काशिकाविवरणपञ्जिका/षष्ठोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिकाविवरणपञ्जिका तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथ षष्ठोऽध्यायः
तृतीयः पादः
1. अलुगुत्तरपदे। (6.3.1)
`स्तोकान्मुक्तः, अल्पान्मुक्तः' इति। `करणे स्तोकाल्पकृचछ्रकतिपयस्यासत्ववचनस्य' (2.3.33) [`करणे च'--पा.सू.] इति पञ्चमी, `स्तोकान्तिकदुरार्थकृच्छ्राणि क्तेन' (2.1.39) इति समासः। ननु च `वनं समासे' (6.2.178) इत्यतः समासगरहणमनुवर्तिष्यते, समासे च नियतं सन्निहितमुत्तरपदम्, अतोऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदं लभ्यत इत्यभिप्रायेणाह--`उत्तरपदमिति किम्' इति। `निःस्तोकः' इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा.94) इति प्रादिसमासः। एवं मन्यते--असत्युत्तरपदग्रहणे समासे ये स्तोकादय उत्तरपदभूताः पूर्वपदभूता वा, तेभ्य उत्तरस्याः पञ्चभ्या अलुग्भवतीत्येतावन्मात्रं लभ्यते, न तूत्तरपदे परतो ये स्तीकादय इत्येष विशेषः। ततश्च निःस्तोक इत्यत्राप्यलुक् स्यात्। भवति ह्यत्रापि समासवर्तिनः स्तोकादेः शब्दादुत्तरा पञ्चमीति।
नन्वेवमपि न कर्त्तव्येमेवोत्तरपदग्रहणम्, लक्षणप्रतिपदोक्तपरिभाषया(व्या.प.3) प्रतिपदं `स्तोकादिभ्यः करणे च' (2.3.33) इत्यादिसूत्रेण या पञ्चमी विहिता, तस्या एव ग्रहणम्। नतु `अपादाने पञ्चमी' (2.3.28) इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता, तस्या एव ग्रहणम्। न तु `अपादाने पञ्चमी' (2.3.28) इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता त्सयाः। अवश्यञ्च सलक्षमप्रतिपदोक्तपरिभाषाऽश्रयितव्याः; अन्यथा हि स्तोकादपेतः स्तोकापेत इत्यत्राप्यलुक्, स्यात्, एवं सति निःस्तोक इत्यत्रालुक्प्राप्तिरेव नास्ति, न ह्यत्र स्तोकशब्दात् प्रतिपदिविहिता पञ्चमी, किं तर्हि? सामान्यलक्षणविहिता। तत किं तन्निवृत्त्यर्थेनोत्तरपदगरहणेन? इत्याह--`अन्यार्थम्' इत्यादि। आनङाद्यर्थमिदमुत्तरपदगरहणम्। असति चैतस्मिन् `आनङ् ऋतो द्वन्द्वे' (6.3.25) इत्यानङ्, `होतापातृभ्याम्' इत्यत्र यथा पूर्वपदस्य भवति, तथोत्तरपदस्यापि स्यात्। तथा `इकोह्रस्बोऽङयो गालवसव' (6.3.61) इति ह्रस्वो यथेह भवति--`ग्रामणिपुत्रः' इति, तथेहापि स्यात्--`ग्रामणीः' इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा `ह्रस्वो यथेह भवति--`ग्रामणिपुत्रः' इति, तथेहापि स्यात्--`ग्रामणीः' इति। ननु यद्यनुत्तरपदेऽपि ह्रस्वः स्यात्, तदा `ह्रस्वो यथेह भवति--`ग्रामणिपुत्रः' इति, तथेहापि स्यात्--`ग्रामणीः' इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा `ह्रस्वो नपुंसके प्रातिपदिकस्य' इति, तथेहापि स्यात्, `ग्रामणीः' इति। ननु यद्यनुत्तरपदेऽपि ह्रस्वः स्यात्, तदा `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्? नानर्थकम्; अनिगन्तार्थत्वान्नित्यार्थत्वाच्च। किञ्च, असत्युत्तरपदग्रहणे कृतम्। यद्येवम्, यदर्थमिदं तद्विधावेव कर्त्तव्यम्, इह किमर्थ क्रियते? इत्याह--`इहाप्यलुको निवृत्तिम्' इत्यादि। इतिकरणो हेतौ। अन्यार्थं तावदवश्यमिदमुत्तरग्रहणम्। इह तु क्रियमाणे सत्ययं विशेषः--निःस्तोक इत्यतराप्यलुग् निवृत्तः क्रियते। तेन लक्षणप्रतिपदोक्तपरिभाषा(व्य.प.3) नाश्रयितव्या भवति।
अथ कुतः प्रातिमावधिकारौ? इत्याह--`अलुगधिकारः' इत्यादि। विधेयान्तरं विधेयान्तरस्य निवर्तकं भवतीत्यानङ् विधीयमान उततरपदेऽलुकं निवर्त्तयति, तस्मात्--`अलगधिकारः प्रागानङः'। उत्तरपदाधिकारः `प्रागङ्गाधिकारात्' इति। उत्तरपदे परतो यत् कार्यं वीधीयते तस्य सम्बन्धिशब्दत्वात् पूर्वपदं विधिभाक्। अतोऽङ्गं विधिभाक्त्वेन विज्ञायमानमुत्तरपदाधिकारं निवर्तयति। अङ्गस्य हि यत् कार्यं तत् प्रत्यये परतो विधीयते, नोत्तरपदे। न ह्युत्तरपदेऽङ्गसंज्ञा भवति। अथ वा--उत्तरपद इति सप्तमीनिर्देशादनन्तर एवोत्तरपदे भवितव्यमानङा। यदि चात्र विभक्तेरलुक् स्यात् तदा व्यवधानादानन्तर्य न स्यात्। न च व्यवधानेऽपि वचनसामर्थ्यादानङ्स्यादिति शक्यते परिकल्पयितुम्। एवं हि `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति निर्दिष्टग्रहणमानन्तर्यार्थ बाध्येत, अनिष्टं च रूपमापद्येत। न चानिष्टार्था शास्त्रे प्रक्लृपतिर्युक्ता। तस्मादलुगधिकारः प्रागानङः। अङ्गस्य प्रत्यये परतोऽभावादुत्तरपदे परतस्तन्न भवत्येव, अत उत्तरपदाधिकारः प्रागङ्गाधिकारात्।।
2. पञ्चम्याः स्तोकादिभ्यः। (6.3.2)
स्तोकादय इति प्रातपदिकगणेषु न पठ्यन्ते। तस्मात् सूत्रपरिपठिता एवेह ग्रहीतव्या इति दर्शयन्नाह--`स्तोकान्तिकदुरार्थकृच्छ्राणि' इत्यादि। अथ `करणे' च' (2.3.33) इत्यादौ सूत्रे ये परिपठिताः स्ताकादयस्ते कस्मान्न गृह्यन्ते? एवं मन्यते--`ङसेः स्तोकादिभ्यः' इति वक्तव्ये `पञ्चम्याः' इति बहुतराक्षरनिर्देशेनैतत् सूचितम्--येषु स्ताकादिषु गृह्यमाणेषु बहुतरलक्ष्यसंग्रहो भवति ते ग्रहीतव्याः' इति। स्तोकान्तिकदूरार्थकृच्छ्राणीत्येतेष्वेव [`दूरार्थ' इति नास्ति मुद्रिते न्यासपाठे] गृह्यमाणेषु बहुतरलक्ष्यसंग्रहो भवति, तत्रार्थग्रहणात्; न त्वितरेषु। तस्मादेषामेव ग्रहणं न्याव्यमिति। कथं पुनरत्र लुक् प्राप्नोति, यस्मिन् प्राप्ते प्रतिषेधोऽयं क्रियते? इत्याह--`समासे कृते' इत्यादि। समासे कृते सति तस्य `कृत्तद्धितसमासाश्च' (1.2.46) इति प्रातिपदिकत्वम्, अतः 'सुपो धातुप्रातिपदिकयोः' (2.4.71) इति सुपो लुकि प्राप्ते प्रतिषेधोऽयमुच्यते।
किं पुनः कारणमेकवचनान्तानां स्तोकादीनामलुगुदाह्रियते, न द्विवचनबहुवचनान्तानाम्? इत्याह--`द्विवचनबहुवचनान्तानाम्' इत्यादि। वृत्तौ हि विशेषणपदान्येकत्वादिकां संख्यां विहायाभेदैकत्वसंख्यां प्रतिपद्यन्ते। सा पुनः सख्यानमात्रमनुपात्तसंख्याविशेषं सामान्यभूतम्; यत एवमतो विवक्षितार्थानभिधानादद्विवचनबहुवचनान्तनां समासो न भवत्येव। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। `तेन' इत्यादि। यत एवं द्विवचनबहुवचनान्तानां स्तोकादीनां समासो न भवति, तेन स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्त इत्यत्र न कदाचिदैकपद्यमैकस्वर्य च भवति। स्तोकाभ्यामित्यस्माद्धि पदान्मुक्त इत्येतत् पदमन्यदेवात्यन्तभिन्नम्, तथा स्तेकेभ्य इत्यस्मान् मुक्त इत्येतत्। स्वरोऽप्यत्रानेक एव। तथा हि--`स्तोकाभ्याम्' इत्येतत् प्रातिपदिकस्वरेम मध्योदात्तम्, `मुक्तः' इत्येतत् प्रत्ययस्वरेणान्तोदात्तम्। एवम् `स्तोकेभ्यो मुक्तः' इत्यत्रापि नानास्वरता वेदितव्या। मूलोदाहरणे तु समासे सत्येकपद्यं भवति, स्वरोऽप्येक एव। तथा हि--थाथादि(6.2.144)सूत्रेणात्रान्तोदात्तत्वम्।
यदि द्विवचनबहुवचनान्तानां समासो न भवतीह तर्हि कथं भवति--गोषुचरः वर्षासुज इति? विवक्षितार्थाभिधानात्। अनभिधानं ह्यसमासे हेतुरुक्तः, इह तु विवक्षितार्थस्यार्थस्य बहुवचनस्याभिधानमस्त्येव। यत्र ह्यभेदैकत्वसंख्योपजायते, तत्र संख्याविशेषस्याभिधानं न भवति, न चात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिदानादभेदैकत्वसंख्या नोपपद्यते। तथा हि--गोषुचर इत्यत्र गोशब्दोऽप्सु वर्तते, स चापोऽभिदधानो बहुत्वसंख्याविशिष्ट एवाभिदधाति, अप्शब्दवत्। वर्षासुज इति--वर्षाशब्दोऽपि कालविशेषे बहुत्वसंख्याविशिष्ट एव वर्तते। अतः प्रापिपदिकेनैव बहुत्वसंख्याया आश्रितत्वान्नात्राभेदैकत्वसंख्योपजायते। यदि तु जायेत, तदा बहुत्वसंख्या निवर्तेत, ततश्च गोशब्दस्य वर्षाशब्दस्य च यः प्रातिपदिकार्तोऽभिप्रेतः स इह न गम्येत। तस्मान्माभूद्गोशब्दवर्षाशब्दयोरभिप्रेतस्यार्थस्यानवगतिरिति नात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिधानाद् गोषुचरः, वर्षासुज इत्यत्र भवत्येव समासः।
`ब्राह्यणाच्छंसिन उपसंख्यानं कर्तव्यम्' इति। ब्राह्मणाच्छंसीति योऽयं शब्दस्तस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। किं पुनरत्र न सिध्यति? पञ्चमीति। ब्राह्मणशब्देनात्राध्ययनविशेष उच्यते, तं शंसति=कथयति यः सः ब्राह्मणाच्छंसीति ताच्छिलिको णिनिः। अत्र ब्राह्मणशब्दात् `कर्मणि द्वितीया' (2.3.2) इति द्वितीयायां प्राप्तायां पञ्चम्युपसंख्येया। अलुक्पुनः `तत्पुरुषे कृति बहुलम्' (6.3.14) इत्येव सिद्धः। यदा तु ब्राह्मणादाकृष्यावयवमर्थं वा शंसतीति विवक्ष्यते, तदा पञ्चम्यपि नोपसंख्येया। `अपादाने पञ्चमी' (2.3.28) इत्येवमेव तस्याः सिद्धत्वात्। कथं पुनरत्रासता पञ्चम्यर्थेन व्युत्पत्तिः क्रियते? इत्याह--`क्रत्विग्विशेष' इत्यादि। रूढिः=प्रसिद्धिः, संज्ञेति यावत्। तस्या इत्यनेन रूढिमात्रं प्रत्यवमृश्यते, न तु ब्राह्मणाच्छंसीत्ययं रूढिशब्दः। रूढिशब्दः कस्याचिदेव ऋत्विग्विशेषस्य वाचकः, तत्रैव तस्य संज्ञात्वेन प्रणीतत्वात्। तस्मात् तस्याप्यसता सता वावयवार्थेन व्युत्पत्तिः क्रियते। तत्र यदि ब्राह्मणं शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्यापादानस्याभावादसतावयवार्थेन व्युत्पत्तिः क्रियते। यदा तु ब्राह्मणादवयबार्थं वा गृहीत्वा शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्य भावात् सता।।
3. ओजःसहोम्भस्तमसस्तृतीयायाः। (6.3.3)
ओजसाकृतमित्यादौ `कर्तृकरणए कृता बहुलम्' (2.1.32) इत्यनेन समासः।
`अञ्जस उपसंख्यानम्' इति। अञ्जस उत्तरस्यास्तृतीयाया अलुक् उपसंख्यानम्=प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्--`आज्ञायिनि च' (6.3.5) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाञ्जःशब्दादुत्तरस्यास्तृतीयाया अलुग्भवतीति। अन्यदपि चात्र प्रत्पादनमुत्तरत्र करिष्यामः।
`पुंसानुजः' इत्यादि। पुंसानुजो जनुषान्ध इत्यत्रापि तृतीयाया अलुक्प्रतिपादनं कर्त्तव्यमित्यर्थः। प्रतिपादनं पूर्ववत्। पुंसा हेतुनानुजः पुंसानुजः। जनुषा हेतुना अन्धः जनुषान्धः। `तृतीया' (2.1.30) इति योगविभागात् समासः। जनुरिति जन्मनो नामधेयमेतत्।।
4. मनसः संज्ञायाम्। (6.3.4)
5. आज्ञायिनि च। (6.3.5)
`मनसाज्ञायी' इति। तच्छिलिको णिनिः, `आतो युक् चिण्कृतोः' (7.3.33) इति युगागमः, उपपदसमासः।।
6. आत्मनश्च पूरणे। (6.3.6)
पूरणगरहणिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति। तेन पूरणग्रहणधिकृत्य पूरणग्रहणमधिकृत्य पूरणप्रत्यया विहितास्त एव पूरणग्रहणेन गृह्यन्ते, न तु स्वरूपम्। `उत्तरपदे' (6.3.1) इत्यनुवर्त्तते च, ततः प्रत्ययग्रहणपरिभाषया (भो.प.सू.7) पूरणप्रत्ययान्त उत्तरपदे कार्यं विज्ञायत इत्यालोच्याह--`पूरणप्रत्ययान्त उत्तरपदे' इत्यादि। `पञ्चमः' इति। पञ्चानां पूरणः `तस्य पूरणे डट्' (5.2.48) इति डट्, तस्य `नान्तादसंख्यादेर्मट्' (5.2.49)। `षष्ठः' इति। षण्णां पूरण इति `षट्कतिकतिपयचतुरां थुक्' (5.2.51), ष्टुत्वम्। `आत्मनापञ्चमः' इत्यादौ केन तृतीया, न ह्यत्र करणादिस्तृतीयार्थोऽस्ति, करणादि हि कारकम्, क्रियायाश्च कारक्रं भवति, न चेह काचित् क्रिया विद्यते? इत्याह--`तृतीयाविधाने' इत्यादि। भवत्वेवम्, तृतीयासमासास्तु कथम्, न ह्यत्र समासलक्षणमस्ति? इत्यत आह--`तृतीयाविधाने' इत्यादि। भवत्वेवम्, तृतीयासमासस्तु कथम्, न ह्यत्र समासलक्षणमस्ति? इत्यत आह--`तृतीयेति च' इत्यादि। अथ वा--`कर्तृकरणयोस्तृतीया' (2.3.18) इत्यनेनैवात्र तृतीया, `कर्तृकरणे कृता बहुलम्' (2.1.32) इति समास इति दर्शयन्नाह--`आत्मना वा' इत्यादि। अत्र कर्तर करणे वैषा तृतीया--कृतः पञ्चम इति। कृते समासे कृतशब्दो न प्रयज्यते; तदर्थस्य वृत्तावन्तर्भावात्।
`कथम्' इत्यादि। अत्राप्यात्मना चतुर्थ इति भवितव्यमिति भावः। `बहुव्रीहिरयम्' इत्यादि परिहारः। तत्पुरुषे ह्यात्मनाचतुर्थ इति स्यात्, न चायं तत्पुरुषः। किं तर्हि? बहुव्रीहिः। स च प्रथमान्तयोरेव पदयोरिति न भवत्यनिष्टप्रसङ्गः। ननु चान्यपदार्थे बहुव्रीहिरुच्यते, अन्यपदार्थश्च व्यतिरिक्तो भवति। यथा चित्रा--गावो यस्य सः चित्रगुरिति, न चेह कश्चिद्व्यतिरिक्तोऽन्यपदार्थोऽस्ति? नैष दोषः; अव्यतिरक्तोऽप्यन्यपदार्थो भवति वयपदेशिवद्भावेन। यथा--शोभनशरीरः शिलापुत्रक इति।।
7. वैयाकरणाख्यायां चतुर्थ्याः। (6.3.7)
`वैयाकरणानाम्' इति। व्याकरणमधीयते विदन्ति वा वैयाकरणा। का पुनर्वैयाकरणानामाख्येत्याह--`यया' इत्यादि। अथैवं कस्मान्न व्याख्यायते--व्याकरणे भवा वैयाकरणी, `अणुगयनादिभ्यः' (4.3.73) इत्यण्, वैयाकरणी चासावाख्या चेति वैयाकरणाख्या `पुंवत् कर्मदारय' (6.3.42) इत्यादिना पुंवद्भवः, तस्यां वैयाकरणाख्यायामिति? अशक्यमेवं व्याख्यातुम्, इह हि न स्यात्--आत्मनेभाषः, परस्मैभाष इति। व्याकरणे हि का भाषा? या व्याकरणे कृता। न चैते क्वचित् व्याकरणे कृते। पूर्वत्र व्याख्याने सतीहापि भवति, एते अपि वैयाकरणानामाख्ये, तथा ह्याभ्यामपि वैयाकरणा व्यवहरन्त्येव। `आत्मनेपदम्' इति। आत्मार्थ पदम्। तादर्थ्ये `चतुर्थी' (2.1.36) इति योगविभागात् समासः। ननु `चतुर्थी तदर्थ' (2.1.36) इत्येवं समासः सिद्धः? न सिध्यति; प्रकृतिविकारभावे हि स इष्यते।।
8. परस्य च। (6.3.8)
9. हलदन्तात्सप्तम्याः संज्ञायाम्। (6.3.9)
`युधिष्ठिरः' इति। `संज्ञायाम्' (2.1.44) इति समासः, `गवियुधिभ्यां स्थिरः' (8.3.95) इति षत्वम्। अथ गविष्ठिर इत्यत्र कथमलुक्, न हि गोशब्दो हलन्तः, नाप्यदन्तः? स्यादेतत्--गो+इ+स्थिर इति स्थितेऽन्तरङ्गत्वादवादेशे कृते हलन्तत्वाद्भविष्यति, एतच्च नास्ति; यतः `अन्तरङ्गानपि विधीन् वहिरङ्गो लुग् बाधते' (व्या.प.128) इति, अवश्यं चैतदभ्युपेयम्; अन्यथा हि नद्यां कुक्कुटिका नदीकुक्कुटिक, भूम्यां पाशो भूमिपाश इत्यत्रापि यणादेशे कृतेऽलुक् प्रसज्येत? इत्यत आह--`गविष्ठिर इत्यत्र तु' इत्यादि।
`हृद्द्युभ्याम्' इति। असंज्ञार्थमिदम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं चोत्तरत्र करिष्यते। अथ वेहापि क्रियते--इहान्तग्रहणं न कर्त्तव्यम्, विनापि तेन सपतम्या प्रातिपदिके सन्निधापिते हलदन्तता लभ्यत एव, तसमादधिकमिहान्तग्रहणं क्रियते, तदधिकं क्रियमाणमेतत् सूचयति--अधिकेनायमलुग्भवतीति। तेन क्वचिदसंज्ञायामलुग्भवतीति। `हृदिस्पृग्दिविस्पृक्' इति। `स्पृशोऽनुदके क्विन्' (3.2.58) `क्विन्प्रत्यस्य कुः' (8.2.62) ति शकारस्य खकारः, तस्य `झलां जशोऽन्ते' (8.2.39) इति जश्त्वम्--गकारः, तस्यापि `वाऽवसाने' (8.4.56) इति चर्त्वम्--ककारः। अत्र चायमर्थः--हृदयं स्पृशति, दिवं स्पृशतीति। तथा हि भाष्ये उक्तम्--`द्वितीयार्थे सप्तमी चैषा द्रष्टवया, हृदयं स्पृशति, दिवं स्पृशतीति `हृविस्पृक्, दिविस्पृक' इति। कथं पुनः द्वितीयार्थे सा भवति? अत एव भाष्यकारवचनात्। अथ वा--हृदयं यः स्पृशति स हृदये स्पृशत्येव, दिवं यः स्पृशति स दिवि स्पृशत्येव अत्र `अधिकरणे' (2.3.36) इत्येवं भविष्यति सप्तमी।
आख्याग्रहणे प्रकृते पुनः संज्ञाग्रहणं विस्पष्टार्थम्।।
10. कारनाम्नि च प्राचां हलादौ। (6.3.10)
वणिग्भिः कर्षकैः पशुपालैश्च राज्ञे देयो भागो रक्षानिबन्धनः=कारः, तस्य नाम कारनाम। `कूपेशाणम्' इत्यादौ `र्सज्ञायाम्' (2.1.44) इति समासः। `हलेद्विपदिका' इति। द्वौ द्वौ पादौ देयौ द्विपादिका, `पादशतस्य' (5.4.1) इत्यादिना वुन्, अलोन्त्यलोपश्च, `पादः पत्' (6.4.130) इति पदादेशः।
`कारविशेषस्य' इत्यादिनास्य सूत्रस्य नियमार्थतां दर्शयति। नियमविकल्पाः--नियमविशेषा इत्यर्थः। `कारनाम्नि च' इत्यादिना तेषां नियमविकलपानां स्वरूपं दर्शयति। एते च नियमविकल्पाः कारनाम्नि, प्राचाम्, हलादावित्येषां पदानामिह नियमवाक्य उपादानाललभ्यन्ते। यद्याद्यो नियमो नाभिप्रेतः स्यात् तदा `कारनाम्नि' इति न ब्रूयात्। एवं यदि द्वितीयो नियममो नाभिप्रेतः स्यात् तदा `प्राचाम्' इत्येवं नोक्तं स्यात्। तथा यदि तृतीयो नियमो नाभीष्टः स्यात् `हलादौ' इत्येवं नोक्तं स्यात्। अथ किमर्थं नामग्रहणम्, न पूर्वयोगात् संज्ञाग्रहणमनुवर्त्तते? पूर्वयोगे संज्ञाया उपाधेः प्रायिकत्वसूचनार्थं नामग्रहणम्। तेन हृदिस्पृक्, दिविस्पृगित्यत्रासंज्ञायामप्यलुक्सिद्धो भवति।।
11. मध्याद्र गुरौ। (6.3.11)
`अन्ताच्चेति वक्तव्यम्' इति। अन्तशब्दाच्चोत्तरस्याः सप्तम्या अलुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--पूर्वयोगाच्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चार्थः। तेनान्तशब्दादप्युत्तरस्याः सप्तम्या अलुग्भवतीति।।
12. अमूर्द्धमस्तकात् स्वाङ्गादकामे। (6.3.12)
स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं यत् तदिह गृह्यते। `कण्ठेकालः' इति बहुव्रीहिः। `व्यधिकरणानामपि `बहुव्रीहिर्भवत्येव' इति बहुव्रीहिः। `समानाधिकरण' (वा.97) इत्येतत् प्रायकम्। `अक्षशौण्डः' इति। `सप्तमी शौण्डैः' (2.1.40) इति समासः। `अङ्गुलित्राणजङ्घावलो' सप्तमीतत्पुरुषौ।।
13. बन्धे च विभाषा। (6.3.13)
`स्वाङ्गात्' (6.3.12) इति निवृत्तम्, सामान्येन विधिः। `बन्धे' इति। बध्नातेरेतद्रूपम्। `नेन्त्सिद्धबध्नातिषु च' (6.3.19) इत्यनेन तत्पुरुषे बध्नातौ प्रतिषेधं वक्ष्यन्ति। तत्र विषयविभागो न ज्ञायते--तत्पुरुषे क्व च प्रतिषेधः? इत्यतस्तत्परिज्ञानार्थमाह--`बन्ध इति धञन्तो गृह्यते' इति। बन्धनं बनधः, भावे घञ्। अनेन धञन्ते बध्नातौ विभाषा। प्रत्ययान्तरे तु प्रतिषेध इति दर्शितं भवति। कथं पुनर्ज्ञायते--घञन्तोऽयमिति? आद्युदात्तत्वात्। `हस्तेबन्धः' इति। तत्पुरुषः, बहुव्रीहिर्वा। `उभयत्र' इति। प्राप्ते चाप्राप्ते च कथं पुनरुभयत्र विभाषेयम्? इत्याह--`स्वाङ्गाद्धि' इत्यादि।।
14. तत्पुरुषे कृतिबहुलम्। (6.3.14)
`स्तम्बेरमः, कर्णेजपः' इति। `स्तम्बकर्णयो रमिजपोः' (3.2.13) इत्यच्, `उपपदमितङ्' (2.2.19) इति तत्पुरुषः।
`कुरुचरः, मद्रचरः' इति। `चरेष्टः' (3.2.16) विभाषायां प्रकृतायां बहुलग्रहणं क्वचित्प्रवृत्त्यादीनामर्थानां संग्रहार्थम्। तेनालुक्प्रवृत्तिः क्वचिदेव भवति--`स्तम्बेरमः' इत्यादौ। क्वचिदप्रवृत्तिरेव--`कुरुचरः' इत्यादौ। क्वचिदुभयम्--`सरजिम्, सरोजम्' इत्यादौ। क्वचिदन्यदेव--`ब्राह्मणाच्छंसी' इत्यादौ। सप्तम्या अलुगुक्तः पञ्चम्या अपि भवति। तथा कृदन्त उत्तरपदेऽलुगुक्तस्तद्धितेऽपि भवति--अप्सु भवोऽप्सव्य इति। दिगादित्वाद्यत्--`ओर्गुणः' (6.4.146) इति गुणः, `वान्तो यि प्रत्य' (6.1.79) इति वान्तादेशः।
तदेवं सर्वत्र बहुलग्रहणेन सिद्धमिति `ब्राह्मणाच्छंसिन उपसंख्यानम्' (वा.716) इत्यादि। यदुक्तम्, यच्च वक्ष्यते--`अपोयोनियन्मतुषु सप्तम्या अलुक्' (वा.721) इत्यादि, तत् सर्व न वक्तव्यं भवतीति। यद्येवम् स्तोकान्मुक्त इत्यादपि सर्वमनेनैव सिद्धमिति `पञ्चम्याः स्ताकादिभ्यः' (6.3.2) इति न वक्तव्यं भवति? सत्यमेतत्; अस्यैव प्रपञ्चार्थं तद्वेदितव्यम्। एवञ्च सति सुसंगृहीतं लक्ष्यं भवति। तथा चाह--त एव विषयाः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च।।
