ज्ञापकसंग्रहपरिशिष्टम्/अष्टमोऽध्यायः
← सप्तमोऽध्यायः | ज्ञापकसंग्रहपरिशिष्टम् अष्टमोऽध्यायः [[लेखकः :|]] |
अथ अष्टमोऽध्यायः
झ्र्ज्ञा.प.ट पदस्य (सू.8-1-16)।। "नलोपः प्रातिपदिकान्तस्य' (सू.8-2-7) इति अन्तग्रहणं ज्ञापयति विशेषणषष्ठ्येषा न स्थानषष्ठीति । झ्र्वि.ट ननु "पदस्ये' त्यधिकारसूत्रमुत्तरसूत्रेषु संबध्नाति । तत्र पदस्येति स्थानषष्ठी वा विशेषणषष्ठी वेति संदेहे आह--नलोप इत्यादिना । "नलोपः प्रातिपदिकान्तस्य' इति सूत्रेऽपि पदस्येत्यधिक्रियते । यदि तत्स्थानषष्ठी स्यात् तदा अन्तग्रहणं व्यर्थम् । तथाहि सति प्रातिपदिकस्येति पदस्येत्यस्य विशेषणम् । प्रातिपदिकसंज्ञकस्य नान्तस्य पदस्य लोप इति सूत्रार्थः । तत्र चालोन्त्यपरिभाष्या पदान्तस्य नकारस्य लोपो भविष्यतीति किमन्तग्रहणेन । कृतं च तत् पदस्येति विशेषणषष्ठीति ज्ञापयति । तेन पदावयवभूतं यत्प्रातिपदिकं तदवयवस्य नस्य लोप इति सूत्रार्थः । तत्र च स्थानषष्ठीत्वाभावात् अलोऽन्त्यपरिभाषायाः अनुपस्थितौ अन्त्यस्य नकारस्य लोपो न लभ्येतेति अन्तग्रहणं अन्तनकारलोपार्थं क्रियत इति स्वांशे चारितार्थ्यम् । विशेषणषष्ठीति ज्ञापनस्यान्यत्र प्रयोजनं तु "उदात्तस्वरितयोर्थणः स्वरितोऽनुदात्तस्य' (सू.8-2-4) इति सूत्रे पदस्येत्यधिकारात् तस्य च स्थानषष्ठीत्वे उदात्तस्वरितयोर्यो यण् ततः परो योऽनुदात्तः तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति सूत्रार्थः स्यात् । ततश्च कुमार्थौ इत्यत्रैव तत्सूत्रं प्रवर्तेत, कुमार्थः इत्यत्र न प्रवर्तेत। तथा हि कुमारी औ इति स्थिते उदात्तस्य ईकारस्य स्थाने यो यण् ततः परोऽनुदात्तः औकारः तदन्तस्य कुमार्यौ इति पदस्य अन्त्यः औकारः तस्य स्वरितत्वं यद्यपि सिध्यति, तथापि कुमारी जस् इत्यत्र उदात्तेकारस्थानिकयणः परः यः अनुदात्तः जसोऽकारः इल्स्वरप्राप्तेरत्राभावेन व्यञ्चनस्याविद्यमानत्वाभावादिति तदन्तत्वं पदस्य नास्ति, सकारान्तत्वात् इति जसोऽकारस्य कुमार्यः इति स्वरितत्वं न सिध्येत् । पदस्य इत्यस्य विशेषणषष्ठीत्वे तु पदस्यावयवो यः उदात्तस्वरितस्थानिकथणः परोऽनुदात्तस्तस्य स्वरितत्वमिति वाक्यार्थः । तत्र च जसवयवाकारस्यानुदात्तस्य पदावयवत्वमस्तीति स्वरितत्वं सिध्यतीति । एवम् "एकादेश उदात्तेनेदात्तः' (सू.8-2-5) इत्यत्रापि प्रयोजनं बोध्यम् । झ्र्ज्ञा.प.ट अनुदात्तं सर्वमपादादौ (सू.8-1-18)।।"