शब्दकौस्तुभः/अध्यायः १-पादः २/आह्निकम् २
← आह्निकम् १ | शब्दकौस्तुभः आह्निकम् २ [[लेखकः :|]] |
आह्निकम् ३ → |
।।द्वितीयमान्हिकम्।।
(अष्टाoसूo1-2-45)
अर्थवदधातुरप्रत्ययः प्रातिपदिकम्(अष्टाoसूo1-2-45)। डित्थादीन्यव्युत्पन्नान्युदाहरणम्। अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकम्। यत्तु व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थं चेदमिति हरदत्तेनोक्तम्, तन्न। तत्राऽपि प्रकृत्यादिकल्पनसम्भवादिति बोध्यम्। वस्तुतस्तु `बहुपटवः' इत्याद्यर्थमिदम्। न च तद्धितग्रहणे मत्वर्थलक्षणया निर्वाहः। `पचतकि' इत्यादावतिव्याप्तेः। अव्युत्पत्तिपक्षस्तु कमिग्रहणेन सिद्धे कंसग्रहणेनैव ज्ञाप्यः। ज्ञापिते च तत्राप्यनेनैव संज्ञा सिध्यति। नन्वेतदेव ज्ञापकम्। बहुच्पूर्वे कृतार्थत्वादित्यवधेयम्। अर्थवत्किम्? घनं वनमित्यादौ प्रतिवर्णं संज्ञा मा भूत्। स्यादेतत्-विशिष्टरूपोपादानविषयतया अर्थवत्परिभाषाया इहाप्रवृत्तावपि अधातुरप्रत्यय इति पर्युदासादेव सिद्धम्। न च "अधीते" `यावकः' इत्यादौ इङ्कनौ निरर्थकावपि धातुप्रत्ययौ स्त इति वाच्यम्। अडादिव्यवस्थायै इङ एवार्थवत्त्वस्वीकारात्। स्वार्थिकानाञ्च प्रकृत्यर्थेवत्त्वात्। न चेदं कल्पनामात्रमिति वाच्यम्। डित्थादावपि तथात्वात्। उक्तं हि-"अर्थवत्ता नोपपद्यते केवलेनावचनात् सिद्धं त्वन्वयव्यतिरेकाभ्याम्"इति। कल्पिताभ्यामिति हि तदर्थः। वस्तुतः पदस्फोटवाक्यस्फोटयोरेवार्थवत्त्वात्। सत्यम्। उत्तरार्थमर्थवद्ग्रहणं इह तु स्पष्टार्थम्। अधातुः किम्? अहन्। नलोपो मा भूत्। न च "सुपोधातु"(अष्टाoसूo2-4-71)इति धातुग्रहणात् धोतौर्नेयं संज्ञेति वाच्यम्। 'श्पेनायते' इत्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात्। अप्रत्ययः किम्? `पचति'इति तिपो माभूत्। सुपोप्येवम्। न चैवन्तदन्तेषु अतिव्याप्तितादवस्थ्यम्। उत्तरसूत्रे तद्धितग्रहणस्य नियमार्थत्वात्। तद्धितान्तानामेव नत्वन्ययान्तानामिति। न च तत्रापि संज्ञाविधित्वेन तदन्तग्रहणं दुर्लभमिति वाच्यम्। अर्थवदित्यनुवृत्तिसामर्थ्यात्तत्सिद्धेः। प्रशंसायां हि मतुप्। एकार्पीभावेन लौकिकप्रयोगे प्रसिद्धत्वञ्च प्रशेसार्थः। अधातुप्रत्ययाविति सिद्धे नञ्द्वयोपादानं स्पष्टार्थम्। महासंज्ञाकरणं प्राचामनुरोधात्।
(अष्टाoसूo1-2-46)