15. प्रवृट्शरत्कालदिवां जे। (6.3.15)
`प्रावृषिजः' इति। `सप्तम्यां जनेर्डः' (3.2.97), `टेः' (6.4.143) इति टिलोपः, `अपपदमतिङ' (2.2.19) इति समासः।।
16. विभाष वर्षक्षरशरवरात्। (6.3.16)
17. घकालतनेषु कालनाम्नः। (6.3.17)
`घ' इति तरपतमपोर्गहणम्, `काल' इति कालवाचिनः शब्दस्य, `तन' इति ट्युट्युलोरनादेशस्य सतुट्कस्य। `पूर्वाह्णेतराम्' इति। अह्नः पूर्वमिति विगृहय `पूर्वापर' (2.2.1) इत्यादिनैकदेशिसमासः। `राजाहः--सखिभ्यष्टच्' (5.4.91) इति टच् समासान्तः, `अह्नोऽहन एतेभ्यः' (5.4.88) इत्यह्नादेशः। `अह्नोऽदन्तात्' (8.4.7) इति णत्वम्। अस्मिंश्च पूर्वाह्णे अस्मिंश्च पूर्वाह्णे, अस्मिस्त्वनयोरतिशयेन पूर्वाह्णे पूर्वाह्णेतर इति। `द्विवचन' (5.3.57) इत्यादिना तरप्। `पूर्वाङ्णेतमाम्' इति। `अतिशायने' (5.3.55) इत्यादिना तमप्, `कृत्तद्धितसमासाश्च' (1.2.46) इति प्रादिपदिकत्वे सति सुब्लुक् प्राप्तः पक्षे प्रतिषिध्यते। `पूर्वाह्णेतने' इति। `पूर्वाह्णेतरे' इत्यत्रार्थे `विभाषा पूर्वाह्णापराह्णाभ्याम्' (4.3.24) इति ट्युट्युलौ तुडागमश्च, `युवोरनाकौ (7.1.1) इत्यटनादेशः।
`रात्रितरायाम्' इति। अस्याञ्च रात्रावस्याञ्च रात्रावनयोरतिशयेन रात्राविति विग्रहः। ननु च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य' (पु.प.वृ.44) इति तदन्तग्रहणं भवतीति घसंज्ञकप्रत्ययान्ते तनप्रत्ययान्ते चोत्तरपदे परतोऽलुगुदाहर्त्तवयः, तत् कस्मात् प्रत्ययमात्रे स उदाहृतः? इत्याह--`उत्तरपदाधिकारे' इत्यादि। कुतः पुनरेतदित्याह--`लेखग्रहणात्' इत्यादि। `हृदयस्य हृल्लेखयदण्लासेषु' (6.4.50) इत्यत्राणो लेखशब्दस्य चाणन्तस्य भेदनोपादनम्। तत्र यद्युत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तरविधिरिष्यते तदा लेखग्रहणं न कुर्यात्; अण्ग्रहणेनैव तद्ग्रहणस्य सिद्धत्वात्, क्रियते च। तस्माल्लेखग्रहणाद्विज्ञायते--`उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते' (पु.प.26) इति। `तेने' इति। तदन्तविधेरिहानिष्टत्वेन। `काल इति न स्वरूपग्रहम्' इति। नामग्रहणात्। तस्य ह्येतदेव प्रयोजनम्।।
18. शयवासवासिष्वकालात्। (6.3.18)
`खेशयः' इति। `अधिकरणे शेतेः' (3.2.15) इत्यच्। `ग्रामेवासः' इति। वसनं वासः, भावे घञ्। `ग्रामेवासी' इति। ताच्छीलिको णिनिः, व्रते वा।
`पूर्वाह्णशयः' इति। ननु च स्वरूपग्रहणे सति कालशय इति प्रत्युदाहार्यम्, नैवेदं स्वरूपग्रहणम्। किं तर्हि? अर्थग्रहणम्। अत एव वृत्तावुक्तम्--`अकालवाचिनः' इति। कथं पुनरर्थग्रहणं लभ्यते? पूर्वसूत्रादिह नामग्रहणानुवृत्तेः। यद्येवम्, तदा नार्थः कालग्रहणेन `कालनाम्नः' (6.3.17) इत्येतदनुवर्तिष्यते, तस्य च नञा सह सम्बन्धं करिष्यामः--कालनाम्नो नेति, तत्रायमर्थः--`नेन्सिद्धबध्नातिषु च' (6.3.19) [`नेन्सिद्ध' इति प्राचीनमुद्रितपाठः] इत्यत्र नेति वक्तव्यं न भवति, नेत्येतदेव ह्यनुवर्त्तिष्यते? नैवं शक्यम्; `न शयवासवासिषि' इत्युच्यमाने ह्यलुक एवायं प्रतिषेधो विज्ञायेत, तस्यात्र विधेयतया प्रस्तुतत्वात्। तस्मात् कालस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं कालग्रहणं कर्त्तव्यम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्।।
19. नोन्त्सिद्धबध्नातिषु च। (6.3.19) [`नेन्सिद्ध' इति प्राचीनमुद्रितपाठः]
`तत्पुरुषे कृति बहुलम्' (6.3.14) इति प्राप्तस्यालुकोऽयं प्रतिषेधः। `इन्नन्त उत्तरपदे' इति। ननु च `उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नष्यते' (पु.प.26) इति ज्ञापितमेतत्, तत्कथमिह तदन्तमुत्तरपदं गृह्यते? सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः--कृत् तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः--कृत् तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परः सम्भवति। तद्धितोऽपि नैव कश्चित् सप्तमीसमर्थादुत्पद्यत इत्यसावपि नैव सप्तम्याः परः सम्भवति। तस्मादिन्नन्तमेव गृह्यत युक्तमुक्तमेतत्। `स्थण्डिलवर्त्ती' इति। `व्रते' (3.2.80) इति णिनिः; `उपपदमतिङ्' (2.2.19) इति समासः। `साङ्काश्यसिद्धः' इति। `सिद्धशुष्क' (2.1.41) इत्यादिना समासः। `चक्रबद्धः' इति। बद्धशब्दो निष्ठान्तः, `सप्तमी' (2.1.40) इति योगविभागात् समासः।
बन्धशब्देन `चक्रबन्धः' इति। `सिद्ध' (2.1.41) इत्यादिना समासः। `तत् पचाद्यचप्रत्ययान्तं द्रष्टव्यम्' इति। अथ बन्ध इत्येतच्छब्दरूपं घञन्तं कस्मान्न गृह्यते? इत्याह `घञन्ते हि' इत्यादि।।
20. स्थे च भाषायाम्। (6.3.20)
अयमपि `तत्पुरुषे' (6.3.14) इत्यादिना प्राप्तस्यालुकः प्रतिषेधः। `समस्थः' इति। समे तिष्ठतीति कः `आतो लोप इटि च' (6.4.64) इत्यकारलोपः।
`कृष्णोऽस्याखरेष्ठः' [`कृष्णोऽस्याखरेष्ठा' इति मुद्रितः पाठः `कृष्णोऽस्याखरेष्ठः' काशिका मुद्रितः पाठः--वाराणसी. `कृष्णोभ्यारेष्ठः'--काशिका--सं.प.पाठः] इति। `स्थः कः च' (3.2.77) इति क्विप्प्रत्ययः।।
21. षष्ठ्या आक्रोशे। (6.3.21)
`चौरस्यकुलम्' इति। आक्रोशप्रतिपादनपरमेतत्, न त्वनेन तस्य सम्बन्धो विवक्षितः। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्।
`पश्यतोहरः' इति। पश्यत इति `षष्ठी चानादरे' (2.3.38) इति षष्ठी। हरतीति हरः पचाद्यच्।
`अमुष्य' इति। अदसस्त्यदाद्यत्वम्, `अदसोऽसेर्दादु दो मः' (8.2.80) इत्युत्त्वमत्वे, उत्त्वस्यासिद्धवात्' टाङसिङसामिनात्स्याः' (7.1.12) इति ङसः स्यादेशः। तथा `अमुष्यकुलिकेति' (इति)। यथा अमुष्यपुत्रिकेत्यत्र भनोज्ञादित्वात् (5.1.133) वुञ्, तथात्रापीत्यर्थः।
`देवानाम्प्रियः' इति। प्रीणातीति प्रियः, `इगुपधज्ञाप्रीकिरः कः' (3.1.135) इति कप्रत्ययः इयङादेशः। `शुनःशेपः' इति। `श्वयुवमघोनामतद्धिते' (6.4.133) इति सम्प्रसारणम्।।
22. पुत्रेऽन्यतरस्याम्। (6.3.22)
23. ऋतो विद्यायोनिसम्बन्धेभ्यः। (6.3.23)
विद्या च योनिश्चेति विद्यायोनी, तत्कृतः सम्बन्दो येषां ते विद्यायोनिसम्बन्धाः। कृतशब्दस्य वृत्तावप्रयोगः; गम्यमानार्थत्वात्, यथा--गुडधाना इत्यत्र मिश्रशब्दस्य।
`ऋतो विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणं कर्तव्यम्' इति। तदित्यनेन विद्यायोनिसम्बन्धा उभयेऽपि निर्दिश्यन्ते, तेषां पूर्वपदबूतानामुत्तरपदभूतानां च ग्रहणं कर्त्तव्यम्। गृह्यते येन तत् ग्रहणम्, येन ते गृह्यन्ते तादृशं व्याख्यानं कर्त्तव्यमित्यर्थः। किं पुनस्तद्व्याख्यानम्? किमर्थं तत्कर्त्तव्यम्? इत्याह--`विद्यायोनिवाचिन्येव' इत्यादि। तत्रेदं व्याख्यानम्--इहोङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामभिप्राया लक्ष्यन्ते, `ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्येष महान् सूत्रप्रबन्धः, यदि ह्यविद्यायोनिसम्बन्धवाचिन्युत्तरपदेऽलुगभीष्टः स्यात्, एवं सत्यविद्यायोनिसम्बन्धादित्येवं ब्रूयात्। अथ वा--सम्बन्धग्रहणमपि न कुर्यात्, न हि किञ्चिदृकारान्तं विद्यावाचि योनिवाचि वाऽसम्बन्धमस्ति, तत्रान्तरेणापि सम्बन्धग्रहणं विद्यायोनिसम्बन्धवाचिन इति विज्ञास्यते, तत् किं सम्बन्धग्रहणेन! तदेतस्मान्महतः सूत्रप्रबन्धाद्विद्यायोनिसम्बन्धवाचिन्युत्तरपद आचार्यस्यायमलुगभीष्ट इति लक्ष्यत इति। `होतुः' इति। `ऋत उत्' (6.1.111) इत्युत्त्वम्, रपरत्वम्, `रात्सस्य' (8.2.24) इति सकारलोपः।।
24. विभाषा स्वसृपत्योः। (6.3.24)
25. आनङ् ऋतो द्वन्द्वे। (6.3.25)
`ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वः' इत्यादि। अथ ऋकारान्तसय द्वन्द्व आनङ् भवतीत्येवं कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्; इहापि प्रसज्येत--पितृपितामहाविति। ङकारोऽन्त्यादेशार्थः।
इह हि वर्णानामुपदेशः--कार्यार्थः, श्रवणार्थो वेति, नकारश्चायं न क्वचित् श्रूयते, सर्वत्रैव ह्यस्य `नलोपः प्रातपदिकान्तस्य' (8.2.7) इति लोपेन भवितव्यम्, नापि किञ्चित् कार्यमस्योपलभ्यते, तत् किमर्थं नकारस्योच्चारणम्? इत्याह--`नकारोच्चारणम्' इत्यादि। असति नकार ऋकारस्या स्थानेऽणेव शिष्यते, ततश्च `उरण् रपरः' (1.1.51) इति रपरत्वं स्यात्। नकारे तु सति नायमणेव शिष्यते, अपि तवण् चानङ् चेति न भवति रपत्वप्रसङ्गः। न हि यत्राण् अनण् चेति शिष्यते तत्र रपरत्वं भवति। यथा `सुधातुरकङ् च' (4.1.97) इति सौधातकिरित्यत्र। तस्मादत्र रपरत्वनिवृत्त्यर्थ नकारोच्चारणम्।
अथ पितापुत्रौ, मातापुत्रौ इत्यतर कथमानङादेशः, न ह्यत्र ऋकारान्तानां द्वन्द्वः? इत्याह--`पुत्र इत्यत्रानुवर्त्तते' इति। `पुतरेऽन्यतरस्याम्' (6.3.22) इत्यतः पुत्र इत्येतदत्रानुवर्त्तत इत्यभिप्रायः। यदि तु पुत्र इत्यनुवर्तते, तदा `विभाषा स्वसृपत्योः' (6.3.24) इत्यत्र पुत्रेऽपि विभाषा प्राप्नोति? नैष दोषः; मण्डूकप्लुतिन्यायेन तदनुवर्त्तते। अत एवात्रेत्युक्तं तत्रैवानुवर्त्तते, न पर्वत्रेति प्रतिपादनार्थम्। नन्वेवमपि पुत्रशब्द उत्तरपदे पूर्पदमात्रस्यानङ् प्राप्नति; कार्यिणेहानिर्देशादुत्तरपदशब्देन च पूर्वपदमात्रस्याक्षिप्तत्वात्, न च शक्यते वक्तुम्--ऋत इति वचनादृकारस्य भविष्यतीति, तस्मादेकमिह ऋत इति वचनं द्वन्द्वस्य विशेषणम्, न कार्यिणः? इत्याह--`ऋत इति च' इति। अत्रानुवर्त्तत इति सम्बन्धः। `ऋतो विद्यायोनिसम्बन्धेभ्यः' (6.3.23) इत्यत ऋत इत्यनुवर्त्तते, तत् कार्यिणो विशेषणं भविष्यति। ननु तत् पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैषदोषः; पुत्र इत्येषा सप्तमी ऋत इत्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति--`तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति। नन्वेवमपि विरोधः, तथा हि--यदि पुत्रशब्द उत्तरपदम्, कथं तदा ऋकारान्तानां द्वन्द्वः, ऋकारान्तानां द्वन्द्वो न तर्हि पुत्रशब्द उत्तरपदमिति? नैतदस्ति; अन्य एव हि स द्वन्द्वो यस्य ऋत इत्येतद्विशेषणम्। अन्यशाच स यस्य पुत्रशब्द उत्तरपदमिति कोऽत्र विरोधः।।
26. देवताद्वन्द्वे च। (6.3.26)
अनुकारार्थमविद्यायोनिसम्बन्धार्थ च वचनम्। ननु च `आनङृतो द्वन्द्वे' (6.3.25) इत्यतो द्वन्द्वगरहणमनुवर्त्तत एव, तत् किमर्थमिह पुनर्द्वन्द्वग्रहणम्? इत्याह--`द्वन्द्व इत्यनुवर्त्तमाने' इत्यादि। पूर्वकं हि द्वन्द्वग्रहणं समासविशेषप्रतिपत्त्यर्थम्, इदं तु प्रसिद्धसाहचर्यार्थम्--येषां लोके वेदे च प्रसिद्धं साहचर्यमेषां पुनः--परिग्रहो यता स्यादित्येवमर्थम्। अथ क्रियमाणेऽपि पुनर्द्वन्द्वग्रहणे कथमयमर्थो लभ्यते? इत्याह--`अत्यन्तसहचरिते' इत्यादि। `द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण' (8.1.15) इत्यत्रेदमुच्यते। `अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतन्निपात्यते' इति। तेनायमर्थो लभ्यत इति दर्शयति। `वेदे च ये सहवापनिर्दिष्टाः' इति। सहवापः=सहदानम्, तत्र निर्दिष्टाः सहवापनिर्दिष्टाः के पुनरेकहविसम्बन्धिनः? य एकं हूयमानं हविः प्रति सम्प्रदानत्वेन निर्दिष्टा एकत्र मन्त्रे--इन्द्रावरुणाभ्यां छागं हविर्निर्वपामीत्यादौ, ते वेदितव्याः।
`उभयत्रि' इत्यादि। पूर्वपदत्व उत्तरपदत्वे च सति वायोरानङादेशस्य प्रतिषेधो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम्--`विभाषा स्वसृपत्योः' (6.3.24) इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेन वायोरुत्तरपदत्वे पूर्वपदत्वे च सति न भविष्यतीति।।
27. ईदग्नेः सोमवरुणयोः। (6.3.27)
आनङादेशापवादोऽयमीकारो विधीयते। तकार उच्चारणार्थः।।
28. इद्रवृद्धौ। (6.3.28)
`अग्नेः' (6.3.27) इत्यनुवर्त्तते, `देवताद्वन्द्वे' (6.3.26) इति च। `सोमवरुणयोः' (6.3.27) इति निवृत्तम्। वृद्धिशब्देन साहचर्यात् कृतवृद्ध्युत्तरपदं गृह्यते। अत एवाह--`कृतवृद्धावुत्तरपदे' इति। `आग्निवारुणीम्' इति। औत्सर्गिकेऽणि कृते `टिङ्ढाणञ्' (4.1.5) इति ङीप्। अत्रापि तकार उच्चारणार्थः।।
29. दिवो द्यावा। (6.3.29)
`देवताद्वन्द्व उत्तरपदे' इति। देवताद्वन्द्वे यदुत्तरपदं तत्र परत इत्यर्थः।।
30. दिवसश्च पृथिव्याम्। (6.3.30)
आनङोपवादः। अथाकारः किमर्थमुच्चार्यते, सकारस्येत्संज्ञापरित्राणार्थ इति चेत्? न; प्रयोजनाभावादेवेत्संज्ञा न भविष्यतीत्याह--`अकारणोच्चारणम्' इत्यादि। असति ह्यकारेऽन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां सकारस्य `ससजुषो रुः' (8.2.66) इति रुत्वं विकारः स्यात्, तस्यापि `खरवसानयोर्विसर्जनीवः' (8.3.15) तस्यापि `कुप्वोः क पौ च' (8.3.37) इत्युपध्मानीयः स्यात्। अकार स्योच्चारणे तु सति न भवति, कथम्? अकारस्योच्चारणेन यद्विकृतस्य सकारस्योपादानं तस्यैतदेव प्रयोजम्--अविकृतस्यास्य प्रयोगो यथा स्यादिति--द्यावा दिवसमित्यादिकम्। वाक्मेतत्।
इह च सूत्रे द्वन्द्वग्रहणम्, उत्तरपदग्रहणं चानुवर्त्तते। द्यावा इत्ययमादेशो वाक्ये न प्राप्नोतीत्याह--`कथम्' इत्यादि। `कर्त्तव्योऽत्र यत्नः' इति। तत्रायं यत्नः--`तत्पुरुषे कृति बहुलम्' (6.3.14) इत्यतो बहुलग्रहणमनुवर्त्तते तेन द्यावा इत्ययमादेशश्छन्दसि वाक्येऽपि भविष्यतीति।
अथ वा-चकारोत्र क्रियते, तस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। द्यावाशब्दस्तु स्वरितत्वादेवानुवर्त्तिष्यत इति नार्थस्तदनुकर्षणार्थेन चकारेण।
अथ वा--दिक्शब्देन समानार्थो द्यावाशब्दः प्रकृत्यन्तरमस्ति, तस्यायं प्रयोगः। आदेशवचनं तु दिवः प्रयोगनिवृत्त्यर्थमिति।।
31. उपासोषसः। (6.3.31)
`आनङोऽपवादः' [नास्तीदं वाक्यं काशिकायाम्] इति एवमुत्तरावपि योगौ। उषासानक्तम्' इति। उषांश्च नक्तञ्चेति विग्रहः।।
32. मातरपितरावुदीचाम्। (6.3.32)
33. पितरामातरा च च्छन्दसि। (6.3.33)
34. स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु। (6.3.34)
अत्र त्रयः पक्षाः सम्भाव्यन्ते--`स्त्रियाः' इति स्त्रीशब्देन प्रत्ययग्रहणं वा, अर्थग्रहणं वा, शब्दग्रहणं वेति। तत्र यदि `स्त्रियाः' इति। स्त्रीप्रतययग्रहणं स्वर्यते, तदा स्वरितेनाधिकारावगतिः (1.3.11) भवतीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते, यथा--`गोस्त्रियोरुपसर्जनस्य' (1.2.48) इत्यत्र। अथ तु `स्त्री' इत्यनेन स्त्रीत्वविशिष्टं द्रव्यमभिधीयते, तदार्थग्रहणम्। यदि तु स्त्र्यर्थवाची शब्दः स्त्रीत्यनेनोच्यते, तदा शब्दग्रहणम्। तत्राद्यपक्षेऽयं सूत्रार्थः--भाषितपुंस्कात्परः स्त्रीप्रत्ययोऽनूङुत्तरपदे पुंपद्भवति, निवर्त्तत इति यावत्, तदा `स्त्रियाः' इति प्रथमार्थे षष्ठा। कथं पुनः पुंवदित्यनेन स्त्रीपरतययस्य निवृत्तिः शक्यते विज्ञातुम्? भवतीति वाक्यशेषाध्याहारात्। अत्र च पक्षे पट्वी भार्याऽस्येति पटुभार्यं इत्यत्र स्त्रीप्रत्ययनिवृत्तेरुत्तरपदनिमित्तायाः पूर्वस्मिन् यणादेशे विधातव्ये सति `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावे सति यणादेशः स्यात्। इह च--गार्ग्यो वृन्दारिका गर्गवृन्दारिका इत्यत्र `तद्राजस्य बहुषु तेनैवास्त्रियाम्' (2.4.62) इत्यनुवर्तमाने `यञञोश्च' (2.4.64) इति यञो लुग्न प्राप्नोति। पुंवद्भावेन हि स्त्रोप्रत्ययस्य निवृत्तिः क्रियते, न त्वर्थस्य स्त्रीत्वस्य; ततश्चार्थस्यानिवर्तितत्वात् केन पुनर्यञ्न श्रूयेत--इत्येवमादयः प्रत्ययपक्षे दोषा भाष्ये विस्तरेणोक्ताः। इह चातिग्रन्थविस्तरभयान्नोच्यन्ते।
अर्थपक्षे तूत्तरपदे परतो भाषितपुंस्कस्यानूङ्प्रत्ययान्तस्य स्त्रीशब्दस्य योर्थस्तस्य पुमर्थोतिदिश्यते। भाषितपुंस्कादिति पञ्चमी षष्ठ्यर्थे--स्त्र्यर्थः पुंवद्भवतीति। पुमर्थे चातिदिष्टे तद्वचनः शब्दः प्रवर्तते। अत्र पक्षे `खित्यनव्ययस्य' (6.3.66) इति ह्रस्वत्वस्यास्य च पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्। तथा हि--शब्दस्य ह्रस्वत्वम्, अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र `विप्रतिषेधे परं कार्यम्' (1.4.2) इति ह्रस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि--पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्। तथा हि--शब्दस्य ह्रस्वत्वम्, अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र `विप्रतिषेधे परं कार्यम्' (1.4.2) इति ह्रस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि--पुंवद्भावस्यावकाशो यत्र खिदन्तमुत्तरपदं नास्ति--दर्शनीयभायं इति, ह्रस्वस्यावकाशो यत्र पुंवद्भावो नास्ति--कालिम्मन्यः पुमानिति; कालिम्मन्या स्त्रीत्यत्रोभयं प्राप्नोति, तत्र परत्वात् ह्रस्वत्वं भवति। तदेवमाद्ययोः पक्षयोर्दोषवत्तां मन्यमानस्तृतीयपक्षमाश्रित्याह--`भाषितः पुमान् येन' इत्यादि। यो ह्यविशेषेण क्वचिद्भाषितपुंस्कः शब्दः स इहाश्रीयेत, तदा द्रोणीभार्य इत्यत्रापि पुंवद्भावः स्यादिति मनसि कृत्वाऽऽह--`समानायमाकृतौ' इत्यादि। `एकस्मिन् प्रवृत्तिनिमित्ते' इति। अनेन समानायामाकृतावित्यस्यार्थं विस्पष्टीकरोति। आक्रियते=गृह्यते, परिच्छिद्यते येनार्थस्तत् शब्दस्य प्रवृत्तिनिमित्तं जात्यादिकमिहाकृतिशब्देनोच्यते।
`भाषितपुंस्कात्' इत्येतावत्युक्ते `समानायामाकृतौ' इत्येष विशेषो न शक्यो लब्धुमित्यभिप्रायेणाह--`तदेतदेवम्' इत्यादि। तदिति वाक्योपन्यासे। एतस्य वचनस्यार्थरूपमेवम्प्रकारम्। कथं भवति? नैवं कथंचिदित्यर्थः। यदि भाषितपुस्कशब्दस्य बहुव्रिहेः शब्दोऽन्यपदार्थत्वेनाश्रीयेत--भाषितः पुमान् येन शब्देन स भाषितपुंस्कः शब्द इति, तदा समानायामाकृतावित्येष विशेषो न लभ्यते, सर्व एव हि शब्दः क्वचदाकृतौ पुमांसं भाषित्वाऽऽकृत्यन्तरे स्त्रियं भाषत इति कृत्वा। अर्थे त्वन्यपदार्थत्वेनाश्रीयमाणे लभ्यत एव इत्येष विशेष इत्यालोच्याह--`भाषितः पुमान् यस्मिन्नर्थे' इत्यादि। शब्दस्य यत् प्रवृत्तिनिमित्तं जात्यादिकं तदन्यपदार्थः। केन पुनः शब्देन तत्र भाषितः पुमान्? प्रत्यसत्तेर्यत् तस्य प्रवृत्तनिमित्तं तेनैवेति विज्ञायते; अन्यथा हि भाषितपुंस्कग्रहमनर्थकं स्यात्, व्यवच्छेद्याभावात्। सर्वत्रैवाभिधेये।र्थे येन केनचित् शब्देन पुमान् भाष्यते। अन्ततोऽर्थशब्देनापि तस्यार्थस्य भाषितपुंस्कस्य यः प्रातपदिकः शब्द सोऽप्यभिध्यधर्मस्याभिधान उपचरद्भाषितपुंस्क इत्युच्यते। स पुनः प्रत्यासत्तेर्यस्य योऽर्थः प्रवृत्तिनिमित्तं ततर येन पुमान् भाषत इति स एव वेदितव्यः। यश्च भाषितपुंस्कस्य प्रवृत्तिनिमित्तस्य वाचकः स नियोगत एकस्मिन् प्रवृत्तिनिमित्ते पुमांसं भाषित्वा स्त्रियं भाषते। यथा मूलोदाहरणेषु--दर्शनीयादयः शब्दा इति, समार्थ्याद्येन शब्देन समानायामाकृतौ पुमान् भाषित इत्येष विशेषो लभ्यते।
