काशिका (पदमञ्जरीव्याख्यासहिता)/पञ्चमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
काशिकावृत्ती
अथ पञ्चमाध्याये द्वितीयः पादः
धान्यानां भवने क्षेत्रे खञ् ।। 5.2.1 ।।
धिनोतेः `कृत्यल्युटो बहुलम्' इति कर्तरि ण्यत्, अस्मादेव निपातनादन्त्यस्य लोपः, इकारस्य चात्वम्। धिनोतीति धान्यम्। `धान्यमसि धिनुहि देवान्' इति हि दृश्यते। धान्यानामिति भवनापेक्षया कर्त्तरि षष्ठी। भवनमित्यधिकरणे ल्युट्। क्षियष्ट्रन्, क्षेत्रम्। भवति जायतेऽस्मिन्निति भवनमिति। एतेनोत्पत्तिवचनोऽत्र भवतिर्गृह्यते, न सत्तावचन इति दर्शयति। एतच्च क्षेत्रग्रहणाल्लभ्यते। क्षेत्रशब्दो हि तृणानां धान्यानां चोत्पत्त्याधारमाचष्टे। न हि धान्यानां सत्तां प्रति भूमिः क्षेत्रव्यपदेशमासादयति। मुद्रानां भवनं कुसूलमिति। असति क्षेत्रग्रहणे सत्तावचनस्यापि भवतेर्ग्रहणं स्यादिसि भावः। किञ्च--भवनशब्दो गृदे रुढ इति मुद्गानां गृहमित्यत्रैव प्रसङ्ग इत्यपि शक्यते वक्तुम्।
यदि तर्हिह क्षेत्रग्रहणमवश्यं कर्त्तव्यम्, तदेवास्तु, किं भवनग्रहणेन ? धान्यानामिति शेषलक्षणषष्ठी, क्षेत्रं प्रत्ययार्थः। न चैवं क्षेत्रशब्दस्यापि शरीरभार्याद्यनेकार्थत्वादतिप्रसङ्ग; धान्यसम्बन्धादुत्पत्तिभूमिरेव प्रत्यष्यते। तदेतद्भवनग्रहणं चिन्त्यप्रयोजनम् ।।
व्रीहिशाल्योर्ढक् ।। 5.2.2 ।।
अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ।।
यवयवकषष्टिकाद्यत् ।। 5.2.3 ।।
अत्र प्रत्ययार्थसामर्थ्यलभ्या षष्ठी समर्थविभक्तिः ।।
विभाषा तलमाषोमाभङ्गाणुभ्यः ।। 5.2.4 ।।
खञि प्राप्तो वचनं पक्षे सोऽपि भवतीति। युक्तं यदणुतिलमाषेभ्यः पक्षे कञपि भवतीति, तेषां धान्यत्वात्; उमाभङ्गयोस्त्वधान्यत्वादयुक्तम्, धान्यान्येव हि चमकानुवाकेषु पठ्यन्ते `व्रीहयस्य मे' इत्यादीनि, तान्येव धान्यानि, न चोमाभङ्गावत्र पठ्येते ? अत आह--उमाभङ्गयोरपि धान्यत्वमाश्रितमेवेति। न चमकानुवाको धान्यपरिगणनार्थः, तत्राधान्यानामप्यश्मादीनां पाठाद्, धान्यानामिपि केपाञ्चित् कोद्रवादीनामपाठात्। तस्मादन्यत एव थधान्यनिर्णयः, तत्र `शणसप्तदशानि धान्यानि' इति स्मृतिः, तत्र चोमाभङ्गे अपि पठिते। तस्माद्युक्तमेव यत्ताभ्यामपि पक्षे खञ् भवतीति ।।
सर्वचर्मणः कृतः शखञौ ।। 5.2.5 ।।
तृतीयासमर्थादिति। कृत इति प्रत्यर्थार्थे चर्मणः करणत्वात्सामर्थ्यलभ्या तृतीया समर्थविभक्तिः। सर्वशब्दस्य चर्मशब्देन समासं कृत्वायं निर्द्देशः। सर्वचर्मण इति समासश्च सामर्थ्ये सति भवति, ततश्चर्मशब्देनास्य सम्बन्ध इति कश्चिद्भाम्येत्तं प्तय्याह--सर्वशब्दश्चात्रेति। कथं तर्हि समासः? इत्याह--तत्रायमिति। अस्मादेव निपातनादिति भावः। किं पुनः कारणं सर्वशब्दः कृतेन सम्बध्यते न चर्मणा ? इत्याह--सर्वश्चर्मणेत्यादि। सर्वश्चर्मणा कृत इति योऽयं वाक्यार्थः, अस्मिंस्तद्धित्तवृत्तिरिष्यते, यदि चर्मणा सम्बध्येत, ततो यदि सर्वचर्मेति षष्ठीसमासः, ततः सर्वस्म्बन्धइना चर्मणा कृत इत्यर्थः स्यात्। अथ कर्मधारयः, ततः सर्वेण चर्मणा कृत इति, न तु कृतस्य सर्वत्वमुभयथापि लभ्यते। तस्मात्कृतेनैव सम्बन्धो न्याय्य इति भावः ।।
यथामुखसम्मुखस्य दर्शनः खः ।। 5.2.6 ।।
दृश्यतेऽस्मिन्दर्शन इति। अधिकरणे। ल्युट्, कः पुनरसौ ? इत्याह--आदर्शादिरिति। आदिशब्देन जलादिकं गृह्यते। प्रतिबिम्बाश्रय इति। यो हि मुखादिप्रतिविम्बस्याश्रयस्तत्र मुखादिकं दृश्यते। मुखस्य सदृशं यथामुखं प्रतिविम्बम्, सादृश्यप्रतिषेधात्कथमत्र समासः? तत्राह--निपातनादिति। भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशबप्द आश्रितः, तथा च मायामृगं प्रकृत्य भवति श्लोकः--`यथामुखीनः सीतायाः पुप्लुवे वहुलो भवन्' इति, यथामुखं दर्शन इत्यव्ययीभावस्यापि यथामुखशब्दस्योन्मत्तगङ्गादिवत् सत्त्वचनत्वात्कर्मशक्तियोगे सति दर्शनशब्दयोगे कृद्योगलक्षणा कर्मणि षष्ठी, तस्याः `नाव्ययीभावात्' इत्यम्भावः। अत एव पूर्वमुक्तम्--`यथामुखशब्दात्संमुखशब्दाच्च षष्ठीसमर्थात्' इति। समं मुखं संमुखमिति समशब्दः सर्वशब्दपर्यायः। निपातनादन्त्यलोपः, संमुखस्येति कर्मणि षष्ठी। प्रत्ययसन्नियोगेनान्त्यलोपनिपातनान्नेदं प्रयोगार्हम्, किं तर्हि ? प्रक्रियावाक्यम्। संशब्दस्तु न समशब्दस्यार्थे दृश्यते। सम्मुखीन इति। यत्रादर्शादौ सर्वं मुखं दृश्यते तदेवमुच्यते। कथं तहि `संयुगे संमुखीनं तमुद्यन्तं प्रसहेत कः' इति ? अभिमुखावस्तानात्साधर्म्याद्भविष्यति ।।
तत्सर्वादेः पथ्यङ्गकर्मपत्त्रपात्रं व्याप्नोति ।। 5.2.7 ।।
परिशिष्टं प्रकृतिविशेषणमिति। तत्र केवलानां पथ्यादीनां सर्वादित्वासम्भवात्प्रातिपदिकैरपि तैस्तदन्तविधिः, पञ्चम्यर्थे च प्रथमा द्वितीया वेत्याह---पत्यङ्गकर्मपत्त्रपात्रान्तादिति। सर्वपथीन इति। `पूर्वकाल' इत्यादिना समासः, `ऋक्पूरब्धूः' इत्यकारः समासान्तः, तस्य पथ्यन्तसमासग्रहणेन ग्रहणात्पथ्यन्तमेव प्रातिपदिकमिति खप्रत्ययः ।।
आप्रपदं प्राप्नोति ।। 5.2.8 ।।
प्रापदमिति पादस्याग्रमुच्यत इति। प्रारम्भः पदस्येति कृत्वा। तयोरव्ययीभाव इति। ???????????????????? इत्यनेन। द्वितीयासमर्थादिति। क्रियाविशेषणे `कर्मणि द्वितीया'। आप्रपदं यथा तथा सर्वशरीरं प्राप्नोतीत्यर्थः. शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यायत इति। योग्यत्वात्, योग्यो ह्यसावाप्रपदं शरीरं प्राप्तुम्। व्याप्नोतीति प्रकृते प्राप्तनोतीति वचनमर्थभेदात्--सम्बन्धमात्रम्=प्राप्तिः, सम्बन्धः साकल्योपाधिकः=व्याप्तिः। `आप्रपदम्' इत्यत्र त्वभिविधौ व्याप्त्रिगम्यते, न गर्यादायाम् ।।
अनुपदसर्वान्नायानयं बद्धाभक्ष्यतिनेयेषु ।। 5.2.9 ।।
अनुरायाम इति। `यस्य चायामः' इति वा, `यथार्थे यदव्ययम्' इति वा ऽव्ययीभाव इत्यर्थः. पदप्रमाणेत्यर्थ इति। आयामे तावदयमेवार्थः, सादृश्येऽपि तुल्यपरिमाणतया सादृश्यमित्यमेवार्थो भवति। सर्वान्नीनो भिक्षुरिति। प्रकारकार्त्स्न्ये सर्वशब्दः, यान्यन्नानि लभ्यन्ते उष्णानि शीतानि सरसानि विरसानि तानि सर्वाणि भक्षयतीत्यर्थः। अयनमय इति गमनमात्रमयशब्देनोच्यते, तत्प्रतिषेधस्त्वनयशब्देनेत्याशङ्कामपनयति--अयः प्रदक्षिणमिति। प्रदक्षिणं गमनमित्यर्थः। एवम् अनयः प्रसव्यम्। वामपर्यायगमनम्। एतच्च रूढिवशाल्लभ्यते। रूढो ह्ययमयानयशब्दः शारणां प्रदक्षिणप्रसव्यगमने--श्रृणन्त्येभिर्द्ूतकाराः परस्परमिति शाराः, द्यूतसाधनविसेषाः, श्वान् इति येषां प्रसिद्धइः, `कृत्यल्युटो बहुलम्' इति करणे घञ्। तत्राभिमुखयोः क्रीडतोः कितवयोर्यदैवैकं प्रति प्रदक्षिणं गमनं तदेवेतरं प्रति प्रसव्यमित्ययश्चासावनयश्च अयानय इति कर्मधारयः ।
अथ वा--एकमेव प्रत्ययानयत्वम्, कथम्? वीथीभेदेन। चतस्रो वीथयः, तत्रात्मीयाः शाराः परपार्श्वे स्थिताः प्रथमायां वीथ्यामात्मनः प्रदक्षिणं दच्छन्ति, द्वितीयस्यां प्रकञ्म्, एवमुत्तरयोः; तत्र समाहारद्वन्द्वे लोकाश्रयत्वेन पुंल्लिङ्गता।
अपर आह--एकदेशद्वारेण गमनसमुदायस्यानयव्यपदेशः, कृताकृतदिवत्सामानाधिकरणसमास एवायमिति। प्रदक्षिणप्रसव्यगमनमात्रेऽपि नेष्यते, किन्तु विशेष इत्याह---प्रदक्षिणप्रसव्यगामिनामित्यदि। यस्मिन् गतिविशेषे सति गामिनामित्यादि। बहुवचनमयानयनिमित्तप्रदर्शनार्थम्। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भवतः, नान्यथा। तत्रामीयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्। तेषामेवङ्गामिनां यानि स्तानानि तेषां यस्मिन् प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विवक्षभूतैः शारैरसमावेशः=अनध्यसनमनाक्रमणं सोऽयानय इत्युच्यते, न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्। एवंरूपोऽथानयो यदा ससहायैः शारेः पदान्यदिष्ठीयन्ते यदा वेदितव्यः । ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्तेऽध्यासितुम्। असहायानां तु भक्तयत् एव। फलकशिरसि स्थित इति। यत्र फलकेऽङ्केऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं कितवानां प्रसिद्धं तत्र सिथितः शारः `अयानयीनः' इत्यच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्।
अपरे तु-नेयो नेतव्यः, न नीतस्ततः. तत्र `शिरसि स्तितः' इत्यर्थानुपपात्तेः `फलकशिरसि स्थाप्यते' इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्। भाविन्यावस्थायोक्तः। अयानयसम्बद्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पत्तिरुक्तैव। सत्यपि द्वलितीयाधिकारे पुर्द्दितीयोच्चारणं दृष्टाद् द्वितीयान्ताद् यथा स्यादि त्येवमर्थम्। तेन विशिष्टार्थनेयवचनादयानयशब्दाद् द्विदीयान्ताद् प्रत्ययो भवति, न नेयवचनमात्रात्। स एव विशिष्टो यो नयऋः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शइतः।
अर्थायानय इति कोऽयं शब्दः, यदि ह्ययं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम् ? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम् ? नायं द्वन्द्वः, किं तर्हि ? मयूरव्यंसकादित्वात् तत्पुरुषः--अयसहितोऽनयोऽयानय इति। अथ बद्दाभक्षयतिनेयेष्विति कथं तिङन्तस्य द्वन्द्वः ? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम् ? सौत्रत्वान्निर्देशस्य। सुब्ब्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्। ननु च्छन्दसि सुब्वयत्यय उक्तः, नेद छन्दः ? नयश्च भवति तेनासावयानयं नेयः। `बद्धाभक्षयतिनेयेषु' इति निपातनात्तिडन्तस्य द्वन्द्वः असमासपक्षे तु बद्धेत्यत्र प्रथमैकवचनम्, नेयेष्विति सप्तमीबहुवचनमित्यसमञ्जसमापद्येत ।।
परोवरपरम्परपुत्रपौत्रमनुभवति ।। 5.2.10 ।।
परस्योत्ववचनमिति। परस्य शब्दरूपस्यादेरुत्वं निपात्यत इत्यर्थः, तत्र `आद्गुणः'। अथ वा--परशब्दस्य ओत्वं निपात्यतेऽन्त्यस्यालः, ततः `एङः पदान्तादति' इति पूर्वरूपैकादेशः, परस्यौत्वमिति प्राप्नोति `शकन्ध्वादिषु पररूपं अव्कव्यम्' इति पररूपेण निर्द्देशः। परपरतराणां चेति। चकारः पूर्वनिपातनापेक्ष्या समुच्ययार्थः। अऱ्तगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्। तच्छब्दान्तरमेव द्रष्टव्यमिति। अव्युत्पन्नमेव प्रबपन्धस्य वाचकम्। अत एवस्त्रीलिङ्गमेकवचनं च। पारम्पर्यमित्यपि तस्मादेव स्वार्थे ष्यञि भवति कथं परोवर्यवदिति ? असाधुरेवायम्; खप्रत्ययसन्नियोगेन परोवरेति निपातनात् ।।
अवारपारात्यन्तानुकामं गामी ।। 5.2.11 ।।
गामीति। `गमेरिनिः', `आङि णिच्च' इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ्यते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति। `गत्यर्थकर्मणि' इत्यत्र यदुक्तम्--`द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति--ग्रामं गन्ता' इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति--अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवम्अनुकाममिति। कामः=इच्छा, तस्य सदृशमनुकामम्=कामानुरूपम्, `यथार्थे यदव्ययम्' इति समासः ।।
समांसमां विजायते ।। 5.2.12 ।।
समांसमाभिति वीप्सेति। प्रष्टव्येति शेषः। अत्र निर्देशे वीप्सा द्रष्टव्या, तेन द्विचनमित्यर्थः। अथ वा--वीप्सावाची समुदायो वीप्सा, वीप्प्तावाचीत्यर्थः। सुबन्दमुदायः प्रकृतिरिति। प्रातिपदिकाधिकारेऽपि वचनसामर्थात्। गर्भ धारयतीत्यर्थ इति। दृश्यते च विजनिर्र्भधारणे, `स विजायमानो गर्भणाताम्यत्' इति।
पूर्वपदे सुपोऽलुग्वक्तव्य इति। अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे लुग्भवति `सुपो दातुप्रातिपदिकयोः' इति, तथा पूर्वपदेऽपि स्यात्।
केचित्त्विवत्यादि। नन्वत्यन्तसंयोगे द्वितीयया भवितव्यम् ? तत्राह--गर्भविमोचने त्विति। तत्र वमोचनेन यकारमात्रलोपो न सर्वस्या विभक्तेरिति मात्रशब्दस्यार्थः. परिशिष्टस्येति। आम्शब्दस्यालुग्वक्तव्यः। ननु याटः सुब्भक्तत्वात्सुब्लुकैव लोपः सिद्धः तत्र यलोपवचनं नियमार्थं भविष्यति--यकारस्यैव लोपो न तु सर्वस्य प्रत्ययस्येति, तत्किमुच्यते `अलुग्वक्तव्यः' इति ? एवं मन्यते--यथैव निपातनात्पूर्वपदपरिशिष्टिस्य लोपो न भवति एवमुत्तरपदेऽपि न स्यादिति।
अनुत्पत्ताविति। वाक्ये पूर्वोत्तरपदयोरपि पक्षे यलोपो वक्तव्यः, तेन द्वैरूप्यं सिद्धं भवति ।।
अद्यश्वीनावष्टब्धे ।। 5.2.13 ।।
अवष्टब्ध, विजन--इत्येतयोर्यथाक्रमं विवरणम्--आसन्ने प्रसव इति। कथं पुनरवष्टब्धशब्दस्यासन्नमर्थः ? इत्याह--आविदूर्ये हीति। यद्यप्यालम्बनेऽपि षत्वं विधीयते; तथापि विजनस्यालम्बनत्वासम्भवादाविदूर्यमेवार्थः। किं पुनरत्र निपात्यते ? अद्य वा विश्वो वेति वार्थे समासः खप्रत्ययः, टिलोपस्त्वव्ययत्वादेव सिद्धः। अद्यश्वीना वडवेति। विजायत इत्यस्यानुकूलतया स्त्रीलिङ्गमुदाहृतम्, न पुनः सूत्रे स्त्रीलिङ्गनिर्द्देशः। अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमित्यत्रापीष्ठत्वात्। ????????? ह्रस्वान्तस्याविभिक्तिको निर्देशः।
केचित्त्विति। तेषां यथाभिधानं क्रियाध्याहारः। अवष्टब्धमात्रे इति। भवत्याद्यर्थेऽपीत्यर्थः। अद्यस्वीनं मरणमिति। अद्य वा श्वो वा भविष्यतीत्यत्रार्थे प्रत्ययः ।।
आगवीनः ।। 5.2.14 ।।
गोराङ्पूर्वादिति। गोशब्दान्तादाङ्पूर्वात्प्रातिपदिकादित्यर्थः। आ तस्य गोः प्रतिदानादिति। प्रतिदानम्=प्रत्यर्पणम्। एतेन वृत्तिविषये गोशब्दो गोप्रतिदाने वर्त्तत इति दर्शयति। करिणीति। कृञ आवश्यके णिनिः। आगवीन इति। `आङ् मर्यादाभिविध्योः' इत्यव्ययीभावे उपसर्जनह्रस्वत्वे च कृते खप्रत्ययः, `ओर्गुणः' ।।
अनुग्वलङ्गामी ।। 5.2.15 ।।
