सामग्री पर जाएँ

वैयाकरमसिद्धान्तलघुमञ्जूषा-१

विकिस्रोतः तः
वैयाकरमसिद्धान्तलघुमञ्जूषा-१
[[लेखकः :|]]


।। श्रीगणेशायनमः ।।

वैयाकरमसिद्धान्तलघुमञ्जूषा-1- कुञ्जिका- दीका

मञ्जूषाकुञ्जिकाशिल्पशाब्दब्रह्मसमुन्नयः।।
दिश दिशेति दिश्यान्नः शर्म शाश्वतिकं परम्।। 1.1।।
नागेश इति। भटतीति भट्टः। वाग्मी। भटपरिभाषणो तन् प्रत्ययः।मज्जतीति मञ्जूषा मस्जेनुम् चेत्यूपन्। इदमित्थम्भूतं चेत्येवं ज्ञायमानमर्थजातं सिद्धं, सिद्धस्य संरिथतिरित्थम्भावयवस्था सिद्धान्त इति वात्स्यायननः।परमपुरुषार्थापवर्गहेतुत्वादुपोद्धातमाह। तत्रेति। वैयाकरणसिद्धान्तेष्वित्यर्थः। मुख्य इति। वाक्यस्फेटात्मकशाब्दब्रह्मज्ञानं व्याकरणस्य मुख्यं प्रयोजनमित्यर्थः। वाक्यस्फोटात्मकब्रह्मण एव तात्त्विकतया तद्व्यतिरिक्तवस्तुनोऽतात्त्विकत्वात् सिद्धान्तान्तरस्यामुख्यात्वम्। यद्यपि आभ्यन्तरः स्फोटो वाचकः, न च तस्य लोके प्रयोगोऽस्ति, तथापि तस्यैवेत्यस्य वाक्यस्यैवेत्यर्थः। एवञ्च तदभिव्यङ्ग्यस्य वाक्यस्फोटस्य सिद्धिः।
ननु कथं द्वारमित्यादितो बोध इत्यत आह। तेनेति। तत्रापि वाक्यस्मारमद्वारैव बोधादितिभावः। अर्थसमाप्तिः। अर्थपर्यवसानम्। यद्यपि स्वमते द्वारमित्येकपदमपि वाक्यं तदेव चार्थबोधकमिति वक्ष्यते तथापि परमतरीत्येदम्। तदेव तरमतमुपक्रमते। पदसमूह इति। यद्यपि एको निरवयवः स्फोटो वाक्यं प्रतिभाववाक्यार्थ इति सिद्धान्तः तथापि पदकल्पनयैव वाक्यव्युत्पादनादिदम्। तदुक्तं हरिणा।
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः।
अपोद्धारस्तथा वाक्ये पदानामुपवर्ण्यत इति।।
एकतिङ् वाक्यमित्यादीनि तु अनुदात्तादिविधावेव परिभाषितानिति पदसमूह इत्युक्तम्। तदुक्तम्।
निघतादिव्यवस्थार्थं शास्त्रे यत्परिभाषितमिति।
एतेन पश्य मृगो धावतीत्यादावव्याप्तिवारणाय एकतिङन्तार्थमुख्यविशेष्यकं वाक्यमिति व्याचक्षाणाः परास्ताः। पदश्बदेन तद्योग्यताया ग्रहणादनुकरणे नाव्याप्तिः।
ननु शक्तं पदमिति मते प्रकृत्यादिसमुदायस्यापि समासार्थवत्त्वापत्तिरत आह। अत्रेति । तथा च गौतमसूत्रम् ते विभक्त्यन्ताः पदमिति। सुबन्तसमुदायः त्वया भोक्तव्यमिति। तिङन्तसमुदायः पचति भवतीति। अथ यत्र द्वारमित्येवोक्तं तत्र पिधेहीति पदाध्याहरादपि बोधे न सम्भवति उच्चारित एव प्रत्यायक इति भाप्यादिति चेत्। तत्रैकस्यापि पदस्य वाक्यार्थे शक्तिरिति वक्ष्यते। एकदेशसादृश्यात्तु वाकयेषु वाक्यैकदेशा अपि प्रयुच्यते तत्र धूमसाहचर्याद्वन्हौ लक्षणैव। सत्यान्तु व्याप्त्यादिस्मृतावनुमितिरेव । यत्तु पदशब्द उपस्थितिपरः मौनिश्लोकादितोऽपि बोधादिति तार्किकप्राञ्चः तदसत्। प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यशब्दः प्रमाणमिति चिन्तामणिलक्षणस्य प्रयोगहेतुभूतं यद्वाक्यार्थतत्त्वज्ञानं तज्जन्यतावच्छेदकावच्छिन्नस्य ग्रहणेन मौनिश्लोकेऽव्याप्त्यभावात्।। 1.1 ।।

ननु वाक्यस्य निरवयवत्वात्पदप्रत्ययो भ्रम इति किं तद्व्युत्पादननेत्याशङ्क्याह। तत्रेति। शक्तिग्रह इव शब्दज्ञानमपि फलमित्याह। तदन्वाख्यानस्येति। वाक्यान्वाख्यानस्येत्यर्थः। कल्पनयेति। वाक्ये पदानि प्रकल्प्य पदे च प्रकृतिप्रत्ययभागं प्रकल्प्य कल्पितभ्यामन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थाः कल्पिता इत्यर्थः। यद्यपि अण्‌प्रत्ययाभावेऽपि फिञादिनापि अपत्यबोधान्न व्यतिरेकसम्भवस्तथापि वह्निं प्रति तृणारणिमणीनां कारणत्वे इवात्र व्यतिरेकः। प्रकृत्यादिविभागस्य कल्पित्वादन्वयव्यतिरेकायोः कल्पितत्वम्। एवं घटमानयेति वाक्ययोरखण्डत्वान्न तार्किकोक्तावापोद्वापसम्भवः। शास्त्रमात्रेति। एषा कल्पना प्रक्रियायामेवोपयुक्ता लोके वाक्यस्यैव बोधकत्वादित्यर्थः। एतदेवेति। शास्त्रविषयकत्वमेवेत्यर्थः। कैयट इति। सुब् ग्रहणं प्रातिपदिकान्माभूदिति भाष्यमुपादाय सुबन्तस्यैव ईषदसमाप्तिवृत्तित्वेन प्रातिपदिकस्य तद्‌वृत्तित्वाभावलात्कथं प्राप्तिरित्याशङ्क्योति भावः।
अन्वयेति। शास्त्रद्वारा कल्पिताभ्यामन्वव्यतिरेकाभ्यां कल्पितार्थवत्तैव शास्त्रप्रक्रियोपयोगिनीति भावः।
ननु असत्यस्यावयवस्य तदर्थस्य च कल्पने ऋषीणामप्रमाण्यं स्यादतं आह। तत्तदवयवेति। तत्तवयवबोधनेन तत्समुदायो बोध्यते अवयवार्थबोधनेन च समुदायार्थो बोध्यत इत्यन्वयः।
भाष्यकैयटयोरिति । तत्र हि पदार्थसंसर्गरूपे वाक्यार्थे वाक्यस्यैव शक्तिरस्ति सादृश्यात्त्वन्वयव्यितरेकौ कल्पितौ एवञ्च वाक्यस्य प्रातिपदिकत्वं प्राप्तं समासग्रहणकृतनियमेन निवर्त्यत इति स्पष्टम्। श्रुतिवाक्येति। एन्द्या गार्हपत्यमुपतिष्टत इत्यत्र श्रुत्या गार्हपत्योपस्थानं लभ्यमानं प्रबलम्, इन्द्रोपस्थानं तु इन्द्रो देवता अस्या इति तद्धितानुसन्धानमूलकत्वाद्‌दुर्बलमित्यादि। बलावलेति। क्रियाकारकभावसम्बन्धलक्षणो हि वाक्यार्थः प्रथमोपस्थितत्वात्प्रबलः। यदि तु वाक्यमखण्डमेवाखण्डमेवाख्ण्डार्थबोधकं स्यात्तदा लिङ्गादिलभ्यस्यार्थस्यासम्भवादुच्छेद एव स्यादिति भावः।। 1.2 ।।

ननु वाक्यस्फोटस्य मुख्यत्वे स्फोटान्तरस्योच्छेद इत्यत आह। तत्र शस्त्रेति। प्रक्रियते प्रत्ययात् पूर्वं क्रियत इति प्रकृतिरिति केचित् तन्न। बहुपटुरित्यत्राव्याप्तेः। प्रत्ययोद्देश्यतेति तु युक्तो ऽर्थः। एवमेव शास्त्रप्रक्रियार्थमेव कल्पितः। लघोर्भावो लाघवमनायासेन प्रवृत्तिः। तत्साधने तूपचाराद्‌वृत्तिः । कण्ठत उक्ता इति। लः कर्मणि चेत्यादिना। न्यायेन ते इति। उक्तन्यायेनादेशानामर्था उक्ता इत्यर्थः। तथा कल्पनयेति। अन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययौ प्रकल्प्य तत्समुदायरूपे पदे इत्यर्थः।
लक्षणे इति। क्रियमाणे इति शेषः। सति प्रत्यये इति। उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते भाववचनाच्च प्रत्ययो भवतीत्यर्थः। शस्त्रव्यवहारात् प्राक् समुदाय एव नास्तीत्यन्वव्यतिरेकलभ्यार्थवत्वविभागाभावात् भाववचनत्वस्याश्रित्येत्ययुक्तमत आशयं योजयति। पारमार्थिकमिति। व्यवहारगम्यं मुख्यं वाचकत्वं पदनिष्ठं वाक्यनिष्ठं वा तदत्र नाश्रीयत इति तदर्थः। कल्पिमिति। भाष्यकृतान्वयव्यतिरेकाभ्यां धातुरेव क्रियावचीत्युक्तत्वात् प्रकृत्यादिनिष्ठमेव वाचकत्वमाश्रीयत इति भावः। ननु प्रत्ययाहितविभागस्य कल्पितत्वे को धातुरित्यादिश्रुतिविरोध इति चेत् सत्यम्। कल्पिताभिप्रायेणैव तथोक्तेः। कल्पनाया अपि व्यवहारनित्यतया नित्यत्वात्।
एवञ्चेति । मुख्यवाचकत्वस्य पदे एव सत्त्वात् व्याकरणभेदेन स्थानिनामनियतत्वान्न वाचकत्वमिति मतं निराकरोति। व्याकरणेति। लिपीनामिति। भिन्नानामपि लिपीनां वोधकत्ववदित्यर्थः।।1.3 ।।


प्रमाणमिति । अर्थान्तरवाचकस्य शब्दस्यार्थान्तरे प्रयोगे कृते श्रोतुः सत्यप्यर्थबोधे प्रमाजनकत्वरूपं प्रमाणत्वं नेति भावः। यत्तु मौनिश्लोकादितोऽपि बोधात्पदज्ञानं करणं न तु पदमिति तन्न। आन्तरस्फोटस्य वाचकत्वस्वीकारेण तत्र लिपीनामेव स्फोटव्यञ्जकत्वात्। यत्तु पदार्थस्मृत्या अन्यथासिद्धत्वात्पदं न करममिति तन्न, तत्र व्यापाभावेन करणत्वासम्भवात् । परे तु पदार्थस्मरणमेव व्यापारः, अपौरुषेयस्य वेदस्य तु आप्तोक्तत्वाभावेऽपि स्वत एवासत्त्वम्, पौरुषेयत्वे तु आप्त्परणीतत्वादेवाप्तत्वम्। लोके तु यथार्थप्रवृत्तिजनकवाक्यप्रयोक्तृत्वादसत्त्वानुमानम्। वेदे तु प्रतिनियतलोकन्तरफलस्य ज्योतिष्टोमादेः संवादाभावात् स्वत एव प्रामाण्यमभ्युपेयम्। वस्तुतत्त्वेति। तत्त्वशब्दोऽनारोपिते रूढः। रागादीति। रागश्चेष्टसाधनताज्ञानरूपसङ्कल्पनिममित्त्ः। आदिना द्वेषः। नान्यथावादीति। यः पुमान्नान्यथावादी स आप्त इत्यन्वयः । अर्थतत्त्वज्ञानमाप्तिः तया प्रतीत इत्याप्तः।। 1.4 ।।

अगृहीतेति। अगृहीतवृत्तिकपुषस्यागृहीतवृत्तिकपदादर्थबोधादर्शनादित्यर्थः। धर्माशेऽपि शक्तिरस्तीत्याह। न हीति। मधुरत्वमिति। मधुरत्वप्रकारकबोधादर्शनादित्यर्थः। तद्धर्मावच्छिन्नेति। घटत्वावच्छिन्नविषयकवृत्तीत्यर्थः। ज्ञाने वृत्तिवैशिष्ट्यं सामानाधिकरण्येन । ज्ञानाधिरकरणतात्वं विषयतया। तार्किका वृत्तिज्ञानपदज्ञानयोः पृथक् हेतुत्वमिच्छन्ति। अत्र तु लाघवाद्विशिष्टस्यैव हेतुत्वमुक्तम्। तत्रापि वृत्तिवषयकोद्बुद्धसंस्कारसमानाधिकरणवृत्त्याश्रयपदविषयकज्ञानस्य हेतुत्वे गौरवमतः सामानाधिकरण्यादीनां सम्बन्धकोटौ हेतुत्वे गौरवमतः सामानाधिकरम्यादीनां सम्बन्धकोटौ निवेशः। यस्य हि घटादिपदस्य वृत्तिर्ज्ञाता तत्र पदे वृत्तिविषयकसंस्कारो ज्ञानं चेत्युभयमपि विषतयास्ति वृत्त्याश्रयपदविषयकं च तज्ज्ञानम्। यत्तु वृत्त्या पदजन्यपदार्थेपस्थितिः शाब्दबोधे कारणंमिति तन्न। तादृशोपस्थितित्वस्य गुरुतरस्य कारणतावच्छेकत्वापेक्षयास्वजन्यपदार्थोपस्थितिसम्बन्धेन पदज्ञानस्य हेतुत्वे लाघवात्। मानान्तरेति । मधुरत्वस्यानुमानादिनोपस्थितिरित्यर्थः। तार्किकास्तु ज्ञानलक्षणाजन्यं वदन्ति। आलङ्कारिकास्त्वत्र व्यञ्जनां वदन्ति। ननु मधुरत्वप्रकारकशक्तिग्रहाभावाद्रुड इत्येकदेशप्रयोगे कथं तादृशबोध इत्यत आह। यत्र त्विति। न त्विति। मधुरत्ववान् गुड इत्यन्वयो नेत्यर्थः। ध्वनितमिति। तत्र हि दध्योदन इत्यत्र दधिशब्देनैव दध्युपसिक्तप्रतीतिः गुड इत्यत्र मधुरत्वस्य प्रकारान्तरेण प्रतीतावपि न तस्य शाब्दवाच्यतेति स्पष्टम्। अथ गुडं भुङ्क्ते इत्यत्र गुडत्वस्येव मधुरत्वस्यापि प्रकारतया तत्प्रकारकशाब्दबोधवारणाय गुडत्वप्रकारकगुडविशेष्यकशाब्दबोधं प्रतितादृशसक्तिज्ञानपत्तिः, तत्राकाशत्वस्य शब्दाश्रयत्वस्य शब्दाश्रयत्वरूपतयावच्छेकताया निरवच्छिन्नत्वादिति चेन्न। आकाशपदान्निर्विकल्पकोपस्थितेरेव स्वीकारेण तत्रेदृशहेतुत्वाकल्पनात्। आकाशत्वस्यापि जातित्वाच्च। एतेन निर्विकल्पकस्वीकारे आकाशं द्रव्यमित्यत्र भिन्नप्रकारकोपस्थित्यभावादभेदबोधानापत्तिरिति परास्तम्। यदपि आकाशस्यैकव्यक्तित्वेनानुगमकधर्मानपेक्षणेऽपि नियतोपस्थितये शब्दाश्रयत्वमाकाशपदशक्तिमिति तन्न। शाब्दिकमते आकाशत्वादरेपि जातित्वात्। ननु घटघटत्वे इत्यादिनिर्विकल्पकस्य घटत्वादिप्रकारकत्वाभावात्कथं घटादिपदार्थज्ञानजन्यत्वमिति चेन्न। निर्विकल्पकस्यातीन्द्रियतया तस्य कार्यतावच्चेदकत्वानभ्युपगमात्।। 1.5 ।।
व्यत्त्यासेनेति। घटत्वविशेप्यकशक्तिग्रहानन्तरं घटत्वप्रकारकशाब्दबोधवारणायेत्यर्थः। तद्धर्मावच्छिन्नेतीति। नन्वेवं तदादीनां बुद्धिस्थत्वावच्छिन्ने शक्तिग्रहात् तमानयेत्युक्ते बुद्धिस्थमानयेत्येव बोधः स्यान्न तु घटत्वादिविशेषरूपेण। अत एव वन्हिव्याप्यधूवत्पर्वतं तच्छब्देन परामृश्य स वह्निमानिति वाक्यजन्यशाब्दबोधे परामर्शजन्यत्वेनानुमितिलक्षणातिव्याप्तिरुक्ता दीधिताविति चेदत्राहुः। सानान्यरूपेण शक्तावपि त्यदादितो विशेषरूपेणैवोपस्थितिः। उपस्थितिशक्तिग्रहयोः समानाकाककत्वप्रवादस्तु त्यदाद्यतिरिक्तविषय इति घटत्वादिविशेष एव शक्यतावच्छेकः। तदादीनां नानार्थत्वमिष्टमेवेत्यन्ये । स्वविषयकेति। वृत्तिविषयको य उद्‌बुद्धसंस्कारः तत्सामानाधिकरण्यं वृत्त्याश्रयपदविषयकत्वं चेत्यर्थः। अस्ति च घटपदार्थनिरूपितवृत्तिविषयकः उद्‌बुद्धसंस्कारः विषयतया घटदज्ञानं च ।अपम्भावः। घटादिपस्य घटत्वादिविशिष्टे शक्तिरित्यदिवृत्तिविशेष्यकज्ञानानन्तरं तत्समानाकार एवं संस्कार उत्पद्यते तादृशसंस्कारविशिष्टं पदज्ञानं शाब्दवोधे हेतुः। नागृहीतवृत्तिकस्येति। वृत्तिविषयकसंस्काराभावात् पदान्तरविषयकवृत्तिसत्त्वेऽपि पदान्तराच्छाब्दबोधवारणाय सामानाधिकरण्यनिवेशः। सामानाधिकरण ्यं च विषयतयेव समावायेनापि बोध्यम्। नातश्चैवत्रीयशक्तिहग्रहानन्तरं मैत्रस्य शाब्दबोधः। विस्पृतवृत्तिकस्येति। बोध इत्यनेनान्वयः। उद्‌बुद्धसंस्काराभावादिति भावः।पदाज्ञानवत इति। तत्र विषयतया ज्ञानस्याभावात्। हस्तचेष्टादिनाप्यर्थवत्वात्तत्रातिव्याप्तिवारणाय पदशब्दप्रयोगः। तन्निरूपितवृत्त्याश्रयत्वनिवेशस्य फलमाह। आश्रयत्वेनेति। तथाच शब्दस्याकाशगुणात्वाद्धटादिशब्दादाकाशस्योपस्थितावपि आकाशत्वावच्छिन्ननिरूपितवृत्तेर्घटः। दिशब्दे ऽभावान्न तद्बोध इत्यर्थः।
यद्यपि वृत्तिज्ञानस्य पदज्ञानस्य वा अभावे कारणसमुदायरूपसामग्रीविरहादेव न कार्योपत्तिः सम्भवति तथापि समुदायघटकसम्बन्दज्ञानार्थं सामानाधिरण्यनिवेशः। स्यादेतत् स्मृतिं प्रत्यनुभव एव कारणम् उपेक्षात्मकज्ञानात्तु संस्कारानुत्पत्त्यैवास्मरणसम्भवे किं संस्कारहेतुतया । अन्यया भ्रमणाभावादेव घटादीमानुत्पत्तौ दण्डादीनामपि हेतुतानामपि हेतुतानापत्तेरिति चेन्न। उद्‌बोधकानां तत्तद्व्यक्तित्वेन हेतुत्वे गौरवाल्लाघवेन संस्कारस्यैव हेतुत्वकल्पनात्। व्यापारेण व्यापारिणओ नान्यथासिद्धिरिति प्रवादस्तु निर्मूल एव। संस्कारशब्देनात्र वासनाविशेष उच्यते न तु स्मृतिजतकतया तार्किकप्रसिद्धः। शाब्दबोधस्य स्मृतिरूपताया निराकरिष्यमाणणत्वात्। चैत्रादेश्चेति। अस्ति हि पदव्यञ्जकतया चैत्रादेरूपस्थितिः।
ननु घटादिपदवृत्त्यनुभवाव्यदहितोत्तरं बोधानापत्तिः तत्पूर्वं संस्काराभावादत आह। संस्काराजानकेति। अनुभवस्य क्षणिकतया तत्रापि स्मरणादेव बोधादिति भावः। ननु उपेक्षात्मकशक्त्यनुभवानन्तरं संस्कारानुत्पत्त्या शाब्दबोधानापत्तिरत आह। तेनेति। ननु संस्कारस्यातीन्द्रियतया तत्सत्त्वेमानाभाव इत्यत आह। संस्कारकल्पिका चेति। स्मृतिरूपकार्येणैव कारणस्य संस्कारस्यानुमानात्। यद्यपि स्वरूपसदेवकारणं कार्यजनकं न ज्ञातं तथापि कल्पिकेत्यस्य हेतुत्वकल्पिकेत्यर्थः। ननु संस्कारस्य फलनाश्यत्वात् वृत्तिस्मृतौ संस्कारस्य नष्टत्वात् शाब्दबोधानापत्तिरत आह। शाब्दबुद्धिरेव वेति। चरमफलस्यैव संस्कारनाशकत्वमिति भावः। नचैवं स्मरणानन्तरं पुनः स्मरणानापत्तिरिति वाच्यम्। तत्र स्मारमस्यैवसंस्कारजनकत्वात् । तदुक्तं दीधितौ जायते च पुनः पुनः स्मरमात् दृढतरः संस्कार इति।। 1.8 ।।

वृत्तिस्त्रिधेति। त्रिधेति धाप्रत्ययः प्रकारे। सत सामान्यस्य भेदको विशेषः। इह चवृत्तित्वं सामान्यं शक्तित्वादिक्विशेषः। तथा च विशेषत्रयवती वृत्तिरित्यर्थः। एतच्च स्वरूपकथनामात्रम्। शक्तिज्ञानलक्षणाज्ञानयोः कार्यकारणभावस्त्वेक एव। तथा हि शक्तित्वाच्छिन्नसंसार्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थनिष्ठविशेष्यताकज्ञानत्वेनशाब्दवेधं प्रति कारणता शक्तिसम्बन्धेन शक्यसम्बन्धेन वापदप्रकारकज्ञाने शक्तेः संसर्गत्वात्। यतु शक्तिलक्षणान्यतरत्वं वृत्तित्वमिति तन्न। द्योतकानामसङ्ग्रहापत्तेः। तार्किकमतनुवदति। अस्माच्छब्दादिति। ननु बोध्यत्वप्रकारकेश्वरेच्छायाः शक्तित्वे ऽर्थधर्मत्वापत्तिरित्यरुचेराह । इदमिति।
तस्याश्चेति। ईश्वरेच्छा पदे ऽर्थे जन्यजनकभावे चेति सर्वत्र शक्तिप्राप्तेत्यर्थः। यद्यपि मुख्यविशेष्यतार्थनिष्ठैव तथापि लोमवान् पशुपदाद्‌बोध्य इत शक्तिग्रहे मुरूयविशेष्य तारहितस्य लोमादेरपि बोधान्न तथोक्तम्। तस्यामिति। बोधजनकत्वेनेच्छाविषयो वाचक इत्यादिरर्थः। नातिप्रसङ्गः। न सम्बन्धादौ वाचकत्वापत्तिः। प्रथमशक्तिग्रह इति। बालानां वाक्यादेवार्थबोधात्। आवापः। पदान्तरप्रक्षेपः। उद्वापः। निष्काशनम्। घटमानय घटं नय इत्यादि । शाश्त्रकृदिति। पदविबागस्य काल्पनिकत्वात् वस्तुतो घटमानय घटं नयेत्यादिवाक्यमखण्डमेवेति भावः। यद्यपि तार्किकमते नाखण्डं वाक्यं तथापि पदविभागेन कल्पित एवार्थविभागः। वाक्येवनैवार्थसमाप्तिरिति प्रागेवोक्तत्वात्।
ननु ईश्वरेच्चैव शक्तिरित्ययुक्तमीश्वरज्ञानकृत्योरपि विनिगमनाविरहेण शक्तिरूपत्वसम्भवादतस्तत्रेष्टापत्तिमाह । यद्धेति। सा शक्तिः। तन्नेति। घटमानयेत्यादिवाक्यं श्रुतवता प्रयोज्येनानीतं घटं पश्यन् बालो ऽनुमिमीते अयं घटानयनकार्यताज्ञानवान् घटविषयकचेष्टावत्त्वादिति। ततः कारणं विना कार्यानुत्पत्त्या अखण्डवाक्यस्य तत्कार्यकारमत्वमवधारयति। ततो वाक्यार्थयोः सम्वन्धाभावो बोधकत्वासम्भवात् कल्पनाया बोधजनकत्वज्ञानोत्तरकालभावित्तवात् बोधजतकत्वस्य सम्बन्धत्वं कथमित्यर्थः। प्रथमतो हि बोदजनकत्वग्रहो भवति पश्चात् सम्बन्धः कल्प्यत इति भावः।। 1.9 ।।

प्रयोज्यस्य प्रवृत्त्या। घटाद्यानयनेन।तस्य ज्ञानमिति। एतद्वाक्यार्थज्ञानं प्रयोज्यस्य जातमित्यनुमायेत्यर्थः। ज्ञानस्येति। प्रयोज्यनिष्ठज्ञानस्य तु तद्वाक्यमेव कारणं वाक्यवाक्यार्थयोश्चासम्बन्धे बोधकता न स्यादिति तयोः सम्बन्धः कल्प्यत इत्यर्थः। स्वयमनुपपद्यमानत्वेनेति। प्रथमतोऽसम्भवादित्यर्थः। गृहीतेति। ज्ञातेत्यर्थः। बोधजनकत्वरूपसम्बन्धस्य ज्ञातुमशक्यत्वादिति यावत्। अपास्तमिति। बोधजनकत्वज्ञानान्तरमेव सम्बन्धत्वकल्पनात्। किञ्च बोधकत्वस्यैव वाचकत्वे माधुर्यादिव्यञ्जके स्पर्शादिवर्णेऽतिव्याप्तिः।
विनिगमानविरहेणेति। ईश्वनरेच्छाया ईश्वरज्ञानस्य वाशक्तित्वमित्यत्र विनिगमनाविरह इत्यर्थः। किञ्चैवमिति। दण्डाद्‌घटो जायतामितीच्छाविषयत्वमेव दण्डादौ कारणत्वं स्यादित्यर्थः। तस्माद्दण्डादिनिष्ठा शक्तिः स्वरूपसती कार्योत्पादिका, शब्दनिष्ठा तु ज्ञातैव शाब्दबोधोपयोगिनीति वैलक्षण्यामावस्यकमिति भावः। किञ्च स्वर्गादिजनकत्वमेव यागादौ कारण्त्वं वाच्यं, तथा च स्वर्गजनकत्वेन पूर्वं ग्रहाभावात् स्वर्गकामो यजेतिवाक्याच्छाब्दबोधानापत्तिः। बहूपप्लव इति। अन्यत्रापि कारणत्वस्यातिरिक्तस्य सिद्ध्यनापत्तिरित्यर्थः। तस्मादीश्वरेच्छाकरणत्वस्यैव नियामिकेति भावः। प्रमामानामिति। संयोगादिसम्बन्धेन घटादिसम्बद्धानामेव चक्षुरादीनां घटादिबोधकत्वदर्शनादिहापि प्रमाणप्रमेययोः सम्बन्धत्वं नोचितमित्यर्थः।
अन्यथा। जनकत्वादेः सम्बन्धत्वे सति। ज्ञायमाने । धूमे। धूम एव हेतुर्न तु धूमज्ञानमित्यभिप्रेत्य धूमादित्युक्तम्।व्याप्त्युच्छेद इति। व्याप्तिर्नाम साहचर्यनियमः तस्या हेतुत्वमुच्छिद्येतेत्यर्थः। तस्माज्जनकत्वघटितः सम्बन्धो नोचित इति भावः । इच्छाया जनकत्वस्य वेति यो हि घटभूतलयोः संयोगवत्तदुभयस्मिन्नपि सम्बन्धिनि वर्तते स एव सम्बन्धो भवति जनकत्वादि तु पदमात्रवृत्तीत्युभयवृत्तित्वाभावान्न सम्बन्धत्वमित्यर्थः। इच्छाया उभयवृत्तित्वाभावमुपपादयति। इच्छेति। इच्छाविषयो यो बोधस्तदीयविषयताया इच्छाश्रयतानियामकत्वाभावादित्यर्थः। तत्र हि न पदं नापि पदार्थं इच्छाविषयः किन्तु बोध एव बोधविषयतयैव च इच्छाश्रयता वाच्या सा च न सम्भवति अयं शब्दः अयमर्थो वा इच्छावानिति प्रतीत्यभावदिति भावः।
सम्बन्धत्वाभावं वक्तुं प्रथमतः सम्बन्धस्वरूपं दर्शयति। सम्बन्धो हीति। यद्यपि विशिष्टबुद्धिनियामकत्वं विशेप्यविशेषणयोरपि तथापि तयोरविशिष्टबुद्धावपि विषयत्वात्तद्‌व्युदासः। घटवद्‌भूतलमित्यादिविशिष्टबुद्धिवत्प्रकृते विशिष्टबुद्धिर्नास्तीत्याह। न हीति। तत्रेति। इच्छाविषयो यो बोधस्तदीयविषये इत्यर्थः। ननु शब्दवदर्थस्यापि शाब्दबोधे निमित्तत्वादस्त्युभयत्र बोधजनकत्वाख्य, सम्बन्ध इत्यत आह। सत्त्वेऽपीति। दुरुपपादत्वादिति। न हि दण्डचक्रयोरुभयोर्घटजनकत्वे ऽपि परस्परं सम्बन्धोस्तीत्यर्थः। सम्बन्धाभावादिति पाठे ऽप्ययमेवार्थः। एतदेवाह। ज्ञाने इति। अन्यथा विषयपुरुषयोरपि वोधहेतुत्वात् पुरुषविषययोः सम्बन्धे तयोर्विशिष्टबुद्ध्यापत्तिरित्यर्थः। ननु बोधजनकत्वस्याश्रयतया पदे निरूपकतया चार्थोऽपि सत्त्वादस्तु सम्बन्दत्वमिति चेन्न । निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वात्।। 1.10 ।।

वाच्यवाचकेति। कारणतारूपाशक्तिः शब्दे प्रसिद्धैव अर्थे शक्तिर्वाच्यतारूपैव। अध्यासेति। अन्यस्मिन्नन्यधर्मावभासो ऽध्यासः तन्मूलकं तादात्म्यं न तु वास्त्वमित्यर्थः। ननु सङ्केन एव तादात्म्यमिति व्याख्यास्तु सङ्केतग्रहान्तरमेव तादात्म्याध्यासादिति चेन्न । देवदत्तो ऽयमिति तदात्म्यमेव सङ्केत इत्यर्थः। तस्यापीति। तादात्म्यस्यापीत्यर्थः। पदपदार्थयोरारोपिततादात्म्यस्यं शक्तिग्राहकत्वात् शक्तित्वमरीति भावः। ननु तादात्म्यस्येत्यर्थः। सम्बन्धत्वाभावमुपपादयति। भेदाभेदेति । वास्तविकभेदे सति आरोपिताभेद एव हि तादात्म्यं तस्य च सम्बन्धत्वं न सम्भवतीति भावः। अत्रैव हेतुमाह। तद्धटकस्येति। तादात्म्यघटकस्य भेदस्य अभेदस्य वा सम्बन्दत्वमन्यत्र न दृष्टमित्यर्थः। ननु भेदस्य सम्वन्धत्वाभावेऽपि नीलो घट इत्यादावभेदस्य सम्बन्धत्वं दृष्टमत आह। खण्डयिष्यत इति। सम्बन्धिभेदनियतत्वात्। सम्बन्धस्येति भावः ।। 1.11।।

