सामग्री पर जाएँ

श्रीव्यासपाणिनिभावनिर्णयः/द्वितीयभागः-२

विकिस्रोतः तः
← [../प्रथमभागः-१ श्रीव्यासपाणिनिभावनिर्णयः
द्वितीयभागः-२
[[लेखकः :|]]
तृतीयभागः-३ →

किं च `सरूप-' सूत्रे (1.2.64) `स्त्रियाम' (4.1.3) इति सूत्रे च `तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम्, अवश्यं कश्चित्स्वकृतान्त आस्थेयः, कोऽसौ स्वकृतान्तः ? संस्त्यानप्रसवौ लिङ्गम्' इति लिङ्गस्वरूपनिर्णायकं भा,्यम् । `तत्र सिद्धान्तव्दी युक्तं पक्षमाश्रयति--लौकिकमिति' --इति सरूपसूत्रे कैयटः, भाष्यस्थकृतान्तपदस्य सिद्धान्त' इत्यर्थ अत्युद्द्योतः । स्त्रियामिति सूत्रे तु --`स्वकृतान्त' इति पदमादाय `स्वसीद्दान्त' इति व्याचख्यौ कैयटः । `सांख्यमतावंष्टम्भेनाह - स्वकृतान्त इति' इत्येवं कैयटः । `सांख्यमतावंष्टम्भेनाह - स्वकृतान्त इति' इत्येवं कैयटमवतार्य, `एतेन सांख्यसास्त्रानुसारित्वं व्याकरणस्येति सूचयति `इति निगमयति नागेशः । स एव तत्रैव सूत्रे `सांख्यानां सिद्धान्त' इति कैयटं `सेश्वरसांक्यानामाचार्यस्य पतञ्जलेरित्यर्थ' इति व्याकुरुते । तेन इदमवधार्यते यत् भाष्यप्रदीपकारौ पाणिनेराचार्यस्य सेश्वरसांख्यमतानुसारितां मन्येते इति ।

निरीश्वरं सेश्वरं चेति सांख्यं तु द्विविदम् । तत्रेभयत्र पुरषभेदः, जगतो मायिकत्वाभावश्च प्रतिपाद्यत इति व्यक्तं विदुषाम् । एव च पाणिनेरपि भेद एवाभिमत इति सुवचम् । द्विविधा अपि सांख्या भेदवादिन इति सुबोधाय संक्षिप्य किंचिन्निरूप्यते ।

तत्राद्ये -- प्रकृतिः पुरूषश्चेति द्वे तत्त्वे, पुरुषाश्च बहवः, जननमरविणकारणानां प्रतिनियमादयुगपत्पवृत्तेश्च । `पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव' (18) इति सांख्यकारिकोक्तेः । प्रकृतिस्तु पुरुषोपभोगभोग्यविषयरूपेण परिणमति, पुरूषास्तु नाना । एवमेव कारीकामिमां व्याख्याय पुरुषनानात्वं व्यवस्तापितं सांख्यमते गौडपादाचार्यप्रभृतिभिः ।

द्वितीये -- प्रकृतिः पुरुष ईश्वरइति त्रीणि तत्त्वानि, अचेतनापि प्रकृतिरीश्वरप्रवर्तिता पुरुषपदवाच्यजीवोपभेगयोग्यविषयरूपेण परिणता पुरुषस्य भोोोगमपर्गं च साधयति । एवं च -- प्रकृतिः भोगादिसाधनम्, पुरुषो भोक्ता, ईस्वरः प्रेरकः, ईस्वरप्रणिधानात्पुरुषस्य मोक्षः, इति सेश्वरसांख्याचार्यमहर्षिपतञ्जलिप्रणीतयोगसूत्रतोऽध्यवसीयते । तथा हि -- `प्रकाशक्रियास्थितिसीलप्रणीतयोगसूत्रतोऽध्यवसीयते । तथा हि--`प्रकाशक्रियास्थितिशीलभूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् (यो.सू.2.18) ईश्वरप्रणिधानात् (1.23) क्लोशकर्मविपाकाशयैपरामृष्टः पुरुषविशेष ईश्वरः (1.24) तस्य निरतिशयं सार्वज्ञबीजम् (1.25) पूर्वेषामपि गुरुः कालेनानावच्चेदात् (यो.सू.1.26) तस्य वाचकः प्रणवः (1.27) तज्जपस्तदर्थभावनम्' (1.25) इति सप्तसूत्र्या तत्त्वत्रयं प्रतिपाद्य `ईश्वरप्रणिधानात्' इत्यादिसूत्रषट्केन भगवदुपासनम्, तल्लक्षणम्, तस्य सर्वज्ञत्वम्, तस्य ब्रझादिगुरुत्वम्, तस्य प्रणवावात्यत्वम्, तद्वाचकप्रणवजपः, तद्वाच्येश्वरच्न्तनं च कैवल्यरूपमुक्तिसाधनयोगसिद्ध्यङ्गमिति निरूपयता उपास्योपासकभावेन पुरुषेश्वरयोर्भेदस्य, `कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्' (यो.2.22) इति सूत्रेण पुरुषनानात्वस्य च प्रतिपादितत्वेन, `अचेतनापि प्रकृतिः पुरुषस्य भोगापवर्गलक्षणमर्थं साधयितुं तत्तददृष्टादिसहकारेण ईश्वरेण प्रवर्त्यत' इति `स्त्रियाम्' (4.1.3) इति सूत्रोद्योतोक्त्या च, सांख्यानां मते जगतो मिथ्यात्वानुक्त्या च, अस्ती जगतः सत्यत्वम्, अस्ति च आत्मभेदः सांख्यानां मते इत्यवगम्यते ।

तेन च तदनुयायिभिः वैयाकरणोरपि जगत्सत्यं भिन्नाश्चाऽऽत्मानः, ईश्वरस्तु तेषां नियामकः, उपास्यश्च तेषाम्, अत एवोत्तम इत्यभ्युपेयमिति सूत्रकृतः पाणिनेर्मते आत्मैकत्वादिकल्पनं न युक्तमिति अस्माकं निष्कर्ष इति । इमं शङ्कासमाधाने तृस्थपुरुषस्य तु । जिज्ञासूनां सुबोधाय द्वे एते अन्ववादिषम् ।

                          बौद्धसत्तानिराकरणम्
ननु मञ्जूषायां पदार्तानां बौद्धसत्तासमर्थनावसरे प्रमाणतया `उपदेशेऽजनुनासिक इत् (1.2.2) हेतुमति च (3.1.16) पङ्क्तिविंशति-(5.1.59) तदस्यास्त्यस्मिन्' (5.2.94) इति चतुःसूत्रीभाष्योदाहरणात्, मृगतृष्णोदकादिदृष्टान्तः शास्त्रे उक्तः, प्रपञ्चस्येत्युक्तेश्च सतामसतां च पदार्थानां बौद्धीसत्ता भाष्याभिमता । अतः बुद्दिसत्तासमाविष्टशशवि,ाणादेरिव तथाविधजगतोऽप्यसत्वं च युक्तमिति चेत्, सत्त्यम् । एवंवदना इदमादौ समालोचनीयमायुष्मता, यदि वयं बौद्धसत्तामात्रेण शशश्रृङ्गदृष्टान्तेन च पदार्थानामसत्त्वं वदामः, तदा भवदुक्तदिशा शब्दजप्रतीतिविषयपदार्थत्वाविशे,ात् ब्रझणः स्फोटस्य च बुद्धिसत्तासमाविष्टत्वेन शशविषाणदृष्टान्तेन तयोरपि गगनकुसुमसोदर्यभावः स्यादिति परानुयोगं कथं समाधास्यामः, कथं वा `ब्रझस्फोटयोः सत्यत्वं तदितरस्यासत्यत्वम्' इत्यस्मद्व्यवस्थोपपद्येतेति । किं च--व्यवह्रस्य वस्तुसत्तानिबन्धनत्वे बौद्धसत्तैव तत्र हेतुरिति नानुशासनमाचार्याणामिति बहिःसत्तामादायापि सुकरोो व्यवहारः ।

ननु बहिःसत्ता तावत् न व्यवहारेतिः, घट इत्यनेन सत्ताया अप्यवगमात्, तत्र विधिवैयर्थ्यं ज्ञातस्य निषेधायोगश्चेति `घटोऽस्ति, घटो नास्ति' इति विधिनिषेधायोगात् । बौद्दसत्ताभ्युपगमे तु बौद्धो घटे बहिरस्ति, स बहिर्नास्तीति विधिनिषेधौ युत्येयातामिति चेत्, न । घट इत्युक्ते यथा घटत्वातिरिक्तघटवृत्तिद्रव्यत्वप्रमेयत्वयोर्न भानं तता तद्वृत्तिसत्ताया अपीति अज्ञातत्वात्सत्ताया उक्तदोषानवकाशात् । सत्तापि शब्दवाच्येति तु धटशब्दश्रवणमात्रेण सत्ताविशिष्टघटबोधस्याननुभवात् न युक्तम् । किं च--व्यवह्रं प्रति सत्तायाः कारमत्वनियमेऽपि अन्तःकरणे शशवि,ाणादिसंक्तारस्य सत्त्वे तद्विषयकशाब्दबोध एव मानमिति नागेसेनेव शशविषाणं नास्तीति शक्यं वक्तुम् । किं च--यस्य नास्ति शशविषाणादेर्मुख्या बाझा सत्ता तस्य परं बौद्धसत्तास्वीकार उचित्ः यस्य तु घटादेरस्ति नुक्या बाझ सत्ता तस्य कुतः साऽङ्गीकार्या । बाझसत्ताया मुख्यत्वं मतुप्सूत्रोद्योते स्पष्यमभिहितम् । केचित्तु--सत्ताया एव व्यवह्रकारमत्वं न, एत एव शशविषणादेर्व्यवह्रो दृश्यते इत्याहुः । अस्तु वा मनोरथो भवतां भाष्यमेतद्बौ2द्धसत्तसाधकमिति, अथापि नैतद्भाष्यं घटपटादिपदार्थनां मुक्यां ब्झसत्तां प्रतिषेधति, नापि अर्थक्रियाकारित्वं स्वाभाविकधर्मप्रच्यावने समर्थो भवेत् । अतो बुद्धिसत्तामात्रेणासत्वं जगतः शशविषाणसाम्यादिति वादी स्वगोष्ठ्यां मान्यः । अत्रोदाहृतं सर्वं भाष्यं बहिः सद्विषयकमेव । तत्र-`इहस्थः पाटसिपुत्रस्थं देवदत्तमुपदिशति अङ्गदीकुण्डलीवृत्तबाहुः' इति `उपदेशेऽच्' इति सूत्रभाष्यं हि बहिः सत्ताविशिष्टदेवदत्तादिविषयकमेव `पाटलिपुत्रस्तम्' इत्यद्युक्तेः । अस्ति बुद्धेर्देशकालव्यवहितवस्तुविषयीकरणसामर्थ्यमिति देसान्तरस्थोऽपि पदार्थो बुद्धिविषयो भवतीति भाष्याशयः ।

`हेतुमति च' इति सूत्रस्थं `सतो बुद्धिविषयान्' इति भाष्यमपि पूर्वकालावच्छिन्नसत्ताविशिष्टानेव स्वबुद्धिविषयानाह इत्यर्थकं बहुःसत्ताविशिष्टार्थविषयकमेव । अत एव `सत' इति पूर्वं प्रायुङ्क्त, अन्यथा `बुद्धिविषयान् सत' इति प्रयोक्ष्यत् ।