अलङ्गगामीति। `सुप्यजातौ' इति णिनिः। गोः पश्चादनुस्विति। पश्चादर्थेऽव्ययीभावः, उपसर्जनह्रस्वः। पर्याप्तमिति। क्रियाविशेषणमेव। अनुग्विति। ततश्च द्वितीयान्तात्प्रत्ययः। कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्न भवति, तद्यथा--शोबनं पाचक इति ।।
अध्वनो यत्खौ ।। 5.2.16 ।।
द्वितीयासमर्थादिति। यदा तिङ्न्तेन विग्रहः--अध्वानं गच्छतीति, तदा द्वितीयासमर्थत्वम्। यदापि सूत्रोपात्तेन गामीत्यनेन विप्रहः, तदापि द्वितीयैव कृद्योगलक्षणा षष्ठी न भवति; `अकेनोः' इति प्रतिषेधात्। इह `अध्वनो यच्च' इति सिद्धम्, चकारात्खश्च? एवमुच्यमाने उत्तरसूत्रे चकारेणानन्तरो यदेवानुकृष्यते, न चानुकृष्टः खः। अतो यत्खयोर्द्वयोरप्यनुवृत्त्यर्थं यत्खावित्युक्तम् ।।
अभ्यामित्राच्छ च ।। 5.2.17 ।।
अब्यचामित्रामिति। `लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः, क्रियाविशेषणत्वात्कर्मणि द्वितीया ।।
गोष्ठात्सञ् भूतपूर्वे ।। 5.2.18 ।।
गावस्तिष्ठन्त्यस्मिन्निति गोष्ठ इति। छञर्थे कविधानम्, `स्थास्नायाव्यधिर्हान युध्यर्थम्' इत्यधिकरणे कः, `अम्बाम्बगोभूमि' इति षत्वम्। पूर्व भूतो भूतपूर्वः, `सुप्स,ुपा' इति समासः। गोष्ठशब्दस्यार्थद्वारकंच विशेषणत्वम्, न स्वरुपेण, न हि भूतपूर्वाद् गोष्ठशब्दात्प्रत्ययो विधातुं शक्यते। गोष्ठो वर्त्तत इति। सम्प्रति गवामवस्तानं दर्शयति ।।
अस्वयैकाहगमः ।। 5.2.19 ।।
एकाहेन गम्यत इत्येकाहगमः, `ग्रहवॄदृनिश्चिगमश्च' इत्यपं बाधित्वा `परिमाणाख्यायां सर्वेभ्यः' इति, अस्ति कचात्र परिमाणाख्या, एकाहेन गम्यत इति परिच्छेदावगमाद्, अस्मादेव निपातनादप्द्रष्टव्यः, `ककर्तृकरणे कृता बहुलम्' इति समासः। अश्वस्येति। कर्त्तरि षष्ठी। अश्वीनानि शतं पतित्वेति। यावन्ति योजनान्येकाहेनाश्वेन गम्यते, तावतां शतं गत्वेत्यर्थः ।।
शालीनकौपीने अधृष्टाकार्ययोः ।। 5.2.20 ।।
यथाकथञ्चिदिति। नात्रावयवार्थेऽभिनिवेष्टव्यमित्यर्थः। अभिनिवेशे तु यःक शालायामधृष्टो भार्याजितत्वादन्यत्र धृष्टः, यच्च कूपे अकार्यं मूत्रणादि, कथं तस्याभिधानं प्रागोति, कथं तर्हि विवक्षितार्थः ? इत्याह--शालाप्रवेशमर्हतीति। यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः। उत्तरपदालोपश्चेति। वृत्तिविषये शालाकूपशब्दौ तत्कर्मिकायां क्रियायां वर्तेतते इति गम्यमानत्वादप्रयोग एव लोपः। कौपीनं पापमिति। पापसाधनत्वात्तु पुरुषलिङ्गे कौपीनशब्दः, साधार्म्याद्वा; साधर्म्यं गोप्यत्वात्। तत्साहचर्याच्च तदाच्छादने वासःखण्डे। अपर आह---कार्यशब्दे करोतिः क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेनाद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वाच्च तदाच्छादनमिति ।।
व्रातेन जीवति ।। 5.2.21 ।।
व्रातशबह्दो लोके सह्घमात्रवचनः, इह तु न तथेति दर्शयितुं भाष्यग्रन्थं पठति। नानजीतीया इति। अनेन चैकजातीयक्षत्त्रियादिसह्घनिराकरणम्। अनियतवृत्तय इति। नियतवृत्त्यायुधजीविसङ्गनिषेधः। उत्सेधजीविन इत्येतद्व्याचष्टे। उत्सेधः शरीरमिति। उच्छ्रायत्वात्। तदायास्येति। आयासेर्ण्यन्ताल्ल्यप्, तेन सकर्मकत्वम्। अण्यन्तपाठे त्वन्तर्भावितण्यर्थत्वात्सकर्मकत्वं द्रष्टयम्। शरीरायासेन बारवहनादिना जीवन्ति, न तु बुद्धिभावेनेत्यर्थः। व्राता इति। सङ्घवचनोऽयमिह सङ्घिषु प्रयुक्तः। एवंभूतानां यः सङ्घस्तद्व्रातमित्यर्थः। एवमपि तथाभूतेन सङ्घेन ये जीवन्ति तत्र प्राप्नोति,न चेष्यते ? तत्राह--तेषां कर्म व्रातमिति। इदमर्थे छे प्राप्तेऽस्मादेव निपातनादण्। यस्त्वन्य इत्यादि। अनभिधानमत्र हेतुः ।।
साप्तपदीनं सख्यम् ।। 5.2.22 ।।
साप्तपदीनमिति निपात्यत इति। किं पुनरत्र निपात्यते ? समर्थविभक्तिस्तृतीया। अवाप्यत इति प्रत्ययार्थः, सप्तभिः पदैरवाप्यत इति तद्वितार्थे द्विगुः समासः, सप्तपदशब्दात्खञ्। कथमिति। सख्युर्भावः कर्म वा सख्यम्, तत्र व्युत्पादितस्य न सखिशब्देन प्रश्नः, उपचारेणेत्युत्तरम्, गुणप्रधान इति। गुणो भावः, कर्म च भावः, प्रवृत्तिनिमित्तत्वाद्गुणः। यस्य हि गुणस्य भावादिति कर्माणि हि सख्यशब्दवाच्यत्वाद्गुण इत्युक्तम् ।।
हैयङ्गवीनं सञ्झयाम् ।। 5.2.23 ।।
ह्योगोदोहस्य विकार इति। दुह्यत इति दोहः=क्षीरम्, गोर्दोहो गोदोह इति षष्ठीसमासः, ह्यः शब्दस्य तेन `सुप्सुपा' इति समासः, ततो विकारेऽनुदात्तलक्षणस्याञोऽपवादः, खञ्। घृतस्यैषा संज्ञेति। घृतस्यापि न सर्वस्य, किं तर्हि ? तस्यैवाविकृतगन्धरूपस्य। ह्यःशब्देन कालप्रत्यासत्तिप्रतिपादनाद् नवनीतं हैयङ्गवीनमुत्यते, घृतशब्दोऽपि तत्रैव प्रयुक्तः ।।
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ।। 5.2.24 ।।
पाकः=परिणामः, मूलः=उपक्रमः। `तस्येदम्' इत्यणादिषु प्राप्तेष्वयमारम्भः, जकारस्य प्रयोजनाभावादित्संज्ञाभावः ।।
पक्षात्तिः ।। 5.2.25 ।।
एकयोगशिष्टानामपि शब्दानां शब्दादिकारपक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतिज्ञायते, तस्यैवानुवृत्तिर्भवति। तथा च `दामहायनान्ताच्च' इत्यत्र सङ्घया हणमनुवर्त्तते, नाव्ययग्रहणम्। अर्थाधिकारपक्षे तु युगपदन्योऽन्यार्थाभिधायिनां द्वन्द्वविधानाद् द्वन्द्वार्थविच्छेदान्न स्यादेकदेशानुवृत्तिः। पक्षस्य मूलं पक्षतिः=प्रतिपदि, पक्षिणश्च पक्षमूले प्रयुज्यते ।।
तेन वित्तरचुञ्चुप्चणपौ ।। 5.2.26 ।।
वित्तः प्रतीत इति। `वित्तो बोगप्रत्यययोः' इति निपातनात्, चुञअचुप्चणपोश्चकारस्य यथेत्संज्ञा न भवति, तथा `चुटू' इत्यत्रैव वृत्तिकारेणोक्तम् ।।
विनञ्भ्यां नानाञौ नसह ।। 5.2.27 ।।
नसहेति प्रकृत्यर्थविसेषणमिति। यदि प्रत्ययार्थः स्यात्ततो द्वौ प्रतिषेधौ प्रकृतमेवार्थ गमयत इति सहार्थ एव गम्येत, न नसह, अपि तु सहैवेति। तस्मात्प्रकृत्यर्थ एव भवति। एतच्च व्याख्यानाल्लभ्यते। यद्येवम्,सहेत्येव प्रत्ययार्थोऽस्तु, विनञोः प्रतिषेधार्थत्वात्, विगर्दभारथक इत्यादौ विशब्दस्यापि प्रतिषेधे वृत्तिर्दृष्टैव ? सत्यम्; क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत--विगतौ सह विकृतौ सहेति, नाञो ञकारो वृद्ध्यार्थः, स्वरार्थश्च ।।
वेः शालच्छङ्कटच्चौ ।। 5.2.28 ।।
क्व पुनरेते शालजादयो भवन्ति ? इत्याह--ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च `उपसर्गाच्छन्दसि धात्वर्थे' इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्त्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः।
वस्तुगतिमाह--परमार्थतस्त्विति। विशालत्वम्=विस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ।।
संप्रोदश्च कटच् ।। 5.2.29 ।।
कटच्प्रत्ययो भवतीति। पूर्ववत्ससाधनक्रियावचनेभ्यस्वार्थे। सङ्कटः=प्रज्ञातः, प्रकाश इत्यर्थः। उत्कटः=उद्भूतः। विकटः=विकृतः।
अलाबूतिलेत्यादि। भङ्गाभ्य इति पाठः, भह्गाशब्दष्टावन्तः। यथालाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति, रजसो विकारत्वाद्विकारप्रत्ययानामपवादः। तत्रालाबूशब्दादोरञः, `मयड् वैतयोः' इति मयटश्चापवादः। तिलोमाशब्दाभ्यां घृतादित्वादन्तोदात्ताब्याम् `अनुदात्तादेश्च' इत्यञो मयटश्च। `उमोर्णयोर्वा' इति वुञ्श्च, `असंज्ञायां तिलयवाभ्याम्' इति मयटश्च। भङ्गायाः `तृणधान्यानां च द्वयषाम्' इत्याद्युदात्तत्वादणो मयदस्च।
गोष्ठादय इति। प्रयोगसमवायिप्रत्ययरूपं निर्दिष्टम्। चकारस्तु स्वरार्थेऽनुबन्द्वव्यः। तथा हि--समासाश्रयेण भाष्ये एतत्प्रत्याख्यातम्, समासे चान्तोदात्तत्वं भवति। सर्वत्रादिशब्दः प्रकारे। गवां स्थानमिति। `तस्येदम्' इत्यत्रार्थे `सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्' इति यति प्राप्ते गोष्ठच्प्रत्ययः; अप्रसृतावयवः समूहः=सङ्घातः, प्रसृतावयवस्तु=विस्तारः, उभावपि सामूहितानामपवादौ।
द्वित्व इति। प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः। उष्टगोयुगमिति। द्वयं युगमित्यादिवद् द्वयवयवसङ्घाभिधायित्वादेकवचनम्। एवं हस्ति???गवमित्यादावपि द्रष्टव्यम्।
स्नेह इति। स्निहयन्त्यनेनेति स्नेहः=द्रवरूप इङ्गुदादीनां विकारः। तत्र इङ्गुदशब्दः `लघावन्ते' इत्याद्युदात्तः, ततः `तस्य विकारः' इत्यण्प्रत्ययः प्राप्तः; तिलशब्दाद् `अनुदात्तादेश्च' इत्यञ् प्राप्त, सोऽपि त्विष्यते-तिलानां विकारस्तैलमिति, तत्तर्हीदं बहु वक्तवम् ? नेत्याह; उपमानात्सिद्धम्। कथम् ? गावस्तिष्ठन्त्यस्मिन्नति गोष्ठम्, तत्साधर्म्यादुष्ट्रादिस्थानमपि गोष्ठमित्युच्यते। तत्र विसेषप्रतिपत्त्यर्थमुष्टादिभिर्विशेष्टते--उष्ट्रगोष्ठम्, महिषगोष्ठम्; मुख्यार्थप्रतिपत्तये गोभिरपि गोगोष्ठमिति। यथा गोपतिशब्दे स्वामिमात्रपरतया प्रयुक्ते गोभिरपि विशेषणम्--`गवामसि गोपतिरेक इन्द्रः' `विज्ञा हित्वा गोपतिं शूर गोनाम्' इति, तथा नानाद्रव्याणां रज्जुवीरणादीनां सङ्घातः कटः, तत्साधर्म्यादन्योऽपि सङ्गातःक कटशब्देनोच्यते, स चाविप्रभृतिभिर्विशेषयिष्यते, एवं पटवद्विस्तीर्णोऽविसह्गोऽविपट इति। तथा युगशब्देन द्वयमुच्यते--गवोर्युगं गोयुगम्, द्वयात्मत्वसामान्यादन्यदपि युगलं गोयुगमित्युच्यते, तत उष्ट्रादिभिर्विशेष्यते, मुख्यगोयुगप्रतिपत्तये गवापि। तथा षड् गावः समाहृताः पड्गवम्, `गोरतद्धितलुकि' इति टच्, पात्रादित्वान्नपुंसकत्वम्। तत्साधर्म्यादित्यादि पूर्ववत्। तथा तिलविकारो मुख्यं तैलं तत्सादृश्याद् द्रवरुपं विकारमात्रं तैलम्, तत इङ्गुदादिभिस्तिलैश्च विशेषणम्। एवं च कृत्वा तिलानां विकारस्तैलमित्यपि भवति, वाक्यप्रारम्भे चु तैलचा बाधितत्वादन स्यात्।
उपर आह--`यथा प्रकृष्टो वीणायां प्रवीण इति व्युत्पत्तिमात्रं क्रियते, कौशलमेव त्वस्य निमित्तम्, तथा च वीणायां प्रविण इत्यपि भवति; तथा तिलानां विकारस्तैलमिति व्युत्पत्तिमात्रम्, द्रवरूपो विकारस्त्वस्यार्थः। तथा चेङ्गुदादिभिर्विसेषणसिद्धिः'तत्तु न रोचयामहे; न हि तैलमित्युक्ते द्रवरूपं विकारमात्रं प्रतियन्ति। शाकटच्शाकिनौ तु वक्तव्यावेव ।।
अवात् कुटारच्च ।। 5.2.30 ।।
अवकुटारम्, अवकटमिति। अवाचीनम्, अप्रसिद्धमित्यर्थः ।।
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ।। 5.2.31 ।।
नमनं नतमिति। `नपुंसके भावे क्तः' नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धइनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु `नपुंसके भाव उपसंख्यानाम्' इति कर्त्तरि षष्ठी। यद्वा--शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्त्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह---तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः `चुटू' इत्यत्रैव व्यख्यातः ।।
इनच्पिटच्चिक चि च ।। 5.2.33 ।।
ककारः प्रत्यय इति। अकारो विवक्षितः; चकारः, एवकार इत्यादिवत् कारशब्दः, कप्रत्यय ित्यर्थः। तथा चोक्तमिति। सूत्रे निशब्दस्य द्वावादेशौ द्वौ च प्रत्ययौ विहितावित्यादेशप्रत्ययात्रविधानार्थमेतद् वार्त्तिककारोणोक्तम्। अस्य चक्षुषी इत्येतस्मिन्नर्थ इति। यद्यपि चक्षुषी प्रकृत्यर्थविशेषणम्, अस्येति षष्ठ्यर्थे प्रत्ययः, तथापि क्लिन्नत्वस्य चक्षुर्गतत्वं प्रत्ययस्यैव द्योत्यभिति मत्वैवमुक्तम्।
अस्येत्यनेनेति। वाक्यैकदेशं प्रत्याचष्टे, कस्मात्? नार्थः, इत्याह। चक्षुषोरेवभिधान इति। चक्षुषोर्वर्त्तमानात्क्लिन्नशब्दात्स्वार्थे प्रत्यय इत्यर्थः। कथं तर्हिपुरुषस्याभिधानम् ? इत्याह--तद्योगादित्यादि। अर्शआदिषु `स्वाङ्गाद्धीनात्' इति पठ्यते, तेन मत्वर्थेऽकारः ।।
उपाधिब्यां त्यकन्नासन्नारूढयोः ।। 5.2.34 ।।
नियतविषयमिति। पर्वतविषयम्। आस तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यत्र न भवतीतति भावः। अथोपत्यका, अधित्यकेत्यत्र `प्रत्ययस्थात् कात् पूर्वस्य' इत्यनेनेत्त्वं करमान्न भवति ? इत्यत आह---प्रत्ययस्थात् कादिति। यद्यत्रेत्त्वं स्यात् संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात् संज्ञाधिकारादित्त्वं न भवति ।।
कर्मणि घटोऽठच् ।। 5.2.35 ।।
`कर्मणि' इत्यनेन कर्मणीति स्वलरूपग्रहणं दर्शयति। अथ पारिभाषिकस्य कर्मणो ग्रहणं करमान्न भवति ? असम्भवात्। असम्भवत्तु घटतेरकर्मकत्वात्। अठच्प्रत्येयेऽकारोच्चारणं ठस्येकादेशनिवृत्त्यर्थम् ।।
तदस्य सञ्जातं तारकादिभ्य इतच् ।। 5.2.36 ।।
तारकादिषु बुभुक्षा-पिपासाशब्दौ पठ्येते, तयोः किमर्थःक पाठः, यावता सन्नन्ताभ्यां निष्ठायामिटि च कृते बुभुक्षितः, पिपासितो पिपासित इति ? सत्यं कर्मणि सिद्धम्--बुभुक्षित ओदनः, पिपासितमुदकमिति; कर्त्तरि तु न प्राप्नोति--बुभुक्षितो देवदत्तः, पिपासितो देवदत इति। अनेन तु यस्य बुभुक्षापिपासे सञ्जाते तत्र प्रत्यय उत्पद्यते।
पुष्पादीनां तर्हि किमर्थः पाठः, `पुष्प विकसने', `मूत्र प्रस्रवमे,' `व्रण गात्रविचूर्णने'--- एब्योऽकर्मकत्वात्कर्तरि क्ते--पुष्पितः, मूत्रित इत्यादि सिद्धम् ? सत्यम् भूते सिद्धम्; वर्त्तमाने तु न सिद्धयति, अतो कवर्त्तमानार्थस्तेषां पाठ। कथं पुनरनेन वर्तमाने भवति, याताऽत्रापि `सञ्जात' इति भूते निष्ठा ? एवं तर्हि गणे पुष्पादीनां पाठसामर्थ्यात्सञ्जातमित्यत्र भूतकालो न विवक्ष्यते। गर्भादप्राणिनीति। गर्भशब्दादप्राणिन्यभिधेये इतञ्भवति--गर्भिताः शालयः, प्राणिनि तु गर्भिणी गौः ।।
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ।। 5.2.37 ।।
यत्तत्प्रथमासमर्थं प्रमाणं चेत्तद्भवतीति। अनेन प्रकृत्यर्थविशेषणत्वं प्रमाणस्य दर्शयति। यदि तु प्रत्ययार्थविशेषणं स्यात्--यत्तदस्येति निर्द्दिष्ट प्रमाणंचेत्तद्भवतीति; तदा प्रमाणस्य प्रमेयापेक्षत्वात्प्रमेयं प्रकृत्यर्थः स्यात् यथा प्रकृत्यर्थविशेषणत्वे प्रमेयं प्रत्यथार्थः, ततश्चेह प्राप्नोति--उदकं प्रमेयमस्योरोरिति, एतच्चायुक्तम्; अनियतप्रमेयविषयत्वात्प्रमाणानामेकेन विशेषणस्यान्याय्यत्वात्, प्रमेयस्य तु नियतप्रमाणत्वप्रतिपादनायोरुमात्रादयः शब्दाः प्रयुज्यन्ते।
