सामग्री पर जाएँ

वैयाकरणभूषणसारः (काशिकाटीकासहितः)/निपातार्थनिर्णयः

विकिस्रोतः तः
वैयाकरणभूषणसारः (काशिकाटीकासहितः)
निपातार्थनिर्णयः
[[लेखकः :|]]

'आरोपितत्वं नञ्द्योत्य'मित्यनेन नञर्थ एव प्रदर्श्यते न तु समासार्थ इति तात्पर्येणाह__ नञर्थमाहेति । प्रसङ्गसंगतिरत्र बोध्या । अपरशब्दार्थमाह-उत्तरपदार्थस्येति । अत एव = उत्तरपदार्थप्राधान्यानुरोधादेव । आरोपितत्वमिति । आरोपितब्राह्मणत्वादि ब्राह्मणादिपदप्रवृत्ति- निमित्तमित्यब्राह्मणादिपदघटकनञा द्योत्यत इत्यर्थः । अन्यथा = उत्तरपदार्थप्राधान्यविरहे । अतिसर्व इत्यत्रेवेति । सर्वमतिक्रान्त इत्यर्थे 'अत्यादयः क्रान्ताद्यर्थे द्वितीयये'ति समासे पूर्वपदार्थप्रधाने सर्वशब्दस्योपसर्जनतया सर्वादित्वाभावेन यथा न सर्वनामत्वं, तथात्रापि नञो भेदार्थकत्वे सर्वभिन्न इत्यर्थेऽसर्व इत्यादेर्न स्यात्, तथा च-'असर्वे' 'असर्वस्मै' इत्यादिप्रयोगानु- पपत्तिः । नन्वन्योन्याभावार्थकत्वपक्षे तस्य प्रतियोगितासंबन्धेन प्रतियोगिनि विशेषणत्वे उत्तर- पदार्थप्राधान्यं निर्वहेदित्याशङ्क्याह-घटो नास्तीत्यादाविति । तस्य = अभावस्य । विशेष्यताया एवेति । 'घटाभावोऽस्तित्वाश्रय' इत्याकारकस्य, 'घटकर्तृकसत्ताभाव' इत्याकारकस्य वा बोधस्यानुभवसिद्धत्वादित्यर्थः । नन्वेवमघट इत्यादौ घटभिन्न इति बोधस्य सार्वजनीनस्यापलापो न योग्य द्दत्याशङ्क्याह-अस्मद्रीत्या चेति । घटभिन्ने एव धटत्वस्यारोपत्तद्भिन्न इति बोधोऽर्थसिद्धो भवतीति न तदपलापः, तत्र शाब्दत्वप्रतीतिस्तु शब्दप्रयोज्यत्वाद्भ्रमरूपैवेति भावः ।
आरोपविषयत्वमिति । तस्य चोत्तरपदार्थे ब्राह्मणादावन्वयः, आरोपश्च प्रत्यासत्त्या प्रवृत्ति- निमित्तप्रकारक एव प्रतीयते, एवं चा'ब्राह्मण' इत्यत आरोपविषयत्ववान् ब्राह्मण इति बोधः, तथाविधश्च क्षत्रियादिरेवाब्राह्मणशब्देन प्रतिपाद्यते नञ्समभिव्याहारे, समवायसंबन्धसंसर्गकारोप- संबन्धेन ब्राह्मणत्वादिके प्रतीयते इत्यारोपविषयो ब्राह्मण इत्याकारकता बोधस्य नानुपपन्ना, आरोपस्तु कस्यचित् तदानीमपि संभवत्येवेति नासंगतिः । स्पष्टं चेदमत्रैव सूत्रभाष्ये__संदेहा-
द्दुरुपदेशाद्वा' इत्यादिग्रन्थे । अथवा'रोपविषयत्व'मित्यस्यारोपविषयप्रवृत्तिनिमित्तकत्वमित्यर्थः, व्यवहितकाले आरोपसत्त्वेऽपि न क्षतिः, आरोपिततात्कालित्वस्यानिवेशात् । आरोपविषयत्वस्य प्रकारतया ससर्गतया च भानम् राज्ञः पुरुष इत्यत्र षष्ठ्यर्थस्वत्वादेरिव भानमविरुद्धम्, अब्राह्मण इत्यादित आरोपितब्राह्मणत्ववानित बोधः, आरोपितत्वविशिष्टब्राह्मण्यवत्त्वं ब्राह्मणभिन्ने एवेति न ब्राह्मणेऽब्राह्मणशब्दप्रयोगः । लघुभूतमर्थमाह__आरोपमात्रमर्थ इति । नञो द्योत्यो वाच्यो वार्थः, स चोत्तपरदार्थे विषयत्वसंबन्धेन विशेषणमित्याह__विषयत्वं तु संसर्ग इति । तथा चैतत्पक्षे निष्कर्ष इति पूर्वपक्षापेक्षयात्र पक्षे लाघवादित्याशयः । भाष्यसंमतस्तु__'अथवे'त्याद्युक्तः पूर्व एव कल्पः, युक्तश्चाद्योऽन्त्यस्तु न, आरोपस्य नञ्वाच्यत्वेऽपि ब्राह्मणादिपदानां सुख्यार्थत्यागः शबादार्थसंबन्धस्यानित्यतापत्तेः, मध्यमकल्पे तु न दोषः, मुख्यसंबन्धेन ब्राह्मणत्ववत इवारोपितसंबन्धेन तद्वतोऽपि तदर्थत्वात्, नञ् त्वन्त्यार्थे तात्पर्यनिर्णायकः, इदमेव नञो द्योतकत्वं नाम, एतावतैवात्रैकार्थीभावव्यवहारोऽपि, अर्थवत्त्वमपि समासस्योपपद्यते द्योत्यार्थान्तर्भवेण विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वदित्याहुरित्यन्यत्र विस्तरः । अन्ये त्वब्राह्मण इत्यादौ ब्राह्मणादिपदं तादात्म्यसंबन्धेन ब्राह्मणाद्यारोपविषयार्थकं च, नञ् तात्पर्यनिर्णायखः, एवं चा'ब्राह्मणोऽयमित्यत्र ब्राह्मणारोपविषयोऽयमिति बोधः, आरोपितो ब्राह्मण इत्यनेनाप्युक्त एव बोध इत्युच्यते इत्याहुः । अत्रारोपो ब्राह्मणाभिन्नमात्रविशेष्यको ग्राह्यः, तेने'मौ ब्राह्मणा'विति समूहालम्बनारोपविषयत्वस्य ब्राह्मणे सत्त्वेऽपि न ब्राह्मणपदप्रयोगः । ननु नञ उक्तार्थवाचकत्वस्वीकारेऽपि न क्षतिः, आरोपविषयत्वरूपस्यारोपितत्वरूपस्यारोपितत्वस्यारोपस्य वा विषयतासंसर्गेणोत्तरपदार्थे विशेषणत्वसंभवेनाभिमतोत्तरपदार्थप्राधान्यसिद्धेरत आह__द्योत्य- त्वोक्तिरिति । निपातमात्रस्य द्योतकत्वमति सिद्धान्तानुरोधात् तथोक्तिर्न तु प्रकृते वाचकत्व- स्वीकारे काचित् क्षतिरिति भावः । वस्तुत उक्तार्थवाचकत्वपक्षे दोष उक्त एवेति प्रागुक्तार्थ- द्योतकत्वमेव युक्तमिति वदन्ति । 'आरोपितब्राह्मणत्ववा'मिति शाब्दबोधोत्तरं जायमानब्राह्मणभिन्नः क्षत्रिय इति बोधापत्तिः, एवं 'घटो भूतले नास्ती'ति वाक्यादारोपिता घटकर्तृका भूतलाधिकरणिका सत्तेति शाब्दबोधोत्तरं तादृक् सत्ताभावबोधो मानसो भवति, तेन घटकर्तृकभूतलाधिकरणक- सत्ताबोधः प्रतिबध्यते, अभावाज्ञानस्य पूर्ववर्तिन एव प्रतियोगिमतो बुद्धिप्रतिबन्धकत्वमिति न नियमोऽपि तु तत्कार्यसहभावेनापीति नाभावबुद्‌ध्युत्पत्तिसमयेऽपि प्रतियोगिबुद्धयुत्पत्तिः 'वायौ रूपं नास्ति' 'शङखः पीतो नास्ती'त्यादावपि वाय्वधिकरणिका रूपकर्तृका सत्ता आरोपिता, पीतशङ्खकर्तृकारोपितेति बोधः, विशिष्टप्रसिद्धिस्त्वाहार्यैव, रूपकर्तृकसत्तायां वाय्वधिकरणकत्वा- रोपः, पीतकर्तृकसत्तायां शङ्खकर्तृकत्वारोपश्च पर्यवस्यति, आरोपिता तथाविधसत्तेत्येवं बोधवर्णनं तु क्रियायाः प्राधान्यतयैव नञर्थान्वय इत्यभिप्रेत्येति बोध्यम् ।। 40 ।।

का : 41
तदाशयादिति । तस्मिन् = अभावस्य नञर्थत्वे, आशयात् = तात्पर्यात् । साधारण्येनेति । नञ्वाच्यस्याप्यभावस्य तत्तदनुभावनुरोधेन विशेषणत्वं विशेष्यत्वं वा कल्प्यते । द्योत्यार्थस्यापि वा तत एव विशेष्यत्वं च, अथवा वाचकत्वपक्षे विशेष्यत्वं द्योत्यत्वपक्षे विशेषणत्वम्, अत एव द्योत्यार्थानां विशेषणत्वमेवेति 'हेतुमति च'ति सूत्रभाष्यसिद्धनियमभङ्गे नेति बोध्यम् ।
