रसङ्ग एव नास्ति। `आत्माध्वानो खे' (6.4.169) इति प्रकृतिवद्भावविधानमनर्थकं स्यादित्यभिप्रायः।।

146. ओर्गुणः। (6.4.146)
`बाभ्रष्यः' इति। `मधुबभ्व्रोर्ब्राह्यणकौशिकयोः' (4.1.106) इति बभ्रुशब्दादपत्यार्थे यञ्‌। `माण्डव्यः' इति। अत्रापि गर्गादित्वात्‌। `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः। `शङ्कव्यम्‌' इत्यदौ `तस्मै हितम्‌' (5.1.5) इत्यस्मिन्नर्थे `उगवादिभ्यो यत्‌' (5.1.2)। `औपगवः, कापटवः' इति। अत्राप्यपत्यार्थेऽण्‌। तद्धित इत्येव--`वोतो गुणवचनात्‌' (4.1.44) इति ङीष्‌, पट्वी।
`ओरोत्‌' इति वक्तव्ये' इत्यादि। एवमुच्यमाने लघु सूत्रं भवतीति भावः। `स्वायम्भुवः' इति। स्वयं भवतीति क्विप्‌--स्वयम्भूः, स्वयम्भुव इतमित्यण्‌। संज्ञापूर्वकस्य विधेरनित्यत्वादत्र गुमो न भवति, तस्मिश्चा सत्युवङेव क्रियते।।

147. ढे लोपोऽकद्रूवाः। (6.4.147)
`कामण्डलेयः, शैतबाहेयः' इति। `चतुष्पाद्भ्यो ढञ्‌' (4.1.135) इति ढञ्‌। एवं `जाम्बेयः' इत्यत्रापि। `माद्रबाहेयः' इति। मद्रबाहुशब्दात्‌ `बाह्वन्तात्‌ संज्ञायाम्‌' (4.1.67) इत्यूङ, तदन्तात्‌ `स्त्रीभ्यो ढक्‌' (4.1.120)। `काद्रवेयः' इति। `कद्रूकमण्डल्वोश्छन्दसि संज्ञायाम्‌' (4.1.71,72) इत्यूङ तदन्तात्‌ पूर्ववङ्ढक्‌।।

148. यस्येति च। (6.4.148)
अत्र यस्येति यकारस्येदं ग्रहणं वा स्यात्‌, इवर्णावर्णयोर्वा? अत्र यदि यकारस्येदं ग्रहणं स्यात्‌, उत्तरसूत्रे पुनर्यग्रहणं न कुर्यात्‌, एतदेव हि तत्रानुवर्त्तिष्यते। तस्मादिवर्णावर्णयोरिदं ग्रहणम्। तत्र वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतीति तदन्तविधिर्विज्ञायते--इत्यतच्चेतसि कृत्वाऽऽह--`इवर्णावर्णान्तस्य' इत्यादि। `दाक्षी, प्लाक्षी' इति। दाक्षिप्लाक्षिशब्दाभ्यां `इतो मनुष्यजातेः' (4.1.65) इति ङीष्‌। `सखी' इत्यत्रापि `सख्यशिश्वीति भाषायाम्‌' (4.1.62) इति निपातनात्‌। ननु चात्र सवर्णदीर्घत्वेनाप्येतत्‌ सिद्धम्‌, तत्‌ किमर्थमत्र लोप विधीयते? इत्यत आह--`सवर्णदीर्घत्वे हि' इत्यादि। `अतिक्रान्ता सखी एनम्‌' इति `प्रादिभ्यो धातुजस्य' (वा.101) इति बहुव्रीहिरुत्तरपदलोपश्च, उपसर्जनह्रस्वत्वम्‌। तत्र यदि सवर्णदीर्घत्त्वं क्रियेत, न तु लोपस्तदा सखीकारेकारयोरेकादेशः सखिशब्दस्यान्तवद्भवतीति `शेषो ध्यसखि' (1.4.7) इतचि धिसंज्ञायाः प्रतिषेधः स्यात्‌। ततश्चातिसखेरागनच्छतीति `घेङिति' (7.3.111) इति गुणो न स्यात्‌। लोपे सत्युपसर्जनह्रस्वत्वे सति यद्यपि प्रविशिष्टं रूपम्‌, तथापि लाक्षणिकम्‌। अतो लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) तन्न गृह्यत इति न भवति प्रतिषेधः। तस्माल्लोप एव कर्त्तव्यः।
`दौलेयः' इत्युदाहरणत्रये `इतश्टचानिञः' (4.1.122) इत्यपत्यार्थे ढक्‌।
`कुमारी इति। `वयसि प्रथमे' (4.1.20) इति ङीप्‌। `गौरी' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्‌। `शार्ङ्गरवी' इति। `शार्ङ्गरवाद्यञो ङीन्‌' (4.1.73)। `बालाकिः सौमित्रिः' इति। बालकसुमित्राभ्यां बह्वादित्वादिञ्‌।
`यस्येत्यादौ' इति। आदिशब्देनोत्तरो विधिः परिगृह्यते। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्‌--`विभाषा ङिश्योः' (6.4.136) इत्येतत्सूत्राद्विभाषाग्रहणं मण्डूकप्लुतिन्यायेनानुवर्त्तते, सा च व्यवस्थितविभाषा। तेन चानेन सूत्रेण लोपो विधीयते, यश्चोत्तरसूत्रेण, तावुभावपि न भवत इति। `काण्डे, कुडये' इति। `औङ आपः' (7.1.18) इति, `नपुंसकाच्च' (7.1.19) इति शोभाव इति, तत्र यस्येत्यकारलोपः प्राप्नोति। `सौर्ये' इति। `तेनैकदिक्‌' (4.3.112) इति सूर्यशब्दादण्‌, तदन्तादौङः शीभावः, तत्रानेनाकारलोपः प्राप्नोति, उत्तरसूत्रेम यकारलोपश्च। `इयङ्वङभ्याम्‌' इत्यादि। इयङुवङोरवकाशः--श्रियौ, श्रियः, भ्रुवौ भ्रुवः, लोपस्यावकाशः--कामण्डलेयः, माद्रबाहेय इति; वात्सप्रेयः, लैखाभ्रेय इत्यत्रोभयं प्राप्नोति, लोपो भवति विप्रतिषेधेन। `वत्सप्रीः' इति। क्विबन्तमेतत्‌।।