प्रथमश्च द्वितीयश्चेति। उर्ध्वावस्तितेन येन मीयते तदूर्ध्वमानम्, उर्वादि। तत्र केचिदाहुः--`आयाममामनमेव प्रमाणं सूत्रे गृह्यते, तिर्यङ्मानमेव चायाममानम्, ततश्चोर्ध्वमानेऽप्रप्तौ द्वयसज्जघ्नचौ प्रमाणादपकृष्येह विधीयेते' इति। अपर आह--`ऊर्ध्वावस्तितेनापि येनायामः परिच्छिद्यते तदप्यायाममानत्वात् प्रमाणमिति सूत्रे गृह्यते। वचनं तूर्ध्वमान एव यथा स्यातां तिर्यङ्माने मा भूतामिति नियमार्थम्' इति। अन्यस्त्वाह--`परिच्चेदकमात्रं प्रमाणमिहर गृह्यते' इति; तत्रापि नियमार्थमेतत्। मात्रं प्रमाणम्, ततो न्यायप्राप्तानुवादोऽयम्। प्रस्थामात्रमित्यपीति। अपि शब्दादूरुमात्रमित्यपि भवति।
प्रमाणे ल इति। लुक एषा पूर्वाचार्यसंज्ञा। प्रमाणमिति ये प्रसिद्धा इति। `प्रबाणशब्दा एते' इति ये प्रसिद्धाः---दिष्टिवितस्त्यादय इत्यर्थः शमः, दिष्टिः, वितस्तिरिति। अत्र मात्रयो लुग्; इतरयोरसम्भवात्। शमादीनामनूर्ध्वमानत्वाद्।
द्विगोर्नित्यमिति। द्विगोरप्रमाणत्वात्तदन्तविध्यबावाच्च पूर्वेणाप्राप्तो लुग्विधीयते। नित्यग्रहणं किमिति। नात्र विकल्पः प्रकृत इति प्रश्नः। संशये श्रीविणं वक्ष्यतीति। श्रवणं श्रावः, `कृयल्युटो वहुलम्', इति घञ्, सोऽस्यास्तीति श्रावी, `प्रमाणपरिमाणाभ्यां सङ्खयायाश्चापि संशये' इति वक्ष्यमाणस्य मात्रचः `प्रमाणे लः' इत्यनेन लुग्न भवति, परत्वाद्; अतोऽमौ श्रावी। अस्य द्विगावपि श्रवणे प्राप्ते लुग्विदीयत इत्यर्थः। द्वौ शमौ प्रमाणमस्य द्विशमः। कथं पुनरव संशये मात्रच उत्पत्तिः ? तदन्तविधइना। एतदेव लुग्वचनं ज्ञापकम्-अस्त्यत्र तदन्तविधिरिति। प्रकारणादिवशादस्य निश्चयसंसयविपयता प्रयोगस्यावसेया।
स्तोमे डड्वक्तव्य इति। अत्रायाममानस्यासम्भवात्परिच्छेदोपाधिकायाः सङ्ख्यायाः स्तोमेऽभिधेये डट्प्रत्ययः। डित्करणमेकविंश इत्यत्र ति शब्दस्य लोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदसादौ `नस्तद्धिते' इत्येव सिद्धम्---पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः, सप्तदशी रात्रिरिति। स्तोमसाहचर्याद्रात्र्यादौ स्त्रियां वृत्तिः, टित्त्वान्ङीप् `तदस्य परिमाणम्' `सङ्ख्यायाः संज्ञा' इत्यत्र तु स्तेमे डो विहितः, तत्र टाब् भवति यद्यस्ति प्रयोगः, अथ तु नस्ति ततोऽस्यैव स प्रपञ्चः।
शन्सतोर्हिनिर्वक्तव्य इति। एवं च छन्दसि च भाषायां च डिर्नेर्विधानात् `सङ्ख्यायाः संज्ञासङ्घ' इत्यत्र `शन्शतोर्डिनिश्छन्दसि' इति वचनं प्रपञ्चार्थमेव।
विशिनोऽङ्गिरस इति। प्रवरभेदेन विंशतिर्भेदा उच्यन्ते, तत्र विंशतिशब्दात्सङ्खयानमात्रवाचिनः संख्येये प्रमेये डिनिः, `ति विंशतेर्डिति' इति लोपः, यस्येतिलोपश्च।
प्रमाणपरिमाणाभ्यामिति। रूढिशब्दावेतौ; भेदेनोपादानात्। शममात्रमिति। शमः प्रमाणमस्य स्यान्न वेत्यत्रार्थे मात्रच्। पञ्चमात्रा इति। पञ्च स्युर्न वेति संशय्यमानार्थवाचिनः षष्ठ्यर्थे प्रत्ययः। पञ्चत्वसङ्ख्या प्रमाणमेषां स्याद्वा न वेति पञ्चमात्राः। तावदेविति। तत्परिमाणमस्य धान्यादिस्तावत्, ततः स्वार्थे ??????। उत्तरसूत्रे तु `भावः सिद्धश्च डावतोः' इत्यर्थान्तरे वक्ष्यते ।।
पुरुषहिस्तिभ्यामण् च ।। 5.2.38 ।।
हास्तिनमिति। `इनण्यनपत्ये' इति प्रकृतिभावः।
द्विगोर्नित्यं लुगिति। नायम् `प्रमाणे लो द्विगोर्नित्यम्' इत्यस्यानुवादः; पुरुषहस्तिनोः शमादिवत्प्रमाणतच्वेनाप्रसिद्धत्वात्। अत एव पुरुषद्वयसमित्यादौ `प्रमाणे लः' इति लुग्न भवति; अन्यथाणो विधानसामर्थ्याल्लुगभावेऽपि द्वयसजादीनां स्यादेव। तस्माद् पूर्वोऽत्र लुग्विधीयते। स च द्वयसजादीनां नाणः, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद् द्विगोरणः प्राप्त्यभावात्। द्विपुरुषीति। `पूरुषात्प्रमाणेऽन्यतरस्याम्' इति ङीप् ।।
यत्तदेतेभ्यः परिमाणे वतुप् ।। 5.2.39 ।।
यावानिति। `आ सर्वनाम्नः' इत्यात्वम्। `उगिदचाम्' इति नुम्, `अत्वसन्तस्य' इति दीर्घः, हलङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणयोरेकत्वं मत्वा यश्चोदयेत्--हलङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणयोरेकत्वं मत्वा यश्चोदयेत्--परिमाणग्रहणमनर्थकम् प्रमाणाधिकारदिति ? तं प्रत्याह--प्रमाण इति वर्तमाने इत्यादि। स पुनरनयोर्भेदः `परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात्' इति पूर्वमेव व्याख्यातः। डावताविति। इहास्माभिर्वतुपं विधाय `आ सर्व नाम्नः' इत्यात्वं विहितम्। पूर्वाचार्यास्तु डावतुं विदधिरे, तदपेक्षोऽयं निर्देशः। विशिष्यत इति विसेषः, तस्य भावो वैशेष्यम्, अर्थवैसेष्यादर्थबेदात्परिमाणस्य प्रमाणात् पृथग्निर्देशः, उच्यते क्रियत इत्यर्थः। स्यादेतत्--`यद्यपि प्रमाणपरिमाणशब्दयोरर्थो भिद्यचते, तथापि प्रमाणग्रहणमेवानुवर्त्त्य तदुपाधिकेभ्य एव वतुब्विदेयः। तत्रायमप्यर्थः---इदमपि सिद्धं भवति---यावानध्वा, यावती रज्जुरिति, अत्र ह्यायाममानं गम्यते। ये तु परिमाणे प्रयोगाः---यावान् धान्यराशिरित्यादयः, तेऽप्युपमानाद्भविष्यन्ति। यथा सिद्धान्ते यावानध्वा यावती रज्जुः यावत्कृत्वो भुङ्क्त इत्यादयः' इति, तत्राह---मात्राद्यप्रतिघातायेति। यदि यथोक्तं क्रियेत ततो डावतुर्विशेषविहितत्वात्सामान्यविहितान्मात्रजादीन्बाधेन। परिमाणग्रहणे तु सति भिन्नोपाधिकत्वाद् बाध्यबाधकभावाभावः, तेन तन्मात्रं यन्मात्रमित्यादि प्रमाणे सिद्धं भवतीति। भावः सिद्धश्चेति। तत्परिमाणमस्य धान्यस्य दैर्घ्यं तादृगस्यापीत्यर्थः। तदेवं भिन्नविषयत्वे सति वत्वन्तान्मात्रादयः सिद्धयन्ति। एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तत्वात्तदन्तान्मात्रादयो न स्युः,। यस्या हि तावत्प्रमाणं तस्य तत्प्रमाणमिति तावच्छब्दस्यैव तत्रापि प्रयोगः स्याद्; अन्यथा हि मात्रजादिप्रत्ययमालाप्रसङ्गः।
किमिदम्भ्यां वो घः ।। 5.2.40 ।।
कियान्, इयानिति। `इदं किमोरीश्की', यस्येतिलोपः। एतदेवेति। आदेशविधानान्यथानुपपत्त्या प्रत्ययोऽनुमीयते। योगविभागेन वेति। एवं प्रतिपादिते लाघवं भवति। `आदेः परस्य' इत्येव सिद्धे `वः' इति कवचनमादेशप्रतिपत्त्यर्थम्; इत्रथा हि घः प्रत्ययान्तरं विज्ञायेत ।।
किमः सङ्ख्यापरिमाणे इति च ।। 5.2.41 ।।
सङ्ख्यायाः परिमाणमिति। करणस्य कर्तृत्वविवक्षया कृद्योगलक्षणा कर्त्तरि षष्ठी। परिमितिः=परिमाणम्। सङ्ख्या परिच्छेद इति।। सह्ख्या यं परिच्छेदं परोति तत्रेत्यर्थः। तस्य च वकारस्य घकार इति। `वो घः' इत्यनुवृत्तेः। ननु का संख्या परिमाणमेषामित्यत्र किंशब्दः परिच्चेदिकायां सङ्खयायां वर्त्तते, न पुनः परिच्छेदे? तत्राह---पृच्छ्यमानत्वादिति। परिच्छेदकत्वविशिष्टा संख्या पृच्छयते--का संख्या परिच्छेदिकैषामिति, तत्र परिच्छेदस्यापि पृच्छयमानाकारान्तर्भावात्संक्यापरिच्छेदे वर्त्तमानादित्युक्तमित्यर्थः। अपर आह--``संख्यायाः' इति कर्मणि षष्ठी, संख्यापरिच्छेदार्थप्रश्ने वर्त्तमानः संख्यापरिच्छेदे वर्तत इत्युच्यते। संख्यायां परिच्छेत्तुमिष्टायां यः प्रश्नस्तत्र वर्तमानादित्यर्थः' इति। कति। `षहुष्विति वृत्तौ बहुवचनमेव भवति। उक्तं च--`अनिर्ज्ञातेर्ऽर्थे बहुवचनं प्रयोक्तव्यम्' इति। कथं तर्हि कियान्, कियन्ताविति ? नात्र संख्याप्रश्ने किशब्दः, किं तर्हि ? परिमाणमात्रप्रश्ने। संख्याप्रश्ने तु तत्रापि बहुवचनमेव भवति--कियन्तो ब्राह्णा इति। यदीया च संख्या पृच्छयते तत्र प्रत्ययाः, तेन का संख्या हि तदा प्रत्ययेन भाव्यम्--कति गावोऽस्मिन्वर्ग इति। सङ्घसङ्घिनोरभेदविवक्षायां तु--कति गावोऽ??? वर्ग इति, न तु व्यवस्थितसंख्यासम्बन्धे वर्गे, वर्गसंख्याप्रश्ने तु कति वर्गा इति भवति।
अथ वेत्यादि। अस्मिन्पक्षे संख्यापरिमाण इति कर्मधारयः, निपातनाच्च विशेषणस्य परनिपातः, करणसाधनश्च परिमाणशब्दः। एवमात्मिकेत्यस्य विवरणम्--परिच्छेदस्वभावेति। यत्रापरिच्छेदकत्वेन विवक्ष्यते इति। परिच्छेदकत्वेन न विवक्ष्यत इत्यर्थः। तथैव वा पाठः। क्व पुनरेवं न विवक्ष्यते ? इत्याह--क्षेपे हीति। केयमेषामिति। केयमीदृशानां दशत्वसंख्या येषांम् ।
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ।। इति।
एवं संख्येयद्वारेण संख्यायां क्षेपः। प्रकृतः परिमाणशब्दो रूढिशब्दत्वात् संख्याया परिसम्बन्द्धुं नार्हतीति परिच्छइत्तिमात्रावचनः पुनरिहोपात्तः ।।
संख्याया अवयवे तयप् ।। 5.2.42 ।।
इहास्येत्यधिकारात्संख्याया अवयवे वर्त्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति--पञ्च अवयवा अस्य देवदत्तस्येति। तत्राह--अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे `ह्रस्वात्तादौ तद्विते' इति षत्वम्, `टिड्ढाणञ्' इति ङीप् ।।
द्वित्रिभ्यां तयस्यायज्वा ।। 5.2.43 ।।
ननु तयः प्रकृतः सोऽनुवर्त्तिष्यते, `द्वित्रिभ्याम्' इति पञ्चमी, `तस्मादित्युत्तरस्य' इति तस्य षष्ठ्यन्ततां सम्पादयिप्यति; तत्किं `तयस्य' इत्यनेन ? तत्राह--तयब्ग्रहणमित्यादि। असत्यामपेक्षायामनुवृत्तिः षष्ठीप्रकृतिश्च दुर्जानेति बावः। अथ प्रत्ययान्तरे को दोषः ? त्रयी गतिरिति तयब्निबन्धन ईकारो न स्यात्, `प्रथमचरमतय'क इति चैष विधिर्न स्याद्--द्वये, द्वया इति। क्वचित् तत्र को दोष इत्यादि वृत्तावेव वृत्तावेव पठ्यते। चकारः स्वरार्थ इति। तेन स्थानिवद्भावेनानुदात्तत्वं न भवति ।।
उभादुदात्तो नित्यम् ।। 5.2.44 ।।
उदात्तवचनसामर्थ्यादिति। अन्तोदात्तत्वस्य चित्स्वरेणैव सिद्धत्वात्। सर्वोदात्तत्वं तु न भवति, `अनुदात्तं पदमेकवर्जम्' इति वचनात्। नापि हे उभयेत्यत्रामन्त्रितानुदात्तत्वम्, उभयेत्यत्र चामन्त्रिताद्युदात्तत्वं बाधितुमुदात्तवचनम्; पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाधनात्।
उभशब्दो यदि लौकिकी संश्येति। उभावित्युक्ते द्वाविति प्रतीतेः। अथ न संक्येति। कृत्वसुजादिसंख्याकार्यादर्शनात्; एकः, उभौ, त्रय इत्येवं लोके गणनाऽदर्शनाच्च। तस्य नित्यमयजादेश इति। अथ प्रत्ययान्तरमेवायः कस्मान्नाश्रितः, तत्रायमप्यर्थः--उदात्त इति न वक्तव्यं भवति, प्रत्ययस्वरेणैव सिद्धम्; यच्च सर्वनामसंज्ञायामुक्तमुभयशब्दस्य जसि सर्वादिपाठान्नित्या संज्ञा भवति, न `प्रथमचरमतय' इति विभाषा; व्यवस्थितविभाषाविज्ञाणत्पूर्वविप्रतिषेधाद्वेति, तदप्ययत्नसितद्धं भवति, कथम्, न ह्ययं तयप आदेशः ? सत्यम्; उभयीत्यत्र तु तयब्निबन्धन ईकारो न स्यात्। यदि तु ङीब्बिधौ मात्रजित्ययचश्चकारेण प्रत्याहारग्रहणम्, ततः प्रत्ययान्तरत्वेऽप्ययचः सिद्ध ईकारः।
उदात्तग्रहणं नित्यग्रहणं च शक्यमकर्तुम्, ङीब्विधौ च तयपो ग्रहणम्।
अथ वा--दघ्नञ्मात्रचोरपि तत्र ग्रहणं शक्यमकर्तुम्, द्वयसजित्येवायचश्चकारेण प्रत्याहारोऽस्तु; तत्तु तथा नाश्रितमित्येव।
उभयो मणिरिति। उभौ पीतलोहिताववयवावस्येत्यवयवद्विनिबन्धनोऽवयविनो व्यपदेशः। उभये देवमनुष्या इति। वर्गद्वयापेक्षमतिरोहितभेदानां वर्गिणामिदमभिधानम् ।।
तदस्मिन्नधिकमिति दशान्ताड्डः ।। 5.2.45 ।।
अस्मिन्नधिकम्, यस्मादधिकमिति च निर्द्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ भवतः। अधिका खारी द्रोणेनेति कर्त्तरि तृतीयापि भवति। एकादश अधिका अस्मिन् शत इति। व्यपदेशिवद्बावोऽपि प्रातिपदिकेन प्रतिषिद्धः। प्रत्ययार्थेन चेत्यादि। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः। न्यायसिद्धश्चायमर्थः। तथा हि--वाक्ये तावदेकादश अधिका अस्मिन् गोस्ते इति शतविशेषणत्वेनाप्युपात्ता गावः सन्निधानात्प्रकृत्यर्थमपि स्पृशान्ति। वृत्तावप्येकादशं गोशतमित्युक्ते प्रकृत्यर्थतया गावः सन्निहिता एव प्रतीयन्ते। यत्र तु विजातीयसंख्येयवाची शब्दः प्रयुज्यते, तत्र शब्दसन्निहितेन तेनान्यदर्थं सन्निहितं बाध्यते। न च वृत्तौ तादृशेन शब्देन प्रकृत्यर्थः शक्यो विशेषयितुम्; प्रत्ययार्थेनैकार्थीभूतत्वात्, यथा---वृद्धस्यौपगव इति ।।
शतसहस्रयोश्चेष्यत इति। इयमिष्टिरेव।
इतिकरणो विवक्षार्थस्ततः, इदं सर्व लभ्यत इति। यद्यपि पूर्वार्थो न्याया देव लभ्यते, तथापि `शतसहस्रयोश्चेष्यते' इत्ययम्रथ इतिकरणादेव लभ्यते इति लाघवाय साधारणो हेतुरुपदिष्टः।
कथमित्यादि। शते सहस्रे चाभिधेये प्रत्ययो भवन्नत्र न प्राप्नोति, अत्र हि संख्यान्तरमधिकं शतसहस्रं नाम, न शतं सहस्रं वेति भावः। अत्रापि शतसहस्रयोरेवान्यतरस्य प्रत्ययार्थत्वं न संख्यान्तरस्येत्याह--शतानामिति। सहस्राणां वा शतमिति। अत्रापि पक्षे `संख्याया अल्पीयस्याः' इति द्वन्द्वे चाद्वन्द्वे च स्मरणाच्छतस्यैव पूर्वनिपातः। तत्र पूर्वस्मिन्विग्रहे शतानि संख्यायन्त इति तान्येव प्रकृत्यर्थः--एकादश शतान्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति, उत्तरत्र तु सहस्राणां संख्येयत्वात्तान्येव प्रकृत्यर्थः--एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति। प्रकरणादिवशाच्च शतानां वा संख्येयत्वावसायः ।
उक्तमेवार्थं श्लोकेन दर्शयति--अधिके समानजाताविति। प्रत्ययार्थसम्बन्धिन्या जात्या प्रकृत्यर्थस्य जातौ समानायां सत्यामधिकेऽर्थे वर्त्तमानात् प्रत्यय इत्यर्थः। यद्वा--`समानजातौ' इति बहुव्रीहिः। जात्यन्तलक्षमस्तु छो न भवति; भाष्यप्रयोगात्। प्रत्ययार्थेन समानजातीयेऽर्थे वर्त्तमानादित्यथः। इष्टमिति। प्रत्ययाख्यं कार्यम्। एकादशं शतसहस्रमित्यत्र निर्वाहार्थमाह--यस्य संख्येति। `शतानि सहस्राणि संख्यायन्ते', इत्युक्तम्, `अधिके समानजातौ' इति च, तेन यस्य संख्या यज्जातीयं संख्यायते। सामान्यपेक्षमेकवचनम्। तदाधिक्ये स कर्तव्यो मतो मम। एतच्चोदाहरण एव व्यक्तीकृतम्, नात्र किञ्चिदपूर्वमुक्तम् ।।