`पङिक्तविंशति-' इति सूत्रस्थं `समुदाये विंशत्यादयो भविष्यन्ति, संघः, समूहः, समुदाय इत्यनर्थान्तरम्' इत्यादि भाष्यां च न बौद्धसतातासमर्पकमर्थानाम् । अवयवावयविनोः गुणगुणिनोश्च बेदज्ञापकमेव । `गुणस्‌य प्रादान्ये पटस्य शुक्लः, गुणिनः प्रधान्ये शुक्लः पटः इति व्यवहार' इत्यादि तत्सूत्रभाष्यमपि न बद्धिसत्ताज्ञापकं, नापि बहिःसत्ताप्रतिषेधकम् । अत एव मतुप्सूत्रे `गुणचनेभ्यो लुक्, इति लुकं विदधानो वररुचिः `अव्यतिरेकात्सिद्ध इति चेत् दृष्टो व्यतिरेक' इति गुणस्य गुण्यव्यभिचारेण वर्तनात् अभेदादेवशुक्लंः पट इति प्रयोगसिद्दौ लुग्वचवनारम्भो व्यर्थ इति शङ्कां घटस्य शुक्ल इति भेदेन व्यवहारदर्शनेन भेद एवोभयोरिति वचनमारब्धव्यमिति सिद्दान्तितवान् । तत्र भाष्यकृदपि अव्यतिरेकादेव स्द्धमिति कृत्वा लुग्वचनं न प्रत्याचष्टे, एतेन गुणगुणिनोर्व्यतिरेकस्तदुभयसंमत इति प्रतियन्ति । वचनारम्भप्रत्याख्यानयोस्तु नाऽस्त्यधिकारोऽस्मादृशनाम्, अतिसूक्षममपि वस्तु योगिनां प्रत्यक्षगम्यम्, अतो नास्मत्प्रयक्षगौचर इति तन्नास्तीति वक्तं न प्र्यते, उपदेशपरंपरया कार्यदर्शनेन च समस्ति बोला इव दझमाना न लक्ष्यते विकृतिः सन्निपाते । अस्तीति तां वेदान्ते त्रिभावाः सूक्ष्मो हि भावोऽनिमितेन गम्य' इति `वार्तमाने लट्' इतिसूत्रेऽभ्यधायि ।

अस्यार्थः --विसदाहेन तदन्तर्गततन्तवो दझमाना अपि तत्त्वेन यथा न लक्ष्यन्ते तथा एकैकक्षणः, सन्निपाते--कारकलमावेसे विकृतिः क्षणवृत्तिक्रियाविसेषश्च, अतिसूक्ष्मत्वात् न दृश्यते । अस्मद्दर्शानाऽविषयत्वमात्रेण क्षणादिकं नास्तीति न वाच्यमित्याह -- अस्तीति । त्रिभावाः - त्रिषु कालेषु भावः ज्ञानं येषां ते त्रिभावा योगिनः स्थूलसूक्ष्मकालत्रयतादृशकालवृत्तिवस्तुविषयकज्ञानवन्तः, तां-विकृतिं क्रियोपलक्षितसूक्ष्मक्षणादिकं, वेदयन्ते-जानन्ति, स्वार्थेणिच् । कार्यन्यथाऽनिपपत्तिमूलकानुमानेनु उपदेशपरंपरया च सूक्ष्मोऽप्यर्थो गम्यः ज्ञातव्योऽस्माभिरिति । एवं च अस्मदादिप्रत्यक्षागौचरे पदार्थो योगिप्रत्यक्षं प्रमाणमिति बोधयन् तादृशपदार्थो नास्तिति वादोो पदार्थे योगिप्रत्यक्षं प्रमाणमिति बोधयन् तादृशपदार्थो नास्तीति वादो नादरणीयः प्रमाणिकैरिति उपदिशति बगवान् भाष्यकृदिति वेदितव्यम् । अत्र--`ईदृशे स्थले विकल्पाख्यज्ञानमस्माकम्' इति मञ्जूषा तु चिन्त्या । योगिप्रत्यक्षस्य पारमार्थिकसद्विषयत्वेन प्रमाणज्ञानत्वात् विकल्पाख्यज्ञानस्य वस्तुशून्यत्वेन ब्धकाले जायमानत्वेन च प्रमाणान्यवृत्तित्वमिति योगसूत्रभाष्यकारादिभिर्निर्णोत्वेन प्रमाणवृत्तिस्थले तद्विरुद्धविकल्पवृत्तेरङ्गीकारायोगात् ।

`गोविंशतिरानीयतामिति गुणस्य चोदने' इत्यादिना गुणचोदने गुणिनो द्रव्यस्य चोदनाविषयतानिरुपणभाष्यं तु परस्परपरिहारेण अविद्यमानत्वरूपसहचरितत्वसद्भावेनेत्यर्थकम् नत्वभेदेनेति । `अव्यतिरेका' दिति तत्सूत्रभाष्यमपि अक्ताऽव्यभिचरितत्वार्थ कमेव । एवं च -- अवयवावयविनोः गुणगुणिवोष्च स्वरूपतो भेदोऽतिसीक्ष्म इति भाष्यतात्पर्यमिति भाति । अत एव --`तस्य फूरणे डट्' (5.2.48) इति सूत्रे `अन्यत्वादुमयोर्न्याय्यावाक्षीशखानिदर्शनम्' अत् भाष्येऽवयवावयविनोर्भेदेन वार्क्षीतिवत् पञ्चम इत्यादौ प्रकृतिप्रत्ययार्थयोर्भेदात् वृत्तिर्न्याय्येत्याह भाष्यकारः । `वृक्षस्य अवयव' इत्यर्थे `अनुदात्तादेश्च' (4.3.140) इत्यवयोऽर्थेऽञ्‌प्रत्ययः अत्रापि भाष्ये बौद्धसत्तासद्भावे भेदस्याऽवास्तवत्वे च गमकं नोपलभामहे ।

`न सत्तां पदार्थो व्यभिचरति' इति मतुप्सूत्रभाष्यं तु अर्थक्रियाकारिवस्तुसत्तां न व्यभिचरतीत्यर्थकमिति बाझसत्ताविशिष्टवस्तुविषयकमेव, बाझसत एव अर्थक्रियाकारित्वात्, अतो न व्यभिचारः, शशश्रृङ्गादौ अर्थक्रियाकारित्वाभावात्स्य । एतत्सूत्रचतुष्टयप्रदीपोद्द्योतग्रन्थस्तु बालमानसरञ्जकः । एतेन--`बुद्धिव्यवस्थापितार्थनिबन्धनाश्च शब्दाः बुद्धिमेवाऽर्थाकारामुपजनयन्तोऽसत्यपि वास्तवे भेदे तमवगमयन्ति ' इति `पङक्ति-' इति सूत्रे कैयटः, `बद्धिपरिकल्पितार्थाभिधायिन एव शब्दा न बाझपदार्थाभावस्य, शब्दानां बाझपदार्थवाचकत्वाभावस्य चानुक्तेः, इत्युदद्योतः एवमर्थकमञ्जूषाग्रन्थश्च भाष्यविरुद्धः । भाष्ये बाझपदार्थाभावस्य, शब्दानां बाझपदार्थवाचकत्वाभावस्य चानुक्तेः, `घटमानय' इत्यादिशब्दव्यवहारविलयप्रसंगात् । शास्त्रमात्रसिद्धयोः ब्रझस्फोटयोरपि शशविषाणसाम्यापातात् । तस्मात्पुरुषबुद्धिमात्रपरिकल्पितोऽर्थः प्रमाणप्रमितां वस्तुसत्तां न प्रतिबध्नीयात् । बौद्धसत्तास्वूकारेण व्यवहारोपपत्त्यभ्युपयोगी । कीं च असतामपि बौद्धसत्तास्वीकारेण व्यवहारोपपत्त्यभ्युपगमे व्यपदेशिवद्भावाश्रयणम्, `आद्यन्तवदेकस्मिन्' इति सीत्रं च व्यर्थं स्यात्, आद्यन्तत्वयोः, व्यपदेशिवद्भावलभ्यधात्ववयवत्वादेश्च बौद्धसत्तासमाविष्यत्वेन आदित्वादिनिमित्तककार्याणां सुसंपादत्वात् । किं च सर्वसादारण्येन बौद्धसत्ताह्गीकारे असत्पदार्थस्यैवाभावेन सदर्थकत्वे शब्दस्य प्रमाण्यम्, असदर्थकत्वेऽप्रामाण्यमिति व्यवस्थाऽनुपपत्तिः । ईदृशे विषये विकल्पाख्यवृत्त्याश्रयण- च नोपपद्यते । ननु बौद्धसत्तायाः `शशविषाणां नास्ति' इति व्यवहारमात्रप्रयोजकत्वान्नैष दो, इति चेत्, तर्हि बौद्धसतौ मृगतृष्णोदकादेः दृष्यान्तत्वमपि न संभवतीति तद्दृष्टान्तेन जगतोऽसत्त्वस्य दुःसाधत्वेन जगतः सत्यत्वसिद्धिरित्यवेहि । किं च घटादिवस्तुनोो बहिः सत्ता नेति न क्वाप्यवादीदाभाष्यकृदिति मृगतृष्णोदकादिदृष्टान्तोक्तिश्च चिन्त्या । `नेदं रजतम्' इतिवत् `नायं घटः' इत्यादि बाधज्ञानानुदयाच्च नाऽसत्त्वम् । `आगमापायिनोऽनित्याः' (गी.2.14) इति विषयाणामनित्यत्वोक्तेः, `नित्यानित्यवस्तुविवेकः' इत्यभियुक्तोक्तेश्च अनित्यं जगदिति प्रमाणिकः पन्थाः ।

ननु
बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तन्वन्नीतिः ।
शब्देनार्तान्वाच्यान्दृष्ट्वा बुद्दौ कुर्यात्पौर्वापर्यम् ।।

इति `परःसंनिकर्षः संहिता' (1.4.1.9) इति सूत्रभाष्ये बौद्धार्थस्यैव ज्ञानविषयत्वमुक्तमिति मञ्जू,ायां प्रथमपरिच्छेदोक्तेरर्थानां बौद्धत्वं, तस्यैव ज्ञानविषयत्वं च भाष्यसंमतमिति युक्तमिति चेत्, अत्राहः --तत्र भाष्ये स्प,्टमेवमनुक्तेस्तदुभयं न भाष्यसंमतम् । तत्र हि भा,्येऽर्थानां ज्ञानविषयत्वमात्रमभिहितं, न तावता भवदभिमतस्द्धः, नापि काचिद्धानिः परेषाम् । तत्र वागीन्द्रियस्य युगपद्वर्णद्वयोच्चारणसामर्थ्याभावात्, पूर्वर्णनाशेत्तरमेव उत्तरवर्णोत्पत्तेस्च नष्टवर्तमानयोः पौर्वापर्यसंभवेन संनिकर्षाभावात्सूत्रमनुपपन्नमिति `न हि वर्णानां पौर्वापर्यमस्ति' इत्यादिना वर्णाऽनित्यत्ववादिना पूर्वपक्षिते, शब्दानां नित्यत्वपक्षे न दोष इति समाधत्ते बुद्धावित्यादिना । श्लोकार्थमाह भाष्यकृत् ---`बुद्धिविषयमेव शब्दानां पौर्वापर्यम्' इति । इदमाद्यपादार्थविवरणम् । कृत्वाशास्त्रं प्रवर्तितमिति शेषः । के ते शब्दा इत्यत आह-इह च य एव मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति अस्मिन्नर्तेऽयं शब्दः प्रयोक्तव्य इति । इदं भाष्यं द्वितीयतृतूयपादार्थविवरणपरम् । धीरः तन्वन्नीतिरित्यनयोरर्तः -- प्रेक्षापूर्वकारीति । समस्तविषयव्यापनशीलबुद्धिमान्पण्डित इति तदर्थः । भवतीत्यस्य श्लोकस्थकर्तेत्यनेनान्वयः । कर्ता -- प्रयोक्ता भवतीत्यर्तंः । `स पश्यति' इति तृतीयपादार्थविवरणम् । अक्षरार्थः स्प,्टः । अनेन वाच्यान् -- उपदेष्टव्यान् अर्थान्, शब्देन-एतैः शब्दैः बोधयामि इति, दृष्ट्वा-निश्चित्य, यद्वा शब्देन वाच्यानर्तान् एतच्छब्दवाच्योऽयमर्थ इति निश्चित्येत्यक्षरार्थः सूचितः । एतेन, शब्देन सहितानर्थानिति व्याश्यानमपास्तम् । `अस्मिन्नर्तेऽयं शब्दः प्रयोक्तव्य इति पस्यति' इति तु तात्पर्यकथनम् । `अर्तं बुध्वा शब्दरचना' इति न्यायात् अयं शब्दो बोधनीयार्थवाचकः, अयं शब्दोऽत्रार्ते प्रयोक्तव्य इति धीरो निश्चिनोतीति भावः । उक्तं पौर्वापर्यस्य बुद्धिविषयत्वमुपपादयति -- अस्मीन् ताकत् शब्देऽये तावद्वर्णस्ततोऽयं ततोऽयमितीति । अस्ति क्रम इति शेषः । अस्य `इति पौर्वापर्यं बुद्दौ कुर्यात्' इति श्लोकस्थेन संबन्धः । कर्तेति कर्तृपदमद्याहार्यम् । संभावनायां लिङ् । अयं भावः --- शब्दास्तवन्नित्याः क्रमविशिष्टाश्च प्रयोक्तव्यत्वेन बुद्धिविषया इति तद्गतक्रमोऽपि नान्तरीयकतया वक्तृबुद्दिविषयो भवत्येव । ततश्च पौर्वापर्यमपि तद्बुद्दिविषय इति तदेव पौर्वापर्यं सास्त्रप्रवृत्तिप्रयोजकमिति निश्चत्य प्रवर्तितमाचार्यैः शास्त्रमिति ।