149. सूर्यतिष्यागस्त्यमतस्यानां य उपधायाः। (6.4.149)
यद्यत्र भसंज्ञया सूर्यादयो विशिष्येरन्‌--`सूर्यादीनां भसंज्ञकानामिति, तदा सौरी, बलाकेत्यत्र लोपो न स्यात्‌। न हि सूर्यशब्द इह भसंज्ञक इति, किं तर्हि? अन्येदवाणन्तं शब्दान्तरमिति बुद्धौ निधायानाश्रितरूपभेदस्य लोपेन सम्बन्धः सूर्यादिभिः सम्बन्धिभिर्यकारो विशिष्यत इति दर्शयन्नाह--`सूर्यतिव्यागस्त्यमत्स्य--`इत्येतेवाम्‌' इत्यादि। `भस्य' इति। भसंज्ञकस्य। यो यकार उपधा, तस्य लोपो भवति स चेद्यकारः सूर्यादीनां सम्बन्धी भवति--अयमतरार्थो विवक्षितः। ते तु सूर्यादयो भत्वेन न विशिष्यतन्ते। तेन यदापि तेषां भसंज्ञा न भवति, तदापि तस्योपधायकारस्य लोपो भवत्येव यद्यसौ यकारः सूर्यादीनां सम्बन्धी भवति। `सौरी, बलाका' इति। ननु चात्राकारलोपस्य व्याश्रयत्वेनासिद्धत्वं नास्तीत्युपधायकारो न भवतीत्येतदुक्तम्‌? इत्याह--`अणि यो यस्येति लोपः' इत्यादि। अत्र हि द्वौ यस्येतिलापौ--एकोऽणिपरतः, अपर ईकारे। तत्र प्रथमो व्याश्रयः, तथा हि--लोपोऽणमाश्रित्य भवति, यलोपस्त्वीकारम्‌ अतो व्याश्रयत्वादसिद्धत्वाभावस्तस्य युक्तः। इतरस्त्वीकारमाश्रित्य भवति समानाश्रय एव, ततश्च तस्यासिद्धत्त्वादुपधायकारो भवति। `भस्याणन्तस्य' इत्तयादिना सूत्रार्थमुदाहरणे दर्शयति। `तैषम्‌, तैषी' इति। `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यण्‌, `टिड्ढाणञ्‌' (4.1.15) इति ङीप्‌। `ऋषित्वादणि कृते' इति। `ऋष्यन्धक' (4.1.114) इत्यादिना `मत्स्यचरी' इति। मत्स्यो भूतपूर्वः--`भूतपूर्वे चरट्‌' (5.3.53) पूर्ववन्ङीप्‌। भवत्यत्र मत्स्यचर इति भसंज्ञकमत्स्यसम्बन्धी यकारः, नत्वसौ भसंज्ञकस्योपदेति लोपो न प्रवर्त्तते।
अथ किमर्थं यग्रहणम्‌, यावता सूर्यादिभिरूपधायां विशिष्यमाणायामन्तरेणापि यग्रहणं यकारस्योपधाभूतस्य लोपो विज्ञास्यते, यकार एव हि तेषामुपधा, न तु वर्णान्तरम्‌? इत्यत आह--`यग्रहणमुत्तरार्थम्‌' इति। `वक्तव्यम्‌' इति व्याख्येयमित्यर्थः। व्याख्यानन्त्विहापि पूर्ववद्विभाषामाश्रित्य कर्त्तव्यम्‌। `मात्स्यम्‌' इति। `तस्येदम्‌' (4.2.120) इत्यण्‌।
`सौरीयम्‌' इति। अणन्तात्‌ `वृद्धाच्छः' (4.2.114)। एवं `आगस्तीयम्‌' इति। `सौर्यम्‌' इति। सूर्यो देवतऽस्येति `सा।डस्य देवता (4.2.24) इत्यण्। `आगस्त्यः' इति। अपत्यार्थे ऋष्यण्‌। `नक्षत्राणि' इति। नक्षत्रसम्बन्धो योऽण्‌ तस्मिन्नित्यर्थः।
`ककारादेः शब्दस्य' इति। ककारस्याकारस्येत्यर्थः। `आद्युदात्तत्वञ्च' इति। प्रत्ययस्वरेणान्तोदात्तत्वे प्राप्ते सत्याद्युदात्तार्थं वचनम्‌। `अन्तितः' इति। `अपादाने चाहीयरुहोः' (5.4.45) इति तसिः।
`तादेश्च' इति। तिकशब्दस्येत्यर्थ। चकारात्‌ कादेश्च। `अन्तमः' इति। अतिशायने तमप्‌' (5.3.55)।
`अन्तिषत्‌' इति। `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्‌। `ये च' इति। दृश्यत इति प्रकृतेन सम्बन्धः। `अन्तिमः' इति। `भवे छन्दसि' (4.4.110) इति यः, `तत्र साधुः' (4.4.98) इति वा। केचित्‌ सर्वमेव लोपविधानं छन्दस्येवेच्छन्ति।।

150. हलस्तद्धितस्य। (6.4.150)
`तद्धित इति निवृत्तम्‌' इति। उत्तरसूत्रे तद्धितग्रहणात्‌। तेनायमीत्येव विधिः। `गार्गी' इत्यादि। गर्गादिशब्देभ्यो यञन्तेभ्यः `यञश्च' (4.1.16) इति ङीप्‌। `कारिकेयी' इति। `स्त्रीभ्यो ढक्‌' (4.1.120), तदन्तात्‌ `टिङ्ढाणञ्‌' (4.1.15) इति ङीप्‌। `वैधी' इति। `पुंयोगादाख्यायाम्‌' (4.1.48) इति ङीष्‌।।

