वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/नामार्थनिर्णयः
← सुबर्थनिर्णयः | वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः) नामार्थनिर्णयः [[लेखकः :|]] |
समासशक्तिनिर्णयः → |
।। अथ नामार्थनिर्णयः ।।
सकलनाममूलभूधात्वर्थांस्तत्प्रकृतिकतिङर्थास्तत्प्रसङ्गेन सुबर्थांश्च निरूप्यावसरसंगत्या नामार्थान्निरूपयतीत्याह--नामार्थानिति। प्रातिपदिकार्थानित्यर्थः। नामार्थाश्च--एकं द्विकं त्रिकमिति। एकादि शब्दानां साधारणतयाऽनभमतार्थपरत्वशङकानिवृत्तये प्रकृते विवक्षितानर्थानाह-एकं जातिरित्यादिना। जातिपदेनात्र तत्तत्पदार्थगतासाधारणो धर्मो विवक्षतः, न तु नित्यत्वे सति एकत्वे च सत्यनेकसमवेतत्वरूपा जातिः असाधारणत्वं च तत्पदार्थेतरावृत्तित्वे सति तत्पदार्थवृत्तित्वम्। तेनाऽऽकाशत्वाभावत्वादीनामनेकसमवेतत्वरूपजातित्वाभावेऽपि नाव्याप्तिः। तत्तत्पदार्थगतासाधारणधर्मस्यैव शास्त्रे स्वार्थशब्देन व्यवहारः। अयमेव च प्रवृत्तिनिमित्तमित्युच्यते। जातेः शब्दशक्यत्वे प्रमाणं तु `सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात्सिद्धम्' इति जात्याख्यायामिति सूत्रस्थं वार्तिकं, `आकृतिं वाजप्यायनः' इति सरूपसूत्रस्थं भाष्यं च बोद्यम्। अयं च जातिशक्तिवादो मीमांसकाभिममेतः ते हि-शब्दानां जातौ शक्तिर्लाघवात्। जातेरेकत्वेनैकविषयिण्याः शक्तेरप्येकत्वेन लाघवादिति भावः। ननु शक्तिग्राहकशिरोमणिना व्यवहारेण व्यक्तावेवशब्दानां शक्त्यवधारणात्कथं जातौ शक्तिसिद्धिरिति शङ्कायां--व्यक्तीनामानन्त्येन तत्र शक्तौ गौरवात्। भूतभविष्यद्वर्तमानानां गोव्यक्तीनामनन्तत्वादेकदोषस्थित्यसंभवेन तावतीषु शक्तिग्रहासंभवात्तत्तदाश्रयभेदेन नानाशक्तिकल्पने गौरवात्। ननु शक्तिगौरवपरिहारायैकस्यामेव व्यक्तौ शक्तिः कल्प्यतामिति चेन्न।। व्यक्त्यन्तरे शक्त्यभावेन तद्बोधो न स्यात्। अतो जातावेव शक्तिर्निर्धार्यते। नन्वेवं गामानय व्रीहीनवहन्तीत्यादौ कथमन्वयः? जातावाचनयनावहननयोरसंभवादिति चेत्-तत्र स्वाश्रयलक्षकत्वेनान्वयनिर्वाहः। एवं च सर्वत्र लक्षणयैव स्वाश्रयत्वसंबम्धेन व्यक्तिभानसंभवे तत्र शक्तिकल्पनं निष्फलमेवेति प्राहुः। एतन्मतानुसारेण जातेः शक्त्यत्वे युक्तिं प्रदर्शयति-लाघवेनेति। जातेरेकत्वेनकविषयकशक्तेरप्येकत्वसंभवेन लाघवात्तस्या एव वाच्यत्वस्योचितत्वादित्यर्थः। गौरवादिति। शक्तिग्राहकेषु मुख्यस्य नयनानयनादिव्यवहारस्य व्यक्तावेवाऽऽञ्जस्येन संभवाद् व्यक्तावेव शब्दशक्तेरुचितत्वेऽपि व्यक्तीनामनन्तत्वात्सर्वासामेकदोषस्थित्यसंभवेन सकलव्यक्तिषु शक्तिग्रहोपदेशासंभवादेकस्यां व्यक्तौ शक्तिग्रहे, शक्त्यविषयस्य व्यक्त्यन्तरस्य शाब्दबोधे भानानापत्त्या प्रतिव्यक्ति शक्तिकल्पने शक्तीनामप्यनन्तत्वेन गौरवान्न व्यक्तौ शब्दशक्तिः कल्पयितुं युज्यत इति भावः। ननु जातिशक्तिवादे जातेर्वाच्यत्वेन तादृशजातिगतगोत्वत्वादिधर्मे शक्यतावच्छेदकत्वं स्वीकार्यं, ततश्च तस्य(गोत्वत्वरूपशक्यतावच्छेदकस्य)समवायसंबन्धेन गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपस्य शक्यत्वमावश्यकं, शक्यतावच्छेदकत्वस्य शक्यैकदेशे प्रकारत्वरूपत्वादिति विपरीतं गौरवमिति चेन्न। अलक्ष्यस्यापि लक्ष्यातावच्छेदकत्ववदशक्यस्यापि शक्यतावच्छेदकत्वसंभवाच्छक्यतावच्छेदकस्य शक्यत्वावस्यकत्वे मानाभावात्। अपरे तु यथा व्यक्तिशक्तिमते गोत्वाद्यंशे शक्तिः, शक्यतावच्छेदकता वा निरवच्छिन्न(विशेषणीभूतधर्मान्तराघटिता) तथा जातिशक्तिमतेऽपि सा शक्तिर्निरवच्छिन्ना, नामविशेषणीभूतधर्मान्तराघटितेति प्राहुः। यथाऽयं घट इत्यादौ घटज्ञानस्य घटत्वप्रकारकत्वेन सावच्छिन्नत्वेऽ(विशेषणीभूतघटत्वरूपधर्मान्तरघटितत्वेऽ)पि घटत्वज्ञानस्य घटत्वत्वरूपविशेषणीबूतधर्मान्तराघटितत्वेन निरवच्छिन्नत्वं तद्वद्गोत्वरूपजातिज्ञानस्य गोत्वत्वरूपधर्मान्तराघटितत्वेन निरवच्छिन्नत्वान्न गौरवमिति भावः। ननु व्यक्तीनामानन्त्येऽपि प्रत्येकं व्यक्तेरेकत्वादेकैव शक्तिः। तथा च जातिशक्तिव्यक्तिशक्तिपक्षयोरविशेषाज्जातिशक्तिवाद एव कथं पक्षपात इति चेत्। एकव्यक्तिशक्तिपक्षे सकलव्यक्तीनां तादृशशक्तौ संग्रहो न भवतीति। ननु जातिशक्तिपक्षेऽपि शक्त्या जातेरूपस्थितावपि व्यक्तौ शक्त्यभावेनैकस्या अपि व्याक्तेरनुपस्थानात्कथं सकलव्यक्तिसंग्रहः। न च तत्पक्षे माऽस्त्वेव व्यक्त्युपस्थितिरिति वाच्यम्। आनयनादिकार्यान्वयाय व्यक्त्युपस्थितेरावश्यकत्वादिति चेत्सत्यम्। लक्षणया सकलव्यक्तिसंग्रहसंभवात्। तथा च जातिशक्तिवादिभिस्तु एकव्यक्तिशक्तिकल्पनेन व्यक्त्यन्तरे लक्षणयैव सकलव्यक्तिसंग्रहः क्रियत इति जातिशक्तिव्यक्तिशक्तिपक्षयोरुभयोरपि समानमेव वृत्तिनानात्वकल्पनम्। एवं च जातिशक्तिवादेऽपि लाघवाभाव इत्याशयेनाऽऽह-न च व्यक्तीनामपीति। विनिगमनाविरह इति। अन्यतरकोटिनिश्चायकयुक्तिशून्यत्वमित्यर्थः। जातिशक्तिपक्षपातिनीं लाघवरूपं युक्तिं प्रतिपादयन्नादौ व्यक्तिशक्तिपक्षे गौरवं प्रदर्शयति-एवं हीत्यादिना। व्यक्त्यन्तरे लक्षणायामिति। स्वीक्रियमाणायामिति शेषः। तादृशलक्षणास्वीकारश्च व्यक्त्यन्तरबोधान्यथानुपपत्त्याऽऽवश्यकः। स्वसमवेतेति। स्वस्मिन्समवेता या जातिस्तदाश्रयत्वमित्यर्थः। अत्र स्वशब्देन शक्त्याश्रयत्वेनाभिमता पीतगोव्यक्तिः, तत्समवेता-तस्यां समवायसंबन्धेन विद्यमाना गोत्वजातिः, तदाश्रयत्वं श्वेतगव्यपीति लक्षणसमन्वयः। जातिशक्तिपक्षेऽपि व्यक्तौ लक्षणाङ्गीकारस्तु आनयनादिकार्यान्वयान्यथानुपपत्त्याऽवश्यकस्तदाह-जात्या त्विति। आश्रयत्वमिति। स्वाश्रयत्वमित्यर्थः स्वं गोत्वं तदाश्रयत्वं सकलगोव्यक्तिष्विति लक्षणसमन्वयः। ततश्च जातिपक्षे जातौ शक्तिर्व्यक्तौ लक्षणा, व्यक्तिपक्षे तु व्यक्तौ शक्तिर्व्यक्त्यन्तरे लक्षणेति उभयोरपि पक्षयोः सकलव्यक्तिसंग्रहोपपत्त्यै शक्तिसहकृतलक्षणावृत्त्यङ्गीकारस्याऽऽवश्यकत्वेऽपि जातिशक्तिपक्षे संनिकृष्टा लक्षणा, व्यक्तिशक्तिपक्षे विप्रकृष्टा लक्षणेति जातिपक्षे लाघवं, व्यक्तिपक्षे च गौरवमस्त्येव। तथा हि-लक्षणा हि स्वशक्यसंबन्धः। स्वं-गोशब्दः, स्वशक्य-गौत्वजातिः, तत्संबन्धः साक्षात्सकलगोव्यक्तिषष्विति शक्यसंबन्धं संनिकृषअयते जातिशक्तिपक्षे। व्यक्तिशक्तिपक्षे तु-स्वं गोशब्दः, स्वशक्यं-पीतगोव्यक्तिः, तत्संबन्धो व्यक्त्यन्तरे साक्षान्नास्तीति कृत्वा तत्समवेतगोत्वद्वारा प्यक्त्यन्तरसंबन्धो वाच्यो भवति। तथा च स्वशक्यं-पीतगोव्यक्तिः, तत्समवेतं-तत्र समवायसंबन्धेन विद्यमानं गोत्वं, तत्संबन्धः श्वेतादिसकलगोव्यक्त्यन्तरेष्विति व्यक्तेर्व्यक्त्यन्तरसंबन्धो विप्रकृष्यत इति कृत्वा शक्यसंबन्धविप्रकर्षरूपं गौरवं व्यक्तिशक्तिवादे, जातिशक्तिवादे तु तन्नेति शक्यसंनिकर्षलक्षणं लाघवमिति भावः। तथा चोक्तलाघवं विनिगमकामिति न विनिगमनाविरह इत्याशयः। ननु गोत्वादितत्तज्जात्यनुगतीकृतासु सकलव्यक्तिषु शक्त्यभ्युपगमान्न व्यक्त्यानन्त्यप्रयुक्तशक्त्यानन्त्यगौरवमित्याशयवानाह-किं चैव विशिष्टवाच्यत्वेति। एवं-विशिष्टशक्तिस्वीकारे। नागृहीतेति। नागृहीतविशेषणा बुद्धिर्विशेष्यमवगाहत इति हि न्यायशरीरम्। विशिष्टबुद्धिं प्रतिविशेषणज्ञानस्य कारणत्वादगृहीतविशेषणा एतादृशी बुद्धिर्न विशेषणविशिष्टविशेष्यविषयिणी भवति। नागृहीतेति नञ्द्वयोपादानेनाऽऽदौ विशेषणविषयकज्ञानस्याऽऽवश्यकत्वं सूचितम्। तथा च विशेष्यज्ञानात्पूर्वं विशेषणज्ञानमवश्यमपेक्षितम्। जाते च विशेषणज्ञाने तावतैव क्षीणा सती शक्तिर्विशेष्यं न प्राप्नोति। तदुक्तम्-`विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इति। एवं च विशिष्टशक्तिवादो गौरवग्रस्तत्वाज्जचातिशक्तिपक्ष एव पर्यवसन्न इति लाघवादुपजीव्यत्वाच्च जातिरेव वाच्येति युक्तमिति भावः। नन्वेवं जातेरेव वाच्यत्वाभ्युपगमे ततो व्यक्तिबोधो न स्यात्। न चाऽ।