सामग्री पर जाएँ

ज्ञापकसंग्रहपरिशिष्टम्/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः ज्ञापकसंग्रहपरिशिष्टम्
सप्तमोऽध्यायः
[[लेखकः :|]]
अष्टमोऽध्यायः →

अथ सप्तमोऽध्यायः
    ननु शङ्खः शण्ढ इत्यादावपि आयन्नादय आदेशाः प्राप्नुवन्ति । "शमेः खः' (सू.उ.सू.107) इत्तयाद्युणादिसूत्रैः ख ढ इत्यादीनां प्रत्ययानां विधानेन खादीनां प्रत्ययादित्वेन "आयनेयी' इति सूत्रप्राप्तेरित्याशङ्कयाह-- झ्र्ज्ञा.प.ट ऋतेरीयङ् (सू.3-1-29)।। इति धातोरीयङ्विधानं ज्ञापकं न धातुप्रत्ययानामायन्नादयो भवन्तीति । झ्र्वि.ट अयं भावः--ऋतिः सौत्रो धातुः जुगुप्सार्थकः । ततः स्वार्थे ईयङ्प्रत्ययः "ऋतेरीयङ्' (सू.3-1-29) इति सूत्रेण विधीयते । ऋतीयते इति रूपम् । तत्र लाघवात् ऋतेश्छङ् इत्येव वक्तुं शक्यम् । छकारस्य "आयनेयी' इति सूत्रेण ईयादेशे ऋतीय इतीष्टं रूपं सिद्धमेव। ततश्च लघीयांसं न्यासं परित्यज्य ऋतेरीयङ् इति गरीयांसं न्यासं यत्करोति तज्ज्ञापयति धातोः परेषां प्रत्ययानां ये फादयः तेषामायन्नादयो न भवन्तीति । ततश्च छङि्वधाने धातोः परस्य छङः छकारस्य ईयादेशो न भवेदिति ईयङिं्वधानं सार्थकम् । तेन शङ्ख इत्यादौ "आयनेयी' इति सूत्रं न प्रवर्तत इति । झ्र्ज्ञा.प.ट इकोचि (सू.7-1-73)।। अज्ग्रहणं ज्ञापयति भचवतीह कश्चिदन्योऽपि प्राकारः प्रत्ययलक्षणं नोमेति । झ्र्वि.ट ठइकोऽचि विभक्तौ' इति सूत्रे अज्ग्रहणमुत्तरार्थमित्युक्तं वार्तिककारेण । तत्र भाष्यकारः यद्युत्तरार्थं स्यात् तर्हि तत्रैव कुर्यात् इह क्रियमाषस्य तस्य प्रयोजनं किंचित् वाच्यम् इत्याशङ्क्य, त्रपु जपु इत्यत्र नुम्वारणं प्रयोजनमित्युक्त्वा ततः वभिक्तावित्यस्यानुवृत्तेः विभक्तौ परत एव नुम् भवति । त्रपु जतु इत्यत्र विभक्तेर्लुका लुप्तत्वात् विभक्तिपरकत्वाभावादेव नुम् न भविष्यतीति अज्ग्रहणं व्यर्थम् । न च प्रत्ययलक्षणेन विभक्तिपरत्वमाशङ्कनीयम् । "न लुमताङ्गस्ये' ति निषेधादित्याशङ्क्य एवं तर्हि सिद्धे सति यदज्ग्रहणं करोति तज्ज्ञापयति भवतीह कश्चिदन्योऽपि प्रकारः प्रत्ययलक्षणं नाम । तथा च प्रत्ययलक्षणेन विभक्तिपरकत्वात् त्रपु इत्यादौ नुमि प्राप्ते तद्वारणाय अज्ग्रहणम् । एवं ज्ञापनस्य प्रयोजनं तु हे त्रपो इत्यत्र संबुद्धेर्लोऽपि प्रत्ययलक्षणेन संबुद्धिपरकत्वात् "ह्रस्वस्य गुणः' (सू.7-3-108) इति गुणः सिद्धो भवतीत्युक्तवान् । तदाह--अज्ग्रहणमिति । झ्र्ज्ञा.प.ट स्त्रियां च (सू.7-1-96)।। "न तिसृचतसृ' (सू.6-4-4) इति प्रतिषेधो ज्ञापयति न रादेशो नुटं बाधत इति । झ्र्वि.