वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२१
← वैयाकरणसिद्धान्तमञ्जूषा-२० | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-२१ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-२२ → |
समाशक्तिनिरूपणम्
1 [fn 'पदशक्त्यैव निर्वाहे पदसमूहात्मकसमासशिक्तस्वीकारो निष्फलः' मतिमिदं निराकरिष्यन् समासशक्तिं समर्थयितुमुपक्रमेत -- अथेति ।
समासशक्तौ निरूपणीयायां घटकतया प्रविष्टस्य समाससामान्यस्य पूर्वं निर्वचनमावश्यकमपि मूले उपेक्षितमिति तत्र किञ्चित् प्रस्तूयते ---
पाणिन्यादिसंकेतसम्बन्धेन समासपदवत्तवं समासत्वम् । इदञ्च लक्षणं व्याकरणशास्त्रविषयकमेव । अतोऽन्यत्रास्य विपरीतार्थकत्वेऽपि न क्षतिः । अत एव चेदंपारिभाषिकपदमित्यपि न क्षतिः । अत एव चेदं पारिभाषिकपदमित्यपि वक्तुं शक्यते ।
अथ 'अर्थबोधफाकविभक्त्यव्यवहितपूर्ववर्त्तित्वप्रकारकज्ञानाविषयपूर्वपूर्वपदघटितनामसमुदायत्वं समासत्वम्' इत्येवास्तु । 'राजपुरुषः' इत्यादावपि राजादिपदे कस्यचित् पुंसो विभक्त्यनुसन्धानसत्त्वेऽपि तस्यार्थबोधफलकत्वाभावाद् नासम्भवोऽव्याप्तिर्वा ।
'दधि सुन्दरमस्ति' इत्यादौ तत्तद्विभक्त्यनुसन्धानसत्त्व एव शाब्दबोधोदयाद् न तत्रातिव्याप्तिः, समासस्थले तु पूर्वपदे विभक्त्यनुसन्धानं विनैव शाब्दबोधोपगमाद् न दोष इति तु न वक्तव्यम्, 'दधि सुन्दरम्' इत्यादौ विभक्तिमजानतोऽपि बोधोदयात्तत्रातिव्याप्तेः ।
ननु विभक्तयनुसंधानं विना बोधानङ्गीकारेण नातिव्याप्तिरिति चेत्, न ; विनिगमनाविरहेण समासेऽपि तथा वक्तुं शक्यतयाऽसंभवापत्तेः ।
न च समासे पदयोरव्ययहितपूर्वापरीभावरूपाकाङ्क्षायाः शाब्दबोधे हेतुत्वेन विभक्त्यनुसन्धानं नापेक्ष्यते, असमासे तु प्रातिपादिकस्य विभक्त्यव्यवहितपूर्ववर्तिविप्रकारकज्ञानविषयस्यैवाकाङ्क्षात्वेन विभक्त्यनुसन्धानमपेक्ष्यत इत्येव विनिगमकमिति वाच्यम्, अलुक्मासे व्यभिचारादिति चेत्, एवमपि 'पर्यभूषत्','पचतभूज्जता' इत्यादावव्याप्तेर्दुर्वारत्वात् । अलक्ष्यत्वेन परिहारस्तु बुद्धिसम्बन्ध शून्यतामेव प्रकाशयेत् ।
केचन तार्किकास्तु -- यादृशमहावाक्योत्तरस्त्वतलादिप्रत्ययो यादृशार्यविषयतानिरूपितस्वार्थविषयताशालिबोधजनकः, तादृशवाक्ये तादृशोऽर्थः समासः । तादृशबोधकतादृशवाक्यत्वं समासत्वमिति यावत् ।