`अनूङ्' इति यद्ययं पर्युदासः स्यात्, ऊङोऽन्योऽनूङिति--ततो नञिवयुक्तन्यायेन (व्या.प.65) तत्सदृशानां टाबादीनां प्रत्ययानां ग्रहणे सति तदन्तस्यैव पुंवद्भावः स्यात्, ऐडविडवृन्दारिका, दारदवृन्दारिकेत्यत्र न स्यात्। इडविडोऽपत्यं स्त्रीति `जनपदशब्दात् क्षत्रियादञ्' (4.1.168) इत्यत्र्प्रत्ययः। दरदोऽपत्यमिति `द्व्यञ्मगध' (4.1.179) इत्यादिनाण् तयोः `अतश्च' (4.1.177) इति लुक्, तत इडविट् चासौ वृन्दारिका चेति, दरच्चासौ वृन्दारिका चेति `वृन्दारकनागकुञ्जरैः' (2.1.62) इति समासः, तत्रेदानीं `पुंवत्कर्मधारय' (6.3.42) इत्यादिना पुंवद्भावो न प्राप्नोति; ऊङ्सदृशप्रत्ययानतराभावात्, ततश्चेडविट्शब्दस्यैडविडशब्दो दरच्छब्दस्य दारदशब्दो न स्यात्। प्रसज्यप्रतिषेधे सति तु भवति; अत्राऽप्यूङभावस्य भावादित्यालोच्य प्रसजयप्रतिषेधोऽयमिति दर्शयन्नाह--ऊङोऽभावोऽनूङिति।
`भाषितपुंस्कादनूङ्' इति। यद्ययमसमासः स्यान्न बहुव्रीहिः, तदायमर्थः स्यात्--भाषितपुस्कादुत्तरस्याविद्यमानोङः स्त्र्यर्थवृत्तेः शब्दस्योत्तरपदे परतः पुंवद्भवतीति। एवञ्च सति यथाभूतार्थवाची स्त्रीशब्दस्तथाभूतार्थवाच्येव पुंशब्दस्यादेशो भवतीति सामर्थ्यादुक्तं भवति, ततश्चानिष्टप्रसङ्गः--अङ्गारका नाम शकुनयः तेषां कालिका नाम स्त्रियः, तत एताश्च कालिकावृन्दारिकाश्चेति समासे कृते सत्येतच्छब्दो भा,ितपुंस्क इति तस्मादुत्तरस्य कालिकाशब्दस्यानूङोऽर्थतोऽन्तरतमोऽङ्गरकशब्दः पुंशब्दादेशः प्रसज्येत; अन्यस्यान्तरतमस्याभावात्। ततश्चैतदङ्गारकवृन्दारिका इति हि स्यात्, एतत्कालिकावृन्दारिका इतीष्यते। बहुव्रीहौ तु सत्यनिष्टप्रसङ्गो न भवति, तत्र हि भाषितपुंस्कस्य शब्दस्यानूङः पूंवद्भावेन भवितव्यम्, न च कालिकाशब्दो भाषितपुंस्कः--इत्येतत्सर्वमालोच्य बहुव्रीहिरयमिति दर्शयन्नाह--`भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे' इति। `यदि बहुव्रीहिरयम्' [`यदि--नास्ति काशिकायाम्] इति। एवं सति `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति पञ्चम्या लुक् प्राप्नोति? अत आह--`अलुग्निपातनात्' इत्यादि। ननु चालौकिकत्वादस्य वाक्यस्य निपातनादित्ययमपरीहारः, निपातनं हि लौकिकं भवति, तर्ह्येवं लुकाप्यत्र न भाव्यम्? अथ लुग्भविष्यतीत्येवावसीयतेऽलुगपि भवतीत्यवसीयताम्।
`दर्शनीयभार्यः' इति। दर्शनीया भार्याऽस्येति बहुव्रीहिः। `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वत्वमुत्तरपदस्य। दर्शनीयत्वं नामात्र सामान्ये विशेषो दर्शनीयशब्दस्य प्रवृत्तिनिमित्तम्। तमेकमेवार्थमुपादायासी पुंसि स्त्रियां च वर्त्तते--दर्शनीयो देवदत्तः; दर्शनीया भार्येति। तस्मात् समानायामाकृतौ दर्शनीयशब्दो भाषितपुंस्को भवति; स्त्रियाञ्च वर्त्तते, न चास्मादूङ्। अतो भार्याशब्दे स्त्रीलिङ्ग उत्तरपदेऽस्य स्त्रीशब्दस्य `पुंशब्दस्येव रूपं भवति। [`पुंशब्दस्यैव'--मुद्रितः पाठः] एवं `श्लक्ष्णचूडः' इत्यादावपि योजनीयम्।
`ग्रामणिदृष्टिः' इति। अत्र सर्वमस्ति, न तु ग्रामणीशब्दः स्त्रियां वर्तते, किं तर्हि? नपुंसक इति न भवति पुंवद्भावः। `द्रोणीभार्यः' इति। द्रोणशब्देन भाषितः पुमान्, न तु समाने प्रवृत्तिनिमित्त। यस्मात् परिमाणविशेषं प्रवृत्तिनिमित्तमुपादाय पुंसि परिमाणिनि वर्तते। जातिविशेषं तूपादाय स्त्रियां गवादन्यां वर्तते। यत्र गावोऽदन्ति सा गवादनी द्रोणीशब्देनोच्यते। तस्मान्न द्रोणशब्दः समानायामाकृतौ भाषितपुंस्कः।
`कथम्' इत्यादि। यदि समानायामाकृतौ यो भाषितपुंस्कस्तस्य पुंवद्भाव उच्यते, एवं च `गर्भिभार्यः' इत्यादौ पुंवद्भावो न प्राप्नोति। गर्भप्रभृतीनां शब्दानां भिन्नायामाकृतौ भाषितपुंस्कत्वादित्यभिप्रायः। अनवयवभूतान्तर्वर्तिवस्तुविशेषसम्बन्धे हि सति स्त्री गर्भिणीत्युच्यते। व्रीहिस्त्वन्तर्वर्त्त्यवयवस्तुविशेषसम्बन्धे सति गर्भीत्युच्यते। तस्मात् पुंसि स्त्रियां च वर्तमानस्य गर्भिशब्दस्य प्रवृत्तिनिमित्तं भिद्यते। प्रसूतप्रजातशब्दयोरपि प्रवृत्तिनिमित्तं क्रियकृतिर्भिन्ना। स्त्रियां हि वर्तमानौ तौ गर्भविमोक्षणं प्रवृत्तिनिमित्तमुपादय वर्त्तते, पुंसि तु गर्भाधानम्। `कर्त्तव्योऽत्र प्रयत्नः' इति। केचिद्व्याचक्षते--उपसंख्यानं कर्तव्यमिति। अपरे पुनराहुः--स्त्रिया पुंवदिति योगविभागः कर्तव्यः। अथ वा--`कर्तव्योऽत्र यत्नः' इत्यनेनेदं दर्शयति--यद्यपि स्त्रियां व्रीहौ च गर्भत्वभेदः, तथापि स नाश्रयितव्यः। यत्तु तत्रावयवानवयवभेदमुत्सृज्य सामान्येनान्तर्वर्त्तिवस्तुविशेषसम्बन्धमात्रम्, तदेवाश्रयितव्यम्। अतस्तदपेक्षया स्त्रियां व्रीहौ च वर्तमानस्य गर्भिशब्दसय तुल्यमेव प्रवृत्तिनिमित्तमिति। एवं प्रसूतप्रजातशब्दयोरप्यपत्याधानविमोक्षणभेदं त्यक्त्वाऽयमपत्यवानियमपत्यवतीत्यपत्यवत्सम्बन्धमात्रमाक्षितमित्येतद्व्याख्यानमिीति प्रत्यन्तः कर्त्तव्य इति।
`ब्रह्मबन्धूभार्यः' इति। ब्रह्मबन्धूशब्दात् `ऊङुतः' (4.1.66) इत्यूङ्। `कल्याणीपञ्चमाः' इति। `अप् पूरणीप्रमाण्योः' (5.4.116) इत्यप्समासान्तः, पञ्चानां पूरणीति डट्, तस्य `नान्तादसंख्यादेर्मट्' (5.2.49), ततः `टिड्ढाणञ्' (4.1.15) इति ङीपि कृते पञ्चमी भवति। `प्रधानपूरणीग्रहणं कर्त्तव्यम्' इति। प्रधानं पूरणी गृह्यते येन व्याख्यानेन तद्व्याख्यानं प्रधानपूरणीग्रहणम्, तत् कर्त्तव्यम्--प्रधानं या पूरणी तस्यां प्रतिषेधो यथा स्यात्, अप्रधानभूतायां तस्यां मा भूदिति। तत्रेदं व्याख्यानम्--इह `द्वन्द्वे धि' (2.2.32) इति प्रियादिशब्दस्य पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नेन सूचितं व्यभिचार्ययं प्रतिषेधः क्वचिदेव वर्त्तते, न सर्वत्रेति। तेन यत्रैव प्रधानभूता पूरणी तत्रैव भवति, नान्यत्रेति। तेन यत्रासौ भवति तत्र तस्या एव प्रधानभूताया पूरण्या ग्रहणं युक्तम्। क्व पूरण्याः प्राधान्यम्? यत्र तस्याः समासेऽभिधेयत्वेनान्तर्भावः, यथानन्तरोक्तप्रत्युदाहरणे। तत्र ह्यवयवेन विग्रहः। समुदायस्त्ववयवभेदादभिन्नः, समासार्थ एव। `तत्र' इति। यथैवं प्रथमा, द्वितीया, तृतीया, चतुर्थी चाभिधीयते, तथा पञ्चम्यपि। `कल्याणपञ्चमीकः पक्षः' इति। अत्र तु तिरोहितावयवभेदः पक्ष एवान्यपाद्रथः प्रधानम्, पञ्चमी तु रात्रिः। अस्मिन् पक्षेऽन्यपदार्थोऽनुमेयैव, न त्वभिधेया। यथा वृक्षशब्दे मूलादयः, ततस्तद्वदर्थमप्यनभिधेयत्वादर्थोऽप्रधानम्। अथाप् समासान्तः कस्मान्न भवति? इत्याह--`अप्पूरणीप्रमाण्यो' इत्यादि।
अथ दृढभक्तिः, शोभनभक्तिरित्यादौ कथं पुंवद्भावः यावता प्रियादित्वात् प्रतिषेधेन भवितव्यम्? इत्याह--`दृढभक्तिरित्येवमादिषु' इत्यादि। अस्त्रीवाचिनः पूर्वपदस्य विवक्षितत्वाद्दृढभक्तिरित्येवमादि लक्ष्यं सिद्धमित्येवं समाधेयम्। द्वेष्यं परिहर्त्तव्यमित्यर्थः। दृढशब्दोऽत्रादार्ढ्यनिवृत्तिपरः प्रयुक्तः। अत्रादार्ढ्यनिवृत्तिपरायां चोदनायां लिङ्गविशेषोपादानमनुपकारकमेवेति। अतः स्त्रीत्वमिह न विवक्षितम्। तस्मादस्त्रीलिङ्गस्य दृढशब्दस्यायं प्रयोग इत्यभिप्रायः।।
35. तसिलादष्वाकृत्वसुचः। (6.3.35)
अनुत्तरपदार्थोऽयमारम्भः। `ततः' इति। `पञ्चम्यास्तसिल्' (5.3.7)। तस्य `प्राग्दिशो विभक्तिः' (5.3.1) इति विभक्तिसंज्ञकत्वात् त्यदाद्यत्वम् टाप्, अनेन पुंवद्भावः। `तत्र' इति। `सप्तम्यास्त्रल्' (5.3.10)। शेषं पूर्ववत्।
`तसिलादिषु' इत्यादि। `तसिलादिष्वाकृत्वसुचः' इत्युच्यमाने तसिलादिष्वनन्तर्भूतेष्वपि क्वचित् पुंवद्भाव इष्यते, स न प्राप्नोति। तत्रान्तर्भूतेऽपि क्वचिन्नेष्यते, एवं सत्यनिष्टमपि प्राप्नोति। तस्मात् परिगणनं कर्त्तव्यम्। तत्र ततसोरुदाहरणमुक्तम्। शेषाणां तूच्यते--इयं षट्वी, इयं पट्वी इयमनयोरतिशयेन पट्वी--`द्विवचन' (5.3.57) इत्यादिना तरप्--पटुतरा। इयमासमतिशयेन पट्वी--`अतिशायने' (5.3.55) इत्याना तमप्--पटुतमा। पट्वी भूतपूर्वा--`भूतपूर्वे चरट्' (5.3.53) ङीप्, पटुचरी। पट्वीप्रकारा--प्रकारवचने जातीपर् (5.3.69)--पटुजातीया। ईषदसमाप्ता पट्वी--`ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' (5.3.67) पटुकल्पा पटुदेश्या, पटुदेशीया। प्रशस्ता पट्वी--`पशंसायां रूपप्' (5.3.66)--पटुरूपा। याप्या पट्वी--`याप्ये पाशप्' (5.3.47)--पटुपाशा। अजायै हिता--`अजाविम्यां थ्यन्' (5.1.8) अजथ्या। थ्यंस्तसिलादिभ्यः पूर्वं पठ्यते। सर्वप्रकरैः सर्वथा, `प्रकारवचने थाल्' (5.3.23)। तस्यां रात्रौ तदा--`सर्वैकान्यकिंयत्तदः काले दा' (5.3.15)। अस्यां रात्रौ एतहिं--`इदमोर्हिल्' (5.3.16)। तत्रेदमः `एतेतौ रथोः' (5.3.4) इत्येतादेशः, प्रशस्ता वृकी वृकतिः। प्रशस्ता ज्येष्ठा ज्येष्ठतातिः--`वृकज्येष्ठाभ्यांतिल्तातिलौ च च्छन्दसि' (5.4.41) इति तिल्लातिलौ। एतौ च कृत्वासुचः परो पठ्येति।
तसिलादिषु परिगणनं कर्त्तव्यमिति भाव्यकारस्य मतमेतत्, न तु सूत्रकारस्य। न चासति परिगणने किञ्चिदनिष्टमापद्यते। येषु हि तसिलादिष्वनन्तर्भूतेषु पुंवद्भाव इष्यते, तेषूततरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। येषु तसिलादिष्वन्तर्भूतेषु नेष्यते, तत्र `न कोपधायाः' (6.3.37) इति नेति योगविभागन्न भविष्यतीति।
दोषः खल्वपि परिगणने--दरच्छब्दात् कप्रत्यये दारदिकेत्यत्र पुंवद्भावो न प्राप्नोति; कप्रत्ययस्यापरिगणितत्वात्।
`शसि बह्वल्पार्थस्य' इति। शसि प्रत्यये परतः बह्वर्थस्याल्पार्थस्य च पुंवद्भावो वक्तव्यः, व्यख्येय इत्यर्थः। व्याख्यानं तु तस्यैव चकारस्यानुक्तसमुच्चयार्थत्वामाश्रित्य कर्त्तव्यम्।
`भस्याढे तद्धिते' इत्यादि। `हास्तिकम्' इति। `अचित्तहस्तिधेनोष्ठक्' (4.2.47) इति ठक्। यद्यत्र पुंवद्भावो न स्यात् तद यस्ये (6.4.148) तीकारलोपे कृते तस्य `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावात `नस्तद्धिते' (6.4.144) इति टिलोपो न स्यात् पुंवद्भावे तु सति हस्तिशब्द एवायं भवति। ननु च ठक्छसो (वा.732) रित्यनेनैवात्र सिध्यति पुंवद्भावः? न सिध्यति; न सिध्यति; छसा साहचर्यात् `भवतष्ठक्छसोः' (4.2.115) [`भवतष्ठक्छसौ'--इति सूत्रम्] इत्यनैव विहितस्य तत्र ठको ग्रहणात्, न सर्वस्य।
`कथम्' इत्यादि। यदि च ढे परतः पुंवद्भावस्य प्रतिषेधः क्रियते, तदाग्नायी देवतास्येति `अग्नेर्ढक्' (4.2.33) इति ढकि कृत आग्नायेय इति भवितव्यम्, तत्कथमाग्नेय इति भवतीत्यभिप्रायः। अग्नेः स्त्रीत्यस्यां विवक्षायां `वृषाकप्यग्निकुसितकुसीदानामुदात्तः' (4.1.37) इत्यनेनाग्निशब्दान्ङीपि कृत ऐकारे चान्तादेशेऽग्नायीति भवति। `कर्त्तव्योऽत्र यत्नः' इति। यत्नः केन पुनः कर्त्तव्यः? यः `भस्याढे तद्धिते' (वा.731) इत्युपसंख्यानमिच्छति। न तु यश्चकारमनुक्तसमुच्चयार्थमुत्तरसूत्रे करोति। स ह्येवमाह--यत्रैवेष्यते तत्रैव चकारः पुवद्भावं समुचचिनोति, नान्यत्रेति। कः पुनरसौ यत्न इति? कश्चिदाह--`अपत्यग्रहणं ढस्य विशेषणं कर्त्तव्यम्--योऽपत्येऽढे' इति। तेनायमर्थो भवति--ढस्य तद्धेते पुंवद्भावो भवत्यपत्यार्थप्रत्ययं वर्जयित्वा। न चाग्नेयः, स्थालोपाक इत्यपत्यार्थे ढप्रत्ययः, किन्तु सास्य देवतेत्यर्थे, अतोऽत्र भवत्येव पुंवद्भाव इति।
अन्यस्त्वाह--`भस्याढे तद्धिते' (वा.731) इति व्यधिकरणे सप्तम्यौ। यश्चात्र नञ् सोऽल्पार्थे वर्त्तते, यथा अल्पलवणा यवागूरलवणेत्युच्यते। तत्रायमर्थो भवति--भस्य तद्धिते पुंवद्भावो वक्तव्योऽल्ये ढप्रात्यय इति। तेनाग्नेयः, स्थालीपाक इत्यत्र पुंवद्भावो भवति। श्यैनेय, रोहिणेय इत्यत्र तु न भवतीति।
`ठक्छसोश्च' इत्यादि। अथ ठग्ग्रहणं किमर्थम्, यावता ठस्येकादेशे कृते `भस्याढे तद्धिते' (वा.731) इत्यनेनैव सिद्धः। ठावस्थायामेव यथा स्यादित्येवमर्थम्। किमेवं सति भवति? `इसुसुक्तान्तात् कः (7.3.51) इति कः सिद्धो भवति; अन्यथा हि यदीकादेशे कृते पुंवद्भावः स्यात् ततो यथा माथितिक इत्यत्रेकादेशो न भवति, तथा भावत्का इत्यत्रापि न स्यात्। `भावत्काः, भवदीयाः' इति। `भवतष्ठक्छसौ' (4.2.115) इति ठक्छसौ।।
36. क्यङ्मानिनोश्च। (6.3.36)
`एतायते, श्येतायते' इति। एतश्येतशब्दाभ्यां `वर्णादनुदात्तात् तोपधात् तो नः' (4.1.39) [`एतश्वेतशब्दाभ्याम्'--मुद्रितः पाठः] इत्यनेन ङीप्, तकारस्य नकारः। एनीवाचरति, श्येनीवाचरति--`कर्त्तुः क्यङ् सलोपश्च' (3.1.11) इति क्यङ्, `अकृत्सार्वधातुकयोः(7.4.25) इति दीर्घत्वम्। `अयमस्यां दर्शनीयमानी' [`दर्शनीयमानी अयमस्याः'--काशिका] इति। दर्शनीयामिमां मन्यतेऽयमिति। `मनः' (3.2.82) इति णिनिः। `दर्शनीयमाननीयमस्याः' इति। दर्शनीयामिमां मन्यत इति पूर्ववण्णिनिः `ऋन्नेभ्यो ङीप्। (4.1.5) इति ङीप्।
किं पुनः कारणं स्त्रियां समानाधिकरण इत्यनुवर्त्तमानेऽस्त्रियामसमानाधिकरणे च मानिन्युत्तरपदे पुंवद्भाव उदाह्रियत इत्याह--`मानिनो ग्रहणम्' इत्यादि। कथमेतज्ज्ञायते? इत्याह--`इह तु' इत्यादि। यद्युत्तरपदं स्त्रियां वर्तते समानाधिकरणं च भवति--दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीत्येवमादौ। तत्र यस्मात् `स्त्रियां पुंवत्' (6.3.34) इत्यनेनैव सिद्धम्, अतो मानिनो गरहणमस्त्र्यर्थम्। असमानाधिकरणाच्चेत्येतदवसीयते; अन्यथा हि तदनर्थकं स्यात्।।
37. न कोपधायाः। (6.3.37)
पुर्वेण प्रकारेण प्राप्तस्य पुंवद्भावस्यायं प्रतिषेधः। `पाचिकाभार्यः, कारिकाभार्यः' इति। पाचककारक शब्दभ्यां ण्वुलन्ताभ्यां टाप्। `प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः' (7.3.44) इतीत्त्वम्। अत्र `स्त्रियाः पुंवत्' (6.3.34) इत्यादिना प्राप्तिः। `मद्रिकाभार्यः वृजिकाभार्यः' इति। मद्रेषु भवा, वृजिषु भवेति `मद्रवृज्योः कन् (4.2.131) इति कन्। अत्रापि `स्त्रियाः पुंवत् (6.3.34) इत्यादिना प्राप्तिः। `मद्रिकाकल्पा; वृजिकाकल्पा' इति। अत्र `तसिलादिष्वाकृत्वसुचः' (6.3.35) इत्यनेन प्राप्तिः। `मद्रिकायते' इत्यादौ `क्यङ्मानिनोश्च' (6.3.36) इति प्राप्तिः। `विलेपिकाया धर्म्यम्' इति। `लिप उपदेहे' (धा.पा.1433) इत्यस्माण्ण्वुल्। `वैलेपिकम्' इति। `अण् महिष्यदिभ्यः' (4.4.48) इत्यण्। अत्र `भस्याढे तद्धिते' (वा.731) इति वा प्राप्तिः।
`कोपधप्रतिषेधे' इत्यादि। अस्मिन् कोपधप्रतिषेधे तद्धितवुग्रहणं कर्त्तव्यम्। तद्धितसम्बन्धी वुसम्बन्धी ककार उपधा यस्य तत्रैव प्रतिषेधो यथा स्यात्। इह मा भूत्--`पाकभार्यः' इति। पाकशब्दोऽयं `अर्भकपृथुकपाका वयसि' (द.उ.3.50) इत्यनेन कन्प्रत्ययान्तो निपातितः। अत्रासति वुग्रहण इहापि प्रतिषेधः स्यात्।
यदि तद्धितवुग्रहणं क्रियते, तर्हि `पूर्वत्रासिद्धम्' (8.2.1) इत्यत्र यद्वक्ष्यति--"शुष्कजङ्घ" इत्यत्र--`शुषः कः' (8.2.51) इत्यस्यासिद्धत्वात् `न कोपधयाः' (6.3.37) इति प्रतिषेधो न प्राप्नोतीत्यसिद्धाधिकारस्य प्रयोजनम्' इति तन्नोपपद्यते, असत्यपि `शुषः कः' इत्यस्यासिद्धत्वेनैवात्र `न कोपधायाः' (6.3.37) इति प्रतिषेधेन भवितव्यम्, न ह्यत्र तद्धितसम्बन्धो ककारः नापि वुसम्बन्धी? दर्शनभेदमाश्रित्य तथाऽभिधानाददोषः। इदं हि वार्तिककारमतमाश्रित्योक्तम्। तत् पुनः श्लोकवार्तिककारस्य सूत्रकारमतानुसारिणो दर्शनमाश्रित्य वक्ष्यति।।
38. संज्ञापूरण्योश्च। (6.3.38)
कथं पुनः संज्ञाशब्दस्य पुंवद्भवस्य प्राप्तिः, यावता भाषितपुंस्कस्य पुंवद्भाव उक्तः, न च यः संज्ञाशब्दः स्त्रियां वर्तते स भाषितपुंस्को भवति, एकद्रव्यनिवेशित्वात् संज्ञाशब्दानाम्? नैतदस्ति; न ह्ययं नियोग एकद्रव्यनिवेशित्वात संज्ञाशब्दानाम्? नैतदस्ति; न ह्यं नियोग एकद्रव्यनिवेशिभिरेव संज्ञाशब्दैर्भवितव्यमिति। तथा हि--देवदत्तादिशब्दोऽनेकद्रव्यदानक्रियादिसम्बन्दान्नैकवस्तुसंज्ञाभूत एव लरोके प्रयुज्यमान उपलभ्यते, शास्त्रेष्वपि स्वादिशब्दः। या त्वेकद्रव्यनिवेशिनी संज्ञा तां प्रति नैवायं प्रतिषेधः क्रियत इत्यसारं चोद्यम्। ननु भवन्तु संज्ञाशब्दा अनेकार्थवृत्तयः भाषितपुंस्कास्त्वेकस्यामाकृतौ, कथं तर्हि तेषां किञ्चित् प्रवृत्तिनिमित्तमस्ति, यदृच्छाशब्दत्वात्? एतदप्यसारम्; यतस्तेषामपि केषांचित् किञ्चित् प्रवृत्तिनिमित्तमस्त्येव, सप्तपर्णादिशब्दवत्। यत्राप्येतन्नास्ति, तत्रापि स्वरूपमेव प्रवृत्तिनिमित्तमुपादायाभिधेये वर्त्तन्ते। तत्राभिन्ने प्रवृत्तिनिमित्ते यैर्भाषितः पुमान् ते भाषितपुंस्का इति किमत्रानुपपन्नम्? `दत्ताभ्र्यः' इति। अत्र यासौ दानक्रियाकृतिस्तस्यामेव दत्ताशब्दो भाषितपुंस्कः। `गुप्ताभार्यः' इति। अत्रापि गुप्ताशब्दो गोपनक्रियाकृतौ स्वरूपे वा प्रवृत्तिनिमित्ते। उभावपि भाषितपुंस्कशब्दौ `दत्तायते गुप्तायते' इति। कथमेते प्रतिषेधस्योदाहरणे उपन्यस्ते, यावता सत्यपि पुंवद्भावे `अकृत्सार्वधातुकयोदीर्घः' (7.4.25) इति दीर्घत्वेनोभयमप्येतत् सिद्धम्? एवं मन्यते `संज्ञापूर्वो विधिरनित्यः' (व्य.प.64) इति, तत्र यदि पुंवद्भावप्रतिषेधो न स्यात्, तदा दीर्घत्वाभावोऽनुमीयते। तस्मिन् पक्षे दत्तयते गुप्तयत इत्यपि स्यादिति। `न कोपधासंज्ञापूरणीनाम्' इत्येकस्मिन्नेव योगे कत्तव्ये योगविभागः `न कोपधायाः' (6.3.37) इत्यस्य प्रतिषेधस्यानित्यत्वज्ञापनार्थः कृतः। तेन यदुक्तम्--`कोपधप्रतिषेधे तद्धितवुग्रहणं कर्त्तव्यम् (वा.733) इति, तन्न कर्त्तव्यं भवति।।
39. वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे। (6.3.39)
वृद्धिनिमित्तं ञणकाः। `स्रौध्नीभार्यः' इति। स्रुध्ने भवा, `तत्र भवः' (4.3.53) इत्यण्। `टिड्ढाणञ्' (4.1.15) इति ङीप्। एवं `माथुरीभार्यः' इत्यत्रापि।
`मध्यमभार्यः' इति। मध्ये भवा, `मध्यान्मः' (4.3.8) इति मप्रत्ययः। `काण्डलावभार्यः' इति। काण्डं लुनातीति `कर्मण्यण्' (3.2.1) पूर्ववन्ङीप्। `तावद्भार्यः' इति। तावच्छब्दात् तत्परिमाणमस्या इति `यत्तदेतेभ्यः परिमाणे वतुप्' (5.2.39) `आ सर्वनाम्नः' (6.3.91) इति दकारम्याकारः, `उगितश्च' (4.1.6) इति ङीप्। तावती भार्याऽस्य तावद्भार्यः, यदि वृद्धिनिमित्तस्येति तत्पुरुषो गृह्येत तदात्रापि प्रतिषेधः स्यात्, भवति हि वतुब् वृद्धेराकारास्य निमित्तम्। बहुव्रीहिपरिग्रहे तु न दोषः; न हि वतुपि ञकारादिकं वृद्धेर्निमित्तमस्ति। `काषायी' इति। `तेन रक्तम्' (4.2.1) इत्यण्। `लौही' इति। `प्राणिरजतादिभ्योऽञ्' (4.3.154) इत्यञ्, पूर्ववन् ङीप्। `खादिरेषः' इति। `पलाशादिभ्यो वा' (4.3.141) इत्यञणोरन्यतरः। खादिरी ईषा यस्य स खादिरेषः।।
40. स्वङ्गाच्चेतोऽमानिनि। (6.3.40)
`दीर्घकेशी' इति। `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (4.1.54) इति ङीष्। `षट्वी' इति। पटुशब्दात् `वोतो गुणवचनात्' (4.1.44) इति ङीष्।
`अकेशभार्यः' इति। अविद्यमानाः केशा अस्या अकेशा `सहनञ्विद्यमानपूर्वाच्च' (4.1.57) इति ङीपि प्रतिषिद्धे टावेव भवति।।
41. जातेश्च। (6.3.41)