शदन्तविंशतेश्च ।। अन्तग्रहणमनर्थकम्, केवलस्य शतः प्रातिपदिकस्याभावात्; प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यति, पङ्क्तयादिसूत्रे त्रिंशदादीनां शत्प्रत्ययान्तत्वेन निपातितत्वात्तत्राह--शद्ग्रहणेऽन्तग्रहणमिति। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति तदादिनियमः स्यात्, अस्मिस्त्वन्तग्रहणे सति यावतः समुदायस्यान्ते शच्छब्दस्तावतो ग्रहणं भवति। संख्याग्रहणं चेति। `संक्याया अवयवे तयप्' इत्यतः संख्याग्रहणमनुवर्त्तनीयमित्यर्थः। तेन संख्यावाचिनः शदन्तात्प्रत्ययो भवतीत्यर्थः। एकत्रिशदादयश्च संख्यान्तरस्य वाचकाः, न तु समुदायस्य; तेन तेषामपि ग्रहणम्, गोत्रिशदादयश्च न संख्यावचना इति तेषामग्रहणम्।
विंशतेश्चेति। विंशतिशब्दानन्तरमन्तशब्दः पठितव्य इत्यर्थः; अन्यथा `ग्रहणवता' इति निषेधात्तदन्तान्न स्यात् ।।
संख्याया गुणस्य निमाने मयट् ।। तदस्य सज्जातमित्यत इति। तत्र तावत् `तदस्य' इति समुदायस्य स्वरितत्वं प्रतिज्ञातम्, अनुवृतं च बहुषु योगेषु। `तदस्मिन्नधिकम्' इत्यत्र तु पुनस्तच्छब्दोपादानान्त सम्बद्धयत इत्येतावत्। इह तु प्रतिबनधाभावात्स एव समुदायोऽनुवर्तत इत्यर्थः, तेन `तदस्मिन्' इत्यस्यैव तच्छब्दस्यानन्तर्यादनुवृत्तिर्युक्ता। `अस्मिन्' इत्यनेन विच्छइन्नत्वादस्येत्यनुवृत्तिश्चायुक्तेति न चोदनीयम्। निमानं मूल्यमिति। `मेङ् प्रणिदाने' इत्यस्मान्निपूर्वात्करणे ल्युट्, निमीयतेृक्रीयत इत्यर्थः। गुणस्येति। कर्मणि षष्ठी। सोऽपि सामर्थ्यादिति। गुणशब्दोऽपि सापेक्षं रूपमाचष्टे, तथा हि--द्विगुणम्, त्रिगुणमित्युक्ते किञ्चिदपेक्ष्येति गम्यते; तत्र निमेयस्य गुणत्वं सन्निहितं निमानमपेक्ष्येत्येतत्सामर्थ्यम्। यवानां द्वौ भागाविति। यद्यपि तुल्यमुभयत्रापि स्वत्यागः परकीयस्य ग्रहणम्, तथापि क्वचित्काचित्प्रसृततरा गतिः, तद्यथासमाने त्यागे धान्यं विक्रीणीत इत्युच्यते, न कश्चिदाह--कार्षापणी विक्रीणीत इति, तेन यवभागयोरेव निमानत्वम्, नोदश्विद्भागस्य। देशकालापेक्षो वा निमाननिमेयभावः। निमानस्य च निमेयापेक्षत्वान्निमेयं प्रत्यायार्थः, एकगुणस्यदश्वितो द्विगुणा यवा मूल्यमित्यर्थः। तद्यथा--प्रस्थस्योदश्वितो द्वौ प्रस्थौ यवाः, द्विमयमुदश्विद्यवानामिति। भागविशेषप्रतिपत्त्यथ प्रकृत्यर्थविशेषणस्य यवादेः प्रयोगः। द्विशब्दश्च वृत्तिविषये भागयोरेव संख्येययोर्वर्तत इति सम्बान्धिशब्दत्वेन नित्यसापेक्षत्वात्तद्धइतवृत्तिरविरुद्धा। कथं पुनः प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यम्, यावतोदश्विद्बागे प्रत्ययो विहितः, नोदश्विति ? तत्राह--भागेऽपि तु विधीयमान इति। अत्र चाभिधानस्वाभाव्यं हेतुः। अपर आह--यत्रोदश्वितो भागो द्विगुणैर्यवैः क्रीयते, तत्रार्थात्समुदायोऽपि द्विगुणैर्यवैः क्रीतो भवति बहुभिरेकेन वा, तदपेक्षं सामानाधिकारण्यमिति। गुणस्येति चैकत्वं विवक्षितमित्येतदर्थमेव हि `गुणनिमाने' इति लघुरपि निर्देशो न कृतः। द्वौ भागौ यवानां त्रयं उदश्वित इति। न तावद् `भूयसश्च वाचिकायाः' इत्युक्तमिति मत्वेदमुदाहृतम्, न त्वत्र द्विशब्दो भूयसो वाचकः। यद्वा उदाहरणदिगियं दर्शिता, त्रयो यवानां द्वावुदश्वित इति दर्शयितव्यम्, निमाननिमेयभावस्य विवर्ययो वा प्रष्टव्य। भूयसश्चेति। प्रत्ययार्थात्प्रकृत्यर्थस्य भूयसो या वाचिका संख्याततः प्रत्यय इत्यर्थः। इह न भवतीति। निमाननिमेययोः साम्यविषये न भवतीत्यर्थः; अन्यथा गुणस्येत्येकत्वविवक्षायामपि स्यादेव प्रसङ्गः। कुतस्तर्हि न भवति? अनभिधानात् ।
`बहोर्लोपो भू च वहोः' इति भूयःशब्दस्य व्युत्पादितत्वात्प्रकृत्यर्थस्य बहुतरत्वे सति प्रत्ययेन भाव्यम्, ततश्च द्विशब्दान्न स्यादित्याशङ्कयाह--भूयस इति चेति। गुणशब्द इत्यादि। न ह्ययं भागमात्रवचनः, किं तर्हि ? समानतामपि तस्य भागस्य ब्रूते ।
निमेये चापि दृश्यते इति। कथं तल्लभ्यते ? तन्त्रावृत्तेकशेषाणामन्यतमाश्रयणेन। द्वे अत्र वाक्ते; तत्रैकं व्याख्यात्म्, द्वितीये निमानमिति, कृत्यल्युटो `बहुलम्' इति कर्मणि ल्युट्।
गुणस्येति। करणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी, निमेयस्य निमानापेक्षत्वान्निमानं प्रत्ययार्थः, परिशिष्टं सर्वं पूर्ववत्। संख्याया इति किम् ? यवभागौ निमानमुदश्विद्भागस्य द्विवचनान्ताद्यवभागशब्दात्प्रत्ययो न भवति। व्रीहियवाविति। अत्रोदश्वित एव निमानं द्वौ न तद्भागस्य, तेन द्विमयमुश्विद् व्रीहियवाविति न भवति। द्विगुणं तैलं पच्यते क्षीरेणिति। क्षीरसम्बन्विनौ द्वौ गुणावस्मिस्तैल तत्तेनैव सुभगं सह क्षीरेण पच्यत इत्युच्यत इति ।।
तस्य पूरणे डट् ।। 5.2.48 ।।
तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह--येनेति। संख्येत्यस्य विवरणम्--संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्त्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमित्तं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा `अतिशायने तमविष्ठनौ' कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमित्तकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु `समर्थः पदविधिः' इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश े भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ।।
नान्तादसंख्यादेर्मट् ।। 5.2.49 ।।
डटो मडागमो भवतीति। कथं पुनरयमागमः शक्यो विज्ञातुम्, नात्रागमी निर्दिष्टः, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्दिष्टेन चेहार्थः ? अत आह--नान्तादिति। पञ्चमीग्रहणं तावदनुवर्तते, न च तस्य विधानार्थानुवृत्तिः, पूर्वमेव विहितत्वात्। न च विशेषविहितेन मटा बाधप्रसङ्गे विधानार्था डटोऽनुवृत्तिः, एवं हि प्रकृतस्य समुच्चयार्थश्चकारः क्रियेत, मट् चेति; यथान्यत्र। ततोऽनुवृत्तिसमामर्थ्यात्षठीप्रक्लृप्तावागमित्वमेव विज्ञायते। कः पुनर्मटः प्रत्ययत्वे आगमत्वे वा विशेषः, यावता तदेव रूपं स एव स्वरः? सत्यम्; डटि मटि च नास्ति विशेषः, `विंशत्यादिभ्यस्तमडन्यतरस्याम्' इत्ययं तु तमड्यदि प्रत्ययः स्यादाद्युदात्तः स्याद्, आगमत्वेनागमानुदात्तत्वं भवति, न तु प्रत्ययस्वर इति विंशतितम इत्यस्यान्तोदात्तत्वं भवति।
एकादश इति। नायं संख्यासमुदायः, किं तर्हि ? संख्यान्तरमेव। अत एवात्र डड्भवति; अन्यथा सोऽपि न स्यात्। न हि संख्यासमुदायः संख्याग्रहणेन गृह्यते, यथा जनपदसमुदायो जनपदग्रहणेन-काशिकोशलीयाः। अथाप्ययं संख्यासमुदायः; तथापि संख्याग्रहणेन तत्समुदायो गृह्यत इति ज्ञापनार्थमेव `असंख्यादेः' इति वक्तव्यम्; तेन सर्वमेव संक्याकार्यमेकादशादीनामपि भवति ।।
षट्कतिकतिपयचतुरां थुक् ।। 5.2.51 ।।
तदिह सप्तम्या विपरिणम्यत इति। यदि पूर्ववत् षष्ठ्या विपरिणाम इष्टः स्यात्, पञ्चम्या निर्द्दिशेत्; षष्ठ्या निर्देशात्तु षषादीनामेवागमित्वं विज्ञायते। ततश्चानुवृत्तस्य डटोऽर्थात्सप्तम्या विपरिणाम इत्यर्थः। एवं च कृत्वा षष्ठाष्टमाभ्यां द्वितीयतृतीयतुर्थेति निर्द्देश उपपद्यते। कतिपयशब्दो न संख्येति। यद्यप्यसावतिप्रचयरहितं बहुत्वमाचष्टे, तथापि लोके संख्यात्वेन न प्रसिद्धिः, यथा--द्वित्राः पञ्चषा इति। साश्त्रेऽपि नैवास्य संख्यासंज्ञा विहिता, कथं तर्हि डट्प्रत्ययः ? इत्याह--तस्येति। किं पुनस्थुग्विधीयते, न पञ्चमीनिर्द्देशेन प्रकृतस्थडेव विधीयेत ? नैवं शक्यम्; इह षष्ठ इति जश्तवं प्राप्नोति, चतुर्थ इति रेफस्य विसर्जनीयस्तस्य च सत्वं प्राप्नोति; थटः परादित्वेन पूर्वस्य पदत्वात्। यदि पुनः पूर्वसूत्रे थुगेव विधीयेत ? नैवं शक्यम्; पञ्चथः, सप्तथः--नलोपो न स्यात्। इह लिङ्गविशिष्टपरिभाषाया कतिपशब्दादाबन्तादपि थुग्भवति, तत्र `भस्याढे तद्धिते' इति डटि विषयभूत एव पुंवद्भावः, कतिपयानां पूरणी कतिपयथीति भवति।
चतुरश्छयताविति। छयद्भयां डट् न बाध्यते; इटि परतस्थुग्विधानात्। आद्यक्षरलोपश्चेति। अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः। व्यञ्जनसहिताज्वचने त्वक्षरशब्दे द्विर्वचनन्यायेन तकारस्यापि लोपः स्यात् ।।
बहुपूगगपसङ्घस्य तिथुक् ।। 5.2.52 ।।
अत्रापि षष्ठीनिर्द्देसाद् बह्वादीनामेवागमित्वम्। पूगसङ्घयोरित्यादिरेक एव ग्रन्थ। इह बह्वीनां पूरणीति पूर्ववड्डट् प्रत्ययः पुवद्भावश्च ।।
वतोरिथुक् ।। 5.2.53 ।।
अत्रापि पूर्ववद्वत्वन्तस्यैवागमित्वम्। इह तावतीनां पूरणी तावतिथीति लिङ्गविशिष्टपरिभाषया प्रत्ययः, पुंवद्भावश्च। कथं पुनरत्र लिङ्गविशिष्टपरिभाषा, यावता प्रातिपदिकस्वरूपग्रहणे सा भवतीत्युक्तम् ? यत्रापि प्रातिपदिकविशेषणं स्वरूपेणोपादीयते, तत्रापि सा भवति, यथा--`तृजकाभ्यां कर्त्तरि'--अपां स्रष्ट्रीति। इहापि वतोरिति विशेषणं स्वरुपेणोपादीयते, तेन भवत्येव लिङ्गविशिष्टस्य ग्रहणम्। उक्तं च--बहुकतिपयवस्तूनां लिङ्गविशिष्टादुत्पत्तिः; प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति ।।
द्वेस्तीयः ।। 5.2.54 ।।
तीयप्रत्ययो भवतीति। डटो द्विशब्दस्य चादेशो न भवति; द्वितीयेति निर्द्देशात्। यद्येवम्, तस्मादेव निर्द्देशान्न सिद्धमस्य साधुत्वम् ? सिद्ध्यतु साधुत्वम्, पूरणआर्थस्तु कर्थ लभ्यते! किञ्च तदाश्रयणे प्रकृतिप्रत्ययविभागाभावात्प्रातिपदिकस्वरेणान्तोदात्तत्वं स्यात्, `अबाधकान्यपि निपातनानि भवन्ति' इति पक्षे डटः प्रसङ्गश्च ।।
त्रेः संप्रसारणं च ।। 5.2.55 ।।
अण इति तत्रानुवर्तत इति। `ढ्रलोपे पूर्वस्य दीर्घोऽणः' इत्यतः। एवमपि यदि परेण णकारेण प्रत्याहारः स्यात्पुनरपि स्यादेव दीर्गः, स तु न तथा? इत्याह--पूर्वेणोति। एतच्च `लण्' इत्यत्रैव प्रतिपादितम्।
`त्रेस्तृ च' इति नोक्तम्, प्रत्ययो मा विज्ञायीति ।।
विंशत्यादिभ्यस्तमडन्यतरस्याम् ।। विंशत्यादिभ्यः परस्येति। कथं पुनः `द्वेस्तीयः' इति तीयप्रत्ययेन सत्यं डट्प्रत्ययो विच्छिन्नः; पूरणार्थस्तु न विच्छिन्नः, सोऽनुवर्त्तेते, तेन पूरणे यो विहितः स आगमी विज्ञायते। न च डटोऽन्यो विंशत्यादिभ्यः पूरणे विहितोऽस्ति।
कः पुनः पङ्क्त्यादिसूत्रनिर्द्दिष्टानां ग्रहणे सति दोषः ? तत्राह--तद्ग्रहणे हीति। स्यादेतत्--तदन्तविधिना एकविंशतिप्रभृतिभ्योऽपि भविष्यतीति ? तत्राह--ग्रहणवतेति। ननु यदयं `षष्ट्यादेश्चासंख्यादेः' इत्याह, तज्ज्ञापयति--भवति पूरणप्रकरणे तदन्तविधिरिति। तेनैकविंशतिप्रभृतिभ्योऽपि भविष्यति। अत्स्तवेतत्, केवलेभ्यस्तु न स्यात्, अतदन्तत्वात्। व्यपदेशिवद्भावेन भविष्यति, `व्यपदेशिवद्भावोऽप्रातिपदिकेन'। एवं चेत्यादि। लौकिकानां विंशत्यादीनां यदीदं ग्रहणम्, तदा `षष्ट्यादेश्च' इत्यत्रापि लौकिकानामेव षष्ट्यादीनां ग्रहणम्, ततश्चैकषष्टिप्रभृतिभ्यो नित्यस्य तमटः प्रसङ्गे `असंख्यादेः' इति पर्युदासो युज्यत एव, न कथञ्चिन्न युज्यते; अनिष्टलेशस्याभावात्। सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधइज्ञापनार्थं पर्युदासो युज्यते। केवलं न तु युज्यत एव, केवलानामप्रसङ्गादिति तावद्वृत्तेरर्थः। यथा तु भाष्यं तथा सूत्रसंनिविष्टानां ग्रहणम्, ज्ञापनाच्च तदन्तविधिरिति स्थितम्। न च केवलानामप्रसङ्गस्तदन्तानामपि भवतीति ज्ञापनशरीरम्, न तु तदन्तानामेव भवतीति। यदि वा यत्र प्रातिपदिकस्य श्रुतिरस्ति--`ग्रहणवता प्रातिपदिकेन', व्यपदेशिवद्भावोऽप्रातिपदिकेन' इति, तदुभयमपि न प्रवर्त्तते इति सामान्येन ज्ञापनम्। एवं च कृत्वेदमपि सिद्धं भवतिएकान्नविंशतेः पूरणः एकान्नविंशतितम इति। भवति ह्येतत्सूत्रसन्निविष्टविंशत्यन्तं संख्यादि संख्यावाचि च। लौकिकानां तु ग्रहणे नैतत्सिध्यति; विंशतेः प्राग्भावित्वादस्यास्संख्यायाः ।।
नित्यं शतादिमासार्धमाससंवत्सराच्च ।। 5.2.57 ।।
मासादय इत्यादिर्विज्ञायत इत्यन्त एको ग्रन्धः।
अथ शतादिग्रहणं किमर्थम्, यावता `षष्ट्यादेश्च' इति वक्ष्यमाणेनैवसिद्धम् ? तत्राह--षष्ट्यादेरित्यनेनैवेति। यदि तेन स्याद्, एकशतादिभ्यो न स्याद्; असंख्यादेरिति प्रतिषेधात् ।।
षष्ट्यादेश्चासंख्यादेः ।। 5.2.58 ।।
संक्यादेस्तु विक्लप एवभवतीति। न ह्ययं विकल्पस्यापि प्रतिषेधः। पर्युदासो ह्ययं संख्यादेः, न विधिर्न प्रतिषेधः, यदि केनचित् प्राप्नोति भवत्येव पूर्वेण च प्राप्नोति, प्रसज्यप्रतिषेधेऽप्यनन्तरा प्राप्तिः प्रतिषिध्यते, न व्यवहिता ।।
मतौ छः सूक्तसाम्नोः ।। 5.2.59 ।।
मताविति मत्वर्थ उच्यत इति। साहचर्याद् मुख्यस्य ग्रहणं न भवति। कथं हि मतुरभिधेयः स्याच्छब्दस्य शब्दः ? मत्वर्थग्रहणेनेत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतेरर्थद्वारकं विशेषणम् अस्तित्वम्, प्रत्ययार्थः--अस्यास्मिन्निति च। तत्र यद्यपि प्रत्ययार्थो मतोरभिदेयम्, इतरदनभिधेयम्; तथापि साहचर्यमविशिष्टमिति सर्वमेतदाक्षिप्यते=सन्निधाप्यते, उपस्थाप्यत इत्यर्थः। अथ वा--प्रधानवशब्तित्वाद् गुणानां प्रधाने प्रत्ययार्थे उपस्थापिते समर्थविभक्त्यादिकमपि गुणभूतमुपस्थाप्यते एव, आचमनादिवत्, यथा--व्रहाह्णा भोज्यन्तामित्युक्तेऽनुक्ता अप्याचमनादयोऽह्गभूता आक्षिप्यन्ते।