निवृत्तशब्दार्थमाह__अबावार्थक इतीति । अध्यारोपितेति . अध्यारोपितं ब्राह्मण्यं येषु त इत्यर्थः । नञ्वाच्यत्वादिति । लाघवाल्लोकप्रसिद्धया च नञोभाव एव वाच्यः, 'अब्राह्मणो देवदत्त'इत्यादौ देवदत्तादिनानुभूयमानसामानाधिकरण्योपपत्तिस्त्वाश्रये लक्षणयाबोध्येति भावः । अन्यथा = अनुभवस्यान्यथोपपत्तावप्यध्यारोपितब्राह्मण्यकस्य नञ्वाच्यत्वे ।
साद्दश्यादेरपीति । सादृश्यादेरप्यब्राह्मण इत्यादौ प्रतीयमानत्वाद्वाच्यतापत्तेरित्यर्थः । अपापमिति । अत्र पापात्यन्ताभाव इति बोधः । 'अनश्व'इत्यतोऽश्वान्य इति बोधः । 'अब्राह्मण' इत्यत्र सादृश्यघटकतयान्यत्वबोधो न केवलान्यत्वबोध इति विशेषः, सादृश्यं पदार्थान्तरमिति'मते भेदस्य तत्राभावाच्च । 'अनुदरा कन्ये'त्यत्राल्पोदरा कन्येति बोधः । 'अपशवो वा'इत्यत्राप्रशस्ताः पशव इति बोधः । 'अधर्म'इत्यत्र धर्मविरोधी अदृष्टविशेषः प्रतीयते, न तु तद्भिन्नमात्रम् । आर्थिकार्थमिति । आरोपितो ब्राह्मण इत्यादिशाब्दबोधोत्तरं सादृश्यादेर्मानसबोधो भवति, अनुदरेत्यादोवल्पत्वादिहेतुकोदराभावारोपेण नञ्साचिव्यादारोपितोदरबुद्धया तन्मूलाल्पत्वादौ विश्रान्तिः, एवमन्यत्रापि बोध्यम् । नञर्थाभावस्य प्रतियोग्यतिरिक्ते विशेषणत्वे सामर्थ्यादब्राह्मण इत्यादौ समासानापत्तिः, ब्राह्मणादेरन्योन्याभावप्रत्ययानापत्तिश्चेति शङ्कामपनिनीषुराहप्रतीति । ब्राह्मणत्वाद्यवच्छिन्नप्रतियोगितासंबन्धेन भेदस्य विशेषणत्वं, तस्य प्रकारत्वानुभवे तु तदन्तर्भावेण वृत्तिरङ्गीकार्या, भेदप्रतियोगित्वमात्रस्य केवलान्वरित्वेऽपि न तथाविधभेदप्रतियोगित्वस्य तथात्वं, तथा चाब्राह्मण इत्यत्र भेदप्रतियोगी ब्राह्मण इति शाब्दबोधे ब्राह्मणप्रतियोगिकभेदबोध आर्थिकः, 'अघटः पट' इत्यत्र पटवृत्तिभेदप्रतियोगी घट इति बोधः, नञो निपातत्वात्तदर्थे पटस्य नामार्थस्याधेयत्वसंबन्धेनान्वयो न विरुध्यते, 'अघटमानये'त्युक्ते घटस्यानयनं तु न भवति, नञुपादानसामर्थ्यात्, शाब्दबोधोत्तरकाले प्रतीयमानस्य घटप्रतियोगिकभेदवत एव तत्संभवादिति भावः, 'अब्राह्मणो देवदत्त' इत्यादौ 'कथं नाम' इत एवास्वरसाद्वा विशेष्यो वेति पक्षान्तरपरिग्रह इति बोध्यम् । उत्तरपदार्थप्रधानस्य प्रयोजनमाह__अनेकमिति । इदमेवोत्तरपदार्थप्रधान इति पक्षस्य मुख्यं प्रयोजनम् । तथा च भाष्यम्__'इदं खल्वपि भूय उत्तरपदार्थप्राधान्येसंगृहीतम्, किम् ? अनेकमिति, किमत्र संगृहीतम् ? एकवचनम् ।' इति । एकवचननियम इति । अन्येथैकभिन्नस्यानेकत्वाद् द्विवचनबहुवचने एव स्यातां, न त्वेकवचनमित भावः, 'द्वयेकयो'रिति सूत्रं नियमार्थमित्यभिप्रेत्य 'नियम' इत्युक्तम् । ननु पदान्नियमेनैकवचनमित्यर्थो न बोद्धव्यः, तथा सति पक्षान्तरे तदनियमः प्रतीयेत, तच्च न युक्तं, पूर्वपदार्थप्राधान्येऽन्यपदार्थप्राधान्ये चैकवचनासिद्धेः । तत्पुरुषत्वमिति । सति संभवे प्रायिकस्याप्युत्तरपदार्थप्राधान्यस्य तत्पुरुषे औचित्यमिति भावः । पूर्वपदार्थप्राधान्यस्वीकारे पुरुषादिव्यवस्था नोपपद्यते इत्याह-अन्यथेति । इतिवदिति । 'त्वदभावो' 'मदभावोऽस्ती'त्यत्र यथा युष्मदस्मत्सानाधिकरण्याभावान्न मध्यमोत्तमपुरुषौ भवतोऽपि तु प्रथमस्तदेकवचनमेव तद्वदत्वं भवसि, अनहं भवामीत्यत्र युष्मदाद्यर्थस्य नञर्थान्योन्याभावे विशेषणत्वाभ्युपगमे स्यात्, एवमयुवां बवथः, अयूयं भवथेति द्विवचनादिकमप न स्यात्, कर्तुरबावस्यैकत्वादित्यर्थः । स्वमते पुरुषादिव्यवस्थामुपपादयति-अस्मन्मते चेति । चस्त्वर्थे । सामानाधिकरण्यं = युष्मदादिसामानाधिकरण्यम् । युष्मदाद्यर्थगतसंख्याभिधायित्वमेव सामानाधिकरण्यम्, तच्च पूर्वपदार्थप्राधान्यपक्षेऽपि संभवत्येवेति तु न युक्तम् । सामानाधिकरण्यपदस्योक्तार्थबोधने- ऽसामर्थ्यात्, एवमपि वचनव्यवस्थाया अनुपपादनाच्च . प्रतियोगिनीतीति । तथा चाव्राह्यणः क्षत्रिय इत्यतो ब्राह्मणभिन्नः क्षत्रिय इति बोधः । नन्वेमस इत्याद्यसिद्धिरित्याशङ्क्याह__अयं भाव इति । गौणत्वेऽपि = उपसर्जनत्वेऽपि । ननूपसर्जनत्वेऽप्यनेषो ददाति असः शिव' इत्यत्रैतत्त- च्छब्दसत्त्वेन लोपो मा प्रसाङ्क्षीदिति 'अनञ्‌समासे' इति चरितार्थम्, न चैतत्तदर्थगतसंख्या- भिधायिनः सोस्तेन लोपो विधीयते, पूर्वपदार्थप्राधान्ये च न तथाभिधः सुः संभवतीति तद्वैयर्थ्यमिति वाच्यं, षष्ठ्यास्तादृशसंबन्धार्थकत्वे मानाभावात्, अनन्तरपदाध्याहारं कृत्वा एतत्तदोरनन्तरस्य सोर्लोप इत्यर्थस्यैवोचितत्वात्, अन्यत्र तथा व्याख्यातत्वाच्चेत्यत आह__अकोरिति । अकसहितपर्युदासेनाकज्योग्ययोः सर्वनाभ्रोरेव तयोर्ग्रहणमुचितं, संसर्गवद्विप्रयोगस्याप्यशङ्खचक्रो हरिरित्यादौ विशेषावगतिहेतुत्वस्य क्लृप्तत्वादिति भावः । तथा च = उक्तरीत्या सर्वनाम्नोरेव तयोर्ग्रहणे च, इदमुपलक्षणम्-एतत्तच्छब्दमात्रग्रहणेऽपि अतितदित्यादाबुपसर्जने अत्वाभावेन हल्‌ङयादिलोपस्य दुर्वारतया तद्वैयर्थ्यमित्यपि बोध्यम् । ज्ञापकमिति । पूर्वपदार्थप्राधान्येऽप्युत्तर- पदार्थप्राधान्यप्रयुक्तकार्यप्रवृत्तौ ज्ञापकमित्यर्थः, तेन पुरुषवचनव्यस्थापि सिध्यतीति भावः । विशेष्यानुरोधादिति । भिन्नसंख्यविशेष्यासंनिधाने एव समस्यमानप्रधानपदार्थगतसंख्याभिधायकत्वं सुप्र इति-तथाविधविशेष्यसंनिधाने वानेकपदस्य द्विवचनबहुवचनान्ततेति भावः । नन्वेवम'वर्षा हेमन्त' इत्यत्रापि हेमन्तरूपविशेष्यानुरोधादेकवचनान्तत्वप्रसङ्ग इति चेन्न, 'गुणवचनानामाश्रयतो लिङ्गवचनानी'ति भाष्ये एव समाधानात्, तत्र विशेष्यरूपाश्रयस्यैव प्रतियोगितयाश्रयस्य प्रतियोगिनोऽपि ग्रहणात्, एवं च नञ्समासस्य क्कचिदनुयोगिगते लिङ्गसंख्ये क्कचित्प्रतियोगिगते भवत इति स्वीक्रियत इति न दोष इति तात्पर्यात् । ननु 'प्रत्ययः' इत्यस्मिन् 'तव्यत्तव्यानीयरः' इत्यादावनुवर्तमाने वचनविपरिणामवद् 'धातोः' इत्यस्मिन् 'नन्दिग्रहिपचादिभ्यः' इत्यादावनुवृत्ते वचनविपरिणामवच्च सुबुतु शब्देऽपि