न लुट्' (सू.8-1-29) इति प्रतिषेधात् ज्ञापकात् अनोदेरप्यनुदात्तत्वं भवति । "गत्यर्थलोटा' (सू.8-1-51) इति लृटी प्रतिषेधात् ज्ञापकात् अनन्त्यस्याप्यनुदात्तत्वं भवति । झ्र्वि.ट ठअनुदात्तं सर्वमापादादौ' इत्यधिकारसूत्रम् । तत्रा सर्वग्रहणं यदि न क्रियते तदा "तिङ्ङतिङः' (सू.8-1-28) इति सूत्रेऽप्येतत्सूत्रानुवृत्तेः अतिङन्तात्परस्य तिङन्तस्यानुदात्तत्वमुच्यमानम् "आदेः परस्य' इति आदेरेव स्यात् । आदिभिन्नस्य न स्यात् । इष्यते तु तिङन्तस्य सर्वोऽवयवोऽनुदात्त इति । तदर्थं सर्वग्रहणं क्रियत इति प्रयोजनं वक्तव्यम् । इदं च प्रयोजनं ज्ञापकेनापि सिध्यतीत्याह-- न लुट् इति । "न लुट्' इति सूत्रेण हि अतिङन्तात्परं लुडड्डत्ध्;न्तं न निहन्यत इत्युच्यते । लुडड्डत्ध्;न्तस्य निघातप्राप्तिश्च "तिङ्ङतिङः' इति सूत्रेणेति वक्तव्यम् । तेन सूत्रेण आदेरेवानुदात्तत्वं यदि विधीयेत तदा लुडड्डत्ध्;न्तस्य निघातप्रतिषेधो व्यर्थः । आद्युदात्तस्य लुडड्डत्ध्;न्तस्याभावात् । लुडड्डत्ध्;न्ते तासेः परस्य लसार्वधातुकस्यानुदात्तत्वात्तासिरुदात्तः । तत्र कर्तेत्यादौ टिलोपविषये उदात्तनिवृत्तिस्वरेणान्तोदात्तः । कर्तारावित्यादौ मध्योदात्तः । आद्युदात्तस्तु लुडड्डत्ध्;न्तो नास्ति यस्य प्राप्तमनुदात्तत्वं प्रतिषिध्येत । अतो "न लुट्' इति प्रतिषेधो व्यर्थः सन् ज्ञापयति "तिङ्ङतिङ' इति सूत्रे आदेः परस्येति नोपतिष्ठते । तथा च
पदावयवस्यानादेरपि अनुदात्तत्वं भवतीति । तेन कर्ता कर्तारावित्यादौ अन्तमध्ययोरप्यनुदात्तत्वे प्राप्ते तन्निषेधकतया "न लुट्' इति सूत्रसार्थक्यम् । अतः सर्वस्येति मास्तु इति भावः । नन्वेवमप्यादेः परस्येत्यस्याप्रवृत्तावप्यलोन्त्यपरिभाषया अन्त्यस्यैव निघातः स्यादिति तद्वारणार्थं सर्वग्रहणमस्त्वित्यत आह--गत्यर्थलोटेति । "गत्यर्थलोटा' (सू.8-1-51) इति सूत्रेण लृडड्डत्ध्;न्तस्य निघातः प्रतिषिध्यते । सर्वं च लृडड्डत्ध्;न्तं लसार्वधातुकानुदात्तत्वेन मध्योदात्तमिति निगातस्य प्राप्त्यभावेन प्रतिषेधोऽनर्थकः सन् अलोऽन्त्यस्येति न प्रवर्तत इति ज्ञापयति । तथा चार्थात् सर्वस्यानुदात्तत्वलाभात् सर्वग्रहणं मास्तु इति भावः । वस्तुतो भोक्ष्ये इति लृडड्डत्ध्;न्तस्यान्तोदात्तस्य सद्भावात् तस्य अलोन्त्यनिघाते प्राप्ते तत्प्रतिषेधार्थतया गत्यर्थलोटा इत्यस्य चरितार्थत्वात् अज्ञापकत्वात् सर्वग्रहणम् आवश्यकमिति भाष्ये स्पष्टम् ।। झ्र्ज्ञा.