151. आपत्यस्य च तद्धितेऽनाति। (6.4.151)
`गार्गकम्‌' इति। `गोत्रोक्षोष्ट्रोरभ्र' (4.2.39) इत्यादिना गार्ग्यशब्दाद्वुञ्‌, तत्र यञो लोपः। `साङ्काख्यकः' इति। `काम्पिल्यकः' इति। पूर्ववत्‌ सङ्काशकम्पिलशब्दाभ्याञ्चातुरार्थिकः `दुञ्छण्‌' (4.2.80) इत्यादिना ण्यः, तदन्ताज्जातादौ शैषिकेऽर्थे `धन्वयोपधाद्‌वुञ्‌' (4.2.121) इति वुञ्‌।
अथ तद्धितग्रहणं किमर्थम्‌, `नस्तद्धिते' (6.4.144) इति तद्धितग्रहणमनुवर्‌त्तिष्यते? इत्यत आह--`तद्धितग्रहणम्‌' इत्यादि। सोमी देवतस्येति `सोमाट्ट्यण्‌' (4.2.30), `टिङ्ढाणञ' (4.1.15) इति ङीप्‌। तत्र परतोऽनपत्ययकारस्यापि `हलस्तद्धितस्य' (6.4.150) इत्यनेन लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्‌; अन्यथा यदि तदेव प्रकृतं तद्धितग्रहणमिहानुर्तेत, तदा तत्सम्बन्द्धमीद्ग्रहणमनुवर्त्तेत। तथा चोभयमिहानुवर्त्तमानं पूर्वयागेऽप्यनुवर्त्तत। तथा च पूर्वेणैव योगेन सिद्धे सत्युभयत्र तद्धित ई, ति च नियमार्थोऽयमारम्भः स्यात्‌---आपत्यस्येवानाकारादौ तद्धिते लोपो भवति ईति च नानापत्ये च। एवञ्च यथानपत्यस्य साङ्कश्यक इत्यत्र लोपो न भविष्यति, तथा सौमी इष्टिरित्यत्रापि न स्यात्‌; नियमेन व्यवर्त्तितत्वात्‌। इह तु तद्धितग्रहणे क्रियमाणे पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यायते। तेन पर्वयोगेन तद्धितमात्रस्य यकारस्यानपत्यस्य चापत्यस्य चाविशेषेण लोपो विदीयते। सौमी इष्टिरित्यत्रापि लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्‌। ननु च यद्युभयत्र तद्धित इति चायं नियमः स्यात्‌ सूत्रद्वयस्यार्थोऽपार्थकः स्यात्‌। `हल आपत्यस्यानाति' इत्येकमेव योगं कुर्यात्‌। तस्मात्‌ सूत्रद्वयस्यारम्भसामर्थ्यादन्यतरस्यैवेहानुवृत्तिर्भवतिष्यति, न तूभयस्यापि। इह त्वेतावान्‌ सन्देहः स्यात्‌--किं तद्धितग्रहणमिहानुवर्त्तते, उतेद्ग्रहणमिति? अत्रापि तद्धितग्रहणमनुवर्त्तते, नेद्ग्रहणमिति; व्याख्यानात्‌। सरवसन्देहेष्विदमुपतिष्ठते `भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्‌' (पु.प.वृ 120) इति। तद्धितग्रहणे च केवल इहानुवर्त्तमाने तद्धितविषय एवायं नियमो भविष्यति, न त्वीद्विषय इति। तथा चासत्यपि पुनरिह तद्धितग्रहण इति नियमाभावात्‌ पूर्वसूत्रेण सौमी इष्टिरित्यत्रापि लोपः सिद्ध्यत्येव। तत्‌ कथमिदमुक्तम्‌--तद्धितग्रहणीत्यनपत्यस्यापि लोपार्थमिति? सुखेन लोपः प्रतीयत इत्येतदर्थमिदमित्यभिप्रायो द्रष्टव्यः। ततश्चायमत्रार्थः सम्पद्यते--प्रतिपत्तिगौरवपरीहारार्थं तद्धितग्रहणम्‌।
`गार्ग्यायणः' इति। `यञिञोश्च' (4.1.101) इति फक्‌।
`कारकेयिः' इति। कारिकाया अपत्यमिति `स्त्रीब्यो ढक्‌' (4.1.120), ततस्तस्यापत्यम्‌, `अत इञ्‌' (4.1.95) कारिकेयिः।।

152. क्यच्व्योश्च। (6.4.152)
अतद्धितार्थोऽयमारम्भः। `क्य' इति क्यच्क्यङोः सामान्येन ग्रहणम्‌। `गार्गीयति इति। `सुप आत्मनः क्यच्‌' (3.1.8), `क्यचि च' (7.4.33) इतीत्त्वम्‌। `गार्गीयः' इति। `कर्त्तुः क्यङ सलोपश्च' (3.1.11) इति क्यङ, `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। `गार्गीभूतः' इति। `अभूततद्भावे' (5.4.50) इति च्विः, `अस्य च्वौ' (7.4.32) इतीत्त्वम्‌।।

153. बिल्वकादिभ्यश्छस्य लुक्‌। (6.4.153)
`बिल्वकदिभ्यः' इति। आगन्तुकेनाकारेण निर्देशः। `बिल्वकीया' इति। `उत्करादिभ्यश्छः' (4.2.90) `नडादीनां कुक्च' (4.2.91) इति चातुरर्थिकश्छः, कुगागमः। `बैल्वकाः' इति। `प्राग्दीष्यतेऽण्‌' (4.1.83)।
अथ छग्रहणं किमर्थम्‌, यावता कृतकुगागमा बिल्वकीदयो गृहीताः, एभ्यश्छप्रत्ययः सम्भवतीत्यन्तरेणापि छग्रहणं छस्यैव लोपो भवितव्यतीति? अत आह--`छग्रहणम्‌' इत्यादि। यदि छग्रहणं न क्रियेत, तदा सन्नियोगशिष्टपरिभाषया (ह.भा.14) छकारे निवर्तमाने कुको निवृत्तिः स्यात्‌। तस्याश्च परिभाषया एतेदेव छग्रहणं ज्ञापकम्‌। अथ लुग्ग्रहणं किमर्थम्‌, प्रकृत एव लोपो विधीयते? इत्यत आह--`लुग्ग्रहणम्‌' इत्यादि। यकारग्रहणमेकदेशोपलक्षणार्थं द्रष्टव्यम्‌। स हि लोप उपधाया इत्यनेन सम्बद्ध इति तस्मिन्ननुवर्तमाने `य उपधायाः' (6.4.149) इत्येतदप्युनुवर्त्तेत, छस्येयादेशे कृते यकारमात्रस्य स्यात्‌। अथापि `उपधायाः' इत्येतन्नानुवर्त्तेत? एवमपि `आदेः परस्य' (1.1.54) इतीकारमात्रस्य स्यात्‌। `लुग्ग्रहणम्‌' इति। लुगिति प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्यस्यैकदेशस्यादर्शनस्येति। लुग्ग्रहणे सति सर्वस्यैव लुक्‌ सिद्ध्यति। तद्रथं हि लुग्ग्रहणम्‌।।