नन्वस्यार्थस्यायं शब्दो वाचक इत्याकारसङ्केते शब्दार्थयोस्तादात्म्यभङ्ग इत्यत आह। सङ्केतस्त्विति। इतरेतराध्यासः । परस्परात्मकतारोपः। इतरेराध्यासो रूप्यतेऽनेनेति इति। स्मृतौ आत्मा यस्येत्यर्थात् स्मृतिविषय इत्यर्थः। अत एव वक्ष्यति ज्ञानस्यैवेत्यादि। शक्तिबोधकत्वम्। शक्तिग्राहकत्वम्। स्मृतिपदस्यार्थान्तरमाह। किञ्चेति। त्र्यीशब्दानां प्रवृत्तिरिति पक्षे संज्ञामात्रस्य व्युत्पन्नतया योगलभ्यक्रियास्तत्रारोप एव हि तत्र शक्तिरस्ति पामिन्यादिस्मृतिप्रकाशितेश्वरसङ्केताभावात् इत्याह। एवञ्चेति। गोविन्देति। प्रसिद्धगोविन्दगुणारोपेणाधुनिकगोविन्दप्रयोग इत्यर्थः। आरोपहेतुं सम्बन्धं दर्शयति। स्वशक्तेति। गोविन्दे शक्तो यो गोवनिन्दस्ततसङ्केतस्य विषय आधुनिकहोवन्दः। ननु गोवन्ददादिपदानां लक्षणाश्रयणे सङ्केतानुपयोग इत्यत आह। एतदर्थमेवेति। उक्तसम्बन्धज्ञानार्थमेवेत्यर्थः।
आरोपेण च संमतिं दर्शयति। अत एवेति। प्रत्ययार्थाभावादिति। यदृच्छाशब्दे पुरुषेच्छाया एव निमित्ततयार्थतस्य कस्यचित् प्रवृत्तिनिमित्त्स्यानपेक्षणात्त्वप्रत्ययो न प्राप्नोतीति भावः। भावप्रत्ययान्तेति। भावार्थकप्रत्ययान्तावृत्तिरित्यर्थः।। 1.12 ।।

प्राथमकल्पिकेति। प्राथमकल्पिको मुख्यो यो डित्थस्तदीयां क्रियां गुणान् वा यः करोति स डित्थ इत्युच्यते डित्या ईदृशी क्रियां कुर्वन्ति सा च त्वयीति तव डित्थत्वमेतादृशक्रियारूपमित्यर्थः। एवञ्च डित्थसहचरितक्रियादर्शनात्तादृशक्रियागुणादिकमेव प्रवृत्तिनिमित्तमिति भावः। अत्रेदं तत्त्वम्। यस्य गुणस्य भावात् द्रव्ये शब्दाभिनिवेश इति भाष्यमते गुणो नाम भेदकः भेद्यञ्च द्वव्यमित्येतदेव लक्षणमनुसरणीयम्। एवञ्च विशेष्यमात्रवाचकाद्विशेषणमात्रे गुणे भावप्रत्ययः। गोशब्दस्य जात्यविच्छिन्नद्रव्यवाचित्वे जातौ गोत्वमिति भावप्रत्ययः। जातिमात्रवाचित्वे तु तत्समनियते शब्दस्वरूपे भवप्रत्ययः। यद्धि स्वरूपेण परमुपरञ्जयति तद्विशेषणम्। एवञ्च स्वरूपेणार्थ प्रत्याययतः शब्दस्योपरञ्जकत्वात् स्वरूपमेव प्रवृत्तिनिमित्तं तद्रुपाध्यासेन चार्थप्रतितिः। एवञ्च डित्थत्वमित्यत्र तु क्रियागुमाध्यासादन्यत्र वृत्तौ डित्थत्वसहचरितयोः क्रियागुणयोर्भावप्रत्ययः। एवञ्च क्रियागुणयोरभेदाध्यासमाभिप्रायं डित्थत्वमिति।
कथमिति। प्राथमिकडित्थे आरोपासम्भवाद्‌वृत्तिः कथमित्यर्थः। समाधत्ते । यथेति। क्वाचित्क इति। विनयादित्वात्स्वार्थे ठक्। अवस्थाभेदात्तत्रापि जातिं कल्पयित्वायथा तत्प्रकारको बोधस्तथा त्वप्रत्ययो पीत्यर्थः। आनन्त्यव्यभिचारयोरभावेन तत्र जातिकल्पेने मानाभावान्निष्प्रकारक एव बोध उचित इत्यभिप्रायेणेक्तं कथञ्चिदिति। तत्रेति। अयं शब्दं अस्मिन्नर्थे शक्तः, अस्पिन्नर्थे वृद्धैः प्रयुज्यमानत्वादित्वनुमानेन शक्तिग्रहे जायमाने धर्मितावच्छेदकस्यावश्यकत्वात् शब्दस्यार्थे आरोपाच्छब्दप्रकारको यथा बोधस्तथा शब्दस्वरूपे प्रवृत्तिनिमित्ते त्वप्रत्यय इत्यर्थः। तत्। शब्दस्वरुपम्। प्रकारम्। प्रवृत्तिनिमित्तम्।
तत्पक्षे इति। कैयटव्याख्याने इत्यर्थः। न स्वारस्यमिति। घटादिपदादपि शब्दप्रकारकबोधस्य दर्शनेनास्य प्रकारस्य सार्वात्रिकत्वात्कथञ्चित्पदस्य भाष्यस्थस्य स्वारस्यं न भवतीत्यर्थः। अन्यत्रेति। आधुनिकडित्थे ऽपि संज्ञास्वरूपे वाच्ये त्वप्रत्ययसम्भवात्प्राथमिकडित्थगतक्रियारोपेण प्रवृत्तिरिति भाष्यस्य निष्फलत्वापत्तिश्चेत्यर्थः। संज्ञाशब्दे शब्दस्वरूपस्यैव प्रवृततिनिमित्त्वात्तत्रैव प्रत्यय इति व्याख्याने तु भाष्ये कथञ्चिच्छब्दप्रयोगो ऽसमञ्जसएव स्यात्। इत्यन्ये इति। इति पूर्वोक्तदोषाद्धेतोरन्ये भाष्यमन्यथा व्याचक्षते इत्यर्थः। विषयताद्वयेनेति। व्यक्तिरेवात्र डित्थशब्दार्थः तस्या एव प्रकारतया विशेष्यतया च भाने । तता च प्रकारताविशिष्टा व्यक्तिस्त्वप्रत्ययार्थ इत्यर्थः। अस्यारीतेरन्यत्र दृष्टत्वाभावात् कथञ्चिदिति भाष्योक्तिः सङ्गतेति भावः।
प्रयोगादीत्यादिना शक्तिग्रहभावप्रत्ययौ। अस्मादादीनां दुर्ग्रहत्वमत्रास्वरसः। तत्रेति। शक्त्याद्यभावेऽपि बोध इत्यन्वयः। पदान्निर्विकल्पकशाक्तिग्रहशाब्दवोधयोरभावात्तत्र शक्तिर्नास्तीति मतं निराकरोति। तत्तदिति। वृत्तित्वानभ्युपगमे तु दोषमाह। वृत्तिजन्येति। कथं तर्हि अनुकार्यामां बोध इति चेत्तस्य स्मारणात्मकत्वेन शाब्दवोधत्वात्तथोपत्थितस्यापि पदार्थान्तरेऽन्वयित्वं तु भूसत्तायामित्यादिनिर्देशादेव। ननु आधुनिकसंज्ञास्थले शक्त्याभावेऽपि नामस्थले शक्तिरस्त्येव द्वादशेऽहनीति वचनात्तथा च तत्र लक्षणेति प्रागुक्तमयुक्तमित्याशङ्कामपाकरोति। द्वादशे ऽहनीति। तत्तद्ुूपेणेति। चैत्रत्वादिनेत्यर्थः। अन्यथा नापभाषितवै इत्येवमपभ्रंशत्वेनोच्चारमादपभ्रंशे ऽतिव्याप्तेः। तस्मातत्तद्रुपेणेश्वरोच्चरितत्वमेव शक्तिमत्त्वनियामकं तच्च नामस्थले नास्तीति भावः। तत्रापीति। आधुनिकसंज्ञानवन्नामस्थले ऽपीत्यर्थः। ईश्वरस्य सर्वज्ञत्वान्नामस्थले विशिष्याप्युच्चारणं कल्प्यते इत्यन्ये। ननु तत्र शक्तिसत्त्वे किं मानमस्य सुबन्तादौ प्रसिद्धत्वाद्वाचकशब्दमात्रग्रहमाद्वा अस्ति प्रकृत्यादिकल्पनया शक्तिरत आह। अत्रेति। बोधकः शब्द इति। तथा च शक्त्यभावे बोधो न स्यादिति भावः।। 1.13 ।।

शक्तेः सम्बन्धो बोध्यवोधकनियामको भवति न तु शक्तिरित्याह । शक्तेरपीति। घटजननशक्तेरसम्बन्धोस्तीत्यत एव हि दण्डनिष्ठशक्तेर्घटजनकत्वमित्यर्थः। शक्तेस्तु पुनः शक्त्यन्तरं नास्त्यनवस्थापत्तेः। उपकार इति। यत्रोपकारस्व भावः सम्बन्धोऽस्ति तत्र शक्त्याख्यो धर्मो ऽनुमीयते असम्बद्धानामुपकाराभावात्। न च शक्तिरेवसम्बन्धः शक्तीनामप्याधारपारतन्त्र्ये कार्यजनने च सम्बन्धस्यैव नियामकत्वात्। गुणानामपि च द्रव्याश्चितत्वनियामकः सम्बन्ध एवेति परतन्त्राणामप्युपकाकत्वादित्यर्थः।
उपकार्योऽर्थः। उपकारकः शब्दः। उपकारकतात्र परस्परं द्वयोरपि। कार्यम्। उपकारम्। असौ सम्बन्ध उपकारकाख्यः । शक्तीनामपीति। सम्बन्धसत्त्वे एव शक्तेरपि कार्यजनकत्वादित्यर्थः। अर्थलक्षणम्। अर्थप्रतिपादकं शास्त्रम्। अनेनेति। वाक्यलक्षणाया समयग्रहार्थयित्यनेन वाक्ये ऽपि शक्तिसूचनार्थकत्वोक्तिरयुक्तेति भावः।।1.14 ।।

एतेनेति। पदार्थसम्बन्धग्रहसोपक्षाण्यपि पदानि न वाक्यानि वाक्यार्थसम्बन्धग्रहसापेक्षाणि आकाङ्क्षादिवशादशक्यस्यैव वाक्यार्थस्य प्रतितेरित्यर्थः। परास्तमिति। पदद्वयघटिताकाङ्क्षादिभिर्वाक्यार्थवोधे वाक्यस्फोटस्य दुवार्रत्वात्। अवयवार्थद्वारा। प्रकृत्याद्यर्थद्वारा। सूचितमिति। पदलक्षणायाः समायग्राहकमित्यनेन पदस्य वाचकत्वं सूचितमन्वाख्यानत्वोक्त्या च प्रकृत्यादिकल्पना सूचिता। सः । अभ्यासः । एतदेवोपपादयति। इति शब्दस्येति। इति शब्देन घटशब्दस्य परामर्शाच्छब्दज्ञानयोरभेद इत्यर्थः। साकारभेदादेवभेदः। अर्थं शृणु इति। शाब्दस्यैव श्रावणत्वार्थे आरोप एवेति भावः।
ओमित्येकाक्षरमिति। ननु यश्छन्दसामृषभो विश्वरूपश्छन्‌दोभ्यो ऽध्यमृतात्सम्बभूवेति श्रुतौ यच्छन्दसामृषभ ओङ्कारः छन्दोम्यः सम्बभूवेति उत्पत्तिश्रवणात्कथं ब्रह्मरूपत्वम्। सत्यम्। स बभूवेत्यस्य प्रत्यभात् इत्यर्थः।। 1.15 ।।

ननु शब्दार्थयोस्तादात्म्ये अग्निशब्दोच्चारणे प्तुखदाहापत्तिरस्यायं वाचक इति व्यवहारानापत्तिश्चेत्यत आह। तादात्म्यं चेति। तयोः । भेदाभेदयोः तस्य वाचकः प्रणव इति। एतच्च पातञ्जलसूत्रम्। तस्येश्वरस्य प्रणव ओङ्कारो वाचक इत्यर्थः। उक्तेषु। ओमित्येकाक्षरमित्यादिषु । शब्दधर्मत्वेति। श्रवणार्दात्यर्थः।
सम्बन्धशबादे इति। अत्र वाच्यत्वं सप्तम्यर्थः। योग्यतां प्रतीत्यत्र लक्षणत्वसम्बन्धे कर्मप्रवचनीयता। तथा च सम्बन्धशब्दवाच्यः सम्बन्धो योग्यतैव । एतच्च योग्यतावशादेव निश्चीयते अयं एतदर्थयोग्य इति व्यवाहात्। योग्यतैव शब्दार्थयोः सम्बन्ध इत्यर्थः। अत एव च सम्बन्धशब्दो योग्यतालक्षणसम्बन्धयोग्यतयैव प्रतिपादयतीति हेलाराजो व्याख्यत्। नन्वेवं सङ्केतस्य नोपयोग इत्यत आह। समयादिति। वृद्धव्यवहारपरम्परापर्यायात्समयात्स्वाभाविक्येव योग्यता निश्चियते। न हीयमस्य प्रतिपादनात्। सतीति। अर्थे नियते नियतप्रतीतिहेतुत्वं सम्बन्धे सत्येव युच्यते नान्यथेति यतः तस्मादर्थप्रत्यायनात्कार्यादस्तिसम्बन्धः शब्दार्थयोरित्यवसीयत इत्यर्थः। सम्बन्धबोधके शब्दे अस्य शब्दस्यास्मिन्नर्थे सम्बन्ध इति व्यवहारात् अयमर्थ एतद्योग्यतावानिति व्यवहाराद्योग्यतानिश्चय इत्यर्थ इति भूषणकृतः।
अस्यार्थ इति। एतन्मते योग्यतां प्रिति सम्बन्ध इत्यस्य योग्यतायाः सम्बन्ध इत्यर्थः। तथा च तादात्म्यम्बन्धे योग्यतायाः यः सम्बन्धः स एव योग्यतेत्यर्थः। योग्यतानिरूपितस्तादात्म्यलक्षणः सम्बन्ध इति त्वपपाठः । तादात्म्यं हि योग्यताया आश्रयो न तु निरूपितम्। अस्मदादीति। वृद्धव्यवहारपरम्परापर्यायो यो ऽस्मदादिसमयस्तेन गृहीतो य ईश्वरसमयस्तेनानुमीयत इत्यर्थः। अत एव । शब्दार्थयोस्तात्म्यादेव। ज्ञानमिति। प्रयोगेमाभिव्यक्तैः। शब्दैस्त्रितयमवगम्यते शब्दस्वरूपमर्थः प्रयोक्तुरभिप्रायश्च। न चैतदसति सम्बन्धनियमे घटत इति वास्तवः सम्बन्धो न सामयिकः। समवस्थित इत्यस्य स्वभावत एव निरूढो न शास्त्रेण निवेशित इत्यर्थः। तत्रार्थशब्दयोः सम्बन्धो वाच्यवाचकभावः , प्रयोक्तृभिप्रायेण तु सह कार्यकारणभावः । तदाहुः वक्तृव्यापारविशेषो बुद्धौयो ऽर्थः प्रकाशते तत्र शब्दानां नानार्थत्वनिबन्धनमिति। उक्तं तादात्म्यम्। अध्यस्तंं तादात्म्यम्। भेदाभेदेति। वस्तुतो भेद एव आरोपितस्त्वभेद इत्यर्थः।। 1.16 ।।

बौद्ध एवेति। वुद्धिविषयावेवार्थशब्दौ वाच्यवाचकौ न तु वास्तवावित्यर्थः। अत एव । शब्दार्थयोरभेढाढेन । भेदस्य वास्तविकत्वमुपपादयति। स्वाभाविकेति। योगः। सम्बन्धः। अत एव व्यतिरेकमाह। असम्बद्धानामिति।
योगः शब्दार्थयोरिति । एतदग्रे तत्त्वमप्यतो व्यपदिश्यत इति ग्रन्थः। अस्यार्थस्यायं वाचकः अस्यशब्दस्यायं वाच्य इति षष्ठ्यन्यथानुपपत्त्या असत्येव शब्दार्थयोः स्वाभाविकः सम्बन्धः । अत एव शब्दार्थयोस्तत्त्वं गौरयमित्यभेदेन व्यवहियत इत्यर्थः। वृद्धव्यवहारादिभिः सङ्केतग्रह इति परमतं निराकर्तुमुपक्रमते। पर्यायाविति। चतुर्णां पर्यायत्वेऽपि तादृशव्यवहाराच्छक्तिग्रह इत्यर्थः। अर्थजातम्, अर्थ सामान्यं तेन व्यक्तिनिरासः । अज्ञातनामके पूर्वोक्तसेङ्कतग्रहासम्भवादाह। अस्येदमिति। अयं चन्द्रं इत्युपदेशे व्यवहारेण शक्तिग्रहासम्भवादयमपि नियोग इत्यर्थः। नियोगशब्दस्य विशेषावस्थापने प्रसिद्धत्वादाह । नियोगश्चेति।
ननु घटः शब्दवान् घटोऽर्थ इति प्रत्ययाभावेन शब्दार्थयोः सम्बन्धाभावादनियमेनार्थप्रत्ययापत्तिरत आह । सामयिक इति। शङ्केताधीन इत्यर्थः। तेन शब्देभ्यो ऽनियमेनार्थप्रतीतिर्न भवतीति भावः। अयमयमितीति । सास्रादिमान् गौरित्याकारक इत्यर्थः। सङ्केतस्यानापत्तेरिति। अस्य पदस्यास्मिन्नर्थे शक्तिरित्याकारक सङ्केतो न स्यादित्यर्थः। यत्तूक्तं कुसुमाञ्जालौ।
गोमयाद्वृश्चिकोत्पत्तिर्मायावत्समयादय इति।
यथा वृश्चिकाद्रोमयाच्च वृश्चिकोत्पत्तिः सर्गादौ केवलादृष्टात्। इदानीं तु ब्राह्मणास्योतपत्तिः। यथा मायावी मायामयं प्रयोज्यं कृत्वा घटमानयेत्यादिप्रयुज्य शक्तिं ग्राहयति तदेशवरोऽपि शरीरद्वयं कृत्वा शक्तिं ग्राहयतीति तद्‌द्‌षयति। लोके दर्शनेनेति। भवति चेश्वरस्य तादृशः सङेकतः लोके तादृशस्यैव सङ्केतस्य दर्शनात्। तस्मात्सङ्केतः शक्तिप्रकाशक एवेति भावः।। 1.17।।

अत एव । सङ्केतस्य शक्तिग्राहकत्वादेव। महर्षितिमहर्ष्यादिभ्य ईश्वरेण साक्षात् सङ्केतः प्रकाशित इत्यर्थः। तत्सङ्केतः। ईश्वरसङ्केतः। ननु विद्यमानस्यैव शब्दार्थसन्बन्धस्य सङ्केतो न स्यादत आह। सर्वे च शब्दा इति। इति सर्वैरर्थैरिति। इति हेतोः सर्वैरर्थैः। नित्य इति। ईश्वरकृतत्वे तु जन्यत्वेनानित्यत्वापत्तिरिति भावः। तन्त्र्यन्ते व्युत्पाद्यन्तेऽनेनेति तन्त्रम्। उभयरूपपरेति। शब्दमात्रस्यार्थमात्रस्य च ब्रह्मोपादानकत्वेन ततो भेदाभावात्। उभयोः। शब्दशब्दार्थयोः। क्रियाशक्तिप्रधानायाः परिणतिक्रियोन्मुखायाः प्रकृतेः सकाशादित्यर्थः। तदुक्तं काशीखण्डे क्रियाशक्तिरिदं विश्वमस्य त्वं कारणं तत इति। बिन्दुरूपिण्या इति। चिदचिन्मिश्राया इत्यर्थः। अयम्भावः। मायानुपहितं ब्रह्मनिर्गृणं मायो पहितं सगुणं तच्च ब्रह्म जगदुपादानमिति मते तदेव बिन्दुशबादवाच्यम्, प्रकृतेरुपादानत्वे तु सैव बिन्दुः। स च बिन्दुः कारणरूपः सूक्ष्मः कार्यरूपस्तु त्रिविधः बिन्दुर्बोजं नादश्च। बिन्दुः ब्रह्मेति । शब्दार्तयोरभेदात् सकलार्थस्वरूपिणो ब्रह्मणः शब्दरूपत्वमित्यर्थः। ब्रह्मात्मकशब्देन जगतो व्याप्तव्यञ्जनात्। नन्वेवं स्फोटस्य जन्यत्वेनानित्यात्वापत्तिरत आह। नित्यत्वाच्चेति । अर्थेनेति। अर्थेन सह न प्रविभक्तमत्यन्तं भिन्नं तत्त्वं शब्दरूपत्वं यस्या इत्यर्थः। एकामिति। स्फोटरूपायास्तस्या एकत्वात्।
प्राणापानेति। सर्वेषां प्राणापानान्तरे वाग्रूपा देवी तिष्ठति। तस्या एव वैखर्यादयो ऽवस्थाभेदाः । स्थानेषु, ताल्वादिषु। विवृते, विवर्तरूपतां प्राप्ते। प्राणवृत्तिति। प्राणवायुव्यापारेण वर्णाभिव्यक्ते। तदुक्तं स्मृत्यन्तरे प्राणेनाप्यायिता सेयं व्यवहारनिबन्धनीति । तथा च श्रोत्रबिषयत्वेन प्रतिनियतं परैः संज्ञेयं श्रुतिरूपं यस्याः सा नैखरी। मध्यमातु बुद्धिमात्रोपादना परिगृहीतक्रमेव प्राणवृत्त्यनुगता। च पश्यन्ती तु प्रतिलीनाकारा समाविष्टक्रमशाक्तिः। बुद्ध्युपादानेति।
ननु नित्यः शब्दार्थसम्बन्ध इति वार्तिकव्याख्यावसरे अर्थस्यानित्यत्वात्तत्सम्बन्धस्य नित्यत्वासम्भव इत्याद्यङक्य योग्यातालक्षणः सम्बन्ध इति कैयटासङ्गतिरर्थस्यानित्यत्वे तादात्म्यलक्षणयोग्याताया अपि नित्यत्वासम्भवादत आह। कैयटस्येति। शब्दस्य नित्यतया तन्निष्ठकारणतावच्छेकस्यापि नित्यत्वमितिभावः। ननु सदेव सौम्येदमग्र आसीदित्युपक्रम्य विधुद्धे ब्रह्मणि वेदान्तानां तात्पपर्यावगमात् पदार्थसंसर्गरूपवाक्यार्थविषयत्वं तत्र कथमत आह। तत्त्वमस्यादीति। अखण्डार्थेनेति। तत्पदत्वं पदावच्ययोः परोक्षत्वापरोक्षत्वविशिष्टयोः सामानाधिकरण्यासम्भावाद्विशेषणांशपरित्यागेन विशेष्यमात्रबोधातदितिभावः । अत्र वेदान्तिनः। क्रियाकारकभावं पुरस्कृत्य शब्दानां प्रवृत्तिर्जायमाना धर्मधर्मिभावं पुरस्कृत्यैव वाच्या स च धर्मधर्मिभावो न ब्रह्मगोचरो, ब्रह्मणो धर्मशून्यत्वात्। अतः पदपदार्थविभावगमन्तरणैव तत्त्वमसीत्यादिवाक्यमखण्डमेवाखण्डब्रह्मवाचकमिति वदन्ति। वाक्यतात्पर्यविषयीभूतत्वं वाक्यार्थत्वम्। तथा चाखण्डब्रह्मणः प्रतीयमानस्य वाक्यशक्यत्त्वाद्वाक्यवाक्यार्थयोरभेद इति भावः। अत्रेदं बोध्यम्। प्रत्यक्षं द्विविधं सविकल्पकं निर्विकल्पकं च । वैशिष्ट्याद्यवागहि घटं जानामीत्यादि सविकल्पकम्। संसर्गानवगाहि तत्त्वमस्यादवाक्यजन्यं निर्विकल्पकम्। सोऽयं देवदत्त इत्यादिवद्विषयावच्छिन्नचैतन्यस्य चाभेदात्प्रत्यक्षत्वम्।शुद्धेनापीति। यथा तत्ताविषयकज्ञानाजकस्यापीन्द्रियस्य वा सहकारेण तत्ताविषकज्ञानजनकत्वमेवं सखण्डप्रतिपादकस्यापि वाक्यस्याखण्डार्थप्रतिपादकत्वमपीति भावः।। 1.18 ।।

ननु तत्त्वमसीत्यादिवाक्यश्रवणेऽस्मदादीनामप्यखण्डब्रह्मबोधापत्तिरत आह। तद्‌ग्रहश्चेति। वाक्यमननं, वाक्यार्थमननम्। तच्च साधकबाधकप्रमाणोपन्यासरूपयुक्तिभिरनुचिन्तनम्। शमोऽन्तरिन्द्रियनिग्रहः । दमो बहिरिन्द्रियानिग्रहः। सम्पन्नस्येति।
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणो गितिः।
तथैव ज्ञानकर्मभ्यां प्राप्यते शाश्वती गतिः।।
इति वचनेन करमसहितस्यैव तत्त्वज्ञानस्य मोक्षहेतुत्वात्। ननु वाक्यजन्यज्ञानस्य कथं संसर्गनगाहित्वमितिचेत्। सत्यम्। तात्पर्यविषयत्वमेव वाक्यजन्यज्ञाने तन्त्रम्। अस्ति चात्रापि विशुद्धे ब्रह्मणि वेदान्तानां तात्पर्यमिदमेवाखण्डार्थत्वम्। ननु ब्रह्मणो महावाक्यार्थज्ञानविषयत्वे अदृष्टो द्रष्टा अश्रुतः श्रोतेति शुतिविरोध इति चेन्न। अविद्यया आवृत्यैव स्वरूपस्य आवरणनिरासाय महावाक्यजन्यज्ञानविषयत्वात्। निरूपाधकस्य तु आवरणाभावान्नास्ति श्रुतिजन्यज्ञानेन सम्बन्धः। ननु व्यवाहमार्गे वेदान्तिभिरपि पदार्थकल्पनावश्यमङ्गीकार्या। अन्यया वाक्यार्थस्यापूर्वत्वेन वाक्यार्थे वाक्यसङ्केतग्रहाभावाद्‌बोध एव न स्यात्। तस्मादखण्डयोर्वाच्यवाचकभावो न सम्भवतीत्यस्वतीत्यस्वरसादाह। यद्वेति। अखण्डार्थत्वं, संसर्गानवागहि यथार्थज्ञानजनकत्वम्। तत्त्वमसीत्यादिवाक्यामेव ब्रह्मप्रत्यक्षं जनयतीत्यद्वैतसिद्धान्तविरोधमाशङ्क्याह । यद्वेति।
अर्थभेदाच्छब्दभेद इति। नन्वेदं वेदे पठितस्य शब्दस्य विनियोगकाले ऽर्थान्तरे प्रयोगाच्छब्दभेदापत्तिरिति चेदत्रोक्तं हरिणा।
मन्त्रास्त्वविनियोगेन लभन्ते भेदमूहवत्।
तान्याम्नायान्तराण्येव पठ्यन्ते कश्चिदेव तु।।
इति मन्त्राणां सर्वेषां वेदत्वमेव । वेदे तु कश्चिदेव मन्त्रपठ्यत इति तदर्थः। नन्वस्मिन्पक्षे एकः शब्दो नानार्थः अज्ञाः पादा माषा इति भाष्यं कथमुपपद्यतामत आह। समानाकारत्वेति। वस्तुतोऽर्थभेदाच्छब्दभेद इत्ययुक्तम्। कुटीभार्य इत्यत्र समानायामाकृतौ भाषितपुंस्कत्वाभावान्न पुम्बदिति भाष्यासङ्कतेः सामर्थ्यादिना ऐक्योपपादने बीजाभावात् इति चेत्सत्यम्। विषयेण तु नानालिङ्गकरणादित्यादिना भाष्यकृतैव शब्दैक्यं दर्शितम्। आन्यभाव्यं तु कालशब्दव्यवायादित्यादिना च शब्दभेंदो दर्शितः तस्य, तदानतम्यस्य। ततश्च शब्दभेदः तादात्म्यभेदश्चेति प्रथमः पक्षः । शक्तिनिरूपककः अर्थः शतबाश्रयः शब्दः तदुभयभोदाद्भेद इत्यर्थः। यतूक्तं कुसूमाञ्जालौ शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रम इति। अस्यार्थः शक्तिभेदो न चो हेतौ अभिन्नो यतः शक्तिश्क्तिमतोरभेदात्। ननु स्वभावादेवैकस्य नानाकार्यकारित्वं तत्रोक्तं स्वभावो दुरतिक्रम इति। कार्यजननस्वभावस्यानुवर्तमानत्वादेककारणेन कार्यान्तरस्याप्यापत्तिरिति तन्मते एकस्य दण्डस्य घटहिंसाद्यनेककार्यजनकत्वं न स्यात्। किञ्च सो ऽयमित्यत्र प्रत्यभिज्ञायां यदि सादृश्यमेव बीजं स्यात् तदा सोऽयं ककार इत्यत्रापि तथात्वापत्तौ ककारादीनामप्यैक्यापत्तिरिति।। 1.19 ।।