सोऽस्त्वित्याशङ्क्याह-किंचेति । बहूनामिति । बहूनां बहुव्रीहिर्न सिध्येदिति योजना । औत्सर्गिकं वेति । एकत्वद्वित्वाद्यविवक्षा 'एकवचनं चे'ति विभक्तसूत्रेणैकवचनमिति भावः । उत्तरपदार्थेति । तथा च 'सेव्यतेऽनेकया' इति प्रयोगानुरोधादुत्तरपदार्थप्राधान्यं नास्थेयमेकवचनान्तत्वस्यान्यथासिद्धत्वादिति भावः । अत एव = पूर्वपदार्थप्राधान्यादेव । सूपपादमिति । सुखेनोपपादयितुं शक्यमित्यर्थे ण्यन्तात् पदेः कर्मणि खल्, उत्तरपदार्थप्राधान्ये त्वत्रानेकशब्दस्य बहुवचनान्तत्वानुपपत्तिः, नन्वनेको रथोऽश्वो गज इत्यर्थादेकशेषेण तदुपपत्तिरिति शक्यमेकशोवानेकशब्दस्य सकलार्थप्रत्यायकत्वसंभवेनाने- कानेकशब्दाप्राप्त्यैकशेषावृत्तेः पृथग्विभक्त्यन्तरथादिशब्दे प्रयोगे एकस्यैवानेकपदस्यावृत्त्यान्वय- संभेनैकशेषानुपयोगाच्च, तेषां द्वन्द्वनिर्देशेऽपि समुदिते एकस्यैवान्वयसंभवाच्चेति भावः । ननु 'एतत्तदो'रिति सूत्रेऽनञ्ग्रहणं पूर्वपदार्थप्राधान्येऽपि सर्वनामसंज्ञाया ज्ञापकमुक्तमेवं चास इत्यादेः सिद्धावपि 'अत्वं भवसी'त्यादौ पुरुषव्यवस्थानुपपन्नैवेत्याशङ्कां परिहरति-अत्वं भवसीत्या- दाविति । तथा च = नञो द्योतकत्वे च । भिन्नेन युष्मदर्थेन = त्वद्भिन्नरूपयुष्मच्छब्दार्थेन, पूर्वपदार्थाप्राधान्येप्युत्तरपदार्थाप्राधान्यप्रयुक्तकार्यज्ञापकता नञ्ग्रहणस्येति लक्षणं विनापि
युष्मच्छब्दस्य पुरुषव्यवस्था सिध्यति, अत एव द्योत्यार्थस्य विशेषणत्वमेवेति नियमस्यापि न भङ्ग इति परे । भावनाभाव इति । अस्येति । अस्य-'इति रीत्या बोध' इत्यत्रान्वयः । ननु सकलकारकविशिष्टक्रियाया अभावबोधोपगमेन तस्य भूतलं घटवदिति ज्ञाने प्रतिबध्यत्वं प्रतिवन्धकत्वं च न स्यात्, एवमारोपिता तथाविधसत्तेति बोधाङ्गाकारेऽपि आद्यस्य घटाभावा- विषयकत्वादन्त्यस्याभावमात्राविषयकत्वादिति चेद् भूतलवृत्तित्वाभाववान् घट इति बोधस्वीकार- पश्रेऽप्येतद्दोषसत्त्वात्, यदि वानुभवबलात्तस्य बोधस्योक्तज्ञानप्रतिबध्यत्वप्रतिबन्धकत्वे अङ्गीक्रियेते तर्हि तयाप्युक्तबोधयोस्ते अङ्गीक्रियेते । यदि भूतलवृत्तित्वाभावबोधोत्तरं भूतलाधिकरणकघटा- भावबोधो मानसोऽभ्युपगम्यते तेनोक्तज्ञानप्रतिबन्धादिनिर्वाह इत्युच्येत__तर्हि स एव पन्था अवलम्ब्यते इत्यलमतिविस्तरेण । क्रियायामेवेति । क्रियाग्रहणं गुणस्याप्युपलक्षणम्, अत एव नञ्सूत्रे भाष्ये__'प्रसज्यक्रियागुणौ ततः पश्चान्निवृत्तिं करोतिं' इतयुक्तम् । प्रसज्य = विधाय, तस्य प्रतिषेध इति तदर्थः । तेन गुणाभावबोधेऽपि प्रसज्यप्रतिषेध इति लभ्यते, गुणोदाहरणं तु 'न नः-एकं प्रिय'मिति । न इति षष्ठाबहुवचनान्तम् । अत्र ह्येकप्रियप्रतिषेधेन बहुप्रियप्रतीतिर्भवति । 'न संदेह' इत्यादौ च संदेहात्यन्ता भावः प्रतीयते, संदेहस्य गुणत्वात् । पूर्वोदाहरणे एकत्वं संख्यारूपो गुणस्तत्प्रतिषेधः, नोऽस्माकमेकं प्रियं नेति तदर्थात्, एवं चैकत्वसंख्याप्रतिषेधः पर्यवस्यति । तदुक्तं कैयटेन__'अत्रैकप्रतिषधसामर्थ्यादेव संख्यान्तरयुक्तवस्तुप्रतीतिः' इति । न चास्तीत्यध्याहारादेकविषयकर्तृकसत्ता निषिध्यते इति क्रियोदाहरणमेवैतदिति वाच्यम्, उक्तभाष्य- प्रामाण्याद्‌गुणस्यैव तत्र निषेधानुभव इत्याशयात्, एतन्मते 'क्रियया सह यत्र नञ्' इति प्रसज्य- प्रतिषेधलक्षणेऽपि क्रियाग्रहणं गुणोपलक्षणमिति बोध्यम् । भाष्यानुसारिणस्त्वनञ्‌समाग्रहणमुत्तर- पदार्थप्राधान्ये एव लाघवाज्ज्ञापकं__निवृत्तपदार्थक इति भाष्यस्थकैयटोक्तं व्याख्यानमेव सम्यक्, यत्र उत्तरपदार्थप्राधान्यपक्षे नञा चेदुत्तरपदार्थाभावो बोध्यते तदोत्तरपदार्थप्राधान्यभङ्ग एव स्यादिति नञस्तत्रानर्थकत्वमुपेयमभावप्रतियोगित्वादिकं त्वव्यावर्तकतया न विशेषणं संभवतीत्याशयेन अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं न प्राप्तोतीति शङ्काया अपनयनार्थ 'नैष दोषः' इत्यादिना यथा 'राजपुरुषमानये'त्यत्र राजविशिष्ट एव पुरुषः प्रतीयते, तथेहापि नञर्थविशिष्ट एव व्राह्यणो न केवल इत्यर्थकं 'नञ्विशिष्टस्यानयनं भविष्यति' इत्युक्तम्, ततः 'कः पुनरसौ निवृत्तपदार्थकः इति भाष्यमुपादाय__'निवृत्तः पदार्थो ब्राह्मण्यं यस्मिन्' इत्यस्याभिधानात्, तदग्रिमभाष्यग्रन्थेनाप्यरोपितब्राह्मण्यवान् क्षत्रियादिरेव अब्राह्मण इत्यत्र ब्राह्मणपदार्थो नञ्द्योत्य इत्यस्यैव लाभाच्च, पूर्वपदार्थप्राधान्यपक्षे तु ताभ्यां भिन्नोऽस्तीत्यर्थेऽतौ स्त इति द्विवचनस्या- नापत्तिः, तेभ्यो भिन्न इत्यर्थे ते सन्तीत्यत्र बहुवचनान्तस्य चोत्तरपदार्थप्राधान्यमिति भाष्योक्तपक्षे इष्टस्यैकवचनापत्तिश्च, न चेष्टापत्तिः, पक्षयोः फलभेदापत्त्येष्टापत्तेरयोगात्, 'अनेक'मित्यत्रैक- वचनस्येव प्रकृतस्थले द्विवचनादेरप्युत्तरपदार्थप्राधान्यफलत्वस्योक्तप्रायतयोक्तप्रयोगादभिन्नाश्रयण- स्यायुक्तत्वात् । यद्यपि 'एतत्तदो'रिति सूत्रेऽनञ्यमासग्रहणेन पूर्वपदार्थप्राधान्येऽप्युत्तरप्राधान्य- प्रयुक्तकार्यातिदेशेनातौ स्त इत्यादौ द्विवचनादिरनेकर्मित्यत्रैकवचनस्य च सिद्धिस्तथाप्युक्ता- तिदेशकल्पनापेक्षया लाघवादुत्तरपदार्थप्राधान्यकल्पनैव ज्यायसीति भावः । 'अनेक'मित्यत्रैक- वचनासिद्धिः, सुबिति विशेष्यानुरोधादेकवचनमति तु न युक्तम् । स्वस्मिन्नन्यसंख्यासत्त्वेऽपि विशेष्यानुरोधि वचनमित्याद्यनुशासनाभावात्, न चावर्षा हेमन्त इत्यत्रेवाश्रयतो विङ्गेत्यनेन निर्वाहः,
प्रतियोगिरूपाश्रयस्यात्र ग्रहणात्, प्रतियोगिज्ञानस्याभावज्ञानार्थमाश्रयणात्, अत एवान्य- पदार्थप्राधान्यपक्षवत् पूर्वपदार्थप्राधान्यपक्षेऽवर्षा हेमन्त एत्यत्र हेमन्तरूपाश्रयगतलिङ्गसंख्यापत्ति- रूपो दोषो भाष्ये नोक्तः, 'गुणवचनानामाश्रयतो लिङ्गादिवत् समासार्थः प्रतियोगितया यद् द्रव्यं श्रितस्तस्य लिङ्गादि समासस्ये'त्यङ्गीकारादिति वाच्यम्, गुणवचनाना'मित्यादेरतिदेशस्य स्वीकारे गौरवात्, दृष्टान्तपदार्ष्टान्तिंकयोराश्रयवैलक्षण्यप्रयुक्तवैषम्यापत्तेश्चेति दिक् ।