`कठीभार्यः' इति। कठशब्दात् `जातेरस्त्रीविषयादयोपधात् (4.1.63) इति ङीष्। जातित्वं त्वस्य `गोत्रञ्च चरणैः सह' (4.1.63; मा. भा.2.225) इति लक्षणेन।
`अयम्' इत्यादि। `भस्याढे तद्धिते' (वा.731) इत्यौपसंख्यानिको यः पुंवद्भावस्तस्यायं प्रतिषेधो नेष्यते। यस्मादस्य प्रतिषेधस्य बाधनार्थमुत्तरसूत्रे पुंवदिति योगविभागः कर्त्तव्य इत्यभिप्रायः।।
42. पुंवत्कर्मधारयजातीयदेशीयेषु। (6.3.42)
ननु च कर्मधारये `स्त्रियाः पुंवत्' (6.3.34) इत्यादिना पुंवद्भावः सिद्धः, जातीयदेशीयशब्दयोरपि `तसिलादिष्वाकृत्वसुचः' (6.3.35) इत्यादिना, तत् किमर्थोऽयमारंभः? इत्यत आह--`प्रतिषेधार्योऽयमारमभः' इति। परतिषेधविषयः प्रतिषेधशब्देनोक्तः। साहचर्यात् प्रतिषेधोऽर्थः प्रयोजनं यस्येति स तथोक्तः। यत्र विषये प्रतिषेध उक्तस्तत्र पुंवद्भावः प्रयोजनमित्यर्थः। अथ वा--अर्थशब्दो निवृत्ताविह--वर्त्तते, यथा--मशकार्थो धूम इति। तेनायमर्थो भवति--प्रतिषेधनिवृत्यर्थोऽयमारम्भ इति।
`भाषितपुंस्कादित्येव' इति। यदि `भाषितपुंस्कादनूङ्' (6.3.34) इति च नानुवर्त्तते, तदाऽभाषितपुंस्कार्थमनूङर्थञ्चेदं वचनं स्यात्, न प्रतिषेधार्थम्। एवं च खट्वावृन्दारिका, ब्रह्मबन्धूवृन्दारिकेत्यात्रापि पुंवद्भावः स्यात्। तस्माद्भाषितपुंस्कादनूङित्यनुवर्त्तनीयम्।
`कुक्कुट्यादीनाम्' इत्यादि। उत्तरपदस्यान्तादेरस्त्रीत्वादसामानाधिकरण्याच्च पुंवद्भावो न प्राप्नोतीत्युपसंख्यायते। `न वा' इत्यनेनोपसंख्यानं प्रत्याचष्टे-- न वा वक्तव्यः, कस्मात्? अस्त्रीपूर्वपदस्य विवक्षितत्वात्। अस्त्रीलिङ्गस्य पूर्वपदस्य विवक्षितत्वादित्यभिप्रायः। अस्यैवार्थं विस्पष्टीकर्त्तुमाह--`स्त्रीत्वेन विना' इत्यादि। अत्र हि मयूरादिजात्यन्तरस्या निवृत्तिर्विवक्षिता। जात्यन्तरनिवृत्तिपरायां देशनायां लिङ्गविशेषोपादानमनुपकारकमेव। विनापि तेन जात्यन्तरनिवृत्तिः शक्यत एव कर्त्तम्। तथा हि--मृगमांसमित्युक्ते अन्तरेणापि लिङ्गविशेषोपादानं जात्यन्तरसय व्यवच्छेद उपपद्यते--मृगजातिसम्बन्धि मांसम्, नान्यजातिसम्बन्धीति। तस्मात् स्त्रीत्वमत्रानुपकारित्वान्न विवक्षितम्, अतः स्त्रीत्वेन विना पूर्वपदस्यार्थोऽत्रि कुक्कुटाण्डादौ जातिसामान्येन स्त्रीत्वदविशेषविहितो विवक्षित इत्यर्थः। ततश्चास्त्रीलिङ्गा एवात्र कुक्कुटादयः शब्दा अण्डादिभिः शब्दं समस्यन्त इति भावः. कः पुनरसौ पूर्वपदार्थः? कुक्कुटादिजात्या व्यवछिन्नं द्रव्यमात्रम्।
`पुंवद्भावात्' इत्यादि। अत्र खिति पुंवद्भावाद्घ्रस्वत्वं विप्रतिषेधेन भवतीति पूर्वमेव व्याख्यातम्। घादिषु तु व्याख्यायते। घादिषु ङ्यो ह्रस्वो भवतीत्यस्यावकाशः--नर्त्तकितरा, नर्त्तकितमा, नर्त्तकिरूपा, नर्त्तकिकल्पेति; पुंवद्भावस्यावकाशः--दर्शनीयतरा, दर्शनीयतमां, दर्शनीयरूपा, दर्शनीयकल्पेति; इहोभयं प्राप्नोति---पट्वितरा, पट्वितमा; पट्विरूपा, पट्विकल्पेति; विप्रतिषेधेन ह्रस्वत्वं भवति। `केऽणः' (7.4.13) इति ह्रस्वस्यावकाशः--नर्तकिकेति; अज्ञातादावर्थे `प्रागिवात् कः' (5.3.70) पूर्वद्भावस्यावकाशः--दारदिकेति। दरच्छब्दस्यात्र के परतः `तसलादिष्वाकृत्वासुचः' (6.3.35) इति पुंवद्भावेन दारदशब्दो भवति। अतष्टापि कृते `प्रत्ययस्थात् कात्' (7.3.44) इत्यादिनेत्त्वमिहोभयं प्राप्नोति। `पट्विका' इति। अत्र विप्रतिषेधेन ह्रस्वत्वं भविष्यति। केन पुनः पुंवद्भावः, यावता तसिलादिषु परिगणनं कृतम्, न च ततर कप्रत्ययः परिगणितः? एतत् भाष्यकारः प्रष्टव्यो यः परिगणनं करोति, न तु सूत्रकारः।
पूर्व यस्य सिद्धयेऽनूङिति प्रसज्यप्रतिषेध आश्रितस्तद्दर्शनार्थमाह--`इह' इत्यादि। `तत्र तद्राजप्रत्ययस्य' इत्यादि। तत्रेडविट्, पृथु इत्येताभ्यां `जनपदशब्दात् क्षत्रियादञ्' (4.1.168) इति विहितस्याञस्तद्राजप्रत्ययस्य `अतश्च' (4.1.177) इति लुक्। दरद् उशिजित्येताभ्यां तु `द्व्यञ्मगध' (4.1.170) इत्यादिना विहितस्याणः। इडविट् चासौ वृन्दारिका चेति विगृह्य समास इति। `विशेषण' इत्यादिना, `अत्रैडविडादयः' [नास्ति--काशिका] इति आदिशब्देन दारदः, पारथः, औशिज इत्येते गृह्यन्ते।।
43. घरूपकल्पचेलङ्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्वस्वः। (6.3.43)
चेलडब्रुवगोत्रशब्दानां कुत्सार्थत्वात् `कुत्सितानि कुत्सनैः (2.1.53) इति समासः। मतहतशब्दाभ्यां तु `विशेषणं बहुलम्' (2.1.57) इत्यनेन। चेलडिति पचादौ पठ्यते, टकारो ङीबर्थः। यदि `ब्रुवः' इति पचाद्यजन्तमेतत् एवं सति `ब्रुवो वचिः' (2.4.53) इति वच्यादेशो गुणश्च प्राप्नोति, स कस्मान्न भवतीति? यश्चोदयेतत्, तं प्रत्याह--`वच्यादेशो गुणश्च निपातनान्न भवति' इति।
`आमकलकीतरा, कुवलीतरा' इति। आमलककुवलशब्दौ वृक्षे नित्यं स्त्रीलिङ्गै। फले तु नपुंसकलिंगावित्युभावप्यभाषितपुंस्कौ, ताभ्यां गौरादित्वान्ङीष्।।
44. नद्याः शेषस्यान्यतरस्याम्। (6.3.44)
`भाषितपुंस्कादनूङ्' (6.3.34) इति निवृत्तम्। `कश्च शेषः' इति। यदि पूर्वसूत्रेण यस्य ह्रस्वो न विहितः स शेषः, ततो यद्भाषितपुंस्कं यच्च भिन्नायामाकृतौ भाषितपुंस्कं नैचाच् तस्यापि शेषत्वं स्यात्, ततश्चामलकीतरा, द्रोणीतरेत्यत्रापि विकल्पेन ह्रस्वत्वपं स्यात्। न ह्यत्र ह्रस्वत्वं पूर्वसूत्रेण विहितमित्यभिप्रायेणाऽऽह--`अङी च या नदी ङ्यन्तश्च यदेकाच्' इति। एतेन श्रुतापेश्रयाऽत्र शेषत्वामाश्रीयते, न तु यस्य ह्रस्वो न विहितः, तदपेक्षयेति दर्शयति। कथं पुनरेतल्लभ्यते? शेषग्रहणात्। अन्तरेणापि शेषग्रहणं शेषस्यैव विकल्पेन ह्रस्वत्वं भविष्यति। तथा हि यदि ङ्योऽनेकाचो भाषितपुंस्कस्यापि विभाषा ह्रस्वः स्यात्, तदा पूर्वयोग एवेदमन्यतरस्यांग्रहणं कुर्यात्। इह कारणाद्यस्य पूर्वेण ह्रस्वो न विहितस्तस्यैव पाक्षिकं ह्रस्वत्वमन्तरेणापि शेषग्रहणं शेषस्यैव भविष्यतीत्यवसीयत इति किं शेषग्रहणेन? तत् क्रियते `ङ्योऽनेकाचः' (6.3.43) इति पूर्वसूत्रे योऽच् श्रूयते तदपेक्षया शेषो विज्ञायत इत्येवमर्थम्। न चमलकीतरा, द्रीणीतरेत्यत्र श्रुतापेक्षया शेषत्वमुपपद्यते; ङ्योऽनेकाच्त्वात्। तस्मान्न भवत्यत्र ह्रस्वत्वप्रसङ्गः। `स्त्रीतरा' इति। स्त्यायतेर्डट् डित्वाट्टिलोपः, वलिलोपश्च (6.1.66), टित्वान् ङीप्।
वक्तवयः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषाविज्ञानात् कृन्नद्या न भविष्यतीति। `लक्ष्मीतरा' इति। `अवितॄस्तॄतन्त्रिभ्य ईः' (द.उ.1.82) `र्लक्षेर्मुट् च', (द.उ.1.84) इतीकारप्रतययान्तो लक्ष्मीशब्दो व्युत्पादितः। कृन्नद्ययं भवति।।
45. उगितश्च। (6.3.45)
`श्रेयसितरा' इति। ईयसुनि परतः `प्रशस्यस्य श्रः' (5.3.60) इति प्रशस्यशब्दस्य श्रादेशः, `उगितश्च' (4.1.6) इति ङीप्। `विदुषीतरा' इति। विदेः परस्य लटः शत्रादेशः, तस्य `विदेः शतुर्वसुः' (7.1.36) इति वस्वादेशः, `वसोः सम्प्रसारणम्' (6.4.131) परपूर्वत्वम्, पूर्ववन्ङीप्।
`पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः' इति। श्रेयस्तरा, विद्बत्तरेति पक्षे यथा स्यात्। `विद्बत्तरा' इति। `वसुस्रंसु' (8.2.72) इति सकारस्य दकारः `खरि च' (8.4.55) इति तकारः।
`प्रकर्षयोगात्' इत्यादिनोपसंख्यानं प्रत्याचष्टे। शब्दानां व्युत्पत्तौ प्रवृत्तौ च न वस्तुसन्निधानं प्रधानं कारणम्, अपि तु विवक्षैव। न चैवं पूर्वं प्रकर्षयोगात् स्त्रीत्वं विवक्षितम्। तस्मादस्त्रीप्रत्ययान्तादेवातिशायिकेन भवितव्यम्। आतिशायिकप्रत्ययान्तात्तु स्त्रीप्रत्ययेनेति सिद्धं श्रेयस्तरेत्यादि रूपम्। ननु च ङ्याब्ग्रहणं तदन्तात् तद्धितविधानार्थमित्युक्तम्, तत्कथमस्त्रीप्रत्ययान्तात् तद्धितप्रकर्षप्रत्ययो युज्यते? नैतत; अत्र विषये स्त्रोत्वतद्धितार्थयोर्युगपद्विवक्षामभिप्रेत्य तदुक्तम्, न तु यत्र विषये प्राक् प्रकर्षार्थेन सम्बन्धात् स्त्रीत्वस्य विवक्षा नास्ति तमभिप्रेत्येति किमत्र न युज्यते।।
46. आन्महतः समानाधिकरणजातीययोः। (6.3.46)
`महादेवः, महाब्राह्मणः' इति। `सन्महत्' (2.1.61) इत्यादिना कर्मधारयः। `महाबाहुः' इति। बहुव्रीहिः।
`लक्षणोक्तत्वात्' इत्यादिना परमतमाविष्कृत्य निराकरोति। स्यादेतत्--उत्तरपदेन समासः सन्निधापितः, समासे हि सत्युत्तरपदं भवति, स च समासो लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) महतो यः प्रतिपदोक्तः `सन्महत्' (2.1.61) इत्यादिना साक्षाद्विशेषविहित स एव गृह्यते, न तु यो लाक्षणिकः सामान्यलक्षणोक्तश्च समासः--महत्पुत्र इति? अत्र `षष्ठी' (2.2.8) इति सामान्यलक्षणेन विहितत्वात्, तस्मादत्र न भविष्यतीति। यद्येवम्, बहुव्रीहावपि न स्यात्; तस्यापि लाक्षणिकत्वात्। `तदर्थम्' इत्यादि। बहुव्रीहावप्यात्त्वं यता स्यादित्येवमर्थं समानाधिकरणग्रहँ कर्त्तव्यम्। तत्र सतद्येषा परिभाषा नोपतिष्ठते। यद्युपतिष्ठते समानाधिकरणमनर्थकं स्यात्; महतो यः प्रतिपदोक्तः समासस्तस्य समानाधिकरणपदत्वात्। तस्याश्चानुपस्थाने सति बहुव्रीहावप्यात्त्वं भवति। असति तु समानाधिकरणग्रहणे तया परिभाषयेहोपस्थातव्यम्। ततश्च यता महत्पुत्र इत्यत्र न भवति, तथा बहुव्रीहावपि महाबाहुरित्यत्र न स्यात्।
`अमाहन् महान् सम्पन्नो महद्भूतश्चन्द्रमा इति यत्रार्थे च्व्यन्तो महच्छब्दो वर्त्तते तत्रैव भूतशब्दोऽपि, तस्मात् सामानाधिकरण्ये सतद्यात्त्वेन भवितव्यम्'--इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकत्तुमाह--`अमहान् महन्' इत्यादि। `महद्भूतः' इति। महच्छब्दात् `अभूततद्भावे' (5.4.50) इत्यादिना च्विः, तस्य `ऊर्यादिच्विडाचश्च' (1.4.61) इति गतिसंज्ञकत्वाद्भूतशब्देन `कुगतिप्रादयः' (2.2.18) इति समासः। `गौणत्वात्' इत्यादि। लोके हि शब्दादुच्चरिताद्गौणमुख्यार्थसम्भवे सति मुख्यार्थंएवं सम्प्रत्ययो भवति, न तु गौणेऽप्रदाने। तथा हि--`गौरानीयताम्' इत्युक्ते सास्नादिमानेवानीयते, न तु बाहीक इति। तस्मादिहापि महच्छब्दादुच्चारितान्मुख्य एव महदर्थे सम्प्रत्ययो भवति, न गौणे। गौणश्चात्र महदर्थः। तदभिधानाच्च महच्छब्दोऽपि गौण इति न भवत्यात्त्वम्। ननु च महत्त्वेन युक्तश्चन्द्रमा महानेव, तदयुक्तं महदर्थस्य गौणत्वम्? नैतदस्ति; सर्वत्रैव हि च्व्यन्तेनार्थ आश्रितपूर्वावस्थ उपचरितोत्तरावस्थ उच्यते, तस्मादिहापि चन्द्रमा अमहत्त्वपूर्वावस्थो महच्छब्देनोच्यमान उपचरितमहत्त्वानुगतोत्तरावस्थ एव उच्यत इति युक्तास्य गौणता।
यदि गौणत्वान्महच्छब्दस्यात्त्वमिह न भवति, तदा पुंवद्भावोऽपि न स्यात्, अमहती ब्राह्मणी महती सम्पन्ना महद्भूतेति; वृद्ध्यात्त्वे च गौणस्य गोशब्दख्य न स्याताम्, गौर्वाहीकस्तिष्ठतीति वृद्धिर्न स्यात् `गौतो णित्' (7.1.99) इति गौणाद् गौशब्दात् परस्य सर्वनामस्थानस्य णित्त्वेऽसति गां वाहीकमानयेत्यत्र `औतोऽम्शसोः' (6.1.93) इत्यात्त्वं न स्यात्? नैष दोषः; पुंवद्भावस्तावत् `स्त्रियाः पुंवत्' (6.3.34) इति योगविभागाद्भविष्यति। योगविबागश्चावश्यं कर्त्तव्यो गर्भिभार्य इत्याद्यर्थः, महत्या घासो महाघास इत्याद्यर्थश्च; सोऽन्यार्थः क्रियमाण एतदर्थोऽपि भविष्यति। ननु च क्रियमाणेऽपि योगविभागे नैवात्र पुंवद्भावः प्राप्नोति, महदर्थस्य गौणत्वात्, योगविभागस्य चान्यत्र चरितार्थत्वात्? एवं तर्हि `पुंवत्कर्मधारय' (6.3.42) इति सूत्रे द्वितीयः पुंवदिति योगविभागः किष्यते, स गौणार्थो भविष्यति। वृद्ध्यात्त्वाभावदोषोऽपि न प्रसजति; यस्माद्वाक्यात् तत्र गौणत्वं प्रतीयते। पद्सय तु मुख्य एवार्थः, न च पदसंस्कारवेलायां वाक्यार्थोऽपेक्ष्यते।
`महादात्त्वे' इत्यादि। समानाधिकरण आत्त्वपुंवद्भावौ विधीयमानौ व्यधिकरणे न प्राप्नुतः। तस्माद्वयधिकरणेऽप्युत्तरपदे घासादौ महदात्तवस्योपसंख्यानं कर्त्तव्यम्। उपसंख्यानमित्यस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्--`आन्महतः' (6.3.46) इत्यत्रापि `आत्' इति योगविभागं करिष्यति, तेन महत्या घासो महाघास इत्यादावात्त्वं भविष्यतीति। स चावश्यं योगविभागः कर्त्तव्यः--अष्टाकपालमित्याद्यर्थम्, सोऽन्यार्थं क्रियमाण एतदर्थोऽपि भवति। `पुंवद्वचनं च' इत्यादि। घासकरविशिष्टेष्वित्यपेक्ष्यते। पुंवद्भावस्य वचनं व्याख्यानं कर्त्तव्यम्, तच्च पूर्वमेव कृतम्।
`अष्टनः कपाले' इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च प्रतिपादनं पूर्वमेव कृतम्। `अष्टाकापालम्' इति। अष्टसु कपालेषु संस्कृतमिति `तद्धितार्थ' (2.1.51) इत्यादिना समासः, `संस्कृतं भक्षाः' (4.2.16) इत्यण्, तस्य `द्विगोर्लुगनपत्ये' (4.1.88) इति लुक। `अष्टकपालं ब्राह्मणस्य' इति। अष्टानां कपालानां समाहारोष्टकपालम्, समाहारे द्विगुः। अत्र पात्रादित्वात् (वा.159) स्त्रियां न भाष्यते। तेन `द्विगोः' (4.1.21) इति ङीब् न भवति।
`गवि च युक्ते' इत्यादि। गोशब्दे चोत्तरपेद युक्तार्थे गम्यमानेऽष्टन्शब्दस्यात्त्वस्य प्रतिपादनं कर्त्तव्यम्। तच्च प्रतिपादनं पूर्वमेव कृतम्। `अष्टागवेन शकटेन' इति। अष्ठौ गावो युक्ता अस्मिन्निति त्रिपदोऽयं बहुव्रीहिः। युक्तशब्दस्तु गम्यमानत्वाद्वतौ न प्रयुज्यते, यथा दध्योदन इत्यत्रोपसिक्तशब्दः। यदि च बहुव्रीहिरयम्, तदा `गोरतद्धितलुकि' (5.4.92) इति टच् समासान्तो न प्राप्नोति; तत्पुरुषाधिकारात्? मा भूत् टच् `अच् प्रत्यन्ववपूर्वात्' (5.4.75) इत्यत्र अजिति योगविभागात् भविष्यति, यथा--कृष्णभूमः, पद्यनाम इत्यादौ। अथ वा--अष्टानां गवां समाहारोऽष्टगवम्, अष्टगवेन युक्तमष्टागवम्। न चैवं युक्तशब्दस्य प्रयोगः प्रसजति; पदैकदेशस्य प्रयोगात्, यथा--सत्यभामा भामा, भीमसेनो भीमः, बलभद्रो बल इति।
`एकादश' इत्यत्रापि तत एव योगविभागादात्त्वं वेदितव्यम्। योगविभागस्य च लिङ्गम्--`प्रागेकादशभ्यः' (5.3.49) इति निर्देशः।
`तपकरँ विस्पष्टार्थम्' इति। अथ भिन्नकालानां निवृत्त्यर्थ कस्मान्न भवति? भाव्यमानेनाणा सवर्णानामग्रहणात्। गुणान्तरभिन्नानां तर्हि ग्रहणं कस्मान्न भवति? गुणानामभेदकत्वात्।।
47. द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः। (6.3.47)
संख्यातानुदेशोऽत्र न भवति। यदि हि स्यादष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयर्थ्यं स्यात्। प्रतिषिद्धे ह्यात्त्वे सवर्णदीर्घत्वेन भवितव्यम्। अल्पाच्तरत्वाच्चाशीतिशब्दस्य पूर्वनिपातेकर्त्तव्ये परनिपातेन लक्षणव्यभिचारचिह्नेन सख्यातानुदेशाभावः सूचितः। `द्वादश' इति। द्वौ च दश चेति द्वन्द्वः। अथ वा द्वाभ्यामधिकादशेति समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च' (वा.83) इत्युत्तरपदलोपी तत्पुरुष समासः। एवं `द्वाविंशतिः' इत्यादावपि वेदितव्यम्।
`द्वौमातुरः' इति। द्वयोर्मात्रोरपत्यमिति विगृह्य तद्धितार्थे समासः, ततः `मातुरुत्संख्यासम्भद्रपूर्वायाः' (4.1.115) इत्यण्; उकारश्चान्तादेशः। `द्वित्राः' इति। द्वौ वा त्रयो वेति विगृह्य `सङ्ख्ययाव्यय' (2.2.25) इत्यादिना बहुव्रीहिः, `बहुव्रीहौ संख्येये' (5.4.73) इत्यादिना डच् समासान्तः, टिलोपः। `द्विदशाः' इति। पूर्ववड्डच्, बहुव्रीहिः। द्विर्दशेति विग्रहः। सुबर्थेऽयं समासः। अत्र हि दशसम्बन्धिन्यावृत्तिर्दशशब्देन लक्ष्यमाणा द्विशब्देन संख्यायते। तेन द्वौ दशकावित्ययमर्थो वेदितव्यः। समासः सुबर्थं गमयितुं समर्थ इति वृत्तौ सुज् न प्रयुज्यते। `द्व्यशीतिः' इति। पूर्ववद्द्वन्द्वः; उत्तरपदलोपी वा तत्पुरुषः।
`प्राक् शतात्' इत्यादि। शतात् प्रागया संख्या तद्वाचिन्युत्तरपदे द्व्यष्टन आत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`विभाषा चत्वरिंशत' (6.3.49) इत्यत्र वक्ष्यमाणविभाषाग्रहणं सिंहावलोकिनतन्यायेनेहाप्युपतिष्टते, सा च व्यवस्थितविभाषा। तेन प्राक् शताद्या संख्या तद्वाचिन्यत्तरपदे भविष्यति। शतादिवाचिनि तु न भविष्यति। एवमुत्तरयोरपि योगयोः प्राक्शतात् कार्यं भवतीति वेदितव्यम्।
48. त्रेस्त्रयः। (6.3.48)
`त्रयः' इति। सकारान्तोऽयमादेशः। कुत एतत्? सन्धिवेलादिषु त्रयोदशीशब्दपाठात्। अकारान्ते हि सति त्रयदशीति पाठः स्यात्। `त्रयोदश, त्रयोर्विशतिः' इति। `ससजुषो रुः' (8.2.66) इति रुत्वम् `हशि च' (6.1.114) इत्यत्त्वम्, `आद्गुणः' (6.1.87) त्रिर्दश इति पूर्ववत् सुजर्थे बहुव्रीहिः, डच् समासान्तः।।
49. विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्। (6.3.49)
सर्वग्रहणं द्व्यष्टनोरपि यथा स्यादित्येवमर्थम्; इतरथा हि `अनन्तरस्या विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति त्रेरेव स्यात्। मण्डुकप्लुतिन्यायेन द्व्यष्टन इत्येतदपीहानुवर्तिष्यते, ततोऽयमदोष इति चेत्? एवं तर्हि विस्पष्टार्थं सर्वग्रहणमिति।।
50. हृदयस्य हृल्लेखयदण्लासेषु। (6.3.50)
`हृल्लेशः'। `कर्मण्यण्' (3.2.1) `हृद्यः' इति। `प्राग्धिताद् यत्' (4.4.75)। `हार्दम्' इति। `तस्येदम्' (4.3.120) इति प्राग्दीव्यतोऽण्। `हृल्लासः' इति। लसनं लासः, भावे घञ्। `कृद्योगा च षष्ठी समस्यते' (वा.86) इति षष्ठीसमासः।
`लेख इत्यणन्तस्य ग्रहणम्' इति। एतच्च कात्ययनप्रभृतीनां प्रमाणभूतानां वचनाद्बिज्ञायते। कात्यायनेनोक्तं यत्--`अण्ग्रहणे स्वरूपग्रहणं द्रष्टव्यम्, कृतः? लेखग्रहणात्' इति। भाष्यकृताप्युक्तम्--`सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे स्वरपग्रहणं द्रष्टव्यम्, कुतः? लेखगरहणात्' इति। एतच्च वचनद्वयं कथमुपपद्यते? यदि लेख इत्यणन्तस्य ग्रहणं भवति, नान्यथा। अथ घञन्तस्यापि लेखशब्दस्य ग्रहणं कस्मान्न विज्ञायते? इत्याह--`घञि तु' इत्यादि। `एतदेव' इत्यादि। अण्ग्रहणादेव तदन्तस्य लेखशब्दस्य ग्रहणे सिद्धे तस्य पृथग्ग्रहणं क्रियणाणमेतज्ज्ञापयति--उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तं न गृह्यत इति। तेनेह यदण्ग्रहणे घरूपादिसूत्रे च (6.3.43) घादिप्रत्ययग्रहणे प्रत्ययमात्रं गृह्यते, न तदन्तविधिरिति भावः।।
51. वा शोकष्यञ्रोगेषु। (6.3.51)
`सौहार्द्यम्' इति। शोभनं हृदयमस्येति बहुव्रीहिः। ततः ष्यञ्।
`हृदयशब्देन' इत्यादि। हृदयशब्देनेह समानर्थे हृच्छब्दे सति यदा हृच्छबदस्य प्रयोगः, तदा हृच्छोक इति भविष्यति, यदा हृदयशब्दसय तदा हृदयशोक इति, ततश्च तेनैव प्रकृत्यन्तरेण सिद्धे विकल्पविधानमिदं न कर्त्तव्यम्। एतत् क्रियते तु प्रपञ्चार्थम्। स एव सिद्धप्रयोगोऽनेन सूत्रेण कथ्यत इति।।
52. पादस्य पदाज्यातिगोपहतेषु। (6.3.52)