़क्षेपात् पीनो देवदत्त इत्यत्र रात्रिभोजनवदिति वाच्यम्। वृत्त्यनुपस्थिततया गां दद्यादित्यादौ व्यक्तौ कर्मत्वाद्यन्वयानुपपत्तेः। प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति व्युत्पत्तेः। पदार्थान्तरान्वयश्च व्यक्तौ न स्यात्। वृत्तिग्रहविशेष्य एव तदन्वयात्। अन्यथा घटमानयेति वाक्यश्रवणात्समवायेनोपस्तिताकाशेऽपि आनयनाद्यन्वयापत्तेः। अत आह-व्यक्तिबोधस्त्विति। लक्षणयेति। स्वाश्रयत्वसंबन्धेन लक्षणया वयक्तिबोधः सुलभः। तथा च वृत्त्युपस्थितत्वाद्व्यक्तौ विभक्त्यर्थाद्यन्वयः संभवत्येवेत्यर्थः। ननु लक्षणायाः शक्यान्वयाद्यनुपपत्तिप्रतिसंधानसापेक्षत्वाद् गोत्वमस्तीत्यर्थेऽन्वयाद्युनुपपत्तिप्रतिसंधानाभावेन गौरस्तीति प्रयोगे गोत्वविशिष्टगोव्यक्तिबोधानापत्तिरिति चेत्-लक्षणयेत्यस्य निरूढलक्षणयेत्यर्थः। निरूढलक्षणायाः शक्त्यनतिरिक्त्त्वात्तत्र नान्वयाद्यनुपपत्तिप्रतिसंधानापेक्षेति भावः। एतदाशयेनैवाऽऽह-इति दिगिति। जातिशक्तिमते दूषणमुद्भावयन् व्यक्तिशक्तिमते साधकं वदंश्चैकशब्दस्य व्यक्तिपरत्वं व्याचष्टे-यद्वेति। केवलव्यक्तिरेवेति। एवकारेण जातेर्व्यावृत्तिः। केवलशब्देनैव जातिव्यवृत्तिसिद्धावेवकारः स्पष्टार्थः। एकशब्दस्य केवलव्यक्तिपरत्वे हेतुमाह-केवलव्यक्तिपक्ष इत्यादिना। जातिविशिष्टव्यक्तेः पदार्थत्वमिति मते तु तज्जातिप्रकारकतदाश्रयविशेष्यकशाब्दबोधे जननीये, तज्जात्यवच्छिन्नविशेष्यताकशक्तिग्रहस्य कारणत्वात् `अस्य च्वौ' `एरच्' इत्यादावकारेकारादिभिरत्वादितत्तज्जात्याश्रयाष्टादशाकारादिव्यक्तिग्रहणसंभवेनाणुदित्सूत्रेऽण्ग्रहणमं व्यर्थं स्यात्, केवलजातिशक्तिमतेऽपि तद्वैयर्थ्यं स्पष्टमेव। किंतु केवलव्यक्तिशक्तिपक्षेऽष्टादशसंख्याकाकारादिव्यक्तिग्रहणसिद्ध्यर्थै तदावश्यकमित्यण्पदोपादानेन पाणिनिना मनसि केवलव्यक्तिशक्तिपक्ष एवानुसंहित इत्यनुमीयत इति भावः। तथा च केवलव्यक्तिशक्तिपक्षोऽपि शास्त्रशास्त्रकारसंमत इत्याशयः। तथा केवलजातिशक्तिपक्षे जातिविशिष्टव्यक्तिशक्तिपक्षे च तज्जात्यनुगतीकृतानेकव्यक्तीनामेकेनापि शब्देनाभिधानसंभवादेकशेषसूत्रं नाऽऽरम्भणीयम्। केवलव्यक्तिशक्तिपक्षे त्वेकेन शब्देनैकस्या एव व्यक्तेरभिधानाद् द्व्यादिव्यक्तिबोदार्थं द्व्यादिशब्दोपादानस्याऽऽवश्यकत्वेन तत्रेतरनिवृत्तिपूर्वकैकस्यावस्थानार्थं तद रम्भणीयम्। एकशेषसूत्रारम्भेण च पाणिनिमुनिना केवलव्यक्तिशक्तिपक्षो मनसि धृत इत्यवगम्यते। तथा च केवलव्यक्तिशक्तिपक्षः सरूपसूत्रस्यापि संमत इत्यर्थः। `अण्ग्रहणस्य' इत्यस्य `आरम्भेण' इत्यत्रान्वयः एकशेषस्य चेति। सरूपाणामितिसूत्रस्य चाऽऽरम्भेणेत्यर्थः। तस्यापीति। केवलव्यक्तिशक्तिपक्षस्यापीत्यर्थः। शास्त्रसिद्धत्वादिति। शास्त्रानुगृहीतत्वादित्यर्थः। एवं केवलव्यक्तिशक्तिपक्षे शास्त्रं प्रमाणमुक्त्वा तत्र युक्तिमपि प्रमाणयन्नाह-युक्तं चैतदिति। युक्तिसहमप्येतदित्यर्थः युक्तिमेव प्रदर्शयति-व्यवहारेणेति। घटमानयेति प्रयोजकवाक्यश्रवणान्तरं प्रयोज्यचैत्रकर्तृकघटानयनादिरूपव्यवहारेम व्यक्तावेव शक्तिग्रहस्य निश्चयादित्यर्थः। ननु व्यक्तीनामानन्त्याच्छक्त्यानन्त्यं प्राप्नोति। कुत्रचिदेव व्यक्तौ शक्तिरिति नोक्तदोष इति चेत्-शक्यविषयव्यक्त्यन्तरस्यापि शाब्दबोधे भानाभ्युपगमे गोपदादश्वस्यापि भानापत्तिः। तद्विषयकशाब्दबोधे तद्विषयकशक्तिग्रहस्य कारणत्वमित्येवं शाब्दबोधहेतोः कार्यकारणभावस्य भङ्गापत्तिश्चेत्याशङ्कामपाकुर्वन्नाह-सबन्धितावच्छेदकस्येति। संबन्धी-संबन्धाश्रयः, संबन्धश्च-शक्तिः। शक्त्याश्रय इत्यर्थः। स एव शक्य इत्युच्यते। तस्मिञ्शक्यता, तदवच्छेदकस्य शक्यतावच्छेदकस्येति यावत्। जातेः-जातिरूपस्य तस्येति योजना। एवं च शक्यतावच्छेदकस्यैव विश्येष्यतया विवक्षणान्नपुंसकनिर्देशः। शक्यतावच्छेदकस्येत्यस्य विशेषणतया विवक्षणे तु विशेषणस्य विशेष्यलिङ्गग्राहितया शक्यतावच्छेदकायाः, इति वक्तव्यं स्यादिति भावः। जातेरैक्यादिति। जात्यनुगतीकृतासु व्यक्तिषु एकधर्मावच्छिन्नाया एकस्या एव शक्तेः सत्त्वान्न गौरवम्। शक्यतावच्छेदकस्यैक्याच्छक्तेरैक्यमिति तत्त्वम्। शङ्कते-न चैवमिति। एवं-घटत्वादेः शक्यतावच्छेदकत्वे। शक्यतावच्छेदकत्वादिति। शक्यत्वे सति शक्यैकदेशनिष्ठविशेष्यतावच्छेदकत्वरूपत्वाच्छक्यतावच्छेदकत्वस्य घटत्वादेरपि वाच्यत्वमावश्यकमिति भावः। तदेव वाच्यमिति। तथा च केवलव्यक्तिवाच्यतापक्षोऽत्यन्तासंभवग्रस्त इति तात्पर्यम्। अकारणत्वेऽपीति। अन्वयव्यतिरेकादिना घटं प्रति दण्डस्य कारणत्वे गृहीते, दण्डत्वस्यान्यथासिद्धत्वेना, कारणत्वेऽपि कारणतावच्छेदकत्वाङ्गीकारवत्, तीरत्वस्य प्रवाहासंबन्धितयाऽलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्वस्वीकारवच्चाशक्यस्यापि घटत्वादेस्तादृशशक्यतावच्छेदकत्वस्वीकारे बाधकाभावात्, शक्यत्वे सति शक्यैकदेशार्थनिष्ठविशेष्यतानिरूपितविशेषणतापन्नस्य शक्यतावच्छेदकत्वमिति नियमाङ्गीकारे मानाभाव इति भावः। उक्तेऽर्थेऽरुणाधिकरणस्थभट्टोक्तिं साधकतयोपन्यस्यति-उक्तं चेति। आनन्त्येऽपीति। भावानां-वाच्यत्वेनाभिमतानां घटादिव्यक्तीनाम् नानात्वादपरिच्छेद्यत्वेऽपि, एकं-अनुगतजात्यादिधर्मं, उपलक्षणं-अशक्या त्वेऽपि शक्यव्यावर्तकं, कृत्वा-अङ्गीकृत्य, शक्यतावच्छेदकतया स्वीकृत्योंयावत्, शब्द-गवाद्यत्मकः सुकरसंबन्धः-सुग्राह्यगवादिनिष्ठवाच्यतासंबन्धः न च शक्तिग्रहाविषयव्यक्तिं न बोधयिष्यतीति कारिकार्थः। उपलक्षणस्य जात्यादेः स्वभावोऽयं यत्स्वाश्रयाणां सर्वेषां शक्तिग्रहविषयत्वं संपाद्य स्वयं शक्तिग्रहाविषयो बोधाविषयश्च। गोत्वादिसामान्यलक्षणया सर्वास्वेव व्यक्तिषु शक्त्यवधारणादिति भावः। ननु जातिशक्तिवादेऽपि दानाद्यन्वयार्थं व्यक्तिबोध आवश्यकः, व्यक्तिशक्तिवादेऽपि शक्यतावच्छेदकत्वार्थमुपलक्षणतया जातेराश्रयणं चाऽऽवश्यकमिति कृत्वा निरुक्तपक्षद्वयापेक्षया विशिष्टशक्तिवाद एव युक्त इत्याहवस्तुतस्त्विति। न ह्याकृतिपदार्थकस्येति। आकृतिः पदार्थो यस्येति बहुव्रीहिः। इति भाष्यादिति। सरूपसूत्रस्थमिदं भाष्यम्। विशिष्टं वाच्यमिति। जातिविशिष्टं गवादिकं गवादिशब्दवाच्यमित्यर्थः। परे तु न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः, द्रव्यपदार्थकस्य वाऽऽकृतिर्न पदार्थः, उभयोरुभयं पदार्थः, कस्यचित्किंचित्प्रधानभूतं किंचिद्गुणभूतं, इत्यादिभाष्ये द्रव्यपदार्थवादे आकृतेर्विशेषणत्वोक्त्या तज्जात्यनुगतीकृतानेकव्यक्तिबोधस्यैकशब्देनैव संभवात्तत्पक्षेऽप्येकशेषो नाऽऽरम्भणीय इति सूचितम्। जातिवादे व्यक्तेर्व्यक्तिवादे जातेः शक्यतावच्छेदकत्वमिति च सूचितम्। इति प्राहुः। परं तु जातिविशिष्टा गवादिव्यक्तिरेव वाच्या, नतु गोविशिष्टा जातिः। गवादिपदाद्गोविशिष्टगोत्वजातिबोधस्याननुभवेन निरुक्तपक्षासंभवात्। ननु विशिष्टस्य पदार्थत्वपक्षे एकमिति विरुद्धं स्यादत आह-एकमित्यस्य चेति। चस्त्वर्थे। एकमित्यस्य त्वित्यर्थः अयमिति। वक्ष्यमाण इत्यर्थः। शक्तिज्ञाने चेति। अयं भावः-तद्विषयकशब्दबोधे तद्विषयकशक्तिग्रहः कारणम्। यथा घटविषयकशाब्दबोधो घटविषयकशक्तिग्रहे सति जायते इत्यनुभवसाक्षिकम्। घटपदं घटत्ववदर्थस्य बोधकमित्येवं शक्तिज्ञाने सत्येव घटमानयेति वाक्ये घटपदाद्घटविषयकबोधो भवतीति यावत्। शक्तिज्ञानं कारणं, व्यक्तिबोधश्च कार्यम्। तत्र शक्तिज्ञानं यद्धर्मविशिष्टं सद् बोधकारणं स धर्मः कारणतावच्छेदकः। घटत्वविशिष्टबोधे च घटत्वविषयकमेव शक्तिज्ञानं कारणं भवतीति तादृशकारणतावच्छेदकं घटत्वादिजातिरित्यर्थः। शक्तिविषयः-शब्दः, अर्थः, बोधश्च बोधनिष्ठजन्यतानिरूपितजनकतारूपशक्तिविषयः शब्दो, वाचकः, पदजन्यबोधविषयत्वेन शक्तिविषयोऽर्थः, स तू वाच्य इत्यर्थः। तथा च शक्तिज्ञाननिष्ठा या बोधकारणता तद्विषये, विषयतासंबन्धेन पदजन्यबोधे यो विषयः-गवादिः, तन्निष्ठविषयतावच्छेदिका गोत्वादिर्जातिरेव, सा चैकैवेत्यर्थः। विषयतासंबन्धेन बोध्यत्वरूपशक्तिविषयो या गवादिव्यक्तिः, तन्निष्ठविषयताया अवच्छेदिका गोत्वादिजातिः, सा चैकैवेत्याशयेन एकं नामार्थ इति योज्यम्। एकमित्यस्य एकं सामान्यमेवान्तर्भाव्य कार्यकारणभावो ग्राह्य इत्यभिप्रायः। एकं सामान्यमेव तादृशकारणतावच्छेदकमिति भावः। तथा च इयं गौरित्येतादृशबोधे गोत्वादिजातिशक्तिज्ञानत्वेन कारणता, लाघवात्। नतु गोत्वादिजातिविशिष्टव्यक्तिविषयकशक्तिज्ञानत्वेन, गौरवादिति बावः। एवं च शक्तिज्ञाननिष्ठबोदकारणताया अवच्छेदकं-तादृशकारणतानिरूपकं गोत्वादिसामान्यमेवेति। तत्त्वम्। अस्मात्पदादयमर्थो बोद्धव्य इत्येवं पदिविशेषणकार्थविशेष्यकः, इदं पदममुमर्थं बोधयत्वित्येवमर्थविशेषणकपदविशेष्यको ना शक्तिग्रहो गोत्वादिजात्यविच्छिन्नगवादिव्यक्तावेवेति। तज्जात्यनुगतीकृतसकलव्यक्तिभानं शक्तिग्रहसमये जायते। अत एव शाब्दबोधसमयेऽपि तज्जात्यनुगतीकृतसकलव्यक्तिभानं भवति। कार्यकारणभावस्तूक्तरीत्या बोध्यः। ननु गौर्गोपदशक्य