अन्योन्याभावत्वादीत्यादिपदेन__ध्वंसत्वप्रागभावत्वसंग्रहः । ननु सकलाभावानुगताभावत्वा- वच्छिन्ने शक्तिरुचिता लाघवात्, न त्वत्यन्ताबावत्वादिरूपनानाधर्मावच्छिन्नेषु गौरवादित्या- शङ्क्याह__तत्तद्रूषेण बोधादिति । तत्तद्रूषेण बोधस्यानुभवसिद्धत्वादित्यर्थः । घटप्रागभावध्वंस- समये 'अत्र घटो नास्ती'ति प्रतीत्या घटप्रागभावत्वादिना घटप्रागभावो घटध्वंसश्च विषयीक्रियते, न तु तदत्यन्ताभावत्वावच्छिन्नः, प्रागभावध्वंसयोरत्यन्ताभावेन प्राचीनताक्रिकमते विरोधेन तदा तत्र तदत्यन्ताभावासत्त्वादिति भावः । नव्यतार्किकास्तु__नञोऽत्यन्ताभावत्वावच्छिन्नेऽन्योन्याभावत्वा- वच्छिन्ने एव शक्तिर्न तु प्रागभावत्वाद्यवच्छिन्नेऽपि, मानाभावात्, प्रागभावात्, प्रागभावादिसमये 'घटो नास्ती'ति धीस्तदत्यन्ताभावमेवावगाहते, प्रागभावाद्योरत्यन्ताभावेन सह विरोधे मानाभावादिति वदन्ति । नन्वत्यन्ताभावत्वं नित्यसंसर्गाभावत्वं, तादात्म्यसंबन्धावच्छिन्न- प्रतियोगिताकाभावत्वमन्योन्याभावत्वमेवं चात्यन्ताभावत्वापेक्षयान्योन्याभावत्वं, लध्विति तदवच्छिन्ने एव शक्तिकल्पनमुचितं, न त्वत्यन्ताभावत्वावच्छिन्ने । एवमुत्पत्तिमदभावत्वोत्पत्तिशून्यनाश- प्रतियोग्यभावत्वरूपध्वंसप्रागभावत्वयोरपि अन्योन्याभावत्वापेक्षया गुरुतया तदवच्छिन्नेऽपिं शक्तिकल्पनमनुचितमिति चेन्न, 'नास्ती'त्यादिप्रतीतिसाक्षिकोऽनुयोगिताविशेष एवात्यन्ताबावत्वादिर्न तूक्तरूपः, तथा सति संसर्गाभावत्वस्य दुर्वचन तया तद्‌घटितात्यन्ताभावत्वस्यापि तथात्वापत्तिः, तथा हि__न तावत् संसर्गोरोपजन्यप्रतीतिविषयाभावत्वं संसर्गाभावत्वं, प्रतियोगिसंसर्गारोपस्या- भावलौकिकप्रत्यक्षं प्रत्येव हेतुतयातीन्द्रियाभावेऽव्याप्तेः, नापि संसर्गावच्छिन्नप्रतियोगिताकाभावत्वं तत्, अन्योन्याभावस्यापि तादात्म्यसंबन्धाप्रतियोगिताकतया तत्रातिव्यप्तेः, न च तादात्म्यातिरिक्तत्वं संसर्गे विशेषणं प्रवेश्यमिति नोक्तदोष इति वाच्यं, तथापि संयोगसंबन्धा- वच्छिन्नप्रतियोगिताके संयोगिनोऽत्यन्ताबावेऽव्याप्तेः, संयोगरूपसंयोगितादात्म्यरूपतया तदति- रिक्तत्वाभावात्, एवमन्योन्याभावत्वं न तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वं, संयोगसंबन्धावच्छिन्नप्रतियोगिताकसंयोग्यत्यन्ताभावे, समवायसंबन्धावच्छिन्नप्रतियोगिताके समवाय्यत्यन्ताभावे चातिव्याप्तिरिति दिक्, तद् ध्वनयन्नाह__इत्याद्यन्यत्र विस्तर इति । दीधित्यादिग्रन्थेषु विस्तरो द्रष्टव्य इत्यर्थः ।।
*इति नञर्थनिर्णयः ।।*


ईश्वरमनुभवतीत्यादाविति । 'आदि'पदात् प्रजयीत्यादेः परिग्रहः । 'अनुभवादि'रित्यादिपदं प्रकृष्टजयादिसंग्राहकम् । न धात्वर्थः = न भ्वादिधातुप्रतिपाद्यः । तत्र हेतुमाह__भवतीत्यत्रेति । तथा च न तत्तद्धातुवाच्यः स इत्यर्थः । अन्वयव्यतिरेकाभ्यां लाघवादुपसर्गवाच्य एव सोऽस्त्वित्याशङ्कां परिहरति__नोपसर्गार्थ इति । नोपसर्गवाच्य इत्यर्थः । ननु प्रत्ययानां प्रकृतितत्संभिव्याहृतान्यतरार्थान्वितस्वार्थबोधकत्वमित्येव व्युत्पत्तिः कल्प्यतां, न चैवं गौरवं, धातौ
तत्तदर्थवाचकत्वस्योपसर्गे द्योतकत्वकल्पनापेक्षया लाघवानपायादित्यतो दूषणान्तरमाह__अनु- गच्छतीत्यादाविति । प्रत्ययापत्तेश्चेति । अनुभववाचकत्वेनाभिमतस्यानोः सत्त्वात्, तत्तद्धातुसमभिव्याहारास्यानुभादेस्तत्तदुपसर्गेण बोधे नियामकत्वं कल्प्यत इति चेत्, सत्ताद्यर्थवाचकत्वेन क्लृप्तस्य धातोरेवानुभवादिबोधकत्वमुपसर्गस्य द्योतकत्वं कल्पयितुं युक्तम्, एवं सति 'प्रत्ययाना'मिति व्युत्पत्तिरपि न संकोच्येति भावः । न विशिष्टार्थ इति । नोपसर्ग- विषिष्टतत्तद्धातुवाच्य इत्यर्थः । गौरवादिति । विशिष्टस्योभयरूपत्वेनोभयत्र वाचकत्वकल्पनायां गौरवात् । ननु 'प्रजयती'त्यत्र जयो धातुवाच्यः, प्रकर्ष उपसर्गवाच्य इत्येव किं नोपयत इति चेच्छृणु__प्रकार्षस्य नामार्थतया धात्वर्थजयेनान्वयानुपपत्तेः, नामार्थधात्वर्थयोः साक्षाद्भेदसंबन्धे- नान्वयस्याव्युत्पन्नत्वात्, 'उपसर्गातिरिक्तत्व'स्य नामनि प्रवेशे तु गौरवमिति भावः । ननु वृत्तिं विना कथं तत्रानुभवप्रतीतिरत आह__तथा चेति । उक्तरीत्या धातोरुपसर्गस्य चानुभवाचकत्वासंभवे चेत्यर्थः । विद्यमानत्वादिवाचकस्येति । इदं धातोर्हेतुगर्भविशेषणं, यतो धातुर्विद्यमानत्वादिवाची__'घटो भवती'त्यादौ तदर्थप्रतीतेरतो धातोरेव शक्यसंबन्धरूपलक्षणा संबवति, उपसर्गस्य केवलस्याप्रयोगात् कस्याप्यर्थस्यावाचकत्वेन शक्यसंबन्धरूपा लक्षणा न संभवतीत्यर्थः । नन्वेवमुपसर्गाणां द्योतकत्वप्रवादविरोध इत्याशङ्क्याह__तात्पर्येति । एवं 'प्रतिष्ठते' इत्यत्र गमनत्वेनानुभवसिद्धबोधो धातुलक्षणयैव निर्वाह्यः, उपसर्गस्याभावे शक्तिस्वीकारे तु 'नामार्थधात्वर्थयो'रिति व्युत्पत्तिसंकोचेऽपि गमननिवृत्त्यभावत्वरूपेणैव बोधः स्यान्न तु गमनत्वेनेति बोध्यम् । अन्ये तु__जये क्लृप्तशक्तेर्धातोरेव प्रकृष्टजये शक्तिः, प्रोत्तरजित्वं शक्ततावच्छेदकम्, इयमेवौपसंदानिकी शक्तिरूपसर्गाणामिति गीयते, शक्ततावच्छेदकानुप्रवेश एव हि तत्रोपसंदानपदार्थः, एवमेवानुभवतीत्यादावित्याहुः । स्वार्थेति । आसधातोरुपासनारूपफल- वाचकत्वाभावेन 'स्वार्थे'त्यादिरूपस्य सकर्मकत्वस्यानापत्तेरिति योजना । न च फलव्यधिकरण- व्यापारावाचित्वमेव सकर्मकत्वमस्तु, मास्तु च तत्र स्वार्थत्वनिवेशनं, तथा चोपसनाया उपसर्गवाच्यत्वेऽपि तदात्मकफलव्यधिकरणव्यापारवाचित्वं धातोर्निष्प्रत्यूहमेवेति वाच्यं, यत्किञ्चि- त्फलव्यधिकरणव्यापारवाचित्वस्यातिप्रसञ्जकतया फले स्वार्थत्वप्रवेशस्यावश्यकत्वात् । गौरवा- दिति । इदमुपलक्षणं-विशिष्टस्य भ्वादिगणे पाठाभावाद्धातुत्वानापत्तिः, पाठ कल्प्यत इति चेत्, तथापि द्विर्वचनाडादिव्यवस्थानापत्तिरित्यपि बोध्यम् । उक्तं च वाक्यपदीये__