`पदाजिः' इति। `अज गतिक्षेपणयोः' (धा.पा.230)। `पदातिः' इति। `अत सातत्यगमने' (धा.पा.38)। `अज्यतिभ्याञ्च पादे च' इत्यौणादिक इण्प्रत्ययः' इति। अत्र `जनिघसिभ्यामिण्' (द.उ.1.58) इत्यत इष्ग्रहणानुवृत्तेः। यदौणादिक इण्प्रत्ययः, एवं सति तत्र `अजेर्व्यघञपोः' (2.4.56) इति वीभावः कस्मान्न भवति? इत्याह--`तत्र' इत्यादि। `पदगः' इति। `अन्तात्यन्ताध्वदूरपार' (3.2.48) इत्यादौ सूत्रे `डप्रकरणऽन्यत्रापि दृश्यते इति वक्तव्यम्' (वा.256) इत्युक्तम्। तेन पादशब्देऽप्युपपदे गमेर्डप्रत्ययः। `पदोपहतः' इति। `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति समासः, पूर्वत्र तूपपदसमासः। अकारान्तोऽयमादेशः। प्रथमायाश्च लुकं कृत्वा निर्देश। `पादशब्दोऽयम्' इत्यादि। `कर्षात्वतो घञोऽन्त उदात्तः' (6.1.159) इत्यन्तोदात्तत्वे प्राप्ते पादशब्दस्य वृषदित्वादाद्युदात्तत्वं विधीयते, ततश्च तस्य स्थाने पदादेशो विधीयमान आन्तरतम्यादाद्युदात्त एव स्यात् अन्तोदात्तश्चेष्यते। तस्मादान्तोदात्तो निपात्यते उपदेशावस्थायामेव। `तेन' इत्यादिनान्तोदात्तनिपादनस्य फलं दर्शयति। `पदाजिः, पदातिः' इत्यादिनाप्युपदेशग्रहणस्य। यदि `गतिकारकोपपदात् कृत्' (6.2.139) इति प्रकृतस्वरे कृते पदशब्दस्यान्तोदात्ततवं निपात्यते, तदा तस्य सतिशिष्टत्वं स्यात्, ततश्च पदाजिः पदातिः पदग इत्येषु कृत्स्वरो बाध्यते; सतिशिष्टस्वरस्य बलीयस्त्वात। उपदेशावस्थायांत्वन्तोदात्तत्वनिपातने कृत्स्वर एव सतिशिष्टो भवति। अतस्तेन समासस्यैवान्तोदात्तत्वं भवति न पदशब्दस्य।।
53. पद्यत्यतदर्थे। (6.3.53)
`पद्याः' इति। `विध्यत्यधनुषा' (4.4.83) इति यत्।
`पाद्यम्' इति। पादशब्दात् `तादर्थ्ये यत्' (5.4.24) इत्यनुवर्तमाने `पादार्घाभ्याञ्च' (5.4.25) इति यत्।
`पद्भावे' इत्यादि। पद्भावे कर्त्तव्येऽस्मिंश्चरत्यर्थे य इक् तस्मिन् कृते पद्भावस्योपसंख्यानम्=प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्--पदिति योगविबागात् सिद्धमिति। पर्पादिष्वेव `पादः पच्च्' (4.4.10) इति पाठात् सिद्धमिति वा।
`शरीरावयवस्य' [`शरीरावयववचनस्य--काशिका] इत्यादि। कुतः पुनरेतल्लभ्यते? केचिदाहुः--पूर्वसूत्रे सामर्थ्याच्छरीरावयवसय पादशब्दस्य ग्रहणम्। तत्राज्यातिप्रभृतीनि त्रीण्युत्तरपदानि गमनार्थानि, चतुर्थं तु हननार्थम्। तेषु गमनाधिषु प्राण्यङ्गस्यैव पादशब्दस्य करणभावः सम्भवति, नैतरस्य। तस्मात् तत्र प्राण्यह्गवाचिनः पादशब्दस्य ग्रहणम्, इहपि तदेवानुवर्त्तत इति युक्तम्--शरीरावयवस्य ग्रहणमिति। यद्येवम्, तदा `ऋचः शे' (6.3.55) इत्यत्रापि शरीरावयवस्य ग्रहणं स्यात्? नैष दोषः; ऋक्सम्बन्धिन शरारावयववचनस्यासम्भवात्। चतुर्थभागवचनः पादशब्दोऽत्रि ग्रहिष्यते। `तेन' इत्यादि। यत एवं शरारावयववचनपादशब्दस्येह ग्रहणम्, तेन `पणपादमाष' (5.1.34) इत्यादो सूत्रे यः पादशब्दस्तस्य न पदादेशो भवति; न ह्यसौ शरीरावयववचनः, कि तर्हि? परिमाणवचनः। कुत एतत्? पणादिभिः परिमाणवचनैः साहचर्यात्। `द्विपाद्यम्, त्रिपाद्यम्' इति। `तेन क्रीतम्' (5.1.37) इत्यर्थे यत्प्रत्ययः।।
54. हिमकाषिहतिषु च। (6.3.54)
`पद्धिमम्' इति। षष्ठीसमासः। `पत्काषिणः' इति। `सुप्यजातौ णिनिस्ताच्छील्ये' (3.2.78) इति णिनिः, उपपदसमासः। `पद्धतिः' इति। पादाभ्यां हन्यत इति पद्धतिः। क्तिन्नन्तेन हतिशब्देन `कर्तृकरणे कृता बहुलम्' (2.1.32) इति समासः।।
55. ऋचः शे। (6.3.55)
`शे' इति तद्धितस्य शस्प्रत्ययस्यावयवभूतो यः शशब्दस्तस्येह ग्रहणम्; ऋक्पादात् परसयासम्भवात्। ननु च पादे शेते इति `अधिकारणे शेतेः' (3.2.15) इत्यचि कृते पादश इतयत्र शीङ्सम्बन्धी शशब्दः सम्भवति? नैतदस्ति; न हि ऋक्पाद उपपदे शेतेर्धातोरचा भवितव्यम्; तत्र तु शयनग्सम्भवत्, अनभिधानाद्वा। योऽपि `लोमादिपामादिपिच्छादिब्यः सनेलचः' (5.2.100) इति शो विधीयते, सोऽपि नैव ऋक्पादत् परः सम्भवति; तत्रानभिधानात्। लोमादिषु तस्यापाठाच्च।।
56. वा घोषमिश्रशब्देषु। (6.3.56)
घोषशब्दशबदशब्दाब्यां [`घोषशब्दशब्दाभ्यां--मुद्रितः पाठः] षष्ठीसमासः, मिश्रशब्दे च `पूर्वसदृश' (2.1.31) इत्यादिना तृतीयासमासः।
`निष्के चेति वकतव्यम्' इति। निष्कशब्दे चोत्तरपदे पादशब्दस्य पदित्ययमादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`हिमकाषिहतिषु च' (6.3.54) इत्यतश्चकारोऽत्रानुवर्त्तते, स चानुक्तसमुच्चयार्थः। अथ वा--सूत्रे `वा' इति योग विभागः क्रियते तेन निष्के चोत्तरपदे भविष्यतीति।।
57. उदकस्योदः संज्ञायाम्। (6.3.57)
`उदमेघो नाम यस्योदमेघिः पुत्रः' इति। पितुरप्रसिद्धत्वादुदमेघस्य तदपत्येन समाख्यातुं यस्योदमेघिः पुत्र इत्युक्तम्। एतेन यस्यौदमेघिरपत्यं स उदमेघो वेदितव्यमिति दर्शयति। एवम्--`उदवाहो नाम यस्यौदवाहिः पुत्रः' इत्यत्रापि वेदितव्यम्। उदमेघ इति षष्ठीसमासः, उदकपूर्णो वा मेघः--शाकपार्थिवादित्वा(वा.83) न्मध्यमपदलोपी तत्पुरुषः, उदकं बहतति उदवाहः--`कर्मण्यण्' (3.2.1)।
`वक्तवयः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--इहापि स एव चकारोऽनुवर्त्तते अनुक्तस मुच्चयार्थः, न चान्यत् समुच्चेतव्यमस्तीति। उदभावमेवासावुदकशब्दस्य संज्ञायां समुच्चिनोति। तत्र कस्य समुच्चिनोति? यस्य न प्राप्नोति। कस्य न प्राप्नोति? उत्तरपदभूतस्य। तेन संज्ञायामुत्तरपदस्याप्युदकशब्दयोद इत्ययमादेशो भवति। `लोहितोदः, क्षीरोदः' इति बहुव्रीहि-।।
58. पेषंवासवाहनधिषु च। (6.3.48)
`उपदेषम्' इति। `पिष्लृ सञ्चूर्णने' (दा.पा.1452) `उदधिः' इति। `कर्मण्यधिकरणे च' (3.3.93) इति क्रिप्रत्ययः। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः।
असंज्ञार्थमिदं वचनम्; तेनोदधिरिति घटादिरिह वेदितव्यः, न समुद्रः; तत्र पूर्वेणैव सिद्धत्वात्--उदधिशब्दे समुद्रस्य संज्ञेति कृत्वा।।
59. एकहलादौ पूरयितव्येऽन्यतरस्याम्। (6.3.59)
यद्येकशब्दः सुख्यावचन इह गृह्यते, तदानर्थकं तस्य ग्रहणं स्यात्। न हि क्वचित् द्वौ बहवो वा हल आदिभूताः सम्भवन्ति, यद्व्यवच्छेदार्थमेकग्रहणं क्रियते। तस्मादसहायवचनोऽयमेकशब्दः। एवमपि यः कश्चिदविशिष्ट एकोऽसहायो हल् आदिर्यस्य तदेकहलाद्युत्तरपदं गृह्येत, तदोदकस्थानमित्यत्रापि स्यात्। अत्रापि हि सकारोऽसहाय एव एकहल्। यद्यनेके वर्णा युगपदुच्चार्येरन्, उच्चरिता वा वर्णा न प्रध्वंसेरन्, तदा ससहायस्यापि स्यादादित्वम्। न चैवम्; यतो वर्णा न युगपदुच्चार्यन्ते, ते चोच्चारितप्रध्वसिनः। तस्मान्नास्त्येव क्वचित् किंचिदनेकहलादित्वं यद्व्यवच्छेदार्थमेकहलादावित्युच्यते। उक्तं चेदम्। अतोऽस्मादेव वचनाद्विशिष्टमात्रैकहलादित्वं विवक्षितमित्येतत् सर्वं चेतसि कृत्वा तदेव विशिष्टं दर्शयितुमाह--`एकोऽसहायः' इत्यादि। यश्चातुल्यजातीयेनाप्यचा विनैको हल् स आदिर्यस्येति तदेकहलादि। तुल्यजातीयेन चव्यवहितेनापि यस्य तदेकहलादीहाश्रीयेत तदा न क्वचित् स्यात्; तथाविधस्योत्तरपदस्य पूरयितव्यवाचिनोऽभावात्, उच्यते चेदम्। तस्माद्वचनप्रामाण्यात् तुल्यजातीयेन हलाऽनन्तरेणाव्यवहितेन विना यो वर्त्तते सोऽसहाय एवेहैकशब्देनासहायवाचिना विवक्षित इति गम्यते। एवंदिधो हलादिर्यस्य तदेकहालादि। न चैवंविधः स्थानशब्दस्यादिर्हलस्तीत्येकहलादिगरहणेन स्थानशब्दो निवर्त्तते। `पूरियतव्यवाचिनि' इति। उदकादिना द्रव्येणान्तर्व्याप्तव्यः पूरयितव्य इत्युच्येत। तद्वक्तुं शीलमस्येति ताच्छीलिको णिनिः।।
60. मन्थैदनसक्तुबिन्दुजरभारहारवीवधगाहेषु च। (6.3.60)
द्रवद्रव्यसंपृक्ताः सक्तवो मन्थ इत्युच्यते। तत्र मन्थशब्दोऽयं यद्यव्युत्पन्नं प्रातिपदिकम्, तदोदकेन मन्थ इति `तृतीया' (2.1.30) इति योगविभागात् समासः। अथ व्युत्पाद्यते--मध्यत इति मन्थः, तदा `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति समासः। सकत्वोदनाभ्यां `अन्नेन व्यञ्जनम्' (2.1.34) इति समासः। बिन्दुवज्रवीवधैः `षष्ठी' (2.2.8) इति भारहारगाहैरणन्तैः `उपपदमतिङ्' (2.2.19) इति।।
61. इको ह्वस्वोऽङ्यो गालस्य। (6.3.61)
`ग्रामणिपुत्रः' इति। ग्रामं नयतीती `सत्यूद्विष' (3.2.61) इत्यादिना क्विप्। `अग्रग्रामाभ्याञ्च नयतेः' (कात्या.वा.5064) इति णत्वम्। `गार्गीपुत्रः' इति। `यञश्च' (4.1.16) इति गार्ग्यशब्दान्ङीप्, `यस्येति च' (6.4.148) इत्यकारस्य लोपः, `हलस्तद्धितस्य' (6.4.150) इति यकारस्य च।
अथ दिकल्पार्थमेव गालवग्रहणं कस्मान्न भवति? इत्याह--`अन्यतरस्याम्' इत्यादि। `कारीषगन्धीपुत्रः' इति। करीषगन्ध्यायायः पुत्र इति षष्ठीसमासः `ष्यङः सम्प्रसारणम्' (6.1.13) इत्यादिना सम्प्रसारणम्, `सम्प्रसारणाच्च' (6.1.108) इति परपूरवत्वम्, `हलः' (6.4.2) (इति) सम्प्रसारणस्य दीर्घः।
`इयङुवङ्भाविनाम्' इत्यादि। इयङुवङौ भाविनौ येषां ते तथोच्यन्ते। `श्रीकुलम्' इति। इयङ्भाविन उदाहरणम्। `भ्रूकुलम्' इति। उवङ्भाविनश्च। `कण्डीभूतम्, वृषलीभूतम्' इति। अवप्ययानाम्। काण्डवृषलशब्दाभ्यां `अभूततद्भावे' (5.4.50) इत्यादिना च्विः, `अस्य च्वौ' (7.4.32) इतीत्वम्।
`भ्रूकुंसः' इति। भ्रूश्चासौ कुंसश्चेति विशेषणसमासः। एवं `भ्रुकुटिः' इत्यत्रापि। `वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--पृषोदरादित्वाद्भ्रुकुंसादीनामकारो भविष्यतीति।।
62. एक तद्धिते च। (6.3.62)
`एकरूप्यम्' इति। `हेतुमनुष्यभ्योऽन्यतरस्यां रूप्यः' (4.3.81) इति रूप्यः। `एकमयम्' इति। `मयट् च' (4.3.82) इति, मयट्। `एकत्वम्, एकता' इति। ` तस्य भावसत्वतलौ' (5.1.119) इति त्वतलौ। यदैकशब्दः संख्यापरो भवति तदैतदुदाहरणम्। यदा संख्येयपरो भवति। तदा `त्वलोर्गुणवचनस्य' (वा.730) इति पुंवद्भावेनैव सिद्धम्। ननु च गुणमुक्तवान् गुणवचनः, यश्च गुणमात्रमभिधाय तद्विशिष्टं द्रव्यमाह स गुणवचनो भवति। तद्यथा--कृष्णः पटः, शुक्लः पट इति; अयं पुनरेकशब्दो न क्वचिदपि द्रव्यव्यतिरिक्तं गुणमाह, सर्वदा संख्येये द्रव्ये वर्तत इति कृत्वा, तत् कुतोऽसय पुंवद्भावः? अयुक्तमिदमभिधीयते; तथा हि--प्रसिद्धमामाश्रित्यैकादयः संख्येयवचना इत्युच्यन्ते, न त्वेषां संख्याने वृत्तिर्नाभ्युपेयेति। तथा हि--`द्व्येकयोर्द्विवचनैकवचने' (1.4.22) इत्यत्र त्वेकशब्दः संख्यायामेव प्रयुक्तो न संख्येये द्रव्ये।
`लिङ्गविशिष्टस्य' इत्यादि। पुंल्लिङ्गो य एकशब्दः स स्वभावत एव ह्रस्वान्त इति न तद्ग्रहणं प्रयोजयति, अपि तु स्त्रीलिंगविशिष्टस्यैव। तस्यैव हि ह्रस्वत्वं विधीयमानमर्थवद्भवति। ननु नैतस्याप्येकशब्दस्य य एकारस्तस्य ह्रस्वत्वं विधीयमानमर्थवद्भवति, तत् किमुच्यते लिङ्गविशिष्टस्यैकशब्दस्य ग्रहणं प्रयोजयति? इत्याह--`अचा गृह्यमाणम्' इत्यादि। विशेषणविशेष्यभावं प्रति कामचारः। तथा ह्युक्तम्--विशेषणविशेष्यभावयोर्यथेष्टत्वादिति। तत्र यदि गृह्यमाणेनैकशब्देनाज्विशिष्यते--एकशब्दस्य योऽजिति, तदैकसम्बन्धिन एकारस्य हरस्वत्वं विधीयमानमर्थवद्भवति। पुंल्लिङ्गस्याप्येकशब्दस्य ग्रहणं प्रयोजति। न चात्र गृह्यमाणेनाज्विशिष्यते; एकारस्य ह्रसवस्यानिष्टत्वात्। न ह्यनिष्टार्था शास्त्रे प्रक्लृप्तिर्युक्ता (भो.प.सू.107), तस्मादाचा गृह्यमाण एकशब्दोऽत्र विशिष्यते। तेन लिङ्गविशिष्टस्य ग्रहणम्। एकशब्दस्य ह्रस्वो भवति, किं विशिष्टस्चाचः? अजन्तस्येत्यर्थः। तत्रालोऽन्त्यस्यैव ह्रस्वत्वेन भवितव्यम्, तच्च टाबन्तस्यैव सार्थकम्, न पुंल्लिङ्गस्य; न हि ह्रस्वस्यैव ह्रस्वे विधीयमाने कश्चिदर्थः सिध्यति। इतिकरणो हेतौ। यत एवाचा गृह्यमाण एकशब्दोऽत्र विशिष्यते, तेन लिङ्गविशिष्टस्य ग्रहणमेकशब्दस्य प्रयोजयति।।
63. ङ्यापोः संज्ञाछन्दसोर्बहुलम्। (6.3.63)
`रेवतिपुत्रः' इति षष्ठीसमासः। एवं `रोहिणिपुत्रः' इत्यादावपि। कुमारीं ददातीति `कुमारिदा'। उर्वी ददातीति `उर्विदा'। `आतोऽनुपसर्गे कः' (3.2.3)। `फाल्गुनी' इत्यादि। फाल्गुनी चासौ पौर्णमासौ चेति फाल्गुनी पौर्णमासौ, `विशेषणम्' (2.1.57) इत्यादिना समासः। एवं `जगतीच्छन्दः' इत्यत्रापि।
`शिलवहम्, शिलप्रस्थम्' इति। शिलाशब्दसय वहप्रस्थशब्दाभ्यां `षष्ठी' (2.2.8) इत्यनेन समासः। `लोमकागृहम्, लोमकाषण्डम्' इति। अत्रापि लोमकाशब्दसय गृहषण्डशब्दाभ्याम्। `अजक्षीरेण इति। अत्राप्यजाशब्दस्य क्षीरशब्देन। `ऊर्णमृत्' [`ऊर्णमृदा'--काशिका. ऊर्णम्रवा--पदमञ्जरी] इति। ऊर्णासहिता मृद् ऊर्णमृत्। शाकपर्थिवादित्वादुत्तरपदलोपी समासः।।
64. त्वे च। (6.3.64)
`संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति' इति। एवकारेण संज्ञाया व्यवच्छेदः क्रियते। न हि त्वप्रत्यये ङ्यापोर्ह्रस्वत्वे कृते कस्यचित् संज्ञा गम्यते। तेन संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति।।
65. इष्टकेषीकामलानां चिततूलभारिषु। (6.3.65)
`इष्टकचितम्' इति। `कर्तृकरणे' (2.1.32) इत्यादिना समासः। `इषीकतूलम्' इति। षष्ठीसमासः। `मालभारिणी' इति। मालां भर्त्तुं शीलमस्या इति ताच्छील्ये णिनिः (3.2.78), `उपपदमतिङ्' (2.2.19) इति समासः।
`इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवति' इति। बहुलग्रहणानुवृत्तेरित्यभिप्रायः।।
66. खित्यनव्ययस्य। (6.3.66)
`कालिम्मन्या, हरिणिम्मन्या' इति। कालीमात्मानं मन्यते हरिणीमात्मानं मन्यत इति `आत्ममाने खश्च' (3.2.83) इति खश्, दिवादित्वाच्छ्यन्, अनेन ह्रस्वत्वम्, उत्तरसूत्रेण मुम्। इहाजन्तस्य ह्रस्वत्वमभ्युपगम्यम्; अन्यथा वाङ्मन्य इत्यत्रापि स्यात्। अजन्तस्य ह्रस्वविधाने सति परत्वान्मुमि कृतेऽनजन्तत्वाद्ह्रस्वो न प्राप्नोतीति यो मन्येत तं प्रत्याह--`मुमा ह्रस्वो न बाध्यते' इति। अत्रैव हेतुमाह--`अन्यथा हि' इत्यादि। ह्रस्वः शिष्यते=विधीयते येन तत् ह्रस्वशासनं `खित्यनवययस्य ' इत्येतद्ववचनम्। यदि हि मुमा ह्रस्वो बाध्येत, ततो ह्रस्वशासनामिदमनवकाशं स्यात्, ततस्तस्यानर्थक्यमेव स्यात्। तस्मान्मा भूदेष दोष इति मुमा ह्रस्वो न बाध्यते। तेन विरोधाभावादुभयं भवति--ह्रसवः, मुम् च। कथं पुनर्मुमा ह्रस्वसय बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम् विधीयते, ह्रस्वत्वं बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम् च। कथं पुनर्मुमा ह्रस्वस्य बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम् विधीयते, ह्रस्वतवं तु सामर्थ्याद्दीर्घस्य, न हि ह्रसवस्य ह्रस्वविधानमर्थवद्भवति, एवं च स्तनन्धयादिषु कृतार्थत्वान्मुमेव ह्रस्वेनापवादेन कालिम्मन्यादिषु बाध्येत? एवं मन्यते--अपवादविषयेऽपि मुमा विधानार्थं मुम्शास्त्रस्यावश्यमावृत्तिः कर्ततव्या; अन्यथा कालिम्मन्येत्यतर मुम् न स्यात्। ततश्चापवादविषयेऽपि मुमा प्रवर्त्तमानेन ह्रसवस्य बाधा सम्भाव्येत। अनवकाशत्वं चातएवापवादविषयेऽपि मुम्प्रवृत्तेरिति। अथ कथमत्र खिदन्तस्य गरहणम्, यावता ज्ञापितमेतदुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नास्ति? (पु.प.पा.26) त्यत आह--`अनवययस्येत्येतदेव' इत्यादि। यद्यत्र खित्प्रतययमात्रं गृह्येत न तदन्तम्, ततोनव्ययस्येति प्रतिषेधोऽपार्थकः स्यात्। न ह्यव्ययात् परः खित् प्रतययः सम्भवति; धातोरेव तस्य विधानात्। ततश्चानर्थकत्वादनव्ययस्येत्येतन्नोक्तं स्यात्। उक्तञ्च--तस्मादेतदेवै तज्ज्ञापयति--खिदन्तस्यात्र ग्रहणमिति।।
67. अरुर्द्विषदजन्तस्य मुम्। (6.3.67)
`अरुन्तुदः' इति। अरुस्तुदतीति `विष्वरुषोस्तुदः' (3.2.35) इति खश् संयोगान्तलोपः, तुदादीत्वाच्छः, अतो गुणे (6.1.97) पररूपत्वम्। `द्विषन्तपः' इति। द्विषन्तं तापयतीति `द्विषत्परयोस्तापेः' (3.2.39) इति खच्, `खचि ह्रसवः' (6.4.94) इति ह्रस्वत्वम्।
`विद्वन्मन्यः' इति। विद्वांसमात्मानं मन्यत इति, `आत्ममाने खश्च' (3.2.83) इति खश्, `वसुस्रंसुध्वंस्वनडुहां दः' (8.2.72) इति सकारस्य दकारः, `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति तस्य नकारः। अथान्तग्रहणं किमर्थम्, यावता `येन विधस्तदन्तस्य' (1.1.72) इत्यनेन तदन्तस्यैव भविष्यति? इत्याह--`अन्तग्रहणम्' इत्यादि। कृतमजन्तकार्यं यस्य स कृताजन्तकार्यं आगमी, तस्यैवविधस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थमन्तग्रहणम्। अन्तग्रहणेन हि कार्यान्तरस्यान्तेऽवसाने मुम् कर्तवय इत्येषोऽर्थः सूच्यते। अतोऽजन्तकार्ये ह्रसवत्वे कृते पश्चान्मुम् भवति। ननु च मुमा ह्रस्वो न बाध्यत इत्यनेनैव भविष्यतति सोपपतिकोऽयमर्थः प्रतिपादितः, तत् किमर्थमेतदन्तग्रहणम्? नैतदस्ति; तेन हि निरवकाशाद् ह्रस्वशासनस्य मुमा ह्रस्वो न बाध्यत इत्येतावन्मात्रं प्रतपादितम्, न तु कृताजन्तकार्यस्य मुम् भवतीत्येषोऽर्थः, ततः परत्वान्मुमि कृत सत्यनजन्तस्यापि ह्रस्वत्वं प्रसज्येत। अत्र को दोषः? खित्यन्तहरसवभावी नास्तीति। यथा कालिम्मन्य इत्यत्र मुमि कृते सत्यनजन्तस्यापि ह्रस्वत्वं भवति, तथा वाङ्मन्य इत्यत्र स्यादिति। तस्मादन्तग्रहणं कर्त्तव्यम्।।
68. इच एकाचोऽम्प्रत्ययवच्च। (6.3.68)
अत्र यदि `प्रत्ययवच्च' इत्येतावदुच्येत, तदा गाम्मन्य इत्यत्र `औतोऽम्शसोः' (6.1.93) इत्यात्त्वं न सात्, इह च स्त्रीम्मन्य इति--अत्रापि `अमि पूर्वः' (6.1.107) इति पूर्वसवर्णः, इह च नरम्मन्य इति नृशब्दस्य `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः। सामान्यातिदेशे विशेषस्यानतिदेशाद्वचनं त्वियङुवङर्थमेव केवलं स्यात्, इयङुवङावजादौ प्रत्ययमात्रसामान्येन विधीयमानौ सामान्यातिदेशेऽपि भवत इति कृत्वा। `अम्प्रत्ययवच्च' इत्येवमुच्यमाने सत्यात्त्वादयो भवन्ति, तेषामप्यम्प्रत्यय इष्टत्वात्। एतत् सर्वं बुद्धौ कृत्वाह--`अम्प्रत्ययवच्च' इति। एतदेव विवृणोति--`द्वितीयैकवचनवच्च' इति। कथधं पुनरयमर्थो लभ्यते, यावतैकमम्ग्रहणम्, तेन चाभागमो निरदिश्यते, प्रत्ययवच्चेत्येतदनिष्टं स्यात्। अथ प्रत्ययस्तेन विशिष्यत आगमो न निर्दिष्टः स्यादित्यत आह---`अमिति हि' इत्यादि। एकमपयम्ग्रहणमारभ्यमाणं यस्मादुभयमेतत् सम्पादयति तस्मादयमर्थो लभ्यत इत्यभिप्रायः। `श्रियम्मन्यः; भ्रूवम्मन्यः' इति। `अचिं श्नुधातु' (6.4.77) इत्यादिने यङ्वङौ। `लेखाभ्रुम्मन्यः' इति। पूर्वसूत्रेण मुमागमः।