154. तुरिष्ठेमयस्सु। (6.4.154)
`तुः' इति। विसेषकराननुबन्धानुत्सृज्य तृंस्तृचोः सामान्येन ग्रहणम्‌। `करिष्ठः' इति। करोतेस्तृन्‌। तदन्तादतिशायन इष्ठन्‌, तृशब्दस्य लोपः। `विजयिष्ठः' इति। विपूर्वाज्जयतेस्तृन्‌। `वहिष्ठः' इति। अत्रापि वहेस्तृन्‌। तदन्तादिष्ठन्‌, `हो ढः' (8.2.31) इति ढत्वम्‌। तृशब्दस्य लोपे कर्त्तव्ये `पूर्वत्रासिद्धम्‌' (8.2.1) इत्यसिद्धम्‌, तेन पूर्वलोप एव क्रियते, तस्मिन्‌ कृते झलि यदान्ते च विधीयमानं ढत्वं निमित्ताभावान्न प्रवर्त्तेते। `दोहीयसी' इति। दुहेस्तृजन्तादीयसुन्‌, `उगितश्च' (4.1.6) इति ङीप्‌। अत्रापि लोपे कर्त्तव्ये `दादेर्धातोर्धः' (8.2.32) इत्येतदप्यसिद्धमिति पूर्वं लोपः, तस्मिन्‌ सति पूर्ववद्धत्वं न प्रवर्त्तते।
अथ `अलोऽन्त्यस्य' (1.1.52) इत्यन्त्यस्यायं लोपः कस्मान्न भवति? इत्याह--`सर्वस्य' इत्यादि। तत्रैव कारणमाह--`अन्त्यस्य' इत्यादि। यद्यन्त्यस्य स्याद्वचनवैयर्थ्यमापद्येत; `अन्त्यस्य टेः' इत्येवं सिद्धत्वात्‌। तस्मादन्त्यलोपवचने प्रयोजनं नास्तीति सर्वस्य तृशब्दस्य लोपो यता स्यादित्येवमर्थमिदं वचनं विज्ञायते।
यदि तर्हि तृशब्दस्य लोपार्थं वचनमनन्तरो लुगेव कस्मान्न विधीयते, एवं तर्हि सर्वस्य सुखमेव लोपोऽवसीयते, प्रत्ययादर्शनस्य लुग्विधानात्‌? इत्यत आह--`लुगित्येतत्तु' इत्यादि। कः पुनस्तत्र सति दोषः स्यात्‌? इत्यत आब--`तथा हि' इत्यादि। यदि लुगित्येतदिहानुवर्त्तत, ततः `अन्तरङ्गानपि विधीन्‌ बहिरङ्गो लुग्‌ बाधते' (व्या.प.128) इति कृत्वा पूर्वं लुका भवितव्यम्‌, ततश्च `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणनिषेधः स्यात्‌; करिष्ठः, विजयिष्ठ इत्यत्रार्धदातुकलक्षणो गुणो न स्यात्‌। तस्मान्मा भूदेष दोष इति लुगित्येतदिहानुवर्त्तते। अथेमनिज्ग्रहणं किमर्थम्‌, यावता तृशब्दात्‌ पर इमानिज्न सम्भवति। तथापि `पृध्वादिभ्य इमानिज्वा' (5.1.122) `वर्मदृढादिभ्यः व्यञ्च' (5.1.123) इत्यनेन योगद्वयेन स विहितः, न तृशब्दान्तं किञ्चित्‌ पृथ्वादिषु दृढादिषु वा मध्ये पठ्यते, नापि वर्णवाच्यस्तीत्यत आह--`इतरौ तु' इत्यादी।।

155. टेः। (6.4.155)
`णाविष्ठवत्‌' इति। `तसिलादिष्वा कृत्वसुचः' (6.3.35) इष्ठनि पुंवद्भाव उक्तः, `र ऋतो हलादेर्लघोः' (6.4.161) इति रभावः, `टेः' इति टिलोपः, `स्थूलदूरयुवह्रस्व' (6.4.156) इत्यादिना यणादिपरस्य लोपः, पूर्वस्य च गुणः, `विन्मतोर्लुक्‌' (5.3.65) इति लुक्‌, `युवाल्पयोः कनन्यतरस्याम्‌' (5.3.64) इति कन्‌। `प्रियस्थिर' (6.4.157) इत्यादिना प्रादय आदेशाः--एतानि कार्याणि यथेष्ठनि भवन्ति, तथा णावपि यथा स्युरिति णाविष्ठवत्‌ प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम्‌। प्रातिपदिकग्रहणं शक्यमकर्त्तुम्‌, अन्यस्यातिदेशस्यासम्भवात्‌। वतिरिह सादृश्यार्थः, तेन यस्येष्ठनि यत्कार्यं विवक्षितं ततोऽन्यस्यातिदेशस्यासम्भवात्‌ तद्व्यवच्छेदार्थ प्रातिपदिकग्रहणं न कर्त्तव्यम्‌। तत्‌ क्रियते विसपष्टार्थम्‌। केचित्तु ब्रुवते प्रत्ययस्य कार्याणामतिदेशो मा भूदित्येवमर्थं प्रातिपदिकग्रहणं न कर्त्तव्यम्‌। तत्‌ क्रियते विस्पष्टार्थम्‌। केचित्तु ब्रुवते प्रत्ययस्य कार्याणामतिदेशो मा भूदित्येवमर्थं प्रातिपदिकग्रहण्‌, तेन बहुमाचष्टे बहयतत्यत्र `इष्ठस्य यिट्‌ च' (6.4.158) इति यिण्ण भवति? एतच्चायुक्तम्‌; इष्ठवदित्यत्र हि सप्तमी समर्थाद्वतिर्दिहितः, णादिति प्रतियोगिनि सपतमीश्रवणात्‌। तेनेष्ठनि यत्कार्यं विहितं तदतिदिश्यते, न त्विष्ठस्य यत्कार्यं तदपि। न च यिङ्‌ इष्ठनि यत्‌ कार्यम्‌, अपि त्विष्ठन एव। तस्यैह प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन प्रातिपदिकग्रहणेन! `एनीम्‌' इति। एतच्छब्दात्‌ `वर्णादनुदात्तात्तोपधात्‌' (4.1.39) इत्यादिना ङीष्‌, तकारस्य च नकारः। `एतयति' इति। णौ कृते पुंवद्भावेन ङीष्नकारावुभावपि निवर्त्तेते। ननु च ङीषा व्यवहितोऽत्र णिरिति णावतिदेशः क्रियमाणस्तद्व्यवधाने न प्राप्नोतीति? नैष दोषः; इष्ठन्यपि हि ङोपा व्यवधानएव प्रातिपदकस्य पुंवद्भावः। तस्मादिहापि व्यवधानेऽपि तद्वदेव भविष्यति।
`स्रग्विणम्‌' इति। `अस्मायामेधास्रजो विनिः' (5.2.121) इति विनिः। स्रजयतीत्यत्र `संज्ञापूर्वको विधिरनित्यः' (व्या.प.64) इति `अत उपधायाः' (7.2.116) इति वृद्धिर्न भवति। `अह्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य' (व्या.प.38) इति वपा। प्रापयतीत्येवमादौ भवत्येवानिष्ठितत्वात्‌। अत्र `अर्त्तिह्रो' (7.3.36) इत्यादिना पुक्‌। ननु भारद्वाजीयपाठे प्रादयो न सिद्ध्यन्ति; अपि तु स्रजयति वसयतीति लुक्‌, कनयतीत्यत्र च कन्नित्यत आह--`तदेतदुभयमप्युदाहरणमात्रम्‌' इत्यादि। तदेतद्भावद्वाजीयपाठे अन्येषाञ्च प्रयोजनमुपदर्शितम्‌, न त्वेतदुदाहरणमात्रपरिगणनम्‌। एतावदेव प्रयोजनमिति यस्मात्‌ प्रादयोऽपीष्यन्ते। ननु `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (धा.पा.ग.सू.186) इति चुरादिगण एव पठ्यते, तत्‌ कस्मात्‌ पुनरिह णाविष्ठवद्भाव उच्यते? अस्यैव प्रपञ्चार्थमित्येके। गणे वा स वक्तव्यः। `असौ इतरः' इति विकल्पप्रदर्शनार्थमित्यन्ये।।