कृत्तद्धितसमासाद्य(अष्टाoसूo1-2-46)। अर्थवन्त एते प्रातिपदिकंसज्ञाः स्युः। विशेषमसामर्थ्यात्तदन्तविधिः। न हि जहत्स्वार्थायां वृत्तौ कृतान्तद्धितानां चार्थोऽस्ति। भूतपूर्वगतिलभ्यस्तु न प्रशस्तः सः। भित्, छित्। अत्राधातुरिति पर्युदासे प्राप्ते कर्त्ता, हर्त्ता, अत्र तद्धितान्तानामेवेति नियमेन निरासे प्राप्ते। सन्निहितत्त्वाच्च कृद्गहणेन प्रागुक्तमेव बाध्यते न तु समासग्रहणकृतो नियमोऽपि। तेन कृद्ग्रहणपरिभाषानुपस्थानात् `मूलकेनोपदंशम्'इति वाक्यस्य न भवति। ननु बाध्यसामान्यचिन्तायां समासनियमोऽपि बाध्येतेति चेत्, सत्यम्। आद्ये एवेह पक्षः। न च वाक्येऽतिप्रसङ्गः। शब्दाधिकारमाश्रित्येहार्थवच्छब्देनैकार्थीभावविवक्षणात्। अतिशये मतुप्स्मरणात्। बक्ष्यमाणरीत्या "अप्रत्यय" इति। निषेधः प्रत्ययान्तपर इति पक्षे तु मध्येपवादन्यायात् सर्वेष्टसिद्धिः। अप्रत्यय इत्यस्य प्रत्याख्यानपक्षेपि पुरस्तादपवादन्यायादिष्टसिद्धिरिति दिक्। तद्धितः-औपगवः। अत्राऽनेन पूर्वेण वा संज्ञा नियमविधीनां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति मतभेदस्योक्तत्वात्। एवं समासेऽपि। न चासमर्थसमासेषु विध्यर्थं समासग्रहणमिति वाच्यम्। अर्थवद्ग्रहणनुवृत्तेरुक्तत्वात्। असमर्थानां तर्हि कथं संज्ञेति चेत्, धर्मिग्राहकमानादेवेति गृहाण। "असूर्यललाटयोः"(अष्टाoसूo3-2-36)इत्यादिना हि समास उपपदे कृद्विधीयते। उपपदञ्च महासंज्ञाकरणबलाद्विभक्त्यन्तमेव। न चैवमपि स्त्रीप्रत्यये तदादिनियमाभावात् `राजकुमारी'इत्यादौ प्रत्ययान्ते विध्यर्थं तदिति वाच्यम्। अन्तरङ्गस्याऽपि हल्ङ्यादिलोपस्य लुग्विषये प्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः। अत एव `गोमत्प्रियः' इत्यादौ नुमादयो नेति वक्ष्यते। तस्मात्प्रकृते समासग्रहणं नियमार्थं सद्वाक्यस्य सज्ञां निवर्तयतीति स्थितम्। नियमश्च सजातीयाऽपेक्षः। यत्र पूर्वो भागः पदमुत्तरश्च प्रत्ययभिन्नः तादृशस्य समुदायस्य चेत्स्यात्तर्हि समासस्यैवेति। षड्विधेऽपि समासे पूर्वभागस्य पदत्वाव्यभिचारात्। तेन बहुच्पूर्वस्यास्त्येव संज्ञेति `बहुपटवः' इति टकारस्योदात्तता लभ्यते। प्रथमस्य जसो लुकि "चितः सप्रकृतेर्बव्हकजर्थम्"(काoवाo)इति चित्स्वरे कृते पुनर्विभक्त्युत्पत्तेः। अन्यथा तु जसेवोदात्तः स्यात्। उत्तरश्चेत्यादि किम्? `हरिषु' इत्यादेरनेन व्यावृत्तिर्मा भूत्। एवमस्तु, को दोष इति चेत्? शृणु। तथासति `जन्मवान्'इत्यादौ तद्धितान्ते विध्यर्थं तद्धितग्रहणं स्यात् `राजानौ' इत्यादेस्तु प्रातिपदिकत्वं केन वार्यताम्। न तावदनेन नियमेन, पूर्वभागस्यापदत्वात्। नापि तद्धितग्रहणेन, तस्योक्तरीत्या नियमार्थत्वायोगात्। न च "सुपोधातुप्रातिपदिकयोः"(अष्टाoसूo2-4-71)इति धातुग्रहणे प्रत्ययान्तानां प्रातिपदिकसंज्ञा नेति ज्ञापकमिति वाच्यम्। तस्य `प्रासादीयति'इत्यादौ `हरिषु'इतिवदप्रातिपदिके चरितार्थत्वात। नापि ङ्याब्ग्रहणं ज्ञापकम्। लिङ्गविशिष्टपरिभाषया सिद्धौ तस्यान्यार्थताया