ननु स्फोट एव नित्यः शब्दः तत्र तु वर्णक्रमौ न तस्याऽखण्डत्वादित्युक्तम्, तत्कथमेवमुच्यत इति चेत्, न । रेखागवयन्यायेन शास्त्रमनुशासकं शब्दानामिति सिद्दान्तेन रेखास्थानीये व्यञ्जके क्रमसद्भावेन घटशब्देन पटोपस्थीतिवापणाय व्यङ्ग्ये स्फोटे व्यञ्जकगधर्मारोप आवश्यक इति भवतैवोक्तत्वात् तत्रापि वर्णक्रमसद्भावेन व्यङ्ग्ये व्यञ्जके च वर्णक्रमयोः सत्त्वात् । अनेन बुद्धिविषयत्वमेवार्तानामुक्तं न तु तदतिरिक्तबौद्धसत्तेति निर्मत्सरा निपुणधिषणाः प्रतिपद्येरन्निति ।

स्तानिवत्सूत्रे च भाष्यकारः पदार्थानां बौद्धत्वं कण्ठतो नोोो ब्रूते । तत्र हि--- `प्रचीनं ग्रामादाम्रा' इति उपदेशे ग्रामप्राचीदेशे विद्यमानवृक्षसामान्ये प्रसजन्ती आम्रत्वबुद्दिः, तत्रत्येषु न्याग्रोधेष्वपि प्रसत्ता । सा `ये क्षीरिणोऽवरोहवन्तः पृथुपर्णास्ते न्यग्रोदा' इति विसेषोपदेसेन निवर्तते । तत उपदिष्टः पुरु,ः न्यग्रोधे आम्रत्वबरद्धिं न करोतीति उक्तम् । एतद्भाष्येणापि पदार्थो बुद्धिविषयो भवतीत्येव सिध्यति न तु बुद्धिस्थ इति । भाष्ये अपकृष्यमाणानित्यस्य निवर्त्यमानानित्यर्थः, न तु चित्तस्थानपकृष्येति । बुद्धिगतनिवृत्त्युत्पत्त्योर्वस्तुनि आरोप इत्युक्तमुद्द्योते, न तु बुद्धिस्तवस्तुगते अपकर्षोपधाने इति ।

अथोच्येत -- बौद्दार्ताऽनङ्गीकारे `स भूरिति व्याहरत् स बूमिमसृजत' (तै.ब्ता.2.2.4.2)

सर्वेषां तु सनामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च विर्ममे ।। (मनु.9.21)

इति श्रुतिस्मृतिभ्यां भूःशब्दादिभ्यस्तदर्थज्ञानपूर्वमुक्ता भूम्यादिसृष्टिर्नोपपद्येत, सृष्टोः पूर्वं बाझाया भुवोऽभावेन भूःशब्दादिभ्यः सिसृक्षितभूम्यादिपदार्थशक्तिग्रहबोधयोरनुदयात् । बौद्धार्थाङ्गीकारे तु हिरण्यगर्भस्य स्वबुद्धिस्थभूम्यादिपद्र्थे शक्तिग्रहस्तद्विषयकबोधश्च भवतीति सृज्यमानपदार्थज्ञानसद्भावेन श्रुत्याद्युक्तसृष्टिरुपपद्यत इति शक्यते वक्तुमिति सत्यम् । पूर्वकल्पस्थितान् भूम्यादीन् भूःशब्दादिभ्यो विज्ञाय असृजदिति श्रुतिस्मृतितात्पर्येण सृष्टेः पूर्वं बाझार्थाभावेऽपि न सृष्टिकथनानुपपत्तिः । `सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहात् हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसंदानोपपत्तेः' इति `समाननाम-' इति सूत्रे श्रीशङ्कराचार्यादिभिरुक्तत्वेन, `यस्य पूर्वकल्पे यान्यासन् आदौ सृष्ट्यादौ वेदाशब्देभ्य एवावगम्य निर्मम' इति मनुवचनव्याख्यानेन च कल्पान्तरस्थितपदार्थशक्तिग्रहबोधाभ्यां श्रुत्याद्युक्तसृष्टीरुपपन्नेति नेदमर्थस्य बौद्धत्वे प्रमाणं भवितुमर्हति । पतञ्जलिरिदं श्रुत्यादि नागेशोक्तदिशा क्वापि भाष्ये न व्याचष्टे । `शब्द इति चेन्न' (ब्र.सू.1.3.17) `समाननाम-' इति सूत्रद्वयशङ्करभा,्यं, मनुस्मृतिव्याख्यानं चानवलोक्य, तत्रोक्तार्थोऽसंगत इति मत्वा वा एवमभिहितवान्नागेश इति भाति । पण्डिता एव मञ्जूषायां प्रदर्शितप्रकारान्तरेषु प्रतिविधातुमीशत इति न तत्र प्रवर्ते विस्तरभिया ।

केचितु -- शशविषाणआदितुच्छवस्तुविषयकविकल्पाख्यवृत्तिः स्वविषयवस्तुनो न पदवृत्तिविषयतामपेक्षते, देशकालसंबन्धवत एव पदवृत्तिविषयत्वं, तच्छस्य तु तदभावन्न तत्त्वम्, स्पष्टं चेदमद्वैतसिद्धितद्व्याख्यानयोरविद्यानिर्वाच्यत्वनिरूपणप्रकरणे । तत्र हि -- निरुपाख्यत्वमसत्त्वम्, निरूपाक्यत्वस्य पदवृत्त्यविषयत्वरूपत्वात् । देशकालसंबन्धाभावेन तुच्छस्य न पदवृत्तिविषयत्वं, शशविषणादिपदजन्यो विकल्पस्तु न पदवृत्तिसापेक्षः, शब्दप्रमाविपर्ययोरेव तत्त्वादितिभावः' (व्या.चन्द्रिका) इत्युक्तम् । शशविषाणादिशब्दैः शक्तिग्रहाद्यपेक्षामन्तरेणापि बोधो जायते शब्दशक्तिमहिम्नेति `शब्दज्ञान' इति सूत्रतात्पर्यमिति तयोराशयः । एवं च णसतां बौद्धसत्तामन्तरापि निर्वाहात् तेषां तत्कल्पनं मुधैव । उदाहृतमहा भाष्यार्थाऽपर्यालोचनया अद्वैतसिद्ध्यादौ ततोक्तिरिति तु न सहेरन् विपश्चितः । न च, बुद्ध्यतिरिक्तदेशसंबन्धाभाव इति तत्तात्पर्यमिति वाच्यम्, संकोचे कारणाभावात्, एवं कल्पनापेक्षया तत्पथाश्रयणस्य वरत्वात् । न च अत्र वृत्तिज्ञानमन्तरा शाब्दबोध इत्यङ्गीकारे तत्पदजन्यशाब्दबुद्धिं प्रति तत्पदनिरूपितवृत्तिज्ञानं हेतुरिति व्याप्तेपादिकत्वानापत्तिरिति वाच्यम् । अनुरणादिबोधातिरिक्तबोधविषयकत्वकल्पनेनादौष इत्याशयात् । न चैवमपि वृत्त्यभावे प्रातिपादिकत्वानापत्तिरिति वाच्यम् । अनुकरणस्थले सादृश्याख्यसंबन्धेन अनुकार्यबोधकत्वेन अर्थवत्त्वात्प्रातिपदिकत्ववत् शब्दज्ञानोत्तरभाविविकल्पाख्यवृत्तिविषयतासंबन्धेन असदर्थबोधकत्वात् अर्थवत्त्वेन प्रातिपदिकत्वोपपत्तेः ।

किं च, मतुप्सूत्रकैयटोक्तमेवार्थम् `एवं शक्योऽप्यर्थ' इत्या दिना निरूप्य, `सत्तापि शब्दवाच्येति तद्भाव' इत्युक्तत्वेन सर्वमिदं कैयटाबिमतमेव न तु स्वाभिमतमित्यपि वक्तं शक्यम् । न च `बुद्धिस्तपदार्थाङ्गीकर्त्रशय' इति कलायां व्याख्यानात् नागेशस्यापि इष्टमेतदिति जानीम इति कलायां व्याख्यानात् नागेशस्यापि इष्टमेतदिति जानीम इति वाच्यम्, तद्व्याक्यानस्य `तद्भाव' इति अक्षरानुगुणत्वात् । यदि इदं स्वस्येषटं स्यात् तर्हि `सत्तापि शब्दवाच्या' इत्येतावदेवावक्ष्यत् । सर्वोऽपि पदार्तानां बौद्धत्वनिरूपणपरो मञ्जूषाग्रन्थः कैयटोक्तस्यैवोपोद्बलकः । अस्तु वा कलोक्तदिसा नागेशस्यापि संमतमेतदिति, तावतापि न किंचिद्दियते प्रमाणप्रमितप्रपञ्चसत्यतावादिनाम् । एतेनि `बुद्धिव्यवस्थापित-' इत्यादि प्रदीपमुपमुपजीव्य वस्तूनामुक्तं बुद्ध्याकारत्वम्, `प्रतिभासमात्रशरौरस्य मिथ्यावस्तुन' इति म़्जूषोक्तं प्रतिभासमात्रशरीरत्वं च न युक्तमिति बोध्यम्, सूत्रभाष्यकाराभ्यां वस्तुनो बुद्ध्याकारत्वाद्यनुक्तेः । किं च, एवमङ्गीकारे विज्ञानवादिमतप्रवेशापत्तिः । अयं तु वादो निराकृतो व्यासेन द्वितीयस्य द्वितीये चरणे ब्रझमीमांसायाम् । पाणिनिपतञ्जल्योर पि न संमतोऽयं वाद इति विदांकुर्वन्तु सूरयः ।

पदार्थानां बौद्धसत्तां वक्ति न क्वापि भाष्यकृत् ।
बहिःसत्ता नेति तस्मात्सत्यं घटादिकम् ।।
अतोऽसत्त्वं घटादेस्तु वक्तं नार्हन्ति शाब्दिकाः ।
आहुः कैयटभट्टोजिनागेशाद्यस्तु शाब्दिकाः ।।
आश्रित्य मतमन्यषां नैतद्भाष्यकृतो मतम् ।
विमृश्य भाष्यमेवं हि संगिरन्ते मनीषिणः ।।