156. स्थूलदूरयुवह्वस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः। (6.4.156)
यद्यपि पूर्वं भावसाधनो लोपशब्द उपात्तः, तथापीह कर्मसाधनो गृह्यते; यणादिपरिमिति निर्देशात्‌। भावसाधने हि तस्मिन्‌ `कर्त्तृकर्मणओः कृति' (2.3.65) इति षष्ठी स्यात्‌। कर्मसाधने तु कर्मणस्तेनैषाभिहितत्वात्‌ प्रथमैव युज्यत इति मन्यमानो लापशब्दस्य कर्मशब्दस्य कर्मसाधनतां दर्शयन्नाह--`यणादिपरं लुप्यते' इति। कथं पुनस्तस्यैव भावसाधनस्य सतः कर्मसाधनतोपपद्यते? कः पुनराह--`तस्यैव' इति! प्रतिसूत्रं ह्यनुवर्त्तमानो लोपशब्दो भिद्यते।
ननु च यणादौ परस्मिन्‌ लुप्ते सामर्थ्यात्‌ तत्पूर्वस्यैव गुणो विज्ञास्यते, तत्‌ किमर्थं पूर्वग्रहणम्‌? इत्याह--`पूर्वग्रहणं विस्पष्टार्थम्‌' ति।।

157. प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवंर्बहिगर्वर्षित्रब्द्राघिवृन्दाः। (6.4.157)
किं पुनः कारणं प्रियोरुगुरुदीर्घाणामेवेमनिजुदाह्रियते, नान्येषाम्‌? इत्याह--`प्रियोरुबहुलगुरुदीर्घाः' इत्यादि। `प्रियादिभ्य एवेमनिच्‌ सम्भवति, नान्येभ्यः' इत्येवम्परमेतद्वाक्यमित्यर्थः। अन्यथा यद्यपि प्रियादय एव पृथ्त्रादिषु पठ्यन्ते, वर्णावाचिनो वा स्युः, तदोदाह्रियेतेमनिच्‌ तेषामित्यकारणमेदिमनिचोऽत्रोदाहरणं स्यात्‌।।

158. बहोर्लोपो भू च बहोः। (6.4.158)
`बहोरुत्तरेषाम्‌' इति। एतेन प्रथमस्य बहोः पञ्चम्यन्ततां दर्शयति, तस्य च वहोरित्यनेनापि द्वितीयस्य षष्ठ्यन्तताम्‌। `भूयान्‌' इति। `आदेः परस्य' (1.1.54) इतीकारस्यव लोपः।
अथ किमर्थं बहोरिति पुनर्ग्रहणम्‌? इत्याह--`बहोरिति पनः' इत्यादि। असति हि बहोरिति ग्रहणे बहुशब्दस्य स्थानित्वं न प्रतीयेत; पञ्चम्यन्तेन निर्देशात्‌। तस्मात्‌ स्थानित्वप्रतिपत्तये पुनर्बहोरित्यच्यते। `अन्यथा हि' इत्यादि। यदि बहोः इति नोच्येत, तदा प्रत्ययानामेव भूभावः स्यात्‌; `तस्मादित्युत्तरस्य' (1.1.67) इति वचनात्‌। ननु पृथग्निर्देशादेव प्रत्ययानां न भविष्यति, अन्यथा `भूलोपौ' इत्ययं ब्रूयात्‌? नैतदस्ति; अस्ति ह्यन्यत्‌ पृथग्निर्देशस्य प्रयोजनम्‌। किम्‌? पृथक्‌स्थानिकौ यथा स्ताताम्‌, आदेर्मा भूतामिति। यदि `भूलोपौ' इत्येवमुच्येत, तदा `आदेः परस्य' (1.1.54) इत्याद्यस्यैव वर्णस्य पर्यायेण भूलोपो स्यातामिति। अतो भिन्नस्थानिकौ यता स्यातामित्येवमर्थः पृथग्योगनिर्देशः स्यात्‌। तस्माद्युक्तमुक्तम्‌--`अन्यथा हि प्रत्ययानामेव भूभावः स्यात्‌' इति। चकारोऽत्र सन्नियोगार्थः।।

159. इष्ठस्य यिट् च। (6.4.159)
`लोपापवादो यिङागमः' इति। नाप्राप्ते तस्मिन्नस्यारम्भात्‌। `तस्मिन्निकार उच्चारणार्थः' इति। प्रयोजनान्तराभावात्‌। चकारः `बहोश्च भूः' इत्यनुकर्षणार्थः।।

160. ज्यादादीयसः। (6.4.160)
`ज्यायान्‌' इति। `प्रशस्यस्य श्रः' (5.3.60) `ज्य च' (5.3.61) इति ज्यादेशः। `लोपस्य यिट्‌ च' इयादि। यद्यत्र लोपो यिटा न व्यवधीयते तदा तेनैव ज्यायानित्येतत्‌ सिद्ध्यतीति कृत्वाऽऽदिति नोच्येतेत्यभिप्रायः। कथं पुनरादित्यनुच्यमाने लोपेन सिद्धयति? इत्यत आह--`लोपे हि सति' इत्यादि। अथ दीर्घोच्चारणं किमर्थम्‌, यावतान्तरतम्यादेव दीर्घस्य दीर्घ एव भविष्यति? नैतदस्ति; न हि `भाव्यमानोऽण्‌ सवर्णान्‌ न गृह्णाति' (व्या.प.35) इति।।