एव सिद्धान्तयिष्यमाणत्वात्। तस्मादुक्तमेव साधु। यद्यपि प्रकृतिप्रत्ययभावानापन्नसंघाताविषयको नियम इत्यपि त्पत्तिरिति ग्रन्थं योजयितुमिदं गौरवमावृतम्। निष्कर्षे तु तथैवास्तु। तथा च तद्धितग्रहणं नियमार्थमेव। भेदसंसर्गद्वारकमर्थवत्त्वमिति कैयटस्याप्ययमेव भावः। भेदे परस्परपरिहारेण प्रयोगे सति यः संसर्गस्तद्द्वारकमित्यर्थात् न तु भेदः संसर्गो वा द्वयं वा वाक्यार्थ इत्याशयेन तद्ग्रन्थः। बहुच्समासयोर्वैरूप्यालाभात्। यद्वा-"सात्पदाद्योः"(अष्टाoसूo8-3-111)इतिसातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे पूर्वसूत्रस्थं प्रत्ययग्रहणं सामर्थ्यात्तदन्तपरम्। तद्धितग्रहणन्तु विध्यर्थमेव। स्यादेतत्-पक्षत्रयेऽपि `राजपुरुषौ' इत्यादौ `पुरुषौ'इत्यादेः संज्ञा दुर्वारेति प्रातिपदिकावयवत्वासुपो लुक् स्यादिति चेन्मैवम्। जहत्स्वार्थायामानर्थक्यात्। अजहत्स्वार्थायामपि पूर्वपदविनिर्मुक्तस्य विशिष्टार्थविरहेण तत्सहितस्यैव विशिष्टार्थगमकत्वात्। प्रशंसायां हि मतुबित्युक्तम्। एवं `घटपटौ' इत्यादावपि मिलितयोरेव पदयोः सहभूतार्थता। प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वाच्च। "घटौ'इत्यंशो नार्थवानिति। एतेनासमर्थसमासे दशदाडिमादिवदनर्थके विध्यर्थं समासग्रहणं किं न स्यादिति चोक्तं प्रत्युक्तम्। अर्थवद्ग्रहणस्येहार्थताया एवोक्तत्वादिति दिक्। यदि तु नैयायिकरीत्या अर्थवत्त्वं वृत्तिमत्त्वं तच्च समासस्य नास्तीत्याश्रित्य समासग्रहणं विध्यर्थम्। तद्धितग्रहणमपि तथा। अप्रत्यय इति तु प्रत्ययवारणार्थमित्याश्रीयते तथापि न क्षतिः। तद्धितग्रहणस्य तद्विशिष्टपरतामाश्रित्य `बहुपटवः' इत्यस्य सुसाधत्वात्। किन्त्वस्मिन्पक्षे सिद्धान्तविरोधः `मूलकेनोपदंशं' `पचतकि' इत्यत्रातिप्रसङ्गश्चेति यथास्थितमेवास्तु। इह प्रकरणे यथाश्रुताः प्राचां ग्रन्था दुष्टा एवेत्यवधयेम्। निपातस्यार्थकस्य प्रातिपदिकसंज्ञा वक्तव्या येषां द्योत्योप्यर्थो नास्ति तदर्थमिदम्। `अवद्यति'। अनुक्तसमुच्चयार्थाच्चकारात्सिद्धमिदम्। अनुकरणेषु तु अनुकरणेन सहाभेदविवक्षायामर्थवत्त्वाभावान्न प्रातिपदिकता, "भू सत्तायाम्(भ्वाoपाo1) इति यथा। भेदविवक्षायां तु संज्ञा स्यादेव। "भुवो वुग्"(अष्टाoसूo6-4-88)इति यथा। न चाधातुरिति पर्युदासाऽपत्तिः। प्रकृतिवदनुकरणमित्यातिदेशस्यानित्यतयोवङंशे प्रवृत्तावपि संज्ञांशे अप्रवृत्तिसम्भवात्। एतच्च "ऋलृक्"(माoसूo2)सूत्रे उपपादितम्।
(अष्टाoसूo1-2-47)