ट ठस्त्रियां च' (सू.7-1-96) इति सूत्रे "नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन' इति वार्तिकम् । अचिरस्योदाहरणम् तिसृणां चतसृणामिति । तिसृ आम् चतसृ आम् इत्युभयत्रापि "अचि र ऋतः' (सू.7-2-100) इति रादेशे "ह्रस्वनद्यापः' (सू.7-1-54) इति नुडड्डत्ध्;ागमे च प्राप्ते परत्वात् रेफादेशे कृते नुडड्डत्ध्;ागमो न प्राप्नोति । अतः पूर्वविप्रतिषेधेन अचि रादेशं बाधित्वा नुडड्डत्ध्;ागमो भवतीति वार्तिकस्याशयः । तदनन्तरं "न वा नुडि्ड्डत्ध्;वषये रप्रतिषेधात्' इत्यन्यद्वार्तिकम् । नुडि्ड्डत्ध्;वषये रादेशों न भवतीति वक्तव्यम् । अन्यथा रादेशस्य गुणर्प्वसवर्णबाधकत्वमिव नुड्ड्डत्ध्;बाधकत्वमपि स्यादिति तदाशयः । तदेतत् वार्तिकद्वयं प्रत्याचक्षाणो भाष्यकारः "न तिसृचतसृ' इति सूत्रेण नामि परतः तिसृचतस्त्रोः दीर्घनिषेधात् रादेशस्य नुड्ड्डत्ध्;विषये रादेशस्याप्राप्तेः नुडि्ड्डत्ध्;वषये रप्रतिषेधोऽपि न वक्तव्यः पूर्वविप्रतिषेधेननुटः उपसंख्यानमपि अनावश्यकमिति न्यरूपयत्। तन्मनसिकृत्याह--न तिसृचतसृ इति प्रतिषेध इति । झ्र्ज्ञा.प.ट विभाषा भावादि (सू.7-2-17)।। योगविभागो ज्ञापकः यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति । झ्र्वि.ट ननु "आदितश्च' "विभाषा भावादिकर्मणोः' (सू.7-2-16,17) इति सूत्रद्वयमष्टाध्याय्यां पठ्यते । तत्र प्रथमसूत्रस्य आकारेतो धातोर्निष्ठाया
इण्न स्यादित्यर्थः । प्रस्विन्न इत्युदाहरणम् । द्वितीयसूत्रस्य भावे आदिकर्मणि च आदितो निष्ठाया इड्ड्डत्ध्;वा स्यादित्यर्थः । तत्र सूत्रद्वयं मास्तु "आदितो विभाषा भावादिकर्मणोः' इत्येकमेव सूत्रं क्रियताम् । भावे आदिकर्मणि च आदितो धातोर्विभाषा इट् इति सूत्रार्थः । तर्हि कर्तरि इट्प्रतिषेधः कथं लभ्ययते इति चेत्-"यस्य विभाषा' (सू.7-2-15) इति सूत्रेण लभ्यते । यस्य क्वचित् विभाषा इडुड्डत्ध्;क्तः ततो निष्ठाया इण्न स्यादिति तस्य सूत्रस्यार्थः । ततश्च आदितो भावादिकर्मणोर्विभाषा इटः उक्तत्वात् कर्तरि निष्ठायाः यस्य विभाषेति इण्निषेधः सिध्यति । तथा च योगं विभज्य प्रथमसूत्रस्य इण्निषेधपरतया द्वितायस्य वेडि्ड्डत्ध्;वधायकतया च वर्णनं किमर्थमित्याशङ्क्य, अत एवैवमेकेन योगेन सिद्धे योगविभागकरणं ज्ञापयति यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति । यादृशविशेषणविशिष्टस्य विकल्पः विहितः तादृशविशेषणविशिष्ट एव प्रतिषेधोऽपि भवितुमर्हति । तत्र च भावादिकर्मणोरुपाध्योर्विकल्पविधानात् कर्तरि निष्ठया यस्य विभाषेति इटः प्रतिषेधो न स्यात् । भावादिकर्मणोरपि विकल्पप्रतिषेधयोरसंभवात् प्रतिषेधो न स्यात् । तथा च सूत्रवैर्यथ्यं स्यात् । अतः कर्तरि कर्मणि