इत्येवं शक्तिज्ञानाद् गोत्वप्रकारकगोव्यक्तिविशेष्यकबोधस्येव गोत्वत्वप्रकारकगोत्वविशेष्यकबोधापत्तिरित्यत आह--यथा चेति। घटत्वविशिष्टघटबोधे जननीये घटत्वांशे घटत्वत्वाद्यप्रकारकस्य(घटत्वत्वादिप्रकारशून्यस्य)घटत्वमात्रविषयकशक्तिज्ञानस्य कारणतेत्येवं कार्यकारणभाव इत्यादि भूषणे संगृहीतमिति तत एवावगन्तव्यम्। तदेतदभिप्रेत्योति। वस्तुतस्त्वित्यादिनोक्तं विशिष्टस्य वाच्यत्वमङ्गीकृत्येत्यर्थः। द्विकमितीति। द्दयोः समूहः, `संख्यायाः संज्ञासंघ' इति सूत्रेण कन्। जातिव्यक्ती इति। परस्परं विशेषणविशेष्यभावमापन्ने, जातिविशिष्टा व्यक्तिर्व्यक्तिविशिष्टा वा जातिर्नामार्थ इत्यर्थः। यद्यपि `आकृतिपदार्थकस्य द्रव्यं न पदार्थः, द्रव्यपदार्थकस्य चाऽऽकृतिर्न पदार्थः। उभयोरुभयं पदार्थः' इति भाष्येण विशकलितयोरेव जातिव्यक्त्योः शब्दार्थता लभ्यते तथाऽपि `कस्यचित्किंचिद्गुणभूतं किंचित्प्रधानं' इत्युक्तरभाष्येण विशिष्ट एव शक्तिर्निर्धार्यत इति भावः। पूर्वपक्षादिति। एकं पदार्थ इति पक्षादित्यर्थः। पूर्ववदिति। विषयतासंबन्धेन एकं सामान्यमेव शक्तिज्ञाननिष्ठकारणतायाप्रवच्छेदकमित्यर्थाङ्गीकारेण परिहर्तव्यः। अन्यथा एकमिति मते एकस्यैव नामार्थत्वं, द्विकमिति मते द्वयोर्नामार्थत्वमिति विरोधः स्यादित्यर्थः। पूर्वत्र विशिष्टस्य पदार्थत्वे विरोधः परिहृतः। इह तु द्वयोः पदार्थत्वे स परिहृत इति बोध्यम्। ननु स्तनकेशवती नारीत्यादिलक्षणलक्षितमवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीत्वादिलिङ्गमसार्वत्रिकत्वान्नैतच्छास्त्रप्रक्रियोपयोगि, दारानित्यादौ नत्वाभावप्रसङ्गादचेतने सर्वथा तादृशलिङ्गाभावेन खट्वादौ टाबाभावप्रसङ्गाच्चेत्यतो भाष्यरीतिमनुसरन्नादौ लिङ्गमपि नामार्थ इत्याह-त्रिकमिति। त्रयाणां समूहस्त्रिकं, पूर्ववत्कन्। त्रिकशब्दार्थं स्पष्टयन्नाह-जातिव्यक्तीत्यादि। लिङ्गानां वित्वात्तद्विशेषान्नपुंसकत्वादीन् भाष्यमतेन लक्षयति-सत्त्वरजस्तम इति। साम्यावस्थेति। सत्त्वादिगुणानां न्यूनाधिकभावराहित्येनावस्थानं तदेव नपुंसकत्वमित्यर्थः। आधिक्यमिति। सत्त्वादीनामुपचय इत्यर्थः। तदेव पुंस्त्वम्। अपचय इति। ह्रासस्तन्न्यूनतेति यावत्। तद्रूपं स्त्रीत्वमिति मावः। ननूपचयावचयादेर्विरुद्धस्यैकत्रार्थे तीरादौ समावेशायोगात्तटस्तटी तटमित्यादेरनुपपत्तिः। किंच सर्वविकारातीते परब्रह्मण्युपचयाद्यसंभवादात्मा ब्रह्मेति पुंस्त्वनपुंसकत्वयुक्तव्यवहारानुपपत्तिश्चेत्यत आह-तत्तच्छब्दनिष्ठमिति। जातिगुणक्रियासंज्ञारूपप्रवृत्तिनिमित्तभेदभिन्नशब्दनिष्ठमित्यर्थः। पुंलिङ्गः शब्द इत्यादिसामानाधिकरण्येन व्यवहारात् `आङो नाऽस्त्रियां तस्माच्छसो नः पुंसि, स्वमोर्नपुंसकात्, इत्यादिशास्त्रप्रामाण्याच्च भाष्योक्तलिङ्गस्य शब्दनिष्ठत्वं सिध्यति। यद्युपचयाद्यात्मकलिङ्गस्यार्थनिष्ठत्वं स्यात्तर्हि तटस्तटी तटमित्यादौ लिङ्गत्रयनिमित्तककार्याणामसिद्धिः, परस्परविरुद्धाया उपचयाद्यवस्थाया एकत्र शब्देऽनवश्थानात्, आत्मा ब्रह्मोत्यस्याप्यनुपपत्तिः स्यादिति भावः। ततच्छब्दवाच्यं चेति। स्वनिष्टलिङ्गस्य स्ववाच्यत्वमित्यर्थः। स्वं-कृष्णः, श्रीः, ज्ञानं, इत्यादिः शब्दः, तन्निष्ठलिङ्गस्य पुंस्त्वादेः कृष्णादिशब्दवाच्यत्वमिति समन्वयः। ननु भाष्योक्तलिङ्गस्य शब्दनिष्ठत्वमिति पक्षेऽप्येकस्मिञ्छब्दे परस्परविरुद्धानेकलिङ्गसमावेशासंभवतादवस्थ्यमत आह-तमेव विरुद्धेति। स्त्रीत्वपुंस्त्वादिरूपमेव विरुद्धं धर्ममादाय शब्दा भिद्यन्ते। परस्परविरुद्धस्य स्त्रीत्वपुंस्त्वादिधर्मस्यैकत्रावस्तानासंभवेन धर्मभेदाच्छब्दभेदो भवति। यथा ह्रस्वत्वदीर्घत्वोदात्तत्वानुदात्तत्वादिभिरकारादयो वर्णा भिद्यन्ते तद्वत्समानुपूर्वीकास्तटादिशब्दा भिन्ना भवन्ति। तथा च पुंलिङ्गस्तटशब्दो भिन्नः स्त्रीलिङ्गस्तटशब्दो भिन्न इत्येवं शब्दभेदान्नोक्तदूषणावसरः। एतच्च लिङ्गं केषांचिदेकं केषांचिदुभयं केषांचित्त्रयमपीत्यत्र लिङ्गानुशासनं प्रमाणमिति शब्दकौस्तुभे स्थितम्। ननूपचयाद्यवस्थानां लिङ्गत्वे तासामवस्थानां परस्परं विरुद्धत्वादेकत्रावस्थानासंभवात्केषांचिच्छब्दानामनेकलिङ्गवत्त्वव्यवहारः किंमूलकोऽत आह-केषांचिदनेकलिङ्गत्वेति। उपचयाद्यात्मकस्य पुंस्त्वादेर्लिङ्गस्य विरुद्धत्वेऽपि समानानुपूर्वीकत्वेन हेतुना शब्देष्वभेदारोपात्तेषां तन्त्रेणानुकरणाद्वाऽनेकलिङ्गवत्त्वव्यवहारो निर्वहणीयः। तथा च तटादिशब्देषु समानानुपूर्वीकेषु लिङ्गत्रयं छागादिषूभयं पदार्थादिष्वेकमिति बोध्यम्। एवं चेति। उपचयाद्यात्मकस्य पारिभाषिकलिङ्गस्य शब्दनिष्ठस्यैव स्त्रीपुंसादिव्यवहारनिमित्तत्वे चेत्यर्थः। पदार्थ-व्यक्ति-वस्तुशब्देषु क्रमेण पुंस्त्वस्त्रीत्वनपुंसकत्वान्येवेति सर्वत्रार्थेऽयं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इत्येवं युगपत्पुंस्त्वादिवाचकपदार्थादितत्तच्छब्दप्रयोगरूपो व्यवहारो जायते। तटस्तटीमिति। स्तनकेशवती नारीत्यादिलौकिकलिङ्गस्यार्थेऽविद्यमानत्वेऽपि परस्परविरुद्धपारिभाषिकलिङ्गभेदेन भिन्नानां तटादिशब्दानां पुंस्त्वादितत्तल्लिङ्गप्रयुक्तकार्यानुभक्त उपपद्यते। यदि तु लौलिकलिङ्गमिवि भाष्योक्तं पारिभाषिकलिङ्गमप्यर्थनिष्ठं स्यात्तर्हि स्त्रीव्यक्तावपचयात्मकस्त्रीत्वस्यैव सत्त्वेन तत्रायं पदार्थः, इदं वस्तु इत्येवं पदार्थवस्तुपदाभ्यां व्यवहारो न स्यात्। स्त्रियां पुंस्त्वनपुंसकत्वयोरभावात्। एवं पुंसि उपचयात्मकपुंस्त्वस्यैव सत्त्वेन तत्र इयं व्यक्तिरिदं वस्त्वित्येवं व्यक्तिवस्तुपदाभ्यां व्यवहारो न स्यात्। पुंसि स्त्रीत्वनपुंसकत्वयोरभावात्। उपचयाद्यवस्थानां परस्परविरुद्धत्वेनैकस्मिन्नर्थे समावेशासंभवादेकयैव कयाचिदवस्थया भाव्यमिति एकत्रार्थे कस्यचिदेकस्यैव लिङ्गस्य युक्तिसिद्धत्वात्। ततश्चैकत्रार्थे लिङ्गद्वयस्य लिङ्गत्रयस्य वा सुतरामसंभवात्। लिङ्गस्य शब्दनिष्ठत्वे तु अर्थस्य सर्वथा लिङ्गराहित्येन पुंस्त्वस्त्रीत्वादिमात्रवाचकपदार्थव्यक्त्यादिपदैः सह तत्सामानाधिकरण्ये बाधकाभावात्सर्वत्रायं पदार्थ इयं व्यक्तिरित्यादिर्व्यवहारः साधु संगच्छते न च भाष्योक्तलिङ्गस्य शब्दनिष्ठत्वेऽपि मिथोविरुद्धस्य लिङ्गस्यैकस्मिञ्छब्दे समावेशासंभवः, शब्दस्य लिङ्गद्वयादिव्यवहारासंभवश्चेत्यादिशङ्कोत्थानमस्त्येवेति वाच्यम्। दत्तोत्तरत्वात्। अर्थनिष्ठं लौकिकलिङ्गं तु नात्राऽऽश्रयितुं युक्तं, कट्वादावचेतने तस्य बाधात्तत्र टाबाद्यनापत्तेरिति भावः। लौकिकलिङ्गं तु स्तनकेशवती नारी लोमशः पुरुषः स्मृतः। एतयोरन्तरं यच्च तदभावे नपुंसकम्।। इत्यत्र केशशब्दस्य भगवाचकत्वाद्भगवत्त्वं स्त्रीत्वं, लोमशः पुरुष इत्यत्र लोमञ्शब्दस्य शिश्रवाचकत्वाच्छिश्रवत्त्वं पुस्त्वम्। तत्तदाकारमात्रधारकत्वं नपुंसकत्वमिति। एतच्चार्थनिष्ठमेव। तत्र सति संभवे सामानाधिकरण्यसंबन्धेन लौकिकपुंस्त्विशिष्टशास्त्रीयपुंस्त्व एव पुमादिशब्दानां शक्तिः, न केवललौकिके नापि केवलशास्त्रीये। टिघुभादिवल्लघुसंज्ञाकरणौचित्येऽपि पुमान्स्त्रीत्यादिगुरुसंज्ञाकरणात्, संख्यासंज्ञावत्पुमादिसंकेतानामधिकसंग्रहार्थत्वेऽपि लोकप्रसिद्धार्थे लौकिकपुंस्त्वाभावेन केवलशास्त्रीयपुंस्त्वमादायैव दारानित्यादौ नत्वप्रवृत्तिरुपपादनीया। लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्व एव पुमादिशब्दानां शक्तिस्वीकारादेव पशुनायजेतेत्यत्र पशुस्त्रिया कृते यागे वैगुण्यं, तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादिति भावः। अधिकमग्रे वक्ष्यते। एवं कुमार्यादिशब्दा अपिलौकिकस्त्रीत्वाविशिष्टे शास्त्रीयस्त्रीत्वे शक्ता इति बोध्यम्।