हस्वो नपुंसके प्रातिपदिकस्य(अष्टाoसूo1-2-47)। क्लीबे प्रातिपदिकस्याजन्तस्य ह्रस्वः स्यात्। श्रीपं कुलम्। प्रातिपदिकग्रहणसामर्थ्यान्नेह-काण्डे, कुड्ये। इह तु "अन्तादिवच्च"(अष्टाoसूo6-1-85)इत्यतिदेशेनाऽस्ति प्राप्तिः। न च द्विकपक्षे `वारिणी' इति व्यावर्त्त्य कृतार्थतेति वाच्यम्। तत्रापि प्रातिपदिकमित्यस्यानुवृत्त्या सिद्धे सामर्थ्यस्य सुवचत्वात्। लक्ष्यानुरोधेन पक्षान्तरस्यैव सुग्रडत्वाच्च। यद्वाकार्यकालपक्षं प्रत्ययान्तस्य नेति प्रसज्यप्रतिषेधं चाश्रित्य समादेयम्। न चैवं `ब्रह्मबन्धुः' इत्यत्र स्वादयो न स्युरिति वाच्यम्। लिङ्गविशिष्टपरिभाषया `श्वश्रूः'इत्यत्रेव तत्सिद्धेः।
(अष्टाoसूo1-2-48)
गोस्त्रियोरुपसर्जनस्य(अष्टाoसूo1-2-48)। उपसर्जनं यो गोशब्दस्तादृगेव च यत्स्त्रीप्रत्ययान्तन्तदन्तस्य प्रातिपदिकस्य ह्रस्वाः स्यात्। चित्रगुः, निष्कौशाम्बिः। उपसर्जनस्य किम्? सुगौः, राजकुमारी, स्त्रीशब्दः स्वर्यते। तेन स्त्र्यधिकारोक्तप्रत्ययग्रहणान्नेह-अतिलक्ष्मीः, अतिश्रीः। कथं `गोकुलं' `राजकुमारीपुत्रः' इति चेत्, शृणु। उपसर्जनस्य ससबन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदेदं ह्रस्वत्वम्। न चेह तदस्ति। गोः कुलं प्रति गुणभावेऽपि गां प्रत्यतथात्वात्। कुमार्याश्च पुत्रं प्रति गुणीभावेऽपि राजानं प्रत्यतथात्वात्। शास्त्रीयं चेहोपसर्जनं गृह्यते। कृत्रिमत्वात्। अत एव प्रत्ययमात्रस्य तथात्वासम्भवात्तदन्तलाभः। यदि तु लौकिकमुपसर्जनत्वं गृहीत्वा प्रत्यय एव विशेष्येत तदा हरीतक्याः फलानि `हरीतक्यः' इत्यत्रातिव्याप्तिः स्यात्। स्पष्टञ्चेदं "उपमानानि सामान्यवचनैः"(अष्टाoसूo2-1-55)इति सूत्रे भाष्ये। अथ कथं राजकुमारीमतिक्रान्तः `अतिराजकुमारीशब्दस्य स्त्रीप्रत्ययान्तत्वादित्यवेहि। अतिक्रान्तम्प्रति ह्यसावुपसर्जनं न तु राजानम्प्रतीति विवेकः। अत्रत्यः कैयटस्त्वापातत इत्यवधेयम्। अत्र वार्त्तिकम्-"ईयसो बहुव्रीहौ पुंवद्वचनम्"(काoवाo)इति। ईयसन्ताद्यः स्त्रीप्रत्ययस्तदन्तान्तो यो ब्रहुव्रीहिस्तत्र हस्वो नेत्यर्थः। "गौस्त्रियोः"(अष्टाoसूo1-2-48)इति ह्रस्वो विहितः। तत्र पुंसि यथा स्त्रीप्रत्ययान्तता नास्ति तथेह बोध्यमित्येवं वचनव्यक्त्या ह्रस्वाभावः पर्यवस्यति। जव्ह्यः श्रेयस्यो यस्य स बहुश्रेयसी। "ईयसश्च"(अष्टाoसूo5-4-156)इति कब्निषेधः। बहुव्रीहौ किम्? अतिश्रेयसि।
(अष्टाoसूo1-2-49)
लुक्तद्धितलुकि(अष्टाoसूo1-2-49)। तद्धितलुकि सति उपसर्जनस्त्रीप्रत्यस्य लुक् स्यात्। लुक् तावत्प्रत्ययस्यैव सम्भवति, न तु तदन्तस्य। अत एवोपसर्जनमिह लौकिकम् न तु पूर्ववच्छास्त्रीयम्, असम्भवात्। नहि प्रत्ययमात्रं शास्त्रीयमुपसर्जनम्। आमलक्याः फलमामलकम्। "नित्यं वृद्धशरादिभ्यः"(अष्टाoसूo4-3-14)इति मयटः फले लुक्। ततोऽनेन गौरादिङीषो लुक्। इह पूर्वसूत्रस्यावकाशो `निष्कौशाम्बिः'। अस्यावकाशः `आमलकम्'। पञ्च इन्द्राण्यो देवता अस्य `पञ्चेन्द्रः' इत्यत्र तु परत्वाल्लुगेव।