भिन्नानि तादात्म्यानीति। अर्थभेदेऽपि न शब्दभेदः। अनन्तव्यक्तिकल्पनापत्तेस्तस्मादेकवृन्तगतानेकफलवदेकस्मिन् शब्दे नानार्थसम्बन्ध इति भावः। अस्मिन्पक्षे तद्यः सारण्यके ससीमके ग्रामशब्दो वर्तते तमभिदमारोप्य । अत्र शब्दैक्यमते पक्षद्वयं शक्यतावच्छेदकभेदेऽपि शक्तिरेकैव शक्यतावच्छेदकभदाच्छक्तिरपि भिन्नैवेति। शक्यतावच्छेदकं च शक्यतावच्छेदकतापर्याप्त्यधिकरणं नातः सूर्याचन्द्रमसोर्भेदात्पुष्पवन्तपदे नानार्थता। आद्यपक्षे यथा वायौ रूपसमावायसत्त्वे ऽपि रूपनिरूपितत्वविशिष्टसमवायो नास्तीति रूपवत्ता बुद्धिर्न भवति एवं तदर्थनिरूपितत्वविशिष्टसक्तिस्मरणाभावादेकार्थबोधकाले ऽपरार्थबोधः। शक्तिभेदाच्च नानार्थत्वव्यवहारः सर्वार्थनिरूपितवृत्तीनां वर्तत इत्येकशब्दोपात्तत्वादेकत्वं न्याय्यमित्याहुः । किञ्च शक्तिभेदे गौरवमित्यापि बोध्यम्। सर्वजातीयैरिति। ईश्वरकृतानामस्मदादिकृतानां च सङ्केतानां नानाविधसङ्केतानां चसङ्केतत्वेनैव सम्बन्धतेत्यर्थः।
समव्याप्ततयेति। सहतचरिततयेत्यर्थः। आनयपदं घटसम्बद्धानयनपदार्थबोधकं घटपदसम्बद्धत्वादित्येवं व्याप्येन शब्देन व्यापकस्यानुमानादिति भावः। अत एवोक्तं गौतमेन प्रदाहपाटनानुपपत्तेश्च सम्बन्धाभाव इति। अग्निशब्दोच्चारणे मुखदाहापत्तेर्न शब्दार्थयोर्व्याप्यव्यापकभाव इति तदर्थः। तार्किकमते तु शब्दस्याकाशनिष्ठतया व्यधिकरमत्वान्न तेनानुमानमिति भावः। पक्षेति पक्षः सन्दिग्धसाध्यवात्। पक्षधर्मताज्ञानं, हेतोः पक्षवृत्तित्वज्ञानम्। अर्थव्याप्यशब्दवदिदमिति परामर्श विनापि शाब्दबोधान्न तस्यानुमितित्वमिति भावः। नन्वियमनुमितिर्व्याप्तिज्ञानाद्यनपेक्षा विलक्षणैव। अन्यथा भिन्नविषयकप्रत्यक्षं प्रति शाब्दसामग्रया अनुमितिसामग्रयाश्च प्रतिबन्धकताद्वयकल्पने गौरवम्त आह। सिद्धसत्त्वे इति। पर्वते वाहिनिश्चयोत्तरं पर्वते वह्यनुमितिर्जायतामितीच्छयैवानुमितिर्भवति शाब्दबोधस्तु निश्चयसत्त्वे ऽपीच्छां विनैव भवतीति वैषम्यमिति भावः। यद्यपि शब्दार्थयोस्तादात्म्याभावेऽपि घटमानयेत्यादिपदान्यर्थविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वादित्यमनुमाने वैयधिकरण्याभावादनुमितिः सम्भवति, तथापि शब्दार्थयोस्तादात्म्ये व्याप्यव्यापकभावस्य झटित्युपस्थितिरित्यतः तत्पक्षे निराकरणमिदम्।। 1.20 ।।

ननु सिद्धिसत्त्वेऽनुमितिरिव शाब्दबोधोऽपि न भवति समाने विषये प्रत्यक्षसामग्र्या बलवत्त्वेन तदनन्तरं पदार्थस्मारणे एते पादार्थाः परस्परं संसर्गवन्तः आकाङ्क्षादिमत्पदस्मारितत्वादित्यनुमानमस्त्वत्यस्वरसादाह। पदमात्रादिति। व्याप्तिस्मारणादिकं विनापीति भावः। शाब्दबोधे पदार्थस्मरणं व्यापारः तथा च पदार्थनां स्मृतिरेव नातिरिकत्प्रमितित्वमिति तार्किकमतं निराकरोति। स्मृतिरेव । एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वात्। ननु पदेभ्यो ऽर्थे स्मृते ततोऽनुमितिः कस्पादित्यत आह। न युक्तमिति। किञ्चैतन्मते पदार्थस्मरणमेव शाब्दबोधहेतुः तथा चावान्तरवाक्यार्थबोधकाले तस्य नष्टत्वात्ततो महावाक्यार्थबोधो न स्यात् तस्मात्पदप्रयोज्या उपस्थितिरेव हेतुः सा चावान्तरवाक्यार्थबोधरूपैवैत्यदोषः। तत्तानुल्लेखादिति। तत्तां बुध्या विषयीकृत्यैव स्मरणोदयादिति भावः। वाक्यादपीति। तथा च वाक्यादपि स्मरणस्मयैवापत्तौ अनुमितिशाब्दबोधयोरुच्छेद इत्यर्थः। न चापूर्ववाक्यार्थस्थले पूर्वमनुभवाभावात्स्मरणासम्भव इति वाच्यम्। खण्डशः प्रसिद्धानां पदार्थानां संसर्गाणां च स्मरणसम्भवात्।
तथानुव्यवसायेति। तादृशानुव्यवसायात् शाब्दत्वजातिः कल्पनीयैव तदबच्छिन्नं प्रति आकाङ्क्षादिज्ञानस्य च हेतुत्वमवश्यं कल्पनीयमेवेति किमनुमितित्वादिकल्पनयेत्यर्थः। सिद्धिसत्त्वैऽपीति। पर्वते वह्निज्ञानान्तरमनुमितिर्न भवति शाब्दबोधस्तु शब्दप्रयोगानुपातीदुर्निवार इति भावः। ननु सिद्धिसत्त्वेऽपि पदार्थानुमितिवत् शाब्दबोधोऽपि सम्भवतीति चेन्न। अनुमित्सायां सत्यामेवानुमितेरुदयात्। परार्तानुमितौ पर्वतो बह्निमान्धूमात् यो यो धूमवान् सोऽग्निमानित्येवं पञ्चावयवात्मकं वाक्यं प्रयुज्यते शाब्दबोधस्तु परप्रयुक्तात् वाक्यात्स्वस्य भवतीति भेदात्। प्रतिबध्यत्वेति। शाब्दातिरिक्तज्ञानं प्रति सिद्धिः प्रतिबन्धिकेति वक्तव्यं स्यादित्यर्थः।
नाशादेवेति। ज्ञानस्य क्षणिकत्वात् प्रत्यक्षनाशे क्षणानुमितिरित्यर्थः। ननु एकक्षणविलम्वेऽनुभवविरोधो नास्तीत्यत आह। सर्वत्रेति। सिद्धिनाशानन्तरक्षणे एवानुमितेरापत्तेस्सिषाधयिषाकाले ऽप्यनुमितिर्न स्यादित्यर्थः। अत एव यत्र वहिव्याप्यधूमवान्पन्पर्वतो वह्निमानिति प्रत्यक्षं ततः सिषाधयिषा तत्रानुमित्युत्पत्तये सिषाधयिषाविरहविशिष्टसिद्ध्यभावकल्पनेति तार्किकाः । ऋष्यादिव्यवहारात् शक्तिग्रह इति पूर्वमुपपादितम्। ऋष्यादिव्यवहारश्च साधुष्वेवेति साथूनामेव वाचकत्वम्।।1.21 ।।

इदानीं मतान्तरमाह। सा चेति। ननु व्यवहारदर्शनस्य कथं शक्तिग्राहकत्वं तद्‌बोधकशब्दाभावादशक्तिग्रहाभावे इष्टासाधनत्वग्रहाभावात्स्तनपाने प्रवृत्त्यनापत्तेरत आह। व्यवहारदर्शनेति। व्यवहारदर्शनमुद्‌बोधकविधया स्मारकमेवेति लाघवं जीवनादृष्टमेबोद्‌बोधकमित्यर्थः। अत एव। पूर्वजन्मनुभूतस्मरणस्वीकारादेव ।अन्यथा इष्टसाधनताज्ञानाभावात्स्तनपानादौ प्रवृत्तिर्न स्यात्। पश्वादीनां च जडप्रायाणां प्रतिनियतजात्यनुसारेणैव नियतैव काचित्प्रतिभा बोध्यते अतस्तेषामप्यनादिवासनैव बीजमिति भावः। तदैव। आद्यबोधकाले एव। तत्सम्भवः। शक्तिग्रहसम्भवः। न चेति। वाच्यमित्यत्रान्वचः। तदुक्तं हरिणा।
असाधुरनुमानेन वाचकः कैश्चिदिष्यत इति।
वाचक इत्यस्य बोधक इत्यर्थः। अयम्भावः न हि विद्वासोऽपभ्रंशादेव साक्षादर्थं पश्यन्ति इति नापशब्दानामर्थेन सम्बन्धः। अपशब्दास्तु साधृश्यात्साधुशब्दमनुमापयन्ति साधुस्मरमादिति यदुक्तं तत्रैव मानमाह। ते साधुष्वति। असाधवः। साधुषु। साधुस्मरणेन । बालः अव्यक्तं भाषते साधुविदां व्यक्ते निश्चयो भवतीत्यर्थः। तज्ज्ञानम्। साधुस्मरणम्।
विनापीति। अयम्भावः अर्थगत्यर्थ शब्दप्रयोगः। अर्थावगतेश्चापशब्देभ्यो ऽप्यविशिष्टत्वात्तेषामप्यर्थेन सम्बन्ध इति। एतदर्थबोधकं किञ्चित्साधुपदं भविष्यतीत्यनुमानाद्‌बोध इति मतं निराकरेति । नार्थेति। शक्तितावच्छेदिकाया आनुपूर्व्याज्ञाने एव वाच्यस्योपस्थितेरित्यर्थः। तद्वाचकतदादिपदस्मरणाद्वोध इत्यपि निराकरोति। अननुभवाच्चेति। ननु पामरणां घटादिपदे शक्तिग्रहाभावात्कथं तत्सादृश्यमूलको गगरीशब्दे भ्रम इत्याशङ्क्याह। पूर्वपूर्वेति। यस्य शक्तिशब्दपूर्वको भ्रमस्तद्वदित्यर्थः। घटत्वविशिष्टेति। घटनिरूपिताया घटपदनिष्ठायाः शक्तेः गगरीपदे भ्रमो न सम्भवति वर्णभेदरूपविशेषदर्शनसत्त्वात्। न हि करचरणादिमत्त्वनिश्चयानन्तरं स्थाणौ पुरुषत्वभ्रमो भवति।
यदि चेति। अशक्त्या गगरीशब्दो ऽनेनोच्चारित इत्याद्यपुरुषेण ज्ञाते ततो द्वितीयपुरुषस्य गगरीशब्द एव बोधक इति भ्रम इत्यर्थः। तादात्म्यमुपगम्यैवेति। अपभ्रंशाः साधुशब्दैरभेदमिवापारा अर्थस्य प्रकाशका इत्यर्थः। तादात्म्येति। अयम्भावः अयमर्थ इत्यभेदेन व्यवहारादध्यासलक्षणे शब्दार्थयोस्तात्म्ये स एव मुख्यः। सम्बन्धान्तरकल्पने तु तस्यापि सम्बन्धान्तरं कल्प्यमित्यनवस्थानात्। प्रतीतावर्थस्यापि विषयभावेनापक्षेमात्परत असामान्यात्सम्बन्धत्वव्यवहार इवश्बदेनेति। शाध्वसाध्वोस्तादात्म्यस्य तात्त्विकत्वे चासाधूनामपि बोधकत्वमागतमिति ग्रन्थकार एव आहार्धेन ।तादात्म्यमुपगम्यैव । शब्दार्थस्य प्रकाशका इत्यर्थाभिप्रायेणाह। इवशब्देनेति। इवशब्देन शक्तेर्भ्रमः सूचिन इत्यर्थः।। 1.22 ।।
  
तदशक्तिरिति। तस्य साधुशब्दस्य अशक्तिरशक्त्या करणापाटवेनान्यथा उच्चारममनुरूपत्वात्समानवर्णवत्वादित्यर्थः। शबतिरिति। गत्यर्तकः शबधातुः कम्बोजदेशे आर्थेषु तु जनपदेषु विकारेऽर्थे प्रयुज्यते शबो मृतक इतीत्यर्थः। वाचकस्य व्यञ्जकत्वमिति। यथा।
पन्थि अण एत्थ सत्थरमत्थिरत्थग्गामे।
ओणअपओहरं पेक्खि अ उण जइ वससि ता वससु इति।
पथिक न अत्र संस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे।
उन्नतपयोधरं प्रेक्ष्य पुनर्यदि वससि तदा वसेति तस्यार्थः।
अत्र पाषाममयग्रामे आस्तरणं नास्ति पयोधरो मेघः स्तनश्चेति श्लेषः। अत्र पयोधरशब्देनोपभोगक्षमत्वंव्यज्यते तदपभ्रंशस्य पओहरशब्दस्य तत्र वाचकता व्यवहारः। शक्तिभ्रमस्यात्यन्तमसम्भवं दर्शयति। अत एवेति। प्रयुक्ते साधौ स्त्रीशूद्रबालानामर्थसंशये इत्यन्वयः। ननु यवशब्देन दीर्घशुकविशेष एव ग्राह्यो न कङ्गुरित्येतत्प्रतिपादकतदधिकरणासङ्गतिः शब्दशक्तेरुभयत्र तुल्यत्वादत आह। इदं तात्पर्यमिति। यत्तु वसन्ते सर्वसस्यानां जायते पत्रशातनमिति वाक्यशेषान्निर्णन इति तन्न। पैलवौदुम्वरौ वैश्यस्य दण्डावित्यत्र वाक्यशेषाभावात्पीलुशब्देन हस्तिनोऽपि ग्रहणापत्तौ हस्तिवदस्थिदण्डस्यापि ग्रहणापत्तेः।।1.23 ।।

उक्तभाष्यादिति। तेन तत्र शक्तिभ्रमो न शङ्कनीय इति भावः। द्वयोरपि। आर्यम्लेयोरपि। उभयत्रापि। कङ्गौ दीर्घशूके च । साधु त्वेनेति। म्लेच्छदेशे कङ्गावेव यव शब्दः साधुरित्यर्थः। विकल्पेति। प्रसिद्धिद्वयेन विकल्पः स्यादित्यर्थः। अत्र यवशब्देन दीर्घशूकविशेष एवग्राह्यः यत्रान्या ओषधयो म्लायन्त इति वाक्यशेषादिति सिद्धान्तितं भाष्यकृता शबरस्वामिना। एतच्च वार्तिकक्रारो नाभ्युपैति आर्यप्रसिद्धेर्बलवत्त्वादेव निर्णये वाक्यशेषोपन्यासवैपर्थ्यापत्तेः। तस्माद्यत्रार्याणामेव शब्दार्थाभिधानसंशयसतत्रैव वाक्यशेषेणनिर्णय इति। वस्तुतस्तु वारुणप्रघासिककरम्भपात्रेषु एव यवशब्दस्य दीर्घशूकपरता स्यात्तत्रैव वाक्यशेषसत्त्वात् न तु दार्शपौर्णमासिकद्रव्यविधायकवाक्ये तत्र वाक्यशेषाभावात्। तस्माद्वाक्यशेषोऽभ्युच्चयत्वेनोक्त इत्यभिप्रेत्याह। आर्यप्रेत्याह। आर्यप्रसिद्धेरिति।
यज्ञे यवा एवेति। तेषामेवापूर्वजनकत्वात्। शब्दतत्त्वम्। शब्दविशेषार्थविशेषतादात्म्यम्। शिष्टाः। अतीन्द्रियार्थदर्शिनः। ते हि इन्द्रियव्यापारमन्तरेणापि शब्दार्थयोः सम्बन्धं पश्यन्ति तदुपदेशपारम्पर्याच्चास्मदादीनामपि सास्नादिव्यञ्जकसहकारेणार्थाभिव्यक्तिः। व्यवस्थिता इति। प्रमाणत्वेनेति शेषः। न तु अनार्येतु। यवशब्दस्य कङ्गौ न शक्तत्वं नाप्यसाधुत्वमित्यर्थः। तेष्वदर्शनादिति। तथाच वार्तिकम्।
स्मृत्याचारविरोधे वा साम्यवैषम्यसंशये।
समा विप्रतिपत्तिः स्यान्मूलसाम्याद्द्वयोरपीति।।
शब्दार्थस्य लोकप्रमाणकत्वेन विरोधाभावात्समा विप्रतिपत्तिः स्यादित्यर्थः।
तेषाम्। शिष्टानाम्। अबिच्छिन्नेति। पारम्पर्यायातेत्यर्थः। शब्देषु वेदेषु चेति। यवशब्दे दीर्घशूकविशेषस्यैव वाचकः स एव वेदे गृह्यत इत्याकारेत्यर्थः। एकस्य गौणत्वमिति। सादृश्यात्तु कङ्गौ प्रयोगे गौणत्वेन समत्वाभावाद्विकल्पाशङ्का असङ्गतेत्यर्थः। यत्रान्या ओषधय इति बसन्तकाले तथा सम्भवः। तथैव। पूर्वसस्यक्षये एव। अन्यथेति। प्रियङ्‌गूमामन्यथोत्पस्वोकारे भवदुक्तसादृश्यासङ्गतिरित्यर्थः। ननु आर्यप्रसिद्ध्या दीर्घशूकग्रहणे उक्तवाक्यशेषवैयर्थ्यमत आह। उक्तयुक्तीति। आर्यप्रसिद्धिवचनरूपेत्यर्थः।। 1.24 ।।

आप्तोपदेश इति। आप्तस्य भ्रमादिशून्यस्य य उपदेशः स शब्द इति तदर्थः। स इति। आप्तोऽस्मिन्नर्थे यं शब्दं प्रयुङ्क्त स तत्र प्रमाणमित्यर्थः। यथेति। यथा येन प्रकारेण दृष्टं दर्शनं यस्य तादृशो योऽर्थ इत्यर्थः। समानमिति। तत्तदर्थबोधकतत्तच्छब्दप्रयोक्तृत्वादिति भावः। आयपदेन गतार्थतां निराकरोति। ऋषिर्वेद इति। प्रमाणत्वेनेति। प्रमाणत्वेन लक्षितो यः शब्दस्तस्माज्जातस्य प्रत्ययस्येत्यर्थः। एवं चापभ्रंशजस्यापि सामयिकत्वं तुल्यमिति भावः। ननु वेदार्थस्य समायप्रकाशितत्वं सम्भवति वृद्धव्यवहारैः शक्तिग्रहेऽपि वेदवाक्यस्य समुदायान्तत्वादर्थेनाज्ञातसम्बन्धत्वात्तत्कल्पने सङ्केतापातात्सापेक्षत्वेना प्रामाण्यापत्तिरत आह। समयगृहीतेति। लोकवेदयोरर्थमेदाभावाद्वेदवाक्यस्यापि लौकिकव्युत्पत्तिमूलकत्वेन सङ्केतानपेक्षत्वादनपेक्षमेव प्राणाण्यम्। ऋषीणामिति। वेदवाक्यानां सामयिकार्थबोधकत्वविरोधेनेत्यर्थः। ननु दीनं त्वामनुनाथते स्तनयुगं यत्रानृतं मा कृथा इत्यत्रात्मनेपदस्यासाधुत्वेऽप्यदोषः क्रतोर्बहिरदोषादित्यत आह। काव्ये इति।
ननु दन्त्यमध्यास्वशब्दाद्वाजिबोधादर्शनेनासाधुत्वज्ञानं प्रतिबन्धकमत आह। तत्सत्त्वेऽपीति। असाधुत्वनिश्चये सत्यपभाषाशब्दादर्थबोधान्न प्रतिन्धकत्वमिति भावः। अस्वशब्दस्य वाजिनि साधुत्वाभावादाह। अर्थविशिष्टेति। शिक्षोक्तरीत्येति। अम्बूकृतादिदोषराहित्येनेत्यर्थः। तस्य चेति। साधुत्वस्य चेत्यर्थः।।1.25 ।।

ननु अश्वशब्दो वाजिनि साधुरित्येव साधुताया अर्थविशेषनियन्त्रितत्वात्तीरादौ गंगादिपदस्य साधुस्वानापत्तिरत आह। लाक्षणिकेष्वपीति। ननु कथं तीरबोध इत्यत आह। पदान्यर इति। तत्र तीरे प्रवाहत्वमेवारोप्यते, अन्यथा शब्दार्थसम्बन्धस्यानित्यत्वापत्तिरिति भावः। एवञ्च प्रवाहत्वप्रकारकप्रतीतिविशेष्यप्रसिद्धार्थत्वं मुख्यत्वं तादृशाप्रसिद्धार्थत्वं च गौणत्वं बोध्यम्। ननु गोपालननिमित्तस्य गोपशब्दस्य स्त्रियां वृत्त्यभावादारोपितगोपत्ववत्याश्च ङीषः प्रत्युपस्थापकाभावात्कथं तदनुशाशनमत आह। गोपीत्य्ादाविति। या हि स्वयं गाः पालयति तत्र गोपइत्यवे भवति पालनक्रियारहितायां गोपभार्यायां तद्धर्मलाभाद्रोपशब्दः प्रयुच्यते। एतेन पुंयोगे अजीति वदन्तः परास्ताः । तत्र जातेरेव निमित्तत्वेन तद्धर्मलाभस्य निमित्तत्वं नास्तीति पुंयोगासम्भवात्। ननु पूर्वं स्त्रीबोधाभावात्कथं ङीषः प्राप्तिस्त आह। प्रक्रियेति। तत्स्त्रियां गोपत्वारोपेण डीषो निमित्तं स्त्रीबोधकत्वं प्रक्रियादशायामानुमानिकमित्यर्थः। ननु तीरादिपदवदत्रतात्पर्यग्राहकाभावादाक्षेपे किं बीजमत आह। इति शास्त्रत इति।
पुंयोगादिति शास्त्रात्स्त्रीत्वबोध इति यदुक्तं तत्र मानमाह। लिङ्गमिति। प्रत्ययशाशकं पुंयोगादिति सूत्रं स्त्रीलिङ्गज्ञाने लिङ्गमनुमापकमित्यर्थः। अत्रेदं तत्त्वंगोपालनरहितायां गोप्यां गोपशब्दस्य वृत्तौ दम्पतिभावसम्बन्ध एव निमित्तम्। यथा हि गङ्गायां घोष इत्यत्र सामीप्यसम्बन्धात्तीरे वृत्तिः मञ्चाः क्रोशन्तीत्यत्र संयोग एव सम्बन्धः आयुर्घृतमित्यत्र जनकत्वं, तथा देवकी इत्यादौ जन्यजनकभावसम्बन्धेनैव दुहितरि वृत्तिः। निरूढश्चायं व्यवहार इति न सम्बन्धान्तरमाक्षिप्यातिप्रसङ्ग आपाद्यः। इत्थमेव जगदीशीत्यादयः प्रयोगाः। एवञ्चदेवदत्तादिशब्दानां स्वत एव स्त्रीयां वृत्तिसम्भवेन पुंयोगाभावाट्टाबेव। जात्यन्तरीयायां शूद्रभार्यायां शूद्रशब्दस्य प्रवृत्तौ तु शूद्रसम्बन्ध एव निमित्तमिति। पुंशब्दं पुंवाचके गोपशब्दे प्रक्रियादशायां बोधकत्वमानुमितिकमेवेत्यत्र मानमाह। अत एवेति। अयम्भावः यदि तिबादिविधावेव व्याकरणस्य तात्पर्यं तदा साध्वनुशासनत्वभङ्गः, अतः साधुत्वविशिष्टास्तिबादयो विर्धायन्ते। ननु लडादीनां प्रयोगाभावात्कथं साधुत्वविशिष्टस्य विधानमिति चेदेवं तर्हि वर्तमाने लड् भवति तेन च यत् परिनिष्ठितं तत्साधु इत्यर्थ इति। अर्थापत्तीति। अर्थस्य उपपादकस्य आपत्तिः कल्पना। यथा पीनो देवदत्त इत्यत्र पीनत्वान्यथानुपपत्त्या रात्रिभोजनं कल्प्यते।।1.26 ।।

किञ्चेति। शक्तौ रजतमिदं नेति बाधनिश्चयानन्तरं पूर्वज्ञानस्य भ्रमत्वं कल्प्यते अपभ्रंशनिष्ठशक्त्यंशे तु कस्यापि बाधादर्शनान्न भ्रमत्वसम्भव इत्यर्थः। तदभावनिश्चयादिति। ऋषीणां भ्रमाभावेन शक्त्यभावनिश्चयादित्यर्थः। प्रमाणानाम्। ज्ञायमानशब्दानाम्। तेषामपि। अपभ्रंशानामपि। अत एव। अपभ्रंशानामप्यर्थसंबन्धसत्त्वादेव। धर्मार्थत्वमिति। न तु बोधकत्वमुक्तमित्यर्थः। अर्थायह्येत इति। एते शब्दा अर्थबोधाय उच्यन्ते इत्यर्थः। जैमिनिसूत्रस्यापीति । तत्र हि प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्थास्यादिति पूर्वपक्षसूत्रं प्रयोगनियमो न स्यादित्यर्थः। सिद्धान्तसूत्रमाह। अन्यायो ऽनेकेति। शब्दे इति। प्रयोक्तव्ये इति शेषः। प्रयत्ननिष्पत्तेरपराधः प्रयत्नान्तरस्योत्पत्तिः प्रयोग इत्युक्तम्।। 1.27 ।।

गगर्यादीनामपीति। गोशब्दापभ्रंशतयोत्यर्थः। गोयादिशब्दानामिति। गोशब्दापभ्रंशतयेत्यर्थः। वेदे तु साधुरिति। विभक्तिव्यत्ययादिति भावः। पतञ्जलिनेति। समानायामर्थावगतौ शब्दैश्चापशब्दैश्चेति वार्तिकं व्याचक्षाणेनेत्यर्थः।। 1.28 ।।

यर्वाम इति। तन्नामान इत्यर्थः। ननु गगरीशब्दादिभ्योऽपि सोरुत्पत्त्यापत्तिरत आह। प्रकृतिप्रत्यययोरिति। शास्त्रविषयत्वे इति। शास्त्रीयोद्देश्यतावच्छेदकवत्वे इत्यर्थः। घट इत्यस्यैवेति। तथा चार्थबोधकत्वसत्त्वेऽपि एकत्वविशिष्टार्थस्य प्रत्यैव क्रोडीकारान्न ततः सुरिति भावः। असाधुरेवेति। श्रुतौ तु असाध्वनुकरणस्यापि साधुत्वान्न दोष इति भावः। अर्थवत्त्वेनेति। साधव एवार्थवन्तः प्रातिपदिकसंज्ञाविषया इत्यर्थः। अत एवेति । यतो ऽनुशिष्टप्रकृतेः प्रयुज्यमान एव प्रत्ययः साधुरत एवेत्यर्थः। वृत्तिजसादृश्येऽपीति न केवलः प्रत्यय इत्यस्य प्रत्ययसजातीय इत्यर्थ इति भावः। नियमेनेति। ङ्याप्प्रातिपदिकादिति पञ्चमीनिर्देशादेव प्रत्ययानां परत्वे सिद्धे ऽपीत्यादिः । अस्वे । दरिद्रे । तद्वोधकम्। साधुत्वबोधकम्। धर्मनियमः। धर्मार्थो नियमः। असाधुरनुमानेन वाचकः कैश्चिदिष्यत इति पूर्वार्धे नापभ्रशानामवाचकत्वमभिधाय हरिर्मतान्तरमाह। बाचकत्वाविशेषेऽपीति। अस्तु वा अपभ्रंशादर्थावगमः शास्त्रेण तु पुण्यपापनियमः क्रियते साधुभिरेवार्थो वक्तव्यो नासाधुभिरेवं हि क्रियमाणमभ्युदकारि भवतीति।।1.29 ।।

सङ्कर इति। केवलसाधुत्वं साधुगकारे केवलकत्वमसाधुककारे उभयमित्यर्थः। ययोर्जात्योरिति। यथा नरत्वसिंहत्वयोरेकत्र समावेशान्नरसिंहत्वं भिन्नमित्यर्थः। भेदभङ्ग एवेति। नरत्वाश्रयो ऽन्यः सिंहत्वाश्रयश्चान्य इत्येवं भेदस्यासिद्धिरेवेत्यर्थः। अत एव गुणगतजातौ साङ्कर्यं न दोषायेति न समाहितम्। अश्वतरे इति। तत्राश्वत्वगर्दभत्वयोः सङ्करः। ययोस्त्विति। पृथिवीत्वद्रव्यात्वयोः समावेशस्यादूषणत्वादिति भावः।
स्पन्दसमवायिकारणतावच्छेदकतया मूर्तत्वं जातिः तत्साङ्कर्याद् भूतत्वं न जातिः आकाशे भूतपदव्यवहारस्तु बहिरिन्द्रियग्राह्यविशेषगुगवत्वप्रयुक्तो भाक्तः। मानाभावादिति। स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभावनियमस्य भङ्गप्रसङ्ग इति तदुक्तिस्तु निर्युक्तिकेति भावः। शरीरत्वे चेति। केवलपृथिवीत्वं घटादौ केवलशरीरत्वं तैजसादिशरीरे अस्मदादिशरीरे चोभयमिति साङ्कर्यात् शरीरत्वं न जातिरिति तार्किकाः। राजाज्ञास्तीति। लाघवरूपयुक्तेस्तुल्यत्वात्। अत एव जलपदशक्यतावच्छेदकतया जलत्वं जातिरिति वर्धमानः । यत्तु द्रव्यवृत्तिकपालादौ द्रव्यान्तरोत्पत्तिवारणाय तत्प्रिबन्धकतावच्छेदकतया भूतत्वजातिरिति तन्न। मूर्तत्वमादाय विनिगमनाविरहात्।। 1.30 ।।

असाधुत्वमेवेति। शास्त्रव्यवहारमार्गेणैव नामकरणात्। ननु सर्वे सर्वार्थवाचका इति मते वृद्धिरादौजित्यादीनां नियामकतया विधित्वाभावादाधुनिकसंज्ञात्वासङ्गतिरत आह। सर्वार्थवाचकत्वेऽपीति। अयम्भावः शब्दार्थसम्बन्धो योग्यतालक्षणोऽभिप्रेतः। सर्वो हि शब्दः संज्ञात्वेन विनियुज्यमानो योग्यत्वात्सर्वत्रार्थे सम्बद्धः। शक्त्यवच्छेदमात्रे तु संज्ञाकर्तुर्व्यापारः शब्दार्थसम्बन्धस्य नित्यत्वात्। एवञ्च शक्त्यवच्छेदान्नियमत्वमज्ञातशाक्तिप्रकाशकत्वाच्च विधित्वमपीति। व्यवहारायेति। क्वचित्संज्ञिनि संज्ञाया नियमो व्यवहारायेत्यर्थः। डित्थाद्यर्थे डित्थादिपदसम्बन्धो नित्य एव, गवादौगोशब्दादीनामिवेत्यर्थः। तदिति। नियमपरमित्यत्रान्वयः।
वक्त्रिच्छाया इति। नन्वेवं शब्दार्थसम्बन्धस्यानित्यत्वापत्तिरिति चेन्न। वाक्त्रिच्छया शक्तिप्रकाशनमित्यर्थात्। ऐजादिपदे कुत्वाद्यापादनं सङ्गमयति वृद्धिरादैजित्यादीनां लोकप्रयुक्तत्वरूपलौकिकत्वाभावादाह । वेदमात्रेति। लौकिकत्वादिति। लौकिकप्रयोगे शास्त्रप्रवृत्तेरावश्यकत्वादिति भावः। सूक्तवाकेति। अमुकशर्मा आयुराशास्ते इत्यादिसूक्तवाकप्रयोगो यागेषु सङ्कल्पश्च यद्यपि मानसो व्यापारस्तथापि शब्दप्रयोग एव तथैव विधानात्। अन्तरन्तस्थमिति। अन्तः मध्ये अन्तस्था यरलवा यस्य ।। 1.31 ।।