ननूक्तपारिभाषिकलिङ्गस्य शब्दनिष्ठस्यैव स्त्रीपुंसादिव्यवहारनिमित्तत्वे, तस्य स्त्रीवाचकपशुशब्देऽपि विद्यमानत्वात्पशुना यजेतेत्यत्र पशुस्त्रियाऽपि यागकरणापत्तिः, पशुशब्दोक्तलिङ्गस्य पदार्थादिपदोक्तलिङ्गवत्स्त्रीपुंसादिसादारणत्वेनार्थविशेषनिश्चायकत्वाभावादित्यत आह-तच्च लिङ्गमिति। शब्दनिष्ठमेव लिङ्गमित्यर्थः। अर्थपरिच्छेदकत्वेनेति। अर्थविशेषणत्वेनार्थविशेषणपि निश्चिनोतीत्यर्थः। पशुशब्दश्रवणेन स्त्रीपशोः पुंपशोश्चोपस्थितौ सत्यां कीदृशेन पशुना, किं स्त्रीपशुनोत पुंपशुना यागः करणीय इति जिज्ञासायां पशुशब्दनिष्ठस्य पुंस्त्वस्य, स्वाश्रयवाच्यत्वसंबन्धेन(स्वं-पुंस्त्वं, स्वाश्रयः-पशुशब्दः, तद्वाच्यत्वं-पुंव्यक्ताविति तादृशसंबन्धेन)पशुशब्दोपस्थिते चतुष्पादर्थे विशेषणतयाऽन्वयात्परम्परया पुंस्त्वविशिष्टेन लौकिकपुंस्त्ववता पशुना यजेतेति लौकिकपुंस्त्वविशिष्टपशारेव विधानान्न पशुस्त्रिया यागकरणापत्तिः। अस्त्रीविहितनाभावान्तपशुनेति प्रयोगात्पशुशब्दस्य पुंस्त्वावगमांत्पुंलिङ्गस्य पशुशब्दस्य पुंव्यक्तेरेव वाचकतया लिङ्गविशेषविशिष्टस्यैवार्थविशेषवाचकत्वमित्यस्य लिङ्गानुसासनशास्त्रसिद्धतया च स्त्रीव्यक्तिव्यावृत्तेर्लिङ्गस्यार्थविसेषनिश्चायकत्वादिति भावः। तदेतदभिसंधायोक्तं मूले-पस्वादिशदोक्तं-लिङ्गं पुंस्त्वमिति शेषः। पशुस्त्रियां नास्तीति हेतोः पशुनेति विधिश्छाग्यादीन्यागाङ्गत्वेन न प्रयोजयति-न ग्राहयतीति विभावनीयमिति। ननु पशुशब्दोक्तं पारिभाषिकं पुंस्त्वं पुंपशाविव स्वाश्रयवाच्यत्वसंबन्धेन पशुस्त्रियामप्यस्त्येव। तथा च पुंलिङ्गपशुशब्दस्य लोकिकपुंस्त्वविशिष्टपशोरेव वाचकत्वमिति नियमस्य वक्तुमशक्यत्वात्पशुस्त्रीव्यावृत्तेरसंभवाल्लिङ्गस्यार्थविशेषनिश्चयकत्वासंभवात्पशुस्त्रियाऽपि यागकरणापत्तिरूपो दोषस्तदवस्थ एवेत्याशङ्कते-न च व्यक्त्यादीति। आदिशब्देन नित्यनपुंसकत्वपुंस्त्वयोर्वस्तुपदार्थशब्दयोः संग्रहः। स्त्रियां क्तिन्निति स्त्रियां विहितक्तिन्प्रत्ययान्तव्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन घटपटादेः सर्वस्याप्यर्थस्य व्यक्तिशब्दवाच्यत्वेन व्यक्तिशब्दोपात्तं स्त्रीत्वं स्वाश्रयवाच्यत्वसंबन्धेन यथा सर्वार्थवृत्ति भवति, अत एव न तदर्थव्यावर्तकं तद्वत्पश्वादिश्ब्दोपात्तपुंस्त्वस्यापि स्वाश्रयवाच्यत्वरूपपरम्परासंबन्धेन पशुस्त्रीवृत्तित्वं संभवत्येव। साधारण्यमिति। स्त्रीपुंसवृत्तित्वमित्यर्थः। तथा च पशुशब्दोक्तं पुंस्त्वमपि न पशुस्त्रीव्यावर्तकं भवेत्। पुंपशुमात्रनिष्ठस्यैव पशुस्त्रीव्यावर्तकत्वान्न तु स्त्रीपुंससाधारणस्येति भावः। क्तिन्नन्तस्य व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वात्तदुपात्तलिङ्गस्य स्त्रीत्वस्य स्वाश्रयवाच्यत्वसंबन्धेन पुंनपुंसकादिसकलार्थसाधारण्येऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमाणाभावान्न तदुपात्तलिङ्गस्य पुंस्त्वस्य स्त्रीपुंससाधारण्यमित्यशयेन परिहरति-व्यक्तिशव्दस्येति। वेदे दर्शनादिति। पश्वेत्यादिप्रयोगदर्शनात्स्त्रीलिङ्गेऽपि पशुशब्द इति भावः। पुंलिङ्गे नादेशप्रवृत्त्योक्तरूपासिद्धिः स्पष्टैव। तथा घेर्ङितीति गुणप्रवृत्त्या पश्वे, इति रूपासिद्धिश्च। तथा च वेदे स्त्रीलिङ्गस्यापि पशुशब्दस्य दर्शनेन नास्य व्यक्त्यादिशब्दत्वस्त्रीपुंससाधारण्यमिति भावः। ततश्च लौकिकस्त्रीत्वविशिष्टवाची पशुशब्दो भिन्नः, लौकिकपुंस्त्वविशिष्टवाची च पशुशब्दो भिन्नः। तत्रास्त्रियामित्युक्तेः स्त्रियां नाबावाप्रवृत्त्या पशुनेत्यत्र नाभावदर्शनेन पुंलिङ्गस्यैव पशुशब्दस्योपादानाल्लौकिकपुंस्त्वविशिष्टमेव शास्त्रीयपुंस्त्वमयं पशुशब्द आचष्टे। पुंलिङ्गः पशुशब्दः लौकिकपुंपशोरेव वाचक इति यावत्। एवं च लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्ववत एव पशोर्विधानात्, आनुपूर्वीसाम्याच्छब्देष्वभेदारोपेण शास्त्रीयलिङ्गस्य पुंस्त्वस्य स्वाश्रयवाच्यत्वपरम्परासंबन्धेन पशुस्त्रियां सत्त्वेऽपि लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वाभावान्न पशुस्त्रिया यागकरणापत्तिरित्याशयः। किंच लौकिकलिङ्गानादरेण केवलशास्त्रीयलिङ्गस्यैव लिङ्गप्रयुक्तकार्यप्रवृत्तौ नियामकत्वे स्त्रीवाचकपशुशब्दनिष्ठलिङ्गस्य स्त्रीत्वस्य स्वाश्रयवाच्यत्वसंबन्धेन पुंपशावपि सत्त्वेनास्त्रियामिति निषेधप्रवृत्तेः पशुनेत्यत्र नाभावो दुर्लभः स्यात्। अतोऽपि लौकिकलिङ्गविशिष्टस्यैव शास्त्रीयलिङ्गस्य लिङ्गप्रयुक्तकार्यप्रवृत्तौ नियामकत्वं वाच्यम्। तथा च लौकिकस्त्रीत्वविशिष्टशास्त्रीयस्त्रीत्ववत्यामेवास्त्रियामिति निषेधप्रवृत्तेः स्त्रीवाचकपशुशब्दे नाभावाप्रवृत्त्या पश्वेति रूपं सिध्यति। पुंपशौ तु शास्त्रीयस्त्रीत्वसत्त्वेऽपि लौकिकस्त्रीत्वविशिष्टसास्त्रीयस्त्रीत्वाभावेनास्त्रियामिति निषेधाप्रवृत्त्या पुवाचकपशुशब्दे नादेशप्रवृत्तेः पशुनेति निर्देशेन पुंलिङ्गनिर्णय इति भावः। पश्वादिशब्दोक्तं पशुस्त्रियां नास्तीत्यस्य लौकिकपुंस्त्वविशिष्टं सास्त्रीयपुंस्त्वं पशुस्त्रियां नास्तीत्यर्थो बोध्यः। केवलशास्त्रीयपुंस्त्वपरत्वे तु तदसंगतिः स्पष्टैव। पशुनेत्यत्र नाभावश्रवणात्पशुशब्देन लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्ववत एव पशोर्ग्रहणमित्यर्थे मीमांसकसंमतिं प्रदर्शयति-मीमांसायामिति। चतुर्थाध्याये प्रथमपादे(तथा च लिङ्गम्4-1-17)इत्यत्र पशुशब्दे पुंलिङ्गमविवक्षितम्। कुतः-अलिङ्गेऽपि वृक्षपदार्थे पुंलिङ्गवृक्षशब्दप्रयोगदर्शनात्पुंव्यक्तावपि स्त्रीलिङ्गमक्षिकाशब्दप्रयोगाच्चेत्याशङ्क्य, वृद्धव्यवहारेऽन्वयव्यतिरेकाभ्यामंनन्यथासिद्धाभ्यां यथा पशुत्वजातिस्तदेकत्वं वा शब्दार्थस्तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात्। वृक्षमक्षिकाशब्दयोस्त्वभियुक्तप्रयोगमात्रबलेन साधुत्वम्। तस्मात्-एकत्ववत्पुंलिङ्गमपि विवक्षितमिति सिद्धान्तितम्। ततश्च पुंपशुरेवाऽऽलब्धव्यः स च एक एव, न स्त्रीपशुर्नापि द्वाविति निर्णीतम्। विवक्षितेऽपि पुंस्त्वे यदि लौकिकलिङ्गानादरेण प्रवृत्तिः स्यात्तर्हि केवलशास्त्रीयलिङ्गस्य पुंस्त्वस्य स्त्रीपुंससाधारण्येन स्त्रीव्यक्तिव्यावृत्तिर्न स्यादिति सिद्धान्तो व्याकुप्येत। लौकिकलिङ्गसहकारेम प्रवृत्तौ तु लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वं पशुस्त्रियां नास्तीति न पशुस्त्रीव्यावृत्त्यनुपपत्तिः। तद्वदेव प्रकृतेऽपि बोध्यमित्याशयेनाऽऽह-पशुना यजेतेत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वादित्यादि प्रतिपादितत्वाच्चेत्यन्तम्। ननु पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमामाभाव इत्युक्तं तदसंगतम्। उप्रत्ययान्तानां नित्यपुंलिङ्गत्वस्य व्याकरणशास्त्रेणैव निर्णीतत्वात्। जसादिषु च्छन्दसि वावचनमिति पश्वेत्यत्र नाभावाभाव इति वेदभाष्य उक्तत्वाच्च। तथा च पशुशब्दोक्तपुंस्त्वस्य व्यक्त्यादिशब्दोपात्तलिङ्गत्वत्स्त्रीपुंससाधारण्येन स्त्रीव्यक्तिव्यावृत्त्यसंभवात्प्रकारान्तरेण पशुस्त्रीग्रहणप्रसक्तिं वारयति-वस्तुतस्त्विति। पशुशब्दस्य नित्यपुंलिङ्गत्वे पश्वेत्यादिप्रयोगानुपपत्तिरित्यत आह-बेदभाष्येऽपीति। नाभावाभाव इति। तथा च पशुशब्दस्य नित्यपुंलिङ्गत्वेऽपि न पश्वेत्यादिप्रयोगानुपपत्तिरिति भावः। नित्यपुंस्त्वनिर्णयादिति। ततश्च पुंस्त्वस्य साधारण्यात्स्त्रीव्यक्तिव्यावृत्त्यनुपपत्तिरिति भावः। तथाचोक्तयुक्तेः स्त्रीव्यक्तिव्यावर्तकत्वासंभवेऽपि तद्व्यावर्तकं युक्त्यन्तरं व्याचष्टे-छागो वा मन्त्रेति। छागो वा मन्त्रवर्णात्(जै.सू.6-8-33)अत्र हि अग्नीषोमीयं पशुमालभेतेत्यत्र पशुपदेनाज एव ग्राह्यो नाश्वादिः। छागस्य वपाया इति मन्त्रवर्णादिति निर्णीतम्। अत्र छागस्येति पशुविशेषश्रवणादश्वाद्यनादृत्य छाग एव गृह्यते यथा तद्वच्छागस्येति स्यशब्दान्तं षष्ठ्यन्तं छाग्यां न संभवतीति छागो लौकिकपुंस्त्वविशिष्ट एव गृह्यते, न छागीति पुंस्त्वनिर्णयः क्रियते। छागशब्दस्य व्यक्तिशब्दमन्नित्यलिङ्गत्वाभावादिति भावः। एवं प्रकृतेऽपि तत एव पुंस्त्वं निर्णेतव्यमित्यर्थः। न्यायेनैवेत्येवकारण पशुशब्दोपात्तस्य पुंलिङ्गस्य स्त्रीप्यक्तिव्यावर्तकत्वासंभवः सूचितः। पशुशब्दस्य पदार्थादिशब्दवन्नित्यलिङ्गत्वादिति भावः। नन्वस्तूक्तस्थले तावदेवं, परंतु सर्वनामनिष्ठलिङ्गस्य चेतनाचेतनस्त्रीपुंससाधारणत्वात्। `प्रास्मा अग्निं भरत' इत्यध्रिगुप्रैषस्य सारस्वत्यां मेष्यामपि प्रवृत्तिः स्यात्। न चेष्टापत्तिः। `लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात्'(जै.