                   सर्वतन्त्राणामद्वैताङ्गत्वनिराकरणम्

ननु म़ञ्जीषायां `स्थूलसूक्ष्मशरीरातिरिक्तात्मसाधनद्वारा अध्यात्मशास्त्राह्गमित्यासयः, गुर्वादिभिर्वादे तत्त्वनिर्णयार्थं चैतदित्यपि तत्रैवोक्तम् । अनेन अध्यात्मप्रतिपादकाद्वैतशास्त्रातिरिक्तसर्वनन्त्राणामेवंविधत्वं सूचितम्' इति आख्यातार्थवादे वर्तमानत्वनिर्वचनावसरं उक्तत्वेन, अद्वैतस्यैव पारामार्तिकत्वाम्, तदतिरिक्तसांख्यादिसास्त्रोक्तात्मनानात्वादेरमार्तिकत्वं सिध्यति, अतः सांश्योक्तोोो भेदो मायिक एवेति तदनुयायिनां वैयाकरणानामपि मते तस्य तथात्वमेव युक्तमिति चेत्, न । वेदतदनुसारिप्रमाणशरणनाम् `आत्मानं रथिनं विद्धि शरीरं रथमेव च' 9का.1.3.3) एवमेव `अथायमात्मा इदं शरीरं निहत्याऽविद्यां गमयित्वाऽन्यमाक्रममाक्रम्य,' एवमेव....`अन्‌्यन्नवतरं कल्याणतरं रूपं कुरुतं (बृ.4.4.3) `न हन्यते हन्यमाने शरीरे'(गी.2.20, का.उ.2.18) तथा `शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही' (गी.2.22) `अन्तवन्त अमे देहा नित्यस्योक्ताः शरीरिणः' (गी.2.18) `तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्' (ब्र.सू.3.1.1) इति श्रुत्यादिभिरेव देहातिरिक्तात्मविवेकसंबवेन तत्र सांख्यादितन्त्रापेक्षाभावात् तदर्थं तेषामङ्गत्वकल्पनाया आवश्यकत्वाभावात् । किं च, अङ्गाङ्गिभावकल्पनाया मार्जारक्षीरपानन्यायेन क्वापि क्षोणीकोणे स्थित्वा नेतेरे निमील्य स्ववासनामात्रसाहायकेन कल्पितत्वात् । यदि मञ्जीषोक्तोऽङ्काङ्किभावो वास्तवो भवेत्, तदा गौतमादिभिीरपि स्वस्वशास्त्रमद्यात्मबोधकाद्वैतशास्त्राङ्कमित्यनुसंधानपूर्वं प्रणीतं स्यात्, तथात्वे च तेषां तथाविधत्वं शङ्कराचार्यप्रभृतिभिरपि विज्ञातमेव भवेत्, सति तु तेषु तेषां तादृशे विज्ञाने `इक्षतेर्नाशब्दम् (ब्र.1.1.5) ईक्षतिकर्मव्यपदेशात्सः (1.3.13) सामृत्यनवकाशदौषप्रसंग इति चेन्नाऽन्यस्मृत्यनवकाशदोषप्रसंगात् (2.1.1) रचनानुपपत्तेश्च नानुमानाम् (2.2.1) एतेन योगः प्रत्युक्तः (2.1.3) आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च' (1.4.1) इत्यादीनां सांख्ययोगादिसमयदूषणपरतया शंकराचार्यकृतव्याख्यानस्य, तथा `आभास एव च' (2.3.40) इति सूत्रं आत्मबहुत्ववादिनां सांख्यकारणादादीनां मते सर्वेषामात्मनां सान्निध्याविसेषात् एकेनात्मना मनः संयोगस्य नान्तरयीकतया एकस्य सुखित्वे दुःखित्वे च सर्वेषां सुखित्वदुःखित्वे स्यातामिति दोषकथनस्य, तथा `अदृष्याऽन्यमात्' (ब्र. 2.3.41) इत्यादिसूत्रत्रयस्य आत्मबहुत्ववादे अनुपपत्तिनिरूपणपरतया शंकराचार्यकृतव्याख्यानस्य, तथा शंकरचार्यकृतभाष्यरीत्या प्रधानकारणतावदनिरसतात्पर्यकाणां बहूनां सूत्राणाम्, तत्तत्सूत्रशांकरभाष्यस्य च, तथा `एतेन योगः प्रत्युक्तः' (ब्र.सू. 2.1.3) इति योगसास्त्रप्रत्याख्यानपरे सूत्रे `आत्मभेदज्ञानं मुक्तिसाधमिति सांख्ययोगमतम्, आक्मैकत्वविज्ञानं मुक्तिसाधनमिति ब्रझवादिसिद्धान्तविरुद्धमिति । तात्पर्यकवैदिकात्मविज्ञानादन्यत् न निःश्रेयससाधनम् `तमेव' इति श्रुतेः, द्वैतिनो हिते सांख्या योगाश्च नात्मैकत्वदर्शिन इति शांकरभाष्यसाय, तथा -- तत्रैव सूत्रे `तत्कारणं सांश्ययोगाभिपन्नम्' (श्वं.3.7) इति तु प्रत्याख्यातयोगविषयं न, किं तु वैदिकज्ञानध्यानपरम्' इति तयोः श्रौतत्वाभावकथनस्य, तथा तत्रैव सूत्रे `सर्वाणि तर्कपराणि प्रतिवक्तव्यानि' इति `वैशेषिकादीन्यपि तन्त्राणि आत्मभेदपरत्वात् ब्रझवित्सिद्धान्तविरुद्धत्वेन तान्युपेक्ष्याणि' इति सूत्रकृदाशयवर्णनपरशांकरभाष्यस्य, तथा तत्रैव सूत्रे `तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति शङ्कायाम्, उपकुर्वन्तु नाम तत्वज्ञानं तदु वेदान्तवाक्येभ्य एव' इति तर्कपराणां तत्त्वज्ञानसाधनत्वा भावेनोपेक्ष्याण्येवेति वेदान्तशास्त्रातिरिक्तशास्त्राणां निन्दापरशांकरभाष्यस्य, तथा वाजसनेये मैत्रेयीब्राझणे (4.15) अहो अनुमानकौशलं दर्शितमपुच्छशृंगैस्तार्किकबलीवर्दैः' इति संकराचार्यकृतभेदवादितार्किकनिन्दस्य, तता तैत्तिरीयभृगुवल्यां (10.4) शांकरभाष्ये `कपिलकाणादादिविरोध' इति आत्मैत्वस्य सांक्यादिविरोधमाशंक्य `तेषां मूसाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः इति तेषामज्ञानित्वकथनस्य च, तत्तत्तन्त्रकृदभिप्रायानभिज्ञानविजृंभितत्वं स्यात्, यदि सांख्यादीनामद्वैताङ्गत्वं तर्हि अङ्कत्वात्तेषां न तद्विरोध इत्येवावक्ष्यत् तथैव वक्तवेयं च ।

किं च अत्रोक्तरीत्या सर्वशस्त्राणामद्वैतशास्त्राङ्कच्वे प्रथमपरिच्छेद एव प्रपञ्चस्य मायिकत्वनिरूपणावसरे प्रतीयमानभेदपराणां काणादादिशास्त्राणामपि अध्यात्मशास्त्राङ्गतया न तद्विरोध इत्युक्त्यैवेष्टसिद्धौ `कणादादयोऽपि मायिकत्वेन ब्रझभूतत्वेन च ज्ञातस्य प्रपञ्चस्य बोधनीयशिष्याधिकारानुरोधेन मायिकत्वाद्यपलप्य ब्रझतद्वेन ज्ञातपरमाण्वादिभ्यः सृष्टिम्' इत्यादिना तेषां मायिकत्वाद्यपलापकत्वोक्तिर्व्यर्था । न च एवमुक्तिर्मायिकत्वसाधिका तेषामपलापकत्वं विना प्रपञ्चस्य तत्त्वासिद्धेरिति वाच्यम् । यदि मायिकत्वं प्रपञ्चे प्रमाणप्रमितमभविष्यत् तदेयमुक्तिः तत्साधिराऽभवि,्यत् । `असत्यमप्रतिष्ठं त' (गी.15) इति जगतो मायिकत्वनिषेधात्स्यैवाप्रमाणिकत्वेन तदपलापेन अन्यथावादित्वोक्तिः तेषां नि दापर्यवसायिन्येव भवेत् ।

किं च यदि कणादादीनां प्रपञ्चमायिकत्वादिज्ञानं तदा तैरस्मदीयमिदं शास्त्रमध्यात्मप्रतिपादकाद्वैतशास्त्रस्याङ्गम्, इदं सर्वमात्मस्वरूपभूतमेवेति वास्तव एवार्थ उपदेष्टव्यः, तथावादीत्व एव ते आप्ता आचार्यपदभूषिताश्च भवेयुः । यथार्थवादिन एव हि आप्ता आचार्याश्च भवन्ति । `आप्तस्तु यथार्थवक्ता' इति गौतमीयोक्तेः । `अाप्तो नाम-अनुभवेन वस्तितत्त्वस्य तार्त्स्न्येन निस्चयवान् रागादिवशादनन्यथावादी (1.प्र.1.1.4) आप्तत्वं च भ्रमादिदौषराहित्ये सति तत्तत्क्रियाविषये स्वेष्टप्रतिबन्धाऽनिष्टोत्पत्त्युभयानुकूलयत्नाभाववत्त्वम्' (95.15) इति मञ्जूषोक्तेश्च । वस्तुतत्त्वमपलप्य भाषामाणानां यथार्थवक्तृत्वाभावेन अन्यथावाद्त्वेन च स्वेष्टप्रतिबद्धाद्यनुकूलयत्नवन्त एव ते इत्यध्यवसायात् अनाप्ता एवति अविश्वसनीयवचना भवेयुः ।

आचिनोति हि शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमाचरते यस्तु तमाचार्यं प्रचक्षते ।।

इति स्मरणात्, यथार्थतोऽनुभूतशास्त्रार्थोपदेसेन परानपि सदाचारे वर्तयतामेवा वार्यपदार्हत्वेन अनुभूतार्थविरूद्धार्थोपदेष्टारः कथमाचार्यपदभाजो भवेयुः ?

किं च कणादादयः सर्वत्रात्मत्वबुद्धिमन्तस्तां बुद्धिमपलप्य परमाणुकारणतां शिष्येभ्य उपादिशन्निति वदन् प्रष्टव्यः, किं भवानित्थं स्वप्नेऽबध्यत, कणादादय एव भवदन्तिकमेत्य तथाऽवदन् स्वानुभवोऽन्यः उपादिष्टोऽर्थश्चान्य इति । नात्राऽऽद्यः कल्पः शक्य आस्थांतुं, भवन्मते स्वाप्नघटार्बोधोत्तरमर्शनेनाऽसत्त्ववत् अस्याप्यसत्त्वात् । द्वितीयोऽपि कल्पो न तरां घटते । कीर्तिमात्रसेषाणां कणादादीनामद्यत्वे भवदन्तिकागमनासंभवाति प्रथमपरिच्छेदोक्तं च चिन्त्यम् । ततश्च, सांक्ययोगकणादशास्त्राणां नाद्वैतसास्त्राङ्गता । तथावादस्तु स्वाभिमतात्वैतस्य सर्वतन्त्रानुकूल्यसंपादनाग्रहमूलकः ।

अतस्ते,ां स्वातन्त्र्यमेव । तेषु सिद्धान्तितमात्मनानात्वादिकमपि पारमार्थिकमेव न तु मायिकम्, सांख्यादौ तस्य तथात्वकल्पकवचनानुपलम्मात् । पाणिनिस्तु भेदवादीति आवेदितं पूर्वमेव । एतेन `सांख्यशास्त्रानुसारित्वं वैयाकरणस्येति सूचयति' इति स्त्रियामिति सूत्रोद्द्योते वदता नागेशेनापि पाणिनेर्भेदवादिताऽभ्युपगतप्रया, `सांख्यानांम भेदवादित्वेन तदनुसारिणो वैयाकरणस्यापि ततात्वस्य न्यायप्राप्तत्वात् । सांख्यानां भेदवादित्वं तु पूर्वोदाहृतशङ्कगबाष्यात्, `कपिलो हि नाम सर्वात्मदर्शनं नानुमन्यते आत्मभेदाभ्युपगमात्' इत्यादिस्मृत्यधिकरणीयशाङ्करभाष्यादितः सांख्यादिग्रन्थतश्चाऽध्यवसीयते ।

    ननु `तत्त्वाध्यवसाय' इति सूत्रमुपन्यस्य, इदं शास्त्रं व्यर्थमतआहेत्यवतार्य, तत्सूत्रभाष्यमुपन्यस्य `तस्यामवसाथायामित्यादिना तदाशय' इत्यन्तेन सौगतमतखण्डनतात्पर्यकमिदं शास्त्रमध्यात्माङ्गं भवति, `अनेन' इत्यादिना `सर्वतन्त्राणामेवंधत्वं सूचतम्' इति च मञ्जीषायामुपपादनात् सर्वतन्त्राणामद्वैताङ्गचा गौतदमसूत्रभाष्यसंमतेति चेत्, अत्राहुः -- सूत्रकारो भगवान् गौतमः प्रमाणादीनां `तत्त्वज्ञानापदवर्ग' इति प्रथमसूत्रेणाभिधाय तत्राप्यात्मज्ञानं प्रधानं तच्चात्मसंस्कारमपेक्षते, तस्य साधनानि यमनियमादीनि तानि योगशास्त्रात् ज्ञेयनीति, `यमनियमाभ्यामात्मसंस्कारो, योगाच्चाध्यात्मविध्युपायैः' (4.2.46) इति सूत्रेण साधनान्तरमप्याह । तत्र, तदर्थम्-अपर्गार्थम्, योगात् योगशास्त्रात्, अन्यत्स्पष्टम्, इति प्रथमसूत्रार्थः । ज्ञानमात्मविद्य, तद्विद्यैः आत्मविद्याविचक्षणैः, अन्यत्स्पष्टम्, इति द्वितीयसूत्रार्थः । नन्वेवंप्रधानं आत्मतत्त्वज्ञाने वादकथमसूत्रार्थः । नन्वेवंप्रधाने आत्मतत्त्वज्ञाने वादकथयैव सिद्धे, जल्पवितण्डाभ्यां किंकृत्यमित्याक्षेपे, `तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डाभ्यां किंकृत्यमित्याक्षेपे, `तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्' (50) इति सूत्रितवात् । इदं च भाष्ये -- `स्वपक्षरागेण चैके न्यायमतिवर्तन्ते, तत्र -- (तत्त्वेति) अनुत्पन्नतत्वज्ञानामप्रहीणदोवाणां तदर्थं धटमानानामेतत्' इति व्याक्यातम् । न्यायं - सद्विचारनियमम् तदर्थं - तत्तवज्ञानार्थम् । एतत्-जल्पो वितण्डश्चेति द्वयम् । अन्यत् सुगमम् । अयं भावः -- वादे तत्त्वविचारसभायां वा, मतान्तरे कृतादरैः प्रयुक्तकुतर्कनिरसनेन स्वपक्षसंरक्षणं जल्पवितण्डयोः फलमिति । अनेन सूत्रभाष्येण `गौतमीयस्याद्वैताङ्गतेति, सर्वतन्त्राणामेवंविधत्वम् (अद्वैताह्गत्वम्) सूचितम्' इति चार्थलाभः कथमिति विमृशन्तु सुधियः । न च अद्वैतशास्त्रविद्भिः स्वसमयपरिपालनाय जल्पवितण्डयोराश्रयणेन अस्य अद्वैताङ्गत्वमिति तात्पर्यमिति वाच्यम् । सर्वतन्त्रज्ञैरपि स्वस्वसमयरक्षणाय जल्पनितण्डयोराश्रयटणात्सर्वतन्त्राङ्गत्वसिदध्या नागेशमनोरथाऽसिद्धेः । अयं हि तस्य मनोरथः अद्वैतशास्त्रमेकमेव प्रधानम्, इतरत्सर्वं तदङ्गतयाऽप्रधानमिति । अंशेन उपकारे विसिष्टस्य शास्त्रस्य सर्वेषां च तन्त्राणामङ्गताकल्पनं कथं युक्तं भवेत्, उपकारमात्रेण अप्राधान्यं कथं सिध्येत् ष। न हि लोके उपकुर्वति पुरूषे अप्राधान्यं कल्पयन्ति प्राज्ञाः । अशेनोपकरमात्रेणाङ्गतासिद्धौ अद्वैतशास्त्रमपि अंशेनाऽन्योोपकारकं भवतीति शक्यं वक्तुमिति तदप्यन्‌यस्याङ्गं भवेदिति तदिषिटटासिद्धिः ।