अग्न्यादीति। अग्न्यादयो नक्षणत्राणां देवताः । एताभिरिति। अग्निदत्तेत्यादिवत्। ज्यौतिषोक्तमिति। अश्विन्यादिचरणाक्षरेण कृतं चूडामणिरित्यादिकं च नाम यज्ञकर्मोपयोगीत्यर्थः। तथैवोक्तमिति। नाक्षत्रं नाम इदमेवोक्तमित्यर्थः। प्रकरणे इति। उक्तमित्यत्रान्वयः । नाम चेति। चकारेण नामान्तरसमुच्चयः। निर्दिशति। लिखति। रहस्यमिति। अप्रकाश्यत्वात्। तदेव चेति। आश्वलायनेनाभिवादनीयं चेत्यादितदेवोक्तमित्यन्वयः । व्यावहरिकं नाम कृत्वा अभिवादनीयमाभिवादनप्रयोजनं नाम उपांशु कर्तव्यं तच्च मौञ्जीबन्धनान्तं मातापितारारेव जानीयातामुपनयनकाले चानेनानाम्नाभिवादयेति कुमारं प्रति वाच्यम्। नाम गृह्णातीति श्रौतेकर्ममि अयं यजमानो ऽप्नुकशर्मणे पुत्रायायुराशास्ते इत्यादिप्रयोगात्। स च दर्शपूर्णमासयोर्वेदिमध्ये यजमान उपविश्य पुत्राणां नाम गृह्णाति अमुकशर्मा सन्तनेतु इत्यादिप्रयुज्यते। यत्त्वसाविति। अयं यजमान इत्यस्यानन्तरं नामद्वयमुच्चार्य आयुराशास्ते इति होता ब्रूयादित्यर्थः । असावसाविति। इदं नामद्वयप्रदर्शनम्। संदिग्धमिति। कीदृशं नामद्वयमित्यनिश्चयात्। देवत्रातेनेति। असौ देवदत्त असौ आनुराध इत्येवं नामद्वयं प्रयोक्तव्यमित्याश्वलायनवाक्यार्थ इति भावः। सूत्राक्षरेति। तत्सूत्रबलात्तादृशनामद्वयस्यालाभात्। आश्वलायाना इति। देवत्रातोक्तकारिकोक्त्या चाचरन्तीत्यत्रान्वयः । सांव्यवहारिकम्। व्यवहारार्थसङ्केतितम्। अत्राय माचरः स्वकुलदेवतानुसारेणामुकभक्त इति कांस्यपात्रे नामलिखित्वा मासनाम कुर्यात्। तच्च।
कृष्णोऽनन्तोऽच्युश्चैव वैकुण्ठो ऽथ जनार्दनः।
उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिरिति।।
अत्र चैत्रादिर्मार्गशीर्षादिर्वा क्रमः। ततो नक्षत्रनाम ततो द्व्यक्षरं चतुक्षरं चेत्यादिशर्माद्यन्तव्यावहारिकं नाम लेख्यमिति।। 1.32 ।।

अत्र तत्त्वमिति। स्वस्वगृह्यानुसारेण प्रयोगात्सूचितः। अतएव कात्यायनेन कुमारस्य दक्षिणे कर्णे श्रावयेदित्याद्यन्यथोक्तम्। बहिर्भूतत्वमिति। ऐजादिशब्दवदस्यापि संज्ञात्वात्। तन्नेति। ऐजादिपदानां तु साधुत्वमन्यत्रोपपादितमिति भावः। ननु चतुष्टयीपक्षे अव्युत्पन्नसंज्ञाननामपि सत्त्वात्कथं तासां शास्त्रवोधितत्वमत आह। शिष्टप्रयुक्तस्य चेति। अव्युत्पन्नसंज्ञाविशिष्टप्रयुक्त एवसाधुरित्यर्थः। लूतकेति। क्रियाशब्देन ऋतकशब्देन स्वरूपपरस्व लृतकशब्दस्य कथं व्यावृत्तिरित्यर्थः। पक्षान्तरैरपीति। यथा व्यक्तिपक्षे सरूपसूत्रारम्भं जातिपक्षे प्रत्याख्यानम्। परिहारान्तरमिति। तथाचचतुष्टयापक्षस्य त्रयीपक्षेण प्रत्याख्याने अव्युत्पन्नस्य लृतकशब्दस्याभावान्न लृ-कारोपदेशे प्रयोजनमिति भावः। आरोपित्वमिति। चतुष्टयीपक्षे ऽप्यसाधुत्वमित्यर्थः। अव्युत्पन्नसंज्ञासद्भावे ऽपि शिष्टप्रयुक्तानामेव साधुत्वमिति भावः। किञ्चैवमिति। व्याकरमाव्युत्पाद्यस्यापि साधुत्वे इत्यर्थः।। 1.33 ।।

रूढिरिति। समुदायार्थमात्रबोधकपदे शक्ती रूढिरित्यर्थः। ननु प्रकृतिप्रत्ययविभागस्यापारमार्थिकत्वात्कथं रूढ्यरूढिविभाग इत्यत आह। शास्त्रकृत्कल्पितेति। तदक्तं हरिणा।
वक्ये त्वर्थान्तरगते सादृश्यपरिकल्पने।
केषाञ्चिद्रूढिब्दत्वं शास्त्र एवानुगम्यते इति।।
अस्यार्थः। वृत्तिवाक्ययोः सादृश्ये कल्पिते केषाञ्चिच्छब्दानां विग्रहेऽर्थान्तरप्रतीतेरूढिशब्दत्वम्। मण्डपशब्दे हि मण्डपानकर्ता विग्रहार्थो विद्यते सर्वञ्चैतदवयवविभागादिकं कल्पितमेव। यदर्थेति। यादृशार्थेत्यर्थः। मणीति। मण्यते इति मणिः । मणत्शब्द इति। नुवति स्तुवति पुरं नूपुरः। नन्वश्वगन्धाशब्दे कथं यौगिकार्थबोधः पङ्कजपतदात्कुमुदबोधवारणाय रूढेः प्रतिबन्धकत्वस्वीकारादत आह। योगापहारिणीत्विति। अवयवार्थानुसन्धमूलकयौगिकार्थापेक्षया रूढ्यर्थस्य प्रथमोपस्थितत्वमेव बलवत्त्वे बीजम्। यत्र तु यौगिकार्थस्य प्रथममुपस्थितिस्तत्र तस्यैव बलवत्त्वम्। यथा वाजिभ्यो वाचिनमित्यत्र वाजिशब्देन नाश्वस्य बोधः किन्तु बाजमन्नमामिक्षारूपमस्ति येषामिति योगाद्विश्वेदेवानामेव ग्रहणमिति आमिक्षारूपमस्ति येषामिति योगाद्विश्वेदेवानामेव ग्रहणमिति आमिक्षाधिकरमसङ्गतिः। प्रकरणाद्यभावे इति।यत्र प्रकारणादिवसाद्यौगिकार्थसय् प्रथममुपस्थितिस्तत्र तद्बोधो भवत्येवेत्यर्थः। यत्तु नानार्तविषयाद्यौगिकार्थबोधवारणाय रूढेः प्रतिबन्धकत्वामावश्यकमिति तन्न। ग्राह्याभावानवगाहितया तस्य प्रतिबन्धकत्वासम्भवात्। मणिमन्त्रादिन्यायेन तत्कल्पने च गौरवात्। मण्डपानकर्तृत्वेन न बोधः किन्तु मण्डपो गृहविशेषस्तत्सादृश्येन बोधः। तत्र रूढिमूलिकाया लक्षणाया बलवत्त्वाल्लक्षणयैव बोध इत्यर्थः। प्रथमप्रतीतेति । पङ्कजपदात्समुदायशक्त्या उपस्थिते पदे पङ्कजनिकर्तृत्वस्यान्वया त्प्रथमप्रतीतत्वम्। अत एव न केवलयोगेन कुमुदादीबोधः । वलवत्त्वेनेति। रूढेर्योगापहारित्वादिति भावः। यत्रेति। यत्रावयवशक्तिलभ्या समुदायशाक्तिस्तत्रेत्यर्थः। तत्र हि पङ्कजनिकर्तृत्वान्वितं विशेष्यपदम्। अत्रेदं चिन्त्यते। योगरूढिस्थले योगार्थस्यापि शाब्दबोधविषयत्वे पङ्कजपदात्पङ्कजनिकर्तृपद्ममिति बोधापत्तिः। न त्वेतदनुभवसिद्धं स्थलपङ्कजमिति प्रयोगानापत्तेः पङ्कजं पङ्कजमिति प्रयोगानापत्तेश्चेति। ननु पङ्कजपदादपि कदाचिल्लक्षणया कुमुदबोध इष्यत एव। तथाच सर्वसाधारमई शक्तिरेवास्तु पदरूपविशेषपरतायां तु लक्षणैवास्त्तवित्यत आह। पद्मस्येति । केवलरूढ्यर्थबोधमुदाहरति। भूमौ पङ्कजमिति। अत्र योगार्थस्य बाधः। कल्हारेति। कुमुदादौ प्रयोगो ऽवयवार्थमादायैवेत्यर्थः । कल्हारम्। हस्वकमलम्। कैरवम्। कुमुदम्। एतत्प्रभृतिषु । पङ्कजेष्वित्यर्थः।।1.34 ।।

नानार्थेति। नानार्थत्वे चार्थदाच्छब्दभेद इति पक्षे नानार्थप्रतिपादकसदृशब्दत्वम्‌। अनेकेषामिति। अनेको जना इति प्रयोगस्य ग्र्न्थकृतैव व्यवस्थापयिष्यमाणत्वात्तद्विरुद्धमेतत्।
सामर्थ्यमेवेति। कारणत्वमेवेत्यर्थः। संयोगादयः सामर्थ्यस्यैव व्यञ्जका इत्यर्थः। सवत्सेति। धेनुशब्देन नवप्रसूता सर्वापि गृह्यत इति मते इदम्। अवत्सेति। निषेधस्य प्राप्तिपूर्वकत्वादवत्सापि गौरेवोच्यते। नान्योन्याश्रय इति। अन्यथा रामसाहचर्याल्लक्ष्मणो दाशरयिः लक्ष्मणासहचर्याच्च रामो दाशरथिर्ग्राह्य इत्यन्योन्याश्रयः। साहचर्यं न सह चरता दीधीवेवीटामित्यादावसम्भवादित्याह। सादृश्यमिति। रामार्जुनेति। अत्ररामारर्जुनयोरिव तयोर्गातिरिति कस्य चिदुपमायां सदृशलक्षणया विरोधात् भार्गवकार्तवीर्ययोर्बोधः। अत्र केचित्। रामादिपदस्य भार्गवादावभिधानयमे विरोधः विरोधाच्चाभिधानियमनमित्यन्योन्याश्रय इति तन्न। तयोरिति तत्पदस्सय परस्परविरोध्यर्थप्रतिविम्बनेन तदानीमेव रामार्जुनयोरित्यत्रापि विपरोधस्फूर्तेः। अञ्जलिनेति। होमसामर्थ्यत्तदनुकूलाचारोगम्यते। अञ्जलिनोपतिष्ठत इत्यत्र त्वन्य एवेत्यर्थः। तथाचार्थशब्दः प्रयोजनवाची । सैन्धवमिति। भोजनकाले नाशवबोध इत्यर्थः। मृत्तिकामिश्रा क्षृद्रपाषाणप्रायाः शर्कराः। यद्यपि अक्ता इत्यत्र न विशेषः शब्दार्थः नापि तेजो वै धृतमित्यत्र विधिरपि कल्प्यः। एताश्च अगन्याधानार्थाः परिस्थाप्यन्ते । लिङ्गादिति। संयोगातिरिक्तिसम्बन्धेन सम्बद्धो व्यावर्तकधर्मो लिङ्म्। यता कुपितो मकरध्वज इत्यत्र समुद्रव्यावृत्तात्कोपात्कामे। यत्तु लिङ्गं चिह्नमिति तन्न। असाधारणधर्मो हि चिन्हं न च कोपः कामस्य तादृशः। सन्निधिः। सामानाधिकरण्यम्। तेन सशङ्खचक्रो हरिरित्यत्र नातिव्याप्तिः। शङ्खचक्रसामानाधिकरण्याभावात्। परशुनेति। अत्र च छिनत्तीति गम्यते । मित्रो भातीति पुल्लिङ्गस्य सूर्ये प्रयोगः क्लीवस्य सुहृदि। स्थूला पृषती गौः स्थूलानि पृषन्ति च यस्या इति वा सन्देहः। पूर्वपदप्रकृतिस्वारद्बहुव्रीह्यर्थावगमः।
आदिपदार्थमन्यमाह। वत्त्रेति। क्वचिद्वक्तृवैशिष्ट्यं क्वचिद्धि द्रव्यस्य वैशिष्ट्यम् । यथा।
अतिपृथुलं जलकुम्मं गृहीत्वा सामागतास्मि सखि त्वरितम्।
श्रमखेदसलिलनिश्वासनिस्प्तहा विश्राम्यामि क्षणमिति।।
अत्र वत्त्री कामिनी तस्या दुःशीलत्वादिरूपवैशिष्ट्यं विजानता चौर्यरतगोपनं व्यक्तीभवति। बोद्धव्यस्य यथा।
औन्निद्यं दौर्बल्यं चिन्ता अलसत्वं सनिश्वसितम्।
मम मन्दभागन्याः कृते अह ह सखि त्वामपि परिभवति।।
तस्याश्च दुःश्चेष्टया वैशिष्ट्येन कामुकोपभोगो व्यज्यते।
नवनवोंन्मेषशालिनी प्रज्ञा प्रतिया सैव बासनेत्युच्यते तस्यामेव सत्यां व्यङ्ग्यप्रतीतेः। तदाहुः।
सवासनानां नाठ्यादौ रसस्यानुभावो भवेत्।
निर्वासनास्तु रङ्गादौ वेश्मकुड्‌याश्मसन्निभा इति।।
सुरभिमांसमिति। सुरभि यन्मामसमिति सुरभेर्गोर्मासमिति चार्थः । द्वितीयार्थबोधो ऽपि पीति। अत्र संयोगादिभिरभिधायां नियमितायां द्वितीयवाच्यार्थबोधोऽपि व्यञ्जनयैवेत्यालङ्कारिकाः । अत एव साक्षात्सङ्केतवान्वाचक इत्यपहाय साक्षात्सङ्केतितं योऽर्थमभिधत्ते स वाचक इति लक्षणं कुर्वन्ति। अश्लीलेति। अश्रीरस्यास्तीति सिध्मादित्वाल्लच् कपिलकादित्यवद्रस्य लः। अश्लीलश्च व्रीडादिदायकः।।1.35 ।।

शक्यत्वेनेति। अन्वयानुपपत्तिज्ञानपूर्वकं यत् शक्यसम्बन्धस्मरणं तेनोद्‌बुद्धो यःसंस्कार इत्यर्थः। व्यञ्जनायामतिव्याप्तिवारणाय शक्यत्वेनेति। मुख्यस्याप्यभिधारूपसम्बन्धेन प्रतिपादनं सम्भवतीति अन्वयानुपपत्तीत्याद्युक्तम्। ननु गङ्गापदस्य प्रवाहमुपस्थाप्य निवृत्तौ प्रवाहसम्बन्धेन तीरोपस्थितावपि गङ्गापदस्य वृत्तिर्न स्यादिति चेत्सत्यम्। एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति रीत्या साक्षात्सम्बन्धिनो बाधात्सम्बन्धिसम्बन्धिनो ऽपि ग्रहणमिति भावः। एतेन तीरांशे ऽनुभवाभावात्संस्कारासम्भवइत्यपास्तम् । गङ्गापदसम्बन्धस्य तत्रापि सत्त्वात्। व्यवहारादिति। भगवदिच्छायाः सन्माचविषयत्वात्तीरादावरि वस्तुतः शक्तिरेवेति भावः। एतेनानन्तस्थले ऽतिरिक्तकल्पनापेक्षया क्लृप्तायां शक्यसम्बन्धरूपलक्षणायां लाघवमित्यापास्तम्। यत्तु केवलागङ्गापदात्तीरबोधद्धोषपदमेव तीरबोधकम्। अत एव लाक्षणीकं नानुभावकमिति प्रवाद इति तन्न। गङ्गायामिति सप्तम्यर्थस्य तत्रान्वयानापत्तेरप्रकृत्यर्थत्वात्। यत्तु शक्तर्नेश्वरेच्छारूपा अपभ्रंशेऽपि सत्त्वात् किन्त्वरिक्तैवेति न सा तीरादौ क्लृप्तेति तन्न। अपभ्रंशानामपि वाचकत्वस्यैवौचित्यात्।
शक्तिसंस्कारः। शक्तिजन्यः संस्कारः। जन्मान्तरीणोऽपीति। बालानां स्तानपानादाविष्टासधनताज्ञास्य तथैव सम्भवात्। अन्वयानुपपत्तेर्लक्षणाबीजन्वं दूषयति। वस्तुतस्विति। ये त्वाहुरन्वयानुपपत्तिरेव लक्षणाबीजमस्ति च यष्टीः प्रवेशयेत्यादावपि भोजनविषयकप्रवेशान्वयस्य यष्टिष्वनुपपत्तिरिति तद्‌दूषयति। अन्यथेति। किञ्च अनवयानुपपत्तेर्लक्षणावीजत्वं न तज्जनकत्वं शक्यसम्बन्धरूपाया लक्षणायास्तदजन्यत्वात्। नापि लक्ष्यार्थतात्पर्यग्राहकत्वं प्रकरमादिनापि तत्परत्वसम्भवात्। नापि लक्ष्यार्थबोधहेतुत्वं यष्टीः प्रवेशयेत्यादौ व्यभिचारात्। घोषादिपदे इति। न विधौः परः शब्दार्थ इति नायायत् गङ्गापदे एव लक्षणेत्यन्ये । रूढीति । कुशल इत्यत्र रूढिरेव गङ्गायां घोष इत्यत्र शैत्यादिप्रतीतिरित्यर्थः । यथाहि गङ्गायां घोष इति वाक्यात्पावनत्वं प्रतीयते तादृशं गङ्गातीर इति वाक्यात्। एवञ्च मुख्यार्थबाधः शक्यार्थसम्बन्धो रूढिप्रयोजनान्यतरच्चेति हेतुत्रयं बोध्यम्।। 1.36।।

अप्रामाण्यग्रहे सतीति। शक्यार्थान्वयानुस्थितौ तत्रानुपपतिप्रतिसञ्चारासम्भवादिति भावः।बोधं निवेति। अधिकरणानालिङ्गताभावबोधासम्भवात्। ननु गङ्गापादात्प्रवाहस्योपस्थितावपि तदन्वयबोधे मानाभाव इत्यत आह। संसर्गेति। पदार्थान्तरसम्बन्धोपस्थिरेवान्वयबोध इति भावः। ननु हर्यादिपदावद्रङ्गादिपदानामपि नानार्थत्वापत्तिरत आह। प्रसिद्धेति। गङ्गापदात्तीरबोधेऽपि तस्याप्रसिद्धत्वान्न नानार्थत्वमिति भावः। ननु घोषसम्बन्धिनां मत्स्यादीनामपि बोधापत्तिरतोऽर्थसम्बन्धज्ञानेनेत्यत्र सम्बन्धज्ञानाकारमाह। सम्बन्धज्ञानमिति। तथाच तीरादिविषयकबोधकत्वमेव लक्षणेति भावः। ननु गङ्गापादस्यैव तीरबोधकत्वे लाक्षणिकं नानुभावकमिति प्रवादासङ्गतिरिति चेत्सत्यम्। उद्देश्यविधेयभावेनान्वयाभावे तात्पर्यात्। अत एव न विधौ परः शब्दार्थ इति प्रवादः। शाब्दिकमते तु प्रहत्वेनैव तीरबोधान्न कापि शङ्का। तार्किकमतमाह। सम्बन्ध एवेति। न तु पूर्वोक्त उद्बुद्धसंस्कारः। ननु तीरतीरतीतवयोरेकस्य प्रवाहसम्बन्दस्याभावात्तार्किकमते तत्र वाक्यसम्बन्धरूपा लक्षणा न स्यादत आह। अत्र पक्षे ऽपीति। अअपिना प्रथमपक्षेऽपि लक्ष्यतावच्छेदके लक्षणा सूचिता। एतेन शक्यादशक्योपस्थितिरूपा लक्षणा शक्यतावच्छेदके ऽप्यस्ति शक्यसम्बन्धरूपा तु नास्तीत्यापास्तम्। ननु संयोगसम्बन्धस्तीरे तीरत्वे तु संयुक्तवृत्तित्वमिति तयोर्भेदात्सम्बन्ध इत्येकवचानानुपपत्तिरत आह। जाताविति। सम्बन्धत्वेनैकत्वादिति भावः। वस्तुतस्तु पदपदार्थयोर भेदाध्यासेनैकत्वाद्रङ्गापदमेव सम्बन्धिज्ञानविधया तीरस्मारकमस्तु। अविनाभूत्वात्तीर्तवस्मृतावपि तत्र गङ्गापदवृत्तिक्ल्पने बीजाभावः। लक्ष्यतावच्छेदके ऽपीति। अन्यथा शक्यतावच्छेदके ऽपि शक्तिर्न स्यात्। ननु तीरत्वं गङ्गाया इति सम्बन्धग्रहाभावान्न तत्र लक्षणेति चेत्। घटो नेत्यादौ यथा घटत्वे प्रतियोगितावच्छेकत्वं संसर्गमयादया भासते एवं तीरत्वे ऽपि सामीप्यावच्छेदकत्वरूपपरम्परासम्बन्धसत्त्वात्।
विशेषणे। तीरत्वादौ । दीधितिकारमतामाह। लक्ष्यतावच्छेदके न लक्षणेति। उभाभ्याम्।विशेष्येति। तीरादीत्यर्थः। तीरत्वप्रकारकतीरविषेष्यकशाब्दबोधं प्रति तीरनिष्ठसम्बन्धज्ञानकारणमित्यर्थः। एतन्मते वृत्त्येति नियमभङ्ग इत्यस्वरसः। मीमांसकमतमाह। तादृशेति। शक्यदाशक्योपस्थितिर्लक्षणेति तत्सिद्धान्तात्। गङ्गापदेन प्रवाहस्मरणं प्रवाहेण च तीर्मरणम्। तदेव च बोधहेतु। अत एव गङ्गापदस्य तीरोपस्थापकत्वाभावल्लाक्षणिकं नानुभावकमिति प्रवादः। ननु तीरोपस्थितेः पदजन्यत्वाभावात्कथं शाब्दबोधविषयतेति चेन्न। शक्यार्थबोधे एव तथा नियमेन लक्ष्यार्थबोधे पदार्थेपस्थितेरेव नियामकत्वात्। एतन्मते तीरसय् गङ्गापदार्थत्वाभावात्तत्र सप्तम्यर्थान्वयानापत्तिः। किञ्च उपस्थिति हेतुर्वृत्तिर्न तूपस्थितिरेव वृत्तिः। ननूपस्थितेरर्थनिष्ठत्वाल्लक्षणायाः शब्दधर्मत्वानापत्तिरत आह। स्वविषयेति। लक्षणाविषयतीरसम्बन्धिप्रवाहवाचकत्वसम्बन्धेनेत्यर्थः। ननु शक्तेरिच्छारूपतया लक्षणायाश्च बोधरूपतया भिन्नजातीयत्वाद्वृत्तित्वासम्भव इत्यत आह। वृत्तित्वं त्विति। पदपदार्थेति। गङ्गापदस्य यः प्रवाहे सम्बन्धः यश्च तीरे सम्बन्धः सवृत्तिरित्यर्थः। तथाच तीरसम्बन्धस्यैव वृत्तित्वेऽपि लक्षमाहेतुत्वात्तस्यापि लक्षणात्वव्यवहार इति भावः। ननु शाब्दबोधजनकेत्याद्ययुक्तं पदेन पादार्थस्मारणस्यैवोदयात आह। पदादपीति। आशय इति। अन्यथा अवान्तरवाक्यार्थबोधकाले पदार्थस्मारणस्य नष्ट्तवान्महावाक्यार्थबोधो न स्यात्। कमलानीति। एकं कमलपदं सौरभविशिष्टस्य बोधकम्। एतेन विशिष्टवाचकपदानां विषेष्ये न लक्षणा शक्यादन्येन रूपेण ज्ञाते भवति लक्षणेतत्युक्तेरिति तार्किकोक्तमपास्तम्। तत्प्रवादस्य निर्मूलत्वात्।।1.37।।


स्वनीरूपितेति। स्वं शक्यम्। सादृश्यसम्बन्धेन यः शक्यसम्बन्धस्तत्प्रतिपादिका गौणीत्यर्थः। सा। शुद्धा। यत्तु जातिपक्षे गौरनुबन्ध्य इत्यत्र स्वार्थपरित्यागेन व्यक्तिबोधाल्लक्षणेति तन्न। तत्र हि अविनाभावात् व्यक्तिराक्षिप्यते न तु शब्देनाभिधीयते रूढेः प्रयोजनस्य वाऽभावेन लक्षणासम्भवात्। लक्षणम्। बोधनम्। ननु छत्रिपदाच्छत्रिबिधे कथमन्यबोधः , अच्छत्रिबोधे च स्वार्थस्य परित्याग एवेत्यत आह। तदपरित्यागश्चेति। तथाच उभयसाधारणरूपेण शक्यलक्ष्ययोरेकत्रान्वयेसेत्यर्थः। येन केनापीति। विशेष्यतया क्रियान्वयः सा अजहत्स्वार्था। यष्टीः प्रवेशयेत्यादौ तु जहत्स्वार्थैवेति तार्किकोक्तं निराकर्तृमाह। कुन्तवदिति कुन्तिनि पुरुषे कुन्तो विशेषणम्। तथाच कुन्तिनामिव विशेषणतया कुन्तानामपि प्रवेशेऽन्वयः। तीक्ष्णत्वं चसाधारणो धर्मः। काकेभ्यो दधीत्यादेरजहत्वस्वार्थत्वोपपादनेन तृतीयप्रकारत्वं निराकरोति। दध्युपघातकतयेति।

अत्रेति। गोसदृशे लक्षणायां गोरपि विशेषणत्वे ऽपीत्यर्थः। ननु गोत्वमेव बाहीके आरोप्यत इति मते कथं स्वार्थस्य त्याग इति चेत्प्रत्येकं जातीनां व्यापकत्वे ऽपि यत्राभिव्यक्तास्तत्रैव कार्यसाधका इति वक्ष्यमाणत्वेन तद्रित्या स्वार्थत्यागात्। ननु कुशलादिपदेऽपि स्वार्थबोधपूर्वकपदार्थो भवति विवेचकत्वे च सम्बन्धो ऽप्यस्तीति निरूढलक्षणात्वापत्तिरत आह। असति प्रयोजने इति। यथा हि शैत्यपावन्तवादिप्रतीतये गङ्गापदेन तीरं लक्ष्यते नैवं रूढिस्थले इत्यर्थः। अन्वयेति। तथाच कुशलशब्देऽवयवार्थनुसन्धाने निरूढलक्षणानुसन्धाने तु रूढिरेव। ननु कथं शुद्धैव द्विधा गौण्या अपि भेदद्वयसम्भवात्। तथाहि गौर्बाहीक इत्यत्र जहत्स्वार्था गोबाहीकोभयतात्पर्यके एते गाव आनीयन्तामित्यादावजहत्स्वार्थेति चेत्सत्यम्। अत्र सम्बन्धः सादृश्यमन्यो वा। आद्ये शक्यसादृश्यस्य शक्यावृत्तितया कथं शक्यस्य लक्ष्यत्वं येनाजहत्स्वार्थनता स्यात्। द्वितीये तु सादृश्यसम्बन्धा भावे गौणीत्वमेव न स्यात्। कुन्तानामिति। तात्पर्याविषयेकुन्तिप्रवेशे कुन्तानामन्वयबाधादित्यन्वयः।

गोसादृश्यमिति। उपमितसमासे एव सादृश्यं लक्ष्यतावच्छेदकमित्यन्ये ननु गावाभेदस्य बाधितत्वात्कथं तत्प्रतीतिरत आह। व्यञ्जनाजन्येति । बाधज्ञानं तु निश्चयात्मकमेव प्रतिबन्धकं वाधसंशयानन्तरमपि विशेषदर्शने तद्वत्ताबुद्धेः अप्रतिबन्धकत्वे बीजमाह। एवञ्चेति। अनाहार्यज्ञानस्यैव प्रतिबध्यत्वादिति भावः। भेदकेति। गोत्वबाहीकत्वयोर्भेदकत्वात्। मध्ये इति। वाक्यर्थबोधात् प्रागित्यर्थः। तटादीनां प्रतिपादने कृते तत्प्रतीत्याभेदे सति पावनत्वादिलाभ इति भावः।

उपकृतमिति। उपकृतं बहु नाम किमुच्यते सुजनता प्रथिता भवता परमित्यत्रापकारिणं प्रतिउपकृतमित्यपकारं लक्षयति। गोशब्दस्य जाड्यादिपरत्वे गोर्जाड्यमिति प्रतित्यापत्तिर्नामार्थयोरभेद इति न्यायविरोधश्चेत्यभिप्रेत्याह। केचित्त्विति। अयम्भावः गवाभिन्नेो बाहीक इति बोधे अभेदस्य बाधितत्वाद्रोशब्देन गोसदृशं लक्ष्यम्। गोसादृश्यं च गोगतजाड्यमान्द्यादि। तथाच जडाभिन्नो बाहीक इति बोध इति। अत एव शङ्कते। पौनरुक्यमिति। शक्यादशक्योपस्थितिर्लक्षणेति मते तु लाक्षणिकं नानुभावकमिति प्रवादः। तथाच गङ्गापदात्तीरानुपस्थितौ तत्र सप्तम्यर्थान्वयानापत्तिः प्रत्ययानं प्रकृत्यर्थान्वितेति न्यायात्। तार्किकाणामय प्रवादः कथमिति चेत्। उद्देश्यविधेयभावेन लाक्षणिकं नानुभावपकमिति तदर्थः। अत एव न विधौ परः शब्दार्थ इति प्रवादः ।परे तु कुमतिः पशुरित्यादौ सर्वलाक्षणिके ऽन्वयदर्शनाल्लाक्षणिकं नानुभापवकमिति प्रवादोऽसङ्गत एवेत्याहुः। ननु साधारणधर्माश्रये लक्षणायामाल्हादयति मुखेन्दुरित्यत्र पौनरुक्त्यापत्तिरिति चेदत्ारहुरिन्दुपदस्य इन्द्रवृत्तिधर्मवति लक्षणेति।

सदृशत्वेन लक्षमेति। सदृशे लक्षणेत्यर्थः। सादृश्यस्येति। जडत्वे एव सादृश्यापर्यवसानात्तेनैव रूपेण लक्षमास्त्वित्यर्थः। स्वशक्यगतेति। गवादिपदार्थगोतत्वादिसहचारिणो जाड्यादयो लक्ष्यन्त इत्यर्थः। नन्वेवं गौर्बाहीक इत्यत्र सामानाधिकरण्यानुपपत्तिरत आह। जातिशक्तिनये इति। तथाच द्विगुणसदृशजाड्याक्षिप्तं प्रवृत्तिनिमित्तीकृत्य गोशब्दे बाहीके वर्तत इत्यर्थः। परास्तमिति। साधारणं जाड्यादिलक्ष्यतावच्छेदकमाश्रित्य तदाश्रय एव लक्षणाया उचितत्वात्। अन्यथा लक्ष्यमामव्यधिकरणत्वमशक्यस्य बाहीकस्य गोशब्देन प्रतिपादनासम्भवश्च । तदाहुः लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणतेति। लक्षमाणा ये जाड्यादयस्तैरेव यदि शक्यसम्बन्धस्तदा गौणी वृत्तिरित्यर्थ इति भावः।
ग्रामो दग्ध इति। अवयवधर्माणां समुदायेऽत्रारोप इति न युक्तम्। दग्धपदस्यैव दग्धगृहवाद्वाचकत्वादिति भावः। जहदजहदिति। दग्धस्य तद्वतश्च बोधात्।।1.38।।