सू.9-1-45)इत्यूहलक्षणाधिकरणे पशूनां समानविधानत्वेऽपि पुंलिङ्गनिर्देशान्न तत्र मन्त्र इत्युक्तेः। न च सामान्ये नपुंसपमित्यनुशिष्टमस्मै इति नपुंसकमेव मेषीसाधारणमस्त्विति वाच्यम्। अन्वेनं माता मन्यतामनु पितेत्यन्वादेशेन पुंस्त्वनिर्णयात्। अन्वादेशे नपुंसके एनद्वक्तव्य इति वार्तिकादेनदित्यापत्तेरिति चेदुच्यते-पूर्वोपस्थिततत्तद्रूपेणोपस्थापकात्, अस्मै, एनमित्यादिपदाच्छागत्वादिविशिष्टानामिव पुंस्त्वादिविशिष्टानमेव पशूनामुपस्थित्यामेष्यामप्रवृत्तेः संभवादित्यादिर्विस्तरो बृहद्भूषणेऽनुसंधेय इत्याशयवानाह-विस्तरेम प्रपञ्चितं भूषण इति। चतुष्कमिति। एकत्वादिसंख्यासहितं स्वार्थद्रव्यलिङ्गत्रिकमित्यर्थः। चतुर्णां समूहश्चतुष्कम्। पञ्चकमिति। पञ्चानां समूह इत्यर्थः। कर्त्रादिकारकसाहितं स्वार्थद्रव्यलिङ्गसंख्याचतुष्कमित्यर्थः। लिङ्गसंख्याकारकाणां नामार्थत्वं साधयितुं शङ्कते-नन्विति। अन्वयव्यतिरेकाभ्यामिति टाबादिसमभिव्याहारेऽजाश्वादिपदात्स्त्रीत्वप्रतीतेष्टाबाद्यभावे च स्त्रीत्वाप्रतीतेरित्येवं प्रतीत्यप्रतीतिरूपाभ्यामित्यर्थः। एवं संख्याकारकविषयेऽपि घटमिति द्वितीयैकवचनश्रवणादेकत्वकर्मत्वयोरवगमात्तदश्रवणे च तयोरनवगमाल्लिङ्गादित्रयस्य प्रत्ययार्थत्वमुचितमिति भावः। तत एवेति। प्रत्ययादेवत्यर्थः। उपस्थितौ-लिङ्गादीनामुपस्थितौ जायामानायां सत्यां प्रत्ययार्थत्वनिश्चयान्न तेषां नामार्थत्वमाश्रयितुं युक्तमित्याह-सत्यमिति। सत्यमिति याथार्थ्ये, त्वदुक्तिर्यथार्थेत्यर्थः। लिङ्गादित्रिकस्य प्रत्ययार्थत्वसाधकयुक्तिवत्तस्य नामार्थत्वसाधिकाऽपि युक्तिरस्तीत्याह-प्रत्ययवर्जित इति। दधि पश्यतीति। स्वमोर्नपुंसकादितिशास्त्रानुसारेण वैयाकरणानामत्र नपुंसकप्रकृतिकद्वितीयैकवचनामप्रत्ययज्ञानम्। इतरेषां त्वम्प्रत्ययाश्रवणान्नास्ति प्रत्ययज्ञानम्। प्रत्ययज्ञानाभावेऽपि च क्लीबत्वैकत्वोभयविशिष्टदाधिकर्मकं दर्शनमिति बोधोदयस्य तद्वाक्यादनुभवसिद्धत्वेन लिङ्गादित्रिकस्य प्रकृत्यर्थत्वं सिध्यति। अन्यथाऽनुभवविरोधः स्पष्टएव। पश्यतीत्यादावित्यादिपदेन राजाऽमियं गच्छतीत्यादेः संग्रहः। किंच शास्त्रेण प्रकृतेरेव लिङ्गमनुशिष्टं दृश्यत इति लिङ्गस्य नामार्थत्वमेवोचितमित्याह-लिङ्गानुशासनस्येति। अत एवेति। लिङ्गादिवयस्य प्रत्ययवाच्यत्वे प्रकृतिवाच्यत्वे चेत्युभयत्रापि युक्तेः सत्त्वादेवेत्यर्थः। न निर्बन्ध इति। प्रत्ययवाच्यत्वमेव समीचीनमथवा प्रकृतिवाच्यत्वमेव समीचीनमित्येवंविध आग्रहो न धर्तव्य इत्यर्थः। उभयत्र युक्तिसत्त्वेऽपि लाघवानुरोधेन लिङ्गादित्रयस्य प्रत्ययवाच्यत्वं युक्तमित्याह-वाचकताया युक्तत्वादिति। अनन्तप्रकृतीनां वाचकत्वकल्पने गौरवात्तदपेक्षया स्वल्पतरटाबादिस्वादिप्रत्ययानां वाचकत्वकल्पने लाघवादिति भावः। ननु टावादिस्त्रीप्रत्ययं विनाऽपि वाक्शरदादिशब्देभ्यः स्त्रीत्वबोधस्य सर्वजनानुभवसिद्धत्वेन कारणाभावेऽपि कार्यसत्त्वरूपव्यतिरेकव्यभिचारात्प्रकृतिप्रत्यययोरितिन्यायेन प्रत्ययार्थत्वाल्लिङ्गस्य प्राधान्यापत्तेश्च लिङ्गस्य नामार्थत्वमेव। संख्याकारकयोस्तु नामार्थत्वं प्रत्ययार्थत्वं वेत्याह-द्योतिका वाचिका वेति। विभक्तीनां द्वित्वादिद्योतकतापक्षे संख्याकारकयोर्नामार्थत्वं, तासां तद्वाचकतापक्षे संख्याकारकयोः प्रत्ययार्थत्वमित्येवं वाक्यपदीये हरिणा संख्याकारकविषये नामार्थत्वं प्रत्ययार्थत्वं वेति पक्षद्वयस्य वर्णनादिति भावः। केचित्तु संख्याकारकयोरपि नागार्थत्वमेव। न चान्वयव्यतिरेकाभ्यां विभक्तीनामेव तद्वाचकत्वकल्पनमुचितमिति वाच्यम्। दधि पश्य, मधु आनयेत्यादौ विभक्तिं विनाऽपि संखअयाकारकप्रतीत्या व्यतिरेकव्यभिचारात्। तदेवं पञ्कं प्रातिपदिकार्थ इति पक्षः श्रेयान् प्रातिपदिकाज्जतिलिङ्गसंख्याकारकप्रकारकद्रव्यविशेष्यकबोधस्यैव सर्वानुभवसिद्धत्वादिति प्राहुः। तत्तत्सूत्रनिर्देशं विना शास्त्रे निरूपिताः, इति सामान्यतः शास्त्रपदोपादानस्य तात्पर्यं वक्ति-बहुषु स्थलेष्विति। भाष्याद्याकरग्रन्थेषु तत्र तत्र सूत्रेऽमीषां पक्षाणां निरूपणमस्तीति सूचयितुं सामान्यतः शास्त्रपदोपादानमित्यर्थः। प्राधान्येनेति। सरूपसूत्रे सर्वेषामेव पक्षाणां भाष्यकारैर्निरूपितत्वादिति भावः। सरूपसूत्रादावित्यादिपदेनानभिहितसूत्र--तत्रोपपदमितिसूत्रस्थकैयटयोः संग्रहो। बोध्यः। अत्रेदं बोध्यम्-एकं द्विकं त्रिकं चतुष्कं पञ्चकं प्रातिपदिकार्थः, इति पञ्च पक्षाः शास्त्रे तत्र तत्र निरूपिताः सन्ति। तत्र एकं प्रातिपदिकार्थ इति पक्षो मीमांसकमात्रसंमतत्वेन निरालम्बनाया जातेः प्रतीत्यननुभवादसंभवदुक्तिकत्वेन चेहोपेक्षितः। तथा च आदितः द्विकं(1), आदितस्त्रिकां(2)आदितश्चतुष्कं(3), संख्यातिरिक्तं चतुष्कं(4), आदितः पञ्कं(5) च प्रातिपदिकार्थ इति पञ्च पक्षाः। तत्र कस्मिन्पक्षेऽनभिहितसूत्रमावश्यकं कस्मिंश्च व्यर्थमिति भाष्यानुसारेणोच्यते-आदितः-द्विकं त्रिकं इति पक्षे संख्या कारकं च विभक्त्यर्थः। आदितश्चतुष्कमिति पक्षे कारकमात्रं विभक्त्यर्थः। संख्यातिरिक्तं चतुष्कमिति पक्षे संख्यामात्रं विभक्त्यर्थः। पञ्चकमिति पक्षे संख्याकारकयोर्विभक्त्यर्थत्वं नास्तीति तत्पक्षे तयोर्विभक्तिद्योत्यत्वमेव। द्योत्यत्वेनैव चैषां, सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङामित्यत्र भाष्ये विभक्त्यर्थत्वमिति व्यवहारः एवं च आदितः दिकं, त्रिकं, संख्यातिरिक्तं चतुष्कं चेति पक्षत्रये संख्या विभक्त्यर्थः संपद्यते। तथा आदितः द्विकं त्रिकं चतुष्कं चेति पक्षत्रये कारकं विभक्त्यर्थो भवति। तत्र स्वौजस्, कर्मणि द्वितीया, द्व्येकयोः, इत्यादीनामेकवाक्यता। सा चेत्थम्-स्वौजस्इत्यत्र पदद्वयं-प्रातिपदिकात्, अम्, इति च। कर्मणि इत्यत्र च पदद्वयं-कर्मणि, द्वितीया, इति च तथा द्व्येकयोरित्यत्रापि पदद्वयं-द्व्येकयोः, द्विवचनैकवचने, इति च। एवं च षट् पदानि जायन्ते तत्र प्रायो व्याकरणशास्त्रे कारकपञ्चम्यसंभवेन दिग्योगलक्षणपञ्चगी बोध्या। पञ्चम्यर्थोऽवधिः। तथा च प्रातिपदिकात् इत्यस्य पञ्चम्यन्तस्यावधिभावेन विधेये अम्प्रत्ययेऽन्वयः। प्रातिपदिकावधिकपरत्ववान् अम् प्रत्ययो भवतीत्यर्थः। कर्माणीति सप्तम्यन्तस्य निष्ठत्वसंबन्धेन द्व्येकयोरित्यत्रान्वयः-कर्मगते द्वित्वे एकत्वे चेति। व्द्येकयोरित्यस्य च वाचकत्वसंबन्धेनाम्प्रत्ययेऽन्वयः-ेकत्ववाचकोऽम् भवतीति। द्वितीया, द्विवचनैकवचने इत्यनयोस्त्वबेदसंबन्धेनाम्येवान्वयः-द्वितीयैकवचनाभिन्नोऽमित्यर्थः। एवं च महावाक्यार्थः-पातिपदिकात् कर्मगतैकत्ववाचकोऽम् प्रत्ययो भवतीति। अयं च संख्याविभक्त्यर्थकपक्षत्रये वाक्यार्थः। अत्र सूत्रजबोधे संख्यायाः प्राधान्यम्। कारकविभक्त्यर्थकपक्षत्रये त्वित्यम्-संख्यायाः सर्वत्र विशेषणतयैव भाननियमात् व्द्येकयोरित्यस्य आधेयतार्सबन्धेन कर्मणीत्यत्रान्वयः। एकत्वे यत्कर्मेत्यर्थः। वृक्षे शाखेतिवदेकत्व इति सप्तमी आधेयस्याऽऽधारत्वविवक्षया। एवंच वाक्यार्थः-प्रातिपदिकात् एकत्वविशिष्टे कर्मणि नाम एकत्वविशिष्टकर्मवाचको द्वितीयैकवचनममिति। अस्मिन्पक्षे सूत्रजबोधे कर्मादेः प्राधान्यम्। पञ्चकं प्रातिपदिकार्थ इति पक्षे त्वेवं वाक्यार्थः-प्रातिपदिकात् तदर्थकर्मगतैकत्वे द्योत्ये द्वितीयैकवचनमम्प्रत्ययो भवतीति। इत्येकोऽर्थः। आरश्च-प्रातिपदिकात् तदर्थगतैकत्वविशिष्टे कर्मणि द्योत्ये द्वितीयैकवचनमम् प्रत्ययो भवतीति। तत्र प्रथमवाक्यार्थे कर्मगतैकत्वे, इत्यन्वयेन सूत्रजबोधे संख्यायाः प्राधान्यम्। द्वितीये तु एकत्वविशिष्टे कर्मणीत्यन्वयेन सूत्रजबोधे कर्मादेः प्राधान्यम्। पञ्चकं प्रातिपदिकार्थ इति पक्षे संख्यायाः कारकस्य व विभक्त्यर्थत्वं द्योत्यत्वेनैवेति प्रागुक्तमेव। एवं सति यद्यनभिहित इति सूत्रं न क्रियेत तर्हि कृतः कट इत्यत्र क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया, कर्मगतैकत्वे द्योत्ये द्वितीयैकवचनममिति पञ्चकं प्रातिपदिकार्थ इति पक्षीयप्रथमवाक्यार्थेनाम् दुर्वारः स्यात्। अतोऽप्रधानकर्मादिविशेषणार्थमनभिहिताधिकार आवश्यकः। तथा चानभिहितकर्मगतैकत्वे द्योत्येऽम्प्रत्यय इत्यर्थेन क्तेन कर्मण उक्तत्वात्कृतः कट इत्यत्र नाम्प्रत्ययः प्राप्नोतीत्यर्थः। एवं च संख्याविभक्त्यर्थ इथि पक्षेऽनभिहिताधिकार आवश्यक इति भावः। तथा च आदितः द्विकं, त्रिकं, संख्यातिरिक्तं चतुष्कं च प्रातिपदिकार्थ इति पक्षेष्वपि संख्याया विभक्त्यर्थत्वादनभिहितसूत्रमावश्यकमिति बोध्यम्। पञ्चकं प्रातिपदिकार्थ इति पक्षीयद्वितीयवाक्यार्थे तु एकत्वविशिष्टे कर्मणीत्यन्वयेन सूत्रजबोधे कर्मादेः प्राधान्यात्सूत्रजबोधविषयप्रधानविषयेणोक्तार्थानामितिन्यायेन कृतः कट इत्यादौ द्वितीयाया अप्राप्तेः सिद्धत्वादनभिहताधिकारोऽनावश्यकः। तथा च कारकं विभक्त्यर्थ इति पक्षेऽनभिहितसूत्रं व्यर्थमिति भावः। एवमादितः द्विकं, त्रिकं, चतुष्कं च प्रातिपदिकार्थ इति पक्षेष्वपि कारकस्य विभक्त्यर्थत्वादनभिहितसूत्रं व्यर्थमिति बोध्यमिति।। 25 ।।