च निष्ठाया इट्प्रतिषेधाय, भावे आदिकर्मणि च विकल्पेन इडि्ड्डत्ध्;वधानाय च योगविभागः कृतः । यदुपाधेरिति ज्ञापनस्य फलं तु विद ज्ञाने इति धातोः "विभाषा गमहनविदविशाम्' (सू.7-2-68) इति सूत्रेण वसोर्विकल्पेन विविदिवान् विविद्वान् इत्येवमिडि्ड्डत्ध्;वधानात् निष्ठायां विदित इत्यत्र "यस्य विभाषा' इति इण्निषेधः प्रप्तः । स च उक्तज्ञापकाद्वार्यते । "विद्लृ लाभे' इत्यस्यैव ग्रहणमिति तस्यैव विकल्पेनइट् विहित इति तस्यैव "यस्य विभाषा' इत्यनेन इट्प्रतिषेधः न ज्ञानार्थकस्येति ज्ञानार्थकस्य विदित इति रूपस्य सिद्धिरिति भाष्यादिषु निर्णीतम् । तदभिसन्धायाह--योगविभाग इति । अत्र च "यद्यपि हन्तिना साहचर्यं विदेरस्ति तथापि शब्दपरविप्रतिषेधाद्विशिर्व्यवस्थाहेतुर्न इन्ति' रिति कैयटग्रन्थोऽप्यनुसन्धातव्यः । झ्र्ज्ञा.प.ट स्वरतिसूति (7-2-44)।। "सनीवन्तर्ध' (सू.7-2-49) इत्यत्र स्वृग्रहणात् ज्ञापकात् नेयं विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये भवतीति । झ्र्वि.ट ननु स्वृत्वा इत्यत्र "स्वरतिसूतिसूयतिधूञूदितो वा' इति सूत्रेण इडि्ड्डत्ध्;वकल्पापत्तिः । न च "श्र्युकः किति' (सू.7-2-11) इति उगन्तात् परस्यकितः इण्निषेधात् नेट्प्रसङ्ग इति वाच्यम् । स्वरतीति सूत्रं येननाप्राप्तिन्यायेन यथा एकाज्लक्षणस्य इण्निषेधस्य बाधकं तथा "श्र्युकः किति' इत्यस्यापि बाधकमिति इडड्डत्ध्;ापत्तेर्दुर्वारत्वात् इत्याशङ्क्याह--सनीवन्तर्ध इत्यत्रेति । अयमाशयः--"सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्' (सू.7-2-49) इति सूत्रेण इवन्तेभ्यः ऋधादेभ्यश्च परस्य सन इड्ड्डत्ध्;वा स्यादिति कथ्यते । स्वृधातुरपि तत्र निर्दिष्टः । तस्य चोदाहरणम् सुस्वूर्षति सिस्वरिषतीति च । तत्र "स्वरतिसूति' इति सूत्रेणैव इडि्ड्डत्ध्;वकल्पस्य सिद्धत्वात् स्वृग्रहणं व्यर्थं सत् ज्ञापयति स्वरतिसूतीति विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये न भवतीति । ततश्च "श्र्युकः किति' इति प्रतिषेधप्राप्तौ तद्बाधनाय "सनीवन्तर्ध' इति सूत्रे स्वृग्रहणम् । एवं च स्वृत्वा इत्यत्र इडि्ड्डत्ध्;वकल्पाप्रवृत्तेः "श्र्युकः किति' इतीण्निषेधात् नेटः प्रसङ्ग इति । झ्र्ज्ञा.प.ट तद्धितेष्वचामादेः (सू.7-2-117)।। अनुशतिकादिषु पुष्करसच्छब्दपाठो ज्ञापयति अचामादिवृद्धौ अन्त्योपधालक्षणा वृद्धिर्न भवतीति । झ्र्वि.ट ननु "क्रौष्ट्रः, जागतः' इत्यत्र क्रोष्टृशब्दात् जगच्छब्दाच्च तस्योदमित्यण् भवति, तद्धितेष्वचामादेः इत्यादिवृद्धिश्च । तत्र ऋकारस्य अन्त्यस्य "अचो ञ्णिति' (सू.7-2-115) इति वृद्धिः प्राप्नोति । न