भवति हि 'कृष्णश्रितः' इत्यादौ तदुत्तत्वादिप्रत्ययेन पूर्वपदार्थविशिष्टोत्तरपदार्थन्वितस्वार्थबोधजननात् । पाचकादिकं पाकक्रियाकर्त्रार्थवाक्यमपि स्वघटकानेकनामलभ्यतादृशार्थप्रतिपादकत्वरूपमहात्त्वाबावाद् न महावाक्यमिति न तत्रातिव्याप्तिरित्याहुः । अधिकन्तु तत एवागवन्तव्यम् । ]
अथ सुबन्तप्रकृतिकसमासशक्तिर्निरूप्यते ।
तत्रादावजहत्स्वार्थानिरूपणम्
तत्र "समर्थः पदविधिः" [ 2।1।1 ] इति सूत्रम् । सामर्थ्यञ्चात्रैकार्थीभावः, 'किं कमर्थं नाम ? पृथगर्थानामेकार्थीभावः समर्थवचनम् । क्व पुनः ? पृथगर्थानि क्वैकार्थानि ? राज्ञः पुरुष इति वाक्ये पृथगर्थानि, राजपुरुष इति समासे एकार्थानि' इति भाष्यात् ।
अस्यार्थः --- एकार्थत्वं नामैकोपस्थितिविषयार्थकत्वम् । अन्यथा घटपदस्यापि घटघटत्वतत्सम्बन्धरूपनानार्थत्वादेकार्थत्वं न स्यात् । एवं पृथगर्थत्वं नानोपस्थितिविषयार्थकत्वम् ।
इदमेव ध्वनयितुं पृथगर्थानामित्युक्तम्, न त्वनेकार्थानामिति ।
वृत्तिवाक्ययोर्भिन्नत्वात् च्विप्रत्ययोऽनुपपन्न इत्याशयेन 'क्व पुनः' इत्यादि प्रश्नभाष्यम् ।
उत्तरस्यायमाशयः ---- कार्यशाब्दिका हि वाक्यादेवेयं वृत्तिर्निष्पन्नेति मन्यत इति ।
मतान्तरेऽपि सादृश्याद् वाक्यीयत्वाध्यवसायमाश्रित्य च्विप्रत्यय इति। च्विप्रत्ययार्थ एव पृथगर्थानामित्यनेनान्वाख्यायते । इदमेव ध्वनयितुं समासे पुनरेकार्थीनीत्यत्र च्विप्रत्ययानुपादानम् ।
अयं भावः -- वाक्ये यता पृथक् पदैः पदार्थानामुपस्थितावाकाङ्क्षादिवशाद् विशेष्यविशेषणभावापन्नविशिष्टार्थप्रतीतिः, नैवं वृत्तौ, किन्त्ववयवशक्तिभ्यां समुदायशक्तिसहकृताभ्यां पदार्थोपस्थितिरेव जायमाना 1[fn 'संसृष्टार्थ समर्थम्' इति भाष्यादिति शेषः । ]विशेष्यविशेषणभावापन्नविशिष्टविषया भवति सर्वत्रैव ।
न च वैयाकरणनये तत्र विशिष्टस्य शक्तिग्रहः । इत्थं राजपुरुषादिपदं राजसम्बन्धवत् पुरुषे शक्तमित्याद्याकारः प्राप्ताप्राप्तविवेकेन विशिष्टशक्तिः सम्बन्धमात्राद्यंशे पर्यवस्यति । संसर्गाशे समुदायशक्तिस्वीकारेण को विशेषो वाक्यवृत्त्योरिति वाच्यम्, तत्र हि फलबलात् पदार्थोपस्थितिसमये नियमतः संसर्गांशे उद्बोधकासमवधानकल्पनेन पृथगुपस्थितयोः पदार्थयोः पश्चात् संसर्गबोधः । वृत्तौ तु पदार्थोपस्तितिकाल एव नियमतः संसर्गांशेऽप्युबोधककल्पनाद् विश्षटैवोपस्थितिरिति विशेषात् ।