प.ट नलोपः प्रातिपदिकान्तस्य (सू.8-2-7)।। अहन्ग्रहणं रूपरात्रिस्थन्तरेषूपसंख्यानं वा ज्ञापकं नानन्त्यस्य रुर्मवतीति । झ्र्वि.ट ठनलोपः प्रातिपतिकान्तस्ये' ति सूत्रविहितो नलोपः अहोभ्यामित्यत्रापि प्राप्नोतीत्यशङ्क्य "अढद्धठ्ठड़14;नो नलोपप्रतिषेधः'इत्युक्तं वार्तिककृता । ननु प्रतिषेधो न वक्तव्यः । अहन्भ्यामित्यत्र नलोपं बाधित्वा रुत्वप्रवृत्तेर्नलोपाप्राप्तेः । न च नलोपे कर्तव्येरुत्वस्यासिद्धत्वात् नलोपः प्राप्नोतीति वाच्यम् । अनव काशस्य रोर्नलोपबाधकत्वात् नलोपं प्रति रुत्वस्यासिद्धत्वे हि रुत्वविधानमनर्थकं स्यात् । अहन्शब्दे रुत्वप्रवृत्तिकाले नलोपस्यापि प्राप्तेः नलोपप्राप्त्ययोग्यस्याहन्शब्दस्याभावात् । न च अहन्शब्दे नलोपे सति हकारोत्तराकारस्य रुत्वविधानं अस्तु । तथा चानन्त्यरूपावकाशवान् रुः न नलोपबाधक इति वाच्यम् । यदि "अहन्' इति सूत्रेण अनन्त्यस्य रूत्वं विधित्सितमभविष्यत् तदा लाघवात् अह इत्येवावदिष्यत् । तथा अनुक्त्वा नकारसहिततया निर्देशं कुर्वन् ज्ञापयति न अहन्नित्यनेन अनन्त्यस्य रुत्वं विधीयते इति । तथा च तेन अन्त्यस्य नकारस्यैव रुत्वं विधेयम् । तस्यैव नलोपः प्रतिपदिकान्तस्येति लोपोऽपि इति अनवकाशेन रुत्वेन नलोपस्य बाधात् "अढद्धठ्ठड़14;नो नलोपप्रतिषेध' इति वार्तिकमनावश्यकमिति भाष्यकारः प्रत्यपादयत् । तदाह--अहन्ग्रहणमिति ।ननु अहन्ग्रहणं न ज्ञापकम् , संबुद्धौ हे दीर्घाहो अत्र इत्यादौ रुत्वविधायकतया सूत्रसार्थक्यात् । तत्र हि "न ङिसंबुद्ध्योः' (सू.8-2-8) इति नलोपो निषिध्यते । तथा च नलोपप्रवृत्त्ययोग्यावकाशवत्त्वात् रुत्त्वस्य निरवकाशत्वाभावेन नलोपबाधकत्वासंभवात् नलोपे कर्तव्ये "पूर्वत्रासिद्धम्' इति रुत्वस्यासिद्धत्वात् अहोभ्यामित्यत्र नलोपः प्राप्नुयादिति नलोपप्रतिषेधकं वार्तिकमावश्यकमेवेत्यरुचेराह--रूपरत्रिरथन्तरेषूपसंख्यानं वेति । अथं भावः--रूपरात्रिरथन्तरेषु परतः अहन्शब्दस्य रुत्वं विधीयते । तत्रापि नलोपे सति अनन्त्यस्याकारस्य यदि रुत्वं स्यात् तदा रेफमेव विदध्यात् न रुम् । अतः परस्य हि रोः उत्वम् "अतो रोरप्लुतात्' (सू.6-1-113) इति सूत्रेण विधीयते । अकारस्य तु रुत्वे तस्य ह् इत्यस्मात्परस्य अतः परत्वं नास्तीत्युत्वाप्रवृत्तेः उत्वफलकं रुत्वं न विदध्यात् रेफादेशमेव वदिध्यात् । यतः रुत्वं विहितवान् अतो ज्ञापयति नानन्त्यस्य रुर्मवतीति । तथा चान्त्यस्य नस्यैव रुत्वे लोपोऽपि तस्यैवेति अनवकाशेन रुत्वेन नलोपबाधात् अहोरूपमित्यादिसिद्धिरिति स्वांशे चारितार्थ्यम् । ज्ञापनप्रयोजनं तु अहोभ्यामित्यादौ नलोपो न भवत्यपि तु रुत्वमेवेति । झ्र्ज्ञा.