`अथेह' इत्यादि। श्रियमात्मानं ब्राह्मणकुलं मन्यत इत्युपक्रम्य=प्रस्तुत्य खश्प्रत्यये विहिते कथं भवितव्यम्--किं श्रियम्मन्यमति भवितव्यम्, उत श्रिमन्यमिति ? कथं पुनरेततपक्षद्वयं सम्भाव्यते, यत एवं पृच्छति? शब्दानां द्विधा प्रवृत्तिदर्शनात्। तथा हि--केषाञ्चित् स्वलिङ्गापरित्यागेणाप्यर्थान्तरे प्रवृत्तिर्दृष्टा, यथा भूतशब्दस्य--भूतमिथं ब्राह्मणीति; केषाञ्चित् स्वलिङ्गपितयागेनाऽपि सा दृष्टा, यथा प्रष्ठशब्दस्य--प्रष्ठीति। तत्र श्रीशब्दो ब्राह्मणकुले वर्त्तमानो यद स्वलिङ्गं न परत्यजति, तदा श्रियम्मन्यमिति भवितव्यम््; अथ स्वलिङ्गं परित्यजय नपुंसकलिङ्गं गृह्णाति तदा `स्वमोर्नपुंसकात्' (7.1.23) इत्यमो लुकि कृते `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वत्वे च श्रिमन्यमिति भवितव्यमिति--एवमिमौ द्वावपि पक्षौ सम्भाव्येते। अत उभयपक्षसम्भवे न ज्ञायते--कथं भवितव्यम्? अतस्तत्परिज्ञानार्थं प्रश्नः। `श्रिमन्यमिति भवितव्यमिति भाष्ये व्यवस्थापितम्' [`स्थितम्'--काशिका] इति। ननु च श्रीशब्दोऽयं स्त्रीलिङ्गोऽर्थान्तरेऽपि वर्तमानः स्वलिङ्गमजहदेव वर्त्तते, तथा च प्रयोगोऽपि दृश्यते--शिरो मे श्रीः, यशो मे श्रीरिति; तत् कथं श्रिमन्यमिति भाष्ये व्यवस्थापितम्? इत्याह--`तत्र' इत्यादि। यथा प्रष्ठादयः शब्दाः पुंयोगात् स्त्रियां वर्तमानाः परत्यकतस्वलिङ्गा एव वर्तन्ते--प्रष्ठी, प्रवरी, गणकीति; तथा श्रीशब्दोऽप्यत्र कुलविषये वर्तमान इति भाष्यकारस्य मतम्। अतसतन्मतेन `स्वमोर्नपुंसकात्' (7.1.23) इत्यमो लुकि कृते--श्रिमन्यमिति। ननु च नाप्राप्ते लुक्ययमारभ्यते, यथैव `सुपो धातुप्रातिपदिकयोः' (2.4.71) इतीमं लुकं बाधते, तथा `स्वमोर्नपुंसकात्' (7.1.23) इतीममपि लुकं बाधेत? अपि च लुगेकपदाश्रयत्वादन्तरङ्गो विपर्ययाच्चामागमो बहिरङ्गः, ततः `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यन्तरङ्गे लुकि कर्त्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत् कुतोऽत्र लुक्? नैष दोषः; `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.10) इति। एवमयममागमः `सुपो धातुप्रातिपदिकयोः' (2.4.71) इतीमं लुकं बाधिष्यते, न `खमोर्नपुंसकात्' (7.1.23) इतीमम्। बहिरङ्गपरिभाषाप्यत्राशक्याऽऽश्रयितुम्, इह हि दोषः स्यात्--अरुन्तुद इति। तदाश्रयणे तु संयोगान्तलोपो न स्यात्। संयोगान्तलोपे चान्तरङ्गे कर्त्तव्ये बहिरङ्गस्य मुमागमस्यासिद्धत्वेन संयोगान्ततानुपपत्तेः। तस्मात् प्राप्तनिमित्ता सतीयमिह नाश्रीयते। दोषा एव हि तस्या एवमादयः।।
69. वाचंयमपुरन्दरौ च। (6.3.69)
`वाचंयमः' इति। वाचं यच्छतीति `वचि यमो व्रते' (3.2.40) इति खच्। तत्र वाक्शब्दसयामन्तता निपात्यते। `पुरन्दरः' इति। `पूःसरवयोर्दारिसहोः' (3.2.41) इति खच्, `खचि ह्रस्वः' (6.4.94) इति ह्रस्वत्वम्। अत्रापि पूःशब्दस्यामन्तता निपात्यते। चाकारोऽनुक्तसमुच्चयार्थः। तेन `अस्तुसत्यागदसय कारे' (वा.744) इति सर्वं न वक्तव्यं भवति।।
70. कारे सत्यागदस्य। (6.3.70)
`सत्यं करोति' इत्यनेन कर्मण्यणं सूचयति। `सत्यस्य कारः' इत्यनेनापि घञम्। एवं `अगदङ्कारः' इत्यत्राप्यण्घञौ वेदितव्यौ।
`अस्तुङ्कारः' इति। भावे घञ्। अस्तुशब्दो विभक्तिप्रतिरूपको निपातोऽभ्युपगमे वर्तते। अस्त्वित्यभ्युपगमस्य करणस्तुङ्कारः।
`भक्षङ्कारः' इति। भावे घञ्।
`धेनुम्भव्या' इति। `भव्यगेय' (3.4.68) इत्यादिना कर्तरि कृत्यः। धेनुश्चासौ भव्या चेति धेनुम्भव्या।
`लोकम्पृमः' इति। `पृण प्रीणने', (धा.पा.1329) लोकं पृणतीति मूलविभुजादित्वात् कः।
`अनभ्याशमित्यः' [`अनम्याशमित्यम्'--मुद्रितः पाठः] इति। अनभ्याशं दूरमित्यं गन्तव्यमस्येत्यनभ्याशमित्यः। इन्धनमिन्धः, भावे घञ्। भ्राष्ट्रस्येन्दो `भ्राष्ट्रमिन्धः'। अग्नेरिन्धोऽग्निमिन्धः। `तिमिङ्गिलः' इति। `गृ निगरणे' (धा.पा.1410)। तिमिं गिलतीति पर्ववत् कः, `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, रपरत्वम्, `अचि विभाषा' (8.2.21) इति लत्वम्। `गिलिगिलः' इति। गिलं गिलतीति पूर्वववत् कः, इत्त्वादि च।
`गिलगिले च' इति। गिलं गिलतीति गिलगिलः। `आतश्चोपसर्गे' (3.1.136) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् कः। पूर्वत्राप्येवं कविधाने न दोषः। तिमीनां गिलगिल इत्यस्मिन्नर्थे विवक्षित इदं वक्तव्यम्। अथ तिमिं गिलतीति तिमिङ्गिलः, तिमिङ्गलं गिलतीत्येधोऽर्थो यदा विवक्ष्यते तदा पूर्वेणैव सिद्धमिति नार्थ एतेन।
`उष्ट्रङ्करणम्, भद्रङ्करणम्' इति। षष्ठीसमासौ। `पुत्रट्' इति। टकारो ङीबर्थः।
केचित्तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति' इति। तान् प्रति नेदमुपसङ्ख्यानं कर्त्तव्यम्।
`अन्यत्रापि दृश्यते' इति। अनेन शार्ङ्गरवादिषु पुत्रशब्दस्य पाठं द्रढयति।।
71. श्येनतिलस्य पाते ञे। (6.3.71)
`ञप्रत्यये परे' इति। ञः प्रत्ययो यस्मादुत्तरपदात् तत् तथोक्तम्। `श्यैनम्पाता' इति। पतनं पातः, भावे घञ्, श्येनस्य पातः श्येनपातः। `कृद्योगा च षष्ठी समस्यते' (वा.86) इति समासः, `घञः सास्यां क्रियेति ञः' (4.2.58)।।
72. रात्रेः कृति विभाषा। श्र(6.3.72)
`कृदन्त उत्तरदे' इति। कथं पुनस्तदन्तविधिर्लभ्यते, यावता ज्ञापितमेतत्--`उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तर्विधिर्नास्ति' (पु.प.पा.26) इति। रात्रिशब्दादनन्तरस्य कृतयप्रत्ययस्यासम्भवात् तदन्तविधिरविज्ञायत इति चेत्? अयुक्तमेतत्; सम्भवति हि रातरेरनन्तरः कृत्प्रत्ययः। रात्रिरिवाचरतीति `अचारे सर्वप्रातिपदिकेभ्यः क्विव् वा' (वा.187) इति क्विप्, `सनाद्यन्ता धातवः' (3.1.32) इति धातुसंज्ञा, तृच्, इट्, गुणायादेशौ--रात्रयितेति। तदेवं सम्भवत्यनन्तरे कृत्प्रत्यये तत्रैव स्यात् न तदन्ते? नैष दोषः; `अरुर्द्विषदजन्तस्य' (6.3.67) इत्यतोऽन्तग्रहणमनुवर्तते, तेन तदन्त एव कार्यं विज्ञायत इति। एवं तर्ह्यचारक्विबन्तस्यापि रात्रिशब्दस्य कृदन्त उत्तरपदे स्यात्। भवतु। अथ तु नेष्यते? व्यवस्थितविभाषाऽङ्गीकर्त्तव्या। गौणत्वाद्वा रात्रिशब्दस्य न भविष्यति। गौणत्वं पुनः प्राथमकल्पिकादर्थदपेतत्वात्, यथा--वाहीको गौरित्यत्र गोशब्दस्य। `रात्रिञ्चरः' इति। रात्रौ चरतीति `चरेष्टः' (3.2.16) इति टः, उपपदसमासः। `रात्रिमटः' इति। अटतीत्यटः, पचाद्यच्, `रात्र्यटः' [`रात्रावटः' इति मुद्रितः पाठः] इति। `सप्तमी' (2.1.40) इति योगविभागात् समासः। `अप्राप्तविभाधेयम्' इति। ननु च खिदपि कृदस्ति--रात्रिम्मन्यमिति, अत्र हि `अरुर्द्विषदजन्तस्य' (6.3.76) इति नित्यं प्राप्नोति, `रात्रिञ्चरः' इत्यादौ न केनचित् प्राप्नोति; एवञ्च प्राप्ते चाप्राप्त इयं विभाषा युक्तेत्यत आह--`खिति हि नित्यं मुम् भवति' इति। पूर्वविप्रतिषेधेनेत्यभिप्रायः। अत्र हि पूर्वविप्रतिषेध आश्रीयते, खिति पूर्वेण नित्यं मुम्भवति। एवञ्च खितोऽन्यदेव कृदन्तमस्य वचनस्यावकाशः। न च केनचित् तत्र प्राप्नोतीति युक्तमस्याप्राप्तविभाषात्वम्।।
73. नलोपो नञः। (6.3.73)
सानुबन्धकग्रहणमिह मा भूत्--`पामनपुत्रः' इति। पामान्यस्य सन्तीति `लोमादिपामादि' (5.2.100) इत्यादिना नप्रत्ययः। तदन्तस्य पुत्रशब्देन षष्ठीसमासः। अथ क्रियमाणे सानुबन्धकग्रहणे स्त्रिया अयमिति `स्त्रिपुंसाभ्याम्' (4.1.87) इत्यादिना नञ्--स्त्रैणः, स्त्रैणश्चासावर्थश्चेति स्त्रैणार्थं इत्यत्र कस्मान्न भवति? पूर्वपदभूतस्य नञो ग्रहणात्। कुत एतत्? उत्तरपदस्य सम्बन्धिशब्दत्वात्। पूर्वपदं ह्यपेक्ष्योत्तरपदं सम्भवति। अत उत्तरपदाधिकारात् पूर्वपदभूतस्यात्र नञो ग्रहणम्। अथ वा--विभाषाग्रहणमनुवर्त्तते, तस्य व्यवस्थितविभाषात्वविज्ञानान्न भविष्यति। यद्येवम्, पामनपुत्र इत्यत्राप्यत एव न भविष्यतीति नार्थः सानुबन्धकग्रहणेन? एवं तर्हि विस्पष्टार्थं सानुबन्धकग्रहणम्। न च `नस्य' इत्युच्यमाने कश्चिल्लाघवकृतो विशेषो भवति।
`अवक्षेपे तिङ्युपसंख्यानं कर्त्तव्यम्' इति। अवक्षेपः=निन्दा। उत्तरपदे नलोपो विधीयमानस्तिङन्ते न प्राप्नोति, तस्मात् तस्योपसंख्यानां कर्त्तव्यम्। ननु चास्त्येवाकारः परतिषेधवाची, `अ मा नो नाः प्रतिषेधवचनाः' इति वचनात्, ततश्च तस्यैवाक्षेपे तिङि प्रयोगो भविष्यतीति किमुपसंख्यानेन? नञोऽपि तर्ह्यवक्षेपे तिङि परतः प्रयोगः प्राप्नोति। तस्मादवक्षेपे नञोकृतनलोपस्य प्रयोगनिवुत्त्यर्थमुपसंख्यानं कर्त्तव्यमिति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--`वाचंयमपुरन्दरौ च' (6.3.69) इत्यतश्चकरोऽनुवर्त्तते, स चानुक्तसमुच्यार्थः। तेन तिङन्तेऽप्यवक्षेपे गम्यमाने नञो नलोपो भविष्यति।।
74. तस्मान्नुडचि। (6.3.74)
`नञ एव हि स्यात्' इति। अचीति सप्तमीनिर्देशात्, `तस्मिन्निति निर्दिष्टे पूर्वसय' (1.1.66) इति दतनात्। नञो नुडागमे सत्यनिष्टं रपं स्यात्। तस्माद्ग्रहणे तु सति `उभयनिर्देशे पञ्चमीनिर्देशी बलीयान्' (शाक.प.97) इत्युत्तरपदस्यैव भवति, अतो न भवत्यनिष्टप्रसङ्गः। ननु च यदि नञो नुट् स्यात्, नलोपवचनमनर्थकं स्यात्? नानर्थकम्; अब्राह्मणः, अवृषल इत्यनजादौ नकारश्रवणं माभूदित्येवमर्थत्वात्।
यदि नञो मा भूदित्येवमर्थं `तस्मात्' इत्युच्यते, तर्हि न वाच्यम्, पूर्वान्तो ह्ययं नुक् करिष्यते? इत्याह--`पूर्वान्ते हि' इति। पूर्वान्ते नुटि क्रियमाणे ङमन्तस्य पदस्य विधीयमानः `ङमो ह्रस्वादचि ङमुण् नित्यम्' (8.3.32) इति नुट् प्राप्नोति, ततश्च स एवानिष्टप्रसङ्गः। तस्मान्नुडेव कर्त्तव्यः। अस्मिस्तु क्रियमाणे नञ एव मा भूदित्येवमर्थ तस्माद्ग्रहणम्।।
75. नभ्रण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या। (6.3.75)
`नभ्राट्' इति। `भ्राजृ दीप्तौ' (धा.पा.181) अस्मात् `भ्राजभ्रास' (3.2.177) इत्यादिना क्विप्, जकारस्य `व्रश्च' (8.2.36) इत्यादिना षकारः, तस्य जशत्वम्--डकारः, तस्यापि चर्त्वम्--टकारः। `नपात्' इति। नपुंसकत्वादसत्यां सर्वनामस्थानसंज्ञायामुगिल्लक्षणो नुम् न भवति। `नवेदाः' इति। `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः। `सत्सु साधवः सत्याः' इति। अनेन `तत्र साधुः' (4.4.98) इति सच्छब्दात् प्राग्घितीयं यतं दर्शयति। `औणादिकः किप्रत्ययः' इति। `इगुपधात् कित्' (द.उ.1.48) इति किप्रत्ययः। `क्षियः' इति। `क्षिष् हिंसायाम्' (धा.पा.1506), [`क्षीष्'--धा.पा.] `क्षि निवासगत्योः' (धा.पा.1407) इति। `क्षरतेर्वा' इति। `क्षर संञ्चलने' (धा.पा.851)। नक्षत्रमिति निपात्यते। किमत्र निपात्यते? यदि क्षियः, तदा त्रप्रत्यय इकारस्यात्त्वम्; यद क्षरतेस्तदापि त्रप्रत्ययो रेफलोपश्च। `नास्मिन्नकमस्तीति नाकम्' इति। कमिति सुखमुच्यते। न कम्=दुःखम्। नास्मिन्नकमस्ति इति नाकः=स्वर्गः। रूढिशब्दा ह्यते यथाकथञ्चित् व्युत्पाद्यन्ते।।
76. एकादिश्चैकस्य चादुक्। (6.3.76)
एकादिरिति बहुव्रीहिः। `एकान्नविंशतिः' इति। पूर्वं नञो विंशतिशब्देन समासं कृत्वा ततस्तृतीयसमासः कर्त्तव्यः।
किमर्थं पुनरयं पूर्वान्त आदुक् क्रियते, न परादिरेवादुट् क्रियेत? तत्राण्यमर्थः--एकस्य चेत्येष आगमिनो दिर्देशो न कर्त्तव्यो भवति। परादौ हि क्रियमाणे नञेवागमो भवति, स च प्रकृतत्वादेव लक्ष्यते; तत्रायं वक्यार्थो भवति--`एकादिश्च नञ् प्रकृत्या भवति, आदुट् च तस्यागमो भवति' इति सिद्धमिष्टम्? इत्याह--`पूर्वान्तोऽयम्' इत्यादि। `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इत्यत्र हि `न पदान्ताट्टोरनाम्' (8.4.42) इत्यतः पदन्तादित्यनुवर्त्तते। तत्र यदि परदिः क्रियते पदान्तताऽस्य न स्यात्, ततश्च पदान्तलक्षणोऽनुनासिकविकल्पो न स्यात्, इष्यते च। तस्माद्विकल्पेन यथा स्यादित्येवमर्थं पूर्वान्त आदुक् क्रियते।
अथ किमर्थमादुक् क्रियते? आदुगेव नोच्येत, अदुक्यपि क्रियमाणेऽकः सवर्णो दीर्घत्वेन (6.1.101) सिध्यति? न सिध्यति; `अतो गुणे' (6.1.97) पररूपत्वं प्राप्नोति, तदपयकारोच्चारणसामर्थ्यान्न भविष्यति, यदि ह्यत्र पररूपत्वं स्याद्दुकमेव विदध्यात्, तर्हि सवर्णदीर्घत्वमप्यकारोच्चारणसामर्थ्यान्न स्यात्? नैतदस्ति; तथा हि--यं विधिं प्रत्युपदेशोऽनर्थकः स्यात् स विधिर्बाध्यते (व्या.प.56) यस्य तु विधेस्तदेव निमित्तं नासौ विधिर्बाध्यते। पररूपत्वं च प्रत्यकारोच्चारणमनर्थकम्, सवर्मदीर्घत्वं तु प्रति निमित्तमेव। एवं तर्ह्यदुगेवायम्। तुल्या हि संहिता।।
77. नगोऽप्रणिष्वन्यतरस्याम्। (6.3.77)
`गमेर्डप्रत्ययः' इति। `डप्रकरणे अन्यत्रापि दृश्यते' (वा.256) इति वचनात्।।
78. सहस्य सः संज्ञायाम्। (6.3.78)
`साश्वत्थम्' इति। सहाश्वत्थेनेति `तेन सहेति तुल्ययोगे' (2.2.28) इति बहुव्रीहिः। `सहयुध्वा, सहकृत्वा' इति। `दृशेः क्वनिप्' (3.2.94) इत्यनुवर्त्तमाने `राजनि युधि कृञः' (3.2.95), `सहे च' (3.2.96) इति क्वनिप्, उपपदसमासः, `सर्वनामस्थाने; (6.4.8) इति दीर्घः।
किं पुनः कारणं सादेश उदात्तो निपात्यते? इत्यत आह--`उदात्तानुदात्तवतो हि' इत्यादि। निपाता आद्युदाता भवन्ति' (फि.सू.4.80) इति सहशब्द आद्युदात्त एव, शेषमनुदात्तम्। तेनासावुदात्तानुदात्तवान्, ततश्चान्तर्यतस्तस्य स्थाने सशब्दः स्वरितः। तस्मान्मा भूदेष दोष इत्युदात्तो निपात्यते। यद्येवम्, अव्ययीभावेऽपि उदात्त एव स्वरः प्राप्नोति? इत्यत आह--`स च निपातस्वरः' इत्यादि। `यत्र' इत्यादि। बहुव्रीहौ तत्पुरुषे वा। `बहुव्रीहौ प्रकृत्या पूर्वपदम्' (6.2.1) इति सहेत्येतस्य समासान्तोदात्तत्वापवादः प्रकृतिस्वरत्वं भवति। तत्पुरुषेऽपि `तत्पुरुषे तुल्यार्थ' (6.2.2) इत्यादिना। तस्मात् तत्रैव स निपातस्वरः प्रसज्यते। अव्ययीभावे तु समासान्तोदात्तत्वापवादः प्रकृतिस्वरो न केनचिद्विहित इति ततर समासान्तोदात्तत्वेनैव भवितव्यम्। अतस्तेन बाध्यत एव। `सेष्टि, सपशृबन्धम्' इति। इष्टिरन्तो यस्य पशुबन्धोऽन्तो यस्येति, `अव्ययं विभक्ति' (2.1.6) इत्यादिना समासः, अन्तवचने। अत्र परत्वात् प्रथमसतावन्नपतस्वरः, ततः समासान्तोदात्तत्वम्। तच्च सति निपातस्वरे शिष्यत इति सतिशिष्टम्, अतस्तेन निपातस्वरो बाध्यते; सतिशिष्टस्वरस्य वलयस्त्वात्।।
79. ग्रन्थान्ताधिके च। (6.3.79)
`सकलम्' इति। कला=कालविशेषः, तत्सहचारितो ग्रन्थस्तथोच्यते। सह कलया वर्त्तत इति सकलम्। एवं `समुहूर्त्तम्' इत्येतदपि वेदितव्यम्। `ससंग्रहम्' इति। एतदुदाहरणं प्रमादादिदानीन्तनैः कुलेखकैर्लिखितम्, तत्र हि `अव्ययीभावे चाकाले' (6.3.81) इत्येवं सभावः सिद्धः? इत्याह--तत्र' इत्यादि। कथं पुननं प्राप्नोति, यावता कालमुहूर्तशब्दौ तावत् साहचर्यादत्र ग्रन्थे वर्त्तते? एवं मन्यते--प्रकरणादिना वाक्येन ग्रन्थविषयता तयोर्गम्यते। मुख्यस्तु काल एवाभिधेय इति।
`सद्रोणा खारी' इत्यादि। `तेन सह' (2.2.28) इत्यादिना बहुव्रीहिः।।
80. द्वितीये चानुपारव्ये। (6.3.80)
`द्वयो सहप्रयुक्तयोरप्रधानो यः स द्वितीयः' इति। प्रधानेतरसन्निपाते सत्यप्रधान एव द्वितीयशब्दस्य प्रयोगात्। तथा हि--स्वामिभृत्ययोः सहयुक्तयोर्भृत्य एव स्वामिनं प्रति द्वितीय उच्यते, न तु भृत्यं प्रति स्वामी। `उपाख्यायते यः स उपाख्यः' इति। `आतश्चोपसर्गे' (3.1.136) इति कः, स च भवन् `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्मणि भवति। `साग्निः कपोतः' इति। पूर्ववद्बहुव्रीहिः। अत्रागनिसहयुक्तः कपोतः, तयोर्हि साहचर्य लोके प्रसिद्धम्। तत्राग्निरप्रधानः। तथा ह्यग्निः कपोतमनुविधत्ते--यत्र हि कपोतस्तत्राग्निनाऽवश्यं भवितव्यम्, न तु यत्राग्निस्तत्र कपोतेनेति नासावग्निमनुविधत्ते, तेन कपोतस्य प्राधान्यम्। अग्न्यादयः पुनरप्रधाना एव। `अग्न्यादयः' इति। अत्रादिशब्देन पिशाचदयो गृहयन्ते। तेन हि क्वचित् प्रत्यक्षेण उपलभ्यन्ते, अपि तु कपोतादिभिरविनाभाविभिरनुमीयन्त इत्यनुपाख्या भवन्ति।।
81. अव्ययीभावे चाकाले। (6.3.81)
`अकालवाचिनि' इति। अनेन `काले' इति नेह सवरूपस्य ग्रहणम्, अपि तु कालविशेषवाचिनां पूर्वाह्णादिशब्दानामिति दर्शयति। कुत एतत पुनरवसितम्? `ग्रन्थान्ताधिके च' (6.3.79) इत्यत्र ग्रन्थान्तग्रहणात्। अनेन हि कालवाचिन्युत्तरपदे प्रतिषेधः पर्राप्नोति, स मा भूदिति। तत्र ग्रन्थान्तग्रहणं क्रियते, यदि चात्र `काले' इति स्वरूपग्रहणं स्यात्। ततस्तेनैव सकलम्, समुहूर्त्तमित्यत्र सभावः सिद्ध इति तत्र ग्न्थान्तग्रहणमनर्थकं स्यात्। `सचक्रम्' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादना यौगपद्येऽव्ययीभावः। `सधुरम्' इति। `ऋक्पूरब्धूः पथामानक्षे' (5.4.74) इत्यकारः समासान्तः।
`सहपूर्वाह्णम्' इति। तेनैव सूत्रेव साकल्येऽव्ययीभावः।।
82. वोपसर्जनस्य। (6.3.82)
यदि `उपसर्जनस्य' इत्येतत् सहशब्दसय विशेषणं स्यात् तदाऽतिप्रसङ्गः स्यात्। विशेषानुपादानादिहापि स्यात्--सहयुध्वा, सहकृत्वेति। अत्रापि सहशब्द उपसर्जनम्; `उपपदमतिङ्' (2.2.19) इति प्रथमा निर्देशात्, अप्राधान्याच्च। अनर्थकञ्च विशेषणं स्यात्; सर्वत्रैव हि समासे सहशब्दस्योपसर्जनत्वात्। समासश्चेहोत्तरपदेन सन्निधापितः, यस्मात् समासे ह्युत्तरपदं भवति, अतसतस्यैवेदं विशेषणमिति मन्यमान आह--`उपसरजनसर्वावयवः' इति। उपसर्जनं सर्वोऽवयवो यस्य स तथोक्तः; अवयवधर्मेण समुदायधर्मस्य तथा निर्देशात्, यथा--आढ्यमिदं नगरमिति। यदि कस्यचित्कश्चिदुपसरजनमवयवः कश्चिदनुपसर्जनं सोऽप्युपसर्जनमित्युच्यते, तदाऽतिप्रसङ्गदोषस्तदवस्थः स्यादिति सर्वग्रहणम्। कः पुनरसौ सर्वोपसजेनावयवः समासः? बहुव्रीहिः। ननु द्वन्द्वोऽप्युपसर्जनसर्वावयव एव, तस्यापि ग्रहणं प्राप्नोति? नैष दोषः; न हि सहपदेन तु गुणभावस्तत्रैव प्रयुज्यते। अथ वा--उभयगतिरिह शास्त्रे सम्भवतति लौकिकमप्युपसर्जनमिह गृह्यते। तेन शास्त्रीयोपसर्जनेन लौकिकेन चोपसर्जनीभूताः सर्वोऽवयव यस्य स एवोपसर्जनशब्देन विवक्षित इति विज्ञायते। न चैवंविधो द्वन्द्वः। तस्य ह्यवयवानां शास्त्रीयेणैवोपसर्जनेनोपसर्जत्वम्, न तु लौकिकेन। बहुव्रीहिस्तु लौकिकेनापि। तस्मात् तस्यैवोपसर्जनग्रहणेन ग्रहणम्। `तदवयवस्य' इति। अनेनोपसर्जनस्येत्येषाऽवयवषष्ठीति दरिशयति। `सपुत्रः' इति। पूर्ववद्बहुवरीहिः।
`सहयुष्वा, सहकृत्वा' इति। तत्पुरुषोऽयमुत्तरपदार्थप्रधानः।
अथेह कस्मान्न भवति--सहकृत्वप्रियः, प्रियसहकृत्वेऽति, भवति ह्यत्रापि सहशब्दो बहुव्रीह्यवयवः? इत्याह--`इह' इत्यादि। `वा प्रियस्य' (वा.114) इति प्रियशब्दस्य विकल्पेन पूर्वनिपतः। उत्तरपदाधिकारादिह बहुव्रीह्याश्रयणाच्च बहुव्रीहौ यदुत्तरपदं तत् परं यस्मात् सहशब्दात् तसय सभावेन भवितव्यम्। न चेह बहुव्रीहौ यदुत्तरपदं तत् सहशब्दात् परम्, शब्दान्तरेण व्यवधानादिति न भवति सभावः।।
83. प्रकृत्याशिष्यगोवत्सहलेषु। (6.3.83)
पूर्वेणातिप्रसक्तस्य सभावस्य प्रकृतिभावेन निवृत्तिः क्रियते। नेति वक्तव्ये प्रकृत्येति वचनं वैचित्र्यार्थम्।।
84. समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु। (6.3.84)
`सगर्भः, सपूथ्यः' इति। समानो गर्भः, समानं यूथमिति विगृह्य `पूर्वापरप्रथम' (2.1.58) इत्यादिना कर्मधारयः। `साधर्म्यम्' इति। बहुव्रीहेर्भावप्रत्ययः। `सजातीयः' इति। अत्रापि बहुव्रीहेरेव `जात्यन्ताच्छ बन्धुनि' (5.4.9) इति च्छः। `सस्थानीयः' इति। `स्थानान्ताद्विभाषा सस्थानेनेति चेत्' (5.4.10) इति च्छप्रत्ययः।।
85. ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु। (6.3.85)
`सज्योति' इति। समानं ज्योतिरस्येति बहुव्रीहिः। एवं सजनपदादयो वेदितव्याः। तत्पुरुषेऽपि भवितव्यमेव; विशेषानुपातानात्। `सनामा' इति। `सर्वनामस्थाने च' (6.4.8) इत्यादिना दीर्घः। `सवयाः' इति। अत्रापि `अत्वसन्तस्य' (6.4.14) इति दीर्घ।।
86. चरणे ब्रह्मचारिणि। (6.3.86)