161. र ऋतो हलादेर्लघोः। (6.4.161)
`कर्त्तव्यम्‌' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--उत्तरसूत्रे यद्विभाषाग्रहणं तदिहापि सम्बध्यते, सा च व्यवस्थितविभाषा, तेन पृथ्वादीनामेव भविष्यति। यद्येवम्‌, `हलादेर्लघोः' इत्येतन्न कर्त्तव्यम्‌, व्यवस्थितविभाषया हलादेर्लघोश्च भविष्यति? सत्यमेतत्‌; तद्विस्पटार्थं क्रियते।
`तत इह न भवति' इत्यादि। अक्रियमाणे तु परिगणने कृतयतीत्यादावपीष्ठवद्बावेन स्यादेवेति भावः।।

162. विभाषर्जोश्छन्दसि। (6.4.162)

163. प्रकृत्यैकाच्‌। (6.4.163)
`स्रजिष्ठः' इति। अत्र प्रकृतिवद्भावेन टिलोपो न भवति। ननु च `विन्मतोर्लुक्‌' (5.3.65) टिलोपं बाधिष्यते, नाप्राप्ते त्वस्मिंस्त्वस्यारम्भात्‌? नैतदस्ति; द्वौ टिलोपौ--एको विन्मत्वन्तस्य, अन्यो लुकि कृते सत्यवशिष्टस्य; तत्र योऽसौ विन्मत्वन्तस्य टिलोपस्तस्मिन्नाप्राप्ते लुगारभ्यत इति युक्तं यदसौ तं बाधते। यस्त्ववशिष्टस्य टिलोपस्तस्य प्राग्लुक्प्राप्त्यसम्भवादप्राप्त एव तस्मिन्नारभ्यमाणः कथं पश्चादुपजातप्राप्तिकं लोपं बाधेत। तस्मादारब्धव्यमिदम्‌।
`प्रकृत्याके राजन्य' इत्यादि। किं वक्तव्यमेतत्‌? न; कथं तर्हि `तुरिष्ठेमेयस्तु' (6.4.154) इत्येतन्निवृत्तम्‌। सामान्येनयं प्रकृतिवद्भावो विधेयः, विभाषति चानुवर्त्तते, सा च व्यवस्थितविभाषा। तेन यत्र यत्रेष्यते तत्र सर्वत्र भविष्यति, यत्र तु नेष्यते तत्र न भविष्यत्येव। एवम्‌ `इनण्यनपत्ये' (6.4.164) इत्येवमादिकं प्रकृतिभावविधानमनर्थकं स्यादिति चेत्‌? न; प्रपञ्चार्थत्वात्‌। `राजन्यकम्‌' इति। `राज्ञोऽपत्यम्‌' इति। `राज्ञोऽपत्यम्‌' इति `राजरुषसुराद्यत्‌' (4.1.137) तस्मात्समूहेर्थे `गोत्रोक्षोष्ट्रोरभ्र' (4.2.39) इत्यादिनात्र वुञ्‌। `मानुष्यकम्‌' इति। मनोरपत्यमिति `मनोर्जातावञ्यतौ षुक्च' (4.1.169) इति येषां मतेऽपत्यार्थे यत्‌, तेषां पूर्वसूत्रेण वुञि कृते लोपः प्राप्नोति, स प्रकृतिबावान्निवर्त्तते। येषान्तु मतेन जातिमात्रे यत्‌, नापत्ये, तेषां नार्थः प्रकृतिभावेन; अनापत्ययकारत्वादेव हि लोपो न भविष्यति।।

164. इनण्यनपत्ये। (6.4.164)
`साङकूटिनम्‌, सांराविणम्‌, साम्मार्जिनम्‌' इति। `कूट दाहे' (धा.पा.1890), [परितापे (परिदाहे)--धा.पा.] `रु शब्दे' (धा.पा.1034), `मृजू शुद्धौ' (धा.पा.1066) `अभिविधौ भावे इनुण्‌' (3.3.44), `मृजेर्वृद्धिः' (7.2.114) सांकूटिन्‌, सांराविन्‌, सांमार्जिन्‌--इति स्थिते `अणिनुणः' (5.4.15) इति स्वर्थेऽण्‌। `मैधावः' इति। `अस्माया' (5.2.121) इत्यादिना विनिः, तदन्तात्‌ प्राग्दीव्यतोऽणपत्यार्थे।।

165. गाथिवदथिकेशिगणिपणिनश्च। (6.4.165)
अपत्यार्थोऽयमारम्भः; अनपत्ये पूरर्वेणैव सिद्धत्वात्‌। इन्नन्तत्वादेषाम्‌।।

166. संयोगादिश्च। (6.4.166)
अयमप्यपत्यार्थ आरम्भः। `शाङ्खिनः' इति। शङ्खमद्रवज्रशब्देभ्यो मत्वर्थे इतिः, तदन्तात्‌ पूर्ववदण्‌।।

167. अन्‌। (6.4.167)
`अनपत्ये' इति। निवृत्तम्‌। सामान्येनाष्मत्रे विधिः। `सामनः, वैमनः' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌। `सौत्वनः' इति। `षुञ्‌ अभिषवे' (धा.पा.1247) `सुमुजोर्ङ्वनिप्‌' (3.1.106) इति ङवनिप, `ह्रस्वस्य पिति कृति तुक्‌' (6.1.71)।।

168. ये चाभावकर्मणोः। (6.4.168)
`सामन्यः, वेमन्यः' इति। `तत्र साधुः' (4.4.98) इति यत्‌।।

169. आत्माध्वानौ खे। (6.4.169)

`आत्मनीनम्‌' इति। `आत्मन्विश्वजनभोगोत्तरपदात्‌ खः' (5.1.9)। `अध्वनीनम्‌' इति। अत्रापि `अद्वने यत्खौ' (5.2.16) इति खप्रत्ययः।
`प्रत्यात्मम्‌' इति। आत्मानं प्रतीति `अव्ययं विभक्ति' (2.1.6) इत्यादिना यथार्थेऽव्ययीभावः। ततः `अनश्च' (5.4.108) इति टच्‌। `प्राध्वम्‌' इति। प्रगतमध्वानमिति प्रादिसमासः, `उपसर्गादध्वनः' (5.4.85) इत्यच्‌।।