इहास्यवाम इत्यस्मिन्नस्तीति षष्ठीप्रथमयोरुपलम्भादनेकपदसमुदायोऽयम्, ततश्चार्तवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञाया अभाबादेवंविधेभ्यः प्रत्ययो न प्राप्नोतीत्यत आह--अनुकरणशब्दाश्चेति। स्वरूपमात्रप्रधान इति। नात्र तदानीमुच्चरितमनुकरणस्वरूपं विवक्षइतम्, किं तर्हि ? अनुकार्यस्वरूपम्। मात्रशब्दो बाह्यर्थव्यवच्छेदार्थः, एतदुक्तं भवति--यथा गवादयः शब्दाः सास्नादिमदाकृतिमर्थं प्रत्यायन्तस्तेनार्थेन तद्वति मतुपमुत्पादयन्ति--गोमान्, वृक्षवानिति; तथानुकरणशब्दाः प्रथमासमर्थाः स्वेनानुकार्येण तद्वति छप्रत्ययमिति। तत्र `अनुकरणशब्दाः' इत्यनेन पदसमुदायत्वं निरस्यति। अनुकार्थो हि पदसमुदायः न त्वनुकरणम्। किं पुनरन्यदनुकार्यमनुकरणं च, ननु रूपभेदो नोपलभ्यते ? यद्यप्येवम्, तथाप्यर्थभेदाद् भेदः, अनुकार्यस्य बाह्योऽर्थः, अनुकरणस्य तु तदेवानुकार्यम्। अत एवास्यावामीयमित्यादौ विबक्त्यर्थाप्रतिपादनात्सुप्त्वाभावात्स्यशब्दादीनां लुग्न भवति। ये चाम्नायशब्दानां नियमाः- `श्मशाने नाध्येयम्', `चतुर्द्दश्यां नाध्येयम्', `शूद्स्य वेदमुपश्रृण्वस्त्रपुजतुभ्यां श्रोत्रपूरणम्' इत्येवमादयः, तेऽप्यनुकरणेषु न भवन्ति। अस्यवामीयमिति हि सर्वत्र सर्वदा सर्वेपां च सकाशे प्रयुज्यते। तस्मादन्येऽनुकरणशब्दाः। अनुकार्यशब्दाश्च स्वरूपमात्रप्रदान इत्यनेन त्वर्थवत्त्वमाह।
अनेकपदादपीति। अनेकं पदं यत्र समुदाये तस्मादपीत्यर्थः। परप्रसिद्ध्या चैवमुच्यते, यम्भवाननेकपदसमुदायं मन्यते तस्मादपीत्यर्थः। न त्वत्र वस्तुतोऽनेकपदत्वमस्ति---अस्यवामीयमिति, अस्यवामस्येति वेदे यत्पदद्वयं पठितं तदैकदेशस्यास्यवामशब्दस्य छप्रत्ययप्रकृतिरस्यवामशब्दः। प्रतिपादक इत्यर्थवत्त्वम्, पदसमुदायत्वाभावाच्च प्रातिपदिकत्वे सति प्रत्ययः। किं पुनरत्र छप्रत्ययप्रकृततेरनुकरणत्वे प्रमाणम् ? छप्रत्यय एव। न ह्यसावनुकरणत्वमन्तरेण सम्बवति। तस्मादितिशब्दवच्छप्रत्ययोऽप्युनुकरणत्वे प्रमाणम् ।।
अध्यायानुवाकयोर्लुक् ।। 5.2.60 ।।
केन पुनरिति। सूक्तसाम्नोरेव छो विहित इति प्रश्नः। इदमेविति। न ह्यसती लुग्विधानमुपपद्यते। विकल्पेन चेति। तत्कथं मतुप्प्रकरणे एवास्मिन्सूत्रे कर्तव्ये तदत्र छस्य लुग्विधानम् ? तस्मात्पाक्षिको लुगनुमीयते। अत्र केचिदाहुः--अनुवाकसाहचर्याद्वैदिकोऽध्यायो गृह्यत इति। अन्ये पुनः---पौरुषेयग्रन्थविशेषस्याप्यध्यायस्य ग्रहणमिच्छन्ति।च तथा च `दीर्घजीवितीयमध्यायं व्याख्यास्यामः' इत्यदिवैद्यकग्रन्थेषु दृश्यते ।।
तत्र कुशलः पथः ।। 5.2.63 ।।
पथि कुशल इति। `आयुक्तकुशलाभ्यां चासेवायाम्' इति सप्तमी, कौशलस्य क्रियाविषयत्वात्पथिन्शब्देन गमनादिका तद्विषया क्रिया लक्ष्यते। योगश्चायम् `कृतलब्धक्रीतकुशलाः' इत्यणोऽपवादः ।।
आकषादिभ्यः कन् ।। 5.2.64 ।।
कन् ।। आकषत्यस्मिन्सुवर्णादिकमित्याकषः, `पुंसि संज्ञायाम्' इति घः। `हलश्च' इति घञ् तु न भवति; प्रायग्रहणानुवृत्तेः, यथा निकष इति। ये तु आकर्षादभ्य इति सरेफं पठन्ति, तेषामाकृष्यतेऽस्मिन्निति घञि रूपम्। त्सरुक इति। `त्सकर छद्मगतौ', `भृमृश्रृ' इत्यादिनौणादिक उप्रत्ययः। त्सरुः=खड्गग्रहणप्रदेशः। एतदर्खं प्रत्ययान्तरकरणमिवर्णान्तार्थं च। अकारान्तेष्वाकर्षादिषु प्रकृतेन वुनापि सिद्धम् ।।
धनहिरण्यात् कामे ।। 5.2.65 ।।
काम इच्छेति। कामयिता तु न गृह्यते; अनभिधानात् ।।
स्वाङ्गेभ्यः प्रसिते ।। 5.2.66 ।।
प्रसितः प्रसक्त इति। `षिञ् बन्धेने' कर्मणि क्तः, यो यत्र प्रसक्तः स तत्र प्रकर्षेण बद्ध इव भवतीत्युपमानादिदमभिधानम्। केशेषु प्रसित इति। `प्रसितोत्सुकाभ्यां तृतीय च' इति सप्तमी। केशादिरचनायामिति। केशादिस्थायां रचनायां केशादिशब्दस्य वृत्ति दर्शयति। एतश्च क्रियाविषयत्वात् प्रसक्लेलेभ्यते।
बहुवचनमित्यादि। स्वरूपविधिनिरासार्थं तु बहुवचनं न भवति, `अद्रवम्' इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपग्रहणासम्भवत् ।।
उदराट्ठगाद्यने ।। 5.2.67 ।।
आद्युनो विजिगीषुरिति। `विवोऽविजिकगीषायाम्' इति तत्र निष्ठानत्वविधानात्। उदरक इति। उदरपरिमार्जनादौ प्रसित उच्यते ।।
सस्येन परिजातः ।। 5.2.68 ।।
सस्यशब्दौ गुणवाचीति। न दान्यवाची; अनभिधानात्। केचित्तु `शंसिदुहिगुहिभ्यो वा' इति क्यवन्तं शस्यशब्दं पठन्ति। सस्येनेति कर्त्तरि कृतीया। परिगतो जातः परिजातः, `प्रादयो गताद्यर्थे प्रथमया' इति समासः। समन्तात्सन्बद्धः परिगतः, तत्र सस्यस्य कर्तृत्वम्, तदाहृ--यो गुणैः सम्बद्धो जात इति ।।
अंशं हीरी ।। 5.2.69 ।।
तत्र षष्ठीप्रतिषेधादिति। `अकेनोर्भविष्यदाधमर्ण्ययोः' इत्यनेन। ननु तत्र भविष्यदधिकारविहितस्याकस्य ग्रहणम् ? सत्यम्; इनस्त्वविशेषण ग्रहणम्, अस्मादेव द्वितीयानिर्द्देशात् ।।
तन्त्रादचिरापहृते ।। 5.2.70 ।।
तन्यन्ते तन्तवोऽस्मिन्नति तन्त्रम्=तन्तुवायशलाका, तन्त्रातेर्वा एरचि णिलोपः। अचिरापहृत इति। अचिरः कालोऽपहृतस्येति `कालाः परिमाणिना' इति समासः। पञ्चमीसमर्थादिति। अपहृतयोगे `अपादाने, पञ्चमी' ।।
ब्राह्मणकोष्णिके संज्ञायाम् ।। 5.2.71 ।।
कन्प्रत्ययान्तौ निपात्येते इति। किं पुनरत्र निपात्यते, ब्राह्णणशबप्दादायुधजीव्युपाधिकात्प्रथमान्तात्सप्तम्यर्थे कन्प्रत्ययः, अन्नशब्दादल्पत्वोपाधिकात्सप्तम्यर्थ एव कन्प्रत्ययः, अन्नशब्दस्योष्णस्योष्णयादेशः ? तदाहयत्रायुधजीविन इत्यादि ।।
शीतोष्णाभ्यां कारिणि ।। 5.2.72 ।।
शितं करोति स शीतकः, यश्चोष्णं करोति स उष्णकः। किं चातः? तुषारे आदित्ये च प्राप्नेति, शीतोणशब्दयोहि स्पर्शविसेषो मुख्योऽर्थेः, तं च ताववश्यं कुरुत एवेति मुख्यार्थग्रहे दोषं दृष्ट्वा गौणार्थयोर्ग्रहणमिति दर्शयन्नाह--क्रियाविशेषणादिति। तत्र शीतोष्णशब्दयोरुपमानाद् वृत्तिः---शीतमिव शीतम्, मन्दकरणमित्यर्थः। शीतं हि मन्दतायुक्तम्; सति शीते कार्यकरणे पाटवाभावात्। एवमुष्णमिवोष्णम्=पटुकरम्, शीघ्रकरणमित्यरथः। एवं क्रियाविशेषणाभ्यां प्रत्ययः। द्वितीयासमर्थादिति। `कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्त भवति' इति प्रागेवोक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति; अनभिधनात् ।।
अधिकम् ।। 5.2.73 ।।
अध्यारुढशब्दस्येति। यदि पुनरधिशब्दात्ससाधनक्रियावचनात् कन्निपात्यते, तदा कर्तृकर्मणोरन्यतरस्यैवाभिधानं प्राप्नोति। अध्यारूढशब्दस्तूभयार्थ इति तस्यैवेदमङ्गीकृतसाधनभेदं निपातनमुचितमिति भावः। अधिको द्रोणः खार्याम्, अधिकाक खारी द्रोणेनेति। यथैतत्प्रयोगद्वयमुपपद्यते तथा दर्शयतिकर्त्तरि कर्मणि चाध्यारूढशब्द इति। `गत्यर्थाकर्मक' इत्यादिना रुहेः कर्त्तरि कर्मणि च क्तो विहितः। निपातनसामर्थ्याच्च सकृदुपात्तोऽप्यङ्गीकृतसाधनभेदः संगृह्यते। तत्र यदा कर्तरि तदा तत्राबिहितत्वात्प्रथमैव भवति, न तृतीया; यदा तु कर्मणि तदा कर्तुरनभिहितत्वात्तृतीया, कर्मणस्त्वभिहितत्वात्प्रथमा। यदा च कर्त्तरि त्तस्तदा कर्मणोऽनभिदानादध्यारूढयोगे यथा द्वितीया भवति--अध्यारूढो द्रोणः खारीमिति, ग्रामं गत इतिवत्, तथाधिकशब्देनापि योगे द्वितीयायां प्राप्तायाम् `यस्मादधिकम्' `तदस्मिन्नधिकम्' इति च निर्द्देसात् पञ्चमीसप्तम्यौ भवतः ।।
अनुकाभिकाभीकः कमिता ।। 5.2.74 ।।
सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह--अनुकामयतेऽनुक इति। `अभिकामयते' इत्येतद् गम्यमानत्वान्नोक्तम् ।।
पार्श्वेनान्विच्छति ।। 5.2.75 ।।
अनुजुरुपायः पार्श्वमिति। तिर्यगवस्तानात्पार्श्वं तावदनृजु, तद्वदन्योऽप्यनृजुरुपाय एवभुच्यत इत्यर्थः। य ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनाऽन्विच्छति स पार्श्वकः। कुत्सितो मार्ग=कुसृतिः, जालम्=आनायः, ताभ्यां चरतीति कौसृतिकौ जालिकः ।।
अथःशूलदण्डाजिनाभ्यांक ठक्ठत्रौ ।। 5.2.76 ।।
तृतीयासमर्थाभ्यामिति। निर्द्देशादेव तृतीया हीयम्, न पञ्चमी; पूर्वेण साहचर्यात्। तीक्ष्ण उपायोऽयःशूलमिति। यथायःशुलं तीक्षणं तथान्योऽपि तीक्षणं उपायोऽयःशूलमित्युपचारादुच्यत इत्यर्थः। दम्भोदण्डाजिनमिति। दम्भसाधनत्वात्। दम्भवन्तो हि प्रायेण दण्कडमजिनं च धारयन्ति। तेनेति। दम्भेन तु धारयतु मा वाऽदीधरदित्यर्थः, सर्वत्र मुख्यार्थाग्रहणेऽनभिधानमेव हेतुः ।।
तावतिर्थं ग्रहणमिति लुग्वा ।। 5.2.77 ।। यथा `तस्यापत्यम्' इत्यत्र तस्येति षष्ठ्यन्तानां सामान्यनिर्देशः, तथा तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्द्देशः। पूरणप्रत्ययस्य चेति। न तु कनः लुक्; वाग्रहणानर्थक्यप्रसङ्गात्, महाविभाषाधिकाराद्विकल्पेन कन उत्पत्तेः पञ्चमं ग्रहणम्, पञ्चमकं ग्रहणमिति रूपद्वयस्य सिद्धत्वात्। तथा च वार्तितकम्--`तावतिथं ग्रहणमिति लुग्वचनानर्थक्यं विभाषाप्रकरणात्' इति। अतो लुग्वाग्रहणं कुर्वतः सूत्रकारस्य पूरणप्रत्यस्य वा लुग्विधीयत इति पक्षो लक्ष्यते द्वितीयेन रूपेण ग्रन्थं गृह्णातीति। अत्र ग्रहणे द्वितीयस्य करणत्वं प्रदर्शयितुमिदं वाक्यम्। वस्तुतस्तु द्वितीयं ग्रहणं देवदत्तस्येति विग्रहीतव्यम्। द्विकं ग्रहणमिति। ग्रहीतर्यपि प्रत्ययो वक्ष्यते, तेन प्रकृत्युपाधिभूतस्य ग्रहणस्य नियमेनाप्रतीतेर्ग्रहणशब्दप्रयोगः। द्विकं रूपं देवदत्तस्येत्येव तु नोदाहृतम्, स्वच्छन्दतो हि वचसां प्रवृत्तिः। चतुष्क इति। सन्नियोगशिष्टपरिभाषया डटि निवृत्ते थुकोऽपि निवृत्तिः, रेफस्य विसर्जनीयः, `इदुदुपधस्य' इति षत्वम्।
तावतिथेनेति। स्वार्थे प्रत्ययो विधीयमानो ग्रहीतरि न प्राप्नोतीति वचनम्। नित्यं च लुकं वक्ष्यामीति। षट्क इति। रूपशब्दस्य वाक्ये प्रयुक्तस्यापि वृत्तौ गम्यमानत्वादप्रयोगः, पदत्वाज्जश्त्वचर्त्त्वे। इह यः षष्ठेन रूपेण गृह्णाति षङ्भिरसौ रूपैर्गृह्णाति, ततःकिं सङ्खयायाः, तेन गृह्णातीत्येव वक्तव्यम्, एवं हि लुग्वेति न वक्तव्यं भवति ? नैवं शक्यम्; एवं ह्युच्यमाने इहापि प्राप्नेति--एकेन रूपेण गृह्णातीति। पूरणप्रत्ययस्त्वेकशब्दान्नास्ति, तेन ग्रन्थविषयमेव ग्रहणं विज्ञायत इति। तेनेह न भवति--द्वितीयो हस्तो ग्रहणो दण्डस्योति ।।
स एषां ग्रामणीः ।। 5.2.78 ।।
इह त्वत्को मत्को वा विजय इत्यादावनेन कन्। त्वं ग्रामणीरस्य त्वत्कः, अहं ग्रामणीरस्य मत्कः। प्रायेण त्विदमर्थमात्रे प्रयुज्यते ।।
शृङ्कलमस्य बन्धनं करभे ।। 5.2.79 ।।
ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छृङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम्---`शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह--यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृत्तेरित्यर्थः ।।
उत्क उन्मनाः ।। 5.2.80 ।।
उच्छब्दात्ससाधनक्रियावचनादिति। साधनम्=मनः, क्रिया=गमनम्, उद्रते मनसि वर्त्तमानादित्यर्थः। यद्वतीति। उद्गतं मनो यस्य तस्मिन्नित्यर्थः। उत्सुकः=उत्कण्ठितः ।।
कालप्रयोजनाद्रोगे ।। 5.2.81 ।।
अर्थलभ्येति। अर्थ=सामर्ध्यम्, तेन लभ्या। तत्र काले सप्तमी समर्थविभक्तिः, भवो हि तत्र प्रत्ययार्थः। प्रयोजने तृतीया, जनितो हि तत्र प्रत्ययार्थः। फले तु प्रयोजने प्रथमा। प्रयोजनं कारणं रोगस्य फलं चेति। उभयमपि प्रयोजयतीति प्रयोजनमुच्यते। यदि तर्हि कारणमपि प्रयोजनमुच्यते, कालग्रहणमनर्थकम्, कथम् ? योऽसौ द्वितीयेऽह्नि भवो ज्वरस्तस्य द्वितीयमप्यहः कारणम्; अहरन्तरे तदनुत्पत्तेः? सत्यम्; सदपि कारणत्वं यदा न विवक्ष्यते `तत्र भवः' इत्येव तु विवक्ष्यते, तदापि यथा स्यादिव्येवमर्थं कालग्रहणम्। द्वितीयेऽह्नि भव इति। सामान्यशब्दस्यापि द्वितीयशब्दस्यार्थप्रकरणादिना वृत्तिविषये कालेऽपि वृत्तेः कालशब्दत्वम्। किं पुनः कारणं साक्षात्कालवाचिभ्यो मासादिभ्यः प्रत्ययो न भवति द्वितीयादिभ्यश्च भवति, तत्रापि सप्तमीसमर्थेभ्यो भवार्थ एव भवति कारणवाचिनस्तृतीयासमर्थात्, फलवाचिनस्तु प्रथमासमर्थात्, न ह्येतत्सर्व सूत्राक्षरैरुपात्तम् ? तत्राह--उत्तरसूत्रासंज्ञाग्रहणमिहानुकृष्यत इति। सिंहावलोकितन्यायेन, यथा सिंहा धावन्तः पृष्ठतोऽवलोकयन्ते। अपर आहउत्तरसूत्रे योगविभागः, `तदस्मिन्नन्नं प्राये', ततः `संज्ञायाम्', यदेतदनुक्रान्तं तत्संज्ञायां द्रष्टव्यमित्यर्थः। संज्ञाग्रहणमुभयोः शेषः, एतदेव चानुकर्षणं विवक्षितम् ।
तदस्मिन्नन्नं प्राये संज्ञायाम् ।। 5.2.82 ।।
अन्नम्=अब्यवहार्यम्, अद्यते स्मेति कृत्वा। गुकडामिश्रा अपूपा गुडापूपाः=कृसरस्तिलौदनः, तिलक्षोद इत्यन्ये। त्रइबिलोऽपूपस्त्रिपुटः। वटकेभ्य इनि रिति। कनि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यति, तस्मिंश्चासति मत्वर्थीय इनिर्भविष्यति ? न सिद्धयति; `सप्तम्यां च न तं स्मृतौ' इति वचनात् ।।
कुल्माषादञ् ।। 5.2.83 ।।
कुल्माषाः=मुद्गाः ।।
श्रोत्रियँश्छन्दोधीते ।। 5.2.84 ।।
वाक्यार्थ इति। वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽद्यायी पुरुष उपचारादुच्यते, कुतः ? मुख्यो हि वाक्यार्थः क्रियारूपः, सम्बन्धरूपो वा, स चासत्त्वभूतः। श्रोत्रियशब्दस्तु सत्त्वभूतार्थाभिधायी, तस्मिन्वाक्यार्थेऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यत इत्यर्थः। अथ कथमस्मिनपक्षे स्वरसिद्धिः, यावता नकार इद्यस्य तत्र परतः स्वरो विधीयते, न चात्रैवं व्यपवर्गोऽस्ति ? मा भूद्वयपवर्गे, नित्करणसामर्थ्यात्तदभावेऽपि भविष्यति। यद्वा, नितीति कर्मधारयोऽयम्--नश्चासाविच्च नित्, तत्र परत इति।
कथमित्यादि। छन्दसः श्रोत्रभावो घन् च प्रत्ययः, छान्दस इति न सिद्ध्यति; घनाऽणो बाधितत्वात्, श्रोत्रभावेन च छन्दःशब्दस्य निवर्तितत्वादिति प्रश्नः। वाग्रहणमनुवर्तत इति। अपर आह--यश्छन्दोऽधीते तदर्थं चानुतिष्ठति तत्र श्रोत्रियशब्दः, अध्येतृमात्रे तु छान्दशब्द इत्यर्थभेदान्नास्ति बाध्यबाधकत्वमिति। `एकां शाखामधीत्य श्रोत्रियो भवति' इति धर्मसास्त्रम् ।।
श्राद्भमनेन भुक्तमिनिठनौ ।। 5.2.85 ।।