किं च, `नन्वेवं तेन सिद्धमिदं शास्त्रं व्यर्थम्' इति `तत्त्वाध्यवस्य' इति सूत्रवतरणम्, तन्मतखण्डनतात्पर्यकमिदं शास्त्रम्' इति सास्त्रप्रयोजनकथनं चायुक्तम् । `तत्त्वाद्यवसाय' इति सूत्रस्य शास्त्रप्रयोजनकथनं चायुक्तम् । `तत्त्वाध्यवसाय' इति सूत्रस्य शास्त्रयोजनकथनं चायुक्तम् । `तत्त्वाध्यवसाय' इति सूत्रस्य शास्त्रप्रयोजननिरूपणायाऽप्रवृत्तेः । भाष्यकृदादिभिः तताऽव्याख्यानात्, प्रत्युत प्रथमसूत्रभाष्ये च `तदवसानो तत्त्वज्ञानफलो वादः, तत्पालवनार्थं जल्पवितण्डे, तद्विशेषौ जल्पवितण्डे तत्त्वाध्यवसायसंरक्षणार्थमित्युक्तम्' इति जल्पवितण्डाप्रयोजनपरतयैव व्याख्यातत्वाच्च ।

किं च, `तदर्थम्' इति सूत्रे योगपदं वेदान्तानामप्युपलक्षणमिति न सुक्तम्, वेदान्तत्वेन सर्वाभिमतायां वैयासिक्यां चतुर्लक्षण्यां यमनियमस्वरूपानुरूपणात् । यद्यपि मञ्जूषातः नागेशस्याभिमतमद्वैतवेदान्तशास्त्रं परमार्थसाराख्यमिति सिध्यति, तथापि तत्रापि न यमनिपमादिस्वरूपणं पस्यामः । अतोऽफलमुपलक्षणं कथनम् । ननु, आत्मज्ञानं वेदान्तादेव भवतीति तदप्यध्येयमिति, बोधनमुपलक्षणफलमिति चेत्, उच्यते--यमनियमादिवत् आत्मविद्याध्ययनमपि तत्त्वाध्यवसायाह्गमिति सूत्रकृदेव `ज्ञानग्रहण-' इति सूत्रेणाह । तत्र, ज्ञानपदस्यात्मविद्येत्यर्थः । एवं च, तदुपलक्षणत्वोक्तेर्न प्रयोजनम् । अयमत्र नैयायिकसमयः -- आन्विक्षिक्येव आत्मविद्या' इति भाष्योक्तेः, आत्मविद्येतिप्रतीकमादाय आन्वीक्षिकीविद्यैवात्मविद्येति व्याख्यानात् । `प्रमाणप्रमेय-' इति प्रतदमसूत्रे `इहाध्यात्मविद्यायामात्मज्ञानं तत्त्वज्ञानम्' इति वात्स्यायनेन इहेति भाषितत्वात्, सूत्रकृता `तत्त्वज्ञानान्निःश्रेयसाधिगमः' इति प्रथमसूत्रशेषेण स्वीयतन्त्रस्य आत्मतत्त्वज्ञानतत्साध्यमोक्षोभयफलत्वाभिधानाच्च । तस्या एव अध्ययनधारणसततचिन्तनानि कार्याणि तैश्च, अन्यैश्चोक्ताङ्गैः आत्माध्यवसायो भवति तेन चापवर्गः । एवं च, प्रधानमेव गौतमीय तन्त्रं मोक्षसाधनं नान्यस्याङ्गं भवितुमर्हतीति । एवमेव सर्वतन्त्रकृत्सिद्धान्तोऽपीति न सर्वेषामद्वैताङ्कता ।

एतेन, `उपनिषदेव मुख्याध्यात्मविद्या मुख्यं तत्त्वज्ञानमध्या त्मविद्योपनिषदुक्तमेव अन्यत्तु तदुपाय इति स्पष्टमेवोक्तम्' इति उपरितनोऽपि म़्जूषाग्रन्थः चिन्त्यः । ईश्वरसत्त्वे तस्य जगत्कर्तृत्वे च प्रसिद्धां `सदेव सोम्य' (छा.6) `यतो वा' (तै.उ.3) इत्यादिश्रुतीः परित्यज्य अनुमानस्यैव नैयायिकैः शरणीकरणेन तेषामान्वीक्षिक्यामेव अध्यात्मविद्यात्वाद्यवसायो, नोपनिषदि, इत्यवगमेन, तज्झन्ये च ज्ञाने तेषां मोक्षसाधनत्वनिश्चयाभावानुमानात् । औपनिषददर्शनं तैस्त्यक्तमित्यभियुक्तोक्तेस्च । उक्तं च शाङ्करे गीताभाष्ये - `औपनिषदं दर्शनं त्यक्तं वैशेषिकैः, सांख्यार्हतबौद्धैश्च' इति सूत्रभाष्ये च समुदायाधिकरणे (2.2.4) वैशेषिकराद्धान्तो दुर्युक्तियोगात् वेदविरूद्दत्वात् शिष्टाऽपरिग्रहाच्च नापेक्षितव्य इत्युक्तम्, सोऽर्धवैनाशिक इति वैनासिकत्वसाम्यात् सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य' इति । अत्र वैशेषिकपदं गौतमस्याप्युपलक्षणमुभयोरत्रविषये एकामिप्रायात् । अत एव `महद्दीर्घाधिकरणं' (2.2.2) वैशेषिकनैयायिकमतं निराकरेति--`मह' दित्यवतार्य सुरेश्वराचार्य उभयसमयनिराकरणपरतया योजयति स्म ।

किं च,

प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तितः ।।

इति प्रमाणोपन्यासेन सर्वविद्योपकारकत्वमुक्तं गौतमीयन्यायभाष्ये, `आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चतुर्थिका' इति प्रमाणोदाहरणेन त्रय्यां सर्वविद्य अन्तर्भाव्य त्रय्यादिसर्वविद्योपकारकत्वमान्वीक्षिक्या व्याक्यातृभिर्व्यवस्थापितम् । अत अध्यात्मविद्यामात्रोपकारकत्वासिद्धिरिति `तदुपाय' इति चिन्त्यम्, तस्यैवोपाय इति हि तदाशयः । किं च, प्रमाणे आन्वीक्षिक्येव प्रकृतेति अन्यदिति सामान्योक्तिश्चिन्त्या, आन्वीक्षिक्यतिरिक्तस्य प्रमाणेऽश्रवणात् न्यायभाष्यादावनिक्तेश्च । ननु, न्यायमञ्जर्यां मोक्षस्वरूपनिरूपणावसरे `आत्मा वा अरे द्रष्टव्यः' (बृ.उ) इति वेदान्तोक्तदिशा आत्मोपासनेन स्वरूपावस्थानमोक्षसिद्धिरित्युक्तेर्न्यायतन्त्रं वेदान्ताङ्गमिति सिद्ध्या स्वतन्त्रमिदमिति कथमुपपद्यत इति चेत्, सत्यम् -- `वैशेषिकैरोपनिषदं दर्शनं त्यक्तम्' इति शाङ्करभाष्योक्त्या प्राप्तमवैदिकत्वदूषणदूरूकरणाय तथोक्तिः जयन्तस्य । अस्तु वा उपनिषदङ्गत्वम्, तावता नाद्वैतशास्त्राङ्गत्वसिद्धिः, उपनिषदामद्वैतपरत्वाभावात् । जयन्तस्यापि सर्वं शास्त्रं द्वैतपरमेवेति अभिप्रायात् अद्वैताङ्गतायामेव विवादः । किं च, येषु फलश्रवणं तेषां सर्वतन्त्राणां स्वातन्त्र्येण मोक्षफलकत्वमेवेति तत्तन्त्रकृतामभिप्रायः । अत एव शङ्कराचार्यादिनां तत्तन्मतखण्डने प्रवृत्तिः सफला भवतीति ध्येयम् ।

किं च, नागेसामतद्वैतशास्त्रं ब्रझोपादानकारमम्, आत्मनो नानात्वाभावं बाझनामर्थानामसत्त्वं च प्रतिपादयति । गौतमीयादिकं तु तन्त्रं ईश्वरः निमित्तकारणम्, आत्मनो भेदं बाझोऽर्थः सन्निति होधयतीति परमप्रमेये परस्परमस्ति महान् विसंवादः । `तत्तवमसि, ब्रझवित् ब्रझैव भवति' इत्याद्यैक्यपरश्रुतिवाक्यानां साम्ये पर्यवसानमिति तदनुयायिनो मुक्तावलीकारादयः । ततश्च अत्यन्तं विरूद्धयोः शास्त्रयोरङ्गभावत्वं कः प्रेक्षावान् मन्येत ? को वा नैयायिकः समर्थयेत ? अतः गौतमियादितन्त्रस्य अद्वैतशास्त्राह्घत्वं तद्भाष्यत एव सिद्धमित्येतत् उपेक्ष्यमेव । सर्वेषां तन्त्राणामद्वैताङ्गत्वं वयं मन्मह इति यदि वदेत् तदायं धीमान् श्लाघनीयप्रज्ञो भवेदिति संक्षपः ।

नागेशाभिमताद्वैतशास्त्रस्याऽऽस्ते विरोधनम् ।
गौतमीयादितन्त्रैस्तु तस्मान्नैषां तदङ्गता ।।