स्वज्ञाप्यसम्बन्धो लक्षणा । भवति च वाक्यार्थोऽपि वाक्यज्ञानप्यस्तेन वाक्यस्य लक्षणेति मीमांसकमतेनाह। ज्ञाप्येति। गभीरायां नद्यामिति वाक्यस्प बोध्यो गभीराभिन्नानदी तत्सम्बन्धस्तीर इति भावः। न हि तीरं नदीति। गभीरतीरे नद्यामित्यर्थासम्भवात्। न नदीपदेऽपीति। नदीपदेन नदीतीरग्रहणे गभीरसामानाधिकरण्पासम्भव इत्यर्थः। पदद्वये। गभीरपदे नदीपदे च । प्रन्येकमिति। गभीरपदस्य गभीरतीरे नदीपदस्य नदीतीरे इत्यर्थः। विशिष्टेति। गभीरनदीतीरबोधानापत्तेरित्यर्थः। यत्तु गभीरपदं नदीपदं चेत्युभयमपि गभीरनदीतीरलक्षकं तत्रैकपदार्थबोधे ऽपरदं तात्पर्यग्राहकमिति तन्न। एवमपि समुदायशक्तौ पर्यवसाने तस्या एव न्याय्यत्वात्। विनिगमनाविरहादिति। गभीरपदस्यैव लक्ष्पणास्त्वित्यर्थः। गभीरत्वविशिष्टनदीसंयुक्तत्वस्य सम्बन्धत्वे गौरवाल्लाघवान्नदीपदमेव लक्षकमिति युक्तम्। गभीरपदं गभीरत्वगुणे शक्तमित्याशयेन शङ्कते। न चेति। गुणीति । शुक्लादिशब्देवत्। अत एव। समुदाये लक्षमास्वीकारादेव। अर्थवादवाक्यानामिति। अर्थस्य प्रयोजनस्य वदनं विध्यर्थप्रशंसापरं वचनम्। वायुर्वै क्षेपिष्ठा देवता इति वाक्यस्य वायुदेवताकं कर्म प्रशस्तमित्यर्थलक्षकत्वात्। परे तु सर्वत्र विशेष्यपदस्यैव लक्षणा इतरपदानां तात्पर्यग्राह कत्वाच्च वाक्यलक्षणाप्रवाद इत्याहुस्तन्न। विश्वरूपो वै त्वाष्ट्रा इत्यादौ विशेष्यपदानामप्यनेकत्वेन कस्य लक्षणेत्यत्र विनिगमकाभावात्।

नन्वेवमपभ्रंशे ऽपि स्वबोधसत्त्वाल्लक्षणापत्तिरतः शक्यसम्बन्धरूपैव लक्ष्मणेष्टव्येति तार्किकमतं निराकरोति। इष्टैवेति। अपभ्रंशेऽपि लक्षणास्तीति दर्शयति। साहेतीति।
साहेती सहि सहअं खणे खणे दूमि आसि मज्जकए।
सम्भावणेहकरणिसिअं दाव विरइअं तुमए।। इति प्राकृतम्।
साधयम्ती सखि सुभगं क्षणे क्षणे दूनासि मम कृते।
सद्भावस्नेहकरमीयसदृशं तावद्विरचितं त्वया।।

इति संस्कृतम्। मदर्थं नायकं वशीकुर्वन्ती त्वं हे सखि मदर्थं क्षणे दूषितासि सद्भावस्रेहाभ्यां सदृशं यत्करणीयं तत् त्वया कृतमिति तदर्थः। अत्र मत्पतिं रमयन्त्या तव्या शत्रुत्वमाचरितमिति व्यज्यते। यत्तु ज्ञाप्यत्वं न स्वजन्यबोधविषयत्वम्। घटशब्दात्समवायेनाकाशस्याप्युपस्थितेः। नापि स्वजन्यशब्दबोधविषयत्वम्। गङ्गापदात्प्रवाहस्यबोधेन लक्षणानापत्तेः । तस्मात् शक्त्या स्वजन्यबोधविषयत्वमेव ग्राह्यमिति तन्न। प्रवाहसम्बन्धित्वेनैव तीरबोधात्। अपभ्रंशेऽपि शक्तिस्वीकारात्। शक्यसम्बन्धो ऽपि तत्रास्तीत्याह। तस्यापीति।

न प्रत्येकमिति। बोधकतायाः पदादावेव पर्याप्तत्वात्तत्रैव लक्षणेत्यर्थः। पदघटितेति। वाक्यलक्षणायामित्यर्थः।शाब्दबोधरूपमेवेति। घटादिपादादाकाशोपस्थितिस्तु सम्बन्दिज्ञानविधया स्मारूपैव । समुदायलक्षणायां तार्किकादीनामपि सम्मतिमाह। छत्रिणो यान्तीति। ननु समुदायशक्त्यानङ्गीकारेछत्रीति समुदायस्याशक्तत्वात् कथं तस्य लक्षणेति चेदत्ारहुः। छत्रपदस्यैव एकसार्थवाहे लक्षणा। मतुबर्थश्च सम्बन्धः। तथाच एकसार्थसम्बन्धवन्तो गच्छन्तीत्यर्थः। छत्रिपदस्य लक्षणेति प्रवादस्तु स्वज्ञाप्यसम्बन्दसत्त्वादीत्यभिप्रायेण । एतसार्थवत्त्वेनच च्छत्रस्याप्यन्वयादजहत्स्वार्थत्वमिति। अनङ्गीकुर्वन्तो ऽपीति। ये समुदाय शक्तिं नाङ्गीकुर्वन्ति तेऽपि समुदायलक्षणां वदन्तीत्यर्थः। छत्रिशब्दस्य शक्त्यभावेऽपि स्वज्ञाप्यसम्बन्धरूपा लक्षणा भवत्येवेति भावः।। 1.39।।

अर्थमात्रं विपर्यस्तशब्दः स्वार्थे व्यवस्थित इति हर्यादिसिद्धान्तमाश्रित्याह । परे त्विति। वाच्यत्वेन प्रसिद्धो यः प्रवाहस्ताद्भिन्नस्य तीरस्य प्रवाहत्वरूपेण शक्त्यैव बोध इत्यर्थः। प्रवाहत्वमेव तीरे आरोप्यत इति भावः। व्यक्तिविसेषेति । सौरभत्वविशिष्टेत्यर्थः । सामान्यस्यैव वाच्यतया विशेषस्याशब्दार्थत्वादिति भावः। एतेन शक्यादन्येन रूपेण ज्ञातत्वाभावात्तत्र लक्षणा नेति तार्किकोक्तमपास्तम्। आरोपे बीजं दर्शयति। छत्रिणो यान्तीत्यादि। व्यक्तिविशेषेति। यथा एकं कमलपदं सौरभत्वविशिष्टबोधकम्।
त्वामस्मिति।
त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति।
आत्मीयां मतिमाधाय स्थितिमत्र विधेहि तत्।।

अत्रास्मीत्यहमित्यर्थे ऽव्ययम्। अत्र वच्मीत्यनुपयुक्तार्थम्। तदनुपादानेऽपि वचनक्रियाप्रतीतेरतस्तत्र वचनमुपदेशरूपतां लक्षयति। हितसाधनत्वं चात्र व्यङ्यम्। एवं त्वामस्मीति पदे ऽप्यनुपयुक्तार्थे सम्बोध्यतयैव युष्मदर्थस्य वचनकर्मताप्रतीतेः। वच्मीत्युक्तमपुरुषेणैवास्मदर्शस्य तत्कर्तृताप्रतीतेरतस्ताभ्यामुपदेश्यत्वाप्तत्वे लक्ष्येते। व्यक्तिबोधो लक्षणयेति। शक्यादन्येन रूपेण ज्ञाते भवति लक्षणेति तु निर्मूलमिति भावः। सामान्येति। अस्मदर्शसामान्यं शक्यमाप्तत्वाविशिष्टोऽस्मदर्शस्तु लक्ष्यः तयोश्च सामान्यविशेषभावः सम्बन्ध इति भावः। अत एव। आरोपेण बोधादेव। वाक्यस्यैवेति। तद्धितस्यवैकल्पिकत्वात्। गङ्गायां घोष इति। यत्तु तीरत्वेन बोधे जहत्स्वार्था गङ्गातीरत्वेन बोधे त्वजहत्स्वार्थेति तार्किकास्तन्न। तीरत्वेन बोधे शैत्यपावनत्वादीनां प्रतीत्यनापत्तेः।

ननु गङ्गापदार्थाभेदस्य बाधितत्वात्कथं तदर्थस्याबाधितत्वमत आह। बाधज्ञानेनेति। यत्तु मुखं चन्द्रो गौर्बाहीक इत्यादौ लक्षणां विनैवाभेदबोधः, बाधनिश्चयप्रतिबध्यतावच्छेदककोटौ शाब्दान्यवस्य निवेशात्। वह्निना सिञ्चतीत्यादौ तु योग्यताविरहान्न बोधः। इह तु इष्टचमत्कारसिद्धये आहार्ययोग्यताज्ञानस्य सत्त्वादिति तन्न। आहार्याभेदनैव सिद्धौ शाब्दाम्यत्वनिवेशस्य योग्यताज्ञानहेतुत्बस्य च निष्फलत्वात्। आहार्यं प्रात्यकमेवेति नियमे तु मानाभावः। ये तु मुखचन्द्र इत्यादौ सारोपलक्षणां वदन्ति तन्मते ऽयत्र वाच्ययोरेवाभेदान्वयो वाच्ये न तु वाच्यलक्ष्ययोः। अन्यथा रादननारायणं लक्ष् मीस्त्वामालिङ्गति निर्भरमित्यत्रोपमितसमासमूलकोपमाभ्युपगमे लक्ष्मीकर्तृकालिङ्गनस्या सामञ्जस्यमित्यालङ्कारिकसमयो व्याहन्येत। किञ्चोपमानवाचकस्य चन्द्रादिपदस्य रूपके उपमानसदृशे लक्षणेत्यालङ्कारिकाः । तत्र समानधर्मरूपं सादृश्यं लक्ष्यतावच्छेदकम्। स च धर्मो लक्ष्यांशे सामान्यरूपेण प्रतीयते, सुन्दरत्वादिविशेरूपेण वा। नाद्यः सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः। नान्त्यः सुन्दरं मुख चन्द्र इत्यत्र पौनरुक्त्यापत्तेः। न च सादृश्यास्य वाच्यतायामवोपदशः नलिनप्रतिपक्षमाननमित्यादौ तदभावापत्तेः। यदि तु सुन्दरं मुखमित्यादौ धर्मोत्तरेण सादृश्यामित्युच्यते। एवमपि विद्वन्मानसंहसेत्यत्र रूपके श्लेषनिमित्ताभेदाध्यवसानेन मानसवशित्वरूपभूपहंसयोः सादृश्ये सिद्धो सदृशलक्षणामूलकस्य भूपे हंसरूपकस्य सिद्धिः। तत्सिद्ध्यै च सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्लेषस्य निष्पत्तिरित्यन्योन्याश्रयः। तस्माद्रुपके ऽभेदान्वय एव युक्तः। न च रूपके सदृशलक्षणाया एव फलं ताद्रुप्यप्रतीतिरिति वाच्यम्। तत्सदृश इति शब्दादपि तादृशप्रत्ययापत्तेः। यत्तु वदन्ति रूपके लक्षणा नास्तीत्ययुक्तम्। तथाहि। साधारणधर्मानुपस्थितिदशायां नास्ति रूपकनिष्पत्तिरिति सर्वसिद्धान्तः। तत्र साधारणधर्मवत्त्वरूपसादृश्यस्य रूपके प्रवेशाभावे विशेषधर्मानुपस्थितिदशायां कथं रूपकं पर्यवस्येत्। राजा नारायणमित्यत्रापि विशेषणसमासे उत्तरपदार्थप्राधन्यान्नारायणत्वेनोपस्थिते लक्ष्मीकर्तृकस्यापि न विरोध इति। अत्रोच्यते। उपमितसमासस्थले भेदघटितसादृश्यविशिष्टोपमेये उपमानशब्दस्य निरूढलक्षणा। इदमेवेवादीनां द्योतकत्वम्। सदृश इत्यत्र तु लक्षणाया अभावन्न ताद्रूप्यप्रत्ययः । एवञ्च लक्षणायाः फलं ताद्रुप्यप्रत्य्य इतिप्राचां ग्रन्था इत्यलम्।। 1.40 ।।

ननु तद्वत्ता निश्चयं प्रति तदभाववत्ता निश्रयस्य प्रतिबन्धकत्वात्कथं तज्ज्ञानस्य प्रमात्वं शङ्खः पीत इत्यादिबुद्धिवदित्याशङ्क्याह। वस्तुतस्त्विति। अनाहार्यस्यैव प्रतिबध्यात्वादिति भावः। पचतीत्यादिजेति। अन्नाख्यातार्थैकत्वादेः क्रियायामारोपादेकवाचनादि ।तत्र शब्दस्यैकवचनाढिप्रयोगस्यानुपपत्तिर्मूलम्। परिहाराभावादिति। एकत्वे एकवचनमित्यादौ एकत्वादिप्रकृत्यर्थगतमेव न्याय्यं सुबन्तादिस्थलवत्। गुणीभूतकर्त्रादावेकत्वान्वयासम्भवाच्च। तार्किकादीनां प्रत्ययानां प्रकृत्यर्थान्वितेति न्यायविरोधश्च स्यात्। मतान्तरे तु क्रियायामेकत्वस्यान्वयाभावात् स्थाली पचतीत्यादौ व्यापाससमुदायस्य पचत्यादिवाच्यस्यैकदेशे आरोप इति दृष्टन्तो बोध्यः। यथेति। तीरत्वेन ज्ञाते तीरे प्रवाहत्वेन बोधाल्लणेत्यर्थः।

अत एव ।प्रवाहत्वेन रूपेण प्रवाहतीरयोर्बोधादेव। अन्यथा। प्रवाहत्वेन बोधाभावे। द्वन्द्वादार्थस्येति। यत्र समुदायार्थस्यैकधर्माच्छिन्ने ऽन्वयस्तत्रैव द्वन्द्वस्वीकारस्यावश्यकतयात्र द्वन्द्वो न सायदित्यर्थः। अन्वयस्यैवेति। आवश्यकत्वे नेत्यत्रनावयः ।एतन्नियमस्य फलमाह। अजां ग्राममिति। अत्राजाग्रामयोर्न द्वन्द्वः। ग्रामस्य संयोगे अजायाश्च व्यापारेऽन्वय इति भेदात्। अजावीति। अजाधनो देवदत्तः अविधनो यज्ञदत्त इति भेदात्। दूषकताबीजाभावाच्चेति। अत एव तार्किका अपि चित्रगुघनमित्वत्रोत्तरपदस्यान्यपदार्थे लक्षणया तत्सम्बन्धिनि तत्पुरुषलक्षणायां च लक्षणाद्वयाद्बोधमभ्युपेत्योक्तनियमं निराचक्रुः। अत एव न। प्रवाहत्वेन बोधादेव न । एवमेवेति। दध्युपघातके विडालादौ काकत्वमारोप्यत इत्यर्थः।। 1.41।।

अतद्भावे ऽपि तच्छब्दाशक्यत्वेऽपि तदुपचारस्तच्छब्दव्यपदेश इति व्याख्यनां तु न युक्तं, व्यपदेशेऽपि निमित्तस्यैब वाच्यत्वादित्याह । स चेति। सहचरणं संयोगविशेषः। कटेष्विति। कटं करोतीत्यादौ कटानां सिद्धत्वेन कारकत्वासम्भवादिति भावः। सर्वत्र प्रवृत्तिनिमित्तमारोप्यत इत्याह। साधारणेति। साधारमधर्मं जडत्वादिकं निमित्तीकृत्य आरोपितत्वेन बोधादित्यन्वयः। तथाच जडो बाहीक इति बोधानन्तरं गवाभिन्नो बाहीक इति बोधः। गोत्वेनेति। एतेन पुगपद्‌वृत्तिद्वयविरोधो ऽपास्तः । व्यञ्जनयेति। गोत्वारोपेण गोशब्दप्रवृत्तौ ततो ऽभेदबोधे ऽतिजडत्वप्रतीतिरिति भावः। अत एवाह। तत एव चमत्कार इति। आद्यबोधे त्विति। प्रथमत एव गवाभेदबोधे त्वित्यर्थः। तस्मिन्। गवाभेदज्ञाने । भ्रमत्वज्ञानादिति। गवाभेदज्ञानस्य भ्रमात्मकत्त्वान्न चमत्कार इत्यर्थः। अत एव ।आरोपितत्वप्रत्ययादेव। गोशब्दस्य तत्सदृशजत्वादिपरत्वे तु पौनरुक्त्यापत्तिरित्यर्थः।ष ननु गोत्वारोपे लक्ष्यमाणगुणैर्योगादिति प्रवादासङ्गतिरत आह। लक्ष्यमाणेति। तथाचारोपहेतुभूतत्वेन ज्ञायमानगुणैर्योगादित्यर्थः।

गवभिन्नो बाहीक इति बोधेऽतिजडत्वप्रतीत्या चमत्कारातिशय इत्यभिप्रेत्याह। यद्वेति। ननु लक्षणातः प्राक् कथमभेद बोधस्तस्य बाधितत्वेनाप्रण्यापत्तेरत आह। बाधज्ञानस्येति। अनुपपत्तिजेति। अनुपपत्तिजा या लक्षणा तज्जन्येत्यर्थः। वस्तुतस्तु बाधज्ञानं न प्रतिबन्धकं न वा तदभावकारणं बाधस्थले विशेषणतावच्छेदकप्रकारकनिश्चयाभावादेव विशि,्टबुद्ध्यनुत्पत्तेः। न्यायवार्तिकेति। उक्तानुक्तदुरुक्तचित्नताकरंवाक्यं वर्तिकम्। ननूपनिषद्वार्तिकानां कथं दुरुक्तिचिन्ताकरत्वं तत्र दुरुक्ताभावात्, सत्यम्। तत्रापिदुरुक्तत्वभ्रान्तिसम्भवात्। ननु सामानाधिकरण्यरूपसाहचर्यस्य यष्टितद्धारिमोरसम्भव इत्यत आह। साहचर्यं नामेति। सम्बन्धात्त्विति। यष्टि कासम्बन्धाद्यष्टिकाशब्दप्रयोगे त्वित्यर्थः।

उपचारेति। भिन्नत्वेन प्रतीयमानयोरैक्यारोपणमुपचारः। संयुक्तसमवेताम्। ब्राह्मणसंयुक्तयष्टिसमवोताम्। तत्रैव। घटत्वादावेव। भेदसम्बन्धेन आश्रयाश्रयिभावेन। अत एवाह। घटत्वादिप्रकारकेति। तथा च घट्त्वविशिष्टस्य घटत्वस्यैव प्रतीतिः। लक्षणयेति। घटत्वविशिष्टघटे शक्तस्य घटत्वविशिष्टे घटत्वे लक्षणेत्यर्थः।। 1.42 ।।

व्रीहीन्प्रोक्षतीत्यादावपूर्वसाधननीवारेषु व्रीहित्वमारोप्यत इति प्रतिपादयितुमाह। व्रीहीन्प्रोक्षतीति। अयम्भावः। केषां चित्साहचर्येण जातिः शक्तुपलक्षणमिति हर्युक्तरीत्या व्रीहित्वजात्युपलक्षिता शक्तिरेव क्रियासाधनत्वेनापदिश्यते। एवञ्च जातिक्रिययोरेव विभक्तिप्रापितः श्रौतः सम्बन्धः निराश्रयायाश्च जातेरभावाद्‌द्रव्यमाक्षिप्यते। तथा च नीवारेषु सदृशत्वाद्‌व्रीहित्वजातेरपायात् सिद्धं प्रतिनिधेः श्रौतत्वम्। एतच्च जातिपक्षे एव सम्भवति। व्यक्तियक्षे तु साक्षाद्‌द्रव्यस्यैव क्रियासाधनत्वेन प्रधानत्वात्तत्त्यागे प्रतिनिध्युच्छेद एव स्यादिति। अपूर्वेति। एतेन ईप्सिततमे कर्मणि व्रीहीनिति द्वितीयाविधानात्प्रधानस्यं प्रतिनिध्यमस्भव इत्यपास्थम्। अत्र प्रोक्षणादेः प्रधानाङ्गत्वेनादृष्टद्वारा प्रधानापूर्वफलत्वं न्याय्यं न तु व्रीहिफलार्थत्वम्। अत एव कृष्णलेषु वितुषीभावरूपद्वारलोपनादवाघातनिवृत्तावपि प्रोक्षणम्। वीहित्वेनैवेति। तेन व्रीह्यभावे नीवाराणां ग्रहणम्। प्रकृतापूर्वसाधनत्वान्नीवाराणां ग्रहणमिति मतं निराकरोति। न त्वपूर्वेति। अन्यथा यवानामपि प्रोक्षणप्रसङ्गः।

ननु प्रवृत्तिनिमितारोपे ऽनेकार्थत्वाभावात्संयोगादिना विशेषस्मृतिरिति पूर्वोक्तग्रन्थासङ्गतिरित्यतः प्रथमं तत्रैव सम्मपिं दर्शयति। एकमाहुरिति। सर्वेषामर्थानां गोशब्द एक एव वाचकः। अर्थप्रकारणांभ्यां शब्दान्तरेण योगाद्वा एकमेवार्थं प्रकाशयन्ति न सर्वार्थम्। निमित्तभेदात् प्रसिद्ध्यप्रसिद्धिवशात्। सर्वार्थत्वं भिद्यते नानाविधं भवति। क्वचिद्रौणं क्वचिन्मुख्यम्। यद्यपि गोशब्दः सास्नादिमन्तमिव बाहीकमप्यभिदधाति तथापि बाहीके अप्रसिद्धत्वाद्रौणः।

इदानीं प्रवृत्तिनिमित्तारोपपक्षे सम्मतिं दर्शयितुमुपक्रमते। नन्वेवमिति। गोशब्दस्य बाहीके आरोपे शब्दार्थसम्बन्धस्यानित्यात्वापत्तिरित्यर्थः। विपर्यस्तम्। भिन्नाधिकरणेष्वारोपितं गोत्वमेव सर्वत्रार्थः। तस्यैव तु भेद इत्याह। गौरित्यत्रेति। अर्थो द्विविधः गोत्वादि स्वरूपञ्च। तत्राद्यं व्याख्याय द्वितीयमाह। शब्द एवेति। सः। शब्दः। अनुषज्यते। विनियुज्यते। नन्वर्थविपर्यासे नानार्थत्वं दुर्वारमत आह। अर्थो ऽत्रेति। तथा च विशेष्यस्य भेदेऽपि प्रवृत्तिनिमित्तस्य न भेद इति भावः। ननु जडो बाहीक इत्येव प्रयुज्यतां किं गौर्वाडिक इति प्रयोगेमेत्यत आह। लक्षणाफलं त्विति। लाक्षणिकशब्दप्रयोगफलं त्वित्यर्थः। सादृश्यप्रतीतिः। अतिजडत्वप्रतीतिः। मुख्यार्थेति। मुरूयार्थस्य यः साक्षात्सम्बन्धस्तन्मूलकारोपापेक्षयेत्यर्थः। गौण्यामेवेति। न चैवं गौण्या लक्षितलक्षणात्वापित्तिः।लक्षितलक्षणाया ग्रन्थकृतैव निराकरिष्यमाणत्वात्। लक्षणयैव शैत्यपावनत्वादीनां प्रतीतेर्न व्यञ्जनावृत्त्यन्तरमिति तार्किकमतं निराकुर्वतां प्रकाशकारादीनां सम्मतिं दर्शयति। प्रयोजनं न लक्ष्यमिति। शैत्यपावन्तवादौ शक्यसम्बन्धाभावाल्लणा न सभ्भवतीत्यर्थः।। 1.43 ।।

ननु गवादिपदानां व्यञ्जनया जाड्यादिपरत्वे प्रकारे गुणवचनस्येति द्वित्वापत्तिः । प्रकारः सादृश्यम्। सादृश्ये वर्तमानः सन् यो गुणवचन इत्यर्थादित्याशङ्क्याह। प्राग्गुणवचननत्वेति। अयम्भावः। गुणवचनः सन् यः प्रकारे वर्तते तस्य द्वित्वमित्यर्थः। यथा पटुरित्यस्य पटुसदृश इत्यर्थः। इत्येवं रीत्यैव भाष्यशङ्कोत्तरे योज्येते न तु गोशब्दस्य सादृश्यलक्षकत्वेन गुणवचनत्वं सादृश्यनिमित्तकाभेदोपचाराद्रोपशब्दो गोप्यां वर्तत इति पुंयोगादिति सूत्रस्थभाष्यबिरोधादिति भावः। गङ्गादिभिः। सामीप्य इति। सतीति शेषः । गौतमोक्त इति। सहचरणस्थानेत्यादिना गौत्तमेनापि धर्मारोप उक्त इत्यर्थः। पतञ्जल्युक्त इति। चतुर्भिः प्रकारैरित्युपक्रम्य सामीप्याद्‌गङ्गाशब्दो वर्तत इति प्रागुक्तत्वात्। आद्यो ऽपीति। साधकतमिति तमप् ग्रहणेन गौणाधारस्यापि ग्रहणज्ञानाद्यत्रात्यन्तसामीप्यात्प्रवाहे घोषाधिकरणत्वारोपस्तत्र सप्तमी सिद्धेति भाष्यम्। ननु गर्गा इत्यादौ गर्गापत्ये गर्गशब्दश्य कथं साधुत्वं पूर्वोक्तप्रकारामआमभावादत आह। यत्र त्विति। शास्त्रे क्वचित्प्रकृत्यर्थः प्रत्ययेनाभिधीयत इति हर्युक्तेः। एवं नक्षत्रे च लुपीति सूत्रमपि उक्ते ऽर्थे मानम्। रथन्तरं साम अभित्वा शूर नोनुम इत्यस्यां गीतम्। लक्षणेत्ययुक्तमिति। बाधप्रतिसन्धानं विनापि बोधाल्लक्षणा न युक्तेत्यर्थः। तार्किकैकदेशिनो लक्षितलक्षणा वृत्त्यन्तरमित्याहुः। तथा हि द्विरेफपदे रेफपदस्य रेफद्वयसम्बन्धिनि भ्रमरपदे लक्षणा भ्रमरपदस्य च भ्रमरे इति तान्निराकरोति लक्षितलक्षणेति। ननु द्विरेफपदलक्षितेन भ्रमरपेदेन शक्त्यैव भ्रमरबोधाल्लक्षणाव्यर्थे ति चेन्न। द्विरेफपदवृत्त्यभावे प्रत्ययानां प्रकृत्यार्थन्वितेति न्यायविरोधापत्तेः। एवञ्ज द्विरेफपदस्यैव लक्षितलक्षणावृत्तिः। तथा च लक्षितस्य लक्षणेति शब्दार्थः। परे तु शक्यसम्बन्ध एव लक्षणा न तु शक्यस्य साक्षात्सम्बन्धो लक्षणा गौरवात्। तथा च परम्परासम्बन्धेन भ्रमारोपस्थापकत्वाद्ध्विरेफपदस्य भ्रमरे वृत्तिः। तथा च लक्षितपदघटितलक्षणा लक्षितलक्षणात्यर्थ इत्याहुः। ननु प्रत्ययानां प्रकृत्यर्थान्वितेति न्यायविरोधो ऽत आह। प्रकृतिप्रयोज्येति। जत इति। यज्ञकर्मण्यजपन्यूङ्कसामस्वित्वेश्रुतिनिषेधात्। वस्तुतस्तु अदृष्टार्थशब्दोच्चारणमात्रं जप इति यज्ञविषये पारिभाषिको भिन्न एव जपशब्दः । त्रैस्वर्येणेति। यथाप्राप्तैस्त्रिभिरपि स्वरैरित्यर्थः। मनसोच्चार्येति। एतेन मानसमनुसन्धानमित्यर्थो निराकृतः। यद्यपि।
जपश्च द्विविधः प्रोक्तो वाचिको मानसस्तथा।
वाचकापांशु उच्चैश्च द्विविधः परिकीर्तितः।।
मानसाच्च जपाद्‌ध्यानं सहस्रगुमापुच्यत।।

इति याज्ञवल्क्योक्त्या उच्चारणाभाव एव लभ्यते तथापि मानसेऽपि बुद्धिकल्पितमुच्चारणमस्त्येवेति भावः।

न ततोऽर्थबोध इति। अनुकार्यस्यानुच्चारितत्वान्नार्थबोधकत्वमित्यर्थः। द्विरोफपदेन स्मृतं भ्रमरमर्थं बोधयतीत्यत्र दोषान्तरमाह। किञ्चेति। अतीतानागतानामिति। तेषामेव हि स्मृतत्वमिति भावः। तस्मात्तच्छ्रुतमेव बोधकमिति भावः। ननु पदानां नित्यत्वात्कथमतीतत्वाद्युच्यत इत्यत आह। अतीतत्वादि चेति। नाशादिनेति। उच्चारणक्रियानाशादिना अतीतत्वादि चेति। नाशादिनेति। उच्चारमाक्रियानाशादिना अतीतत्वादिव्यवहार इत्यर्थः। अथवा अभिव्यक्तनाशादिना अतीतत्वादिव्यहार इत्यर्थः। अथवा अभिव्यक्तनाशादिना नष्टत्वचादिव्यवहार इत्याह। नष्टत्वमित्यादिना। नष्टाभिव्यक्तिकत्वमित्यारभ्य पक्षान्तरमित्याहुः। वैजात्येन। कारणतावच्छेदकजातिशून्येन। तेषाम्। सुखादीनाम्। नान्यत इति। यथा स्मृतगन्धादेर्न सुखादिज्ञानं सुखादिजनकतावच्छेदकस्य भिन्नत्वादेवं भ्रमरपदे ऽपीत्यर्थः। अत एव। उच्चारितस्यैव बोधकत्वादेव। अनुच्चारितस्यापि बोधकत्वे तु धात्वर्थस्य परोक्षत्वसम्भवाद्भाष्यसङ्गतिरिति भावः। तस्य। भूतानद्यतनक्रियावृत्तेर्धातोः।। 1.44।।

लक्षणयैव व्यञ्जना गतार्थेति तार्किकमतं निराकर्तुमाह। मुख्यार्थेति। निश्शेषच्युतचन्दनं स्तनतटमित्यादौ मुख्यार्थबाधाभावे ऽपि अधमपदार्थपर्यालोचनया व्यङ्यार्थप्रतीतेर्व्यञ्जना वृत्त्यन्तरमेवेति भावः। सम्बद्धेति। मुख्यार्थसम्बन्धाभावाद्रुढ्यादेरभावाच्च न लक्षणेत्यर्थः। वत्त्रादीति। वक्त्रादीनां वैशिष्ट्यस्य ज्ञानेन प्रतिभया च उद्बुद्धः संस्कार इत्यर्थः। व्यञ्जकत्वलक्षकत्वयोर्वैलक्षण्यं दर्शयति। अत एवेति। निपानातामिति। तेषां मुख्यार्थाभावेन लक्षणाया असम्भवात् व्यञ्जकतारूपा द्योतकतैवेत्यर्थः। स्फोटस्येति। लक्षणायास्तु तत्र न सम्भवः। क्वचिदिति। यथा प्रजयतीत्यत्र प्रकृष्टजयबोधकत्वम्। प्रादेशं विलिखतीत्यत्र प्रादेशं विनिर्मायेत्यर्थेन क्रियाक्षेपकत्वादुक्तम् क्वचिदिति। वैयाकरणानामिति । न केवलं कवीनामेव किन्तु वैयाकरणनामपि व्यञ्जना आवश्यकी यतो व्यञ्जकत्वमेव द्योतकत्वमित्यर्थः। लक्षणाव्यञ्जनयोर्वैलक्षण्यान्तरमपि दर्शयति। एषा चेति। लक्षणा पदनिष्ठा व्यञ्जना तु एकदेशादिनिष्ठापीत्यर्थः।। 1.45 ।।