170. न मपूर्वोऽपत्येऽवर्मणः। (6.4.170)
`चार्मणः' इति। `परिवृत्तो रथः' (4.2.10) इत्यर्थे `प्राग्दीव्यतोऽण्‌' (4.1.83)।
`वा हितनाम्न इति वक्तव्यम्' इति। हितनामशब्दस्य व प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्य्रथः। तत्रेदं व्याख्यानम्‌--इहापि तदेव विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेन हितनाम्नो वा प्रतिषेधो भविष्यति।।

171. ब्राह्मोऽजातौ। (6.4.171)
यद्येतदेकमेव सूत्रं स्यात् ततो निममार्थ वा स्मात्‌? विध्यर्थं वा? यद्यपत्य इति वर्त्तते, ततोऽनन्तर सूत्रेणैव प्रकृतिभावे प्रतिषिद्धे `नस्तद्धिते' (6.4.144) इति टिलोपः सिद्ध्यत्येव, सिद्धे सत्येतन्नियमार्थ भविष्यति--`अजातावेवापत्यार्थे यथा स्यात्‌' इति। तथा च `तस्येदम्‌' (4.3.120) इत्यणि विहिते ब्राह्मो गर्भः, ब्राह्ममस्त्रम्‌, ब्राह्मं हविः, ब्राह्मी ओषधिरिति न सिद्ध्यति; अपत्याणोऽभावात्‌। अथापत्य इति निवृत्तम्‌, ततो विध्यर्थमेव भविष्यति। अपत्ये हि पूर्वसूत्रेण प्रकृतिबावः प्रतिषिद्धः, ततश्च `अन्‌' (6.4.167) इति इति प्रकृतिभावे प्राप्तेऽजातो ब्राह्म इत्येतट्टिलोपार्थं निपात्यते। एवञ्च विध्यर्थेऽस्मिन्‌ सिद्धम्---ब्राह्मो गर्भः, ब्राह्मणस्त्रम्‌, ब्राह्मं हविरिति; ब्रह्मण इयं ब्राह्मी ओषदिरित्येतत्तु न सिद्ध्येत्; `अजातौ' इति प्रतिषेधात्‌। अपत्ये जातौ च `न मपूर्वोऽपत्येऽवर्मणः' (6.4.17)) इति प्रकृतिभावे प्रतिषिद्धे सति `नस्तद्धिते'(6.4.144) इति भवति टिलोपः--ब्राह्मो नारद इति, तथेहापि स्यात्‌--ब्रह्मणोऽपत्यमिति ब्राह्मण इति। एवमेकयोगे दोषप्रसङ्गमभिवीक्ष्य तत्‌ परिजिहीर्षुराह--`योगविभाघोऽत्र क्रियते' इति। योगविभागे सति यदि `अपत्ये' इत्यनुवृत्तेरपत्य एव टिलोपो निपात्यते, पूर्ववत्‌ सिद्धे सति नियमार्थमेव निपातनं स्यात्‌, ततश्च स दोषस्तदवस्थ एव स्यात्‌, यः प्राङनियमपक्षे उक्तः। तथा च योगविभागकरणमनर्थकं स्यात्‌। तस्मादपत्याधिकारोऽपि योगविभागकरणसामर्थ्यादपत्यादन्यतर `ब्राह्मः' इत्येतन्निपात्यते। एवमनपत्येऽपि `ब्राह्मः' इति निपातनात्‌ `ब्राह्मो गर्भः, ब्राह्मस्त्रम्‌, ब्राह्म हविरित्येतत्‌ सिद्ध्यति। ततः `अजातौ' इत्ययं द्वितीयो योगः। `न मपूर्वोऽपत्येऽवर्मणः' (6.4.170) इति प्रकृतिभावे प्रतिषिद्धे यः `नस्तद्धिते' (6.4.144) इति टिलोपः, स मा भूदित्येवमर्थोऽपत्य इत्येवेति। एतेनास्मिन्द्वितीये योगे `अपत्ये' इत्यनुवर्तत इत्याचष्टे। `अजातौ' इति च प्रसज्यप्रतिषेधोऽयम्‌। तत्र जातेरपत्यार्थेन सम्बन्धः, नञ्सतु भवतिना। तमेवार्थं वृत्तौ दर्शयन्नाह--`अपत्ये जातावणि ब्राह्मण इति लोपो न भवति' इति। जातिविशिष्टे।पत्ये विवक्षितेऽणि परतो ब्राह्मण इत्यत्र टिलोपो न भवतीत्यर्थः।
अपत्य इत्येव--`ब्रह्मो ओषधिः' इति। प्रत्युदाहणव्याजेन योगविभागे जातिमात्रविवक्ष्यां ब्राह्मी ओषधिरित्येतदपि सिद्धं भवतीति दर्शयति।।

172. कार्मस्ताच्छील्ये। (6.4.172)
`यद्येवम्‌' इति। यदि णकारोऽत्र प्रत्ययः, एवं सति किमर्थमिदम्‌? नैवास्य प्रयोजनं किञ्चिदित्यर्थः। किं कारणम्‌? इत्याह--`नस्तद्धित इत्येवं हि' इत्यादि। यद्धि लक्षणेन न प्राप्नोति तदर्थं निपातनमारभ्यते, इह तु `नस्तद्धिने' (6.4.144) इत्येवं सिद्धः, न हि णे केनचित्‌ प्रकृतिभाव उक्तो यतस्तत्र टिलोपातनमारभ्यमाणमिदमर्थवत्स्यात्‌। अणि हि प्रकृतिभावोऽणन्तस्योक्तः, न तु णे। अनन्तरोक्तमर्थमभ्युपगच्छति--यदि सत्यम्‌, किमर्थमिदमित्याह--`ज्ञापकार्थम्‌' इत्यादि। `अण्कृतानि' इत्यादि। अणि कृतानि कार्याणि अष्कृतानि, `सप्तमौ' (2.1.40) इति योगाविभागात्समासः। अथ वा अणा कृतानि `कर्तृकरणे कृता बहुलम्‌ (2.1.32) इति समासः। `किमेतस्य ज्ञापनेन प्रयोजनम्‌? इत्याह--`तेन' इत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति `छत्त्रादिभ्यो णः' (4.4.62) इति णः, तदन्तन्ङीप्‌। `ताच्छीलिके णः' इत्यस्यार्थस्य ज्ञापितत्वात्‌ `तदस्यां प्रहरणमिति क्रीडायां णः' (4.2.57) इति दण्डात्‌ णे दाण्डेति--अण्कृतं कार्यं न भवति।
यदि तर्हि ताच्छीलकेष्वण्कृतमिष्येत, अणेव छत्त्रादिभ्यः कस्मान्नोच्येत, तत्राप्ययमर्थः--ज्ञापनार्थं निपातनं कर्त्तव्यं न भवति? युक्तमेतदुक्तवानसि; वैचित्र्यार्थ त्वण्कृतः।
`कार्मणम्‌' इति। `तद्युक्तात्‌ कर्मणोऽण्‌' (5.4.36) इत्यण्‌। कर्मणा युक्तं कार्मणमिति।।