                    आत्मैक्ये भाष्यसंमतिनिरासः

ननु `कतं द्वावात्मानौ अन्तसात्मा शरीरात्मा' इति `णेरणो यत्कर्म णौ चेत्सकर्ताऽनाध्याने (पा.सू.1.3.67) कर्मवत्कर्मणा तुल्यक्रियः' (पा.सू.3.1.57) इति सूत्रद्वयभाष्येऽन्तःकरणाद्युपाधिभेदेन आत्मद्वैविध्यं वदतोो भगवतः पतञ्जलेस्तदैक्यमनुमतमिति निर्णियत इति चेत्, न तत्सूत्रद्वयभाष्यस्य आत्मैकत्वप्रतिपादनायाप्रवृत्तेः । तथा हि -- तत्राद्ये `हन्त्यात्मानम्' इत्यण्यन्तावस्थायां कर्मभूतस्यात्मनः, `घातयत्यात्मा' इति ण्यन्तावस्तायां कर्तृत्वात् । अनेनात्मनेपदं स्यादिति चोद्ये `आत्मनः कर्मत्वे प्रतिषेधो वक्तव्यः' इति वचनं प्रवृत्तम् । अणौ कर्मण आत्मनो णौकर्तृत्वेऽपि नानेनात्मनेपदमिति तदर्थः । नेदं निषेधवचनं कर्तव्यं प्रथमकक्ष्यायां कर्मणो द्वितीयकक्ष्यायां कर्तृत्वाभावादित्यभिप्रेत्याह--`न वा ण्यन्तस्य कर्तृत्वात्' इति । तदर्थमाह -- अन्यदत्राऽण्यन्ते कर्म अन्यो ण्यन्तस्य कर्ता, कथम् ? `द्वावात्मानौ' इत्यादि । भाष्यार्थः स्पष्टः । अयंभावः--अन्तरात्मा ईश्वरोऽन्तर्यामि, शरीरात्मा जीवः । पतञ्जसिमते ईश्वरः पुरष इति चेतनद्वयमस्तीति योगसूत्रतो लाभात् । इदमन्तरात्मनः कर्म यत् पुरूषस्य (जावस्य) तत्तत्पुण्यपापानुसारेण तत्तदुचितव्यापारे प्रवर्तनम् । तेन स्वकर्मानुसारात्पुरुषः सुखदुःखे अनुभवति, यदा पुण्य कर्म करोति जीवः, तदा अन्तरात्मा तदनुगुणफलप्रदानायजागर्ति । तदेव तस्य सुखम् । यदात् पापकर्म करोति जीवः, तदा अन्तरात्मा तस्मै द्रुझति । तदेव तस्य दुःथमिति । "अन्तरात्मा अन्तःकरणम् । शरीरात्मा तु शरीरमेव `आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रझवर्ष्म च' इति कोसात्" इति व्याख्यानं तु शरीरान्तःकरणयोरुभयोरपि जडत्वात् भोक्तृत्वायोगेन, `सुखदुःखे अनुभवति' इति भष्याननुगुणम् ।

किं च, भाष्ये शरीरमिति वक्तव्ये आत्मेति पदवैयर्थ्यं च । सांख्यमतेऽपि `पुरूषोऽस्ति भोक्तृभावात्कैवल्यार्तं प्रवृत्तेस्च' (सां.का.17) इति पुरूषस्यैव भोक्तृत्वाभ्युपगमात् ।

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरूच्यत् ।
पुरूषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।। (गी.13.20)

इति गीतायां पुरुषस्यैव भोक्तृत्वाधानात् । `सुखादिभ्यः कर्तृवेदनायां' (पा.सू.3.1.18) इति सूत्रेण स्वाश्रयसुखादिविषयकवेदनायाम् (अनुभवे) सुखादिभ्यः क्यङ् विदधता पाणिनिना सुसानुभवयोोरात्मनिष्ठत्वबोधनाच्च । पदवेदना अनुभव इति स्पष्टं मञ्जर्याम् । सुखयते स्वसमवेतं सुकं स्वयमनुभवतीत्यर्थः । एतेन अङ्गसौष्ठवं तद्वैकल्यं च शरीरात्मनः सुखदुःखानुभव इति प्रत्यक्षसिद्धत्वात्, तयोरनुभवस्य चेतनधर्मत्वेन शरीरस्य तदयोगाच्च । `हन्ति आत्मानम्' इत्यस्य पुरूषः अन्यायाचरणेन आत्मानं नाशयति इत्यर्तः घातयत्यात्मेत्यस्य अन्तरात्मा ईश्वरः आत्मानं पुरुषं घातयति, तदीयदुष्कर्ममा अदो नयतीत्यर्थः । `कर्मवत्कर्मणा' इति सूत्रस्थभाष्यस्यापि एवमेवार्थ इति नातमैकत्वे तात्पर्यम् । भाष्यस्य एकस्यत्मन औपाधिकभेदतात्पर्यकल्पनामात्रेण जीवपरमात्मनोर्भेदो नास्तीति अनेन भाष्येण कथं लभ्येत इति विभाव्यतम् ।

यदपि म़ञ्जषायां " सन्विधिसूत्रभाष्ये सर्वस्य चेतनावत्त्वं `शृणोत ग्रावण' इत्यथवादबलेनोक्तम्, ईश्वरोऽपि श्रुत्यादिना जगत्कारणतया अन्तर्यामितया च सिद्ध इति बोदान्तेषु प्रसिद्धं चेतनस्यैक्यमेव लाघवात्" इत्यादिना वृत्तिपरिच्छेदे आत्मैकत्वे भाष्यादितात्पर्यनिरूपणम्, तदपि तत्सूत्रस्थभाष्यवार्तिकतात्पर्यमाच्छाद्यैवज्ञानम्, अक्ताकारणत्वादिसंबन्देन ईश्वरस्य सर्वत्र तत्त्वेन निमित्तेन सर्वस्य चेतनावत्त्वज्ञानम्, नागेशस्यैव महर्षेरपि कात्यायनस्य पतञ्जलेश्चास्तीति वक्तुं शक्यम् । यतस्तेऽपि वेदान्तशास्त्रार्थनिश्रयवन्तः, बहज्ञाः, साक्षात्कृतपरापरा, अवतारपुरूषाः । तत्र वररुचिना यदचेतनेष्बित्युक्तं तत् ज्ञापयति `ईश्वरचेतनेन सर्वस्य चेतनावत्त्वव्यवहार' इति । एतेन शास्त्रेऽपि तेन सर्वस्य तथा व्यवहारो नेत्येवेत्यध्यवसातव्यम् । एवं च, ईश्वरातिरिक्तचेतनसत्त्व एव चेतनावत्त्वव्यवहारः कूलादिषु च ईस्वरान्यचेतनाभावात् इच्छाया अभावेन सनोऽप्राप्तौ सवर्थं तदुक्तिः सार्थिका । एवं च चेतनैक्यं न तत्संमतम् । भाष्कारस्य तु ईश्वरादन्या अस्ति काचिदमिमानिदेवता नाम चेतना । तामादाय कूलादौ चेतनावत्त्वमिति इच्छायां सूत्रेणैव सन्निति तात्पर्यम् ।

इदं तु बोध्यम्--भाष्यमिदं ब्रझविदां मतमास्थाय प्रवृत्तम्, वार्तिकं तु ब्रझवित्सिद्धान्तस्य सर्वैरपरिज्ञानात् तदनाश्रित्य । इदं त तेषां मतम् `आपोऽब्रवन्, मृदब्रवीत्, आप ऐक्षन्त' इत्यादिश्रतिरप्रमाणम् अचेतनानामवादीनां वचनादिकर्तृत्वायोगात् । लोकेऽचेतनघटपटादीनां वचनाद्यनुपलम्भादिति शह्कायाम्, नैवं मन्तव्यम् । अस्ति तावत्सर्वत्र काचनाऽभिमानिदेवता । तामादाय वेदपुरुष एवं व्यवहरति । श्रुतौ आप इत्यादीनां तदभिमानिदेवता इत्यर्थः । सिद्धान्तितं चैवमेव भगवता व्योसेन `अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्' (ब्र.सू.2.1.5) इति सूत्रेण । `मृदब्रवीदित्यादौ मृदाद्यभिमानिदेवतानां वचनादिकर्तृव्यवहारः, सर्वत्राभिमानिदेवतासद्भावस्य च मन्त्रार्थवादेतिहासादिभिः सिद्धत्वादिति सूत्रार्थः । ईश्वरचेतनेन सर्वस्य चेतनतायां नेदमुपपद्येत । एवं च ईश्वरादन्या अमिमानिदेवतानाम काचनास्तीति ईश्वरैकचेतनवादो ब्रझवित्सिद्धान्तविरुद्धः । सन्सूत्रे च भाष्ये कण्ठत ईश्वरचेतनेन चेतनावत्त्वादित्यनुक्त्या अभिमानिदेवतया चेतनात्त्वादित्येवार्थः सनसूत्रभाष्यस्य, ब्रझवित्सिद्धान्तत्यागे कारणभावात् । `दामहायनान्ताच्च' (पा.सू.4.1.1.7) इति सूत्रे उत्क्रमणं वा अपक्रमणं वा, दाम च अचेतनम्, अचेतनेष्वपि चेतनवदुपचारो दृश्यते, स्त्रस्तान्यस्य बव्धनानि, स्त्रस्यन्ते चास्य बन्दनानि' इति गच्छतीति लोकव्यवहाकानुसारेणेति बोध्यम् । अबाधितलोकव्यवहारस्य शास्त्रेऽपि आश्रयणमविरुद्धमिति सूचनाय लोकव्यवहारानुसारेणैव तत्रोपपत्तिः कृता । तत्र भाष्ये पूर्वपक्षवाक्यगतचेतनावत्पदं कर्मारब्धदेहावच्छिन्नप्राणिपरम् । नागेशस्तु ब्रझवित्सिद्दान्तविरुद्धभाषी विज्ञानवादपक्षपातीति पुरस्तान्निरूपितम् । अतस्तदुक्तिरविश्वसनीया । किं च, अस्य चेतनैक्ये तात्पर्यवर्णनं `महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरमम्' इति `चत्वारि शृङ्गा' इति मन्त्रतात्पर्यवर्णनपरपस्पशाह्रिकभाष्यविरूद्धम्, तत्र साम्यस्यैव फलत्वेनोक्तेः ।

`देवताद्वन्द्वे च' (पा.सू.6.3.26) इतेयधिकारे `दिवो द्यावा', `दिवसश्च पृथिव्याम्', `उषासोषसः' (पा.सू.6.3.29,30,31))' इति त्रिसूत्रीं कुर्वन् पाणिनिः द्युलोकाद्यभिमानिदेवताऽस्तीति अभिप्रैति । न च, त्रिसूत्र्यां `देवताद्वन्द्व' इत्यस्य नानुवृत्तिरिति वाच्यम्, सूत्रत्रयेऽपि कौमुद्यां देव-ताद्वन्द्व इत्युक्तेः,आद्यसूत्रोदाहरणे द्यावाक्षामे इत्यत्र `देवताद्वन्द्वे च' (पा.सू.6.2.141) इति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्योक्तेः, `देवताद्वन्द्वे च' इत्यतः पूर्वंमस्या अकरणाच्च तत्र तदनुवृत्तिसिद्धेः । `नोत्तरपदेष़नुदात्तादावपृथिवीरुद्रपूषमन्तिषु' (पा.सू.6.2.142) इति सूत्रे पृथिवीपर्युदासः, `द्यावापृथिवी जनयन्' इति उदाहरणं च उक्तार्थे मानम् । यद्यभिमानिदेवता न स्यात् तदा `देवताद्वन्द्वे च' इति पूर्वोत्तरपदप्रकृतिस्वरस्याप्रसक्त्या निषेधाप्रवृत्तेः पर्युदासे पृथिवीग्रहणवैयर्थ्यम् । उदाहरणे द्यावादेशाप्रवृत्तिश्च । यदि ईश्वरचेतनेन देवताद्वन्द्वत्वमिति आशयः तर्बि `ईश्वरद्वन्द्व' इत्येव वदेत् । जनयन्निति च अभिमन्यमानवस्त्वपेक्षयेति मन्तव्यम् । एतेन वित्यत्वात् जननासंभवेन एवमुक्तिरयुक्तेति प्रत्युक्तम् ।

किं च, छान्दोग्ये षष्ठे पितापुत्रसंवादे सृष्टिनिरूपणप्रकरणे `तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत, तत्तेज ऐक्षत बहु स्यां प्रजयेय इति तदपोसृजत, ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त' (छा.6.2) इति, तेजःप्रभृतीनामीक्षापूर्वकर्तृत्वव्यपदेशः, `हन्ताहमिमास्तिस्त्रो देवता अनेन जीवेनात्मनाऽनुप्रविस्य' (छा.6.3) इति तेषां देवतात्वेन व्यवहारः, `यः पृथिव्यां तष्ठन्,क य आत्मनि तिष्ठन्' (बृ.5) इत्यादिना पृथिव्यादीनां भगवन्नियम्यत्वोक्तिः, `यं पृथिवी न वेद' इत्यादिना तेषामन्तर्यामिभगवत्स्वरूपस्य अवेदनोक्तिश्च तेजपदावाच्यास्ततदभिमानिदेवता ईश्वरादन्या।सन्तीति बोधयन्ती, चेतननानात्वं च गमयति । तेजः प्रभृतीनां जडानामीक्षणादिव्यापाराद्यसंभव इति सर्वलोकविदितम् ।

`पृथिव्याद्यभिमान्देवता नियमयति नारायणः' इति साङ्करवाजसनेयभाष्यम् । ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाः चेतनावन्तमैश्वर्याद्युपेतं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु वथावायवहारात् । मृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते । `मृदब्रवीत्' इति `भावं तु' (1.3.33) इति सूत्रशांकरभाष्यं चात्रर्थेऽनुकूलम् ।
  