(अष्टाoसूo1-2-50)
इद्गोण्याः(अष्टाoसूo1-2-51)। गोण्या इत्यस्यात्तद्धितलुकि। लुकोऽपवादः। पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः। दशगोणिः। गोणीशब्दः परिमाणवचन आवपनवचनश्च। तत्राद्यात् "प्राग्वतेष्ठञ्(अष्टाoसूo5-1-18)द्वितीयादार्हीयष्ठक्। तयोरध्यर्धेति लुक्।
(अष्टाoसूo1-2-51)
लुपि युक्तवद्यक्तिवचने(अष्टाoसूo1-2-51)। प्राचामिदं सूत्रं दूषणार्थं पाणिनिरनुवदति। लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालाः, क्षत्रियाः, पुल्लिङ्गबहुवचनविषयाः। तेषां निवासो जनपदः पञ्चालाः। पञ्चालस्यापत्यानि बहूनि। "जनपदशब्दात् क्षत्रियाद्ञ्"(अष्टाoसूo4-1-168)"ते तद्राजाः"(अष्टाoसूo4-1-174)"तद्राजस्य बहुषु"(अष्टाoसूo2-4-62)ततः "तस्य निवासः"(अष्टाoसूo4-2-69)इत्यणो "जनपदे लुप्"(अष्टाoसूo4-2-81)लुपि किम्? लवणस्सूपः। "संसृष्टे"(अष्टoसूo4-4-22)"लवणाल्लुक्"(अष्टाoसूo4-4-24) व्यक्तिवचने किम्? हरीतकी पञ्चाला इत्यादिषु षष्ठ्या अतिदेशो मा भूत्। समासे उत्तरपदस्य बहुवचनस्य लुपः नियमार्थमिदम्। मथुरा पञ्चालाः। उत्तरपदस्यैवेति नियमान्नेह। पञ्चालमथुरे। बहुवचनस्य किम्? गोदौ। ग्रामो मथुरा च गोदमथुराः। पूर्वपदस्य द्वित्वातिदेशः स्यादेव।
(अष्टाoसूo1-2-52)
विशेषणानाञ्चाजातेः(अष्टाoसूo1-2-52)। लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जार्ति वर्जयित्वा। पञ्चाला रमणीयाः। गोदौ रमणीयौ। अजातेः किम्? पञ्चाला जनपदः। गौदौ ग्रामः। कथं तर्हिपञ्चाला जनपदौ रमणीय इति। जातिविशेषणत्वादिति गृहाण। पञ्चालविशेषकत्वे तु रमणीया इति भवत्येव। स्यादेतत्-लुपोन्यत्राऽपीदं तुल्यम्, "बदरीवृश्रः" इत्यत्र सूक्ष्मकण्टका सूक्ष्मकण्टक इति प्रयोगयोर्विशेष्यभेदेन व्यवस्थास्वीकाराता। तत्किं सूत्रेण? सत्यम्। गुणवचनानामाश्रयतो लिङ्गवचनानीति सूत्रार्थः। तथाहि-जातिभिन्नानि यानि विशेषणानि तेषां युक्तवत्, विशेष्यवदित्यर्थः। गुणवचनानामित्युद्धोषेऽपि जातिभिन्नं गुणशब्दार्थः। तदुक्तममरेण-
स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः।
गुणद्रव्याक्रियाशब्दास्तथा स्युस्तस्य भेदकाः"(अoकोo3-1-2)इति।