अत एव 'प्राप्तेदकः' इत्यादौ विशेष्यविशेषणभाववैपरीत्येन बोधः । तत्राप्रयुज्यमानषष्ठ्याद्यर्थः, संसर्गश्चेत्युभयमेव समुदायशक्तिसाध्यम्, अनन्यलभ्यत्वात्, क्लृप्तशक्यैव राजादेरुपस्थिसम्भवे तत्र समुदायशक्तिक्लप्ने गौरवाच्च ।
नामार्थयोरभेदान्वयादिव्युत्पत्तयश्च पृथगुपस्थितनामार्थादिविषयाः । अत एव राजपुरुषैकदेशे राज्ञि वाक्य इव ऋद्धस्येत्यादिविशेषणान्वयो न, तस्य पदार्थैकदेशत्वात् ।
न च राजपदार्थत्वं तस्यास्त्येवेति वाच्मय्, विशेषणान्वये विशेष्यस्येतरानन्वित्वेनोपस्थितेस्तन्त्रत्वेनादोषात् । राज्ञ इत्यादौ तु पृथगुपस्थितयोरेव प्रकृतिप्रत्ययार्थरन्वयेन विशेषणान्वये वाधाकाभावात् । एतन्मूलकैव 'पदार्थः पदार्थेनान्वेति, न तु पदार्थैकदेशेन' इति व्युत्पत्तिरिति बोध्यम् । अत एव च राज्ञः पुरुषोऽश्वश्चेतिवद् राजपुरुषोऽश्वश्चेति न, एकत्र विशेषणत्वेनान्वितस्यापरत्र विशेषमत्वेनान्वयायोगात् ।
एवं राज्ञः पुरुषो भार्यायाश्चेतिवत् एकत्र द्वयमिति विषयताशालिबोध जनकं रापुरुषो भार्यायाश्चेति न । एकविशेषणवैशिष्ट्येनैवोपस्थितेः । अत एव राज्ञो यः पुरुषः, स भार्याया इति वाक्यान्न तथा बोधः । राजसम्बन्धविशिष्टे भार्यासम्बन्धबोधकविशिष्टवैशिष्ट्यविषयताशालिराजपुरुषो भार्याया इति प्रयोगस्तु 'राजपुरुषः सुन्दरः' इतिवदिष्ट एव ।
न चैवं प्रधानस्य सविशेषणत्वात् तत्र वृत्तिरिति व्यवहाराद्युच्छेदः, त्वद्रीत्या वृत्तौ केवलविशेष्ये विषणान्वयस्यैवाभावादिति वाच्यम्, सुन्दरत्वादेः पुरुषादिमात्रे विश्नान्तिसत्त्वेन तथा व्यवहारोपपत्तेः ।
यत्तु --- भेदः1 [fn भेदोऽत्रान्योन्याभावः । ननु भेदस्य वाच्यत्वं राजपदार्थस्य पुरुषे भेदः, पुरुषस्य, राजविशिष्टपुरुषस्य वा राज्ञि भेदः प्रतीयेत । तत्र नाद्यः पक्षः सम्भवति, पुरुशविशेषणतापन्नस्य राज्ञो भेदे एकत्र विशेषत्वेनान्विततवाभावात्, राजभेदस्य राजसम्बन्धिपुरुषमात्रे सत्वेन तद्भेदस्याव्यावर्तकत्वाच्च ।
न द्वितीयः, पुरुषत्वरूपान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकभेदस्य राजनि बाधितत्वात् तत्प्रतियोगिताकभेदस्याव्यावर्तकत्वात्, 'राजधनम्' इत्यादौ धनत्वावच्छिन्नप्रतियोगिताकभदस्य पूर्वपदाथ सत्त्येऽपि तद्बोधत्यानुपयोगाच्च ।
अत एव न तृतीयेऽपि, तद्बोधस्यानुयोगादिति चेत्, न ; राजसम्बन्धीति बोधेनादोषात् । ] संसर्गश्चादिवाच्यः । एवञ्चापुरुषस्वामिभिन्नराजसम्बन्धी अराजकीयभिन्नः पुरुष इति बोध इति, तत्, न ; अनुभवविरोधात्, गौरवाच्च, रामकृष्णाविति द्वन्द्वे भेदावेर्वाच्यताया उपपादयितुमशक्यत्वाच्च । देवदत्तयज्ञदत्तोभयस्वामिके गजाश्वभार्यादिस्वामिदेवदत्तस्वामिके च देवदत्तसम्बन्धमात्रविवक्षायां देवदत्त पुरुष इत्यस्यानापत्तेश्च । युधिष्ठिरभार्या द्रौपदीत्यस्यानापत्तेश्च ।