चाचामादिवृद्धिरन्त्यलक्षणायाः उपधालक्षणायाश्च वृद्धेर्बाधिका, अतः तथोः शब्दयोरचामादिवृद्धिरेव भवतीति वाच्यम् । येननाप्राप्तिन्यायेन ह्यपवादत्वात् बाधकत्वं वक्तव्यम् । तच्चात्र न भवति । यत्र अन्त्यलक्षणा उपधालक्षणा च वृद्धिर्भवितुमयोग्या तत्रापि सौश्रुतः इत्यादावचामादिवृद्धेः सावकाशत्वेन वाधकत्वासंभवादित्याशङ्क्याह--अनुशतिकादिष्विति । अथं भावः--पुष्करसदः अपत्यमित्यर्थे पुष्करसच्छब्दात् "बाढद्धठ्ठड़14;वादिभ्यश्च' (सू.4-1-96) इति इञि आदिवृद्धौ प्राप्तायामुभयपदवृद्ध्यर्थं पुष्करसच्छब्दः अनुशतिकादिषु पठ्यतो यदि अचामादिवृद्धिविषयेऽपि उपधावृद्धिर्भवेत् तर्हि उकारस्यअचामादिवृद्ध्या सकाराकारस्य उपधावृद्ध्या च पौष्करसादिः इति उभयपदवृद्धिसिद्धेः तदर्थं क्रियमाणः अनुशतिकादिषु तत्पाठो व्यर्थः स्यात् । कृतश्च सः उक्तवचनं ज्ञापयतीति । यद्यपि उपधावृद्ध्यर्हस्य पुष्करसाच्छब्दस्य पाठः उपधावृद्ध्यभावमेव ज्ञापयितुमलम्, तथाप्येकदेशानुमत्या वा वृद्धिसामान्यं न बवतीत्येव सामान्यापेक्षज्ञापकत्वेन वा अन्त्यलक्षणा वृद्धिरपि न भवतीति लभ्यत इति ध्येयम् । झ्र्ज्ञा.प.ट जाग्रोऽवि (सू.7-3-85)।। चिण्णलोः प्रतिषेधो ज्ञापयति न गुणाभिनिर्वृत्तस्य वृद्धिर्भवतीति । झ्र्वि.ट ननु जागृधातोर्णिजन्ताल्लटि जागरयतीत्यत्र जागृ इ अति इति स्थिते ऋकारस्य "जाग्रोऽविचिण्णल्ङित्सु' इति सूत्रेण गुणे रपरे सति जागर् इ अति इति स्थिते "अत उपधायाः' (सू. 7-2-116) इति वृद्धिः प्राप्नोति इत्याशङ्क्याह--चिण्णलोरिति । "जाग्रोऽविचिण्णल्‌ङित्सु' इति सूत्र एव चिणि णलि च परतः गुणो निषिध्यते । तत्फलं च अजागारि, जजागार इत्युभयत्रापि गुणाप्रवृत्तिपूर्वकवृद्धिसिद्धिरिति । तत्रापि सत्यपि गुणे अजागर् इ, जजागर् अ इत्यवस्थायां "अत उपधायाः' इति वृद्ध्या इष्टरूपसिद्धेः किं तयोर्गुणप्रतिषेधेन । कृतश्च प्रतिषेधो ज्ञापयति गुणशब्देन निष्पन्नो योऽकारः तस्य अत उपधाया इति वृद्धिर्न भवतीति । एवं च चिण्णलोर्जाग्रो गुणे सति तदभिनिर्वृत्तस्य अकारस्य वृद्धिर्न भवेदिति तयोर्गुणप्रतिषेधः कृतः । ततश्च गुणाभावे "अचो ञ्णिति ' इति वृद्धौ अजागारि जजागार इति रूपसिद्धिरिति स्वांशे चरितार्थता । ज्ञापनप्रयोजनं तु जागरयतीत्यादौ अत उपधाया इति वृद्धिः न भवतीति इत्याशयः ।। झ्र्ज्ञा.प.ट पुगन्त (सू.7-3-96)।। क्नुसनोः कित्करणं ज्ञापकं भवत्येवंजातीयकानां गुण इति । झ्र्वि.