चरणशब्दोऽयमध्ययननिमित्तमुपादाय पुरुषादिषु वर्त्तते। ब्रह्मा चरतीति ब्रहमचारी, `व्रते' (3.2.80) इति णिनिः। `सब्रह्मचारी' इति। पूर्ववत् कर्मधारयः। सब्रह्मचारीत्यस्यायमर्थोऽभिमतः--समाने ब्रह्मणि व्रतं चरतीति। एष चात्रार्थो यथोपपद्यते, तथा दर्शयितुमाह--`ब्रह्म वेदः' इत्यादि। तदध्यनार्थ यद्व्रतं तदपि ब्रह्येति। तादर्थ्यात् ताच्छब्द्यम्, यथा--इन्द्रार्था स्थूणा इन्द इति। तच्चरतीति तत् सम्पादयति, परिपालयतीत्यर्थः। केन पुनरसौ समानः? इत्याह--`समानस्तस्यैव' इत्यादि। तस्यैवेति वेदाख्यस्य ब्रह्मणः। इतिकरणो हेतौ। यत एव मुपचारेण लब्धब्रह्मव्यपदेशं व्रतं यश्चरति ब्रह्मणश्च समानत्वादयः समानः स सब्रह्मचारी। तेन सबह्मचारीत्यस्यायमर्थो भवति--समाने ब्रह्मणि व्रतचारीति। यदि ह्यसमाने ब्रह्मणि व्रतं चरेत् तदा समानत्वं न स्यात्। तथापि ब्रह्माख्यं व्रतं न चरेदेवमपि ब्रह्मचारित्वं न स्यात्। तस्माद्यः समाने ब्रह्मणि ब्रह्मचारी, सोऽवश्यं समाने ब्रह्मणि व्रतचारीति भवति। सब्रह्मचारीत्ययमस्यर्थः सम्पदयते--समाने ब्रह्मणि व्रतचारीति। अथ वा--तस्यैवेत्युपचारेण लब्धब्रह्मव्यपदेशस्य व्रतस्यात्र पक्षे परमर्शः। समाने ब्रह्मणि इत्यत्र ब्रह्मशब्दो वेदे वर्त्तते, प्रतिवेदं हि भिद्यते, तदध्ययनार्थं यद्व्रतं तत्र यः समाने वेदेऽध्येतव्ये व्रतं चरति स एव सब्रह्मचारीत्युच्यते।।
87. तीर्थे ये। (6.3.87)
`सतीर्थ्यः' इति। पूर्ववत् कर्मधारयं कृत्वा तद्धितः कर्त्तव्यः। समाने तीर्थे वसतीति सतीर्थ्यः।।
88. विभाषोदरे। (6.3.88)
89. दृग्दृशवतुषु। (6.3.89)
समानमात्मानं पश्यतीति सदृक्, उपपदसमासः, `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्। कथं पुनरिह कञ्क्विनौ, यावता त्यदादिषूपपदेषु तौ विहितौ, न च समानशब्दस्त्यदादिषु पठ्यते? इत्यत आह--`त्यदादिषु' इत्यादि।
`वृक्षे चेति वक्तव्यम्' इति। दृक्षशब्दे चोत्तरपदे समानस्य सभावो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्---पूर्वकाद्योगविभागाद् दृक्षिऽपि भविष्यतीति। अत एव तत्र (6.3.84) वृत्ति कृतोक्तम्--एवमादयः सिद्धा भवन्तीति।
केन पुनरतर दृशेः क्सप्रत्ययो विहितो येन दृक्षशब्द उत्तरपदं भवति? इत्यत आह--`दृशेः क्सप्रत्ययोऽपि' इत्यादि। `तत्रैव' इति। `त्यदादिषु' (3.2.60) इत्यादौ सूत्रे। अथ वतुग्रहणं किमर्थम्, यावता समानशब्दादुत्तरो वतुप् न सम्भवत्येव, स हि `यत्तदेतेभ्यः परिमाणे वतुप्' (5.2.39) इति यदादिभ्य एव विहतः? इत्याह--`वतुब्ग्रहणमुत्तरार्थम्' इति।।
90. इदंकिमोरीश्की। (6.3.90)
शकारः सर्वादेशार्थः। इदमिव पश्यतीति `ईदृक् इदृशः'। पूर्ववत् कञ्किवनौ। किमिव यश्यतीति `कीदृक् कीदृशः'। व्युत्पत्तिमात्रार्थो विग्रहः कृतः। नात्रावयवार्थो विग्रहवाक्योपदर्शितो विद्यते। तथा हीदृग् ईदृश इत्यनेन तुल्य इत्येषोऽर्थः समुदायादेव प्रतीयते। कीदृक्, कीदृश इत्यत्रापि केन तुल्य इति। किं परिमाणमस्येति `कयान'। इदं परिमाणमस्येति `इयान्'। `किमिदंभ्यां वो घः' (5.2.40) इति वतुपो घत्वम्, तस्येयादेशे कृते `यस्येति च' (6.4.148) इतीकारलोपः। ननु च वतुपो वकारस्येयादेशोऽनेन विधीयते, न तु वतुप् किमिदंभ्यां विधीयते? एवं मन्यते--वतुबस्मादादेशवचनाद्विज्ञायते, न ह्यन्यद्वतुपो लक्षणमस्ति। न चासतो वतुपो घादेशः शक्यो विज्ञातुमिति।।
91. आ सर्वनाम्नः। (6.3.91)
`दृक्षे चेति वक्तव्यम्' इति। दृक्षशब्दे परतः सर्वनाम्न आत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--उत्तरसूत्रादिह सिंहावलोकितन्यायेन चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः। तेन दृक्षशब्दे चोत्तरपदे भविष्यतीति। अथ किमर्थो दीर्घो विधीयते, न, ह्रस्व एव विधीयताम्, ह्रस्वेऽप्यादेशे सवर्णदीर्घत्वेन सिध्यति? न; यस्मात् `अतो गुणे' (6.1.97) पररूपत्वं प्राप्नोति। न च शक्यते वक्तुम्--अकारोच्चारणसामर्थान्न भविष्यतति; अकारविधेर्दकारनिवर्त्तनार्थत्वात् लोपविधौ हि गौरवं स्यात्। किञ्च--त्वादृक्, त्वादृश इत्यत्र दीर्घश्रवणं न स्यात्। तस्माद्दीर्घ एव विधेयः।।
92. विष्पग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये। (6.3.92)
`विष्वद्र्यङ्' इति। विष्वगञ्चतीति ऋत्विगादिसूत्रेण (3.2.59) क्विन्, `उगिदचाम्' (7.1.70) इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ, `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्।
`अद्रिसध्र्योरन्तोदात्तनिपातम्' इत्यादि। विष्वद्र्यङित्यत्रानेनाद्र्यादेशे कृते सध्य्रङित्यत्र सहस्य सध्य्रादे देशे च `गितकारकोपपदात् कृत्' (6.2.139) इति प्रकृतिस्वरेणोत्तरपदसर्यान्तोदात्तत्वं प्राप्नोति, स्वरितत्वं चेष्यते। तस्मादुत्तरपदान्तोदात्ततवविधानार्थमिहाद्रिसध्य्रारेन्तोदात्तत्वं निपात्यते। तेन शेषं भवत्यनुदात्तम्। तत्र यणादेशे कृते सति `उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (8.2.4) इति स्वरितत्वमुत्तरपदस्य सिद्धम्।
अथ वप्रतययगरहणं किमर्थम्, यावता `अञ्चतौ' इत्युक्ते केवल एवाञ्चतावुत्तरपदे कार्येण भवितव्यम्। वप्रत्ययान्त एवाञ्चतिः केवलमुत्तरपदं भवति। तत्रैतद्वक्तव्यमञ्चतावित्याह--`वप्रत्ययग्रहणम्' इत्यादि। अन्यत्र धातुग्रहणे, धात्वादेः प्रकृतिपरतययसमुदायस्य प्रतिपत्तिः=प्रतीतिर्यथा स्यादित्येवमर्थं वप्रत्ययग्रहणम्। अनेन ह्ययमर्थो विज्ञाप्यते--इतोऽन्यत्र धातुगरहणे सति न केवलं धातुरेव गृह्यते, अपि तु धात्वादिः शब्द इति। तेनायस्कृतम्, अयस्कार इत्यत्र `अतः कृकमि' (8.3.46) इत्यादिना विसरजनीयस्य सकारः सिद्धो भवति। यदि पुनरयमर्थो न विज्ञाप्येत, तदा करोतेरेव केवलस्य ग्रहणं स्यात्; ततो यत्र करोतेः केवलस्य प्रत्ययरहितस्य प्रयोगस्तत्रैव स्यात्--अयस्कृदिति। अत्र तुगागमः करोतेरेव भकतत्वात् तद्ग्रहणेनैव गृह्यत इति करोतेरेव केवलस्य प्रयोगः। `अश्वाची' इति। अश्वमञ्चति इति क्विन्, `अञ्चतेश्चोपसंख्यानम्' (वा.336) इति ङीप्, `अचः' (6.4.138) इत्यकारलोपः `चौ' (6.3.138) इति दीर्घः। `विष्वग्युक्' इति। विष्वगयुनक्तीति `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्। `विष्वगञ्चनम्' इति। `ल्युट् च' (3.3.115) इति ल्युट्।
`छन्दसि' इत्यादि। छन्दसि विषये स्त्रियामभिधेयायां बहुलमद्र्यादेशे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`विभाषोदरे' (6.3.88) इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। इह वा चकारोऽनुक्तसमुच्चयार्थः, तेन च्छन्दसि विषये विष्वगावेरन्यत्रापि क्वचिदद्र्यादेशो भवतीति, क्वचिन्न भवत्येव। ननु च सर्वनाम्नोऽनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि सर्वनाम्नोऽनुवृत्तिर्भविष्यति। `विश्वाची' इत्यादि। विश्वघृतकिंशब्देषूपपदेष्वञ्चतेः पूर्ववत् क्विन्, ङीबादिकार्यञ्च।।
93. समः समि। (6.3.93)
94. तिरसस्तिर्यलोपे। (6.3.94)
95. सहस्य सध्रिः। (6.3.95)
`सध्रीचा' इति। पूर्ववदकारलोपः, दीर्घत्वं च।।
96. सध मादस्थयोश्छन्दसि। (6.3.96)
`सधमादः' इति। सह मादेन वर्त्तत इति `तेन सह' (2.2.28) इत्यादिना बहुव्रीहिः, मादशब्दो घञन्तः। ननु च `मदोऽनुपसर्गे' (3.3.67) इत्यपा भवितव्यम्? नैष दोषः; तत्र हि `स्वनहसोर्वा' (3.3.62) इत्यतो वाग्रहणमनुवर्तते, सां च व्यवस्थितविभाषा। तेन छन्दसि घञेव भविष्यति। अथ एव निर्देशाद्वा। `सधस्थः' [`सधस्थाः'--काशिका मुद्रितः पाठः, `सधस्था'--(काशिका) सं.पं. मुद्रितपाठः] इति। सह तिष्ठीति `सुपि स्थः' (3.2.4) इति कः।।
97. द्व्यन्तरुपसर्गेभ्योऽप ईत्। (6.3.97)
`द्वीपम्' इति। द्विर्गता आपोऽस्मिन्नित्यस्वपदविग्रहो बहुव्रीहिः। यथा--शोभनं मुखमस्याः सुमुखीति। `ऋक्पूरब्धूः' (5.4.74) इत्यादिनाऽकारः समासान्तः। अन्तर्गता आपोऽस्मिन्नित्यन्तरीपम्। सङ्गता विगता निर्गता आपोऽस्मिन्निति सपीपम्, वीपम्, नीपम्।
`वक्तव्यम्' इति। व्याख्येयमित्यर्थः। उत्तरत्रापि वक्तवयशब्दस्यायमेवार्थः। व्याख्यानं त्विहापि पूर्ववत् `विभाषोदरे' इत्यतो विभाषाग्रहणानुवृत्तेर्व्यवस्थितविभाषात्वाल्लभ्यते। अन्यदपि चत्र व्याख्यानं करिष्यामः।
`अप्शब्दं प्रति' इत्यादि। इह यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति अप्शब्दसय तु क्रियात्वं न सम्भवति; द्रव्यवचित्वात्। तस्मात् तं प्रति नास्ति कस्यचिदुपसर्गसंज्ञेति। क्रियते चेदमुपसर्गग्रहणम्। तत्सामर्थ्याद्यत्र प्रादेरन्यत्रोपसरगतवं दृष्टं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते। यद्येवम्, अन्तशब्दस्य ग्रहणं न कर्त्तव्यम्, यथैव हि प्रादय उपसर्गग्रहणेन लक्ष्यन्ते तथान्तःशब्दोऽपि, तस्याङ्कविधिणत्वेपूपसर्गत्वं दृष्टमेव? एवं तर्ह्यन्तर्ग्रहणेन ज्ञाप्यते--उपसर्गग्रहणोपलक्षितमीत्त्वमनित्यमिति। तेन समापम्, परापम्, प्रापमिति सिद्धं भवति।।
98. ऊदनोर्देशे। (6.3.98)
`अनूपः' इति। अनुगता आपोऽस्मिन्निति विग्रहः, पूर्ववत् समासान्तः, सवर्णदीर्घः। अथ दीर्घोच्चारणं किमर्थम्, यावता ह्रस्वोऽपि विहितेऽकः सवर्णे दीर्घत्वेनानूप इति सिध्यत्येव? अत आह--`दीर्घोच्चारणम्' इत्यादि। असति दीर्घोच्चारणे संहितायामेव दीर्घत्वं स्यात्, नावग्रहे। तस्मादवग्रहेऽपि यथा स्यादित्येवमर्थ दीर्घोच्चारणम्।।
99. अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सकोतिकारकरागच्छेषु। (6.3.99)
`अन्याशीरन्यदाशीः' इत्यादि। विग्रहविशेषेण सर्वत्र विशेषणसमासं दर्शयति `अन्येनास्थितोऽन्यदस्थितः' इति। `कर्तृकरणे कृता बहुलम्' (2.1.32) इति समासः।
`दृगागमोऽविशेषेण' इत्यादि। कारकशब्दे छप्रत्यये परतोऽविशेषेण सामान्येन दुगागमः कर्त्तव्यः। अन्येष्वाशीरादिषु सप्तसूत्तरपदेषु षष्ठीतृतीयास्थयोर्नेष्टो नाभिमतः।
किं पुनरस्यार्थस्य लिङ्गं यतोऽयमवसीयते? इत्यत आह--`अस्य च' इत्यादि। अषष्ठीतृतीयास्थस्येत्येवं सिद्धे द्विर्नञुपादानमस्य प्रतिषेधस्यानित्यत्वे लिङ्गम्। तेन क्वचित् षष्ठीतृतीयास्थस्यापि समासे दुगागमो भवत्येव।।
100. अर्थे विभाषा। (6.3.100)
`अन्यार्थः' इति। अन्यस्मै इदमिति `चतुर्थी तदर्थार्थ' (2.1.36) इत्यादिना समासः।।
101. कोः कत्तत्पुरुषेचि। (6.3.101)
`कदजः' इति। कुत्सितोऽज इति `कुगतिप्रादयः' (2.2.18) इति समासः कूष्ट्रो राजेति बहुव्रीहिः।
`कद्भावे' इत्यादि। अजादावत्तरपदे कद्भाव उच्यमानस्त्रिशब्द उत्तरपदे न प्राप्नोति। तस्मात् त्रिशब्दादुत्तरपदात् पूर्वो यः कुशब्दः, तस्य कद्भावस्योपसंख्यानम्=प्रतिपादनं कर्त्तव्यम्। तत्रेदं प्रतिपादनम्--उत्तरसूत्रे चकारः क्रियते, सचानुक्तसमुच्चयार्थः। तेन त्रिशपब्देऽप्युत्तरपदे परतः कद्भावो भविष्यतीति।।
102. रथवदयोश्च। (6.3.102)
अनजाद्यर्थोऽयं योगः। एवमुत्तरत्रापि।।
103. तृणे च जातौ। (6.3.103)
104. का पथ्यक्षयोः। (6.3.104)
अनीषदर्थ आरम्भः। `कापथः' इति। कुत्सितः पन्थाः कापथः, `ऋक्पूः' (5.4.74) इत्यादिनाकारः समासान्तः। `काक्षः' इति। कुत्सितोऽक्ष इति तत्पुरुषः। अथ वा--कुत्सिते अक्षिणी अस्येति बहुव्रीहिः, `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्' (5.4.113) इति षच् समासान्तः।।
105. ईषदर्थे च। (6.3.105)
ईषन्मधुरं `कामधुरम्' इति। `कुगतिप्रादयः' (2.2.18) इति समासः। `कुशब्दः पापार्थः' इत्येतत्तु प्रायिकमुपाधिवचनमित्युक्तम्। तत्र प्रायिकत्वे चैतदेव कादेशवचनं ज्ञापकम्। `काम्लम्' इति। ननु चात्र `कोः कत्तत्पुषषे' (6.3.101) इति कदादेशेन भवितव्यम्? इत्यत आह--`अजादावपि' इत्यादि।।
106. विभाषा पुरुषे। (6.3.106)
`अप्राप्ते विभाषेऽयम्' इति। ईषदर्थस्य निवृत्तत्वात्। ननु चानीषदर्थे केनचिदप्राप्ते, ईषदर्थे पूर्वेण प्राप्त इत्युभयत्र विभाषेऽयं युक्तेत्याह--`ईषदर्थे तु पूर्वविप्रतिषेधेन' इत्यादि। `ईषदर्थे च' (6.3.105) इत्यस्यावकाश ईषन्मधुरं कामधुम्, `विभाषा पुरुषे' इत्यस्यावकाशः--कुत्सितः पुरुषः कापुरुष इति; इह चोभयं प्राप्नोति--ईषत्पुरुषः कापुरुष इति। अत्रेषदर्थ इत्यनेनैव भवति पूर्वविपरतिषेधेन।।
107. कवञ्चोष्णे। (6.3.107)
108. पथि च च्छन्दसि। (6.3.108)
109. पृषोदरादीनि यथोपदिष्टम्। (6.3.109)
`आदिशब्दः प्रकारवचनः' इति। यद्यत्रादिशब्दो व्यवस्थावचन आश्रीयेत, ततो, यान्येव गणे पठ्यन्ते तेषामेव साधुत्वं स्यात्, नान्येषाम्। प्रकारवचन आदिशब्द आश्रीयमाणे सत्यपरिपठितानामपिमपि साधुभावो भवतीत्येतत् सर्व चेतसि कृत्वाऽऽविशब्दोऽयं प्रकारवचन इति दर्शयन्नाह--`पृषोदरप्रकाराणि' इत्यादि। प्रकारः=सादृश्यम्। अतस्तद्दर्शयितुमाह--`येषु' इत्यादि। यथा पृषोदरशब्दे लोपकार्यं शास्त्रेणाविहितं दृश्यते, तथान्यत्रापि लोपादिकार्यं शास्त्रेणाविहितं दृश्यते। तानि च पृषोदरप्रकाराणि भवन्ति। `यथोपदिष्टम्' इति। `यथाऽसादृश्यते' (2.1.7) इति वीपसायामव्ययीभावः। अत एवास्य विवरणं करोति--`यानि यान्युपदिष्टानि' इत्यादि। दिशिस्त्रोच्चारणक्रियः। उपदिष्टान्युच्चारितानीत्तयर्थः। कैः पुनरुपदिष्टानि? शिष्टैः। शिष्टाः पुनराचारनिवासादिना वेदितव्याः। `तानि तथैवानुमन्तव्यानि' इति। यथा तैः प्रयुक्तानि तथैव तानि साधुत्वेनानुमन्तव्यानीत्यर्थः। यदि शिष्टाः शब्देषु प्रमाणं तद किमनयाऽष्टाध्याय्या, शिष्टवचनादेव हि शब्दानां साधुत्वं विज्ञास्यते? उच्यते; शिष्टपरिज्ञानार्थाऽष्टाध्यायी। अष्टाध्यायीमधीयानोऽनधीताष्टाध्यायीकमपि येऽस्यामष्टाध्याय्यां विहिताः शब्दास्तान् प्रयञ्जानं पश्यन्नेवमध्यवस्यति--शिष्टोऽयमिति, न चासावष्टाध्यायीमधीतवान्, अथ च तस्यां ये व्युत्पादिताः शब्दास्तान् प्रयुङ्क्ते, नूनमयमन्यानपि जानाति---इत्येषा शिष्टपरिज्ञानार्थाऽष्टाध्यायी।
`एवमन्येऽपि' इत्यादि। कप्यश्वमहीशब्देपूपपदेषु `सुपि स्थः' (3.2.4) इति तिष्ठतेः कप्रत्ययः। सकारस्य तकारः क्रियते। महीशब्दस्यापि ह्रस्वत्वम्।
`दक्षिणतारम्' इति। षष्ठीसमासः। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः' (वा.104) इति पुंवद्भावः। अथ वा--दक्षिणशब्दस्यायं तीरशब्देन षष्ठीसमासः।
`वाचोवादे' इति। वाक्यशब्दस्य वादशब्द उत्तरपदे परतो डकारादेशो भवति। उत्तरपदस्य च वादशब्दस्य वल इत्ययमादेशो भवतीञि प्रत्यये परत इति। वाचं वदतीति `कर्मण्यण्' (3.2.1)--वाग्वाद, तस्यापत्यम् ' अत इञ्' (4.1.95) वाङ्वलिः।
`षष उत्वम्' इत्यादि। षष्शब्दस्योत्वं भवति दतृ, दश-इत्येतयोरुत्तरपदयोः, उत्तरपदादेः ष्टुत्वं च। षङ् दन्ता यस्येति बहुव्रीहिः। `वयस दन्तस्य दतृ' (5.4.141) इति दत्रादेशः--षोडन्। षट् च दश चेति द्वन्द्वः--षोडश।
`धासु वा' इति। उत्वत्यैवायं विकल्पः। ष्टुत्वं तु नित्यमेव भवति। `षोढा, षङ्धा' इति। `अधिकरणविचाले च' (5.3.43) इति धाप्रत्ययः। अथ किमर्थं धास्विति बहुवचननिर्देशः क्रियते? इत्याह--`बहुवचननिर्देशः' इत्यादि। `षङ्धा' इति। धाञो धेटो वा स्त्रियां `आतोऽनुपसर्गे कः' (3.2.3) इति कप्रत्ययः।
`दाश्यते' इतिष `दाश्रृ दाने' (धा.पा.882), नाश्यते' इति, `णश अदर्शने' (धा.पा.1194), `दभ्यते' इति, `दम्भ [`दम्भु दम्भने' (1270) इति धातु पाठः] दम्भे--एतेभ्यः कर्मणि घञ्। दुर्शशब्दस्य दाशशब्दादिभिः प्रादिसमासे--दूडाशः दूणाशः, दूडभः। `दम्भेरनुनासिकलोपः' इत्यादि। यदेतत् `दाशनाशदभध्येषु' (काचवृ.6.3.109) इत्यत्र कृतानुनासिकलोपस्य दम्भेरुच्चारणं तन्निपातनम्, तत एवात्र दम्भेरनुनासिलोपो भवति।
पीद उपवसनं येषां ते `पीवोपवसनाः' एवं `पयोपवसनाः'। उभयत्र सकारलोपः।
`वर्णागमः' इति। निरुक्तशास्त्रे ये शब्दा व्युत्पाद्यन्ते तेषां पूषोदरादित्वादेव साधुत्वमिष्यति इतीमं श्लोकमाह--`वर्णागमः' इत्यादि। अपूर्वस्य वर्णस्यागमो वर्णागमः--नकारादेरपूर्वस्य वर्णस्य प्राप्तिः, यथा--को जीर्यते कुञ्जर इति। अत्र कुशब्दसय नुगागमः क्रियते। वर्णविपर्ययः--वर्णस्थानव्यत्यासः, यथा `हिसि हिंसायाम्' (धा.पा.1456), हिनस्तीति सिंह इत्यत्र पचाद्यचि कृते हकारसकारयोः स्थानव्यत्यासः। वर्णविकारः--वर्णस्य रूपान्तरापत्तिः, यथा--षोडन्निति। अत्र ,खारस्योत्वरूपापत्तिः। दकारस्य च डकाररूपापत्तिः। वर्णनाशः--वर्णस्य लोपः, यथा पृषोदर इति। अत्र तकारस्य लोपः। अर्थातिशयः=अर्थविशेषः, प्रसिद्धादर्थादर्थान्तरम्, तेन धातोर्योगः=सम्बनधः, यथा मह्यां रोतीति मयूरः। अत्र रौते रमणेनार्थेनातिशयेन योगः। एतत् पञ्चविधं पञ्चप्रकारं निरुक्तम्, निश्चयेनोच्यतेऽर्थोऽनेनेति निरुक्तम्।।
110. संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ। (6.3.110)
`द्व्योरह्नोर्भवः' इति। भवार्थविवक्षायां `तद्धितार्थ' (2.1.51) इति समासः, ततः `कालाट्ठञ्' (4.3.11) इति ठञ्, तस्य `द्विगोर्लृगनपत्ये' (4.1.88) इति लुक्, `राजाहःसखिभ्यष्टच्' (5.4.91) इति टच् समासान्तः, `अह्नोऽह्न एतेब्यः' (5.4.88) इत्यह्नादेशः। `द्र्यह्नि' इति। विभाषा ङिश्योः' (6.4.136) इत्यकारलोपः पाक्षिकः। `द्व्यह्नः' इति। `आद् गुणः' (6.1.87)। `व्यह्नः' इति प्रादिसमासः। शेषं पूर्ववत्। `सायाह्नः' इति। एकदेशिसमासोऽयम्। तत्रेदं चोद्यमाशङ्क्यते--ननु च `पूर्वापराधरोत्तरम्' (2.2.1) इत्यादिना समासो विहितः, न च सायंशब्दस्तत्र पठ्यते, तत्कथमिह सायंशब्दसायहःशब्देन समासः सम्भवतीति? एतन्निराकर्त्तुमाह--`एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि' इत्यादि। तत्पुरुषसमासे `अह्नोऽह्न एतेभ्यः' (5.4.88) इत्यनेनाह्नादेशो विधीयते, `एतेभ्यः' इत्यनेन च `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः? (5.4.86) इति, तथा `अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः' (5.4.87) इति प्रक्रान्ताः संख्याव्ययादयः प्रत्यवमृश्यन्ते। तत्र यदि पूर्वादय एवैकदेशिना समस्येरन्, तदा न सायंशब्दः `एतेभ्यः' इत्यनेन प्रत्यवमृश्येत; तस्य संख्यादिष्वपरिपठितत्वात्। ततश्च सायंशब्दात् परस्याह्रादेशो न स्यात्। एवञ्च सायम्पूर्वस्याह्नशब्दस्याभावात् तस्येह ग्रहणं न क्रियेत, कृतञ्च, तस्मादेतदेव सायम्पूर्वस्याह्नशब्दस्य ग्रहणं ज्ञापयति--पूर्वादिभ्योऽन्यस्याप्येकदेशिसमासो भवतीति। तेन `मध्यमह्नो मध्याह्नः' इति सिद्धं भवति। `पूर्वाह्णे' इति। `अह्नोऽदन्तात्' (8.4.7) इति णत्वम्। `संख्याविसायेभ्यः' इत्येव वक्तव्ये पूर्वशब्दस्याधिकस्य ग्रहणं तदधिककार्यवधानसूचनार्थम्। तेन सायाह्न इत्यत्र मकारलोपः सिद्धो भवति।।
111. ढ्रलोपे पूर्वस्य दीर्घोऽणः। (6.3.111)