एतेन भेद एव वाच्यः, 'अराजकीयभिन्न पुरुषः' इति च बोधः । तथा चैतद्विरोधादेव राजपुरुषो भार्याया इति न प्रयोगः । संसर्गस्त्वनुमेय एव ।
?0यद्वा?0, संसर्ग एव शक्यः, राजसम्बन्धीत्येव बोधः । अत्र पक्षे अराजकीयभेदोऽनुमेयः, तथा च तद्विरोधान्नातिप्रसङ्ग इति परास्तम् । भेदसंसर्गयोर्व्याभिचरितत्वाच्च । अपृथगुपस्तितेरेव च नोद्देश्यविधेयभावेनान्वयः, पृथगुपस्थितेस्तथान्वये तन्त्रत्वात् ।
एतदेवाभिप्रेत्याविमृष्टविधेयांशदौषनिरूपणावसरे 'यत्रोद्देश्यविदेययोः पदाभ्यां पृथगुपस्थितिः, तत्रैव तथान्वयः । न च समासे पदात् पृथगुपस्थतिः, अपृथगुपस्थितौ च न तथा व्यत्पत्तिरिति ?0प्रधीपकृतः?0 ।'
?0यत्तु मीमांसकाः?0 -- उद्देश्यविधेययोरपि क्रियान्वयेन परस्परमनन्वयादसामर्थ्यमिति, तत्, न; अरूणादिकरणरीत्या कारकमात्रस्य क्रियायामन्वयेन परमेण कारणेण कृतम्, परमकारकेण कृतमिति समासानापत्तेः । पार्ष्णिकपरस्परान्वयकृतं सामर्थ्यं तत्रेति चेत्, सत्यं फ्रकृतेऽपि ।
द्रष्टुं गतः कृष्णम्, श्रितो गुरुकुलं रामः' इत्यादौ च न समासः, कृष्णश्रितयोः परस्परमसम्बन्धनैकार्थीभावाभवात् । अत एव च समासस्यार्थवत्त्वात् प्रातिपदिकत्वसिद्धिः ।
यत्तु, राजपेदन रापुरुषोभयोपस्थानं पुरुषपदेनापि तदुभयोपस्तापनमित्येकार्वीभावः । राजपुरुषाभिन्नो राजपुरुष इति बोध इति । तत्, न; बोधावृत्त्यापत्तेः, अनुभवविरोधाच्च ।
इदमेवाभिप्रेत्य वाक्ये पृथगर्थत्वेऽपि पदानामाकाङ्क्षादिवशाद् विशेष्यविशेषणभावेन विशिष्टार्थप्रतीतिः । वृत्तौ तु विशिष्ट एवार्थो राजपुरुषशब्दाभ्यामभिधीयत इति कैयतेनोक्तम् ।
ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वाद् विना पृथक्पदार्थोपस्थिति विशिष्टबुद्ध्यनुपपत्तिरिति चेत्, न ; घटपदाद् घटत्वविशिष्टस्मरणवदुपपत्तेः, विशेषणविषयकत्वेनैव तस्य हेतुत्वाच्च । अत एव विशिष्टकृतिसाक्षात्कारोपपत्तिरिति स्पष्टमनुमानदीवितौ । वृत्तिजन्योपस्थितेस्तु नापेक्षा, पदार्थोपस्थितेः स्मृतित्वात् ।