सामान्ये नपुंसकस्य न्यायप्राप्तस्यापवादोऽयम्। तेन शुक्लं पटा इति न भवति। अनित्यश्चायमतिदेशः। "संस्कृतं भक्षाः"(अष्टाoसूo4-2-16)इत्यादिलिङ्गात्। लक्ष्यानुरोधाद्व्यवस्था। हरीतक्यादिषु व्यक्तिः। नियमार्थमिदम्। तेन वचनं न युक्तवत्। हरितक्याः फलानि हरीतक्यः। गौरादिङीषन्तात् "अनुदात्तादेश्च"(अष्टाoसूo4-3-140)इति लुप्। खलतिकादिषु वचनम्। अयमपि नियम एव। खलतिकस्य पर्वतसस्यादूरभवानि वानानि खलतिकं वनानि। खलतिको वरणादिः। मनुष्यलुपि प्रतिषेधः(काoवाo)मनुष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः। लुबन्तस्य तु भवत्येव। चञ्चा तृणमयः पुमान्। स इव चञ्चाऽभिरूपः। "संज्ञायाम्"(अष्टाoसूo5-3-98)इति लुप्। चर्मविकारविशेषो वर्ध्रिका। स इव वर्ध्रिका दर्शनीयः। तदिह द्वे वार्त्तिके आद्यस्य तृतीयन्तु द्वितीयस्यापवाद इति स्थितम्। इदं त्ववधेयम्। इहाभिरूपदर्शनीयपदयोर्विशेष्यलिङ्गे प्रतिषिद्धे नपुंसकत्वं प्राप्नोति। भाष्यकारीयोदाहरणसामर्थ्यान्न भवतीति।
(अष्टाoसूo1-2-53)
तदशिष्यं संज्ञाप्रमाणत्वात्(अष्टाoसूo1-2-53)। तत्-युक्तवद्वचनम्। अशिष्यम्-अकर्तव्यम्। कुतः? संज्ञानां प्रमाणत्वात्। अयं भावः-पञ्चाला वरणा इत्यादयो न यौगिकाः। तन्निवासेऽपि देशान्तरे अप्रयोगात्। "देशे तन्नाम्नि"(अष्टाoसूoएo 4-2-67)इत्यधिकृत्यादूरभवे प्रत्ययविधानाच्च। किन्तु संज्ञाशब्दा एते। ते च यल्लिङ्गसख्यतया लोके प्रसिद्धास्तत्र प्रमाणभूता एव। तदर्थप्रमाणका इत्यर्थः। यथा आपो दारा वनं गृहाः सिकता वर्षा इत्यादौ। नेह शास्त्रेनुशासनमारच्यं तदर्थमपि मास्तु। किञ्च-
(अष्टाoसूo 1-2-54)
लुब्योगाप्रख्यानात्(अष्टाoसूo 1-2-54) लुबप्यशिष्यः। "जनपदे लुप्"(अष्टाoसूo4-2-81)"वरणादिभ्यश्च"(अष्टाoसूo4-2-82)इति। कुतः? योगस्यावयवार्थस्येह अप्रख्यानात् अप्रतीतेः। तथा चात्र "तस्य निवासः" (अष्टाoसूo4-2-69) "अदूरभवश्च"(अष्टाoसूo4-2-70)इति तद्धितो नैवोत्पद्यते किं लुपो विधानेनेत्यर्थः।
(अष्टाoसूo1-2-55)
योगप्रमाणे च तदभावेऽदर्शनं स्यात्(अष्टाoसूo1-2-55)। चकारो ह्यर्थे। यदि हि योगस्यावयवार्थस्येदं प्रमाणं बोधकं स्यात्तदा तदभावे न दृश्येत। दृस्यते च सम्प्रति। विनैव क्षत्रिययोगं जनपदे पञ्चालशब्दः। न च भूतपूर्वगतिः। क्षत्रिययोगाद्देशे देशयोगाद्वा क्षत्रिये शब्द इत्यत्र विनिगमकाभावेन वैपरित्यस्यापि सुवचत्वापत्तेरिति भावः। अतोऽक्षादिवन्नानार्था एवैते इति तत्त्वम्।
(अष्टाoसूo1-2-56)
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्(अष्टाoसूo1-2-56)। प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमपि अशिष्यं कुतः? अर्थस्य लोकत एव सिद्धेः। आख्यातस्य क्रियाप्रधानतया व्यभिचाराच्चेत्यर्थः।
(अष्टाoसूo1-2-57)
कालोपसर्जने च तुल्यम्(अष्टाoसूo1-2-57)। अतीताया रात्रेः पश्चार्द्धेन आगामिन्याः पूर्वार्द्धेन च सहितो दिवसोऽद्यतनः। विशेषणमुपसर्जनमित्यादिक्रमेण काल उपसर्जनं च पूर्वाचार्यैः परिभाषितं तत्रापि तुल्यम्। अशिष्यत्वं समानमित्यर्थः। लोकप्रसिद्धत्वादेवेति भावः।