ननु घटमानयेत्यादिवाक्यजन्यशाब्दबोधे घटादिशब्दभानस्याननुभवात्तस्य प्रातिपदिकार्थत्वसाधनमयुक्तमित्याशङ्कायामाह-शब्दस्तावदिति। शब्दोऽपीत्यर्थः। भासत इति। स्वार्थद्रव्यादिवच्छब्दस्यापि शाब्दबोधे भानं भवतीत्यर्थः। आत्रार्थे हर्युक्तिं प्रमाणयति-न सोऽस्तीति। लोके-विद्वदनुभवे तादृशः शाब्दबोधात्मकः प्रत्ययो नास्त्येव, यत्र(शाब्दबोदात्मकप्रत्यये) शब्दरूपविशेषणभानं न भवतीत्येतादृश इत्यर्थः। यतः सर्वं ज्ञानं शाब्दबोदात्मकं शब्देन-शब्दरूपविशेषणेनानुविद्धं नित्यसंबद्धमेव भासते प्रतीयत इति तत्तच्छास्त्रीयसकलतत्त्वविषयकबोदानुभववत्तमहर्युक्तेरिति भावः। यत्र प्रत्यक्षज्ञानं तत्रापि शब्दार्थयोस्तादात्म्यादारोपितं शब्दभानमस्त्येवेति सूचयितुमनुक्द्धिमिवेतीवशब्दः प्रयुक्तः। प्रत्यक्षादिरूपकलज्ञाने शब्दभानं शब्दार्थयोस्तादात्म्यादुपपद्यत इति यावत्। शब्दार्थयोस्तादात्म्यं च अर्थं शृणोति अर्थं वदति इत्यादिप्रयोगानुसारेणानुभवसिद्धत्वादनपलपनीयम्। नह्यर्थस्य कम्बुग्रीवादिमतः श्रवणं वदनं वा संभवति? कदापि नैव संभवतीत्यर्थः। किंतु तद्वाचकशब्दस्यैव श्रवणमुच्चारणं वा संभवति। अतोऽर्थं शृणोतीत्यादिप्रयोगानुपपत्तिः। शब्दार्थयोस्तादात्म्याङ्गीकारे तु तत्तादात्म्घापन्नं शब्दं शृणोतीत्यर्थबोदात्तादृशप्रयोगोपपत्तिः। एवं चार्थश्रवणोच्चारणान्यथानुपपत्त्या शब्दार्थयोस्तादात्म्यमनिच्छताऽप्यङ्गीकार्यम्। अत एव ओमित्येकाक्षरं ब्रह्म, रामेतिद्व्यक्षरं नाम मानभङ्गः पिनाकिनः, वृद्धिरादैच्, इत्येवमादौ शक्तिग्राहकश्रुतिस्मृतिविषये सामानाधिकरण्येन प्रयोगश्च संगच्छते। यत्तु शब्दार्थयोस्तादात्भ्येऽग्निशब्दोच्चारणे मुखे दाहापत्तिरित्यादिद्वणं, तत्तु तादात्म्यस्य तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वेन भेदाभेदघटितत्वान्निराकृतं मञ्जूवायाम्। शब्दार्थयोर्भेद एव वास्तवोऽभेदस्त्वारोपितः। वास्तवभेदादेव नाग्निशब्दोच्चारणेन मुखे दाहापत्तिसंभवः। नापि आरोपिताभेदात्तत्संभवः। न ह्यारोपिताग्नित्वविशिष्टगुञ्जाफलेभ्योऽग्निकार्यं दाहादि लोके दृश्यते? नैव दृश्यत इत्यर्थः। अतोऽर्थशब्दयोस्तादात्म्याङ्गीकारेऽपि न निरुक्तदूषणापत्तिरिति भावः। नन्वेवं भवतु शब्दभानं तथापि शब्दस्य नामार्थत्वं कथमित्यत आह-विष्णुमुच्चारयेति। यद्यत्र विष्णुपदात्स्वार्थद्रव्यालिङ्गाद्यर्थवद्विष्णुशब्दस्याप्युपस्थितिर्न स्यात्तार्हि अर्थोच्चारणासंभवेन विष्णुमुच्चारयेति वाक्यार्थबोधानुपपत्तिः स्यात्। अतः शब्दादर्थवत्स्ववाचकशब्दस्याप्युपस्थितिर्भवति। उपस्थितिश्चोच्चरितसमानानुपूर्वीकस्यैव शब्दस्य, न नारायणादेः पर्यायस्य। तथा च विष्णुशब्दस्योपस्थितौ सत्यां तत्र वाचकतासंबन्धेनार्थस्यान्वयाच्चतुर्भुजरूपार्थवाचकं विष्णुशब्दमुच्चारयेत्यर्थबोधोदयाच्छब्दोऽपि प्रातिपदिकार्थ इति भावः। लक्षणयेति। स्वशक्यसंबन्धरूपयेत्यर्थः। स्वं-विष्णुशब्दः, स्वशक्यः-लक्ष्मीपतिरूपोऽर्थः, तत्संबन्धो वाच्यतया विष्णुशब्दे इति स्ववाच्यवाचकत्वसंबन्धेन लक्षणया वाक्यार्थबोधनिर्वाह इति चेन्न। तावताऽपि शब्दस्य प्रातिपदिकार्थत्वा(प्रातिपदिकवाच्यत्वा)सिद्धेः। किं च द्विविधा हि लक्षणा प्रयोजनवती निरूढा चेति। प्रयोजनवती चेत्-यथा गङ्गायां घोष इत्यत्र घोषे शैत्यपावनत्वादिप्रतीतिः प्रयोजनं तद्वदत्र लक्षणायाः प्रयोजनं वक्तव्यं स्यात्। प्रयोजनादर्शनान्निरूढेति चेदाह-शक्त्यनतिरेकादिति। निरूढलक्षणायाः शक्त्यतिरिक्तत्वाभावादित्यर्थः। यथाऽस्य शब्दस्यैतस्मिन्नर्थे शक्तिरित्यनादितात्पर्यग्रहवशाब्दुध्यते तथा निरूढलक्षणाऽपि अनादितात्पर्यग्रहाधीनेत्यर्थः। अनादितात्पर्यं च यथा विष्णुपदस्य लक्ष्मीपतौ प्रसिद्धं, तथा विष्णुशब्देऽपीति निरूढलक्षणाश्रयणं नाम शक्त्याश्रयणमेवेति भावः। किं च लक्षणाया न सर्वत्र संभव इत्याह-जबगडदशमुच्चारयेति। निरुक्तसमुदास्य कुत्रापि शक्तत्वाभावादेकाक्षरकोसादिप्रामाण्यात्प्रत्येकवर्णस्य शक्यार्थसत्त्वेऽपि जबगडदशेतिसमुदायात्तत्प्रतीत्यभावाच्च शक्यार्थाग्रहेण समुदायस्य शक्यार्थाभावाच्छक्यसंबन्धात्मकलक्षणाया अपि तत्रासंभवात्। यत्र शक्यार्थ एव न गृह्यते तत्र शक्यसंबन्धरूपलक्षणाया वार्ताऽपि दूरोत्सारितेति स्वार्थद्रव्यादिवच्छब्दस्य स्वस्वरूपेऽपि शक्तिराश्रयणीयेति भावः। शब्दादर्थस्येव शब्दस्याप्युपस्थितौ तु तादृशसमुदायस्यैव तादृशपदशक्यत्वेन न जबगडदशमच्चारयेति वाक्यार्थबोदानुपपत्तिः। ननु तत्र शक्यार्थाज्ञानाल्लक्षणाया अज्ञातत्वेऽपि जबगेतितत्तदवयवशक्यार्थवाचकत्वरूपलक्षणाया वस्तुतः सत्त्वाद्वाक्यार्थत्रोधोऽस्त्वित्यत आह-अज्ञाताया इति। गङ्गायां घोष इत्यत्र गङ्गापदस्य वस्तुतः सतोऽपि स्वशक्यप्रवाहसामीप्यसंबभ्धस्याज्ञाने लक्ष्यतीररूपार्थबोधाजननेन ज्ञाताया एव वृत्तेरर्थोपस्थितौ प्रयोजकत्वमित्यस्याऽऽवश्यकत्वात्प्रकृते लक्षणाया अग्रहान्न वाक्यार्थबोध उदेतीति भावः। ननु निरुक्तस्थले यदाकदाचिज्जातवृत्तिज्ञानवशाद्वाक्यार्थबोधोऽस्त्वित्याग्रहे त्वाह-गावमुच्चारयेति। गावेति भाषास्थः शब्दः कश्चिदनर्थकः। गावेतिभाषाशब्दानुकरणैऽपि तादृशानुकरणशब्दानां साधुत्वस्य सर्वैरप्यङ्गीकारादनुकारणानां क्वापि शक्तावसत्यां शक्याग्रहाच्छक्यसंबन्धरूपलक्षणाया अपिनैयायिकसंमताया अग्रहादर्थबोधो न स्यात्, वृत्त्याऽर्थबोधजनकत्वारूपार्थवत्त्वाभावेन प्रातिपदिकसंज्ञाऽपि न स्यात्, साधुत्वं चापि न स्यादिति अनुकरणानां शब्दे शक्तिः स्वीकार्येत्यभिप्रायेण षोढाऽपि स्वार्थद्रव्यादिनिरुक्तपञ्चकसहितः शब्दोऽपि क्वचित्प्रातिपदिकार्थ इतायाह। क्वचिदित्युक्तं स्थलं प्रदर्शयति-शब्दोऽपि यदीति। क्वचिदित्युकत्वा शब्दोऽपि यदि भेदेनेत्युक्तत्वात्क्वचिदित्यस्यानुकरणस्थले इत्यर्थः। तच्चानुकरणं द्विविधमव्यक्तस्य व्यक्तस्य चेति। अव्यक्तस्येति ध्वनेरित्यर्थः। व्यक्तस्येति वर्णस्येत्यर्थः। कस्यचित्फलपतनध्वनेरनुकरणं पटदिति। तदाद्यम्। तत्रानुकार्यं ध्वनिमयं, अनुकरणं तु वर्णमयमिति तयोर्भेदः। द्वितीयं-गौरित्ययमाहेत्यादौ पदार्थविपर्यासकृदितिशब्दसभिव्याहारे। तत्रानुकार्यं स्वार्थद्रव्यादिपदार्थकं, अनुकरणं तु शब्दपदार्थकमित्यनुकार्यानुकरणयोर्भेदः, उभयोरानुपूर्वीसाम्येऽपि। अनुकरणत्वं च शब्दमात्रतात्पर्यकोच्चारणविषयत्वम्। अत एवाग्नेर्ढगत्यादौ नानुकरणत्वम्। विशेषणतयाऽर्थभानेन शब्दमात्रतात्पर्यकत्वाभावात्। गामानयेति वाक्यघटकगोशब्दाद्यथा स्वार्थदिपञ्चकस्योपस्थितिस्तद्वच्छब्दस्वरूपस्याप्युपस्थितिरनुभवसिद्धा। एवमनुकरणस्थलेऽपीति क्वचित्षोढाऽपि प्रातिपदिकार्थ इत्युक्तम्। तत्रोपस्थापकमनुकरणमुपस्थाप्यं त्वनुकार्यमिति व्यवह्रियते। यदि च तयोर्भेदेन विवक्षा क्रियते तदाऽनुकरणस्यानुकार्यशब्दस्वरूपमर्थः संपद्यते। तथा सति यद्यनुकार्यशब्दस्वरूपेऽर्थेऽनुकरणस्य शक्तिर्नस्वीक्रियते तर्हि पदजन्योपस्थित्यविषयस्यार्थस्य शाब्दबोधे भानानुपपत्तिरिति हेतोः शाब्दबोधभानोपपादकपदजन्योपस्थितिविषयत्वसिद्धयेऽनुकरणस्यानुकार्यशब्दस्वरूपेऽर्थे शक्तिरङ्गीकार्या। अन्यथाऽनुकार्यशब्दस्वरूपात्मकेनार्थेनासंबद्धस्यानुकरणस्य वृत्त्या तदुपस्थितिजनकत्वाभावेनानुकार्यशब्दस्वरूपस्य शाब्दबोधे भानं न स्यादिति भावः। अत एवानुकरणस्य वृत्त्याऽर्थबोधजनकत्वरूपार्थवत्त्वात्प्रातिपदिकसंज्ञया सुबाद्युत्पत्त्या गौरित्ययमाहेति प्रयोगस्तत्साधुत्वं च सिध्यति। यदि तु तयोर्भेदो न विवक्ष्यते, किं त्वभेद एव विवक्ष्यते तर्हि वाच्यवाचकभावस्य भेदावलम्बित्वेनाभेदे च वाच्यवाचकभावासंभवैनानुकार्यशब्दस्वरूपस्य पदजन्योपस्थितिविषयत्वाभावाच्छाब्दबोधे भानं न स्यादिति चेदुच्यते-यथा घटे सत्यपि यद्यालोकसहितं चक्षुर्न स्यात्तर्हि घटत्तर्ह्यपि घटप्रत्यक्षं नैव जायत इत्यनुभवबलात्प्रत्यक्षे विषयस्य हेतुत्वं क्लृप्तमस्ति। तथा च घटप्रत्यक्षे घटस्येव श्रावणप्रत्यक्षे शब्दस्य हेतुत्वादनुकार्याभिन्नानुकरणस्य श्रोत्रेण स्वप्रत्यक्षरूपा योपस्थितिः सा पदजन्यैवेति कृत्वा तादृशीं पदजन्योपस्थितिमादायानुकार्यस्य शाब्दबोदे भानं जायत एवेति न किंचिद्धीनम्। यद्यपि न सोऽस्ति प्रत्ययो, विषयत्वमनादृत्वेति वाक्यपदीयात्सर्वत्रैवं घटमानयेत्यादौ शाब्दबोधे घटादिशब्दभानसत्त्वेऽपि