नन्विदं वृत्तेर्विशिष्टार्थत्वम्, किं लोकव्यवहारसिद्धम्, उत शास्त्रैकगम्यमिति चेत्, अत्र केचित् ----- लोकव्यवहारसिद्धम् । न ह्यत्र शास्त्रेऽर्थविधानं क्रियते, "अचतुर" [ 5।4।77 ] इत्यादि अनुशसनं तु चार्थे यो
वर्त्तते, स द्वन्द्व इत्येवं लोकसिद्धार्थानुवादेन द्वन्दवसंज्ञामात्रविधानार्थम् । अर्थस्यापि विधाने वाक्यभेदः स्यात् । स्वसमानार्थकवाक्यस्यानिवृत्तये विभाषाधिकारश्च कर्तव्यः स्यात् । मम तु वृत्त्यवृत्त्योः स्वभावसिद्धतवान्न तदावश्यकम् ।
किञ्च, वृत्तिलक्षणं च कर्तव्यं स्यात्, अर्थत्वत्त्वस्यापि शास्त्रैकगम्यत्वात् । मम तु लोकव्यवहारादेव तदपि सिद्धम् ?0इत्याहुः?0 ।
अन्ये तु, शास्त्रैकगम्यम् । अनेकं सुबन्तं चार्थे वर्त्तते । यदा च चार्थो वर्त्तते, तदा द्वन्द्वसञ्ज्ञमिति सूत्रार्थ इत्याहुः ।
1[fn यत् किञ्चित्पदजन्यपृथगुपस्थितिविषयार्थकत्वेन लोके दृष्टानां शब्दानां विशिष्टविषयैकशक्त्या एकोपस्थितजनकत्वमेकार्थीभावत्वम् ।
तादृशशब्दानां तथात्वं तु सादृस्यादववधेयम् । 'दृष्टानाम्' इत्यन्तोपादानं विभक्त्यन्तेऽतिप्रसङ्गां रासाय। विभक्त्यर्थस्य यथा विभक्त्या प्रतिपतिः, न तथा केनाप्यन्येन शब्देनेति विभक्तेस्तथाविधार्थकत्वाभावात् तद्न्ते नातिप्रसङ्गतादवस्थ्यम् ।
'उपगोरपत्यम्' इत्यादावपत्यरूपार्थस्यापत्यपदजन्योपस्थितिविषयत्वं लोके दृष्टमिति औपगवादिसग्रहः स्यात्, तदर्थ यत् किञ्चित्त्वनिवेशः । यथा पदानामसत्त्वेऽपि तुत्सताव्यवहारो गौणः, तथा पदानामेकार्थव्यवहारोऽपि गौण इति सूचयितुं निर्देशः । ] सोऽयमेकार्थीभावो गन्थेषु 2[fn न जहति स्वानि पदानि यावर्थान् ते अजहत्स्वाः, प्राप्तानेकवद् बहुव्रीहिसमासः । अजहत्स्वा अर्था यस्यां सा अजहत्स्वार्थेति बहुव्रीहिगर्भो बहुव्रीहिः । ] अजहस्त्वार्तात्वेन व्यवह्रियते । अयं चैकार्थीभावः "अनेकमन्यपदार्थे" [ 2।2।24 ], "समर्थः पदविधिः" [ 2।1।1 ] सौत्रानुवादबलेनालौकिके विग्रहवाक्येऽपि आरोप्यते । अत एव तत्र समाससंज्ञायामर्थवत्त्वनिबन्धनप्रातिपदिकत्वे विभक्तिलुगादिसिद्धिः, "षष्ठी" इत्यादिशास्त्रानुरोधेन भेदोपस्थितिनिबन्धनषष्ठ्यादिनिर्वाहाय पृथगर्थवमपि । न च विरोधः, शास्त्रप्रामाण्येन काल्पिनिकयोर्विरोधस्यैवाभावात्, अलौकिकसिद्धेर्भूषणमेतत्, न तु दूषणमिति न्यायाच्च ।