 
ननु कोऽसाविति। अखण्डपक्षे आभ्यन्तरः स्फोटो जातिव्यक्ती वाह्यस्फोटाविति त्रीणि वाक्यलक्षणानि। सखण्डपक्षे तु नियतसाधन आख्यातशब्दपदक्रमो वा पतदसङ्घातो वा आद्यमेव पदं वा सर्वाणि पदानि वेति वञ्च वाक्यलक्षणानि। तत्रैषु अष्टसु कः पक्षो युक्त इति विचारः। तथा शक्त्याश्रयाः शब्दानां नित्यत्वमभिप्रेत्याहं । अभिव्यक्तेरिति। क्षणशब्देनेति। क्षणो नाम शब्दतन्मात्रद्वारा प्रकृतेः परिणामविशेषः क्षणधारारूपकालस्य परमापकर्षावधिः। स च न प्रत्यक्षः। अतिसूक्ष्मत्वात्। किन्तु तत्समूहरूपः काल एव। यथा परमाणौ स्वीय ऊर्ध्वनभोदेशत्यागोपलक्षितः कालः क्षणः। ननु उच्चारणप्रध्वंसयोर्यौगपद्यमयुक्तमत आह। उच्चरितुप्रध्वंसत्वं चेति। प्रत्यविषयेति। प्रत्यक्षविषयो य इदं शब्दस्तद्विषयो यो ऽयं पूर्व इत्यादिरभिलापस्तद्विषयस्य पौर्वापर्यस्य ज्ञानं न सम्भवतीत्यर्थः। पदप्रत्यक्षस्योपपत्तिरित्यन्वयः। यावदिति। एकैकवर्णवर्ति वागिन्द्रियमेकमेव वर्णमुच्चारयति न द्वौ वर्णौं उच्चरितश्च वर्णस्तदानीमेव नष्ट इति पौर्वापर्यसंहितयोरसम्भव इत्यर्थः। वागिति । वागिन्द्रिमित्यर्थः। तेनैव यत्नेन विच्छिन्ने नष्टे उपसंहृत्य तं यत्नं त्यवक्तवा।

पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितचरमवर्णानुभव एव तावद्वर्णगोचरां स्मृतिं जनयतीति तार्किकोक्तं शङ्कते। न चेति। उपस्थितेति। उपस्थितो विशिष्टो यो वर्णस्तद्वत्वं तृतीयवर्णे गृह्यत इत्यर्थः। शब्दजशब्देति । यथा वीचिरुत्पन्ना तरङ्गान्तरमुय्पादयतीति वीचीतरङ्गन्यायेनैवकैकशब्दाच्छब्दान्तरोत्पत्तिः ततः श्रोत्रमागतो गृह्यत इति तार्किकाः। अव्यवहितोत्तरत्वसम्बन्धेनेत्यादिकां प्रथमामाशङ्कामुद्धरति। अभिलापासम्भवादिति । पदवाक्ययोरभावेंनेति। वर्णानां समुदास्यासम्भादिति भावः। तथा भवेदिति। पदार्थोऽपि अशाब्दः स्यादित्यर्थः। यत्तूक्तं लीलावत्यां एकं पदमिति बुद्धिरेकसुप्तिङन्तत्वावच्छेदेनेति तन्न। सुप्तिङन्तयोरनुगतस्यैकस्य पदावच्छेदकस्य वक्तुमशक्यत्वात्। एकत्वबुद्धेरौपाधिकत्वे सर्वत्र तदुच्छेदापत्तेश्च। पक्षद्वये ऽपीति । संस्कारवशादिति पक्षे पदा अनन्ताः शब्दा इति पक्षे चेत्यर्थः। न चैकेति। घकारटकारयोर्भेदं ऽपि घकारटकारबुद्धेरेकजातीयत्वादेकपदत्वात्तदेवेदमिति व्यवहार इत्यर्थः। किञ्चैवमिति। एकघटपदे शक्तिग्रहे ऽप्यन्यघटपदे शक्तिग्रहाभावात्। ननु सकलघटपदे आनुपूर्वासाम्यात् शक्तिग्रह इत्यत आह। त् कालेति। तत्तत्कालघटितस्याव्यवहितोत्तरत्वस्यैकस्याभावादित्यर्थः। सैव। शब्दान्तरस्य बोधकत्वानापत्तिरूपैव। आनुपूर्वो त्विति। भिन्नैवेत्यात्रान्वयः। तत्तत्पदवृत्तयस्तत्पदनिष्ठाः। अनन्ता इति। पदभेदात्।। 1.46।।


स्फोटस्यैव वाचकत्वं दर्शयितुमाह। अत्रोच्यते इति। प्रलये। भौतिकादिप्रलये। महाप्रलयस्वीकारे तु सर्वकर्मणामेव नाशो भवति, ततश्च शेषकर्माभावे पुनः शरीराम्भानापत्तेः। अत एव यदिह रमणीयचरणा ततः शेषेणेत्यादि श्रूयते। नियतेति। नियतकालं परिपाको भोगो येषाम्। लीनसर्वगत्केति। भुक्तभोग्यानां प्राणिनां मायायां लयः तस्याश्चेश्वरे इत्यर्थः। एवञ्च कारणनाशात्कार्यनाश इति तार्किकोक्तमयुक्तम। तथा चज्जूरगादिवदपृथग्भूतानामात्मन्यध्यस्तानां वियदादीनां शुद्धे ब्रह्मणि लयो भवति। स च न मृदि घटस्येवानुपल्ब्धिरूपः किन्तु रज्वामहेरिव। तत्र बुद्धिवृत्तेरपिलीनत्वादेव न कश्चिद्धेद। स च लयः कालविशेषावधिसापेक्षः सुप्तवत्तिष्ठति तस्यावस्थायाम्। यथा जतुकाष्ठसंयोगेषु पृथङ्गदृश्यते, यथा वा जलसैन्धवरसौ एकलीभूतौ पृथक्‌त्वेन नानुभूयेते तथात्र न तमृते ऽन्यत् ज्ञायते रज्वामिव सर्पबाधे तदतिरिक्तवत्। अत एवाहङ्कारशून्यत्वान्न प्रमाता। साक्ष्यभावान्नद्रष्टा । साक्षिवृत्तेरपि लयान्न ज्ञाता। चरमान्तः करणवृत्त्या ब्रह्मविध्याख्यया प्रपञ्चं विषयी करोति। एवञ्च सर्वं जगदुपलंहृत्य शुद्धचिन्मात्ररूपेमावतिष्ठते । तदुक्तं हरिणा्।

प्रतृतौ प्रविलीनेषु भेदेष्वेकत्वदर्शिनम्।
द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः।।
इति।

मूलप्रकृत्या ब्रह्माण वा ये जगत एकत्वामभेदेन पश्यन्ति तेषां मते निरन्वयविध्वंसाभावान्महासामान्यरूपे तस्मिन्मूलकारणे लयमात्रं महाप्रलय इति शक्तिरूपेषु पदार्थेषु यथायथं शक्तियोगः द्रव्यात्मना तदानीमपि जातीनां सत्त्वं द्रव्यान्तरस्याभावात्। ईश्वरे इति। यथा स्फटिके जपाकुसुमसन्निधानाद्रक्तत्वावाभासस्तत्रैव स्फटिकांशप्रमोषे यद्रगनत्वावभास एवं शुद्धायां चिति मायोपादिसान्निध्यादीश्वरत्वाध्यासः। सोऽयमात्माआवरणविक्षेपशक्त्या अविद्याया आश्रयः। तत्रावरेणाशेन शुद्धरूपतिरोधानं विक्षेपांशेन ईशादिस्थूलदेहान्तानां प्रतिभासः । तयोर्निवृत्तौं शुद्धचित्स्वरूपेणावतिष्ठते। लयश्चायमिति। नात्यन्तिकइत्यत्रान्वयः। अत एव सहस्रयुगपर्यन्तं लयः। आत्यान्तिकलयसतु मुक्तावेव। प्रतिभासमात्रेति। रज्जौ सर्पावभासवदद्वैतनये मिथ्याभूतस्य प्रपञ्चस्य अनादिमिथ्यावभासनिमित्तकल्पनयैव सत्त्वात्। मायाकल्पितत्वमपि हि व्यवहारदृष्ट्यैव न वस्तुतः। प्रातीतिकतद्रूपेणैव व्यवहारस्योत्पन्नत्वात्। तदभावस्येति। आत्यन्तिकस्येति शेषः।सुप्तेवेति। कार्याजनकत्वात्सुप्ता इवतिष्ठन्तीत्यर्थः। प्रधानांशतमस्समुद्रेकेणान्यानवभासो हि स्वापः।तथा च कर्मविक्षेपसंस्कारसहितलक्षमआविधावशेषतासाम्येन ्स्वापसादृश्यं लयस्य तत्र ह्यन्तकरणादयो ऽविद्यायां सूक्ष्मरूपेण शक्तिरूपेण वासनाभिः सहावतिष्ठन्ते। एवञ्च शक्तिमिश्रिताद्‌ब्रह्मणः पुनः शक्तेः कथमुत्पाद इत्यपास्तम्। स्वप्रतिष्ठेति। स्वरूपमात्रे प्रतिष्ठितस्येश्वरप्रकाशस्येत्यर्थः। प्रकाश्यप्राकाशकहीनस्येति यावत्। अनौपाधकचैतन्यं हि तस्य स्वरूपम्। विषयविषयिणोर्भेदाभावाद्धर्मान्तरस्य चाभावादिति भावः। अत्यन्तेति। तार्किकप्रसिद्धनिर्विकल्पकधर्मधर्मिविषयं ब्रह्मात्मकं तु ज्ञानं निर्विषयमेव। प्रतिपदिकार्थमात्ररूपेणावस्थितं निर्विकल्पकमविद्याकृतभेदनिवृत्तौ शुद्धरूपेणावस्थानात्। अभानप्रायैवेति। मायायाः भाने तु चितेः सविकल्पकत्वापत्तौ निर्विकल्पकत्वं भज्येत। अपरिपक्वेति। अभुक्तेत्यर्थः। संस्कारस्यानादित्वाच्च न पूर्वसर्गकर्मशेषविरोधः। नन्वीश्वरस्यानादित्वे तदैक्षत बहुस्यां प्रजायेयेति सृष्टीसमये आगन्तुकमीक्षणं कथमुपपद्यतामिति चेत्सत्यम्। यथा विषयोन्द्रियसन्निकर्षाज्जीवोपाध्यन्तः करणवृत्तिभूतायां मायायां वृत्तिभेदादिदमिदानीं स्रष्टव्यमित्याकारिका जायन्ते। प्राप्तपरिपाकैः। उपस्थितपरिपाकैः। प्राणिकर्मपरिपाकवशेन सिसृक्षावशादेको ऽहं बहुस्थामिति भगवतो बुद्धिर्भवति। अबुद्धः । अविद्यापरस्येश्वरस्य स्वभावो लीलेति चोच्यते। नन्वसङ्गोदासीनस्य परमार्थतो निरतिशयस्य शक्तिशक्तिमतोरभेदेन शक्तेरप्यभावाच्च स्रष्ट्टृत्वासम्भव इत्यत आह। मायापुरुषाविति। तदुक्तं सूतसंहितायाम्।
ब्रह्मरूपात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात्।
इति। शक्तिमिश्रितात्। मायोपहितात्। मायशाक्तिशबलादिति यावत्। अयम्भावः। अद्वितीयस्य ब्रह्मणः क्रीडाया असम्भवादिच्छोत्पद्यते। सैव माया। तदुक्तं काशीखण्डे।
यदेकलो न शक्नोति रन्तुं स्वैरञ्चरप्रभो।
तदिच्छा तव योत्पन्ना सेव्याशक्तिरभूत्तव।।
त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः।
इति । कार्यरूपविन्दोस्त्रैविध्यमाह।बीजमिति। शक्तिरित्यर्थः। चिदचिन्मिश्रः। ततसम्बद्धः। चिदंशः। ब्रह्मरूपः।।1.47।।

रवपरादीति। रवशब्देन पराशब्देन चोत्यत इत्यर्थः। तस्मात्पराद्विन्दोः अव्यक्तो रवो ऽभूदित्यर्थः। मूलाधार इति। षण्णवत्यङ्गुलो देहायामः । तत्राष्टचत्वारिंशत्तममधस्तादुपरि च परित्यज्य मध्ये मूलाधारः। तदाहुः।
पाय्वन्ताद्‌द्व्यङ्गुलादूर्ध्वं लिङ्गाच्च द्व्यलाधः।
मध्यमेकाङ्गुलं यच्च देहमध्यं प्रचक्षत इति।।
नवाङ्गुलोर्ध्वतस्तस्मादस्थिकन्दो ऽण्डन्निभः।
चतुरङ्गुलविस्तारस्तन्मध्यं नाभिरुच्यत इति।।
कुण्डलिनी मूलप्रकृत्यात्मिका महदादिभिर्वेष्टिता सर्पवत्तिष्ठति मूलाधारादुत्थितः प्रवनो नाडीद्वारेण कार्याणि करोतीति पातञ्जले स्पष्टम्।
सङ्गीतरत्नाकरेऽपि।
गुदलिङ्गान्तरे चक्रमाधाराख्यं चतुर्दलम्।
अस्ति कुण्डलिनी ब्रह्मशक्तिराधारापङ्कजे।।
आधारद्‌द्व्यङ्गुलादूर्ध्वं मेहनाद्‌द्व्यङ्गुलादधः।
एकाङ्गुलं देहमध्यं तप्तजाम्बूनदप्रभमिति।।
पवनस्योत्पतिश्च मूलाधारे भवति। तदुक्तम्।
देहेऽपि मूलाधारे ऽस्मिन्समुद्यति समीरण इति।
अत एव तस्य मूलाधारे व्यञ्जकत्वम्। सर्वगतमपि। सर्वत्र व्याप्तमपि। पवनसंस्कार इति। इच्छया जातेन प्रयत्नेन मूलाधारस्थः पवनो युच्यत इत्ययमेव संस्कार इत्यर्थः। शब्द्ब्रह्मेति। अयम्भावः। यथा विषयेन्द्रियसन्निकर्षादिकारमवशेन जीवोपाध्यन्तः करणवृत्तिभेदा जायन्ते तथा सृज्यमानप्राणिकर्मवशेन परमेश्वरोपाधिभूतमायायां ब्रह्मणो निमित्त्कारमत्वावगमादेतस्मादात्मन इति श्रुतौ जनिकर्तृरित्यपादानलक्षणपञ्चम्यानापत्तिरित्यापास्तम्। स ऐक्षत एको ऽहं बहु स्यामिति श्रुतौ ईक्षितृत्वश्रवणेन निमित्त्‌तवाद्वहुवचनश्रवणेन चोपादानत्वस्यापि स्वीकारात्। तथा च हेताविति निमित्त्पञ्जम्यपि स्वीकारात्। तथा च हेताविति निमित्तपञ्चम्यपि तन्त्रेण बोध्या। एवञ्च शुद्धब्रह्ममो निर्विकारत्वमेव। ऋग्वेदेऽपि वागेव विश्वा भुवना जज्ञे वाचक इत्सर्वममृतं यच्च मर्त्यमिति। आधारान्तरनिराकरणायैतत्। निष्पन्दम्। शून्यम्। पश्यन्त्यां स्पन्दसामान्यमेवास्ति स्पन्दाविशेषस्तु मध्यमायाम्। अनादीति। आदिनिधनरहितं शब्दोपग्राह्यतया शब्दतत्त्वं स्थितिप्रवृत्तिप्रविभागादिशब्देन क्रियते। तच्चाक्षरनिमित्तत्वादक्षरं प्रत्यक्‌चैतन्ये निवेशितस्य परबोधार्थमभिव्यक्तेः अर्थभावेन विवर्तते तत्वादप्रत्युतमेकं भेदानुकारेणासत्यानेकरूपतां नान्नारम्भवादः परिणामवादो वा विवक्षितः किंन्तु विवर्तवादः। यथा रज्जुः स्वयमविकृतैव सती मायया सर्पाकारेण विवर्तते। कारणस्वरूपाविरोधे च कार्यप्रतिभासः। अतो ब्रह्मणो निर्विकारत्वान्न नित्यत्वविरोधः।। 1.48।।

तदेव। शब्दब्रह्मैव। सूतसंहितायामपि।
सोऽहं ब्रह्म न संसारी न मत्तो ऽन्यत्कदाचन।
इति विद्यात्स्वमात्मानं स समाधिः प्रकीर्तित इति।।
निर्विकल्पक्रेति । तत्त्वं च चिन्मात्रविषयकत्वम्।
समाधिस्तुसमाधानं जीवात्मपरमात्मनोः।।
ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मन इति।

योगिनामित्युक्त्या न बुद्ध्या निश्चयात्मिकया हिरण्यगर्भदेवत्या तद्रूपप्रणवरूपत्वेन वोपास्यता दर्शिता। निराधारस्य योपासनासम्भवादाधारोऽप्युक्तवेतनाधिष्ठानमन्तरेणाचेतनानां प्रकाशकत्वासम्भवादधिष्ठातृदेवताकीर्तनम्। व्यानोदानाभ्यामिति। तथा च श्रूयते। अथ यः प्राणापानयोः सन्धिः स व्यानः यो व्यानः सा वागिति। तथा योगशास्त्रेऽपि।
हानोपादानचेष्टादिव्यानकर्मेति चोच्यते।
उदानकर्म तत्प्रोक्तं देहस्योन्नयनादि यदिति।।
शिलष्टव्यक्तेति। व्यक्तवर्णा अव्यक्तवर्णा च साधुश्चेत्यादिकेत्यर्थः। अन्त्यवर्णाभिव्यक्त इति। तदाहुः सकृत्प्रपद्यमानो नावधार्यते अभ्यासेन तु स्फृटावभास इति। प्रथमाक्षरेण हि आभासमात्रं जन्यते तदुत्तरोत्तरवर्णकलापेन तु स्फुटतरपरिच्छेदः। संस्कारविशेषोत्पादनद्वारेणाभिव्यक्तिविशेषस्य रजतत्वादौ दृष्टत्वात्। रूपिता। छुरिता। तथा च व्यञ्जकभेदोपाधिकः स्फोटभेद इति। भावः। जपाकुसुमादीति। तदुक्तं हरिणा।
यथा रक्तगुणे तत्त्वं कषाये व्यपदिश्यते।
संयोगिसन्निकर्षात्तु वस्त्रादिष्वपि गृह्यते।।
यथारक्ते गुणैर्विद्यमानं तत्त्वं रक्तत्वं स्वाश्रयसमवायात्कषाये रक्तद्रव्ये व्यवहियते तथा सम्बन्धिनोः सम्बन्धाद्वस्त्रेऽपि रक्तत्वं व्यवहियते इत्यर्थः। ननु उपसमीपवर्तिनि स्वीयं धर्ममादधातीति उपाधिरिति व्युत्पत्या जपाकुसुमोपाधिको लोहितः स्फटिक इति प्रत्ययो ऽस्तु स्फटिकलौहित्ये जपाकुसुममुपाधिरिति प्रयोगः कथमिति चेत्। सङ्‌क्रामकत्वमेव तत्र सप्तम्यर्थः। समर्पकाः। आपादकाः। समाधत्तेः। सहस्रदीपेति। ननु जपाकुसुमांद्युपाध्यभावेऽपि स्फटिकबोधवत् केवलस्फोटस्यापि व्यक्त्यापत्तिरत आह। उपाधिभिन्नेति। येन क्रमेणेति। ध्वनीसमानाकारैव स्फोटाभिव्यक्तिरिति भावः। चित्तभितौ। चित्तदेशे। ननु टकारव्यञ्जनदशायां घटारस्य नष्टत्वात् कथं तदुत्तरत्वग्रह इत्यत आह। दैशिक एवेति। ननु घटाकारस्फोटस्याभिव्यक्तत्वात्सर्वदा तदर्थबोधापत्तिरत आह। तदुपरगेति। उपरागोऽवभासस्तद्‌बोध्यो यो ऽर्थस्तदाकारा या वृत्तिस्तदतिरिक्तवृत्तिरित्यर्थः। अयम्। स्फोटः। आन्तरत्वादिति। अयम्भावः स्फोटो द्विविधः आभ्यन्तरो वाह्यशअच। तत्राभ्यन्तरो बुद्ध्यनुसंवृत्तिरूपः। वाह्यस्तु जातिव्यक्तिभेदाद्‌द्विविधः। सङ्घातवर्तिनी जातीरेव वाचिकेत्याद्यः। एको ऽनवयवः शब्द इति व्यक्तिस्फोटः।। 1.49।।

व्यञ्जकेति। व्यञ्जकसमानाकारस्यैव व्यङ्गस्य सङ्केतग्रह इत्यर्थः। अर्थबोध इति। अप्रसिद्धपर्यायश्रवणे ऽर्थ बोधो नेत्यर्थः। वायोरिति। कैश्चिद्वायोः कैश्चिच्छब्दतन्मात्रपरमाणूनां कैश्चिज्ज्ञानस्य शब्दत्वमिष्यत इति मतभेदः। तत्र शुद्धाविति समष्ट्यहङ्कारेण ईश्वरो ऽस्तीति भावितवतोऽपि स ईश्वरो द्वितीयेन सङ्केल्पेन छिद्रमभूत् तदाकाशम्। स ईश्वरः पुनः सङ्कल्पान्तरेण तस्मिन्नाकाशे वायुवेगसहायः शब्दरूपेण परिस्पन्दोऽभूत्। वाय्वनुग्रहादेव हि संयोगविभागहेतुर्गतिर्भवति। तथा च कात्यायनसूत्रं शब्दस्तदिति। वाय्वात्मकः शब्द इति तदर्थः। तस्मिन् छिद्रे अन्तरं लब्ध्वा वायोर्वृद्धेरिति स्पष्टं हरिवंशे। आकाशरूपाद्‌कारणन शब्देन स्वगुणन स्पर्शेन च गुणवानिति वेदान्ते। केचिदज्ञानस्य शब्दत्वं वदन्ति।

अथायमान्तरो ज्ञाता वागात्मनि स्थितः।
व्यक्तये स्वस्वरूपस्य शब्दत्वेन विवर्तते।।
इति अन्तः करणमेव मनोवाय्वादिद्वारा शब्दत्वेन विवर्तत इति भावः। पतञ्जल्युक्तेश्चेति। तत्र हि आख्यातोपयोग इति सूत्रं नारब्धव्यमपक्रामति हि तस्माज्ज्ञानं यथा ज्वालारूपे ज्योतिरविच्छेदेनोत्पद्यमानं सन्ततं तथोपाध्यायज्ञानानि भिन्नशब्दपतापन्नानि सन्ततार्नाति स्पष्टम्। प्राणादिरूपस्येति। यद्यपि वाह्यवायावपि शब्दोऽनुभवसिद्धस्तथापि न तस्येहोपयोग इति भावः। चरमाणूनाम्। परमाणूनाम्। आम्नाणीव। आम्नफलानी व प्रचीयन्ते वर्धन्ते। शब्दाख्या इति। ते परमाणवः शब्दाख्याः शब्दनामानो भवन्तीत्यर्थः। वायोः शब्दत्वं हरिरेवाह।
लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना।
स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते।।
वक्तुरिच्छेत्यनेनैकस्यैव वायोरनेकशब्दरूपत्वोपपत्तिरुक्ता। आम्राणीवेत्यस्य पूर्वार्ध तु।
स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः।
इति।।1.50 ।।
  
छायातमसोस्तेजोभावरूपतां तार्किका वदन्ति तान्निराकरोति। छायातपेति। यत्तु तेजोऽभाव एव तमः न हि तस्य गुणाश्रयतास्तीति तन्न। न ह्यस्मन्मते गुणाश्रयो द्रव्यमिति लक्षणमस्ति। किञ्च तमसस्तेजोऽभावरूपत्वे रूपादावप्यन्धकाप्रत्यक्षापत्तिः। अणव इति। परमाणव एव सर्वशक्तिमत्वाद्भेदसंसर्गरूपा वृत्तिर्येषां कार्यभेदस्य सम्बन्धमाधातुं प्रवृत्ताः शब्दादिरूपेण परिणमन्त इत्यर्थः। परमाणूनां विलक्षणसम्बन्धाद्विभिन्नकार्योत्पत्तिरिति भावः। ननु दुग्धपरमाणुजन्यत्वस्य दध्नः स्वीकारे दध्नोऽपि दुग्धत्वापत्तिरतस्तज्जनकपरमाणूनां भेद एवोचित इति चेन्न। शक्तिभेदादेव कार्यभेदात्। यत्तु द्रव्यत्वव्याप्यजातिः परमाणौ नास्तीति तार्किकाः तन्ना। तथा सति द्रव्यात्वव्याप्यं यन्मूर्तत्वं तद्व्याप्यस्य पृथिवीत्वादेरपि तत्रानापत्तेः। वक्तृज्ञानस्येति। घट इति जानामीत्यादौ ज्ञानशब्दयोरभेददर्शनादिति भावः। आत्मा बुद्ध्येति । सः । वायुः। उदीर्णः। उद्रतः। वक्रमिति। शिरः कपालेनावष्टब्ध ऊर्ध्वगतिमभामानस्ततः प्रत्या वृत्त्या वक्रमेव प्राप्येत्यर्थः। सङ्गीतरत्नाकरेऽपि।
आत्मा विवक्षमाणे हि मनः प्रेरयते मनः।
देहस्थं वन्हिमाहन्ति स प्रेरयति मारुतम्।।
ब्रह्मग्रन्थिस्थितः सो ऽथ क्रमादूर्ध्वपथे चरन्।
नाभिहृत्कण्ठमूर्धास्येष्वाविर्भावयति ध्वनिमिति।
विवक्षमाणः वक्तुमिच्छन् आत्मा अन्तः करणं मनस्संज्ञकं प्रोरयति तं मनः देहस्थमग्नरिं ताडयति स वह्निर्वायुं प्रेरयति स वायुरुर्ध्वं गच्छन् आघातेन मुखादिषु ध्वनिं जनयति। असङ्गोह्ययं पुरुष इति श्रुतेरकर्तृस्वरूपस्यात्मनः प्रयोजकत्वासम्भावादाह। अन्तः करणमिति। अन्तः करणपरिणामपरावृत्तिरूपा बुद्धिरिति भावः। वाक्यविषयस्यान्तः करणगतत्वाभावादाह। संस्काररूपेणेति। एतदभिप्रायेणैव सूक्ष्मरूपेणावस्थानमित्युच्यते। एकाङ्गुलं देहमध्यमग्निस्थानं ततो नवाङ्गुले चतुरङ्गलो देहस्य कन्द इति ब्रह्मग्रन्थिरिति चोच्यते। उद्यन्। उद्रच्छन्।। 1.51 ।।

उच्चिरितेति। क्रममोत्पन्ना अपि वर्णा यदि तिष्ठेरन् तदा स्यात्पौर्वापर्यमत उक्तं। प्रध्वस्तानामिति। उच्चरितप्रध्वंसित्वं चोच्चारणाधिकरणकालोत्तरकालवृत्तिध्वंसप्रतियोगित्वाम्। नष्टविद्यमानयोः सम्बन्धम्भवात्सन्निकर्षो न सम्भवति नापि संहितेति भावः। ननु पूर्वाकालोत्पन्नः पूर्वः परकालोत्पन्नः पर इति न कथं चित् पौर्वापर्यम्भव इति चेत्सत्यम्। यदि कालिकं पौर्वापर्य गृह्येत तदा पूर्वापरयोर्युगपत्थिभावादिको यणचीत्यादिसंहिताकर्यासम्भवः। बुद्धिकल्पित एव सर्वः पौर्वापर्यासन्निकर्ष इत्याह । बुद्धौ कृत्वेति। बुद्धौ अन्तः करणे । चेष्टाः ।शब्दन् कृत्वा। प्रतिविम्बतान् कृत्वा। अन्तः करणस्य स्वच्छतया वा स्वशब्दरूपापत्त्यान्तः करणवृत्तित्वेन प्रतिभानादिति भावः। शब्देन सब वाच्यानर्थान् बुद्धिरूपे देशे दृष्ट्वा तत्रैव पौर्वापर्यव्यवहारं कुर्यादित्यर्थः। तत्त्वन्नीतिरिति। तननं तत् सा अस्ति यस्या सा तत्वन्ती सकलविषयव्यापिनी एतादृशी नीतिर्बुद्धिर्यस्य सतत्त्वन्नीतिः। कच्चित्तन्वन्नीतिरिति पाठः । तत्र तन्वती सकलविषयव्यापिनी बुद्धिर्यस्येत्यर्थः। भाष्यकारः कारिकार्थमाह। बुद्धिविषयमिति । तदेवोपपादयति। य एष इति। सदसद्‌विवेचनी बुद्धः प्रेक्षाबुद्धिः। अन्तः करणे इति। अन्तः करणमेव निश्चयरूपवृत्तिदशायां बुद्धिसंज्ञां लभतो प्रतिबिम्बतानिति। अन्तः करणवृत्तित्वमप्रतिभातानित्यर्थः। तत्रैव। बौद्धशब्दे एव। बुद्धिपौर्वापर्यस्य निराकरिष्यमाणत्वादाह। बुद्धिस्थेति। वक्त्रुद्देशेनैवेति। वक्त्रुबुद्धस्थमुद्दिश्यैवेत्यर्थः। वाह्यशब्दे प्रक्रियाया असम्भवादिति भावः। तस्यैव। वक्तुरेव। धर्मफलश्रवणादिति। शास्त्रफलधर्मश्रवणादित्यर्थः। एतदर्थमिति। शब्दप्रयोगस्यार्थविशेषनियन्त्रितत्वाद्बुद्धौ अर्थदर्शनमप्युक्तमित्यर्थः। उपलक्षणमिति। पूर्वोक्तस्य बोध्यबोधकभावस्यापीत्यर्थः। अयमितीति। बुद्ध्थुपरूपठत्वेनैव श्रवणीयं यत्सूक्ष्ममुच्चारणं तेन व्यङ्ग्यः शब्दो भाष्यस्थेनेदंशब्देन परामृश्यत इत्यर्थः। अन्यथेति। बौद्धशब्दपरामर्शे इत्यर्थः। परेति। वरबोधानुकूलोच्चारणेन व्यञ्जनांय इत्यर्थः। व्यञ्जनीये इति। वर्णानां शब्दव्यञ्जकत्वमेवेति भावः। तद्वदेवेति। वर्णवदेव वर्णबुद्धिनामप्यनित्यतया प्रत्यक्षपरामर्शकेनेदंशब्देन विषयीकरणासम्भवादित्यर्थः। मन्मते तु व्यङ्ग्यशब्द इदमा परामृश्यत इति भावः। ननु इकारादीनां बुद्धिस्थात्वे कथं तस्य यकाराद्यादेशबुद्धिरत आह। प्रकृतिविकृतिभावोऽपीति। सत्कार्यवादे कार्यकारणयोरभेदबुद्धिस्थत्वेन रूपेण प्रकृतित्वं वाह्यरूपेण विकृतित्वं तथेहापि स्यष्टमिति कार्थविपरिणामादिति तत्र समाहितत्वात् । कार्या बुद्धिः तस्या विपरिणाम इत्यर्थः।
अयं च शब्द इति। ध्वनिव्यङ्गतया वाचकत्वेन स्वीकृत इत्यर्थः। समष्टेरिति। वनमित्याकारिका एकताबुद्धिः समष्टिः मायादिभुवनान्तविराट्‌पुरुषस्य शरीरं स्थूलदेहसमष्ट्या विराडुच्यते विराजो हृदयदेश एव ह्यकाश उच्यत इत्यर्थः। देशस्थाश्चेति। व्यापकत्वादुभयदेशस्य इत्यर्थः। सचेति। शब्दश्चेत्यर्थः। यथैकत्रेति। यत्र तु भिन्नावयावावच्छेदेन रूपभेदस्तत्र रूपमव्याप्यवृत्त्येवेति भावः। एतेन तदर्थं चित्ररूपस्वी कारोऽपास्तः।
लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः।