अनुकरणस्थले भेदाभेदप्रयुक्तसुबुत्पत्त्यनुत्पत्तिकृतशब्दप्रयोगभेददर्शनेन शब्दात्स्वार्थादेरिव स्वस्वरूपस्याप्युपस्थितेः स्पष्टमुपलभ्यमानत्वात्क्वचित्(अनुकरणस्थले) षोढाऽपि प्रातिपदिकार्थ इत्युक्तमिति बोध्यम्। ननु भेदाभेदात्मकपक्षद्वयेऽपि अनुकार्योपस्थितये स्वार्थादिपञ्चक इव षष्ठे शब्दांशेऽपि शब्दवृत्तिस्वीकारावस्यकत्वेन मूले भेदपक्ष एव तदावश्यकत्वकथनमनुचितमित्याशयेन मूलाभिप्रायमाविष्करोति-अयं भाव इत्यादिना। अनुकार्यानुकरणयोर्भेद इति। तयोर्भेदविवक्षायां पटदित्यादावनुकार्यानुकरणयोर्भेदा ध्वनिमयत्ववर्णमयत्वरूपविरुद्धधर्मसंबन्धेन सिद्धः। गौरित्ययमाहेत्यादौ त्वर्थपदार्थकत्वशब्दपदार्थकत्वाभ्यां विरुद्धधर्माभ्यां तयोर्भेदः सिद्ध इति भावः। पदानुपस्थितत्वादिति। अस्य शक्त्यभावे, इत्यादि। तथा च शक्त्यभावेऽनुकार्यस्य पदजन्योपस्थितिविषयत्वासंभवादित्यर्थः। तत्सिद्धय इति। पदजन्योपस्थितिविषयत्वसिद्धय इत्यर्थः। अन्यथा शाब्दबोधविषयत्वं न स्यात्। वृत्त्या पदजन्यपदार्थोपस्थितेरेव शाब्दबोधहेतुत्वात्। शक्तिरित। वाच्यवाचकभावरूपा। उपेयेति। स्वीकार्यैवेत्यर्थः। अन्यथाऽसंबद्धस्यानुकरणस्यानुकार्योपस्थापकत्वासंभव इति भावः। अनुकार्यानुकरणयोरभेदेऽतिरिक्तशक्तिं विनैव शाब्दबोधविषयता भवतीत्याह-अभेद इति। विवक्षित इति शेषः। तत्पक्ष इति। अनुकार्यानुकरणयोरभेदपक्ष इत्यर्थः। प्रत्यक्षे विषयस्य हेतुत्वादिति। आलोकसहकृतचक्षुःसत्त्वेऽपि यदि घटो न स्यात्तर्हि घटप्रत्यक्षं न जायते, तत्सत्त्वे तु जायत इत्यनुभवबलाद्घटप्रत्यक्षे घटस्येव शब्दीयश्रावणप्रत्यक्षे शब्दस्य कारणत्वादित्यर्थः। स्वप्रत्यक्षरूपामिति। श्रोत्रेन्द्रियेणानुकार्याभिन्नानुकरणशब्दसाक्षात्काररूपामुपस्तितिमित्यर्थः। तादृशी चोपस्थितिः पदजन्यैव, शब्दसत्त्व एव शब्दप्रत्यक्षस्य जायमानत्वादिति भावः। शाब्दबोधविषयतेति। अनुकार्याभिन्नानुकरणशब्दस्य श्रावणप्रत्यक्षरूपां पदजन्योपस्थितिमादायानुकार्यस्य शाब्दबोधविषयतोपपद्यत इति भावः। अत्रेदं बोध्यम्-अभेदपक्षे स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय यथा शाब्दबोधे शब्दस्य भानं तद्वद्घटमानयेत्यादौ घटादिपदानामपि श्रोत्रेण स्वप्रत्यक्षरूपां पदजन्योपस्थितिपादाय भानस्यावर्जनीयतया सर्वत्रैव शाब्दबोधे शब्दविषयकत्वं सिध्यति। तदुक्तं स्वं रूपमिति सूत्रे भाष्ये-`नवा शब्दपूर्वको ह्यर्थे संप्रत्ययस्तस्मादर्थनिवृत्तिः' इति। नवा-स्वं रूपमिति सूत्रं न वक्तव्यमित्यर्थः। किं कारणं? शब्दपूर्वको ह्यर्थे संप्रत्ययः-शब्दपूर्वक इत्यस्य शब्दज्ञानपूर्वको हीत्यर्थः। अर्थे संप्रत्ययः-अर्थप्रतीतिरित्यर्थः। उपलब्धस्यैव हि शब्दस्यार्थबोधकत्वं, नतु चक्षुरादिवत्सत्तामात्रेण बोधकत्वम्। अत एव गौरानेयेत्यभिप्रायेण गौरानेयेति परेणोक्ते, इतरः सम्यगश्रुत्वा परं पृच्छति किपाहेति, तेन गौरित्याहेत्युक्ते तत एवार्थबोधात्प्रवर्तते। एवं शब्दज्ञानसत्त्वेऽर्थज्ञानसत्त्वमित्यन्वयमुक्त्वा व्यतिरेकमा ह--आतश्च शब्दपूर्वः, यौऽपि ह्यसावाहूयते नाम्ना। नाम च यदाऽनेन नोपलब्धं भवति, तदा पृच्छति-किं भवानाहेति। एतेन शब्दज्ञानाभावेऽर्थज्ञानाभावरूपो व्यतिरेक उक्तः। तथा चोक्तभाष्याच्छब्दतदर्थयोरुभयोरपि शब्दाद्भानम्। शब्दपूर्वको हीत्यत्र हिः प्रसिद्ध्यर्थः। श्रोतुः शब्दज्ञानपूर्वकोऽर्थप्रत्यय इति लोके प्रसिद्धमित्यर्थः। इह च व्याकरणे शब्दे कार्यस्य संभवः, अर्थे चासंभवः। तस्मादर्थस्य निवृत्तिः। ननु शब्दतदर्थयोरुभयोरपि शब्दाद्भानस्यानुभवसिद्धत्वादर्थस्य निवृत्तिरित्युक्तिरयुक्तेति चेदुच्यते। अर्थे कार्यस्यासंभवादार्थो विशेषणं, शब्दे कार्यस्य संभवाच्छब्दो विशेष्यमित्यर्थादर्थवति शब्दे कार्यं करणीयमित्यर्थः। इयमेव ह्यर्थस्य निवृत्तिर्नाम यत्तस्य विशेष्यतापरित्याग इति। नच ज्ञाने सर्वत्र शब्दभाने सर्वपर्यायाणां भानापत्तिर्विनिगमनाविरहादिति वाच्यम्। अथंबोधानुकूलत्वेन प्रथमप्रतीतत्वरूपकारणत्वादुच्चरितस्यैव शब्दस्य भानेनादोषात्। तथा च-तस्मादर्थनिवृत्तिरित्यस्य-अर्थवाचकशब्दान्तरनिवृत्तिरित्यर्थ उक्त उद्योत इति बोध्यम्। लोके तु यत्र शब्दे इतरपदार्थान्वयरूपकार्यासंभवस्तत्र शब्दस्य विशेषणताऽर्थस्य च विशेष्यतेति शब्दोपस्थितेऽर्थे कार्यं कर्तव्यम्। यथा नीलो भ्रमरः, इत्युक्ते नहि नीलिमा शब्देऽन्वेति, भ्रमरशब्दे नीलिम्नोऽसंभवात्। किंतु भ्रमरशब्दवाच्ये षट्पदे कीटेऽन्वेति, तत्रैव तत्संभवात्। यत्र चार्थे कार्यासंभवस्तत्रार्थस्य विशेषणता, शब्दस्य च विशेष्यतेति तदर्थवाचके शब्दे कार्यं करणीयम्। यथा विष्णुमुच्चारयेत्यत्र विष्णुपदार्थे चतुर्भुजे उच्चारणक्रियान्वयासंभवात्तदर्थवाचके विष्णुशब्दे समभिव्याहृतक्रियान्वय इति बोध्यम्। ननु सामान्यतः पदजन्योपस्थितिविषयस्य शाब्दबोधे भानाङ्गीकारे समवायसंबन्धेन घटादिशब्दजन्योपस्थितिविषयस्याऽऽकाशस्य घटोऽस्तीत्यादिवाक्यजन्यशाब्दबोधविषयत्वापत्तिरत आह--अतिप्रसङ्गेति। वारणायेति। निरुक्तापत्तिरूपातिप्रसङ्गनिरसनायेत्यर्थः। पदोपस्थितिरेवेति। पदार्थोपस्थितिरेवेत्यर्थः। अनुकार्यशब्दप्रसङ्गात्तु पदोपस्थितिरित्युक्तम्। सा पदार्थोपस्थितिश्च वृत्तिजन्येति विशेषणाद्वृत्तिज्ञानजन्याऽपेक्षितेत्यर्थः। तथा चाऽऽकाशस्य घटपदत्समवायसंबन्धोनोपस्थितावपि वृत्त्या घटपदादुपस्थित्यभावेन घटोऽस्तीत्यादिवाक्यजन्यबोधे न तस्य भानमित्यर्थः। एवं गवित्ययमाहेत्यादावभेदपक्षेऽनुकार्याभिन्नानुकरणस्य पदादुपस्थितावपि वृत्त्या पदादुपस्थित्यभावेनानुकार्यस्य शाब्दबोधविषयत्वं न संभवतीति तात्पर्यम्। आश्रयतया वृत्तिमत्त्वस्येति। अनुकार्यानुकरणयौरभेदपक्षेऽनुकार्यस्य यत्किंचिदर्थवाचकत्वाद्वाचकतारूपा वृत्तिरनुकार्येऽस्ति। सा च वृत्तिरर्थनिरूपितत्वादाश्रयतासंबन्धेनेति वृत्तिमत्त्वस्यानुकार्ये सत्त्वान्नानुकार्यस्य शाब्दबोधविषयत्वानुपपत्तिः। आश्रयतासंबन्धेन वृत्तिमतोऽर्थस्य शाब्दे भानाङ्गीकारादिति भावः। नन्वाश्रयतासंबन्धेन वृत्तिमत्त्वस्यैव शाब्दबोधविषयत्वनियामकत्वे निरूपकतासंसर्गेण वृत्तिमतोऽर्थस्य शाब्दयोधे भानं न स्यादत आह-निरूपकताश्रयतान्यतरेति। निरूपकतासंबन्धेनाऽऽश्रयतासंबन्धेन वा वृत्तिमतोऽर्थस्य शाब्दे भानं स्वीक्रियते। न तभयोरेकेनैव संबन्धेन वृत्तिमत इत्याग्रह इति भावः। शक्तिरूपाया वृत्तेर्निरूपकोऽर्थः, तत्र निरूपकता, आश्रयस्तु शब्दः, तत्र आश्रयता। तथा च निरूपकतासंबन्धेन शक्तिरूपवृत्तिमान् अर्थः। आश्रयतासंबन्धेन च तादृशवृत्तिमाञ् शब्दः। सत्येवं घटमानयेत्यादौ वाक्यार्थबोधे निरूपकतया वृत्तिमतः कम्बुग्रीवादिविशिष्टार्थस्यैव भानं पामरजनैरनुभूयते, तथाऽपि न सोऽस्ति प्रत्ययो लोके, विषयत्वमनादृत्येति चाभियुक्ततमवाक्यपदीयकृद्धर्यनुभवबलादाश्रयतया वृत्तिमतः शब्दस्यापि बोधे भानं स्वीक्रियत इत्याशयेनोक्तमन्यतरसंबन्धेनेति। अत एव गामानयेत्यत्र गोत्वस्त्रीत्वैकत्वविशिष्ट-गोशब्दवाच्यगोकर्मकमानयनमिति सर्वत्रैवोपस्थापकशब्दघटितं शाब्दबोधवर्मनं संगच्छते। एवं चानुकरणस्थले भेदाभेदोभयपक्षेऽनुकार्यस्य शब्दे भानसत्त्वेऽपि भेदापक्षेऽनुकरणस्यानुकार्ये शक्तिः। सा च शक्तिरनुकार्ये निरूपकतासंबन्धेनानुकरणे त्वाश्रयतासंबन्धेन वर्तत इति कृत्वा शक्तिरूपवृत्तिनिरूपकार्थप्रतिपादकत्वादनुककरणस्य प्रातिपदिकसंज्ञा, निरूपकतासंबन्धेन वृत्तिमत्त्वादनुकार्यस्य शब्दस्य शाब्दबोधे भानं च सिध्यति। अर्थवत्सूत्रस्य वृत्तिनिरूपकार्थप्रतिपादकशब्दस्य प्रातिपदिकसंज्ञा भवतीत्यर्थः। वृत्त्याऽर्थप्रतिपादकस्य संज्ञेति यावत्। अत एवानुकार्यानुकरणयोरभेदपक्षे भेदमूलिकाया वाच्यवाचकभावापरपर्यायकवृत्तेरसंभवेनानुकार्यांनुकरणयोर्वृत्तिमत्त्वस्य वक्तुमशक्यत्वादनुकरणस्य वृत्त्याऽर्थप्रतिपादकत्वरूपार्थवत्त्वाभावेन प्रातिपदिकसंज्ञा न भवति, ततश्च सुबुत्पत्त्यभावात्पदसंज्ञाया अभावेन गवित्ययमाहेत्यत्रापदान्तत्वाद्वकारस्य लोपः शाकल्यस्येति लोपो न। प्रातिपदिकसंज्ञाया अभावादेव च भुवो वुगित्यत्रेव भू सत्तायामित्यत्र विभक्तिर्न कृता। नन्वेवमभेदपक्षेऽनुकार्यानुकरणयोर्वृत्तिमत्त्वाभावे सत्यनुकार्यस्य शाब्दे भानं न स्यात्, शाब्दे शब्दभाने वृत्तिमत्त्वस्य नियामकत्वादिति चेदुच्यते-अभेदपक्षेऽनुकार्यस्य किंचिदर्थवाचकत्वाच्छब्दतदर्थयोर्वृत्तिरस्ति। तत्रार्थो