प.ट ठसंज्ञायाम्' "आसन्दीवत्' (सू.7-2-11), (8-2-12)।। "ईवत्याः' (सू.6-1-221) इति ज्ञापयति भवत्यहीवत्यादौ वत्वमिति । झ्र्वि.ट ननु
"संज्ञायाम्' "आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मण्वती' इत्यनयोः किमेकसूत्रत्वम् उत भिन्नसूत्रत्वम् । यद्येकसूत्रत्वं तदा अत्रापठितानां अहीवती कपीवतीत्यादीनां वत्वं न प्राप्नोति, असंज्ञात्वात् । भिन्नसूत्रत्वे प्रथमसूत्रेण मतोर्मस्य वत्वं, द्वितीयसूत्रेण आसन्दीवदादीनां निपतनं च क्रियत इति वक्तव्यम् । तथा सति इक्षुमती द्रुमती इत्यादावपि प्रथमसूत्रेण वत्वं प्राप्नोति संज्ञात्वात् इत्याशङ्क्य, यथेच्छसि तथास्तु इति भाष्यकार उक्तवान् । तत्र एकसूत्रत्वपक्षे कथं अहीवतीत्यादौ वत्वप्राप्तिः इत्याशङ्क्याह--ईवत्याः इत्यादिनाः । "ईवत्याः' इति सूत्रेण ईवत्यन्तस्य शब्दस्यान्तोदात्तस्वरो विधीयते । अहीवती मुनीवती इत्युदाहरणम् । यदी अहीवतीत्यादौ वत्वं न भवेत् "ईवती' इति शब्दस्वरुपस्यैव दुर्लभतता ईवत्या इत्यनुवादः असंगतः स्यात् । तथा च ईवत्या इति निर्देशो ज्ञापयति भवत्येवंजातीयकानां शब्दानां वत्वमिति । "ननु आसन्दीवदाद्यर्थ ईवत्या इति स्यादिति कथं ज्ञाप कमेतदिति चेन्न। स्त्रियामेषां प्रयोगाभावादेषामीवतीशब्दान्तत्वाभावादिति" केयटग्रन्थोऽत्रानुसन्धातव्यः ।। झ्र्ज्ञा.प.ट नुदविदोन्द (सू.8-2-56)।। ढद्धठ्ठड़14;नीग्रहणं ज्ञापयति भवत्येतस्माद्विधिरिति । झ्र्वि.ट ननु "नुदविदोन्द्रत्राघ्राढद्धठ्ठड़14;नीभ्योऽन्यतरस्याम्' इति सूत्रेण किं नुदादिभ्यः परस्य निष्ठाकारस्य नत्वं विकल्पेन विधीयते, उत विकल्पेन प्रतिषिध्यते । किमयं योगः विधिः उत निषेध इति यावत् । तत्र विधिरिति पक्षे नः इति वक्तव्यम् । न च "रदाभ्यां निष्ठातो नः' इति सूत्रात् (8-2-42) नः इत्यनुवर्तिष्यत इति वाच्यम् । "शुषः कः' "पचो वः' (सू.8-2-51,52) इत्यादिभिः नकारस्य व्यवच्छिन्नत्वात् । प्रातिषेधपक्षे तु नुदादिभ्यो निष्ठातस्य यत् प्राप्नोति तन्न भवतीत्यन्तरेणापि नकारग्रहणं नकारस्य प्रतिषेधः सिध्यति । परंत्वत्र पक्षे ढद्धठ्ठड़14;नीग्रहणमनर्थकं भवति