श्राद्धशब्दः कमनामधेयमिति। श्रद्धया निष्पाद्यस्य पिञ्यस्य कर्मणः श्राद्धशब्दः संज्ञा, श्रद्धास्मिन्नस्तीति `प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' इति णः। तत्साधने द्रव्य इति। मुख्यश्रद्धस्य भोजनासम्भवात्। समानकालग्रहणमितिष। भुजिना समाने काले प्रत्ययान्तस्य प्रयोगो यथा स्यात्, यद्यपि भुजिक्रिया कतिपयक्षणसाध्या, तथापि यावन्तं कालं तदाशिनस्तृप्तिशेषस्तल्लिङ्गं चानुवर्तते तावत्समानकालः, स च प्रायोवृत्त्याऽद्यतन एवेति तस्मिन्नेव प्र्ययान्तस्य प्रयोगः। यदा तु कस्यचिद्दुर्बलस्य द्वितीयेऽप्यह्नि भुक्तमपरिणतं तदा प्रयोगाभावः। तदिदमाह-अद्य भुक्ते श्वः श्राद्धिक इति कप्रयोगो मा भूदिति ।।
पूर्वादिनिः ।। 5.2.86 ।।
पूर्वं गतमनेनेत्यादि। क्रियाविसेषणाद् द्वितीयान्तात्प्रत्ययः ।।
सपूर्वच्च ।। 5.2.87 ।।
विद्यमानं पूर्वमस्मिन्निति सपूर्वमिति। `तेन सहेति तुल्ययोगे' इत्युपाधिवचनस्य प्रायिकत्वाद्विद्यमानवचनस्यापि समासः। पूर्वशब्दोऽवयववचनः। न च शब्दान्तरं पूर्वशब्दस्यावयव उपपद्यते। पकारस्त्वव्यभिचारी, तेन प्रातिपदिकस्यैतद्विशेषणम्--सपूर्वं यत्प्रातिपदिकमिति। एवं च पूर्वशब्दोऽपि तस्यैव विशेषणम्, विशेषणेन च तदन्तविधिरित्याह--तस्य पूर्वशब्देन तदन्तविथधिरिति। सपूर्वादित्यादि। यद्यपि पूर्वशब्दान्तं प्रातिपदिकं सपूर्वमेव, तथापि असति सपूर्वग्रहणे तदन्तविधिर्न लभ्यत इति `सपूर्वात्' इत्युक्तम्। कृतकर्मणोः कृति' इत्यत्रायं प्रयोग उपपादितः।
योगद्वयेनेत्यादि। यदि `व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्येषा परिभाषा न स्यात् `पूर्वादिनिः सपूर्वात्' इत्येकमेव योगं कुर्यात्, व्यपदेशिवद्भावात्केवलादपि भविष्यति, किं योगद्वयकरणेन! अत्र चकारः कर्त्तव्यो न भवति। यदि च `ग्रहणवता प्रातिपदिकेन' इत्येषा परिभाषा न स्यात्, `पूर्वादिनिः' इत्येतावदेव ब्रूयात्, तदन्तविधिना सपूर्वादपि भविष्यतीति किं द्वितीयेन योगेन ! तदिह योगद्वयेन परिभाषाद्वयं ज्ञाप्यते ।।
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।। 5.2.89 ।।
अत्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य च पन्थि, परि--इत्येतावादेशौ निपात्येते। भाषायां तु परिपन्थिशब्दस्यासाधुः प्रयोगः ।।
अनुपद्यन्वेष्टा ।। 5.2.90 ।।
पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्ययीभावः, अन्वेष्टरीनिप्रत्ययो निपात्यते। अनुपदी गवाभिति। पदापेक्षया षष्ठी, गोपदस्य पश्चादन्वेषणं गवामेव, हिरण्यादावन्वेष्ये न भवति; पदाभावात्। यदि त्वन्वेष्टशब्दात्स्वार्थे इनिप्रत्ययः, एष्टृशब्दस्य च पदशब्द आदेसो निपात्येत; यदि वा--श्रोत्रियवदविद्यमानप्रकृतिप्रत्यमन्वेष्टरि निपात्येत, ततो गवामिति षष्ठी न प्राप्नोतिकृतपूर्वी कटम्, अनुको भार्यामभिको दासीमितिवत् द्वितीया प्राप्नोति; हिरण्यादौ चान्वेष्ये--अनुपदी हिरण्यमिति। तस्माद्यथोक्तमेव साधीयः ।।
साक्षाद् द्रष्टरि संज्ञायाम् ।। 5.2.91 ।।
साक्षाच्छब्दोऽव्ययमिति। तेन प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्या अलुक्, उदाहरणे च `अव्ययानां भमात्रे' इति टिलोप इति भावः। संज्ञाग्रहणादित्यादि। त्रिभिः साक्षाद् दृष्टं भवति--यश्च ददाति, यस्मै च दीयते, यश्च पार्श्वे स्थितः पश्यति, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणाद्धनिकाधमर्णयोर्न भवतीत्यर्थः ।।
क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।। 5.2.92 ।।
`क्षि निवासगत्योः' इत्यस्माद्यथायोगमधिकरणादौ ष्ट्रन्, क्षेत्रम्। परक्षेत्रं जन्मान्तरशरीरमिति। आत्मनो निवासस्थानत्वात्क्षेत्रम्, परं च तत्क्षेत्र चेति कर्मधारयः। तत्र चिकित्स्यः=प्रतिकार्योपनेय इत्यर्थः, न तु तत्र भिषजितव्य इति। यदाह--नामृतस्येति ।
अथ वेति। समुच्चय एवात्र विवक्षितः, न तु विकल्पः। वक्ष्यति--`सर्वचैतत्प्रमाणम्' इति। कृत्यः शक्यार्थे, पूर्वत्र तु कर्ममात्रे, उत्तरयोरर्हार्थे। सस्यार्थ इति। अनेन क्षेत्रस्य परकीयत्वमाह---परदाराः परक्षेत्रमिति। कर्मणि ष्ट्रन्, क्षेतव्याः=गन्तव्याः, उपगमनार्हा दाराः=क्षेत्रम्। तत्रेति। तस्मिन्विषये। निगृहीतव्य इति। दण्कडादिना ।।
इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ।। 5.2.93 ।।
अन्तोदात्त इति। `क्षेत्रियच्' इत्येतत्साहचर्यात्। रूढिरेवेति। किमत्र प्रमाणम्? इत्याह तथा चेति। न हि यौगिकेषु व्युत्पत्तेरनियमो भवति। इन्द्र आत्मेति। कार्यकारणसङ्गातं प्रतीश्वरत्वात्। विज्ञियते च तमिन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेणेति। करणेनेति। हेतुगर्भविशेषणम्। यथा पुनरयं हेतुस्तथा दर्शयति--नाकर्तृकमिति। इतिकरणो हेतौ। न हि वाश्यादिकरणमनधिष्ठितं कर्त्रा प्रवर्तते। इन्द्रेण दृष्टमिति। दृष्टम्=ज्ञातम्, तथा च कार्यकारणसङ्घातं प्रस्तुत्य भवति वादः---`स एतमेव पुरुषं ब्रह्मततमपश्यत्', `इदमदर्शम्' इत्यादि। कथं पुनश्चक्षुरादिकमात्मना सृष्टम् ? इत्याह--तत्कृतेनेति। शुभं कर्म=विहितम्, प्रतिषिद्धम्=अशुभम्--तदुभयं मिलितं कारणानामुत्पादकम्; इष्टानिष्टानां रूपादीनां चक्षुरादिभिरुपलम्भात्। यथायथामिति। यो यस्य विषयः--चक्षुषो रूपम्, घ्राणस्य गन्ध इत्यादि, तद्ग्रहणायेत्यर्थः।
अन्यथापि कर्त्तव्येति। तद्यथा--इन्द्रेण दुर्जयमिति। प्रत्योकमभिसम्बध्यमान इति। हेतुगर्भविशेषणम्; यस्मात्प्रत्येकमभिसम्बध्यते तस्मादित्यर्थः ।।
तदस्यास्त्यस्मिन्निति मतुप् ।। 5.2.94 ।।
अस्यास्मिन्निति प्रत्ययार्थाविति। ननु च यद्यस्य भवति तस्मिन्नपि तद्वति, यच्च यस्मिन् भवति तस्यापि तद्भवति; यथा--वृक्षस्य शाखा, वृक्षे शाखेति; तत्रान्यतरनिर्द्देशेनैव सिद्धम्, किमर्थमुभावर्थौ निर्द्दिश्येते ? नैतयौरवश्यम्भावी समावेशः; तथा हि--षष्ठ्यर्थमात्रनिर्द्देशे यत्राधिकरणं तेनैव रूपेण विवक्ष्यते, न तज्जन्यः शेषसम्बन्धः, यथा--वृक्षा अस्मिन्पर्वते सन्तीति न तत्र प्रत्ययः स्यात्। न ह्यत्र क्रियाकारकपूर्वकः शेषसम्बन्धो दृश्यते; वृक्षैः पर्वतस्यानारम्भात् नावयवावयविभावः। आनन्तर्यादिसम्बन्धस्तु सम्भवति। न तु तत्र मत्वर्थीयो भवति; अनभिधानात्। तथा केवलसप्तम्यर्थनिर्द्देशे कारकान्तरपूर्वः सम्बन्धो न गृहीतः स्यात्; ततश्च पुत्रवान्, गोमानित्यादौ न स्याद्। उत्पादनप्रतिग्रहादिक्रियाविषयकर्तृत्वजन्यो ह्यत्र सम्बन्धः, नाधारपूर्वकः; देशान्तरगतेऽपि पुत्रादौ तद्वानिति व्यपदेश्यस्य भावात्। सामीपिकस्याप्यधिकरणस्यासम्भवः। स्यादेतत्--पुत्रस्य पित्रधीनत्वाद्गवां च स्वाम्यधीनत्वाद्गुरौ वसतीतिवदधिकरणं भविष्यति, करणसंज्ञायां हि तमब्ग्रहणेन कारकप्रकरणे प्रकर्षस्यानाश्रयणाद्गौणस्याप्याधारस्याधिकरणसंज्ञा भवत्येवेति ? भवत्वेवमधिकरणसंज्ञा, मत्वर्थायस्तु मुख्य एवाधिकरणे स्यात्--वृक्षवान् पर्वतः, गोमाञ्जनपद इत्यादौ; न गौणे--पुत्रवान् गोमान्देवदत्त इत्यादौ, न ह्यत्र गौणग्रहणस्य लिङ्गमस्ति। तस्मादुभयोरपि निर्द्देशः कर्तव्यः। अस्तीति प्रकृति विशेषषणामिति। अर्थद्वारेणेति द्रष्टव्यम्।
ननु सम्भवे व्यभिचारे च विशेषणविसेष्यभावो भवति नीलोत्पलवत्, न च सत्तां पदार्थो व्यभिचरति, तामन्तरेण पदस्योच्चारयितुमप्यशक्यत्वात्; तथा हियावद्बुद्वया पदार्थो न विषयीकृतस्तावत्पदस्य प्रयोगाभावः, तेन बुद्धिसत्तासमाविष्टमर्थं शब्दो गोचरयति, तस्यैव बहिरसत्त्वासत्त्वप्रतिपादनाय वृक्षोऽस्ति, वृक्षो नास्तीति प्रयोगः। यदि बाह्यसत्तासमावलिष्टं वस्तु वाच्यं भवेत्, तदा विरोधपौनरुक्त्याभ्यां प्रयोगो न भवेदयम्। एवमेवात्यन्तासतोऽपि बहिः शशविषाणादीनर्थान्बुद्ध्या विषयीकृत्य तद्वचिशब्दप्रयोगः। तस्माद् बुद्ध्युपारूढोपचरिता सत्ता शब्दप्रयोगस्य निमित्तमिति न तां पदार्थो व्यभिचरति। तदुक्तम्---`न सत्तां पदार्थो व्यभिचरति' इति। कस्यचित्पदस्यार्थः सन्नेवंविधां सत्तां न व्यभिचरतीत्यर्थः ?
इदं तर्हि प्रयोजनम्--या सम्प्रतिसत्ता मुख्या वर्तमानलक्षणा बाह्या तस्यां यथा स्याद्, भूतभविष्यतोर्या सत्तातीतानागतवस्तुपरामार्शिन्या बुद्व्योत्प्रेक्षितोपचरितरूपा तस्यां मा भूत्। तेन गावोऽस्यासन्, गावोऽलस्य भवितार इत्यत्रार्थे गोमानिति प्रयोगाभावः।
यद्येवम्, विद्यमान एव देवदत्ते तद्रवीनामतीतानागतत्वप्रतिपादनाय गोमानासीत् गोमान्भवितेति प्रयुज्यते, तत्र प्रकृत्यर्थस्य सम्प्रतिसत्ताया अभावात्प्रत्यायाप्रसङ्कः ? नैष दोषः; नात्र साक्षाद्गवां सत्ता कथ्यते, किं तर्हि ? गोमत एषा सत्ता कथ्यते। यदि पुनर्गवां सत्ता कथ्येत; यथेहास्तेः प्रयोगो न भवति--गावोऽस्य सन्ति गोमानिति प्रत्ययेनैव प्रकृत्यर्थोपाधेः प्रतीतत्वात्, तथेहापि न स्यात्--गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति--गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति--गावोऽस्यासन्, गावोऽस्य भवितार इति; एवमिहापि स्याद्गोमानासीद्, गोमान्भवितेति। तस्मान्नैषा गवां सत्ता कथ्यते, किं तर्हि ? गोमत्सत्तैषा कथ्यते। तत्र यद्यपि यो गोमान्स विद्यते, गोमत्तारूपं तु तस्यादीतमनागतं वेति भूतभविष्यत्प्रयोगः। यथा--ईश्वरोऽयमासीद्दरिद्रोऽयं भविष्यतीति। तत्रार्थात्प्रकृत्यर्थस्याप्यतीतानागतत्वप्रतीतिर्भवति, सा वाक्यार्थवशादुपजायमाना बहिरह्गेति नान्तरङ्गं शब्दसंस्कारं निवर्तयति, यथा--ग्रामं न गच्छतीति। तदेवं सम्प्रति सत्तायां यथा--ग्रामं न गच्छतीति। तदेवं सम्प्रति सत्तायां यथा स्याद्, भूतभविष्यत्सत्तायां मा भूदित्येवमर्थमस्तीत्युच्यत इति स्थितम्।
ननु च यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि गम्यते, ततश्च गावोऽस्य गावोऽस्मिन्नित्युक्ते किमित्यपेक्षायां सन्तीति गंस्तते, नार्थोऽस्तिग्रहणेन ? न सार्वत्रिकमेतत्; यदा खलु गावोऽस्य नान्यस्य, गावोऽस्मिन्नान्यस्मिन्नित्येवं विवक्षा, न तदास्तित्वं प्रतीयते। तस्मादस्तीति वक्तव्यम्।
अथ क्रियमाणेऽप्यस्तिग्रहणे इह कस्मान्न भवति--गावोऽस्य सन्त्यनन्तरा इति ? सापेक्षत्वेनासामर्थ्यात्। इह कस्मान्न भवति-चित्रगुः, शबलगुरिति ? बहुव्रीहिणोक्तत्वात्। वाक्ये तु चित्रा गावोऽस्य सन्नीति प्रत्येकमसामर्थ्यान्न भवति, समुदायात्त्वप्रातिपदिकत्वात्। इह तु पञ्च गावोऽस्य सन्ति पञ्चगुः दशगुरिति `तद्धितार्थ' इति द्विगुश्च प्राप्नोति, बहुव्रीहिश्च; तत्रचित्रगुरित्यादौ सावकाशं बहुव्रीहिं संख्यावाचिषु द्विगुर्बाधेत, ततश्च तद्धितार्थे विषयभूते विहितेन द्विगुनाऽनुक्तस्तद्धितार्थ इति यथेह तद्धितो भवति-द्वैमातुरः, पाञ्चनापितिरिति, `द्विगोर्लुगनपत्ये'क इति लुगपि प्राग्दीव्यतीयस्य विधीयते, तेन मतुपो लुगलभ्यः। तस्मात् `तद्वितार्थ' इत्यत्र यदुक्तम् `सर्वत्र मत्वर्थे प्रतिषेधः' इति तदेवात्रक शरणम्।
भूमेत्यादि। अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयभूतेषु भवन्तीत्यर्थः।
बहूनां भावो भूमा, तत्र भूम्नि; गोमान्, यवमान्। बहुत्वं चाभिधानवशाद्विशिष्टमेवाश्रयणीयम्, यदाह--`यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते, कस्यचिच्चतसृभिरपि कल्पन्ते कस्यचिच्छतेनापि न कल्पन्ते' इति। एवं च यवमानिति त्रिप्रभृतिषु बहुत्वसद्भावेऽपि न भवति। इह यवमतीभिरद्भिर्यूपं प्रोक्षतीति जातिमात्रसम्बन्धो विवक्षित इति भूमाभावेऽपि भवति। भूमादिग्रहणं त्वभिधानस्वभावप्रदर्शनार्थम्। निन्दायां ककुदावर्त्तिनी कन्या, प्रशंसायां रूपवान्, नित्ययोगे क्षीरिणो वृक्षाः, अतिशायने उदरिणी कन्या। संसर्गे, संसर्गः=संयोगः; दण्डी संसक्तदण्ड उच्यते। गृहावस्थिते तु दण्डीति न भवति। क्वचिद् वृत्तौ ग्रन्थः अस्तिविवक्षायामस्तिमानिति। तत्र भूमादिष्वस्तिविवक्षायां च भवति मतुबादय इति समुच्चयो व्याख्येयः। अस्तिशब्दो विभक्तिप्रतिरूपको निपातः कर्तृविविशिष्टसत्तावाची, नैषोऽस्तेर्लट्। प्रत्ययान्तरमपि दृश्यते--अस्तित्वम्, अस्तितेति। अव्यभिचारादस्तिसामानाधिकरण्यं नास्तीत्यस्तिविवक्षायां प्रत्ययो विधीयते। एतच्च सूत्रे `अस्ति' इति तन्त्रेण लुप्तपञ्चमीकप्रकृतिनिर्द्देशाश्रयणाल्लभ्यते। अस्तिमानिति च वृत्तिविषये कर्तृविशेषे धनेऽस्तिशब्दो वर्त्तते। न हि कर्तृसामान्येन प्रत्ययार्थस्य विशेषणं सम्भवति, सर्वस्यैव हि सर्वदा यत्किञ्चिदस्ति।
गुणवचनेभ्य इति। अत्र शुक्लादय एवाभिन्नरूपा गुणे तद्वति च वर्तमाना गृह्यन्ते, न तु सर्वदा गुणमात्रवचना रूपादयः। तत्र यद्यप्यभेदोपचारादेव शुक्लः पट इत्यादिसिद्धिः, तथापि पटस्य शुक्ल इति भेदविवक्षाया अपि दर्शनात्पक्षे मतुप उत्पन्नस्य श्रवणप्रसङ्गाल्लुग्वक्तव्य इति ।।
रसादिभ्यश्च ।। 5.2.95 ।।
न पूर्वेणैवेति। नशब्दस्य काक्वा प्रयोगात्सिद्ध एवेत्यर्थः। नन्वर्थे वा नशब्दो द्रष्टव्यः। अन्ये इति। `अत इनिठनौ' इत्यादयः।
कथमिति। अन्यनिवृत्त्यर्थे पुनर्वचने रूपिणीत्यादि न सिद्ध्यतीति भावः। प्रायिकमिति। प्रयोगबाहुल्याबाहुल्येनास्यान्यनिवृत्तिः प्रयोजनमित्यर्थः। ततः किम्? इत्याह-क्वचिदिति। कथं पुनः प्रायिकत्वमित्याह--इतिकरण इति। तेन यत्र मतुबन्तादेव लोकस्य विवक्षा भवति, तत्रैवानेनान्यनिवृत्तिः क्रियते, न सर्वत्रेत्ययमर्थो भवति। एतच्च गुणादिति गणादिति गणपाठमनपेक्ष्योक्तम्, तदपेक्षां मत्वाऽऽह-
अथ वेति। अत्र गणे गुणादिति पठ्यते, तच्च रसादीनां सर्वेषां प्रत्येकं विशेषणम्, न स्वतन्त्रम्, नापि `एकाचः' इत्यनेन समानाधिकरणम्। तेन ये रसनेन्द्रियादिग्राह्यगुणा इति आदिशब्देन चक्षुरादिपरिग्रहः। तेषामेवायं पाठ इति। तेभ्य एवानेनान्यनिवृत्तिः क्रियते। रूपिणी, रूपिकः शोभायोग इति। ननु शोभापि पुणस्तथा भावः ? सत्यम्; गुणादिति विशेषणसामर्थ्यात्प्रसिद्धतराणां रसनादीन्द्रियग्राह्याणां गुणानां पाठः। भावयोग इति। भावाः=रतिहासादयो नाट्यधर्माः।