173. औक्षमनपत्ये। (6.4.173)
`औक्षं पदम्‌' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌।।

174. दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौण्हत्येधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि। (6.4.174)
`उपचाराद्‌ ग्रन्थोऽप्यथर्वन्नित्युच्यते' इति। उपचारस्य तु तत्प्रोक्तत्वमेव निबन्धनम्‌। `आथर्वणिकः' इति। `वसन्तादिभ्यष्ठक्‌' (4.2.66)।
`भ्रौणहत्यम्‌' इति। भ्रणं हतवानिति `ब्रह्मभ्रूणवृत्रेषु क्विप्‌' (3.2.87), तदन्तात्‌ ष्यञ्‌। `हरस्तोऽचिण्णलोः' (7.3.32) इत्यनेनैव तकारः सिद्धः, तत्किं निपात्यते? इत्याह--`इनस्तोऽचिण्णलोः' इत्यादि। `धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यसम्प्रत्यय एव' (जै.वृ.31)। `धातोः' (6.1.162) इत्येवं यो विहितः प्रत्ययः, तत्र कार्यं विज्ञायत इत्यर्थः। न च ष्यञ्प्रत्ययो धातुप्रत्ययः, किं तर्हि? प्रातिपदिकप्रत्ययः तेन तत्र `हनस्तोऽचिण्णलोः' (7.3.32) इति तकारो न प्राप्नोति, अतो निपात्यते। कथं पुनर्विज्ञापते--धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं भवतीति? नैतदस्ति; `न क्वादेः' (7.3.59) इत्यत्र हि नेति योगदिभागादपि शक्यते कुत्वनिवृत्तिः कर्त्तुम्‌। `भ्रौणध्नः वर्त्रध्नः' इति। अपत्यार्थेऽण्‌। इक्ष्वाकुशब्दाद्यदा `जनपदशब्दात्‌' (4.1.138) इत्यादिनाञ्‌ भवति, तदैक्ष्वाकशब्दो ञित्स्वरेणाद्युदात्तः। यदा तु `कोपधात्‌' (4.2.132) इति शैषिकोऽण्‌, तदान्तोदात्तः।
ननु चैवंविधसूत्र एकस्योपादानेऽपरस्य ग्रहणं न सिद्ध्यति, तस्मादुभयोरपि स्वरभिन्नयोरुपादानं कर्त्तव्यम्‌--`एश्वकः, ऐक्ष्वकः' इति। एतच्चोद्यमपाकर्त्तुमाह--`स्वरसर्वनाम्ना' इत्यादि। उदात्तादीनां स्वराणा मविभागेनोच्चारणम्‌, एकश्रुतिः। सा च स्वराणां सर्वनामेव सर्वनाम यथैव हि `तस्यापत्यम्‌' (4.1.92) इत्यादौ निर्देश उपगुप्रभृतीन्विशेषान्विभागेन प्रतिपदयति, ततैकश्रुतिरप्युदात्तादीन्स्वरविशेषान्‌। तथात्रायमैक्ष्वाकशब्दः पठ्यते--नाप्याद्युदात्तो नाप्यन्तोदात्तः, तस्य त्वेवं पठितस्य प्रत्ययविशेषात्स्वरविशेषो भवति--यदाञ्‌ तदान्तादोत्तः।
`इत्यादेशापवादः' इति। केकयादि (7.3.2) सूत्रेणेयादेशः प्राप्नोति, तदपवादो लोपो निपात्यते। `अतो गुणे' (6.1.97) पररूपत्वम्‌।
`अथ किमर्थम्‌' इति। येनाभिप्रायेण पृष्टवांस्तं स्वयमेवाविष्कर्त्तुमाह--`ततोऽञि कृते] इत्यादि। `सिद्धम्‌' इति। रूपस्वरूपयोरभेदात्‌। `यलोपार्थश्च' इत्यादिना बिदादिषु पाठे यो गुणस्तं दर्शयति। `यस्कादिषु च' इत्यादि। तत्र हि तस्य बहुषु गोत्रप्रत्ययस्य लुग्यथा स्यादित्येवमर्थः पाठः। स च लुग्बिदादिषु पाठे सति `यञञोश्च' (2.4.64) इत्यनेनैव सिद्ध्यतीति नार्थो यस्कादिषु पाठेन। `मैत्रेयः सङ्घः' इत्यादि। एतेन बिदादिषु पाठे यो दोषस्तं दर्शयति। बिदादिषु पाठे सति सर्वमेतदुपपद्यते यदुक्तवानासि; किन्तु मैत्रेयशब्दादञन्तात्‌ `सङ्घाङ्कलक्षण' (4.3.127) इत्यादिनाण्प्रत्ययः स्यात्‌, ततो मैत्रेय इत्यनिष्टं रूपं स्यात्‌, न तु मैत्रेयक इत्यभीष्टम्‌। ढञन्तात्‌ तु `गोत्रचरणाद्वुञ्‌' (4.3.126) भवतीति मैत्रेयक इत्यभीष्टं सिद्ध्यति। `हिरण्मयः' इति। `मयङ्वैतयोर्भाषायाम्‌' (4.3.143) इति मयट्‌।।

175. ऋत्व्यवास्त्वास्त्व्यमाध्वीहिरण्ययानि च्छन्दसि। (6.4.175)
`ऋत्व्यम्‌, वास्त्व्यम्‌' इति। `भवे छन्दसि' (4.4.110) इति यत्‌। `वास्त्वम्‌' इति। `तस्येदम्‌' (4.3.120) इत्यण्‌। एवं `माध्वी' इत्यत्रापि। `हिरण्ययः' इति। पूर्ववन्मयट्‌।।

इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरहणपञ्जिकायां षष्ठाध्यायस्य
चतुर्थः पादः।।