वृत्तेर्निरूपकः, अनुकार्यशब्दस्त्वाश्रयः। तथा च निरूपकतासंबन्धेनार्थो वृत्तिमान्, अनुकार्यशब्दस्त्वाश्रयतासंबन्धेन वृत्तिमान्। तत्रानुकार्येणाभेदमापन्नस्यानुकरणस्याप्याश्रयतासंबन्धेन वृत्तिमत्त्वादनुकार्यस्य शाब्दे भानं भवति। अनुकरणस्य प्रातिपदिसंज्ञा तु न भवति। वृत्त्याऽर्थप्रतिपादकत्वरूपार्थवत्त्वाभावात्। न चानुकार्यस्य वृत्त्याऽर्थप्रतिपादकत्वरूपार्थवत्त्वसत्त्वात्तदभेदमापन्नस्यानुकरणस्यापि तादृशार्थवत्त्वस्य दुर्वारतया प्रातिपदिकसंज्ञा स्यादिति वाच्यम्। अभेदपक्षेऽनुकार्यस्य किं चिदर्थवाचकत्वेऽप्यनुकरणस्य तदर्थवाचकत्वाभावात्, अनुकरणादनुकार्यार्थाप्रतितेरनुभवसिद्धत्वादिति भावः। अभेदपक्षेऽअनुकार्यस्य किंचिदर्थसत्त्वे मानं तु `भूसत्तायाम्' इत्याद्यर्थनिर्देश एव। नहि तत्र सत्ताद्यर्थोऽनुकरणस्येत्येवं कोऽप्यवगच्छति? किं त्वनुकार्यस्य भूधातोरेवेति सर्वानुभवः। भेदपक्षे त्वनुकरणान्न कस्यचिदप्यर्थस्य प्रतीतिर्भवति किं त्वनुकरणाच्छक्तिरूपवृत्त्याऽनुकार्यशब्दरूपस्यार्थस्य प्रतीतिर्जायते। तत्र निरूपकतासंबन्धेन वृत्तिमत्त्वादनुकार्यस्य शाब्दे भानं, अनुकरणस्य तु अनुकार्यशब्दरूपतादृशवृत्तिमदर्थप्रतिपादकत्वात्प्रातिपदिकसंज्ञा च सिध्यतीति बोध्यम्। नन्वनुकरणस्य कथंवृत्त्याश्रयता? अनुकार्यनिरूपिता वृत्त्याश्रयताऽनुकरणस्येति चेत्-निरूप्यनिरूपकभावस्य भेदमूलकत्वेनानुकार्यानुकरणयोरभेदे तदसंभवादनुकरणस्यानुकार्यनिरूपितवृत्त्याश्रयता वक्तुमशक्या। न चाभेदपक्षेऽनुकार्यस्य किंचिदर्थवाचकत्वाद्गोव्यक्त्यादितत्तदर्थनिरूपितवृत्त्याश्रयताऽनुकार्ये याऽस्ति सैव वृत्त्याश्रयता तदभेदपन्नेऽनुकरणेऽप्यस्तीति वाच्यम्। अनुकरणादनुकार्यार्थगोव्यक्त्यादिप्रतीतेः कथमप्यनुभवाभावात्तादृशार्थनिरूपितवृत्त्याश्रयताया अप्यनुकार्याभेदमापन्नेऽप्यनुकरणे वक्तुमशक्त्यत्वादत आह-संबन्धस्योभयेति। संबन्धस्य संबन्धिनौ द्वौ, तौ च संबन्धनिरूपकौ, संबन्धश्च संबन्धिद्वयनिरूप्यः, अतः संबन्धिभ्यां भिन्नो द्विष्ठश्च संबन्ध इत्युच्यते। घटशब्दतदर्थयोर्यः संबन्धस्तस्य निरूपकौ संबन्धिनौ घटशब्दस्तदर्थश्चेति द्वौ। संबन्धस्य सर्वत्रोभयनिरूप्यत्वमेव लोके प्रसिद्धं, न क्वाप्येकनिरूप्यत्वं दृश्यते। शब्दार्थयोस्तादृशसंबन्धश्च बोध्यबोधकबावरूपः। एतेनासौ संबन्ध एव शक्तिरिति सूचितम्। तत्र बोधकतारूपा शक्तिः शब्दनिष्ठा, बोद्यतारूपा तु शब्दार्थनिष्ठा। तथा च शब्दतदर्थौ द्वावपि वृत्त्याश्रयौ। एवं च बोध्यतारूपवृत्त्याश्रयत्वाद्यथा शब्दार्थस्य शाब्दे भानं जायते तद्वद्बोधकतारूपवृत्त्याश्रयत्वाच्छब्दस्यापि साब्दबोधे भानं संभवेत्। अनया रीत्या सर्वत्रैव शाब्दे शव्दभानमुपपादनीयम्। अनुकरणस्थलेऽबेदपक्षेऽनुकार्यस्य गोव्यक्त्यादितत्तदर्थनिरूपितवृत्त्याश्रयत्वात्तदभेदमापन्नस्यानुककरणस्यापि तादृशवृत्त्याश्रयत्वं, शाब्दे जायमानानुकार्यरूपशब्दभानानुभवबलादेवाङ्गीकार्यम्। तथा चानुकरणस्यापि वृत्त्याश्रयत्वाद् वृत्तिजन्यपदोपस्थितेः सत्वान्नानुकार्यस्य शाब्दे भानानुपपत्तिरिति भावः। भेदपक्षे तु गोव्यक्त्यादितत्तदर्थनिरूपितवृत्त्याश्रयत्वमनुकार्य एव नानुकरण इत्यनुकरणेनानुकार्योपस्थित्यर्थे तत्र शक्त्यन्तरकल्पनमावश्यकमिति भावः। एवं च शब्दस्य स्वस्वरूपोपस्थापकत्वाच्छब्दे उपस्थाप्यत्वोपस्थापकत्वयोः समावेशः सिध्यति। ननु निरुक्तरीत्याऽनुकरणस्य वृत्त्याश्रयत्वं वक्तुमशक्यम्। अनुकरणाद् गोव्यक्त्यादितत्तदर्थप्रतीतरेननुभवात्। तथा च व्यक्त्याद्यर्थनिष्ठबोध्यतानिरूपितबोदकतारूपशक्त्याश्रयत्वाभावेनानुकरणस्य वृत्त्याश्रयत्वमसंभवि। इति चेदुच्यते-बोधकताशक्तिः शब्दे प्रसिद्धा, बोद्यताशक्तिस्तु गोव्यक्त्याद्यर्थे। तत्रानुकरणस्य शब्दत्वात्तस्मिन्बोधकताशक्तिरस्त्येव। तथा चानुकरणशब्दनिष्टबोधकतानिरूपितबोध्यताया अर्थत्वेन प्रसिद्धे गोव्यक्त्यादौ बाधादनुकरणशब्द एव सा कल्प्यते। स्वनिष्ठबोधकतानिरूपितबोद्यतारूपसंबन्धाश्रयता स्वस्मिन्नेवेति यावत्। ततश्चानुकरणस्यापि वृत्त्याश्रयत्वाद पदजन्यपदार्थोपस्थितेः सत्त्वान्न शाब्दे शब्दभानानुपपत्तिरित्याहुरन्ये। एवं च बोध्यताबोधकतयोरेकत्र समवस्थितिः कल्प्यत इति भावः। नेदं बोधअयताबोधकतयोरेकाश्रयत्वं केवलं स्वकपोलकल्पितं, किंतु शास्त्रकृत्संमतमपीति हर्युक्तिप्रमाणेन स्पष्टयति-उक्तं चेति। ग्राह्यत्वं-बोध्यत्वं ग्राहकत्वं-बोधकत्वम्। तेजसः-दीपादेः। एते-ग्राह्यत्वग्राहकत्वरूपे द्वे शक्ती इत्यर्थः। सर्वशब्दानां पूर्वोक्ते द्वे शक्ती स्तः। परं तु पृथगवस्थिते-पार्थक्येन समवस्थिते इति भावः। एतेनैतयोः शक्त्योरसमनियतत्वं प्रदर्शितं भवति। अयं भावः--घटादिद्रव्यस्य चाक्षुषप्रत्यक्षे दीपाद्यालोकसंयोगो हेतुरिति निर्विवादम्। अन्यथाऽन्धकारेऽपि घटादिचाक्षुषप्रत्यक्षस्याप्यापत्तेः। तथा च घटदीपाद्यालोकसंयोग एव घटस्येव स्वस्यापि प्रत्यक्षं जनयति। विषयसंनिधाने सति दीपादितेजसि शक्तिद्वयस्य लोके प्रत्यक्षसिद्धत्वात्। एवमर्थगोचरशब्दनिष्ठशक्तिसहकृत एव शब्दोऽर्थस्य स्वस्वरूपस्य च प्रत्यक्षं जनयति। यथा च विषयासंनिधाने तु स एवाऽऽलोकसंयोगः केवलं स्वस्यैव प्रत्यक्षं जनयति, न घटादेः। तथाऽर्थे तात्पर्याभावे शब्दे च तात्पर्ये सति स एव शब्दः स्वनिष्ठतादृशवृत्त्यैव स्वस्यैव प्रत्यक्षं जनयतीति। स्वं रूपमिति सूत्रभाष्यादपि एतदेव लभ्यत इति तदर्थकं प्रमाणभूतं श्लोकान्तरमुदाहरति-विषयत्वमनादृत्येति। शब्दैः स्वात्मनो ज्ञानविषयत्वमनादृत्यासंप्राप्य नार्थो बोध्यते, किं त्वात्मनो ज्ञानविषयत्वं संपाद्यैव शब्दैरर्थो बोध्यते। ज्ञातस्यैव शब्दस्यार्थबोधजनकत्वादिति भावः। घटादिविषयसंनिधाने तेजोनिष्ठग्राहकतानिरूपितग्राह्यता घटादौ प्रत्यक्षसिद्धा, घटादिविषयासंनिधाने तु तेजोनिष्ठग्राहकतानिरूपितग्राह्यताया विषयासंनिधानेन घटादौ बाधसत्त्वात्ततः परावृत्ता प्रत्याघातन्यायेन स्वस्मिन्नेव यदा पर्यवस्यति तदा स्वनिष्ठग्राहकतानिरूपितग्राह्यताया आश्रयः स्व एवेति केवलं तेजस एव प्रत्यक्षं भवति, यथैतत्तद्वनुकरणस्थलेऽभेदपक्षेऽनुकरणशब्दनिष्ठबोदकतानिरूपितबोध्यताया गोव्य्त्याद्यर्थे तात्पर्याभावेन बाधात्ततः परावृत्ता सती अनुकरणशब्द एव प्रत्यागतेति केवलं शब्दस्वरूपस्यैव प्रत्यक्षं भवति। एवं च शब्दनिष्ठबोधकतानिरूपितबोध्यतायाः शब्दाश्रयकत्वं शास्त्रकृत्संमतमिति तात्पर्यम्।। 26 ।।
प्रसङ्गादिति। शब्दस्य नामार्थत्वेन विचारप्रसङ्गादित्यर्थः। अभेदे साधकमिति। अनुकार्यानुकरणयोरभेदोपपादकमित्यर्थः। आहृ-ब्रूते-अत एव गवित्याहोति। अत एवेत्यस्य व्याख्यानं-गवित्याहेत्यादि। न भिद्यन्त इति। अनुकार्याद्भिन्नत्वेन न विवक्ष्यन्त इत्यर्थः। एवं चानुकरणशब्दानामर्थवत्त्वाभावेऽनुकार्येण सह तेषाभभेदविवक्षैव हेतुरिति भावः। इत्याद्यप्रवृत्ताविति। वृत्त्याऽर्थबोधजनकत्वरूपार्थवत्त्वाभावादिति भावः। साधुत्वमित्युपपद्यत इति। वक्ष्यमाणरीत्याऽसाधुत्वाभावे शिष्टप्रयुक्तत्वादिना साधुत्वमबाधितमिति भावः। नन्वभेदाभावेऽपि तस्य साधुत्वं कुतो नेत्याशङ्कायामाह-अन्यथेति। भेदस्यैवाङ्गीकार इत्यर्थः। प्रत्ययः, परश्चेति। प्रत्ययविधौ पञ्चमीनिर्देशात्षष्ठ्यंशविकलायाः `तस्मादित्युत्तरस्य' इति परिभाषायाः प्रवृत्यैव प्रत्ययस्य प्रकृत्यवधिकपरत्वस्य लाभे सिद्धे परश्चेति सूत्रं नियमार्थं-प्रत्ययपरिकैव प्रकृतिः प्रयोक्तव्येति, एतदाशयेनैव पठ्यते-न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः प्रयोक्तव्य इति। तथा च नियमशास्त्राणां निषेधमुखेन प्रवृत्तिरिति पक्षे निषेधोल्लङ्घनं स्पष्टमेव। विधिमुखेन प्रवृत्तिरिति भाष्यसिद्धान्ते तु आर्थिकनिषेधोल्लङ्घनमिति बोध्यम्। अभेदपक्षे, उक्तरीत्या प्रातिपदिकत्वाभावेन प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वरूपप्रकृतित्वाभावेन न केवलेति निषेधस्य प्रत्ययविधानावधित्वयोग्ये प्रवृत्त्या, पदत्वयोग्य एव पदत्वरहिते `अपदं न प्रयुञ्जीत' इति निषेधप्रवृत्त्या च निषेधद्वयानवतार इति भावः। अभेदपक्षे वृत्त्याऽर्थबोधजनकत्वेऽपि शक्तिनिरूपकार्थबोधजनकत्वाभावान्न प्रातिपदिकत्वमिति बोध्यम्।। 27 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यां नामार्थनिर्णयनिरूपणण्।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
सारीयेऽभूद्विवरणे नामार्थानां निरूपणम्।। 4 ।।