ननु `आत्मानमात्मना हन्ति' इत्यादौ परया कर्तृसज्ञया कर्मसंज्ञाया बाधमाशह्व्य `अहंकारादिविशिष्टात्मभेदमाश्रित्य समाहितं भाष्ये' इति `साधकतमं कतणम्' (पा.सू.1.4.42) इति सूत्रीयमनोरमग्रन्थेन एवंजातीयकसुबर्थप्रकरमस्थमञ्जूषाग्रन्थेन च आत्मोकत्वं भाष्यसंमतमित्यवगम्यत इति चेत्, उच्यते--एकस्य देवदत्तादेरात्मन एकस्यां क्रियायां युगपत्कर्तृत्वकर्मत्वव्यवहारानुपपत्तिः सुकल्पेति भाष्याशयः । अत एव रत्नव्याख्याने भैरवे `सति प्रामाणिके प्रयोगे साधुत्वार्थमियं कल्पनान तु एवं कल्पनया यथेष्टं प्रयोक्तुं शक्यम्' इत्युक्तम् । ततश्च नेदं भाष्यं जीवात्मपरमात्मैक्यसाधकं, नापि शास्त्रसिद्धजीवपरभेदप्रतिषेधकम् । किं च एवमानुपूर्वीकं भाष्यं गवेषणीयम् ।

किं च `मन्यकर्मण्यनादरे विभाषाऽप्राणिषु (पा.सू.2.3.17) अनुविपर्याबिन्भ्यः स्यन्दतेरप्राणिषु (पा.सू.8.3.72) अप्राणिजातेश्चारजावादीनाम्-' (वा) इत्यादौ प्राणिपर्युदासः, `अचित्तहस्तिधेनोष्ठक् (पा.सू.4.1.47) चित्तवति न्त्यम्' (पा.सू.5.1.89) इत्यादावचित्तेत्यादिकथनं च ईश्वरतत्तदभिमानिदेवतेतरकर्मारब्धदेहवतां जीवानां सद्भावं, जीवनानात्वं च बोधयति । ईस्वरेण, अमिमानिदेवतया वा सर्वस्य चेतनत्वे तु सर्वेषामपि प्राणित्वेन चित्तवत्त्वेन च व्यावर्त्याबावेन पर्युदासादेर्वैयर्थ्यं स्पष्टम् । अत एव च--`स्तानेऽन्तरतमः' 9पा.सू.1.1.50) इति सूत्रे, भाष्ये लोष्ठादीनां, वर्णानां चाऽचेतनत्वोक्तिः संगच्छते आत्मनानात्वं मुनित्रयसंमतमिति ज्ञेयम् ।

`द्वा सुपर्णा' (आ.उ.) `स्थित्यदनाभ्यां च' 9ब्र.सू.1.3.7) इति श्रुतिसुत्राभ्यामेकस्मिन् शरीरे जीवेशयोः सहावस्थानोक्तिश्च चेतननानात्वे मानम् । न च औपाधिकभेदमादाय तत्र तथोक्तमिति वाच्यम्, श्रुतिसूत्रयोरौपाधिकभेदपरत्वे गमकादर्शनात् । तस्याऽगतिकगतित्वात्, शुद्धस्य ब्रझण उपाधिसंबन्धस्य दुर्वचत्वाच्च । ततश्च ईश्वरेण चेतनेन सर्वस्य चेतनावत्त्वमित्यर्थमुपवर्ण्य आत्मैकत्वे भाष्यतात्पर्यवर्णनं सर्वप्रमाणविरुद्धम्, अबादरायणीयम्, अपाणिनीयं चेति तत्त्वमिति ।

णेरणौ कर्मवत्सूत्रभाष्यान्न ब्रझजीवयोः ।
अभिदासिध्यतीत्येतत् सप्रमाणं प्रपञ्चितम् ।।
सर्वस्य चेतनावत्त्वं न भवेदीश्वरेण तु ।
इति श्रुत्यादिमानेन निस्चिन्वन्ति विपश्चितः ।।

                  सृष्टेरिच्चापूर्वकत्वनिरूपणम्

यदुक्तं--`(ईश्वरस्य) सिसृक्षाभावेऽपि भगवतो मायापुषौ प्रादुर्भवतः ' इति स्फोटवादारम्भे, तदपि न युक्तम्, उदाहृतछान्दोग्ये `तन्मनोऽकुरुत आत्मन्वीस्याम् (बृ.3.2.1) सोऽकामयत द्वितीयो मे आत्मा जायेत (बृ.3.2.4) तपरा चीयते ब्रझ ततोऽन्नमभिजायते (आ.1.8) स ईक्षांचक्रे कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि स प्राणमसृजत तस्मै स हावाच प्रजाकामो वै प्रजापतिः स सतोऽतप्यत स तपस्तप्त्वा स मिथुनमुदपादयते (ष.प्र.1.4) सोऽकामयत बहु स्यां प्रजायेयेति' (तै.उ.2) इत्यादौ च सृष्टेरीक्षापूर्वकत्वश्रवणात् ।

मायासृष्टीः सिसृक्षाया अभावेऽपिति भाषणम् ।
चिन्त्यं सृष्टेः श्रुतौ दृष्टिपूर्वत्वश्रवणाद्विभोः ।।

                    चरकादिसंमतिनिरासः

यदत्र मञ्जूषायां चतुर्थपरिच्छेदि तद्धितवृत्तिनिरूपणे आत्मनानात्वाभावे `देही सर्वगतो झात्मा विभुत्वमत एवलास्य, यस्मात्सर्वगतो महान, नित्यानुबव्धमनसा देहकर्मान्पातिना । सर्वयोनिगतं निद्यादेकयोनावपि स्थितम्' इति पातंजलचरकवचनोपन्यसनं तदपि तस्य न साधकम् । तत्र आद्यवाक्यं जगत्कारणस्यान्तर्यामिणः `अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' (तै.आ.4) इत्यादि श्रुत्युक्तदिशा सर्वव्यापित्वप्रतिपादकम् । द्वितीयं तु -- एकस्मिन्नेव शरीरे जीवो वर्तत इति न, किं तु अनेकदेहारंभककर्मानुसारिणा मनसा अनेरशरीरसंबद्धो भवतीत्यर्थकम् ।

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव झात्मनो बन्धुरात्मैव रिपिरात्मनः ।। (गी.6.5)

मन एव मनुष्याणां करणं बन्धमोक्षयोः ।
उद्धरेन्मनसा जीवं न जीवमसादयेत् ।।

इत्युक्तेः कर्मशात् जीवो नानायोनिषु जायत इति तात्पर्यम् । अतस्तेनापि जीवपरयोरभेदासिद्ध्या न तस्येष्टसिद्धिः । एकयोनौ स्थितमपि कर्मवशात् सर्वयोनिगतं विद्यादिति योजना । अत्रार्थ एव वचनस्य तात्पर्यं `देहकर्मानुपातिना' इति वाक्यस्वारस्यात्, न तु आत्मैकत्वे, ईश्वरस्य च देहारम्भककर्माभावात् ।

योगे पतञ्जलिना `कृतार्थप्रतिनष्टम्' (यो.सू.2.22) इत्यादिना आत्मानानात्वस्य जीवपरयोश्च भेदस्य च सिद्धान्तितत्वेन अस्यापि पतञ्जलिवाक्यस्य तदविरोधेनार्यवर्णनस्य युक्तत्वात् । न च चरकानुरोधेन योगस्याऽर्थवर्णनं युक्तमिति वाच्यम्, योगस्य साक्षात् मोक्षसाधनोपायबोधकत्वेन, मुक्यत्वेन चरकस्य ऐहिकसुखसाधनपरत्वेन, अमुख्यत्वेन, अमुख्यस्यैव मुख्यानुरोधेन योजनायायुक्तत्वात् । उक्तदिशा चरकस्याऽऽत्मैकत्वे तात्पर्याभावात् । योगस्य च श्रीशङ्कराचार्यप्रभृतिभिः आतद्मैकत्वाभावे तात्पर्यस्य सूत्रभाष्ये निर्धारितत्वात् ।

यदपि परमार्थसारेऽपि पतञ्जलिराह --`यद्वद्दिनकर एको विभाति सलिलाशयेषु सर्वेषु । तद्वत्सकलोपाधिष्ववस्थितो भाति परमात्मा' इति चतुर्थे वृत्तिविचारे आत्मैकत्वे प्रमाणोदाहरणं, तदपि अन्तर्यामिपतया नेतुं शक्यम् । किं च आत्मनानात्वपर `कृतार्थम्' इति योगसूत्रविरुद्धम् । सूत्रार्थस्तु अनुपदमेव वक्ष्यते ।

किं च `द्वा सुपर्णा सयुता सखायौ समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पसं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति' (मु.3.1.1)

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उत्यते ।। (गी.15.8)

इत्यादि परःसहस्त्रश्रुतिस्मृतिविरुद्धमात्मैकत्वम् । श्रुतेरयमर्थः - द्वौद्वित्वविशिष्टौ भिन्नाविति यावत्; सुपर्णौ - सुपर्णसरूपौ, सुपर्णो गरुडः, सयुजा - संयुक्तौ, सखायौ -- उपकार्योपकर्तृभावेन सखित्वमुभयोः, उपकार्यो जीवः, उपकर्ता हरिः, समानं वृक्षम् - देहाख्यमेकं वृक्षम्, परिषस्वजाते - आलिलिङ्गतुः तत्र वर्तेते इति यावत्; पिप्पलम् - देहाख्याश्वत्थजन्यफलं कर्मफलंिति यावत्; अन्यः-जीवः, अन्यः - ईशः, अनश्नन् - अभुञ्जानः, नेश्वरस्य कर्मफलभोजनमिति भावः, अभि - सर्वतः, चाकशीति - प्रकाशते । अन्यत्सुगमम् । शङ्कराचार्यास्तु -- सुपर्णौ - सुशोभनपतनौ, पक्षिसामान्याद्वा सुपर्णौ, सखायौ - समानख्यानौ समानाभिव्यक्तिकारणौ । रङ्गरमानुजमुनिस्तु-युज्यत इति युक् गुणः, अपहतपाप्मत्वादिगुणैः, समानगुणौ, सशायौ - सहचरौ, शिष्टं समानम्, इति । श्रुतिरेषा भेदपरैवेति सर्वैर्व्याख्याता । गीतार्थस्तु पूर्वमुक्त- । न च परमार्तसारवचनविरोदात् श्रुतिगीतादि उपेक्ष्यमिति वाच्यम्, पौरुषेयवचनमाश्रित्य श्रुत्याद्युपेक्षाया अयोगात् ।श्रुतिस्मृतिविरुद्धार्थकपौरुषेयवचनाऽनादरणमेव वैदिकानां भूषणम् । सर्वमिदं चरकपरमार्थसारयोः पतञ्जलिकृतत्वाभिप्रायमनुरुध्योक्तम् ।

वस्तुतस्तु तावुभावपि ग्रन्थौ न महाभाष्यकृता महर्षिपतञ्जलिना प्रणीतौ, अतः `चरके पतञ्जलिः' इत्यादि तत्पदोल्लेखेन चरकपरमार्थसारवचनोपन्यसनमयुक्तम् । `पातञ्जलमहाभाष्यचतकप्रतिसंस्कृतैः' इत्यादिना चक्रदत्तादिभिः चरकव्याक्यानारम्भे चरकाख्यवैद्यतग्कन्थस्य चरकऋषिसंस्कृतत्वोक्तेः, वैद्यकग्रन्तेषु क्वापि केनचिदपि पतञ्जलिकगृतत्वस्य वा, तत्संस्कृतत्वस्य वाऽनुक्तेः, आयुर्वेदविदां गौष्ठीषु पतञ्जलिकृतत्वव्यवहारस्यैवाभावात्; भावप्रकाशकृता वैद्यसार्वभौमेन आयुर्वेदविदाचार्यपरंपरां निरूपयता तत्र पतञ्जलेरपरिगणनात्, पतञ्जलिचरिते रामभद्रीये `सूत्राणि योगशास्त्रे वैद्यकशालस्त्रे च वार्तिकानि ततः' इति वैद्यके वाक्तिकाख्यस्य कस्यचिद्ग्रन्थस्यैव पतञ्जलिकृतत्वोक्तेः,

योगेन चितस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मुनिनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ।।