ढद्धठ्ठड़14;नीधातोः परस्य निष्ठातस्य नत्वप्राप्त्यभावात् । नुदादीनां त्रयाणां "रदाभ्यां' इत्यनेन त्रा घ्ना इत्यनयोः "संयोगादेरातो धारोर्यण्वतः' (सू.8-2-43) इत्यनेन प्राप्तेस्तेषां निषेधो युक्तः न तु ढद्धठ्ठड़14;नीधातोः, अतः कतरः पक्षः आश्रयणीय इत्याशङ्क्य, विधिपक्षं सर्मथ्य प्रतिषेधपक्षोऽपि "अथवा पुनरस्तु प्रतिषेधः' इत्यादिना भाष्ये समाश्रितः । तत्र पक्षे ढद्धठ्ठड़14;नीग्रहणं ज्ञापनार्थम् "ढद्धठ्ठड़14;नीधातोः परस्य निष्ठातस्यापि नत्वं भवतीति' । न ह्यप्रसक्तस्य प्रतिषेधः संभवति इत्याशयवानाह--ढद्धठ्ठड़14;नीग्रहणमिति ।।झ्र्ज्ञा.प.ट नित्यं समासे (सू.8-3-45)।। अनुत्तरपदस्थस्येति प्रतिषेधो ज्ञापकः भवति वाक्ये विभाषेति । झ्र्वि.ट ननु "नित्यं समासेऽनुत्तरपदस्थस्य' इति सूत्रे अनुत्तरपदस्थस्येत्येतत् परमसर्पिः कुण्डिड्डत्ध्;का इत्यादौ विसर्गस्य षत्ववारणार्थमुपादीयते । तत्रानेन षत्वाभावेऽपि "इसुसोः सार्मथ्ये' (सू.8-3-44) इति सूत्रेण षत्वापत्तिः । न च तत्र सूत्रे सार्मथ्यपदेन व्यपेक्षालक्षणं सार्मथ्यमेवाश्रीयते, परमसर्पिः- कुण्डिड्डत्ध्;का इत्यादेः समासत्वेन एकार्थीभावलक्षणसार्मथ्यसत्त्वेऽपि व्यपेक्षालक्षणसार्मथ्याभावात् न पूर्वसूत्रं प्रवर्तते इति वाच्यम् । सार्मथ्ये इति सामान्यतः श्रवणेन द्विविधस्यापि सार्मथ्यस्य पूर्वसूत्रे ग्रहीतुं शक्यत्वात् । न च तथापि कृत्प्रत्यययो इसूसोर्ग्रहणात् प्रत्ययग्रहणपरिभाष्या सर्पिस् इत्यस्य इसन्तत्वेऽपि परमसर्पिस् इत्यस्य इसन्तत्वाभावेन परमसर्पिः कुण्डिड्डत्ध्;का इत्यत्र पूर्वसूत्रेण षत्वं न भवतीति वाच्यम् । एवं सति "परमसर्पिष्करोति ' इति वाक्येऽपि पूर्वसूत्रेण षत्वविकल्पानुपपत्तेः इत्याशङ्कां मनसि निधायाह--अनुत्तरपदस्थस्येति प्रतिषेध इति । अयं भावः--"नित्यं समास' इति सूत्रे इसुसोरित्यनुवर्तते । तत्र यदि इसुसोर्विषये
प्रत्ययग्रहणपरिभाषोपतिष्ठेत तदा परमसर्पिः कुण्डिड्डत्ध्;का इत्यत्र परमसर्पिः शब्दस्य इसन्तत्वाभावेनैव षत्वं न भविष्यतीति विमनुत्तरपदस्थस्येत्यनेन । कृतं च तत् इसुसोर्विषये प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति ज्ञापयति । तेन "इसूसोः सार्मथ्ये' इति पूर्वसूत्रेऽपि तस्याः अप्रवृत्त्या परमसर्पिष्करोति इति वाक्योऽपि षत्वं विकल्पेन सिध्यतीति । भवति वाक्ये विभाषा इत्यस्य प्रत्ययग्रहणपरिभाषायाः अप्रवृत्तिद्वारा इत्यादिः । एवं च परमसर्पिः कुण्डिड्डत्ध्;का इत्यादौ षत्ववारणाय पूर्वसूत्रे व्यपेक्षालक्षणमेव सार्मथ्यमाश्रयणीयमिति तत्त्वाम् इति । झ्र्ज्ञा.