'अडादीनां व्यवस्थार्थ पृथक्‌त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ।।' इति ।
इदमनुभवतीत्यादावपि विशिष्टस्य वाचकत्वकल्पने वेदितव्यम् । धातोः सकर्मकत्वाभावेऽप्युपास्यत इति भावे लकार उत्पद्यतामित्याशङ्क्याह__द्दश्यत इत्यत्र कर्मणीति शेष इति । भावे लकारे 'हरिहरौ उपास्येते' इतिप्रयोगानुपपत्तिरिति भावः ।। 42 ।।

का : 43
तत्तदर्थवाचकत्वमिति । लौकिकविषयताशालिप्रत्यक्षानुकूलव्यापाराद्यर्थवाचकत्वमित्यर्थः, लक्षणास्वीकारे__'वाचकत्व'मित्यस्य बोधकत्वमित्यर्थोऽवसेयः, शक्तिकल्पने तु यथाश्रुतमेव साधु । क्कचित्तु 'बोधकत्व'मित्येव पाठः । धातूनामनेकार्थत्वादत्र शक्तिकल्पने तुल्यन्यायादनुभवती-
त्यादावप्यनुभवादिवाचकत्वकल्पनं युक्तम्, अत एव पस्पशाह्निके कौस्तुभे__'उपास्यते गुरु'रनु- 'भूयते सुख'मित्यादौ धातोः सकर्मकक्रियापरत्वं विना कर्मणि लकारायोगेन वाचकत्वे स्थिते इत्युक्तम् । 'अलंक्रियत' इत्यत्र शोभानुकूलव्यापारविशेषो धात्वर्थः । अन्यथा = यत्किंचिदर्थे सकर्मकत्वमाश्रित्यार्थान्तरेऽपि सकर्मकत्वे । इत्यत्रापि स्यादिति । तत्रापि 'करोति घट'मित्यत्र कृधातोः सकर्मकत्वस्य दृष्टतया 'वायुर्विकुरुत' इत्यादावपि सकर्मकत्वापत्तिः, न चेष्टापत्तिः, 'वायुना विक्रियते' 'सैन्धवैर्विक्रियत' इति भावे लकारो न स्यादिति भावः । किं च__साक्षात्कारा- दिकर्मत्वेन गुर्वादेरभिधानं लकारेण न स्यात्, साक्षात्कारादेर्धात्वर्थताविरहे धात्वर्थफलाश्रयस्यैव कर्मत्वात्, न च करोतिकर्मत्वसंभावनापि, सिद्धे नित्ये तस्य बाधितत्वात् । अर्थभेदेऽपि शब्दाभेदेन, शब्दभेदेऽपि सकर्मकधातुरूपशब्दसादृश्यमूलकाभेदारोपनिबन्धना वा शङ्का, अर्थभेदाच्छब्दभेद एवेत्युत्तरम् । कोशस्वरसादिति । यद्यप्युपासनादावुपादेः कोशो न शक्तिग्राहकस्तथापि__'साक्षात्प्रत्यक्षतुल्ययोः' 'अलं भूषणपर्याप्तिशक्तिवारणवाचकः' 'वा स्याद्वि- कल्पोपमयोरेवार्थेऽपि समुच्चये' इत्यादि कोशप्रामाण्यात्__'अथ निपाताः__उच्चावचेष्वर्थेषु निपतन्ती'त्यारभ्य निरुक्ते निपातानां तदत्तर्थकत्वस्योक्तेश्चोपासनादकमपि तदर्थत्वेन कल्प्यत इति भावः । धातोर्व्यापारमात्रवाचित्वे पूर्वोक्तरीत्या सकर्मकत्वं न न स्यादित्याशङ्कां निरस्यति__ स्वस्वेति । स्वः = धातुः, स च तद्युक्तनिपातश्च__तयोरन्यतरस्यार्थभूतं तद्वयधिकरणव्यापार- वाचकत्वमित्यर्थः । द्दष्टान्तेति । उभयत्रापि निपातस्य द्योतकतां विनैव गुर्वादेः कर्मत्वनिर्वाहात् । नेदं साधकमिति । उक्तस्थले गुर्वादेर्लकारेण साक्षात्कारादिकर्मत्वेनाभिधानं__साधकं = धातो- विशिष्टार्थकत्वस्य, निपातस्य द्योतकत्वस्य च साधकम् । अन्वयस्यैवेति । अनुकूलतासंबन्धेना- न्वयस्यैवेत्यर्थः, प्रागुक्तकोशादिकं तु द्योत्यार्थमादायोपपन्नमिति भावः । तदन्वयः = कीदृशादि- पदार्थान्वयः । तुल्यसमाधेयत्वादित । तुल्येन = प्रादितुल्येन निरर्थकत्वहेतुना, समाधातुं शक्यत्वादित्यर्थः । नन्वभेदेन नामार्थप्रकारबोधं प्रति निपातभिन्नजन्योपस्थितिः कारणमिति कार्यकारणभावाङ्गीकारान्न दृष्टान्तदार्ष्टान्तिकयोर्दोषं इत्यत आह__अपि चेति । भेदेनान्वया- संभव इति । 'नामार्थयो'रिति व्युत्पत्तिविरोधात्, भेदसंसर्गकनामार्थप्रकारकहेतुभूतप्रत्ययजन्यो- पस्थितेरभावाच्च, द्योतकतापक्षे तु__तत्तत्प्रातिपदिकस्यैव विशिष्टार्थकत्वेन्वयाभावादेव न दोषः । 'विना षष्ठ्यादिक'मित्युक्तिस्तु-'तत्सत्त्वे तदर्थद्वारा नामार्थयोरपि भेदेनान्वयः संभवति, विभक्त्यर्थ- संसर्गद्वारा वेत्यर्थस्य बोधनाय । 'षष्ठ्यादिक'मित्यादिपदं द्वितीयादिसंग्राहकम् । अन्यथा = षष्ठ्यादिकं विनापि नामार्थयोर्भेदसंबन्धेनान्वयाङ्गीकारे,__'नामार्थयो'रिति व्युत्पत्त्यानङ्गीकारे इति यावत् । चेत्येवेति । न तु धवश्च खदिरश्चेति भावः ।। 43 ।।

का : 44
सद्दशेति । 'वाचा' 'निशे'तिवदाबन्तमिति भ्रमवारणायाह-सद्दशेनेति । येन केनचिद्रूपेण सादृश्यस्यासमानाधिकरणेऽपि संभवादाह__समानाधिकरणेनेति । स्वप्रतिपादकशब्दसमानाधि- करणशब्दप्रतिपाद्येन, यद्वा-स्ववृत्तिपदार्थतावच्छेदकसमानाधिकरणपदार्थतावच्छेदकाधिकरणेन, तादात्म्यसंबन्धेन स्वसंबन्धिना वा । एतादृशपदार्थयोरभेदसंबन्धेनान्वयसंभव इत्याशयेनाह- अभेदेनेति । शेषेति । समानाधिकरणेति । समानविभक्तिकयोर्विरुद्धविभक्तिरहितयोर्वा
प्रातिपदिकयोरर्थयोरित्यर्थः । अन्वय एव नास्तीति । पृथगुपस्थितयोरेव संसर्गस्यान्वयरूपत्वादिति भावः । नायं दोष इति । 'धवस्य खदिरस्य चेत्येव स्या'दित्युक्तो दोषो न, व्युत्पत्तेर्विभिन्नोप- स्थितविषयत्वात्, प्रकते च खदिरपदेनैव खदिरसमुच्चयोपस्थापनादिति भावः । अत एव = नामार्थयो'रिति व्युत्पत्तेसंकोचादेव । लाक्षणिकमिति । संकोचे तु लक्षणाकल्पनं निरर्थकमेव स्यात्, घटस्य घटत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन नञर्थाभावेन्वयसंभवात् । ननु घटादिपदस्य घटादिप्रतियोगिके लक्षणामङ्गीकृत्याभेदान्वयोपपादनं नैयायिकानां न युक्तं, तथा सत्यपि 'भूतले न घट' इत्यत्र तात्पर्यसत्त्वे भूतलवृत्तित्वाभावस्य घटेऽन्वयबोधश्च 'दीधितिकारा'दिभिरभ्युपेयते, तथा च तत्र 'नामार्थयो'रिति व्युत्पत्तिभङ्गः । एवं 'चैत्रोन पचती'त्यत्र पाकानुकूलकृत्यबावस्य चैत्रेन्वयात्तत्रापि । एवं 'घटः पटो ने'त्यत्र घटप्रतियोगिकभेदस्याश्रयतासंबन्येन बोधात्तत्रापि । नञोऽभाववल्लाक्षणिकत्वे तस्य मुख्यार्थ परत्वदौर्लभ्यापत्ति, अबावस्य भेदान्वयबोधोपगमेऽपि कार्यकारणभावाधिक्यविरहाद्भेदान्वयबोधोपगम एव समुचितः, स्पष्टं चेदं व्युत्पत्तिवादे । किं चानेकशब्दे समुच्चयशक्तिकल्पनापेक्षया कतिपयनिपातेष्वेव तत्कल्पना युक्तेत्याशङ्क्याह__अपि चेति । रससद्दशानिति । एतेषामु'दिच्या'नित्यत्र विशेषणत्वम् । अत्र करणमिति । अत्र = उदग्देशीयराजोद्धरणक्रियायाम् । सद्दशस्य करणत्वेपीति । उस्रसदृशस्याभेदेन शरविशेषणतया प्रकृतक्रियायां करणत्वसंभवेऽपि । तस्य = सदृशस्य । अनेन = उस्रपदोत्तरवर्तितृतीयाप्रत्ययेन । अप्रकृत्येति । अत्र 'सदृशस्ये'त्यनुषज्यते । तथा च सदृशे-इवार्थे उस्रपदोत्तरवर्तितृतीयया करणत्वं प्रतिपादयितुं न शक्यते, 'प्रत्ययानां प्रकृत्यर्थान्विते'त्यादिव्युत्पत्तिविरोधादिति समुदितार्थः । तृतीयाऽसंभवादिति । करणत्वार्थकतृतीयाया असंभवात्, अव्ययोत्तरं सर्वविभक्ति- लुक्‌संभवेऽपि तस्या निरर्थकत्वात्, विभक्त्यर्थप्रधाननिपातार्थस्य कारकत्वेनान्वयात् । ननु तदर्थस्यापि कारकत्वेनान्वयोऽस्तु, अत एव 'दीधितौ'__'पृथिव्यामेव गन्ध' इत्यत्रैवकारार्थ- स्यान्यस्य लुप्तसप्तम्यर्थाधेयत्वेऽन्वयं स्वीकृत्यापरस्मिन्नेवशब्दार्थेऽभावे तदन्वयमुपगम्य-पृथिवी- समवेतः__पृथिव्यन्यासमवेतो गन्ध इति बोधो वर्णितः, तथा चेवाशब्दोत्तरवर्तितृतीया करणत्वार्थिका संभवत्येवेत्याशङ्क्याह-संभवेवेति । क्षवणेति । कारकत्वेन तदर्थस्यान्वये- ऽसत्त्वार्थकत्वाभावेन निपातत्वाभावेनाव्ययत्वाप्राप्त्या 'अव्यया'दिति लुगनापत्त्या सुप्‌क्षवणं स्यादिति भावः, अत एव दीधितिकारस्यात्र न निर्भर इत्युक्तं प्रामाणिकैः । एवं च एवशब्दस्याधेयत्वार्थकतां स्वीकृत्य पूर्वोक्तबोध उपपादनीयः । 'सुपां च श्रवण'मित्यत्र चकारो भिन्नकम इत्याह-सुपां श्रवणं चेत्यर्थ इति । ननु तस्य सत्त्वार्थकत्वेऽपि स्वरादिपाठादव्ययत्वोपपत्तिः, तथा च न सुपः श्रवणप्रसङ्ग इत्यतो मूले चशब्दः उपात्तस्तत्समुच्चेयमाह-चकारादिति । तथा च तृतीयाया असाधुत्वमपि स्यात्' लिङ्गसंख्याविभेदेपि ह्युपमानोपमेयता, विभक्तिः पुनरेकैव, 'उपमानोपमेययो'रित्यनुशासनं तु मुनिप्रणीतं नास्त्येवेति भावः । साधुत्वमात्रार्थेति । 'न केवला प्रकृति'रिति नियमेन क्रियमाणा विभक्तिर्विशेष्यवाचकपदप्रकृतिकसजातीयैव कर्तुमुचिता, अन्यथा भेदान्वयबोधो न स्यात्, विरुद्धविभक्तिराहित्यादेस्तत्र तन्त्रत्वादिति भावः । 'उस्रसदृशशराणा'मिति त्रिपदो द्वन्द्वः । भेदेनान्वयेति । उस्रपदार्थस्य प्रतियोगित्वसंबन्धेन सदृशपदार्थेकदेशे सादृश्ये, सदृशस्य स्वनिष्ठसादृश्यानुयोगित्वसंबन्धेनन्वयो वाधित इत्यर्थः । एवं च 'घनश्याम' इत्यादौ घनादिपदं घनादिसदृशलाक्षणिकम्, घन इव श्याम इति विग्रहेऽपि तत्तथा, अत एघ
सामानाधिकरण्यात्समासपुंवद्भावावाञ्जस्येन सिद्धौ, अन्यथा वचनसामर्थ्यात्सामानाधि- करण्यविरहेऽपि समासाङ्गीकारे प्रकरणवाधः स्यात्, एवमपि पुंवद्भावानापत्तिः, मृगक्षीरवज्जाति- मात्रविवक्षया प्रयोगमिर्वाहस्तु-गत्यन्तरसत्त्वे न युक्त इति स्पष्टमत्रैव सूत्रे कैयटे । उपमानपरत्वं तु 'घन' इति तटस्थप्रयोगमादाय भूतपूर्वगत्याश्रयेण, घनसदृशार्थकत्वेऽपि विशेषणविधया घनार्थकत्वसत्त्वाद्वा, एवं च घनसदृशः श्याम इत्युभयत्र बोधः, द्योत्यस्यापि सदृशस्यानुभवबला- दिशेष्यत्वाङ्गीकारे क्षतिविरहः, द्योत्यवाच्ययोर्यत्र पृथगुपस्थितिस्तत्रैव द्योत्यस्य वाच्ये विशेषणत्व- मिति नियम इति स्वीकारात्, सादृश्यस्य प्रयोजकधर्मकाङ्क्षायामुस्थितश्यामत्वं प्रयोजकत्वेन मानस बोधविषयो भवतीत्यन्यत्र विस्तरः । उस्राभिन्नेति । उस्रस्य सदृशेऽभेदेनान्वये उस्राभिन्न- सदृशस्य शरेऽभेदस्य वाधः, सदृशस्य पूर्वशरेणाभेदान्वये सदृशाभिन्नशरे उस्रस्यान्वये इत्यर्थः । परे तु__केषांचिन्निपातानामनुभवानुरोधेन वाचकत्वमपि, अत एव नेत्थतोऽभावबोधोऽनुभूयते, कस्येति जिज्ञासा च दृश्यते, अभावशब्दवत्, अपि च__'आ नो दिवो वृहतः पर्वतादा' इत्यादौ पर्वतादर्वागत्याद्यर्थबोधात्तत्र वावकत्वमावश्यकमिति निरुक्ते प्रथमाध्याये तृतीयखण्डे__'उपसर्गा अर्थान् निराहुः' इत्युपक्रमे-' अर्थविकरणम्__आ इत्यवर्गर्थे' इत्यत्र स्पष्टम् । द्योतकत्वे हि दिग्योगलक्षणपञ्चम्यनुपपत्तिस्तस्य विशेषणता च स्यात्, अत एव 'स्त्रिया'मिति सूत्रे स्त्रीत्वस्य प्राधान्ये वचनानुपपत्तिर्द्योतकतापक्षमवलम्बय परिहृता, अत एव 'हेतुमति चे'ति सूत्रभाष्ये द्यातकतापक्षे 'हेतुमती'त्यस्य प्रकृत्यर्थविशेषणत्वमुक्तम् । हरिणाप्युक्तम्__
'निपाता द्योतकाः, केचित् पृथगर्थाभिधायिनः ।
आगमा इव केपि स्युः संभूयार्थस्य वाचकाः ।। इति ।
केचिदित्युभयान्वयी, केचित् पृथगर्थाभिधायिनो वाचकाः, केचिन्निरर्थका इत्याह__आगमा इवेति तदर्थः । 'नामाख्यातमुपसर्गौ निपात' इत्यादिप्रातिशाख्यामप्यत्र मानं बोध्यमिति मञ्जूषायां निरूपितम् । एवं-'शरैरुस्ररिवे'त्यादौ द्योतकतापक्षेप्युस्रसदृशैः शरैरित्यर्थो न युक्तः, उक्तरीत्या द्योत्यार्थकस्य विशेषणत्वनियमात्, किं चैवं 'घनश्याम' इत्यादौ विग्रहे समासे च घनशब्दस्य घनसदृशपरत्वेनोपमानत्वेन बोधकानि__सामान्यधर्मविशिष्टोपमेयवचनैः समानाधिकरणैः सह समस्यन्ते इत्यर्थकेन 'उपमानानि सामान्यवचनैः' इति समासानापत्तिः,तस्योपमेयपरत्वेनोपमान- परत्वाभावात् । भूतपूर्वगतिरपि प्रकृते न निर्वाहिका, विग्रहवाक्येपि तस्योपमेयपरत्वात्, घनेन तुल्य इत्यत्रोपमानपरत्वेपि तस्य विग्रहत्वाभावाद् वृत्तिविग्रहयोरुपमानवाचकत्वग्रहणमुचितं प्रत्यासत्तेः, उक्तवाक्यं तु न विग्रहस्तथा सति 'मृगचपले'त्यत्र पुवत्त्वानापत्तेः । 'दर्शनीया माते'त्यत्र पुंवत्त्ववारणाय वृत्तौ विग्रहे च सामानाधिकरण्यस्य पुंवत्त्वप्रयोजकत्वात्, केवलघनादिशब्दप्रयोगे उपमानत्वविशिष्टवाचकत्वं दुरुपपादमेव, एवं सादृश्यसंबन्धेन पूर्वपदार्थस्योत्तरपदार्थेऽन्वयेऽपि पुंवत्त्वानुपपत्तिः, किं च श्यामशब्दस्योपमेयपरत्वेन घने तदन्वयाभावेन तस्य साधारणधर्मवैशिष्ट्येनैतादितरपरिच्छेदकत्वरूपोपमानत्वानुपपत्तिः । तदुक्तं भाष्ये__'यदि शस्त्रीव श्यामा देवदत्तेति वग्रहस्तदा शस्त्र्यां श्यामेत्येतदपेक्ष्यं स्यात्, यदि 'यथा शस्त्री श्यामा तद्वद्देवदत्ते'ति विग्रहस्तदा देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यादि'ति ।