(अष्टाऽसूo1-2-58)
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्(अष्टाऽसूo 1-2-58)ब्राह्मणाः पूज्याः। ब्राह्मणः पूज्यः। एकोऽप्यर्थो वा बहुवदिमत्यतिदेशाद्विशेषणादपि सिद्धम्। बहूनां वचनं बहुवचनं प्रतिपदनमिति व्याख्यानाच्चातिदेशः फलितः।
(अष्टाoसूo1-2-59)
अस्मदो द्वयोश्च(अष्टाoसूo1-2-59)। एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात्। वयं बूमः। पक्षे अहं ब्रवीमि। आवां ब्रूव इति वा। सबिशेषणस्य प्रतिषेधः।(काoवाo)। पटुरहं ब्रवीमि। कथं तर्हि "त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः"(वैoशo23) इति भर्तृहरिः। अत्रोन्नत्वस्य विधेयत्वाद्भवत्येव। अनुवाद्यविशेषणपरत्वात्प्रतिषेधस्येति हरदत्तः। भाष्ये त्वेतत्सूत्र प्रत्याख्यातम्। तथाहि-अहङ्कारावच्छिन्नेध्यस्तानाञ्चक्षुरादीन्द्रियाणां तत्तादात्म्यादहमुल्लेखगोचरता भेदाभेदप्रतीतिश्च। अहं शृणोमीति वन्मम श्रोत्रं शृणोतीत्यपि व्यवहारात् तत्र चक्षुरादीनां बहुत्वाद्भेदस्वातन्त्र्ययोर्विवक्षायां `वयं ब्रूमः' इति सिद्धम्। अभेदमात्रविवक्षायां तु एकवचनम्। न च गौणता। `गौरोऽहम्' इत्यादीनां यावद्व्यवहारं बाधाभावात्। एतेन "पुष्यादिगुरावेकेषाम्" इति वृत्तिकारेण पठितमपि गतार्थम्। त्वं गुरुर्यूयं गुरव इत्यस्योक्तरीत्या सिद्धेः। अत एव "आचार्याः कथयन्ति" इत्यादिलौकिकप्रयोगोऽपि सङ्गच्छते।
(अष्टाoसूo1-2-60)
फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे(अष्टाoसूo1-2-60)। द्वयोरित्यनुकर्षाद्। द्वित्वं बहुत्वप्रयुक्तं कार्यं वा विधीयते। तेन विशेषणेऽपि सिद्धम्। पूर्वे फल्गुन्यौ पूर्वाः फल्गुन्यः। पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः। नक्षत्रे किम्? फल्गुन्यौ माणविके। फल्गुन्योर्जाते इत्यर्थः। "फल्गुन्यषाढाभ्यां टानौ"(काoवाo)इति टः। टित्त्वान् ङीप्। एकस्यान्तु तारायां नेमौ शब्दौ प्रयुज्येते। उद्भूतावयवभेदे समुदाय एव निरूढत्वात्। सूत्रे तु नक्षत्रे इति प्रथमाद्विवचनं नक्षत्रे यद्यभिधीयेते इत्यर्थात्।
(अष्टाoसूo1-2-61)
छन्दसि पुनर्वस्वोरेकवचनम्(अष्टाoसूo1-2-61)। द्वयोरेकवचनं वा स्यात्। पुनर्वसुर्नक्षत्रमदितिर्देवता। पुनर्वसु वा। लोके तूद्भूतावयवसमुदाये। निरूढत्वाद् द्विवचनमेव। गाङ्गताविव दिवः पुनर्वसु।
(अष्टाoसूo1-2-62)
विशाखयोश्च(अष्टाoसूo1-2-62)। प्राग्वत्। विशाखा नक्षत्रमिन्द्राग्नी देवता। पक्षे विशाखे। छन्दसीत्यनुवृत्तेर्लोके। `विशाखे' इत्येव। अमरस्तु-"राधाविशाखा"(अoको1-3-22)इति प्रयुञ्जानो द्विवचननियमं नेच्छति। सुत्रे तृदासीनम्।
(अष्टाoसूo1-2-63)