भाष्ये तु `उर्वशी वै रूपिण्यप्सरसां स्पर्शिको वायुः' इति दर्शनाद्यथाभिधानं प्रत्ययान्तरमपि भवति, तेन नियमस्यानिष्टत्वात्सूत्रमिदं प्रत्याख्यातम्।
एकाच इति। अत्र गुणादिति नापेक्ष्यते--स्ववान्, खवान् ।।
प्राणिस्थादातो लजन्यतरस्याम् ।। चूडाल इति। चूडा=शिखा, न त्वापीडाख्योऽलङ्कारः। एवं कर्णिकापि न कर्णिकापि न कर्णालङ्कारः, किं तर्हि ? तत्सदृशः प्राण्यङ्गविशेषः। प्राण्यङ्गादेव हीष्यते।
शिखावान्दीप इति। प्रत्युदाहरणदिगियं दर्शिता; शिखाशब्दस्य व्रीह्यादिपाठाल्लचोऽप्रसङ्गात्। चूडावान्वृक्ष इति प्रत्युदाहार्यम्।
प्राण्यङ्गादिति वक्तव्यमिति। एतच्चेतिकरणानुवृत्तेर्लभ्यते। चूडालोऽसीति। असीत्यस्य `तिङ्ङतिङः' इति निघातः, चूडालशब्दात्सुः, रुत्वम्, `अतो रोरप्लुतादप्लुते' इत्युकारः, स च हलां स्रंसनधर्मत्वादनुदात्तः, पूर्वेण `आद्गुणः', `एकादेश उदात्तेनोदात्तः', ततः `एडः पदान्तादति' इति पूर्वरूपत्वमेकादेशः, तस्य `स्वरितो वानुदात्तेऽपदादौ' इति स्वरितः प्राप्नोति, चित्करणसामर्थ्यान्न भवति। यद्येवम्, चूडालः--आमन्त्रिताद्युदात्तत्वे शेषनिघातो न स्यात्, हे चूडालआमन्त्रितनिधातो न स्यात्, चूडालत्वमित्यादौ च प्रत्ययस्वरे शेषनिघातः ? यदीष्यते, वक्तव्योऽत्र परिहारः; अथ नेष्यते, प्रयोजनमेवैतच्चित्स्वरस्य भवीष्यति ।।
सिध्मादिभ्यश्चः ।। 5.2.97 ।।
अन्यतरस्यांग्रहणेन भतुप्समुच्चीयत इति। अनेकार्थत्वान्निपातानाम्, अन्यतरस्यांग्रहणमिह समुच्चये वर्त्तत इत्यर्थः। तथा च वार्त्तिकम्--`लजन्यतरस्यामिति समुच्चयः' इति। न तु प्रत्ययो विकल्प्यत इति। यथान्यत्रान्यतरस्यांग्रहणं विकल्पार्थं न तथात्रेत्यर्थः। किमेवं सति सिद्धं भवति ? तत्राहतस्मादिति। विकल्पार्थेऽन्यतरस्यांग्रहणे लचा मुक्ते यथाप्राप्तमे स्यात्, ततश्चाकारान्तेभ्य इनिठनौ स्याताम्, समुच्चयार्थे प्रकृतो मतुबेव समुच्चीयत इति न दोषः। कथं पुनर्ज्ञायते-समुच्चयोऽत्रार्थः, न विकल्पोऽर्थ इति ? ज्ञापकात्। यदयं पिच्छादीन्, तुन्दादीश्च पृथक् पठति। कथं कृत्वा ज्ञापकम् ? इह `तुन्दादिभ्य इलच्च' इति चत्वारः प्रत्यया इष्यन्ते-इलच्, इनिठनौ, मतुबिति; तत्र यद्यन्यतरस्यांग्रहणं विकल्पार्थं स्यात्पिच्छादिभ्योऽपिप्रत्ययचतुष्टयं स्यात्। कथम् ? इलचो विकल्पितत्वादिनिठनौ, तयोरपि विकल्पितत्वान्मतुबिति; ततश्च तुन्दादिष्वेव पिच्छादयः पाठ्याः, पिच्छादिषु वा तुन्दादयः; पृथक्पाठाद्विज्ञायते-`अन्यतस्स्यांग्रहणेन मतुप्समुच्चीयते,न यथाप्राप्तमब्यनुज्ञायते' इति। एवं हि पिच्छादिभ्यः प्रत्ययद्वयम्--इलच्च, मतुप् च; तुन्दादिभ्यश्चत्वार इति पृथक् पाठोऽर्थवान्भवति। ननु च तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्यते, पिच्छादिभ्यस्त्वकारान्तेभ्य एव; तत्र यदि तुन्दादिषु पिच्छादयः पठ्येरन्, तदा पिच्छादिभ्योऽप्यनकारान्तेभ्य इनिठनौ स्याताम् ? अथ पिच्छादिषु तुन्दादयः पठ्येरन्, तदा तुन्दादिभ्योऽप्याकारन्तेय्य इनिठौ न स्याताम् ? चत्तर्हि कानिचिदकारान्तानि पिच्छादिषु पठति, कानि चित्तुन्दादिषु, तद्यथोक्तस्यार्थस्य ज्ञापकं भविष्यति। तथा `केशाद्वोऽन्यतरस्याम्' इति न वक्तव्यम्; प्रकृतान्यतरस्यांग्रहणानुवत्त्या इन्ठन्मतुपां सिद्धत्वात्। तदिनिठनोःक प्राप्त्यर्थं क्रियमाणं पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थत्वं ज्ञापयति।
पार्ष्णिधमन्योर्दीर्धश्चेति। पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् चेति। वातादिभ्यो लज् भवति, तस्य च लच ऊडागमो भवति--वातूलः, दन्तूलः, बलूलः, ललाटूलः। जटाघटाकलाः क्षेप इति। एतै शब्दाः क्षेपे गम्यमाने लचमुत्पादयन्ति--जटाल इत्यादि। क्षेप इति किम् ? जटावांस्तापसः। क्षुद्रजन्तूपतापयोश्चेति। चुद्रजन्तुरानकुलात्, उपतापः=रोगः। विपादिकाल इति। `पादस्फोटो विपादिका'। सिध्म-गडुशब्दयोरनुपतापार्थः पाठः ।।
वत्सांसाभ्यां कामबले ।। 5.2.98 ।।
कामवति बलवति चेति। मत्वन्तनिर्द्देशेन कामबलशब्दयोरर्शआद्यच्प्रत्ययान्ततां दर्शयति।
ननु च वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयो; तत्कथं ताभ्यां लजन्ताभ्यां कामवान् बलवांश्चोच्यते ? इत्यत आह--वृत्तिविषय इति। कुत एतद् ज्ञायते ? इत्याह-न ह्यत्रेति। वाक्ये योऽनयोः प्रासिद्धोऽर्थः स वृत्तौ नास्तीत्यर्थ। यस्त्वस्ति तं दर्शयतदि--वत्सल इति स्नेहवानुप्यत इति। स्नेहः=रागः, कामः।
सर्वत्रैवात्र प्रकरणे मतुप्समुच्चीयत इत्यत्रापि मतुपा भवितव्यमिति शङ्कामपनयति--न चेति। अनेनैव हेतुना वाक्यमपि न भवति। अत्र वत्सांसब्दौ द्वौ, अस्यास्मिन्निति च प्रत्ययर्थावपि द्वावेव तथापि यथासंख्यं न भवति, कथम् ? अजाद्यदन्तं लघ्वक्षरं पूर्वं निपततीत्यंसबलशब्दयोः पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नात्। एवं सर्वत्रैवात्र प्रकरणे द्रष्टव्यम् ।।
लोमादिपामादिपिच्छादिभ्यः शनेलचः ।। 5.2.100 ।।
अङ्ग कल्याण इति। `अङ्ग' इत्येतत् कल्याणविशिष्टेऽर्थे वर्त्तमानं प्रत्ययमुत्पादयति--कल्याणान्यङ्गान्यस्य अङ्गना, स्त्रिया एवाभिधानम्। कल्याण इति किम् ? अङ्गवती। शाकीपलालीदद्रवां ह्रस्वत्वं चेति। शाक्यादीनां नप्रत्ययो भवति ह्रस्वत्वं च-शाकिनम्, पलालिनम्। महच्छाकं शाकी, नानाजातीय एकसमाहारो वा। पलालक्षोदः=पलाली, भिन्नानि वा शलिकोद्रवादिपललानि। `दरिद्रातेर्यालोपश्च' इति दरिद्रातेरूकारः प्रत्ययो भवति, रिकाराकारयोश्च लोपः। दद्रूः=त्वग्रोगविशेषः, स यस्यास्ति स दद्रुणः। विष्वगिति। विष्वक्शब्दान्नप्रत्ययो भवति उत्तरपदलोपश्च, स चाकृतसन्देरकृतसन्धिकार्यस्य, अकृतयणादेशस्येत्यर्थः। विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्तीति विषुणः= विषुषुवदाख्यः कालः, तस्य हि नानागतीनि दिनानि सन्ति, तदाश्रयत्वाद्दिवसान्तराणां न्यूनाधिकभावस्य। तथा मृत्युः, वयुः, अनवस्थितप्रकृतिर्मनुष्यादिश्च विषुणः, तत्र वृत्तिविषये गमनक्रियान्तर्भावाद्विष्वग्गमनमस्यास्कतीत्येवं वाक्यदेरभिदानमिच्छन्ति। यदि तु कृते यणादेशे उत्तरपदलोपः स्याद्, वलि लोपे सति विष्ण इति प्राप्नोति। लक्ष्म्या अच्चेति। लक्ष्मीशब्दान्नप्रत्ययो भवति अकारश्चान्तादेशः, लक्षअमीरस्यास्ति लक्ष्मणः। जटाघटाकलाः क्षेप इति। जटादयः क्षेपे गम्यमाने इलचमुत्पादयन्ति--जटिलः, घटिलः, कलिलः। क्षेपादन्यत्र जटावान् ।।
प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः ।। 5.2.101 ।।
सूत्रे वृत्तिशब्दो वार्तिके दर्शनात्प्रक्षिप्तः---`वृत्तिर्विच्छेदप्रतिविदानात्' इति।
प्रज्ञाग्रहणं किमर्थम्? प्राज्ञ इत्येतद्रूपं यथा स्यात्। `प्रज्ञादिभ्यश्च' इत्यणि कुते सिद्धमेतत्, प्रज्ञ एव प्राज्ञः, यस्य हि प्रज्ञाऽस्ति स प्रजानाति ? सत्यम्; स्त्रियां त्वणि ङीब् भवति--प्राज्ञी, अस्मिस्तु णे टावेव भवति--प्राज्ञा। इह तु गुणभूतया क्रियया व्याकरणादिनां सम्बन्धे णाणोरुभयोरपि व्याकरणम्--प्राज्ञइति भवति, यथा--कृतपूर्वी कटमिति तद्धितप्रयोगे हि षष्ठी न भवतीत्युक्तम् ।।
तपस्सहस्राभ्यां विनीनी ।। 5.2.102 ।।
विनीन्योरिकारः--नकारस्येत्संज्ञा मा भूदिति। केचित्तु विनीनावितीकाराकारौ पठन्ति, नकारान्तपाठे त्वित्संज्ञा प्राप्नोति। प्रत्ययार्थयोस्त्वित्यादि। यथा त्वनिष्यमाणमपि यथासंख्यं न भवति तथा पूर्वमेवोक्तम्। असन्तत्वादित्यादि। तपः शब्दाद् `अस्मायामेधा' इत्यादिना विनिप्रत्यये सिद्धे सहस्रशब्दादपि `अत इनिठनौ' इतीनिप्रत्यये सिद्धे, यत्पुनरिदं विधानं तद्वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। अणेति। हेतौ तृतीया। कर्तरि तु कृद्योगलक्षणा षष्ठी न प्राप्नोति, उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति, विनीन्योर्बाधा मा भूदिति कर्मणोऽपि गम्यमानत्वात्, यथा-` येनादर्शनमिच्छति' इति ? नैतदस्ति, अकाकारयोः प्रयोगे नियमस्य प्रतिषेधात्, तस्माद्धेतावेव तृतीया। घञ्न्तो वा बाधशब्दः पठनीयः। सहस्रशब्दादट्ठनपि बाध्यत इति। बाधा तु ठन इनणोः प्रतिपदविधानात् ।।
अण् च ।। 5.2.103 ।।
अण्प्रकरणे इत्यादि। प्रकरणम् प्रस्तावः, काण्डं वा। ज्योत्स्नातमिस्रेत्यादिसूत्रे पठितानां ग्रहणम्। ज्यौत्स्नः पक्ष इति। स पुनः पूर्वः पक्षः तत्र हि पञ्चदशस्वपि तिथिषु ज्योत्स्ना भवतीति कृत्स्नः पक्षो ज्योत्स्नया व्याप्यते। एतेन तामिस्रो व्याख्यातः, तमःसमूहस्तामिस्रम्, मत्वर्थीयो रः। तत्र ह्यवयवभूतानि तमांसि विद्यन्ते तधस्मिन्नस्ति स तामिस्रो।़परः पक्षः। तमिस्रारात्रिर्यस्मिन्विद्यत इति वा तामिस्रः, नरकविशेषस्यैषा संज्ञा। कुण्कडलार्हः कौण्कडलः। तत्र यथाकथञ्चिन्मत्वर्थीय उपपाद्यः। यस्तु संसक्तकुण्कडलः स कुण्डली भवति। अयं च नियम इतिकरणानुवृत्तेर्ल भ्यते ।।
सिकतार्शर्कराभ्यां च ।। 5.2.104 ।।
शार्करं मध्विति। शर्करा माधुर्यम्, न तु गुडः, मधुनि तस्याभावात्।
अदेश इहोदाहरणमिति। देशे विसेषस्य वक्ष्यमाणत्वात् ।।
देशे लुबिलचौ च ।। 5.2.105 ।।
मतुप् चेति। अन्यतरस्याग्रहणेन मतुपः सर्वत्र समुच्चयात्। सिकता देश इति। लुपि युक्तवद्भावः।
देशे इति किमिति।। एतेन योगविभागोऽपि पर्यनुयुक्त एव भवति, तेन `सिकताशर्कराभ्यां लुबिलचौ च' इत्येव कस्मान्न कृतमित्यर्थः ।।
दन्त उन्नत उरच् ।। 5.2.106 ।।
दन्तशब्दादुन्नतोपाधिकादिति । सूत्रे तु पञ्चम्यर्थे प्रथमा, सप्तमी वा। दन्ता उन्नता अस्य दन्तुर इति। `हिमशिलाशर्करादन्तुराणि' इत्यादयो लक्षणाप्रयोगाः ।।
ऊषसुषिमुष्कमधो रः ।। 5.2.107 ।।
समाहारद्वन्द्वे सौत्रः पुल्लिङ्ग निर्देशः। सुषिमधुभ्यां मतुपि प्रापर्ते इतराभ्यामिनिठनोश्च रो विधीयते। ऊषाः=हरिणपांसवः, सुषिः=छिद्रम्, मुष्कौ=अण्कडौ। मधु=माधुर्याख्यो रसविशेषः, न माक्षिकं माध्वीकं वा; अनभिधानात्। एवं च मध्विदं मधुरमिति मधुन्यपि प्रयोगोपपत्तिः। इह च न भवति--मध्वस्मिन् घटो विद्यत इति।
रप्रकरण इति। प्रकरणम्=प्रस्तावः। कण्ठविवरं महदिति। गर्दभे व्युत्पत्तिं दर्शयति। तैक्षण्ये त्वव्युत्पन्नः खरशब्दः। मुखरः=वाचाल; तस्य हि सर्वस्मिन्वक्तव्ये मुखमस्ति; वक्तव्यावक्तव्यविवेकाभावात्। मुखम्=वागिन्द्रियम्। हस्तिहनुः कुञ्जशब्देनोच्यत इति। वृत्तिविषये। एतच्च सम्भवन्नवयवार्थः किमिति त्यज्यत इत्यभिप्रायेणोक्तम्। जातिशब्दस्तु कुञ्जरशब्दो हस्तिशब्दवत्।
नगरमिति। नगाः=वृक्षाः, पर्वताश्च। अयमपि जातिशब्द एव, तथा चनगरी, जातिलक्षणो ङीष् भवति। नगशब्दोऽयमश्मादिषु पठ्यते इति वुञ्छणादिशूत्रेणास्य सिद्धत्वात्, तस्माद्रो न वक्तव्यः। पाण्डुरमिति। पाण्डुः=शुक्लो वर्णः, तद्वत्पाण्डुरः। पाण्कडरशब्दस्त्वव्युत्पन्न एव गुणमात्रे गुणिनि च वर्तते ।।
द्युद्रुभ्यां मः ।। 5.2.108 ।।
द्युशब्दोऽप्युत्पन्नं प्रातिपदिकमुकारान्तम्। रूढिषु च मतुब्न विकल्प्यते इति। तदर्थस्य मतुपाभिधातुमशक्यत्वात् ।।
केशाद्वोऽन्यतरस्याम् ।। 5.2.109 ।।
मतुप्समुच्चयार्थं तदित्युक्तमिति। एतच्च `सिध्मादिभ्यश्च' इत्यत्रैव व्याख्यातम्।
वप्रकरण इति। प्रकरणम्=प्रस्तावः। मणिवः=नागविशेषः। हिरण्यवः=निधिविसेषः, कुञ्जरविशेष इत्यन्ये। विम्बावः, कुरराव इति। `अन्येषामपि दृश्थते' इति दीर्घः। राजीव इति। `कृदिकारादक्तिनः' इति ङीषन्तात्प्रत्ययः।
अर्णव इति। अर्णम्=उदकम्, `अर्त्तेरसुन्नुट् च'। छन्दसीवनिपौ चेति। चकाराद्वलश्च, अन्यतरस्यांग्रहणानुवृत्तेस्तु मतुप्, तदाह---
वश्च मतुप् चेति। रथीरिति। रथोऽस्यास्तीत्यर्थः। सुमङ्गलीरिति। सुष्ठुमङ्गलम्, `सुः पूजायाम्' इति प्रादिसमासः, ततोऽनेन मत्वर्थीय ईकारः, लाघवाद्बहुव्रीहिणा भवितव्यमिति न्यायश्छान्दसत्वादाश्रितः।
मघवानमिति। मघं धनं तदस्यास्तीति वनिप्। मतुपि तु मघवच्छब्दः, किमर्थं तर्हि `मघवा बहुलम्' इति ? तत्रैव वक्ष्यामः। उद्वा चेति। उच्छब्दादुद्गताभिधायिना वप्रत्यये टाप्। उद्वतीति। मतुपः `झयः' इति वत्वम्, ङीप्।
मेधारथाभ्यामिति। इदमपि छन्दोविषयम् ।।
गाण्ड्यजात् संज्ञायाम् ।। 5.2.110 ।। गाण्डीवं धनुरिति। अर्जुनस्य। अजगवं धनुरिति। पिनाकमेतत्। उभयथा सूत्रं प्रणीतमिति। तन्त्रन्यायाश्रयेण। प्रयोगश्चोभयथापि भवति--`गाण्डीवी कनकशिलानिभं भुजाभ्याम्' `अधिरोहति गाण्डिवं महेषौ' इति च। संज्ञाग्रहणस्यैव प्रपञ्चः ।।
रजः कृष्यासुतिपरिषदो वलच् ।। 5.2.112 ।।
आसुतीवल इति। `षुञ् अभिषवे', क्तिन्, आसुतिः=अभिषवः। परिषदूल इति। परितः सीदन्तीति परिषत्, `सत्सूद्विष' इत्यादिना क्विप्, `सदिरप्रतेः' इति षत्वम्। पर्षच्छब्दमन्ये पठन्ति, `शदिभसोऽदिः' बाहुलकात्पृषेरपि भवति--`पर्षदेषा दशावरा' इति हि दृश्यते; `पार्षदकृतिरेषा तत्र भवताम्' `सर्ववेदपार्षदं हीदं शास्त्रम्' इति च भाष्ये। `पर्षद्वलामहाब्रह्मौरागतैः कठकाश्रमात्' इति च भट्टिकाव्ये। परिषच्छब्दस्तु प्रसिद्ध एव--`सहस्रशः समेतानां परिषत्त्वं न विद्यते' इति मनुः। अत्र च सूत्रे उभयोरपि उभयथा सूत्रप्रणयनात्।
भ्रातृवल इति । `वलः' इत्यत्राण्ग्रहणानुवत्तेर्दीर्घाभावः। पुत्रवलः, उत्साहवल इत्यत्र त्वसंज्ञयां दीर्घाभावः। संज्ञायां तु दीर्घत्वम्, `वलः' इत्यत्र हि `वनगिर्योः संज्ञायाम्' इत्यतः `सज्ञायाम्' इत्यनुवर्त्तते ।।
दन्तशिखात्संज्ञायाम् ।। 5.2.113 ।।
दन्तावलः=गजः, `दन्ती दन्तावलो हस्ती' इत्यमरसिंहः। शिखावलं नगरमिति। ननु देशे `शिखाया वलच्' इति चातुरर्थिकेनैव सिद्धम्, तच्चावश्यं कर्त्तव्यम्--निर्वृत्ताद्यर्थम् ? सत्यम्; इहापि सिखाग्रहणमदेशार्थमवश्यं कर्त्तव्यम्, इहापि यथा स्यात्--शिखावाला स्थूपेति। यद्येवंविधा संज्ञा भवति, तत्र देशे मत्वर्थे परत्वादनेनैव लज्युक्त इति मत्वा शिकावलं नगरमित्युदाहृतम् ।।