`ढ्रलोपे' इति तत्पुरुषोऽयं वा स्यात्, बहुव्रीहिर्वा? तत्र यदि तत्पुरुषः स्यात्--ढ्रयोर्लोपो ढ्रलोप इति, तदाणः पूर्वत्वं नोपपद्यते; लोपस्याभावरूपत्वात्, अभावे च पौर्वापर्यासम्भवात्। अथापि स्थानिद्वारकं पोर्वापर्यमाश्रित्य पूर्वत्वमुच्यते, करणीयः--इत्यत्रापयनीयरो रेफस्य लोपे कृते पूर्वस्य दीर्घत्वं स्यादितीमं दोषं दृष्ट्वा बहुव्रीहिरयमिति दर्शयन्नाह--`ढकाररेफयोर्लोपो यस्मिन्' इत्यादि। गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिर्भवत्येव, यथा--काण्ठेकाल इति। `लीढम्' इति। `लिह आस्वादने', (धा.पा.1066) `निष्ठा, `हो ढः' (8.2.31) `झषस्तथोर्दोऽधः' (8.2.40) ष्टुना ष्टुः' (8.4.41) `ढोढे लोपः' (8.3.13)--इत्येतो विधयः कर्त्तव्याः। `मीढम्' इति। `मिह सेचने' (धा.पा.992)। `उपगूढम्' इति। `गुहू संवरणे (धा.पा.896)। `मूढः' इति। `मुह वैचित्ये' (धा.पा.1198)। `नीरक्तम्' इति। `कुगतिप्रादयः' (2.2.18) इति समासः, `रो रि' (8.3.14) इति रेफस्य लोपः।
अथ पूर्वग्रहणं किमर्थम्, यावता `ढ्रलोपे' इति। सप्तम्या निर्देशः, तत्रान्तरेणापि पूर्वग्रहं `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति पूर्वस्यैव भविष्यति? इत्यत आह--`पूर्वग्रहणम्' इत्यादि। असति पूर्वग्रहणे, उत्तरपदाधिकारादुत्तरपद एव स्यात्--`नीरक्तम्' इत्यादौ, अनुत्तरपदे न स्यात्--`लीढम्' इत्यादौ। यद्यपि ढलोपस्योत्तरपदेऽसम्भवादनुत्तरपदेऽपि वचनप्रामण्याद्दीर्घत्वं स्यात्, रलोपे त्वनुत्तरपदे न प्राप्नोति; उत्तरपदे रलोपस्य सम्भवात्। तस्मादनुत्तरपदेऽपि पूर्वमात्रस्याणो दीर्घो यथा स्यादिति पूर्वग्रहणम्। `आतृढम्' इति। `तृहू तृन्हू हिंसार्थौ' (धा.पा.1348,1350)। `आदृढम्' इति क्वचित् पाठः। `दृह दृहि दृहि वृद्धौ' (धा.पा.733-736) इत्यस्य निष्ठायां किलेदं रूपम्, एतत्तु नोपपद्यते; दृहेः सेट्त्वात् तस्येटा भवितव्यम्। अथापि कथञ्चिन्न स्यात्, एवमपि `दादेर्धातोर्घः' (8.2.32) इति घत्वेन भवितव्यम्। स्थूलबलवद्विवक्षायां `दृढः स्थूलबलयोः' (7.2.20) इति निर्देशादुभयं न भविष्यतीति चेत्? दीर्घत्वमप्यत एव तर्हि न स्यात्। केचिदत्रानित्यत्वादागमशासनस्याभावमिटो वर्णयन्ति। `वा द्रुह' (8.2.33) इत्यादौ सूत्रे `वा' इति योगविभागात् पक्षे घत्वस्याभावः। `आवृढम्' इति। वृहू उद्यमनs (धा.पा.1347)।।
112. सहिवहोरोदवर्णस्य। (6.3.112)
`ऊढः, ऊढवान्' इति। यजादित्वात् सम्प्रसारणम्। `सम्प्रसारणाच्च' (6.1.108) इति परपर्वत्वम्, दीर्घत्वं च। तत्रेदानीमसत्यवर्णग्रहणे ऊकारस्याप्योत्त्वं स्यात्। ननु च सम्परसारणादिभ्यः परत्वादोत्त्वेन भवितव्यम्, तथा च भाव्ये `उभयोर्नित्ययोः परत्वादोत्त्वेन भवितव्यम्, आत्वे कृते सम्प्रसारणम्, सम्प्रसारणे कृते सम्परसारणपरपूर्वत्वम्, कृतकार्यत्वात् पुनरोत्त्वं न भविष्यति' इति। तस्माद्भवितव्यमेवौत्त्वेन, तस्मिन् सति पश्चा सम्प्रसारणादिभिः। न चैवं किञ्चिदनिष्टमापद्यत इति नार्थो वर्णग्रहणेन। एवं तर्ह्यवर्णग्रहणं कुर्वन्नेतज्ज्ञापयति--क्वचित् `सम्प्रसारणं तदाश्रयञ्च कार्यं बलीयो भवतीति। तेन यदुक्तम्--`सम्प्रसारणं सम्प्रसारणाश्रयञ्च कार्यं बलीयो भवति' (पु.प.वृ.103) इति तदुपपन्नं भवति।
`वर्णग्रहणं किम्' इति। `ओदस्य' इतावत्यपि सति सोढा, सोढुमित्यादि सिध्यत्येवेत्यभिप्रायः। `कृतायामपि' इत्यादि। उत्पूर्वाद्वहेर्लृङि च्लिः, `च्लेः सिच्' (3.1.44)तसस्ताम्, थसस्तम् अडागमः, ढत्वादेरसिद्धत्वात् ततः पूर्वम् `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, ततो ढत्वादि। अथेदानीमसति वर्णग्रहणे मात्रिकस्याकारस्योच्यमानमोत्त्वं दीर्घस्य न स्यात्, वर्णग्रहणाद्वर्णमात्रस्य भवतीति सिद्धम्--उदवोढाम्, उदवोढमिति? ननु च `अणुदित् सवर्णस्य चाप्रत्ययः' (1.1.69) इत्यकारो गृह्यमाण आकारमपि ग्राहयिष्यति, तत् किं वर्णग्रहणेन? इत्यत आह--`तादपि परः' इत्यादि। `तपरस्तत्कालस्य' (1.1.70) इत्यत्र तादपि परस्तपर इत्ययमपि समास आश्रितः खट्वैडका, खट्वैतिकायनः--इत्येवमादिषु त्रिमात्रिके चतुर्मात्रिके वर्त्तमानस्यैकारस्य वृद्धिसंज्ञा मा भूदित्येवमर्थम्। तत्रासति वर्णग्रहणेऽकरस्य तपरत्वादाकारो न गृह्येत् ततश्च तस्योत्त्वं न स्यात्। तस्मादवर्णमात्रस्य यथा स्यादित्येवमर्थ वर्णग्रहणं कर्त्तवयम्। तादपि परस्तपरः--इत्यस्य च समासस्यैतदेव वर्णग्रहणं ज्ञापकं वेदितव्यम्।।
113. साढ्यै सढ्वा साढेति निगमे। (6.3.113)
साढ्वेत्यादौ ओत्त्वाभावो निपात्यते। दीर्घस्तु `ढ्रलोपे' (6.3.111) इत्यादिनैव सिद्धः।।
114. संहितायाम्। (6.3.114)
`उत्तरपदे' (6.3.1) इति वर्त्तते उत्तरपदं च समासे भवति, तत्र चान्तरेणापि वचनं नित्यमेव संहितया भवितव्यम्, तस्मादुत्तरपदे परतो वक्ष्यमाणानां यत् कार्यं न तदर्थताधिकारस्योपपद्यत इति यदनुत्तरपदे कार्यं तदर्थमेवायमधिकारः। तेन यैर्योगैरुत्तरपदे कार्यं विधीयते तानुल्लङ्घ्य तेन योगेनानुत्तरपदे कार्यं विधीयते तत्रास्योपयोगं दर्शयन्नाह--`वक्ष्यति द्व्यचोऽतस्तिङः' इत्यादि। `विद्मा हि त्वा' इत्यादि। विदेर्लोटि मसः `स उत्तमस्य' (3.4.98) इति सकारलोपः, अदादित्वाच्छापो लुक्।।
115. कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रवस्वस्तिकस्य। (6.3.115)
लक्ष्यतेऽनेन स्वामिविशेषस्य सम्बन्ध इति लक्षणम्=चिह्नम्। `दात्राकर्णः' इति। दात्रमिव दात्रम्, सादृश्यात्तदाकारं चिह्नमुच्यते। दात्रं कर्णे यस्य स दात्राकर्णः। एवमुत्तरत्रापि बहुव्रीहिरेव वेदितव्यः। द्वौ गुणौ यस्य स द्विगुणः। तदाकरमपि चिह्नं द्विगुणम्। गुणशब्दोऽयं बन्धनवचनः। द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम्, `तत्पुरुषस्याङ्गुलेः' (5.4.86) इत्यादिना च समासान्तः, द्व्यङ्गुलाकारमपि चिह्नं द्व्यङ्गुलम्। `तदिह लक्षणं गृह्यते' इति। कुत एतत्? लक्षणग्रहणाद्यदिह सामान्येन येन केनचिल्लक्ष्यते तललक्षणं गृह्येत चिह्नस्येत्येवं ब्रूयात्, लघु ह्येवं सूत्रं भवति। तस्माच्चिह्नग्रहणे कर्त्तवये यल्लक्षणग्रहणं कृतं तेन लक्षणविशेषोऽत्र ग्राह्यः, न तु लक्षणमात्रमित्यस्यार्थस्य प्रतिपादनं कृतमिति लक्ष्यते। तथा चोक्तम्--इङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेन वेहा चार्याणामभिप्राया लक्षन्त इति। ननु च लक्षणग्रहणेन लक्षणविशेषोऽत्राभिमतः, न तु लक्षणमात्रमित्येतावन्मात्रं गम्यते, स तु विशेषो न वृत्तिकारेणोपदर्शितः कुतोऽवसेयः? आचार्याणं स्वीकरणात्। `शोभनकर्णः' इति। यद्यप्यनेनापि लक्ष्यते, न त्वेवंविधस्य लक्षणस्येह ग्रहणम्। नापि शोभनत्वं लोके लक्षणत्वेन प्रतीयत इति भवत्येतत्प्रत्युदाहरणम्।।
116. नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ। (6.3.116)
`णह बन्धने' (धा.पा.1166)। उपनह्यत इति `उपानत्' सम्पदादित्वात् क्विप् `नहो धः' (8.2.34) इति धत्वम्, ततो जश्त्वम्, चर्त्वञ्च। परिणह्यतीति `परिणत्'। `ुपसर्गादसमासे' (8.4.14) इत्यादिना णत्वम्। निवर्त्तत इति `नीवृत्'। `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विप्। एवमुत्तरत्रापि क्विबेव वेदितव्यः। `वृषु सेचने' (धा.पा.706) प्रवर्षतीति `प्रावृट्'। षकारस्य जश्त्वम्--डकारः, तस्य चर्त्वेटकारः। `व्यध ताडने' (धा.पा.1181), मर्माणि विध्यतीति `मर्मावित्' ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्। `रुच दीप्तौ' [`रुच दीप्तावभिप्रीतौ च'--धा.पा.] (धा.पा.745), निरोचणं `नीरुक्'। `चोः कुः' (8.2.30) इति कुत्वम्। ऋतिं सहत इति `ऋतीषट्'। `सहेः पृतनर्त्ताभ्याञ्ज' (8.3.107) इत्यत्र `सहेः' इति योगविभागादनुक्तसमुच्चयार्थत्वाद्वा चकारस्य षत्वम्। परितनोतीति `परीतत्'। अनुनासिकलोपे कृते तुक्।
केन पुनरत्रानुनासिकलोपः? इत्याह--`गमः क्वौ' इत्यादि। गतिकारकयोरेवेष्यत इति। तदर्थम् `विभाषा पुरुषे' (6.3.106) इत्यतो विभाषाग्रहणनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञेया।।
117. वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्। (6.3.117)
`कोटरावणम्' इति। षष्टीसमासः। `वनं पुरुगा' (8.4.4) इत्यादिना णत्वम्।।
118. वले। (6.3.118)
`वलच्प्रत्ययो गृह्यते, न प्रातिपदिकम्' इति। एतच्च वक्ष्यमाणस्येह बहुलग्रहणस्य सिंहावलोकितव्यायेनोपस्थानाल्लभ्यत इत्येके। अनन्तरं वक्ष्यमाणेन मतुपा प्त्ययेन साहचर्याच्चेत्पपरे।।
119. मतौ बह्वचोऽनजिरादीनाम्। (6.3.119)
`व्रीहिमती' इत्यादौ पूर्ववन्मतुप्। `वलयवती' इत्यत्र तु `तदस्यास्त्यस्मिन्निति मतुप्' (5.2.94)।।
120. शरादीनां च। (6.3.120)
अबह्वर्थोऽयमारम्भः। `शरावती' इति। `नद्यां मतुप्' (4.2.85) इति मतुप्।।
121. इको वहेऽपीलोः। (6.3.121)
`ऋषीवहः' [`ऋषीवहम्'--काशिका] इति। षष्ठीसमासः। वहशब्दः पचाद्यजन्तः।
`अपील्वादीनाम्' इत्यादि। यदेतदिको दीर्घविधानं तत् पील्वादीनां न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्--इहापि तदेव बहुलग्रहणं पूर्ववदुपतिष्ठते, तेन पीलुशब्दादन्येषामपि केषाञ्चिद्दीर्घत्वं न भविष्यतीति।।
122. उपसर्गस्य घञ्यमनुष्ये बहुलम्। (6.3.122)
उपसर्गात् केवलं घञ्प्रत्ययो न सम्भवति, अतो घञन्त उत्तरपदे कार्यं वज्ञायत इत्याह--`घञन्त उत्तरपदे' इत्यादि। `वीक्लेदः' इति। `क्लिद आर्द्रीभावे' (धा.पा.1242), [`क्लिदू'--धा.पा.] `अकर्तरि च कारके' (3.3.19) इत्यादिना घञ्। `वीमार्गः' इति। `मृजू' शूद्धौ' (धा.पा.1066), `मृजेर्वृद्धिः' (7.2.114), `चजोः कु घिण्यतोः' (7.3.52) इति कुत्वम्। `प्रसेवः' इति। `षिवु तन्तुसन्ताने' (धा.पा.1108)।
`कृत्रिमम्' इति। करणेन निर्वृत्तं कृत्रिमम्। पुरुषव्यापारादिभिर्निर्वृत्तमित्यर्थः।
`निषादः' इति। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.854), निषीदत्यस्मिन् पापमिति निषादः। `हलश्च' (3.3.121) इति घञ्।।
123. इकः काशे। (6.3.123)
`नीकाशः' इति। `कासृ दीप्तौ' (धा.पा.647)। `पचाद्यजन्तोऽयं काशशब्दः न तु घञन्तः' इति। तत्र पूर्वेणैव सिद्धमित्यभिप्रायः। `पूर्वेणैव सिद्धे नियमार्थमेतत्--इक एव काशे नान्यस्य' इति क्वचिद् ग्रन्थः, एष तु नोपपद्यते; घञि पूर्वेण दीर्घविधानात्, एतस्य च काशशब्दस्य पचाद्यजन्तत्वात्। अथ बहुलग्रहणात् पचाद्यजन्तेऽपि पूर्वेणैव सिद्धमित्युच्यते, तथा च तत एव बहुलग्रहणादिकोऽन्यस्यन भविष्यतीति न करत्तव्यमेवेदं सूत्रम्। क्रियमाणञ्च पूर्वस्यैव प्रपञ्चार्थ द्रष्टव्यम्।।
124. दस्ति। (6.3.124)
`दा' इत्येतस्य यस्तकारादिरादेशः' इति। एतेन स्थान्यादेशसम्बन्धे `दः' इत्येषा षष्ठीति विज्ञायते। `वीत्तम्' इति। ददातेर्निष्ठायां रूपम्। ननु चत्र तकारादिरादेशः परो न सम्भवत्येव, तथा हि--यस्तावत् `अच उपसर्गात्तः' (7.4.47) इति तकार सः `अलोन्त्यस्य' (1.1.52) इति वचनादन्त्यस्य क्रियते, स च वर्णान्तरो व्यवधानादनन्तरस्तकारः परो न सम्भवति; योऽपि `खरि च' (8.4.55) इति दकारसय तकारो विधीयते, सोऽपिन सम्भवत्येव; दीर्घत्वे कर्त्तव्ये चर्त्वस्यासिद्धत्वेनाविद्यमानत्वादित्यत आह--`अच उपसर्गात्तः' इत्यादि। आश्रयणमाश्रयः=अङ्गीकरणम्। `दा' इत्यत्र यसतकारादिरादेशः, तस्मिन् परत इगन्तस्योपसर्गस्य दीर्घो भवतीति ब्रुवता चर्त्वमाश्रितम्, न ह्यन्यथा तकारादिरादेशः परः सम्भवति। तस्मात् चर्त्वस्याश्रयणात् सिद्धम्। अतस्तकारादिरादेशो भवतीति। `नितीर्णम्' इति। `तॄ प्लवनतरणयोः' (दा.पा.969) `ऋत इद् धातोः' (7.1.100) इतीत्त्वम्, `हलि च' (8.2.77) इति दीर्घः। `अट्कुप्वाङ्' (8.4.2) इत्यादिना णत्वम्। `सुदत्तम्' इति। `दो दद्घोः' (7.4.46) इत्यत्र--
`अवदत्तं विदत्तं च प्रादत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते'।।
त्यनयेष्ट्या ददातेर्ददादेश-।।
125. अष्टनः संज्ञायाम्। (6.3.125)
`अष्टावक्रः' इति। अष्टौ वक्राण्यस्येति बहुव्रीहिः।।
126. छन्दसि च।
`अष्टाकपालम्' इति। अष्टसु कपलेषु संस्कृतमिति `संस्कृतम्' (4.4.3) इत्यण्, तस्य `द्विगोर्लुगनपत्ये (4.1.88) इति लुक्। `अष्टाहिरण्या' इति। बहुव्रीहिः। `पादस्य लोपे कृते' इति। `पादस्य लोपोऽहस्त्यादिभ्यः' (5.4.138) इत्यनेन।
`गविच युक्ते' इत्यादि। `वक्तव्यम्' इति। अस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--चकारोऽत्रक्रियते, सचानुक्तसमुच्चयार्थः। तेन गवि च युक्ते भाषायामप्यष्टनो दीर्घो भवति।।
127. चितेः कपि। (6.3.127)
`एकचितीकः' इति। एका चितिरस्येति बहुव्रीहिः, ततः `स्त्रियाः पुंवत्' (6.3.34) इत्यादिना पुंवद्भावः, `शेषाद्विभाषा' (5.4.154) इति कप्।।
128. विश्वस्य वसुराटोः। (6.3.128)
`विश्वावसुः' इति। विश्वं वसु यस्येति बहुव्रीहिः। `विश्वाराट्' इति। विश्वस्मिन् राजत इति `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, तस्य `झलां जशोन्ते' (8.2.39) इति जश्त्वम्--डकारः, डकारस्यापि चर्त्वम्--टकारः।
`यत्रास्यैतद्रूपम्' इति। क्व पुनरस्यैतद्रूपम्? यत्र पदसंज्ञा; पदाधिकारे षकारादीनां विधानात्। `विश्वराजौ, विश्वराजः' इति। अत्र पदसंज्ञा नास्ति, `असर्वनामस्थाने' (1.4.17) इति प्रतिषेधात्।।
129. नरे संज्ञायाम्। (6.3.129)
130. मित्रे चार्षौ। (6.3.130)
131. मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ। (6.3.131)
132. ओषधेश्च विभक्तावप्रथमायाम्। (6.3.132)
133. ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्। (6.3.133)
तङिति प्रत्याहिराग्रहणम्--लोष्मध्यमपुरुषबहुवचनादारभ्य महिङो ङकारेण। `आ तू न इन्द्र वृत्रहन्' इति। आ तु न इति प्राप्ते। एवमुत्तरत्रापि ह्रस्वप्रयोगे प्राप्ते दीर्घो वेदितव्यः। `लस्यात्' इति। `लस श्लेषणक्रीडनयोः' (दा.पा.714) इत्यस्याशिषि लिङि रूपमेतत्। अथ घग्रहणेनात्र तरप्तमपोः प्रत्यययोर्ग्रहणं कस्मान्न भवति? तदन्तस्य कृतदीर्घस्य ऋग्विषये प्रयोगासम्भवात्। `भरता' इति। `भृ भरणे (धा.पा.898) [`भृञ् भरणे' धा.पा; `भृ भर्त्सने' (भरणेऽपीत्येके)--धा.पा.1492] इत्यस्माद्धातोर्लोण्मध्यमपुरुषस्य बहुवचने रूयमेतत्। `श्रृणोत ग्रावाणः' इति। अत्र तु न भवति; `सर्वे विधयश्छन्दसि विकल्प्यन्ते' (पु.प.वृ.56) इति वचनात्। `अत्रा' इति। त्रलन्तमेतत्। `सप्तम्यास्त्रल्' (5.3.10) इति त्रलि कृते `एतदोऽश्' (5.3.5) इत्यनेनैतदोशादेशः। `उरुष्या णः' इति। आत्मन उरुमिच्छति `सुपआत्मनः क्यच्' (3.1.8) इति क्यच् ततः सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः' (वा 824) इत्यौपसंख्यानिकोऽसुक्, `सुषमादिषु च' (8.3.98) इति षत्वम्, लोण्मध्यमपुरुषस्यैकवचनम्, `अतो हेः' (6.4.105) इति हेर्लुक्। `न' इति। `बहुवचनस्य वस्नसौ' (8.1.21) इत्यस्मदादेशोऽयम्। णत्वं तु वर्णव्यत्ययेन। `उपसर्गाद्बहुलम्' (8.4.28) इति बहुलवचनाद्वा। अन्ये तु--`उरुष्य इति निपातः' इत्याचक्षते।।
134. इकः सुञि। (6.3.134)
सुञिति निपातस्य ग्रहणम्। `अभि षु णः' इति। अभिशब्दस्य दीर्घत्वम्। `सुञः (8.3.105) इति षत्वम्। `नः' इत्ययमस्मदादेशः, तस्य `नश्च धातुस्थोरुषुभ्यः' (8.4.27) इति णत्वम्। `ऊर्ष्व ऊ षु णः' इति। उकारस्य दीर्घः।
135. द्व्यचोऽतस्तिङः। (6.3.135)
`अश्वा भरत वाजिनः' इति। `भृ' इत्येतस्य लोण्मध्यमपुरुषस्य बहुवचने रूपमेतत्। `दक्षि पक्षि' इति। वचेर्यजेश्च परस्य लेटः सिप््, `कर्त्तरि शप्' (3.1.68)। वचेरदादित्वाच्छपो लुक्। यजेरपि `बहुलं च्छन्दसि' (2.4.76) इति।।
136. निपातस्य च। (6.3.136)
`एवा ते, अच्छा ते' इति। एवाच्छशब्दौ निपात्तौ; चादिषु पाठात्।।
137. अन्येषामपि दृश्यते। (6.3.137)
ऋचीति निवृत्तम्। `केशाकेशि' इति। केशेषु केशेषु गृहीत्वेदं युद्धं वॄत्तमिति `तत्र तेन' (2.2.27) इत्यादिना बहुव्रीहिः `इच् कर्मव्यतिहारे' (5.4.127) इतीच् समासान्तः। `जलाषाट्' इति। जलं सहत इति `छन्दसि सहः' (3.2.63) इति ष्विः, `सहेः षाडः षः' (8.3.56) इति षत्वम्।
`श्वादन्तः' इति। शुनो दन्त इति षष्ठीसमासः। `श्वादंष्ट्रः' इति। शुन इव दंष्ट्रा अस्येति बहुव्रीहिः। `श्वाकर्णः' इत्यादयः षष्ठीतत्पुरुषाः, बहुव्रीहयो वा।।
138. चौ। (6.3.138)
`दधीचः' इति। दध्यञ्चतीति ऋत्विगादिना (3.2.59) क्विन्, ततः, शस्, `अचः' (6.4.138) इत्यकारलोपः। ननु चान्तरङ्गत्वाद्यणावेशेनात्राकारलोपाद्दीर्घाच्च प्राग् भवितव्यम्, स हि वर्णाश्रयत्वादन्तरङ्गः, इतरौ तु बहिरङ्गौ, अकारलोपो हि तस्य विधीयते, भसंज्ञा च यकारादावजादौ च स्वादौ विधीयते, दीर्घत्वमप्युत्तरपदे परतः पूर्वपदस्य विधीयमानं द्विपदाश्रयत्वत्द्बहिरङ्गम्, ततश्चान्तरङ्गे यणादेशे कृते पूर्वं चौ दीर्घत्वं न सिध्यति? इत्यत आह--`अन्तरङ्गोऽपि' इत्यादि। यदि यणादेश एव प्रवर्त्तते, तदा दीर्घवचनमनर्थकं स्यात्। तस्माद्दीर्घवचनसामर्थ्याद्यणादेशो न प्रवर्त्तते।
ननु च कृते यणादेशेऽनन्तरो दीर्घभावो नास्तीत कृत्वा व्यवहितस्यापि दीर्घत्वं भविष्यति, यथा--`शमामष्टानां दीर्घः श्यनि' (7.3.74) इति शमादीनां श्यनि दीर्घत्वम्, तस्माद्भवितव्यमेवात्र यणादेशेन, तथा च व्यवहितस्य दीर्घत्वे कृतेऽनिष्टं रूपं स्यात्? नैतदस्ति; इदं च तावद्विचार्यताम्। किं तत्? `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इत्येषा परिभाषा बाध्येत, आहोस्विदन्तरङ्गपरिभाषेति? तत्रान्तङ्गपरिभाषाया लिङ्गादनुमानाद्वा सिद्धा, तस्या हि `वाह ऊठ् (6.4.132) इत्यूङ्वचनं लिङ्गम्। यथा चैतल्लिङ्गं तथा तत्रैव वृत्तिकारो दर्शयिष्यति। इतरा तु परिभाषा साक्षात् श्रुता। तत्र युक्तं यदनुमितोऽर्थो बाध्यते, न तु साक्षाद्दृष्ट इत्यन्तरङ्गपरिभाषा बाध्यते, नेतरेति। तथा चानन्तरस्यैव दीर्घत्वेन भवितव्यमिति यणादेशो न प्रवर्त्तते।।
139. सम्परसरणस्य। (6.3.139)
`कारीषागन्धीपुत्रः' इति। कारीषगन्धेरपत्यमिति `तस्यापत्यम्' (4.1.92) इत्यण्, `अणिञोरनार्षयोः' (4.1.78) इत्यादिना ष्यङादेशः, ततः `यङश्चाप्' (4.1.74) इति चाप्प्रत्ययः, ततः करीषगन्ध्यायाः पुत्र इति षष्ठीसमासः, ततः `ष्यङः सम्प्रसरणम्' (6.1.13) इत्यादिना सम्प्रसारणम्, अनेन दीर्घत्वम्।
`व्यवस्थितविभाषा हि सा' इति। इको ह्रस्वादौ (6.3.61) सूत्रे `एक हलदौ' (6.3.51) इत्यतः सूत्रादन्यतरस्यांग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन कारीषगन्धीपुत्र इत्यत्र न भवति। `अकृत एव' इत्यादि। अथ वा--अकृत एव सम्प्रसारणदीर्घत्वे कारीषगन्धिपुत्र इति स्थिते ह्रस्वत्वं प्राप्नोति, सम्प्रसारणदीर्घत्वं च; उभयं चैतत् सावकाशम्, इको ह्रस्वतवस्यावकाशः--ग्रामणिपुत्र इति, सम्प्रसारणस्यावकाशः--ह्रस्वाभावः; पक्षे तूभयं प्राप्नोति। तत्र यद्यपि ह्रस्वाभावपक्षे कृतार्थ दीर्घत्वम्, तथापि तेन परत्वाद् ह्रस्वो बाध्यते। अथ कृते दीर्घत्वे कस्मात् पुनःप्रसङ्गविज्ञानान्न भवति? अत आह--`पुनःप्रसङ्गविज्ञानञ्च' इत्यादि। गतार्थम्।।
इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां षष्ठाध्यायस्य
तृतीयः पादः।।
- - -