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्(अष्टाoसूo1-2-63)। छन्दसीति न सम्भध्यते पूर्वत्र चकारेणानुकृष्टत्वात्। एतदर्थ एव हि पूर्वत्र योगविभागः। तिष्य एकः। पुनर्वसू द्वौ। तेषां द्वन्द्वो बव्हर्थः। तत्र बहुत्वं द्वित्ववद्भवतीत्यतिदेशोऽयम्। तिष्यपुनर्वसू उदितौ। तिष्यपुनर्वसू इति किम्? विशाखानुराधाः। नक्षत्रेति किम्? तिष्यपुनर्वसवो माणवकाः। तिष्यपुनर्वसुशब्दाभ्यां "नक्षत्रेण युक्तः कालः"(अष्टाoसूo4-2-3)इत्यण् "लुबविशेषे"(अष्टाoसूo4-2-4)ततो जातार्थे "सन्धिवेलादि"(अष्टाoसूo4-3-16) सूत्रेणाण्। तस्य "श्रविष्ठाफल्गुन्यनुराधा"(अष्टाoसूo4-2-34)इत्यादिना लुक् माणवकवृत्तिरयं द्वन्द्वो न तु नक्षत्रवृत्तिः। न चायं गौणः। यौगिकत्वात्। ननु नक्षत्रे इत्यनुवृत्त्या सिद्धमेतत्। किं पुनर्नक्षत्रग्रहणेन। अत्र भाष्यम्-"पर्यायाणामपि यथा स्यात्" इति। तस्याऽयं भावः-तिष्यपुनर्वस्वोः शब्दयोरभिधेये नक्षत्रे वर्त्तमानो यो नक्षत्रशब्दानां द्वन्द्व इति व्याख्यानात्। पुष्यपुनर्वसू सिध्यपुनर्वसू इत्यपि सिध्यतीति। स्यादेतत्-यथा "भावे चाकर्मकेभ्यः"(अष्टाoसूo3-4-69)इत्यकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न तु बहिरङ्गं कालादि कर्म तथान्तरङ्गस्य कालस्य व्यावृत्त्या बहवस्तिष्यपुनर्वसवोऽतिक्रान्ता इत्यादेः सिद्धावपि माणवकस्य बहिरङ्गस्य व्यावृत्तये पुनर्नक्षत्रग्रहणमस्तु। यद्वा-तिष्यपुनर्वस्वोरिति योगं विभज्य देशान्तरस्थमपि तिष्यस्व कार्यं नक्षत्र एवेति व्याख्यास्यते। तेन "तिष्यपुष्ययोर्नक्षत्राणि यलोपः"(कावाo)इति सिद्धम्। तस्माद्वहिरङ्गव्यावृत्त्या योगविभागेन वा कृतार्थं नक्षत्रग्रहणं कथं पर्यायग्रहणार्थं स्यात्। उच्यते-अकर्मकशब्दः श्रुत्यैव कर्म व्यावर्त्तयन् मुख्यमन्तरङ्गमेव व्यावर्त्तयतीति युक्तम्। नक्षत्रशब्दस्तु स्वार्थार्पणप्रनाड्या अर्थान्तरं व्यावर्त्तयन्नविशेषादुभौ व्यावर्त्तयतीति नाद्यं फलम्। नापि द्वितीयम्। पुष्यार्थवचनस्यावश्यकत्त्वात्। अत एव पक्षद्वयेऽप्यपरितोषाद्भाष्ये पक्षान्तरमुक्तम्। द्वन्द्व इति किम्? यस्तिष्यस्तौ पुनर्वसू येषान्ते तिष्यपुनर्वसवः। तिष्यादय एव विपर्यविषया इह बहुव्रीहिणोच्यन्ते। अतो भवत्ययं नक्षत्रसमासः न तु द्वन्द्वः। बहुवचनस्य किम्? इदं तिष्यपुनर्वसु। सर्वो द्वन्द्वो विभाषयैकवत्। न्यायसिद्धं चेदम्। प्राण्यङ्गादीनां समाहार एवेति हि नियमः। न तु विपरीतः। "चार्थे द्वन्द्वः"(अष्टाoसूo2-2-29)इति पृथग्विधानात्। प्रकृतसूत्रे बहुवचनग्रहणाच्चेति दिक्।
।। इति शीशब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये पादे द्वितीयमान्हिकम् ।।