इति स्मृतिविरोधात् । किञ्चैवं सुरभ्यसुरभिकपालारब्धघटस्य निर्गन्धत्वमेव वाच्यम्। तथा च गन्धम्प्रति पृथिवीत्वेन हेतुत्वस्य व्यभिचारः। तथेति। रूपादिवच्छब्दस्यापि व्याप्यवृत्तित्वं न्याय्यम्। यथा हि व्यापकस्यापि रूपस्य चक्षुस्संयोगप्तमानाधिकरण्स्यैव प्रत्यक्षमेवं देशान्तरे शब्दप्रत्यक्षतेति भावः। इन्द्रशब्द इति। मीमांसकश्चैवतुर्थ्यन्तर्थ्यन्तशब्दातिरिक्तया देवताया अस्वीकारात्। शाब्दिकमतेऽपि शब्दर्थयोरभेदाद्देवतारूपत्वं मन्त्रस्य विग्रहवत्त्वं स्वीकृत्य तु देवतानां कर्मानधिकार उक्त उत्तरमीमांसायां शब्दानामर्थपरत्वस्यौत्सर्गिकत्वात्प्रयोगसमवोतार्थस्मृतावेव तात्पर्यं नाज्ञातदेवताविग्रहादावपीति तु मन्त्राधिकरणस्याशयः । भाष्यादिति। जातीरेव शब्दार्थ इत्युपक्रम्य एक एवेन्द्रशब्दः सर्वेषु यागेषूपकरोतीत्युक्तत्वात्। एतच्च शब्दस्य व्यापकत्वं एव युज्यते। कत्वादिनेति। ध्वनिगतकत्वादेस्तवारापात्। पदारूपेणेति। पदे वर्णाभावाद्‌बुद्धिपरिकल्पतपदत्वमिति भावः। भाष्ये कथमिदं स्पष्टमत आह। तत्तर हीति। श्रोत्रोपलब्धिरिति। श्रोत्रो एवोपलब्धिर्यस्येत्यर्थः। श्रोत्रोपलब्ध्या च शब्दस्याकादेशत्वं प्रतिपादितम्। कर्णशष्कुल्यवच्छिन्ननभस एव श्रोत्रत्वादाकाशदिशो नातिरिक्तत्वमित्याभिप्रायेण देशशब्दप्रयोग आकाशे बोध्यः। यदि तु शङ्खादीनामेव गुणः। स्यात्तदानिष्टक्रियस्य शब्दस्य श्रोत्रपर्यन्तं गमनं न सम्भवति श्रोत्रस्य वा तत्पर्यन्तं गमनं न सम्भवतीति श्रोत्रसम्बन्धाभावात्प्रत्यक्षं न स्यात्। भाष्यस्थविशेषणत्रयेण रूपत्रयं दर्शयति। तत्रेत्यादिना। तार्किकमतं दूषयति। अन्यथेति। कदम्बपुष्पवत् दशदिक्‌सञ्चारिणो दश शब्दा उत्पद्यन्ते ते च श्रोत्रेण सम्बद्धा गृह्यन्त इत्यर्थः। आदिना वीचीतरङ्गन्यायः । तद्यथा वीचिः प्रथममुत्पन्ना वीच्यन्तरं जनयति एवं शब्दो ऽप्याद्यः शब्दान्तरं जनयति, तदपि शब्दान्तमित्येवं श्रोत्रसम्बन्धो भवति। तत्प्रत्यक्षानुपपत्त्येति। आद्यशब्दस्य श्रोत्रसम्बन्धामावादिति भावः। ननु एकशब्देत्वे अतिदूरस्थस्यापि प्रत्यक्षापत्तिरत आह। तत्रेति। यथा तार्किकमते अतिदूरपर्यन्तं न शब्दोत्पत्तिस्तथास्मान्मते ऽभिव्याक्तिरपि नेत्यर्थः। अत एव । शब्दस्य व्यापकत्वादेव । स्वं श्रोत्रं तेन श्रोत्रेण।। 1.52 ।।

शब्दाश्रयतयातिरिक्तंद्रव्यमाकाशमिति तार्किकमतं निराकरोति । न चेति। असिद्धेरित्यत्र हेतुमाहास्पर्शेति । स्पर्शवतः पृथिव्यादिचतुष्टयस्य विशेषो वायुस्तस्य गुणः शब्द इत्यर्थः। पृथिव्यामनुष्णाशीतस्पर्शस्वीकारस्तु त्वाचप्रत्यक्षे स्पर्शस्य हेतुत्वानुरोधात्। अत्र वैशेषिकाः । शब्दो न स्पर्शवतो विशेषगुणः. अग्निसंयोगासमवायिकारणक्तवाभावे सत्याकारणगुपूर्वककत्वात्, यो हि पृथिव्यादेर्गुणः सोऽग्निसंयोगजन्यः , अथवा समवायिकारणगुणपूर्वकः न च शब्दस्तथा। नापि वायुगुणः आश्रयनाशजन्यनाश्रप्रतियोगतित्वाभावादिति वदन्ति। तान्निराकरोति। न चायावद्‌द्रव्येति। सकलद्रव्यम्, तथाच पृथिव्यादिगुणस्य स्वाश्रयमात्रवृत्तितयान्यत्र प्रत्यक्षानापत्तिरित्यर्थः। तादृशेति। गुणिनिष्ठत्वमेव पृथिव्यादिगुणस्येति नियम इत्यर्थः। अनङ्गीकारादिति। पुष्पसौरभस्य वायुनानयनदर्शनात्। न च तत्र पुष्पावयवो ऽप्यायातीति वाच्यम्। पुष्पस्य लघुत्वापत्तेः। आश्रयात्। वायोः । अन्यत्र। आकाशे। यावद्‌द्रव्यभावित्वमिति हि तार्किकाणां प्रसिद्धिस्ततश्चाश्रयादन्यत्रेत्यक्षरास्वारस्यम्। भाष्यस्थविशषणत्रयेण रूपत्रयं दर्शयति। कदम्बपुष्पवद्दशदिक्‌सञ्चारिणो दश शब्दा उत्पद्यन्ते ते च श्रोत्रेण सम्बद्धा गृह्यन्त इत्यर्थः। आदिना नीचीतरङ्गन्यायः। तद्यथा वीचिः प्रथममुत्पन्ना वीच्यन्तरं जनयत्येवं शब्दो ऽप्याद्यः शब्दान्तरं जनयति तदपिशब्दान्तरमित्येवं श्रोत्रसम्बन्धो भवति तत्प्रत्यक्षानुपपत्त्येत्याद्यशब्दस्य श्रोत्रसम्बन्धाभावादिति भावः। नन्वेकशब्दत्वे ऽतिदूरस्थस्यापि प्रत्यक्षापत्तिरत आह।तत्रेति। यथा तार्किकमते ऽतिदूररपर्यन्तं न शब्दोत्पत्तिस्तथासमन्मते ऽभिव्यक्तिरपि नेत्यर्थः। तवापीति। देशान्तरे उत्पन्नस्य शब्दस्या देशान्तरे उत्पन्नस्य शब्दस्य देशान्तरे ऽप्युपलम्भात्तार्र्किकाणामपि गुणमात्रानिष्ठत्वनियमो नेत्यर्थः। द्रव्यग्राहकेति। चक्षुषा घटग्रहणानन्तरं संयुक्तसमवायेव तद्रगुणप्रत्यक्षाद्‌गुणिनोः समानेन्दियग्राह्यत्वमेवेत्यर्थः। स्ववासनेति। श्रोत्रेणाकाशस्याग्रहणेऽपि तद्गुणस्य शब्दस्य ग्रहणादिति भावः। आकाशदेश इति। आकाशदेशावच्छेदेत्यर्थः। आधारशक्तिरिति। अस्य पूर्वार्धं तु।
आकाशमेव केषां चिद्देशभेदप्रकल्पनात्।
इति। केषां संयोगिभेदेनाकाशस्य नानात्वादाकाशमेवावाधिकरणमित्यर्थः। सर्वसंयोगिनामिति। अयम्भावः। यथा नक्षत्रादीमधिकरणमाकाशं तथा पृथिव्यदिस्थानां रथादीनामपि मुख्याधिकरणमाकाशं, समवायिनां तु स्वाश्रयद्वारा परमाणौ विश्रामः, परमाणूनां चाकशमेवाधिकरणमित्यमाकाशः सर्वेषामाधारशक्तिमान्। अत्रैव लोकप्रसिद्धिमपि प्रमाणयति। इतमत्रेतीति। इह प्रक्षी नेह पक्षीति प्रतीत्या आकाशस्यैवाधारत्वात्। यत्तु आकाशस्यातीन्द्रियतया इह नक्षत्रमिति प्रतीतेर्विषय आलोक एवेति तन्न। इहालोक इति प्रतीत्यनापत्तेः। व्यपदेश इति । अयं यो व्यवहारस्तस्य निमित्त्माकाशमित्यर्थः। आकाशस्य सर्वाधारत्वं यदुक्तं तत्सिद्धविषयं साध्यस्वभावविषयं तु कालस्याधारत्वामित्याह। कालदिति। काल एव क्िरियाया भेदक इत्यर्थः। कालाकाशादिभेदो व्यवहारिक एव वास्तविकस्त्वभेद एव। निबन्धनम्। निमित्तम्। विभज्यते इति। भेदेन व्यवहृयत इत्यर्थः। सर्वमूर्तयः। सर्वपदार्थाः। पदार्थसत्तासत्तयोर्विभाजक आकाश एवेत्यर्थः। निर्दिष्टेति । निर्दिष्टं यन्नक्षत्रादि तन्निरूपितमाधारत्वं पृथिव्यादेर्न सम्भवतीत्यर्थः। सर्वाधारत्वं घटयति। एवं चेति। पृथ्व्यादीनामेव परम्परया परमाणौ विश्रान्तिः परमाणूनां चारधार आकाश एवेत्यर्थः। इमदिति। पूर्वाक्तव्यवहारसिद्धमित्यर्थः। साध्यस्वभावेत्यस्य विवरणे क्रियेति। जन्मस्थितीति। आद्यक्षणसम्बन्धो जन्म तत्र काल एव निमित्तमित्यर्थः। निरोधो नाशः।
आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः।।

इति। केचित्क्रियात्मकं कालमिच्छन्ति तान्नराकरोति। क्रियाधार इति। अयं घटो भवतीत्यादिप्रतीत्या कालस्यैवावारत्वं न तु सूर्यपरिस्पन्दादेः सूर्यनिष्ठस्य तस्याधारत्वासम्भवादिति भावः। मूर्तिशब्दस्य मूर्तधर्म एव तार्किकाणां प्रसिद्धित्वादाहामूर्तिमिति। व्यावहारिक एवेति। अत एवोक्तं दीधितौ दिक्वालौ नेश्वरादतिरिच्येते मानाभावादिति। इदानीं घटस्तदानीं घट इति व्यवहारभेदस्तु भवतामिव ममाप्यौपाधिक इति भावः। ईश्वर एवेति। श्रोत्रमिति। कर्णशष्कुल्यवच्छिन्न ईश्वर एवेति भावः। कार्यमात्रं प्रति ईश्वरस्य चेश्वरे शब्दसमावायस्वीकारे मनस्संयुक्तेश्वरसमवायसत्त्वात्तन्मसापत्तिरिति वाच्यम्। पककीयज्ञानादिप्रत्यक्षवारणाय वपिजातीयसंयोगस्य हेतुतया ईश्वरो तदभावात्। न चाकाशशरीरं ब्रह्मेति श्रुतेराकाशस्यातिरिक्तत्वाभावे कथं ब्रह्मणोऽवस्थानमिति चेत्सत्यम्। यथाकाशान्तराकाशस्य स्थितिरेवं ब्रह्मणोऽपि। श्रुतौ तु आकशवच्छरीरमस्येति विवक्षितम्। अखण्ड इति। क्षणमासादिरूपस्तु कालो व्यवहारभेदान्यथानुपपत्त्या औपाधिकः कल्प्यत इति भावः। खण्डनमिति। क्षणातिरिक्तोऽखण्डः कालो नास्तीत्यर्थः। सर्वेति। सर्ववस्तुन आधारो यआकाशस्तदधिकरमक्तवादित्यर्थः। अथवा आकाशरूपो देशः सर्ववस्तुन ाधारभूत इत्यतः शब्दस्यापि तद्देशत्वमित्यर्थः। कर्णशष्कुल्यवच्छिन्नेति। आकाशगुण्तवादाकाशरूपश्रोत्रसम्बद्धस्यशब्दस्य ग्रहणं सिद्धिमित्यर्थः। तत्तद्‌भूतेति। तत्तदिन्‌रियात्मकतत्ताद्‌भूतेत्यर्थः। एवम्। शब्दस्याकाशाधर्मत्वेसत्येवाकाशात्मकश्रोत्रसम्बद्धग्रहणं सम्भवतीत्यर्थः। अत्र बौद्धाः चक्षुर्गोलकादौ सतिघटाद्युपलम्भाद्रोलकमेव चक्षुरादीत्याहुः ।तत्र सांख्याः गोलकं नेन्द्रियं तस्य घटादिदेशे गमनासम्भवात् किं तु तदतिरिक्तम्। तच्च न भौतिकम्। चक्षुषा हि न्यूनपरिमाणं न चाप्यग्रहणं गृह्यते। न च न्यूनेन महतो वायपनं सम्भवति न चाप्यग्रहण सम्भवति अत आहङारिकाणीन्द्रिन्यामीत्याहुः। एतच्चेद्भूतविकारत्वश्रुतिविरुद्धम्। गोलकनिष्ठा शक्तिरिन्द्रियमिति मीमांसकोक्तिरप्ययुक्ता। गोलकविरहिणां सर्पादीनामपि शब्दानुभवात्। अणुत्वमप्ययुक्तम्। स्रवशरीरव्यापिशौत्योपलम्भात्। विभुत्वे सर्वेषां युगपद्गुहणप्रसङ्गान्मध्यमपरिमाणम्।। 1.53 ।।

तन्न श्रोत्रमिति। श्रोत्रस्य नभोरूपत्वे रोगादिना नाशो न स्यादित्यर्थः। लाघवेनेति। धर्मिकल्पनायामुभयकल्पने गौरवादिति भावः। नभोधिष्ठानकेति। कर्णशष्कुल्यवच्छिन्ननभोनिष्ठेत्यर्थः। धर्मविशेषेति। शब्दग्रहमयोग्यर्थः। आहङ्कारिकस्येति। सात्विकाङ्कारदिन्द्रियाणीति सांख्यमते इन्द्रियाणां स्वाधिष्ठानभूतवृत्तिगुणग्राहकत्वात् श्रोत्रोपलब्ध्या लब्दस्यकाशदेशत्वम्। घ्राणादीति। नासिकावच्छिन्नवृवीधर्मो प्राणमित्यादिरीत्येत्यर्थः। यत्तु गन्धग्राहकत्बाद्‌घ्राणं पार्थिवमिति तार्किकास्तन्नेत्याह। आहहङ्कारिकाण्येवेति। अयम्भावः घ्राणादिना व्यूनपरिमाणेन महापरिमाणं गृह्यते न महतो व्यापनं सम्भवति अव्याप्यग्रहणे चातिप्रसङ्गस्तस्माद्‌भौतिकादतिरिक्तमिन्द्रियमिति। अत एवेति। घ्राणस्य पार्थिवत्वेन देशान्तरे गमनाभावात्प्रत्यक्षं न स्यादित्यर्थः। तावद्देशेति। अत एव गोलकमेव च क्षुरिति बौद्धमतमपास्तम्। अहङ्कारो ऽहमिति प्रथमाध्यासः स्वप्नावस्थायां नस्य व्याघ्रत्वाभिमाने सति न नरो ऽहमित्यभिमानो भवति अतस्तन्नियमाय नियतविषव्यापकोऽहङ्कारः स्वीकार्यः स च बुद्धितत्त्वस्य परिणामः। जाग्रत्स्व प्नसुषुप्तिषुश्वासप्रश्यवासदर्शनात्सव्यापारं यदनुवर्तते तद्‌बुद्धितत्त्वम्। अन्तः करणपरिणामत्वादिति । मनोबुद्धिरहङ्कारश्चित्तं चेति चत्वारि अन्तः करणानि गर्वरूपवृत्तिविशेषादहङ्कारसंज्ञां लभन्ते।तद्विकारेति। अन्तः करणविकारो यो ऽहङ्कारस्तद्विकाराणामिन्द्रियाणामित्यर्थः। ननु न योगीन्द्रियाणां दूरदेशगमनं किन्तु योगजधर्म एव प्रत्यक्षे सहकारीत्याशङ्क्याह। योगस्त्विति। तमोनिवर्तक इति। सुषुप्तौ तमसो वृत्तिप्रतिबन्धकत्वदर्शनात्। ततश्च योगिनामपि इन्द्रियसम्बन्धादेव प्रत्यक्षभूतभविष्यतोरपि सूक्ष्मावस्थासन्निकर्षेण प्रत्यक्षम्।इन्द्रियाणामन्तर्बहिर्भावस्य व्यवस्थितानां स्थिरा अविचालिनो धारणैकाग्र्यलक्षणो योगः। नन्विन्द्रियाणां गुमाश्रयत्वे चक्षुरादिना गन्धादीनामपि प्रत्यक्षापत्तिरत आह। तत्तद्‌गुणेति। श्रोत्रग्राह्यस्य शब्दस्याश्रय आकाशः शब्दश्चनुभूत इति न सर्वदा प्रत्यक्षं किं तु श्रोत्रशब्दयोः सम्बन्धे सति प्रत्यक्षमित्यर्थः। अनुद्भूत इति।तेन चक्षुरादौ न रूपादिप्रत्यक्षम्। ननु घ्राणस्य सम्बन्धो योगो द्रव्ये ऽस्ति न तु गन्ध इत्यत आह। सामानाधिकरण्यदिति। श्रोत्रमेवेति। अन्तः करणमेवेन्द्रियद्वारा विषयदेशे गत्वा गृह्णातीत्यर्थः।तीर्किकमते मनः संयोगस्यापि ज्ञानहेतुत्वादुक्तं चित्तवृत्तीति। एतन्मते वृत्तिवेरेन्द्रियसन्निकर्षः । अत एवेति। यदि हि श्रोत्रदेशे एव प्रत्यक्षं स्यात्तदा ग्रामान्तरे शब्दः श्रूयत इति प्रतीतिर्न स्यादित्यर्थः। यद्यपि कर्णशष्कुल्यवच्छिन्ननभोरूपश्रोत्रस्य देशान्तरगमनं न सम्भवति तथापि श्रोत्रं परिच्छिन्नपरिमाणमित्युक्तमेव। वीचीतरङ्गादिन्यायेन श्रोत्रगतं शब्दान्तरं गृह्णत इति तु न युक्तम्। भेरीशब्दो मया श्रुत इत्यनुभवविरोधात्। भ्रमादिकल्पने बीजाभावात्। सर्वशक्तीनाम्। सर्वशक्तियुक्तानाम्। नभ आदीति। नभः परमाणूनामेव शब्ददेशे श्रोत्रत्वेन परिणाम इत्यर्थः। परमाणूनामिति। तत्तदिन्द्रियरूपेण परिणामादित्यत्रान्वयः । ननु परमाणूनामेवेन्द्रियत्वे असन्निकृष्टस्यापि प्रत्यक्षापत्तिरत आह। विषयदेशेति। प्रत्यक्षविषयदेशेत्यर्थः।। 1.54।।
क्रमेण दूषयति। किञ्चेति। ननु श्रोत्रस्यैकत्वे दूरवर्तित्वानुभवो न स्यादत आह। सव्यापीति। अभिव्यक्तिरेव दूरदेशं व्याप्नोतीत्यर्थः। ननु सकलदेशस्थस्य शब्दस्यैकत्वे तत्र जात्यभावादाकृतिर्गृह्यत इति भाष्यासङ्गतिरत आह। यथा चेति। नभसो जन्यत्वं तैत्तिरीयके प्रसिद्धम् । छान्दोग्ये तु नित्यत्वमुक्तम्। विरोधपरिहारो गौणमुख्यव्यपदेशाभ्यां शारीरकभाष्ये व्यक्तः। जीवेश्वरेति। अन्तः करणसाहित्याभ्यां जीवेश्वरयोर्भेदात्। औपाधिकमिति। ध्वनिगतभेदस्य वर्णेष्वारोपात्। आकृतिग्रहणादिति। अइउण् इत्यादावकाराद्याकृतिर्गृह्यत इत्यर्थः। अन्यथा। सकलसादृश्यग्रहणे । तैरेन । वर्णैरेव। किं तेोन। किं स्फोटेन। सर्वस्येति। अगृहीतसङ्केतस्यापीत्यर्थः। यदीति। स्फोटस्य बोधको यदि वर्णसमुदायस्या सो ऽर्थस्यैव बोधको ऽस्तु किं स्फोटेन, यदि च स न स्फोटबोधकस्तदा अज्ञातस्य स्फोटस्यार्थबोधकत्वासम्भवात् स्फोटो व्यर्थ इत्यर्थः।। 1.55।।

अगृहीतेति। सङ्केताग्रहेऽपि पदत्वानुभवादित्यर्थः। अवर्णादीनामिति। सर्वत्राकारो विभुत्वादेक एव एवं वर्णान्तरमपीत्यर्थः। तदवयवकेति। आकारादिघटितपदस्यापि नित्यादित्यर्थः। नन्वकारादेर्नित्यत्वे सर्वदा तदुपलभम्भः स्यादत आह। कण्ठताल्वादीति। देशभेदे ऽपीति। यथा ऊर्ध्वधोदेशावच्छिन्नस्याकृतिविशेषस्य संस्थानतया प्रतिव्यक्ति देशभेदेऽपि न संस्थानभेद एवं पदे कालघटितानुर्व्या न भेद इत्यर्थः। प्रत्यक्षप्रत्यभिज्ञानात्। सोऽयं ककार इति प्रतीतेः।। 1.56।।

व्यतिरेके। अभावे। ननु वर्णानां विभुत्वनित्यत्वे च घकारे तादृशाव्यवहितोत्तरक्षणोत्पत्तिकत्वरूपानुषूर्वो कथमत आह। अव्यवहितोत्तरत्वेति। स्वज्ञानेति। उत्पत्त्यनवच्छिन्नोति। ननु तृतीयक्षणे ज्ञानस्य नाशात्तृतीयादिवर्णाधिकरणकालस्य कथं पूर्वज्ञानवत्त्वमत आह। ज्ञानानामपीति। अयम्भावः धारावाहिकबुद्धिस्थले न ज्ञानभेदः किन्तु यावद्धटस्फुरणं तावद्धटाकारान्तः करणवृत्तिरेकैव न तु नाना। स्वविरोधिवृत्युत्पत्तिपर्यन्तं वृत्तेः स्थिरत्वाभ्युपगमात्। तत्फलितचैतन्यं घटादिज्ञानात्मकमपि तावत्कालिकमेवेति। किञ्च ज्ञानधाराकल्पने अनधिगतार्थविषयकज्ञानत्वं प्रमात्वमिति लक्षणस्याव्याप्तिः।। 1.57।।

योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नविभुविशेषगुणनाश्यत्वमिति तार्किकपरिभाषां निराकरोति। शब्देति। यथा द्वित्वप्रत्यक्षानुरोधादपेक्षावुद्धेः क्षणत्रयावस्थायित्वं तार्किकैरपि स्वीक्रियते तथेहापीति भावः। इदानीमिति। इदानीं जानामीदानीर्मुच्चारिता इति सम्बन्धः। अन्यथेति। इदानीं जानामीत्यादेरेतत्‌क्षणावच्छिन्नज्ञानवानहमित्यादिरर्थः। तथाच क्षणस्येव तन्मात्रवृत्तिज्ञानादेरपि प्रत्यक्षं न स्यादित्यर्थः। यावता समयेन चालितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसम्पद्येत स कालः क्षण इति पातञ्जलभाष्यम्। तस्य च क्षणस्यातिसूक्ष्मत्वादतीन्द्रियत्वम्। निमेषस्य चतुर्थो भागः क्षण इति टीकाकृतः। कर्म तज्जनितविभागादिश्च तदुपाधिः । तदुक्तं बल्लभाचार्य्यै।

रवेः स्पन्दक्षणस्तस्य नानाक्षणविशिष्टता।
क्रमो नानाविधोपाधिसम्बन्धः परिकीर्त्यते।।

इति। विभागप्रागभावाद्युपाधिविशिष्टो रवेः स्पन्दः क्षणः केवलस्पन्दस्यानेककालवृत्तित्वादित्यर्थ इति वर्धमानः। ननुरविस्पन्दे कथं क्षणचतुष्टयस्थायित्वव्यवहारः स्वस्य स्वावृत्तित्वादत आह। तस्येति। क्रमवद्धिभागाद्युपाधिचतुष्कसम्बन्धात्तत्र क्षणव्यवहार औपचारिक इत्यर्थः। यत्तु क्रियात्मक एव काल इति तन्न। महाप्रलये क्रियाभावेन महाप्रलयोत्पात्तिव्यवहारानापत्तेः। परस्य त्विति। परमते तूक्त्यैव व्यक्तिभेदेनैवासम्भवात्सो ऽयमिति प्रतीतिर्न स्यादिति भावः। गत्वावच्छिन्नेति।भिन्नव्यक्तौ तु ततत्द्‌व्यक्तित्वावच्छिन्नप्रतियोगिताक एव भेदोऽस्ति न सामान्यधर्माबच्छन्नप्रतियोगिताको ऽपि गकारत्वस्य तत्रापि सत्त्वादिति भावः। द्वयोर्घटयोरिति। तत्रापि घटत्वेन रूपेण भेदाभावादिति भावः। व्यक्तिविषयकत्वे इति। भवन्मते जातिविषयप्रत्यभिज्ञा स्यादिति भावः। श्यामो नष्ट इति। रूपनाशे धर्मिणोऽपि नाशव्यपदेशात्। जिह्वासंयोगादीनां ध्वनिहेतुत्वं दर्शयति। वर्णोच्चारणेति। यत्र जिह्वासंयोगाद्वर्णास्य नाभिव्यक्तिस्तत्र धवन्युत्पत्तिदर्शनाद्वर्णस्थले ऽपि ध्वनिः स्वीकार्य इत्यर्थः। तज्जनकत्वेति। ध्वनिजनकत्वेत्यर्थः। वर्णेत्पत्ताविति। वर्णोत्पत्तिस्थले ध्बनेरनङ्गीकारे तादृशजिह्वासंयोगादीनां ध्वन्युत्पत्तिप्रतिबन्धकत्वं च कल्पनीयं स्यादित्यर्थः। तत्सत्वेति। ध्वनिस्वीकारेत्यर्थः। तत्तत्रारोप्यत इति। वायुसंयोगनिष्ठमुत्पत्त्यादिकमारोप्यत इत्यर्थः। शब्दं कुर्विति। अत्रापि ध्वनिगतोत्पत्तेः शब्दे आरोप इत्यर्थः। ननु गुणचाक्षुषे चक्षुःसंयुक्तसमवायस्य हेतुतया तदभावात्कथं लोहितः स्फटिक इति प्रत्यय इत्यत आह। आरोप एवेति। परम्परामेव दर्शयति। उक्त इति। लोहितः स्फटिक इत्यत्र लौहित्यसमवायिनी या जपा तत्संयोगः स्फटिके। वर्णेष्वप्युत्पत्त्यादिरारोप्यत एव न तु परम्परयेत्याह। वस्तुत इति। रसो रूपवानिति रससमवायिसमवेतत्वस्य रूपे सत्त्वात्। अनियामकत्वादिति। एतेन विशिष्टप्रतीतिनियामकविशेपत्वं सम्बन्धत्वमित्य पास्तम्। किञ्जेति। प्रथमोपलम्भवत्त्वेनोत्पत्तिव्यवहार इत्यर्थः। इत्येव प्रत्ययादिति। उत्पादयतीति प्रतीत्यभावादिति भावः। ननूच्चारणे नित्यत्वापत्तिरत आह। उच्चारितत्वं चेति। स्त्रीशुकेति। स्त्रीशुकाद्युच्चारितत्वानुमापकमित्यर्थः। तज्जन्यतावच्छेदकेति। स्त्रीशुकादिनजन्यतावच्छेदकेत्यर्थः। तदाश्रयत्वादिति। तारत्वाद्याश्रयत्वाच्छब्दस्य द्रव्यत्मित्यर्थः। नन्वेवं शब्दस्य गुणत्वव्यवहारः कथमत आह। आकाशरूपेति। परैस्त्विति। एतस्य वक्तुमशक्तयमित्यत्रान्वयः । मानान्तरेणेति। प्रत्यक्षेण नाशदर्शनादित्यर्थः। गत्वास्यैवेति। प्रत्यक्षविषयताया उत्पादादिति भावः। तदग्रहेति। उत्पत्त्यग्रहेत्यर्थः। विपरीतग्रहः ।नित्यत्वग्रहः । तदग्रहेति। उत्पत्त्यग्रहेत्यर्थः। विपरीतग्रहः। नित्यत्वग्रहः। प्रत्यस्याद्यगम्यत्वात्कथं धर्मस्य बुद्धिरित्याशङ्क्योक्तम्। औत्पत्तिकस्त्विति। औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थे ऽनुपलब्धेस्तत्प्रमाणं बादरायण्सयानपेक्षत्वादिति सूत्रम्। अस्यार्थः शब्दार्थयोः सम्बन्ध औत्पत्तिकः उत्पत्तिर्भावस्तेनावियुक्तो नित्यः ज्ञायते ऽनेन ज्ञानमुपदिश्यते ऽनेन उपदेशः तस्य धर्मस्य ज्ञाने निमित्तमुपदेशो विधिवाक्ये शब्दो ऽस्य ज्ञानस्यार्थो ऽव्यतिरेको व्यभिचाराभावः प्रकारान्तरेणानुपलब्धेस्तद्विधिवाक्यं धर्मे प्रमाणं ज्ञानान्तरे तस्यानपेक्षत्वात् बादरायणस्यापि सम्मतमेतदिति। शब्दार्थसङ्केतरूपस्य पौरुषेयत्वाद्विधिवाक्यानां तत्सापेक्षत्वेनाप्रामाण्यमिति तत्र पूर्वः पक्षः। शब्दार्थसम्बन्धस्यानादित्वान्न सापेक्षत्वेनाप्रामाण्यमिति सिद्धान्तः । इदमेव।
 प्रवाहानादित्वरूपमेव। एवमत्रेति। अस्मिन्नधिकरणे एवमुक्तेन नित्यत्वेनेत्यन्वयः। ननु वृक्षसमूहे वनमिति वदेकत्वप्रत्ययस्तत्राह। वनराश्यादीति। अन्यथा भवन्मते ऽप्यवयवापेक्षयाऽवयविनोतिरिक्तत्वं न स्यादिति भावः। विभागवदिति । विभागविशिष्टमित्यर्थः। तत् । पदम्। वर्णानामपीति। भागवत्त्वे इत्यत्रान्वयः । अवेशेष इति। परमाणौ विश्रान्तिः स्यादित्यर्थः। दुरवस्थेति। परमाणुपुञ्जात्मकस्य धटस्योत्पाद्यत्वाभावादितिभावः। किञ्ज परमाणूनां निरवयत्वे ऽवयवसंयोगाभावाद्‌द्व्यणुकाद्युत्पत्तिर्न स्यात्। तदुक्तं हरिणा।
भागानामनुपश्लेषान्न वर्णो न पदं भवेत्।
तेषामव्यपदेश्यत्वात्किमन्यदुपदिश्यतामिति।।
अस्यार्थः वर्णभागानामनुषश्लेषान्न वर्ण एकः कश्चित्स्थात्तदभावे पदं न स्यात् पदाभावे वाक्यं न स्यादिति किं तदेकं वाचकत्वेन व्यवहियतेति। पदवद्वाक्यमप्यखण्डमित्याह। वाक्यमपीति। एवं चाखण्डस्फोटलक्षणः शब्दो वाक्यमिति लक्षणं बोध्यम्। अपोद्‌धृत्येति। कल्पनया प्रविभज्येत्यर्थः। वाक्यस्थपदानामपोद्धारेण च वाक्यस्याखण्डता दर्शिता।नन्वेवं वाक्यसंस्कारपक्षासम्भव इत्यत आह। क्वचिदिति। इदमत्र चिन्त्यते। कानि सन्तीत्यादौ युगपत्संस्कारो नोचितः युगपत्सर्वेषां बुद्धिविषयत्वस्यानुभवविरुद्धत्वात्। तस्माद्वाक्यस्य प्रविभज्यान्वाख्याने वाक्यसंस्कार इत्येवारोपो युक्तः। तदवभासस्त्‌विति। रेफसदृशध्वन्युपरागात् रेफावभास इत्यर्थः। पदेवर्णोति। वर्णावयववत् पदे वर्णावभासः कल्पित इत्यर्थः। ननुपदानां नित्यत्वे शास्त्रवैयर्थ्यमत आह। शास्त्रं त्विति।। 1.58।।