कैयटोपाध्याया अपि__'न च शब्दस्यावृत्तिरस्ति येनोभयगतं श्यामत्वं प्रतिपादये'दिति, ततः-' एवं तर्हि तस्यामेवोभयं वर्तते' इति भाष्ये सिद्धान्तितम् । तस्याम् = उपमेयायामित्यर्थः । सादृश्यमूलकाभेदाध्यवसायादुपमानशब्दस्याप्युपमेयपरत्वसंभवः, सादृश्यनिर्वाहायोपात्तश्यामादेरेव तन्त्रादिनोपमानेपि संबन्धोङ्गीकार्यः, तात्पर्यवशात् पियदर्शनत्वरूपोनुपात्तधर्मोपि चन्द्रमुखी- त्यादावुपमानिमित्तं भवति, एवं चोपमेये श्रुतः कथमुपमानं न संस्पृक्ष्यतीति, स्पष्टं चेदमत्रैव कैयटे । आवृत्तिसत्त्वेऽपि सामानाधिकरण्यानुरोधादयमेव पक्षो भाष्ये सिद्धान्तितः । श्यामत्वा- देरुभयत्र संबन्धे एतदुत्तरं भाष्ये-श्यामत्वस्योभाभ्यामेव संबन्धात्, बहुभिः सम्बन्धाभावात्, समानानां भावः सामान्यं, तद्वचनत्वं सामान्यवचनत्वं, बह्वन्वितधर्मवचनत्वमिति यावत् । तदभावमाशङ्क्य सिद्धान्तिनोक्तं__'श्यामत्वस्योभयत्र भावादुभयतगुणवाचकत्वाच्च श्यामाशब्दस्य, सामान्यमाह सोपि सामान्यवचनः' इति । अत्रो'भयगतगुणवाचकत्वा'दित्यनेन साधारणधर्मस्यो- भयत्र शाब्दोन्वय इति सूचितम् । वस्तुगत्योभयगुणवाचकत्वार्थकत्वे श्यामत्वस्य बहुष्वपि सत्त्वेन 'नावश्यं स एव सामान्यवचनः' इत्येतद्‌ग्रन्थोऽसंगत एव स्यादिति बोध्यम्, एवं चोपमानश्यामधनाभिन्नः श्यामो देवदत्त इति बोधः, विग्रहे इवशब्द उपमानद्योतकः, समासे त्वेकार्थीभावात्तद्भानम् । काव्यप्रकाशकृतामप्युपमानत्वप्रकारकबोधोनुमतो, यतः__'यथेववा- शब्दास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमानविशेषणानि ते' इत्याद्युक्तं तैः । वस्तुगत्या यदुपमानं तद्वाचकं समस्यत इति सूत्रार्थाभ्युपगमे उक्तभाष्यग्रन्थसंगतिः, प्रकाशग्रन्थसंगतिश्च स्यादिति सुधीभिरुह्यम् ।
'यथा हरिस्तथा हर' इत्यादौ तु भेदकधर्मवद्धाचकतायाः 'प्रकारवचने थाल्', इति सूत्र- स्थाकरग्रन्थसंमततया,यत्प्रकारवान् हरिस्तत्प्रकारवान् हर इति बोधानन्तरं, यत्तच्छब्दभ्यां तयोर्धर्मयोरेकत्वावगमनमेव प्रकारभूतं धर्म निमित्तोकृत्योपमानहर्यभिन्न उपमेयहर इति बोधः, तस्यापि शाब्दत्वम्, आलंकारिकमते लक्षणामूलव्यञ्जनास्थले तत्प्रयोज्यशैत्यपावनत्वादिप्रत्यय- स्येति बोध्यम् । स्पष्टं चेदं तिङर्थविचारे__तिङन्तार्थक्रियाया असत्त्वनिरूपणावसरे मञ्जूषायां, 'यथा सादृश्ये' इति सूत्रे विवरणादौ च । प्राथमिक एव बोधे उपमानत्वप्रकारकत्वं प्राथमिक- बोधेनाभ्युपगतं, तथा सति 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते' इत्यत्रापि प्राथमिकबोधे तथात्वस्वीकारापत्त्या 'न वै तिङन्तेनोपमानमस्ति' इति 'सून्'सूत्र- भाष्यविरोधप्रसङ्गादित्यलमतिविस्तरेण ।
न चैवं 'पुरुषो व्याघ्र इव शूर' इत्यत्राप्युक्ताकारबोधे विशेषणव्याघ्रस्यापि शूरात्मक- विशेषणसापेक्षतया समासानुपपत्तिरित वाच्यं, साधारणधर्मवत्त्वेनेतरपरिच्छेदकत्वरूपोपमानत्वस्य साधारणधर्माशे नित्यसापेक्षत्वेन दोषासंस्पर्शात, प्रधानस्य सापेक्षत्वे भवत्येव समासः, प्रधानेनेकविशेषणसंबन्धसंभवात्, 'देवदत्तो धनी सुन्दरश्चे'तिवत् । एतेन__साधारणधर्मवत्त्वेन परिच्छेद्यत्वरूपोपमेत्वस्यापि वित्यसापेक्षतया प्रधानसापेक्षत्वेपि समासो भवतीत्यर्थे 'सामान्याप्रयोगे' इत्यस्य ज्ञापकतापरभाष्यासंगतिरित्यपास्तम्, कैयटोक्तन्यायसिद्धार्थपरत्वेन भाष्यस्यादोषात्, अथवा नित्यसापेक्षत्वं न समासप्रयोजकं, किं तु गमकत्वमेवेति समर्थसूत्रे भाष्ये स्पष्टम्, निरूपितं च समासवादे मञजूषायाम् । तथा च सापेक्षप्रधानकस्य समासस्य गमकत्वं 'राजपुरुषः सुन्दर' इत्यादौ दृष्टमिति 'पुरुषो व्याघ्र इव शूर' इत्यत्रापि समासप्रसक्तिरिति- तद्वारणाय
'सामान्याप्रयोगे' इति ज्ञापकपरभाष्यस्याप्यत्रैव तात्पर्यमिति, प्राहुरित्यन्यत्र विस्तरः । 45 ।।

का :45
लक्षणाव्याप्त्यापत्तिरिति । उत्तरपदार्थस्योपसर्जनत्वाभावेनास इत्याद्यसिद्धिर्नापादिता । प्राधान्याभावादिति । प्राधान्यस्य विशेषणनिरूपितत्वेन पूर्वपदस्य निरर्कत्वे तदसंभवादिति भावः । उपसर्गस्येति । 'उपसर्ग'पदं निपातमात्रोपलक्षणम्, अत एवात्र 'उपसर्गादिभ्यः' इति वृहद्‌भूषणे उक्तम् । यद्वा-निपातानां प्रागुक्तरीत्या न सर्वेषां द्योतकत्वमपि तु केषांचिदेवेति सूचयितुं 'उपसर्गस्य' इत्येवोक्तम् । द्योत्यमर्थमादायैवेति । उत्तरपदार्थप्राधान्यं नामेतरपदार्थनिष्ठ- विशेषणतानिरूपितविशेष्यताशालिबोधजनकत्वम्, तत्रेतरपदार्थशब्देन वाच्यलक्ष्यद्योत्यात्मकस्त्रि- विधोप्यर्थो गृह्यत इति नोत्तरपदार्थप्राधान्यज्ञानिरिति भावः । तमेव = द्योत्यमेव । अर्थवत्त्वादति । अर्थबोधजनकज्ञानविषयत्वमेव ह्यर्थवत्त्वमर्थवत्सूत्रे निविष्टं, न तु वृत्त्यार्थबोधजनकत्वरूपमतो नानुपपत्तिरिति भावः । नन्वेतदयुक्तं__'धनं' 'वन'मित्यादौ प्रतिवर्णं संज्ञापत्तेः, तेषामप्यर्थबोधजनकज्ञानविषयत्वात्, न च सत्यपि प्रातिपदिकत्वे संखयाकर्मादेरभावान्न सुबुत्पत्तिरिति वाच्यं, तथा सति निपातादपि सुबुत्पत्त्यनुपपत्तेः, न चेष्टापत्तिः, 'प्रगच्छती'त्यादौ पदात्परत्वाभावेन 'तिङ्ङतिङ'इति निघातानापत्तेः । 