इति पद्ये ग्रन्थनाम्नोऽनिर्देशाच्च चरकादन्यः कश्चन वैद्यको ग्रन्थः पतञ्जलिना कृतः, परमार्तसारस्तु चक्रदत्तादिभिः, धारानगराधिपतिना भोजभूपतिनवा च परिगणितेषु अहिपतिप्रणीतेषु प्रबन्देषु, पतञ्जलिचरिते `योगेन' इति सांप्रदायिके च पद्ये, परिगणितपत़्जलिप्रणीतग्रन्थेषु च अपरिगणितत्वेन अहिपतिना पतञ्जलिना वा न कृत इति विमर्शका वदन्ति ।

ननु चरक इति, शेषनाग इति च, पतञ्जलेरेव नामान्तरं ततः तावुभावपि ग्रन्थौ पतञ्जलिकृतावेवेति निर्धारयाम इति चेत्, उच्यते -- यद्येवं तर्हि महर्षिपतञ्जलेर्महाभाष्यकृतः श्रीशङ्कराचार्यप्रभृतिभ्यः प्रत्नतया, रामकृष्णकृत सांख्यकारिकगावत् परमार्थसारवतचनमपि पतञ्जलिकृतत्वेन आर्षत्वादत्युपादेयताबुद्ध्या स्वसमीहिताऽद्वैतोपष्टम्भकत्वेन अनुवदेयुः । उभयथापि शाङ्करग्कन्थादिषूदाहरणादर्शनेन शेषनागः कश्चिदर्वाचीनो विपश्चित् नागेशभट्टात्प्राचीनः न तु नामान्तरं पतञ्जलेः, न तत्कृतत्वं चरकसारयोरिति मन्यन्ते इति ।

स्यादेतत्, गीतायां भगवान् वासुदेव `उदाराः सर्व एवैते ज्ञाना त्वात्मैनव मे मतम्' (7.18) इत्यत्र आत्मैवेति सावधारणमात्मत्वबोधनात् परमात्मतादात्म्यमेव शा3स्त्रसंमतमिति युक्तमिति, उच्यते -- अधिकारिणो जीवस्य ब्रझतादात्म्यस्य श्रुतिविरुद्धत्वात्, गीतोपक्रमोपसंहारविरुद्धत्वात्, ब्पझमीमांसाविरूद्धत्वात् गीतायाः सादृश्यावधारणतात्पर्यकत्वमेव युक्तम् । यद्वा `निपातानामनेकार्थत्वम्' इत्यभियुक्तोक्तेः, `ततो भूय इव ते' (ई.9.12) इति मन्त्रार्थवर्णनावसरे श्रीशङ्कराचार्यैः `भूय इव' इत्यस्य `भूय एव' इत्यर्थवर्णनात् इवैवशब्दयोः पर्यायत्वावगमेन अत्र एवशब्द ईवार्थक इति नैक्ये गीतायास्तात्पर्यम्, अधिकं `वासुदेव' इति श्लोकार्थनिरूपणानलरे निरूपितमिति ।

फणिपतिरकरोच्चरकं ग्रन्थं परमार्थसारनामानम् ।
इति न ब्रूते कश्चित् वैद्यकविद्वच्छ्रुतिज्ञगोष्ठीषु ।।

अतस्तदनुसारेण कृतं शास्त्रार्थनिर्णयम् ।
नाद्रियन्ते विदो वेदस्मृतिमार्गानुयायिनः ।।

ब्रझण आविद्यकवनानात्वनिरासः

यदपि मञ्जूषायां सुबर्थविचारे कर्तृत्वनिपणप्रकरणे `यद्वा ब्रझण एव अविद्यावशादुपचरितनानात्वभावाभावरूपत्वतत् तद्रूपजन्मनाशव्यवहारोऽपि अविचारितरमणीय इति बोध्यम्' इत्यनेन ब्रझण उपचरितनानात्वादिरथनम्, तदपि आपातरमणीयां कस्यचिदुक्तिमवलम्ब्योक्तम्, तदपि आपतरहमणीयां कस्यचिदुक्तिमवलम्ब्योक्तम्, शास्त्रे क्वापि भगवतोऽविद्यावशत्वस्य तन्निबन्धननानात्वस्य चानुक्तेः । अत उच्छास्त्रमिदं स्वोत्प्रेक्षितमुन्मत्तवचनमिवाविश्वसनीयम् । एतेन मञ्जूषायां प्रथमपरिच्छेदे `तत्तदाकादिविसिष्टब्रझण एव घटादित्वानुक्तेः, तथात्वे विकारित्वप्रसक्तेश्च । नन घटादिविशिष्टत्वेन तत्त्वव्यवहारः न तु तद्रूपत्वेनेति चेत्, एवं चेत् ब्रझातिरिक्तप्रपञ्चाभावसाधनाय प्रवृत्तेन तेन किंसाधितं ? न किमपि । तादृशो गौणव्यवहारः सर्वेषामिष्ट एवेति जितं ब्रझातिरिक्तप्रपञ्चसत्वं तयोर्भेदं च वदद्भिः । रामकृष्णादिरूपेण शास्त्रेषु वारं वारमुपदेष्टं भगवचो नानात्वं च वास्तवमेव । अत उपचरितत्वं न कदापि मन्तव्यं गमकाभावात् ।

इदमत्र बोध्यम्--यथा नागेसः `महाभाष्यविरोदात् वेदभाष्यमुपेक्ष्यम्; वेदे सर्वदा आनुपूर्वो एकैव न केनापि कृतेति नव्यमीमांसकश्रद्धाजड्यं तु तदर्थकस्य तदीयार्षवचयोऽनुपलम्भात्, महाभाष्यकारादिवचनविरोधाच्चानुपादेयम्' इति वेदभाष्यकारादीनां वचनं न विस्वसनीयम् इत्याह । तथा-पाणिनीया अपि सन् सूत्रे आत्माद्वैतदर्शनेन इति कैयटोक्तम्, `अविद्यावशाद्ब्रझण उपचरितनानात्वम्' इति मञ्जूषोक्तम्, अद्वैतपरमञ्जूषावाक्यव्याख्यावसरं `परमसिद्धान्तमाह' इत्यादिीपायिगुण्डे वैद्यनाथोक्तम्, एवंजातीयकं दीक्षितादिवैयाकरणेक्तं च, `ईस्वरेण चेतनेन सर्वं चेतनावत्, अविद्यावशात् ईश्वरस्य नानात्वम्' इति बादरायणेन सूत्रकृता, तदीयसूत्रभाष्यकारैर्बहुभिराचार्यैः, पतञ्जलिना च `शृणोत ग्रवाण' इत्यादौ सिद्धान्ताकरणात् तादृशर्थकपाणिनीयवचनानुपलम्भाच्च अनुपादेयमिति प्रतिवक्तुमर्हन्ति नागेशं प्रति ।

ननु वृत्तिपरिच्चेदे--

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सत्त्विकम् ।।

पृथक्त्वेन तु यज्ज्ञानं नानाभानान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजमम् ।।

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्वार्थवदल्पं च तत्तामसमुदाहृतम् ।। (गी.18.20-22)

इति गीतावचनानां नागेशभट्टाचार्यैः, `आत्माद्वैतविषयकं ज्ञानं सात्त्विकमिति प्रथमवचनार्थः, एतदेवोत्तरळ्सोरद्वयं द्पढ.यतीति आत्मैकत्वपरतया व्याख्यानात्तस्य नानात्वमुपचरितमेवेति वक्तव्यमिति चेत्, अत्र वदन्ति--यद्यभेदे तात्पर्यमाद्यवचनस्य तदा `सर्वभूतेषु' इत्यादिव्यधिकरणनिर्देशासंगतिः, `सर्वभूतानि येनैकं ज्ञानमव्ययमीक्षते । अविभक्तं-भेदरहितम्, एकं भावं-परमात्मानमव्ययमीक्षते, येन ज्ञानेनेति योजनया विभिन्नेषु भूताभिधेषु जीवेषु अन्तर्यामितया वर्तमानं वस्तु एकमेव, तच्च वासुदेवाभिधं ब्रझवेत्यर्थः एतेन जीवानां भेदः, तेषु अन्तर्यामी भगवान् एक एव अन्तर्यामिरूपाणां न भेदः, जीवेभ्यस्तु भेदोऽन्तर्यामिण इति तत्तात्पर्यम् । ईश्वरस्य अन्तर्यामित्वं `सर्वस्य चाहं हृदि संनिविष्टः', (गी.15.15) `इश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' (गी.18.61)इत्याभ्यामुक्तम् । तत्रत्याक्षरस्वारस्याल्लभ्यमर्थमपलाप्य नेत्रे निमिल्य यथेच्छं वर्मितोऽर्थः कथं तत्त्वविदां हृदयंगमः स्यादिति विभाव्यताम् । द्वितीयस्य तु--सर्वभूतेषु पृथक्त्वेन स्थितं भगवन्तं यत् ज्ञानं तथा न वुषयीकरोति, .यद्वा सर्वभूषु अन्तर्यामिरूपं पृथक्त्वेन विषयीकरोति, अन्तर्यामिरूपं भिन्नभिन्नं विषयीकरोतीति यावत्, नानाभावान् सर्वपदार्तान् पृथग्विधान् वेत्ति - विषयीकरोति, तत् ज्ञानं राजसमित्यर्थः । अयं भावः-विष्ण्वन्यचेतनविषयकज्ञानस्य सात्त्विकत्वेऽपि परमात्मविषयजीवप्रतियोगिकभेदज्ञानस्य, अन्तर्यामिरूपाणां भेदज्ञानस्य च, सत्त्वे राजसत्वमेवेति । तृतीयस्य तु जीवे विष्णुत्वज्ञानं, समस्तजगत्वज्ञानं च तामसमित्यर्थः ।

अन्ये तु --ब्रझक्षत्रादिषु आत्मत्वजातिरस्ति इति ज्ञानं सात्त्विकम् । ब्रझणादिषु तत्तदाकारभेदेन आत्माक्यभावानपि भेदन पश्यतीति यत् तज्ज्ञानं राजसम्, अत्यल्पफलं प्रेतभूताद्याराधनरप्मणि सक्तं ज्ञानं तामसमिति श्लोकत्रयतात्पर्यमाहुः अतो नैतानि आत्मैकत्वे प्रमाणानि भवितुमर्हन्ति ।

एकसेय बेरझणोऽविद्यावसान्नानात्वमिष्यते ।
इति नागेशवचनं न युक्तमिति चिन्तितम् ।।

यतोऽविद्यावशाद्ब्रझ बहुभावं समश्नुते ।
इत्येवं पाणिनिर्नाह फणीराडपि नाब्रवीत् ।।

प्रतिभासमात्रशरीरत्वनिरासः

यच्चोक्तं `विज्ञानान्तर्यामी' ित्यादिपरमार्थसारवचनमुपन्यस्य `प्रतिभासमात्रविषयः मायावासनाऽविद्यापदाभिधेयभ्रमसंस्कारमूलकः प्रपञ्च' (म.1) इति तदपि चिन्त्यम् । तस्य प्रामाणिकैः प्रमाणत्वेनाऽपरिगणनात्, पतञ्जलिकृतत्वे च न निश्चय इति पूर्वमेवोपपादितत्वात्, व्यासपाणिनिपतञ्जलिभिरेवमनुक्तेश्च । शास्त्रके क्वचिज्जगत्कारणत्वेनोक्ता माया तु प्रतृतिरीश्वरेच्चा चेति ब्रङविदः प्राङुः । प्रागुदाहृतच्छान्दोग्यश्रुत्यादौ--

मम योनिर्महदब्रझ तस्मिन् गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ।। (गी.14.2)

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।। (गी.13.1)

सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ।।

तदण्डमभवद्धैमं सहस्त्राशुसमप्रभम् ।
तस्मिन्जज्ञे स्वयं ब्रझा सर्वलोकपितामहः ।। (म.स्मृ.1.8.9)

इति । `अन्तस्तद्धर्मोपदेशात्, संज्ञामूर्तो' ति सूत्रभा,्योदाहृतस्मृतिषु च वासनापरपर्यायमायारिक्तपदार्थौरेव प्रपञ्जसृष्टेरभिदानात् । सूत्रकृता च `संज्ञामूर्तो' तदि सूत्रेण त्रिवृत्कृततेज आदीनामेव जगत्कारणत्वोक्तेश्च । प्रतिभासमात्रसरीरत्वे तताविधशिक्तिरजतादेरिव प्रपञ्चस्यार्थक्रियाकारित्वाभावप्रसंगाच्च । परमार्तसारेऽपि घटपटादिप्रपञ्चस्य प्रतिभासमात्रविषयत्बं नाभ्यधायि ।