ज्योत्स्नातमिस्राश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीसाः ।। 5.2.114 ।।
ज्योत्स्ना चन्द्रप्रभेति। तत्रावयवभूतं ज्योतिरस्तीति मत्वर्थोपपत्तिः। एतेन तमः समूहे तमिस्रशब्दो व्याख्यातः। निघण्टुषु तु तमः पर्यायस्तमिस्रशब्दः पठितः, तत्र समूहसमूहिनोरभेदोपचारः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। श्रृङ्गादिनच्प्रत्यय इति। यद्यपि सूत्रे चकारोऽनुच्यारितः, तथाप्यन्तोदात्तस्योच्चारणादेवं कल्प्यते। उर्जोऽसुगागम इति। उर्जस्वतीः, पयस्वतीः। ऊर्जस्वत्, पयस्वदित्यसुनन्तान्मतुप् दृश्यते, इह त्वनाश्रयणे हेतुर्मग्यः। सूत्रे ऊर्जस्विन्गोमिन्निति नान्तत्वाभिव्यक्तये नलोपो न कृतः ।।
अत इनिठनौ ।। 5.2.115 ।।
अकारान्तादिति। स्वरूपग्रहणं तु न भवति, अच्छब्दान्तात्कुर्वत्, पचदित्येवमादेरिति `रसादिभ्यः' पुनर्वचनात्। तद्ध्यनेन प्राप्तयोरिनिठनोर्बाधनार्थमित्युक्तम्।
तपकरणं किमिति। व्रीहायादिषु मालादीनामाकारान्तानां पाठो नियमार्थो भविष्यतीति प्रश्नः। किमाकारान्तविषयो नियमः ? उत स्त्रीप्रत्ययान्तविषयः ? आहोस्विदाबन्तविषयः ? इति सन्देहसम्भवादघश्यं कर्त्तव्यं तपरकरणमित्युत्तरेऽभिप्रायः। एकाक्षरादिति। रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थमित्युक्तम्, तत्र च `एकाचः' इति पठीतम्, तेनैतत्सिद्धम्। कार्यीति। कार्यशब्दात्कृदन्तात् प्रत्ययः। तन्दुलीति। जातेः ।।
व्रीह्यादिभ्यश्च ।। 5.2.116 ।।
शिखादिभ्य इति। शिखादयोऽत्रैव वक्ष्यन्ते।
इकन्यवखदादिष्विति। विषयसप्तम्येषा। एतेऽप्यत्रैव पक्षयन्ते। इकन्निति। ठन्नित्यर्थः। पूर्वाचार्यप्रक्रियापेक्षस्त्विकन्निति निर्द्देशः श्लोकपूरणार्थः। परिशिष्टेभ्य उभयमिति। एतच्च सर्वमितिकरणानुवृत्तेर्लभ्यते।
एवं तर्हीति। विपर्ययस्तु न भवति--तत्र स्वरूपग्रहणम्, इहार्थग्रहणामिति; असञ्जातविरोधित्वेनानैव स्वरूपग्रहणस्य युक्तत्वात् ।।
शीर्षान्नञ इति। नञः परो यः शीर्षशब्दस्तस्मादिनिठनौ भवतः---अशीर्षी, अशीर्षिकः। न विद्यते शिरो यस्य स एवमुच्यते। `अचि शीर्षे' इति शिरसः शीर्षभावः, वाक्येऽपि तस्यैव भीविनो निर्द्देशः ।।
तुन्ददिभ्य इलच्च ।। 5.2.117 ।।
स्वाङ्गाद्विवृद्धादिति। विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयो भवन्ति, विवृद्धौ कर्णावस्य कणिलः, कर्णी, कणिकः, कर्णवान् ।।
एकगोपूर्वाट्टञ् नित्यम् ।। 5.2.118 ।।
एकशतमस्यास्तीति। एकं च तच्छतं चेति `पूर्वकाले' इत्यादिना कर्मधारयः। षष्ठीतत्पुरुषाद् बहुव्रीहेर्द्वन्द्वाच्च न भवति; अनभिधानात्; इतिकरणानुवृत्तेश्च।
कथमिति। एकगोशब्दस्याप्यनकारान्तत्वात्प्रशनः। समासान्ते कृत इति। `गोरतद्धितलुकि' इति टचि। कथमिति। इवर्णान्त एव शककटिशब्दोऽस्तीति मन्यमानस्य प्रश्नः--अनभिधानादेव एकविंशत्यादिभ्यो न भविष्यति, किम् `अत' इत्यस्यानुवृत्त्या? तत्राह--अवशं चेति। एवमाद्यर्थमिति। एवमादि यत्सूत्रं तदर्शमित्यर्थः। ततः परे तु ये योगाः `वातातीसाराभ्याम्' इत्येवमादयः, तेषु `अतः' इत्यस्योपयोगो नास्तीति।
नित्यग्रहणमित्यादि। अन्यथान्यतरस्यांग्रहणेन सर्वत्रैवान्न प्रकरणे मतुप्समुच्चयादत्रापि प्रसङ्गः। एकेन वेति। यद्यवश्यं समर्थयितव्यमिति भावः। तत्र `सुप्सुपा' इति समासः। कथमेकदण्कडीति ? `एकदेशिनैकाधिकरणे' इति निर्देशो ज्ञापयति--इनिरपि क्वचिद्भवतीति ।।
शतसहस्रान्ताच्च निष्कात् ।। 5.2.119 ।।
निष्कादित्येतद् गुणभूताभ्यामपि शतसहस्राभ्यां सम्बध्यते, न तदन्तेनेत्याह---तौ चेदिति।
सुवर्णानिष्कशतमित्यादि। यत्र निष्कशब्दः पूर्वपदं न भवतीत्यर्थः।
अन्तग्रहणं किम् ? `निष्काच्छतसहस्राभ्याम्' इत्युच्यमाने सन्देहः स्यात्--किं पूर्वपदम् ?--इति ।।
रूपादाहतप्रशंसयोर्यप् ।। 5.2.120 ।।
रूप्यो दीनार इति। पुरुषाद्याकारचिह्नितौ सुवर्णपरिमाणविशेषौ व्यवहाराय कल्पितौ दीनारकार्षाणौ। निगातिकाताडनादिनेति। तीक्ष्णाग्रा आयसी शलाका=निगातिका, यया पुरुषाद्याककारं सुवर्णादौ सुवर्णकारा उद्भावयन्ति। `कृत्यल्युटो बहुलम्' इति करणे ण्वल्--निहान्यतेऽनया निघातिका, तया यत्ताडनम्, तदादिना। आदिशब्देन मुद्राप्रतिमुद्रणादि गृह्यते। क्वचिन्निघातिकाताडनेन पुरुषाद्याकार उद्भाव्यते, क्वचिन्मुद्रया प्रतिमुद्रयते दीनारादिषु, तदाहतमित्युच्यत इति। आहननेन निषपादितत्वात्।
प्रायेण केदारशब्दः पठ्यते, तस्यैवंविधेऽर्थे प्रसिद्धिर्मृग्या।
हिम्याः पर्वता इति। हिमवान् तत्पर्यन्तवर्त्तिनश्च भूम्नि यप्। गुप्याः=गुणवन्तः। इनिरपि दृश्यते--`गुण्यगुण्य इति न व्यजीगणत् ' ।।
आस्मायामेदास्रजो विनिः ।। 5.2.121 ।।
मतुप् सर्वत्र समुच्चीयत एवेति। पूर्वं नित्यग्रहणेन अन्यतरस्यांग्रहणं तत्रैव न सम्बध्यते, इह तु सम्बध्यत एवेत्येव शब्दस्यार्थः। तथा च `तसौ मत्वर्थे' इत्यत्र पयस्वान् यशस्वानिति भाष्ये उदाहृतम्। पयस्वीति। `तसौ मत्वर्थे' इति भत्वाज्जश्त्वाभावः ।।
बहुलं छन्दसि ।। 5.2.122 ।।
अष्ट्रावीति। अशेष्ट्रनि अष्ट्रा, दंष्टापर्यायोऽयं मन्त्रेषु प्रयुज्यते--`अष्ट्रां पूषा शिथिरामुद्वरीवृजत्', `शुनमष्ट्रा व्यचरत्कपर्दी' इति, तत्रास्मादेव पाठाट्टाप। द्वयोभयहृदयानिति। अन्येषां स्वत एव दीर्घत्वात्।
हृदयाच्चालुरन्यतरस्यामिति। अन्यतरस्यांग्रहणेनेनिठनौ प्राप्येते, चकारस्य `चुटू' इतीत्संज्ञा। एवमुत्तरत्रापि। अन्ते तु चकारो नैवास्ति।
हिमाच्चेलुरिति। एकारादिः प्रत्ययः।
बलादूलजिति। सिध्मादिषु मत्वर्थे बलूलवालूलयोः प्रकारान्तरेण व्युत्पत्तिर्दर्शिता।
पर्वमरुद्भ्यां तन्निति। आद्युदात्तार्थो नकारः। मरुत्तो नाम राजा, यत्रेदं क्षूयते--`मरुतः परिवेष्टारो मरुत्तस्यावस्न् गृहे' इति। उपसर्गसंज्ञायां तु मरुच्छब्दस्योपसंक्यानाद् `अच उपसर्गात्तः' इति तत्वमनजन्तत्वेऽपि भवति। `मरुत एनं देयासुर्मरुत्तः' इति व्युत्पत्तिर्दर्शिता। तत्र `तृतीया कर्मणि' इति पूर्वपदप्रकतिस्वरः प्राप्नोति। मरुच्छब्दः `मृगोरुतिः' इति उतिप्रत्ययान्तत्वादन्तोदात्तः तत्र `उपसर्गाश्चभिवर्जम्' इत्याद्युदात्तत्वं द्रष्टव्यम् ।।
ऊर्णाया युस् ।। 5.2.123 ।।
ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ।।
वाचो ग्मिनिः ।। 5.2.124 ।।
वाग्ग्मीति। चकारस्य कुत्वजश्त्वे, द्वयोर्गकारयोः श्रवणं भवति। अथ मिनिरेव कस्मान्नोच्यते, तत्रापि हि कुत्वजश्त्वयोर्वाग्ग्मीति सिद्ध्यत्येव; ननु चैवमेको गकारः स्यात्, न च `अनचि च' इति द्विर्वचनम्, `दीर्घादाचार्याणाम्' इति कप्रतिषेधात्। अथापि द्वयोरेकस्य वा श्रवणे विशेषो नास्तीत्युच्येत ? एवमपि `यरोऽनुनासिके' `प्रत्यये भाषायां नित्यवचनम्' इति नित्यमनुनासिकः प्राप्नोति, तथा--वाङ्भयम्, त्वङ्भयमिति ।।
आलजाटचौ बहुभाषिणि ।। 5.2.125 ।। यो हि सम्यगग्भाषत इति। बपह्वपीति भावः ।।
स्वामिन्नैश्वर्ये ।। 5.2.126 ।।
स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात्--वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ।।
अर्शआदिभ्योऽच् ।। 5.2.127 ।।
स्वाङ्गाद्धीनादिति। हीनम्=विकलम्। हीनस्वाङ्गवाचिनोऽञ्भवति। खञ्जः पादोऽस्यास्तीति खञ्जः। काणं चक्षुरस्यास्तीति काणः। कथं कुणिर्हस्तोऽस्यास्ति कुणिरिति ? अभेदोपचारात्। खञ्जादिष्वपि तर्हि तथैव भविष्यति ? इदं तर्हि प्रयोजनम्-भेदविवक्षायां मतुब्मा भूदिति। अथ कुणिशब्दान्मतुप् कस्मान्न भवति ? अनभिधानात्। शञ्जादिभ्योऽपि तर्ह्यनभिधानादेव मतुब्न भविष्यति ? अन्तोदात्तार्थं तु। ये आद्युदाता हीनस्वाङ्गवाचिनस्तेष्वन्तोदात्तत्वं यथा स्याद्, यदि सम्भवति। वर्णादिति। वर्णवाचिनः शुक्लशब्दादच्प्रत्ययो भवति-शुक्लोऽस्यास्तीति शुक्लः पटः। `गुणवचनेभ्यो मतुपो लुग्वक्तव्यः' इति सिद्धम् ? अन्तोदात्तार्थं तु। ये आद्युदात्ता वर्णवाचिनस्तेषु तद्वत्यन्तोदात्तत्वं यथा स्यात्। अपर आह--गुणिवचनेभ्योऽयं तद्वति प्रत्ययो विधीयते, तेन शुक्लाः प्रासादा अस्मिन्नगरे शुक्लं नगरमिति भवतीति ।।
द्वन्द्वोपतापगर्ह्यत्प्रणिस्थादिनिः ।। 5.2.128 ।।
तद्विषयेभ्य इति। तच्छब्देनोपतापो गर्ह्यं च प्रत्यवमृश्यते, न द्वन्द्वः; तस्यैव तद्विषयत्वासम्भवात्। प्राणिस्थार्थवाचिभ्य इति। इदं तु सर्वेषां ग्रहणम्। चित्रललाटिकावतीति। नियतद्रव्यविवक्षायां `जातिरप्राणिनाम्' इत्येकवद्भावाभावाट्टापः श्रवणम्। सिद्धे प्रत्यय इति। `अत इनिठनौ' इत्यनेन। ठनादिबाधनार्थमिति। आदिशब्देन मतुपो गुहणम् ।।
वातातिसाराभ्यां कुक् च ।। 5.2.129 ।।
वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ्यते, तत्रोक्तो हेतुः ।।
वयसि पूरणात् ।। 5.2.130 ।।
मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च `वयसि द्योत्ये' इति विशेषणं तत्रोपपन्नमिति भावः ।।
सुखादिभ्यश्च ।। 5.2.131 ।।
इनिः प्रत्ययो नियम्यते इति। पूर्वसूत्रे इनिरेव भवतीति नियमस्वरूपं दर्शितम्, इहापि तथैव नियमः। नन्वेवं यत एवकारस्ततोऽन्यत्रावधारणमिति सुखादय एव नियता भवन्ति, तत्किमुच्यते--`प्रत्ययो नियम्यते' इति? अन्यनिवृत्तिविशिष्टं व्यस्थापनगत्र नियम इत्यदोषः।
मतुब्बाधनार्थं वचनमिति। न तु ठन्बाधनार्थम्; `शिखादिभ्य इनिर्वाच्यः' इत्यनेनैव ठनो निवर्त्तितत्वादिति भावः ।।
धर्मशीलवर्णान्ताच्च ।। 5.2.132 ।।
ब्राह्मणवर्णिति। ब्राह्मणानां वर्णः=जातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ।।
हस्ताज्जातौ ।। 5.2.133 ।।
इनिः प्रत्ययो नियम्यते इति। मत्वर्थसम्भवमात्रेणात्र प्रकरमे नियमवाचोयुक्तिः। परमार्थतस्तु विधिरयम्, कथम् ? गजशब्दवज्जातिशब्दोऽयम्, नात्र मत्वर्थगन्धोऽस्ति। तथा च विहस्तेऽपि गजे हस्तीति भवति; जातिसद्भावात्। हस्तसम्बन्धविवक्षायां च हस्तिन्यपि मतुब्भवति--हस्तवान्, हस्ती; हस्तवान्पुरुष इतिवत्। एवमुत्तरेष्वपि योगेषु द्रष्टव्यम्। हस्तग्रहणं चोपलक्षणार्थं मन्यते, तेन दन्ती, विषाणी, केसरीत्यादि सिद्धं भवति ।।
वर्णाद् ब्रह्मचारिणि ।। 5.2.134 ।।
ब्रह्मचारीति त्रैवर्णिकोऽभिमत इति। यद्यपि गुरुकुलवासिनि प्रथमाश्रमे ब्रह्मचारिशब्दः प्रसिद्धः, तथापीह लक्ष्यानुरोधात्त्रैवर्णिकमात्रमभिमतः, न त्वाश्रम इत्यर्थः, तस्य कादाचित्कं व्रह्मचर्ययोगं दर्शयति। स हीति। ब्रह्म चरतीति ब्रह्मचारी, ब्रह्म=वेदः। इह तु तदध्ययनार्थो नियमविशेषोऽभिमत इत्याह--नियममिति। तत्र ब्रह्मचारीति `व्रते' इति णिनिः। ब्रह्मचारिशब्दस्य मुख्यार्थपरित्यागेन त्रैवर्णिकमात्रपरत्वे कारणमाह--ब्राह्मणादयस्त्रयो वर्णा इति ।।
पुष्करादिभ्यो देशे ।। 5.2.135 ।।
अर्थीति। असन्निहितोऽर्थोऽस्येत्यर्थः। कालतश्चासन्निधिः, न देशतः। तत्र विरोधादस्तीति न सम्बद्ध्यते, ततश्चाप्राप्त एवेनिर्विधीयते, तक्रकौण्डिन्यन्यायेन च सत्तोपाधिकादिनेरभावः। अर्थवानिति। सन्निहितार्थ उच्यते। तदन्ताच्चेति। ग्रहणवता प्रातिपादिकेन तदन्तविधिप्रतिषेधादयमारम्भः। धान्यार्थीति। धान्यरुपोऽर्थोऽसन्निहितोऽस्तेत्यर्थः, कर्मधारयादिनिः। नन्वर्थयतेर्णिनिनैतत्सिद्धम्--धान्यमर्थयते धान्यार्थी ? एवमपि णिनीति पूर्वपदप्रकृतिस्वरः प्राप्नोति। एवं तर्हीदं स्यात्--अर्थनमर्थः=प्रार्थना, सा यस्यास्ति सोऽर्थी, धान्यस्यार्थो धान्यार्थः=धान्यप्रार्थना, सा यस्यास्ति सा धान्यार्थीति। एवं च कृत्वेदमपि सिद्धं भवति--अर्थिकः, प्रत्यर्थिक इति।
`अर्थाच्चासन्निहिते' इति तूच्यमाने इनेरेव विधानाट्ठन्न स्यात्। `एकाक्षरात्कृतो जातेः' इति प्रतिषेधोऽनित्यः, तेन कार्यी कार्यिक इतिवद् इनिठनौ भविष्यतः, मतुबनभिधानान्न भविष्यति। न च धनवाचिनोऽर्थशब्दात्सन्निहितादपीनिठनोः प्रसङ्गः; अनभिधानात्। एवम् `अर्थाच्चासन्निहितात्तदन्ताच्च' इति न वक्तव्यमिति स्थितम् ।।
बलादिभ्यो मतुबन्यतरस्याम् ।। 5.2.136 ।।
अन्यतरस्यांग्रहणेनेत्यादि। पूर्ववत्समुच्चये तस्य वृत्तेः? चकार एव तु न कृतः, किं कुर्मः! यदि तु विकल्पार्थेनानेन प्रत्ययो विल्प्येत, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनौ द्वावपि स्याताम्। नन्वेवं सति सूत्रारम्भोऽनर्थकः स्यात्, विनाप्यनेन प्रत्ययत्रयस्य सिद्धत्वात्, तत इनिरेव भविष्यति। कुतो नु खल्वेतद्--इनिरेव भविष्यति न पुनष्ठनेव स्यादिति ? तस्मात्समुच्चयः ।।
संज्ञायां मन्माभ्याम् ।। 5.2.137 ।।
प्रथमिनि, दामिनीति। `अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च' इति तदन्तविधिः, `नस्तद्धिते' इति टिलोपः ।।
कंशंभ्यां बभयुस्तितुतयसः ।। 5.2.138 ।।
कंशमिति मकारान्ताविति। `कशब्दः सुखवार्वायुब्रह्ममस्तकवाचकः'क इत्यकारान्तः कशब्दो यद्यपि प्रसिद्धः, मकारान्तोऽपि क्वचिदस्तीति प्रदर्शनार्थम् `मकारान्तौ' इत्युक्तम्। उदकसुखयोर्वाचकाविति। न यथासंख्यम्, किं तर्हि ? यथासम्भवम्। कमित्युदकसुखयोर्वाचकम्, शमिति सुखस्य। `अल्पाच्तरम्' इति सुखस्य पूर्वनिपातः प्राप्तः न कृतः सूत्रकारेणैव; तत्र व्यभिचरितत्वात्। उदाहरणेष्वलनुस्वारपरसवर्णौ, तत्र यकारवकारयोः सानुनासिकौ यकारवकारौ ।।
अहंशुभयोर्युस् ।। 5.2.139 ।।
अहमिति शब्दान्तरमेवेति। ननु नात्र कश्चिच्छब्दः प्रकृतो यदपेक्षं शब्दान्तरत्वं स्यात् ? सत्यम्; `त्वाहौ सौ' इत्यस्मदादेशोऽहंशब्दः प्रसिद्धिवसाध् बुद्धिस्थो निर्द्दिष्टप्रायः, तदपेक्षं शब्दान्तरत्वम्। अहङ्ककारे वर्त्तते इति। अनेनार्थबेदमाह--`गर्वोऽभिमानोऽहङ्कारः'। अहंयुः, शुभंयुरिति। पूर्ववदनुस्वारपरसवर्णै। `ऊर्णाया युस्' इत्यत्र ये `छन्दसि' इति नानुवर्तयन्ति तेषामत्रैवोर्णाग्रहणं कर्त्तव्यम् ।।
इति क्षीहरदत्तमिश्रविरचितायां पदमञ्जर्यां पञ्चमस्याध्यायस्य द्वितीयः पादः
--------------------