प.ट आदेशप्रत्यययोः (सू.8-3-59)।। "सात्पदाद्योः' (सू.7-3-111) इति सात्प्रतिषेधो ज्ञापयति भवति प्रत्ययावयवस्यापि षत्वमिति । झ्र्वि.ट ठआदेशप्रत्ययोः' इति सूत्रे आदेशः प्रत्ययश्च यः सकार इति सामानाधिकरण्येनान्वयपक्षे करिष्यति हरिष्यतीत्यादौ षत्वं न प्राप्नोति, सकारस्य "स्य' इति प्रत्ययावयवत्वेऽपि प्रत्ययत्वाभावादित्याशङ्क्य, भाष्ये ज्ञापकेन प्रत्ययावयवस्य सस्य षत्वं साधितम्। तदाह--सात्पदाद्योरिति । "सात्पदाद्योः' इति सूत्रेण सादवयवस्य पदादेश्च सकारस्य षत्वं प्रतिषिध्यते । तत्र सादवयवस्य सकारसाय प्रत्ययत्वाभावेन "आदेशप्रत्ययययोः' इति षत्वाप्राप्त्या तन्निषेधो व्यर्थः सन् प्रत्ययावयवस्यापि "आदेशप्रत्ययोः' इत्यनेन षत्वं भवतीत ज्ञापयति । ततस्च सादिति प्रत्ययावयवस्य सस्यापि षत्वप्राप्तौ तन्निषेधफलकं साद्ग्रहणं सार्थकम् । इत्थं च करिष्यतीत्यादावपि षत्वं सेत्स्यतीति भावः । तत्रैव आदेशः प्रत्ययस्य च यः सकारः तस्य षत्वमिति व्याख्यानान्तरं प्रदर्शितम् । तत्र पक्षे प्रथमान्तादेशशब्दस्य षष्ठ्यन्तप्रत्ययशब्दस्य च समासो नोपपद्यत इत्याशङ्क्य ज्ञापनात् समर्थनं कृतं भाष्ये । तदाह-- झ्र्ज्ञा.प.ट ठशासिवसिघसीनां च' (सू.8-3-60) इति घसिग्रहणं ज्ञापकं नानाविभक्त्योरेष समास इति । झ्र्वि.ट ठशासिवसिधसीनां च' इति सूत्रेण घसेः सकारस्य षत्वं विधीयते । जक्षतुरित्युदाहरणम् । यदि आदेशः प्रत्ययस्य च यः सकार इति न स्यात् तदा आदेशस्य यः सः तस्य षत्वमित्यर्थः स्यात् । तदा घसेः अदधात्वादेशत्वेन तदवयवस्य सस्य आदेशप्रत्यययोरित्यनेनैव षत्वसिद्धेः घसिग्रहणमनर्थकम् । कृतं च तत् आदेशः प्रत्ययावयवश्च यः सकारस्तस्य षत्वमिति सूत्रार्थं ज्ञापयत् नानाविभत्तयोः आदेशप्रत्यययोः समासः न तु समानविभक्तिकयोरिति ज्ञापयति । तथा च घसेः सकारस्य आदेशत्वाभावात् षत्वाप्राप्तै तत्प्राप्ति तत्प्राप्तिफलकं शासिवसीति सूत्रे घसिग्रहणं सार्थकमिति भावः । अत्र प्रत्ययावयवपरप्रत्ययशब्देन आदेशशब्दस्य द्वन्द्वः । तथा च समानविभक्तिकयोरेव समासः । तथापि षष्ठ्यन्तप्रत्ययशब्दार्थलाक्षणिकत्वात्प्रत्ययशब्दस्य व्यधिकरणविभक्तिकत्वोक्तिरित्यवधेयम् । न च घसिग्रहणं आदेशशब्दो