'उद्‌गच्छत्युच्चै'रित्यादौ जश्त्वरुत्वाद्यनापत्तेश्चेत्यत आह__वस्तुत इति । ज्ञापकात्सुबुत्पत्तिरिति । प्रातिपदिकत्वाभावेऽपि ज्ञापकात्सुत्पत्तिरित्यर्थः । निपातस्येति । अत्र पक्षे सर्वेषां निपातानां वृत्यार्थबोधकत्वरूपार्थवत्त्वा- भावात् प्रकृतवार्तिकप्राप्तिः, 'अनर्थकग्रहणं न करिष्यते' इति भूवादिसूत्रभाष्योक्त्या तत्पदरहितस्य तस्य प्राप्तिरित्यन्ये । क्रियायोगाभावाद् गत्युपसर्गसंज्ञाप्राप्तिरेव नास्तीति 'अधिपरी अनर्थकौ' इत्यनेनाधिपर्योर्गत्युपसर्गसंज्ञानिवृत्तये कर्मप्रवचनीयसंज्ञाविधानस्यानर्थकनिपातानामार्थवत्प्रयुक्त- कार्यज्ञापकतामाश्रित्यैतद्वार्तिकप्रत्याख्याने तु तस्यैव सामान्यतो निपातानामर्थवत्प्रयुक्तकार्यज्ञापक- तामाश्रित्य प्रातिपदिकत्वं सिध्यतीति भावः । सूत्रेणैव सिद्धौ वार्तकमप मास्त्वित्याह-'कृत्तद्धि'तेति । परे तु-निपातानां व्यज्जनापरपर्यायद्योतकतारूपवृत्त्यार्थबोधकत्वरूपार्थवत्त्वात् प्रातिपदिकत्व- सिद्धिः, अत एव वार्तिकमनर्थकपदघटितं संगच्छते, अत एव च येषां द्योत्योऽप्यर्थो नास्ति 'तु ह स्म वै' इत्यादेस्तदर्थमिदमित्यर्थसूचनार्थमनर्थकस्येत्युक्तं कैयटीये इति वदन्ति । द्योतकतायां मीमांसावार्तककृत्संमतिमाह__उक्तं चेति । चतुर्विधे इति । नामाख्यातोपसर्गनिपातात्मके । तथा चोक्तं निरुक्ते-'चत्वारि पदजातानि नामाख्याते चोपसर्गनिपातश्चे'ति । संशयानुत्पत्तौ हेतुमाह__ तयोरिति । नन्वेवमुपसर्गेणेत्यादवृद्धोक्तावुपसर्गस्यैव द्योतकतोक्तिर्विरुद्धेत्याशङ्क्याह__उपसर्गेणेति । अन्य इति । उपात्निर्दिष्टरूपातिरिक्तरूपावच्छिन्नः । तेन 'प्रजयती'त्यत्र प्रतीयमानप्रकृष्टजयस्य शुद्धजयाभेदेपि न क्षतिः ।। 46 ।।

का :47
ननु तेषां वाचकत्वे तत्र शक्तिकल्पनाप्रयुक्तगौरवप्रसङ्गोऽत आह-बोधकतेति । 'तिडादे'- रित्यादिना कृत्सनादिपरिग्रहः । कृत्प्रत्ययस्य द्योतकत्वे तदर्थस्य विशेषणत्वापत्तिरित न
शङ्क्याम्, अनुबवानुरोधात्, सत्त्वप्रधानानि नामानि' इत वचनाद् द्योत्स्यापि कृदर्थस्य
विशेष्यत्वमित्याशयात्, एवं सनादाव्यूह्यं । स्यादिति । न चेष्टापत्तिः, सिद्धान्तविरोधादित भावः । परे तुसुप्तिङां द्योतकत्वे इष्टपत्तिः, अत एव तदर्थकालकर्त्रादेर्विशेषणत्वम्, कालस्य द्योत्यता तु कैयटादिभिरप्यङ्गीक्रियत एव, अत एव पचेत्यादितः कर्तृप्रतीतिः । कृत्प्रत्ययादेस्तु न द्योतकता, तदर्थस्य विशेषणत्वापत्तेः न च द्योत्यत्वेपि तदर्थस्य विशेष्यत्वम्, उक्तरीत्या तत्र वाचकतापक्षस्यैव स्वीकर्तुमुचितत्वादित्याहः । अन्वयव्यतिरेकयोः = तयोः सतोरित्यर्थः । तथा चान्वयव्यतिरेकाभ्यां तिङादीनां वाचकत्ववन्निपातानामपि वाचकत्वमिति भावः । 'परेषां यन्मतं तदेव नोऽस्माकं न युक्त'मिति मूले योजना । एवं च = निपातानां वाचकत्वे च । तथेत्यगत्येति । तथा = निपातातिरिक्तविषयमित्यर्थः, इतरदोषा अपि प्रागुद्‌धृता एव । इदमुपलक्षणं__सकर्मकत्वं__' स्वस्वयुक्तनिपाते'त्यादिक्रमेण पूर्वोक्तं बोध्यं, तेनानुभवतीत्यादौ न दोषः, 'प्रत्यययाना'मिति व्युत्पत्तावपि प्रकृत्यर्थसमभिव्याहृतनिपातार्थप्रकृत्यर्थान्यतरान्वितत्वं निवेश्यम् । अत एव 'प्रतिष्ठत' इत्यत्रोपसर्गस्य गतिवाचकत्वेऽपि न क्षतिः । उपसर्गस्य फलमात्रवाचकत्वं धातोर्व्यापारवाचित्व- मित्यभ्युपगमे तु प्रकृत्यर्थे एव प्रत्ययार्थान्वयादिदं नादरणीयम् । एवं नामार्थप्रकारकभेदसंसर्गक- शाब्दबोधं प्रति प्रत्ययनिपातान्यतरजन्योपस्थितित्वेन हेतुत्वमङ्गीकार्यमित्यपि बोध्यम्, न चैवं गौरवम्, उक्तयुक्त्या तेषां तत्तदर्थवाचकत्वे स्थितेऽगत्या गौरवस्य स्वीकरणीयत्वात् । अत एव नेत्येतावन्मात्रादभावबोधनिर्वाहः, तत्र पदान्तरसमभिव्याहारं विना द्योतकत्वासंभव इत्याहुः । ननु तेषां वाचकत्वे केवलानामपि प्रयोगापत्तिरिति चेन्न, केषांचित् 'ते प्राग्धातोः' इति नियमनात्, केषांचिन्नेत्यादीनां तथात्वस्येष्टत्वात्, अन्येषां वाचकत्वेपि केवलप्रकृतिप्रत्ययवदुपपत्तेः, उक्तं हि वाक्यपदीये__
'प्रत्ययस्य परत्वे नियामकवदत्र तदभावेऽपि प्रकर्षादेर्विना सम्बन्धिनमन्व- यानुपपतेतर्न केवलानां प्रयोगः, 'शोभनः समुच्च्य' इतिनत् 'शोभनश्चे'त्यस्य, 'घटस्य समुच्चय' इतिवच्च 'घटस्य चे'त्यस्य चापत्तरित्यपि न शङक्यम्, शब्दशक्तिस्वाभाव्येन नित्यपरतन्त्रतयेतरविशेषणत्वेनैव स्वार्थोपस्थापनेनापत्तिद्वयस्याभावात्, षष्ठ्यर्थसम्बन्धबोधे इतर- विशेषणान्वयबोधे च समुच्चयादिशब्दजन्योपस्थितेरेव हेतुत्वकल्पनाद्वा । अथवा चशब्दस्य समुच्चये शक्तिकल्पनान्न दोषः, धर्म्यशे शक्तिकल्पनाप्रयुक्तगौरवं प्रामाणिकत्वादङ्गीक्रियते, तदुक्तं 'समुच्चिताभिधाने हि व्यतिरेको न विद्यते' इति बोध्यम् । व्यर्थमिति । द्योतकतापक्षे सर्वषामेव तेषां निरर्थकतया व्यावर्त्याभावात् । स्पष्टत्वादिति । तत्रानर्थकस्येति तु पादपूराणार्थानां सर्वथा नार्थवत्त्वं सूचयितुम् । प्रत्याख्यातत्वादिति । 'अधिपरी अनर्थकौ' इत्यस्य अनर्थकस्याप्यर्थवत्कृतं भवतीत्यर्थे ज्ञापकतामाक्षित्य प्रत्याख्यातत्वात् । बहुवचनं मीमांसकेति । मीमांसकानां भाष्यकारादि भेदेन नानात्वाद् बहुवचनमिति भावः । मीमांसकमतं प्रदर्शयति__केवलेति । तात्पर्यग्राहकत्वेनेति । तथा चान्वयव्यतरेकयोरन्यथासिद्धतया न शक्तिग्राहकतेति भावः । लक्षणाग्रहेति । धातोः प्रकृष्टजयादौ लक्षणाग्रहे इत्यर्थः । कार्येति । लक्षणाग्रहशाब्दबोधाद्योः कार्यकारणभाव इत्यर्थः । शक्तिग्रहस्यापीति । अत्र 'कार्यकारणभाव आवश्यक' इत्यनुषज्यते । उभयमपि = वाचत्वद्योतकत्वोभयमपीत्यर्थः । अत एव = वाचकत्वद्योतकत्वोभयस्वीकारादेव ।। 47 ।।
का :48
ननु प्रादीनां चादीनां च वाचकत्वे उपसर्गत्वनिपातात्वयोः शक्ततावच्छेदकत्वे गौरवमत आह
मूले-निपातत्वमिति । तथा च निपातत्वं प्रादिचादिसाधारणमेवेति नोक्तक्रमेण गौरवमित्यर्थः । अथबोपसर्गेषु द्योतकत्वग्राहश्चादिषु वाचकताग्रहश्चोभयसाधरणधर्माभावादुपसर्गत्वावच्छेदेन निपातत्वावच्छेदेन च जायत इत्युपसर्गत्वनिपातत्वयोरुभयोः संबन्धत्वे किमिति निपातत्वा- वच्छेदेनैव द्योतकत्वादि कल्प्यते, नोपसर्गत्वावच्छेदेनेत्यत्र किं विनिगमकमित्याशङ्का- मपनुदति-परं त्वित्यादिना । उपसर्गत्वेपि स्वसमानाधिकरणान्योन्याभावप्रतियोगितानव- च्छेदकत्वादिरूपव्यापकत्वसत्त्वाद्वयापकत्वं न सामान्यत्वमत आह-व्यापकत्वात्सामान्यत्वादिति । तथा च व्यापकत्वं प्रकृते उक्तानवच्छेदकत्वविशिष्टं स्वाभाववद्‌वृत्तित्वात्मकमधिकदेशवृत्तत्वरुपं विवक्षितमिति भावः । न्यूनतां परिहरति__शक्तताया इत्युपलक्षणमिति ।। 48 ।।
*इति निपातोपसर्गद्योतकत्वादिनिर्णयः ।। 8 ।।