ट ननु भिदेस्तृचि तुमुनि च भेत्ता भेत्तुमित्यत्र "पुगन्तलघूपधस्य च' इति गुणो न सिध्यति । भिद् तृ, भिद् तुम् इत्यत्र धात्वन्तप्रत्ययाद्योर्हलोरनन्तरयोः संयोगसंज्ञायां "संयोगे गुरु' (सू.1-4-11) इति इकारस्य गुरुसंज्ञया लघुसंज्ञाया बाधात् उपधाया इकारस्य लघुत्वाभावादित्याशङ्क्याह--क्नुसनोरिति । "त्रसिगृधिधृषिक्षिपेः क्नुः' (सू.3-2-140) इति सूत्रे क्नोः कित्करणं गृध्नुः इत्यादौ उपधागुणप्रतिषेधार्थम् । तत्रापि धात्वन्तप्रत्ययाद्योर्हलोः संयोगसंज्ञायां"संयोगे गुरु' इति ऋकारस्य गुरुसंज्ञया लघुसंज्ञायाः बाधात् उपधायाः लघुत्वाभावादेव गुणाप्रवृत्तेः गुणनिषेधफलकं कित्करणमनर्थकम् । एवं "हलन्ताच्च' (सू.1-2-10) इति सूत्रेण इक्समीपाद्धलः परस्य झलादेः सनः कित्त्वविधानं भिभित्सतीत्यादौ गुणनिषेधफलकं क्रियमाणं व्यर्थम् । धात्वन्तदकारप्रत्ययादिसकारयोः संयोगसंज्ञायां तस्मिन् परे इकारस्य गुरुत्वेन लघुत्वाभावादेव गुणाप्रवृत्तेः । तथा च क्नुसनोः कित्करणं व्यर्थं सत् एवंजातीयकानां--धात्वन्तप्रत्ययाद्योर्हलोः संयोगसंज्ञां निमित्तीकृत्य लब्धगुरुव्यपदेशानामिकां गुणो भवतीति ज्ञापयति । एवं च गुणप्राप्तौ तन्निषेधफलकं कित्करणं सार्थकं भवति । ज्ञिापनफलं तु भेत्ता भेत्तुमित्यादौ गुणसिद्धिरिति भावः
।। झ्र्ज्ञा.प.ट ठङेराम्नद्याम्नीभ्यः' (सू.7-3-116) इति पृथगाब्ग्रहणात् नापो नदीसंज्ञा भवतीति । झ्र्वि.ट ठयू स्त्रयाख्यौ नदी' इति सूत्रेण नित्यस्त्रीलिङ्गयोरीदूदन्तयोर्नदीसंज्ञा उच्यते । तत्र यू इत्यनुक्तौ खट्वा माला इत्यादेः नित्यस्त्रीलिङ्गस्य टाबन्तस्यापि नदीसंज्ञायां खट्रवाबन्धुः मालाबन्धुः इत्यत्र "नदी बन्धुनि' (सू.6-2-109) इति सूत्रेण पूर्वपदान्तोदात्तस्वरः प्रसज्येत । इष्यते तु खटेः औणादिके क्वनि खट्वाशब्दनिष्पत्तेः ईदूदन्तत्वाबावात् नदीसंज्ञाया अप्राप्त्यान पूर्वोक्तदोष इति यू इत्यस्य प्रयोजनं वक्तव्यम् । तत्तु प्रयोजनं ज्ञापकेन आबन्तस्य नदीसंज्ञायाः वारयितुं शक्यत्वादयुक्तम् । तथा हि--यदि आबन्तस्यापि नदीसंज्ञा स्यात् तर्हि "ङेराम्नद्याम्नीब्यः' इति सूत्रे नदी इत्यनेनैव आबन्तस्यापि ग्रहणे सिद्धे पृथक् आब्ग्रहणमनर्थकं स्यात् । कृतं च तत् आबन्तस्य नदीसंज्ञा न बवतीति ज्ञापयति । तदेतदाह--इति पृथगिति । तथा च आबन्तस्य नदीसंज्ञावारणफलकत्वं थूइत्यस्य न भवतीति मात्रे मातुः इत्यत्र ऋकारान्तस्य नदीत्ववारणमेव तत्फलं वक्तव्यम् । तस्य हि नदीत्वे "आण् नद्याः' इति ततः परस्य ङितः आडड्डत्ध्;ागमो भवेदिति भाष्ये स्थितम् । झ्र्ज्ञा.प.ट ऋतश्च (सू.7-4-92)।। अङ्गविशेषणमेतदित्यत्र तपरकरणं ज्ञापकम् । झ्र्वि.