नादेशावयवपर इत्यत्रैव ज्ञापकमस्तु नोक्तवचने, अथवा यथाश्रुतादेशशब्दप्रत्ययब्दयोः समानविभक्तिकयोरेव समास इत्यत्रैव ज्ञापकमस्तु इति वाच्यम् । समानविभक्तिकयोः समासस्य ज्ञापकसाध्यत्वा भावात् । असति बाधके समानविभक्तिकयोः समासः । प्रकृते च करिष्यतीत्यादौ षत्वानुपपत्तेःषष्ठ्यन्तप्रत्ययपदेन समास इति निश्चिते आदेशशब्दस्यापि तत्समानविभक्तिकस्यैव समासोऽस्तु इति शङ्कायामुक्तज्ञापकेन आदेशशब्दस्य प्रथमान्तत्वमिति निश्चिते नानाविभक्त्योरेष समास इत्यर्थतः पर्थवसानादिति । झ्र्ज्ञा.पट न रपरसृपि (सू.8-3-110)।। सवनादिषु अश्वसनिपाठो ज्ञापयति अनिणन्तादपि षत्वं भवतीति । झ्र्वि.ट ननु "न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्' इति षत्वनिषेधसूत्रे सवनादिगणे अश्वसनिशब्दपाठो व्यर्थः । न च तत्पाठाभावे तदवयवसकारस्य षत्वापत्तिरिति वाच्यम् ।
(सू.8-3-103) इति सूत्रेण हि षत्वप्राप्तिर्वक्तव्या । तत्र इण इत्यस्यानुवृत्तेः इणन्तपूर्वपदात्परस्यैव सस्य षत्वं विधीयते । अश्वसनिशब्दे च सकारस्य इणन्तपूर्वपदात्परत्वाभावेन षत्वाप्राप्तेरित्याशङ्कय ज्ञापकतया तत्पाठसार्थक्यामाह--सवनादिष्विति । तथा च क्वचिदनिणन्तात्परस्यापि षत्वं भवतीति ज्ञाप्यते । तेनाश्वसनिशब्देऽपि षत्वप्राप्तौ तत्प्रतिषेदार्थं सवनादिषु तस्य पाठः क्रियते । ज्ञापनप्रयोजनं तु जलाषाहं माष इत्यादौ षत्वसिद्धिरिति भाष्ये स्पष्टम् । झ्र्ज्ञा.प.ट ष्टुना ष्टुः (सू.8-4-41)।। "तोः षि' (सू.8-4-43) इति प्रतिषेधो ज्ञापयति नेह संख्यातानुदेशो भवतीति । झ्र्वि.ट ननु "ष्टुना ष्टुः' इति सूत्रे "यथासंख्यमनुदेशः समानाम्' इति सूत्रेण यथासंख्यामन्वयेन सकारस्य षकारस्य षकारेण योगे षकारः, तवर्गस्य टवर्गेण योगे टवर्गः आदेश इति सूत्रार्थः स्यात् । ततस्च रामष्टीकते पेष्टा इत्यादौ ष्टुत्वं न स्यादित्याशङ्क्याह--तोः षि इति प्रतिषेध इति । "तोः षि' इति सूत्रेण तवर्गस्य षकारे परे ष्टुत्वं निषिध्यते । सन् षष्ठ इत्युदाहरणम् । यदि च "ष्टुना ष्टु' रिति सूत्रे यथासंख्यमन्वयो भवेत् तदा तवर्गस्य टवर्गेण योग एव तत् सूत्रं प्रवर्तेत न षकारेणेति सन् षष्ठ इत्यादौ टवर्गाप्रवृत्तेः "तोः षि' इति सूत्रं व्यर्थं भवेत् । कृतं तत् सूत्रं "ष्टुना ष्टुः' इत्यत्र यथासंख्यान्वयो नेति ज्ञापयति । अतो रामष्टीकत इत्यादिसिद्धिरिति भावः ।। इति प्रथमं ज्ञापकसंग्रहपरिशिष्टम्