नन्वत्र पक्षे 'बहुव्रीहेस्तत्पुरुषोऽन्तरङ्गः' इत्यादिव्यवहारोच्छेदः, बहिर्भूतपदार्थविषयकबोधजनकत्वं हि बहुव्रीहौ बहिरङ्गत्वात् । न चात्र पक्षं तदस्ति, अन्यपदार्थेऽपि विशिष्टशक्यत्वन स्वपदार्थस्यैव सत्त्वादिति चेत्, न ; स्वघटकपदघटिकवाक्यदृष्टार्थमात्रविषयकत्पुरुषीयशक्तिग्रहापेक्षया बहुव्रीहिसञ्ज्ञकपदीयशक्तिग्रहस्य स्वघटकपदवटितवाक्यदृष्टार्थातिरिक्तबहिर्भूतान्यपदार्थविषयकत्वेन बहिरङ्गतयां तस्य बहिरङ्गगत्वमित्यक्षतेः ।
एतेन षष्ठीतत्पुरुषात् कर्मधारयो लधीयानित्यपि व्यक्यातम् । कर्मधारयसंज्ञकपदीयशक्तिग्रहापेक्षया षष्ठीतत्पुषादिपदीयशक्तिग्रहस्य स्वाघटकषष्ठ्याद्यर्थरूपाधिकविषयतया गुरुत्वात् ।
एवञ्च 1[fn अयंभावः -- 'निषादस्थापतिं याजयेत्' इति शूयते । तत्र निषादस्थपतिशब्दे षष्ठीतत्पुरुषः ; निषादानाँ स्थपतिः = स्वामी । स्थपतिशब्दः स्वामिपर्यायः । निषादः स्थपातर्यस्चेति बहुव्रीहिः ।निषादश्चासौ स्थपतिः इति क्रमधारयो वेति संशये कर्मधारये वेदे निषादानामधिकाराबावाद् यजनासम्भवेनापूर्वं वेदाध्ययनं कल्पनीयमिति गौरवं स्यात् । बहुव्रीहौ च समासे शक्त्यभावेन वाक्यलक्षणायां गौरवात् लाघवात् कर्मधारय एव, अपूर्वविद्याध्ययनस्योत्तरकालकल्प्यत्वेन तादृशगौरवस्य फलमुखतयाऽदोषत्वाद् ; इति सिद्धान्तितम् । एवञ्च समासशक्तिवादिनये विरुद्ध्येत, तत्पुरुषेऽपि गौरवानवकाशादिति चेत्, मैवम्; निषादरूपे स्थपतौ, निषादसम्बन्धिस्थपतौ निषादस्वामिकपुरुषान्तरे च इत्येवं सर्वत्र शक्तत्वान्नानार्थत्वेन 'नानार्थे तात्पर्याद्
विशेषाव्गतिः' इति न्यायेन, 'क्व तात्पर्यम्' इति संशये समासघटकप्रत्येकपदशक्त्युपस्थापितार्थमात्रविषयककर्मधारयीयशक्तिग्रहस्यान्त रङ्गत्वेन प्रथोपस्थितार्थे एवोपस्थितिलाघवाद् निषादस्थपतिशब्दस्य तात्पर्यमवसीयते । तेन विशेषावगतिः, न तु बहिर्भूतपदार्थविषयकशक्तिग्रहोपस्थापिते, तदुपस्थितेर्विलम्बितत्वादिति प्रघट्टकार्थः । ] निषादस्थपत्यादिशब्दानां निषादरूपस्थपतिनिषादसम्बन्धिस्थपतिनिषादस्वामिकपुरुषान्तररूपनानार्थत्वेऽपि नानार्थे 'तात्पर्याविशेषावगतिः' इति न्यायात् क्व तात्पर्यमिति संदेहे शक्तिग्रहपदार्थोपस्थितिलाघवानुरोधाद् निषादरूपे तत्रैव कल्प्यते । परेषामपि सति तात्पर्ये 'यष्टीः प्रवेश्य' इतिवत् लक्षणाया दुर्वारत्वात् तात्पर्यमेव कल्पयकोटाववशिष्यत इति न दोषः । इदमेवाभिप्रेत्य ---
पर्यवस्यच्छाब्दबोधाविदूरप्राक्क्षणस्थितेः ।
शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ।।
इतिवैयाकरणमतोन्मज्जने दीक्षिताः ।
इत्यजहत्स्वार्थनिरूपणम्