ट ननु "ऋतश्च'(सू.7-4-92) इति सूत्रे ऋत इत्येतत् किमङ्गविशेषणम् आहोस्विदभ्यासविशेषणम् । अभ्यासविशेषणत्वपक्षे धातोरवयवस्य ऋदन्तस्याभ्यासस्य रुक् रिक् रीक् आगमाः यङ्लुकि स्युरिति सूत्रार्थः । अङ्गविशेषणत्वपक्षे ऋकारान्तस्य धातोरवयवस्याब्यास्स्य उक्तागमाः स्युरति सूत्रार्थः । कतरः पक्षोऽत्र न्याय्य इत्याशङ्क्य अङ्गविशेषणमित्याह-- अङ्गविशेषणमिति । अत्र सूत्रे तपरकारणाभावे "कॄ विक्षेपे' इति धातोर्यङ्लुकि चाकर्तीत्यत्र अब्यासस्य रुगाद्यागमः प्राप्नुयात् । कॄ यङ्लुक् ति इति स्थिते धातोर्द्वित्वेकॄ कॄ ति इति स्थिते अभ्यासह्रस्वे "उरत्' इत्यभ्यासस्य अकारे कर् कॄ ति इति जाते हलादिशेषे चुत्वे "दीर्घोऽकितः'(सू.7-4-83) इति अभ्यासस्य दीर्घे चाकॄति इति स्थिते "सार्वधातुकार्धधातुकयोः' इति ऋकारस्य गुणे च चाकर्तीति रूपं सिध्यति । तत्र ऋकारस्याभ्यासविशेषणत्वपक्षे तपरकरणं व्यर्थम् । अभ्यासस्थदीर्घॠरापव्यावर्तनं हि तत्फलम् । न ह्यभ्यासे दीर्घः संभवति । "ह्रस्वः' (सू.7-4-59) इति सूत्रेण ह्रस्वप्राप्तेः । तथा च तपरकारणं ज्ञापयति अङ्गविशेषणमेतत् इति । तत्र च तपरकरणाभावे अभ्यासह्रस्वेऽपि कृ कॄ इत्यङ्गस्य दीर्घान्तस्य संभवात् तदवयवाभ्यासस्य रुगाद्यागमे सति चर्कर्ति चरिकर्ति चरीकर्ति इति रूपाणि कॄधातोर्भवेयुः । इष्यते तु चाकर्तीति रूपम् । अतस्तपरकरणं कृतम् । कृते च तस्मिन् कृ कॄ इत्यङ्गस्य ह्रस्वऋकारान्तत्वासंभवात् न तदवयवाभ्यासस्य रुगाद्यागमप्राप्तिरिति भावः ।। झ्र्ज्ञा.प.ट सन्वल्लघुनि (सू.7-4-93)।। "अत्समृदृत्वर'(सू.7-4-95) इति इत्वबाधनार्थत्वविधानं ज्ञापयति भवति संयोगव्यवहितानामित्वमिति । झ्र्वि.ट ननु "सन्वल्लघुनि चङ्परेऽनग्लोपे' इति सूत्रेण चङ्परे णो यल्लघु तस्मिन् परतोऽभ्यासस्य सन्वत्कर्थं भवतीत्युच्यते । एवं च अचिक्षणत् इत्यत्र अभ्यासस्य इत्वं न प्राप्नोति । क्षणधातोर्णिजन्तात् लङि अटि चङि द्वित्वे हलादिशेषे चुत्वे च अचक्षण् इ अत् इत्यत्र चङ्परे णौ यल्लघु क्ष इत्यत्र अकारः तत्परकत्वमभ्यासस्य नास्ति संयोगसंज्ञकककारषकारव्यवधानात् इत्यशङ्क्याह--इत्वबाधनार्थेत्यादि । अथं भावः- "अत्समृदृत्वरप्रथम्रदस्तॄस्पशाम्' (सू.7-4-95) इति सूत्रेण समृ इत्यादीनां धातूनामभ्यासस्य अकारोऽन्तादेशो विधीयते चङ्परे णौ परे । असस्मरत् इत्यादिकमुदाहरणम् । "सन्वल्लघुनि' इति
सूत्रेण सन्वद्भावातिदेशप्राप्तस्य इत्वस्य बाधनाय अत्वं बिधीयते । तत्र सकारमकाररूपसंयोगव्यवहितत्वात् अभ्यासस्य चङ्परणिपरकलघुपरकत्वं नास्तीत्यत एव सन्वद्भावाभावेन इत्वाप्रसक्तेः तद्बाधनार्थतया विधीयमानमत्वं व्यर्थं सत् ज्ञापयति संयोगव्यवहितानामपि इत्वं भवतीति । तता च अचिक्षणत् इत्यत्र इत्वं सुलभमिति भावः ।। इति सप्तमोऽध्यायः