परे तु वर्णदीनामेकत्वमित्यारभ्योक्तमतं दूषयति। त्तन्नेति। अवर्णानामिति। आकाराणां परस्परमैक्यमकारककारयोस्तु परस्परं नैक्यमित्यत्र बीजाभाव इत्यर्थः। ननु वायुनिष्ठं कत्वादि कथं व्यज्यते तत्राह। तत्तत्स्थानेति। कत्वादीति। कत्वादिवनैजात्यवता वायुना शब्दस्वरूपस्य भानमित्यर्थः। प्राग्वदेवेति यदुक्तं तत्‌स्फटयति। ज्ञाननिष्ठेति। येनेति। इन्द्रियेणेति शेषः। वायूनामपीति। गुणगुणिनोः समानेन्द्रियग्राह्यत्वादिति भावः। रसादिमात्रेति। न तु जलस्यापीत्यर्थः। मात्रशब्देन द्रब्यवच्छेदः। रसनादिना रसत्वादेरपि ग्रहणात्। ककारेति। समानस्थानत्वे पीत्यादिः विषयसम्बन्धेति। अन्तः करणवृत्तिवैचित्र्यात् ब्रह्मात्मकसुखे ऽपि वैचित्र्यमित्यर्थः। अन्तः करणस्य सुखात्ना परिणामे तत्तादात्म्यादहं सुखीति प्रत्यय इत्यर्थः। विशेष्याशेति। कत्वादिविशिष्टतया गृहीतस्य स्फोटस्यैकत्वेऽपीत्यर्थः। तत्प्रतीतिः। ऐक्यप्रतीतिः। ननूपाध्यग्रहे ऐक्यबुद्ध्यापत्तिरत आह। उपाध्यनालिङ्गतेति। स एव। स्फोट एव। पद इति। पदे प्रकृतिप्रत्ययविभागः कल्पित इत्यन्वयः। पदवदेवेति। प्रतृत्यादयोऽपि नित्या इत्यर्थः। उभयत इति । स्थानिन्यादेशे चेत्यर्थः। शब्दानामनित्यत्वेऽपि तद्गता जातिर्नित्या सैव स्फोट इति मतेनाह।रश्रुतेरिति। न कश्चिदिति। वर्णा इति शेषः। अन्तर्भूतानन्तर्भूतेति। कृपो रोल इत्यत्र स्वतन्त्रास्वतन्त्ररेफसाधारणी रत्वजातिः स्थानित्वेनाश्रीयत इत्यर्थः। स्वोक्तिविरोधाच्चेति। दृष्टान्तासङ्गतेरिति भावः। श्रुतिपदेति। श्रवणस्य व्यक्तिविषयकत्वात्। इत्यनुक्तेश्चेति। अन्यथा भाष्यकार इत्थमेवावक्ष्यदित्यर्थः । समाधानपरेति। रश्रुतेर्लश्रुतिर्भवतीत्याकारकेत्यर्थः। पुरुषमृगराजाभ्यामिति। नरसिंहावयवानामित्यनुक्रष्टव्यम्। मृगराजः । सिंहः। रपीति। आहेति शेषः। ननु स्फोटे वर्णाविभागाभावात् रश्रुतेरिति पूर्वोक्तभाष्यासङ्गतिरत आह। स्फोटपदस्य चेति।। 1.59।।

वर्णभेदे दोषान्तरमाह। किञ्चैवमिति। भिन्नकालत्वेति। कालभेदवत्त्वे वर्णभेदश्च स्पादित्यर्थः। वैकृतेति। स्फोटस्वरूपमभिव्यज्य पुनः पुनपविच्छेदेन दीर्घकालमुपलभ्यमानो ध्वनीर्वैकृतः। एतेनेति। यथा ह्‌स्वाद्यभिव्यक्तः स्फोट एकमात्रादिस्तथा वृत्तिभेदादपि भेदः स्यादित्यर्थः। प्लुतैरिति। ध्वनिरिति शेषः। अत्रापि। वृत्तिभेदेऽपि। उच्चारयितुरालस्यामिति समासः। वृत्तित्रयेऽपि स एवायमिति प्रत्यभिज्ञानान्नारोपसम्भव इति भावः। आरोपे सतीति। गौर्वाहीक इत्यारेपे जडत्वं निमित्तम्। वृत्त्यन्तर इति। यद्‌वृत्तिमाश्रित्यापणिनिना सूत्रितं तदन्यवृत्तावित्यर्थः । भेर्याहतेति। यथा प्रयत्नविशेषादुत्पन्नो भेरीशब्दः कश्चिदल्पकालमुपलभ्यते कश्चिच्चिरकालं तथा वृत्तिषूपलब्धीनां कालभेदो विषयस्य त्वभेद एव। ध्वनिः स्फोटश्चेति। व्यञ्जको व्यङ्यश्च शब्दानां व्यङ्गनां सन्बन्धव्यञ्जकत्वेन वैकृतो ध्वनिः स एव महानल्पश्च केषां चिदिति व्यक्तवाचामेवोभयं व्यञ्जकरूपं गृह्यते अव्यक्तवाचान्तु ध्वनिरेव तत्स्वभावतः तत्स्वरूपेणैवेत्यर्थः। ननु ध्वनेरपि शब्दत्वात्कथं शब्दगुणत्वमतो ऽर्थमाह। उपकारक इति। शेष इति तु न तदीयशब्दस्याल्पकालचिरकालाभ्यामुपलम्भात् दृष्टान्तता। ननु भेर्याघातस्थले स्फोटाभावात् स्फोटस्तावानेवेति दृष्टान्तासङ्गतिरत आह। ध्वनिरूपेणापीति। तत्रापि स्फोट एव उच्यत इत्यर्थः। तावानेवेति। नियतकालमेवेत्यर्थः। वैकृतध्वनिकृतेति। चिरकालमुच्चारणात् ध्वन्युपलब्धीनामेव वृद्धिरित्यर्थः। शब्दानां सम्वन्धी ध्वनिरित्यस्यैवार्थमाह। वैकृतध्वनिस्त्विति। इति शेष इति। तथा च स्वरूपतः सिद्धत्वेन प्रमाणान्तरात्तथेष्टत्वं सूचितं न योगिप्रत्यक्षमयं चैतदिति भावः। स्फोटस्याभिन्नत्वेऽपि ध्वनिकालभेदेनैव कालभेद इत्याह। स्फोटस्याभिन्नेति। इह आत्मतत्त्वस्य नित्यत्वात् स्फोटानां स्थितौ कालपरिमाणवृत्तेः स्वल्पो ऽपि व्यापारो नास्ति ध्वनीना तु संसृष्टं तस्य स्फोटस्य स्वरूपमुपलभ्यते तस्मात् ध्वनिकालः स्फोटोपलब्धरूपः परिर्तते। नन्वेवं हस्वदीर्घप्लुतादिष्वपि ध्वनिरेव कालहेतुरितिदीर्घप्लुतयोरपि तपरस्तत्कालस्येति तत्कालताप्रसङ्ग इत्यत आह। स्वभावतस्त्विति। कैयटे ऽपीति। ध्वनिः शब्दगुण इति भाष्यमुपादाय शब्दस्य गुण उपकारको व्यञ्जकत्वेनेत्यर्थः। इति कैयटे इत्यर्थवैकृतेति अन्यथाध्वनिकृता वृद्धिरिति भाष्यासङ्गतेः। तस्यापीति। प्राकृतध्वनिना उपलब्धस्य स्फोटस्योत्तरकाले वैकृतो ध्वनिरुपलम्भको भवतीति भावः। एवं चेति। स्फोटो द्विबिधः आन्तरो वाह्यश्च। तत्रान्तरस्य मुख्यं वाचकत्वमित्यर्थः। वाह्यस्तु जातिव्यक्तिभेदेन द्विविधः।।1.60।।

  • एवं शक्योऽर्थो ऽपीति। यथा आन्तरः स्फोटो निर्विभागो वाचकः एवं वाच्योऽप्यान्तरो निर्विभागः स एव वाक्यार्थः, स च प्रतिभारूप इत्यर्थः। * बुद्धिसत्तेति। बौद्धसत्युक्त एवेत्यर्थः। * घट इत्यत एवेति । अत एवोक्तं मतुप्सूत्रे भाष्ये " सर्वो हि पदार्थो न सत्तां व्यभिचरति " इति। तत्र हि भूतभविष्यतो ' र्गोमानासीद् ' गोमान् भविता ' इत्यादौ न बाह्यसत्तास्ति किन्तु बुद्धिकल्पितैव, एवं च तद्‌व्युदासाय बाह्यसत्तापरिग्रहार्थमस्तीति विशेषणं युक्तमिति भावः। * शशशृङ्गं नास्तीति। अत एव ' अत एव ' अत्राभावज्ञाने आहार्यमेव प्रतियोगिज्ञानं कारणम्' इति लासावतीशिरोमणौ स्पष्टम्। ' अन्यथा नीलं सरोजं भवत्येवेत्यादौ नीलत्वायोगस्य सरोजे अप्रसिद्धात्वात्तद्व्यवच्छेदो न लभ्येत ' इति स्पष्टन्तत्रैव। * सामानाधिकरण्येनैवेति। कार्यकारणयोः समानदेशस्यत्वनियमादन्तः करणवर्तिन्या सामग्रया तत्रैव कार्योत्पादनं युक्तमित्यर्थः। सिद्धे पाकादाविच्छादेर्विरहादसिद्धस्यैव पाकादेरिच्छां प्रति हेतुताया वाच्यतया बुद्धावेव हेतुहेतुमतोः सामानाधिरण्यमुपपादनीयमिति भावः। * आवश्यकीति। अवश्यभवितरि आवश्यकशब्दः ठगन्तो निपातनात्। वुञन्तस्य तु आवश्यिकेति स्यात्। वाक्यस्यैव हेतुतामभ्युपगच्छतस्तार्किकान्निराकपरोति * यत्त्विति। * विषयतासम्बन्धेनेति। अयम्भावः-विषयतासम्बन्धेन चाक्षुषं प्रति चक्षुः संयोगः कारणं न तु घटचक्षुः संयोगः । विषयभेदनानन्तरकार्यकारणभावापत्तेः। एवं च घटचक्षुस्संयोगदशायां पटस्यापि चाक्षुषापत्तिः , अतो विषयाणामपि तादात्म्येन हेतुत्वमावश्यकम्। एवं च यदा घट एव चक्षुस्संयोगः तदा पटवृत्तिविषयतासम्बवन्धेन विषयघटितचक्षुस्संयोगरूपसामग्र्याः कुत्राप्यभावान्नोक्तदोष इति भावः। वस्तुतस्तु विशेषणज्ञानादिरूपकारणबलादात्मनि समवायेन व्यक्तिवृत्तिविषयतासम्बन्धेनेश्वरज्ञानसाधारणज्ञानत्वेनैव हेतुत्वं कल्प्यते, अन्यथा घटत्वादिप्रत्यक्षस्थले घटेतरावृत्तित्वे सति सकलघटवृत्तित्वरूपघटत्वत्वादिना हेतुत्वकल्पने गौरवादिति बोध्यम्।* तदीयेति। तैः स्वमिन्नेव स्वतादात्म्याभ्युपगमात्। * वृत्त्यनियामकतयेति। न हि ' घटो घटवानिति' प्रत्ययोऽस्ति। * सामानाधिकरण्येति। कार्यकारणघटकस्य तादात्मम्यसम्बन्धेन सामानाधिकरण्यस्य प्रत्यासत्तित्वानिर्वाहकत्वादित्यर्थः। * असङ्गतिरिति। कुण्डल्यादिपदैर्देवदत्तस्यैवाभिधानाद्वस्तुद्वयविषयकस्य ईदृशशब्दस्य प्रयोगो ऽसङ्गतः। स्वमते तु अङ्गद्यादिशब्दैर्बौद्धाङ्गद्यादेरुपस्थानात्तदृशो बाह्य इति द्वयोरभेद इत्यर्थः। * गौतमो ऽपीति। तत्र हि---" नासत्सद् " इति पूर्वपक्षसूत्रम्। अस्यार्थः। ---उत्पत्तेः प्राक् कार्य नासत्, असत उत्पत्तौ शशशृङ्गादेरप्युत्पत्तिप्रसङ्गात्। स्याच्च सिकतादावपि तैलम्। नापि सत्, सत उत्पत्तिविरोधादिति। इदानीं घट उत्पन्न इत्यादिप्रत्ययादसत एवोत्पत्तिः। सतस्तूत्पत्तौ पुनरुत्पादप्रसङ्ग इति तत्र समाधिः। ननु असत उत्पत्तावनियमप्रसङ्ग इत्याशङ्क्या समाधत्ते * बुद्धिसिद्धं तु तदसदिति। तदसत्कार्य बुद्ध्या विषयीकृतं, सिकतादौ तु पटो भविष्यतीति न ज्ञायत इति न प्रवर्तते।। 1.61।।


परमार्थरजतमिदं न भवतीति निषिध्यत इति तदाशयात्। आन्तरस्य चित्तस्य बहिर्निर्गमनाभावाच्चक्षुरादिद्वारा तद्दर्शयति* इन्द्रियेति। नच अन्तः करणस्य बहिर्गमने देहस्य निर्जोवत्वापत्तिः। चक्षुरादेरिवान्तः करणस्य विषयदेशगमनेऽपि देहसम्बन्धा विरोधात्। नन्वेवम् ' अहं सुखी ' इतिवद् ' अहं रजतवान्' इतिप्रत्ययः स्यादितिचेन्न । ' अहमिहैवास्मि ' इति प्रत्ययस्य विशेष्यतावच्छेदकीभूतैतच्छरीरावच्छेनैतद्देशमात्रसंयोगावगाहित्ववदुक्तप्रत्ययस्यापि तत्तात्मसमायितया कथमात्मासमवेतद्रव्यस्य तद्रूपत्वमितिचेन्न। शरीरावच्छेदेन ज्ञानादेवरिव शुक्तीदन्त्वादिविशिष्टावच्छेदेन रजतादेरात्मसमावाये बाधकाभावात्। * संयुज्येति। चित्तमिति शेषः। * परिणमत इति। नन्वन्तः करणस्यापीन्द्रियत्वात्कथं प्रत्यक्षमिति चेन्न। मनस इन्द्रियत्वे मानाभावात्। ' इन्द्रियेभ्यः परं मनः ' इति पृथगुपादानात्। ' मनः षष्ठानीन्द्रियाणि' इति गीतावचनं तु ' यजमानपञ्चमा(इडां)भक्षयन्ति ' इतिवद्विजातीयेनाप्युपपद्यते। ननु इन्द्रियजन्यत्वाभावात्प्रयक्षत्वानापत्तिरिति चेन्न। न हीन्द्रियजन्यत्वं प्रत्यक्षत्वे प्रयोजकम् ईश्वरप्रत्यक्षे ऽव्याप्तेः किन्तु विषयचैतन्यप्रमातृचैतन्ययोरभेद एव। सांख्यास्तु ' अन्तःकरणस्य स्वच्छत्वात्तत्र घटादीनां प्रतिबिम्बे घटादिबुद्धिर्भवति यथा दर्पणे मुखादि गृह्यते न तु तत्तत्रास्ति, एवं चैतन्यमपि जडेष्वन्तः करणादिषु सङ्क्रमविशिष्टान्तऋ करणवृत्तौ सर्वार्थाकारसमर्पणं तादृशवृत्तेरेव' इति वदन्ति, तान्निराकरोति * न तु तस्यामिति। तस्यां ---वृत्तौ * संयुक्तेति। इन्द्रियसंयुक्तेत्यर्थः। * स्वप्नादाविति। सिद्धान्ते तु स्वप्नोतलब्धारथादीनामागन्तुकनिद्रादिदोषजन्यत्वात्प्रातिभासिकत्वम्। ननु स्वप्ने पूर्वानुभूतरथादेः स्मरणमेवास्त्विति चेन्न। ' रथमद्राक्षम्' इत्यनुभवविरोधेन स्मृतिरूपत्वासम्भवात्। रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकमेव, तदा सर्वेन्द्रियाणामुपरमात्। * चित्तस्थमिति। स्वप्नादावसन्नेव विषयो यथा चित्तस्थः एवमन्यदाऽपीत्यर्थः। प्रत्यस्तमितत्वेऽपि बाह्येन्द्रियवृत्तेर्मनोमात्रेणैव यदाऽऽत्मनो भोक्तृत्वं तदा स्वप्नः। विप्रपृथिव्यादीत्युक्तिर्जडासङ्ग्रहाय ' । अन्तः करणचैतन्यवानाद्यविद्यावशात्स्वरूपतिरोधाने बाह्यरूपेण भानम्। तदाहुः----
अन्तः करणधर्मस्य भागा बहिरवस्थिताः इति।
अन्तः स्थितस्य करमव्यापारो यस्य तद्‌ अन्तः करणं चैतन्यं तस्य धर्मा आन्तरपादार्थास्तेषमेव भागा बाह्या इत्यर्थः' ।' न तु बाह्यविषयप्रतिबिम्बः'इति यदुक्तं तदुपपादयति * भ्रमे इति। ' ज्ञानमत्र चित्तवृत्तिः। तस्या आकारो नाम रजततुल्यपरिणामता सा च सत्यस्थले इव भ्रमस्थलेऽपि भवति। तत्रासतो रजतस्य वृत्तिविषयत्वासम्भवात्प्रातिभासिकरजतमुत्पद्यते। शुक्तिरजतयोस्तादात्म्येमपि च प्रातिभासिकमेव। तथाहि--तत्र देशान्तरीयबाह्यरजतस्येन्द्रियसन्निकर्षाभावान्नाध्याससम्भवः। नापि तत्र रजतोत्पत्तिः सम्भवति रजतावपयवानामभावाद्। अतः काचादिदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगाद्रज ताकाराऽन्तः करणवृत्तिरुदेति। तथाच काचादिदोषसमवहिता अविद्या रजतादिरूपेण परिणमते इति वेदान्ते। * ज्ञानाकारस्यरजतारज्ञानस्या। * विषये---शुक्त्यादौ । "बौ द्धरजतस्य पुरोवर्तिनि ग्रहः " इत्यस्यायमेवाशयः, पुरोऽवस्थितवस्तुसंयोगेऽन्तः करणवृत्तेः रजताकरारेण परिणामात्। एवं च रजताद्याकारज्ञानस्य शुक्त्यादावारोप इत्यस्यापि वा परिणाम एव पर्यवासनं बोध्यम्। * सिद्धान्तादिति। एतेन ' सन्निकर्षेणापि ' रजतम् इदम्' इत्याकाराकशुक्तिरजयोर्ग्रहणस्मरणात्मकं ज्ञानद्वयमेव जायते न तु शुक्तौ रजतत्वप्रकारकम्(एकं ज्ञानम्) रजत्वप्रकारकज्ञानमात्रस्य रजतान्यविशेष्यतानिरूपितप्रकाराताकत्वाभावनियमस्य विना बाधकं त्वक्तुमशक्यत्वात्। रजतत्वप्रकारेण शुक्तिविषयकप्रवृत्तावपि नेदन्त्वावच्छिन्नशुक्तिधर्मिकरजतत्वप्रकारकशुक्तिविशेष्यकत्वेन । इदंधर्मिकरजतत्वप्रत्यक्षं प्रति रजतासंसर्गाग्रहस्य प्रतिबन्धकत्वाच्च । ' नेदं रजतम् ' इति प्रत्यक्षसत्त्वे रजतत्वप्रकारकशुक्तिविषेष्यकप्रवृत्त्यापत्तिः, इति प्राभाकरोक्तमपास्तमिति भावः। * सन्निकृष्टमिति। तत्र रजतस्योत्पत्तिर्वा ज्ञानं वा न सम्भवतीति प्रागेवोक्तत्वात्। * रजताद्यारोपे इति। असन्निकृष्टरजतभानस्वीकारे इत्यर्थः। ' ननु दोषस्वभावादेव देशान्तरीयमपि रजतं भासते इत्यस्वरसादाह* तदादृष्टमिति ' । * स्वरूपतः--रजतत्वस्वरूपभ्रमे बाह्यरजतस्यैव विषयत्वे तस्य विशेषदर्शनदशायामपि सत्त्वेन ' इदानीं रजतं नास्ति' इति रजताभावावगाहिप्रत्ययो न स्यादित्यर्थः। ननु ' रजतं नास्ति ' इत्यस्य रजतबुद्धिर्नास्तीत्यर्थ इति चेद् तर्हि सिद्धं बुद्धे रारोप इति। ननु विषयाभावे कथं चित्तवृत्तेस्तथा परिणाम इत्यत आह * चाकचक्यादीति। चाकचक्यादिकमेव भ्रमहेतुरित्यर्थः। अत एवोक्तं परमार्थसारे ' रज्ज्वां भुजङ्गहेतौ नच कारणमस्ति 'इति। भुजङ्गभ्रमहेतौ ( रज्ज्वां ) कारणान्तरं नास्ति किन्तु अन्यथाभानात्मिका अविद्यैवेति तदर्थः।। 1.62।।

ननु लौकिकचाक्षुषं प्रत्येव चक्षुः संयोगादेर्हेतुतया अलौकिकचाक्षुषं ज्ञानलक्षणयैव सिद्धम्।तथाहि-- घटो नास्ति ' इत्यत्राबावांशे घटस्य, ' सो ऽयम् ' इति प्रत्यभिज्ञायां तत्तांशस्य, ' सुरभि चन्दनं पश्यामि ' इति ( उपनीतभाने) सौरभाशस्य भानं न सम्भवति इन्द्रियसम्बन्धाभावात्, अतस्तद्विषयकज्ञानमेव सम्बन्धः , अस्ति च बाह्यरजतज्ञानं शुक्तावपीति मतं निराकरोति * ज्ञानलक्षमेति। ' रङ्गं रजतत्वेन जानामि ' इतिप्रतीतेरन्यथाख्यातिः स्वीकार्या, तन्निर्वाहार्थं च ज्ञानलक्षणापि स्वीकार्या, इति तार्किकाः। तन्न । संस्कारस्य तज्ज्ञनजनकता, तज्जनकज्ञानघटितसन्निकर्षहेतुत्वम्, अतिरिक्तसन्निकर्षकल्पना चेति गौरवात्। * अपास्तमिति। अयम्भावः ---तत्र ' सौरभं पश्यामि ' इतिप्रत्ययानामभावात् विषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नादिकरमाता न सम्भवति तत्कथं तज्जाक्षुषोपपत्तये ज्ञानलक्षणास्वीकारः। ' सौरभं स्मारमि' इतिप्रतीत्या विषयतासम्बन्धेन स्मृत्यधिकरणताया एव तत्र स्वीकर्तुमौचित्यात्। युगपञ्ज्ञानद्वये मानाभावे ऽप्येकस्मिन् ज्ञाने स्मृतित्वचाक्षुषत्वोभयसत्त्वे बाधकाभावात्। ' इदं रजतं पश्यामि ' इति प्रतीत्या भ्रमस्थलेऽपि लौकिकविषयतास्वीकारस्यावश्यकत्वाच्च । अथ सन्निकर्षादीनामिव दोषस्याप्यन्वयव्यतिरेकाभ्यां प्रत्यक्षहेतुत्वमिति चेत्। एतदपेक्षया तदाकारपरिणामस्यैव लघुत्वात्। ननु विषयगतदोषस्य चित्तवृत्तिनियामकत्वे ऽभ्रान्तपुरुषस्यापि तादृशशुक्तिदर्शने भ्रमान्तत्वापत्तिरिति चेन्न। तत्पुरुषीयत्वं निवेश्यैव हेतुहेतुमद्भावस्वीकारात्।जपाकुसुमलौहित्यस्य तु सर्वान्प्रत्येकरूपत्वान्न तत्पुरुषीयत्वनिवेशः । * अन्यथोपपत्तेरिति। चित्तवृत्तिपरिणामेनैव गतार्थत्वात्। किञ्च ज्ञानस्य प्रत्यासत्तित्वे तत एव वङ्ग्यादिप्रत्यक्षोपपत्तावनुमितेरुच्छेदापत्तिः। * तत्तदनुयोगीति। यथा घटभूतलयोः संयोगो घटप्रतियोगिको भूतलानुयोगिको, न तथेहानुभवो ऽस्तीत्यर्थः। घटत्वसामान्यलक्षणा देशान्तरीयघटज्ञानं जनयति ज्ञानलक्षणा तु यद्विषयकं ज्ञानं तस्यैव प्रत्यासत्तिः। तथा च रजतत्वज्ञाने प्रतियोगित्वादिप्रतीत्यभावात्साम्बन्धत्वासम्भव इति भावः। ' सम्बन्धसम्बन्धो न विशिष्टज्ञानविषय' इति तार्किकमतं निराकरोति * सम्बन्धेनेति । संयोगरूपसम्बन्दस्य तुल्यतया ' कुण्डे बदरम् ' इति प्रतीतिवारणाय बदरादौ संयोगप्रतियोगित्वादिस्वीकार आवश्यक इति भावः। ' * वैशिष्ट्येनेति। यथा भूतलानुयोगित्वेन ज्ञातः संयोग एव प्रवृत्तिहेतुरित्यर्थः।।1.63 ।।

ज्ञायमानं सामान्यं न प्रत्यासत्तिरिति मतं निराचष्टे* अविद्यमानस्येति। शुक्तावविद्यमानस्य रजतस्य सन्निकृष्टत्वाभावेन प्रत्यासत्तित्वासम्भवादिति भावः। अख्यातिवादिनस्त्वत्र ग्रहणस्मरमात्मकं ज्ञानद्वयं वदन्ति, तथाहि--इदमिति पुरोवर्त्तिद्रव्यग्रहणं दोषवशाच्च शुक्तित्वाग्रहे सादृश्यात्संस्कारोद्बोधे दोषवशात्प्रमुष्टतत्ताका रजतस्मृतिः भिन्नयोरपि ज्ञानयोर्भेदस्य विषययोरसंसर्गस्य चाग्रहाद्विशिष्टाज्ञानकरार्यप्रवृत्तिरेकज्ञानत्वव्यवहारश्चेति। तन्न। प्रवृत्तिं प्रति स्वरूपतो विषयतया संसर्गाग्रहकासिकमितष्टसाधनतावच्छेदकविशिष्टं विषयस्मृतिविशिष्टं पुरोवर्तिविषयकं ज्ञानं कारणं वाच्यमिति गौरवाम्। ननु सामान्यलक्षणेत्यादेः सामान्यविषयकं ज्ञानमित्यर्थः। तथाच तद्विषयत्वमविद्यमानेऽप्यस्तीत्याशङ्कते।* न चेति। यत्तु रजतत्वादिना शुक्त्याद्युपनीतबानानुरोधेन ज्ञानलक्षमास्वीकारः, तत्र शुक्तित्वस्य भानाभावेन सामान्यलक्षणया शुक्त्यादिभानासम्भवादिति। तन्न। तत्र दोषस्यैव शुक्त्यादिभासकत्वात् ।यदपि सौरभांशे इन्दिरयसन्निकर्ष विनासौरभत्वसामान्यलक्षणया तद्भानासम्भवाज्ज्ञानलक्षणेति। तदपि नासौरभादिविषयकोपनीतभानसामग्र्या एव तत्रापि हेतुत्वकल्पनात्। * ज्ञानेति। क्षणिकस्य ज्ञानस्य प्रत्यासत्तित्वासम्भवादिति भावः । * ज्ञानविषयोभयेति। विषयताया ज्ञानस्वरूपत्वे 'घटवद् भूतलम् ' इति ज्ञानानन्तरं 'घटवद्भूतलसंयोगाः' इति ज्ञानयोरवैलक्षण्यप्रसङ्ग इत्यभिप्रेत्योक्तम् * उभयस्वरूपेति। * संस्कार एवेति। रजतवासनारूप इत्यर्थः। नातः संस्कारजन्यत्वेन स्मृतित्वापत्तिः। वस्तुतस्तु विषयत्वरूपत्वे ऽपि ' घटभूतलसंयोगा' इत्यत्र संयोगत्वेन संयोगो भासते न तु ' घटवद् भूतलम् ' इत्यत्रेत्यत एव वैलक्षण्यम् । जात्यतिरिक्तपादार्थस्य स्वरूपतो न भानमिति नियमस्तु प्रकारतांशे न तु सांसर्गिकविषयतायामित्यभिप्रेत्योक्तं * मते इति। ननु ज्ञानलक्षमाऽस्वीकारे सौरभांशे इन्द्रियसंनिकर्षाभावात्कथं तद्भानम् ? अत आह * ज्ञानान्तरमेवेति। ग्रहणस्मरणात्मकमेकं ज्ञानमित्यर्थः। संस्कारजन्यत्वमात्रेण स्मृतित्वव्यवाहरमात्रं तत्र न तु ' स्मृरामि ' इति ( अनुव्यवसायः) पूर्वानुभूततारूपताया अनुल्लेखात्। अत एव ' सुरभि चन्दनं पश्यामि' इत्येव प्रत्ययः। तार्किकास्तु तत्रोपनीतभानत्वेन व्यवहरन्ति।

परे तु चन्दनत्वेन सुरभित्वमनुमीयते अन्यथा साध्विशिष्टपक्षप्रत्यक्षोपपत्तेरनुमानोच्छेद इत्याहु।

प्राभाकरास्त्वाहुः ---'सो ऽयम् ' इति इदमंशे प्रत्यक्षं तत्तांशे स्मरणमिति ज्ञानद्वयम्, एवं ' सुरभि चन्दनम् ' इत्यादावपीति। यद्यपि प्रवृत्ति प्रति विशिष्टज्ञानस्यैव हेतुतया ज्ञानद्वयस्वीकारे प्रवृत्त्यनापत्तिथापि भेदाग्रहसहितं तत् प्रवृत्तिहेतुः अतो दोषान्तरमाह * सङ्कर इति। एतच्चाभ्युपगमवादेन । वस्तुतस्तयोः साङ्कर्ये ऽप्यदोषः। ब्रह्मभिन्नस्य सर्वस्यानित्यतया नित्यत्वघटितजातित्व । भावेन तस्यदोषत्वात्। किञ्च कपिसंयोगतदभावयोरिवैकस्मिन्नपि ज्ञाने ऽवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोः स्वीकारात्।। 1.64 ।।


  • इन्द्रियेण सहैव--इन्द्रियसहितस्यैव । तेनेन्दिरयदोषसाहित्याच्चित्तस्य सदोषस्यैव परिणामः । यत्तु ('यत्तु-्तवात् अयं पाठः कुं. टी.पु.खसञ्ज्ञके नास्ति।) दोषविशेषाजन्यज्ञानं प्रत्येव बाधज्ञानं प्रतिबन्धकमिति। तन्न। पित्ततारतम्येन पीतत्वतारतम्यस्यानुभवसिद्धतया पित्तस्यैव हेतुत्वावश्यकत्वात्। ननु पीतशङ्खाभावाकथं तद्रूपा वृत्तिरित्यत आह * सा चेति। सा च वृत्तिश्च। नन्विदंवृत्तेः। रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे विशिष्टज्ञानत्वाभावाद्भ्रमत्वासिद्धिरत आह * भ्रमप्रमेति। शङ्खांशे प्रमापीतत्वांशे भ्रमः। वृत्तिद्वयप्रतिबिम्बतचैतन्यस्यैवकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेनैव भ्रमत्वप्रवाद इति भावः। प्रतिबिम्बत(प्रति--च्यते पाठोऽयं कुं. टी.चकपु. नास्ति।) इति। अयं भावः-- बुद्धिपुरुषयोस्सम्बन्धो नाम भोग्यभोक्तृभावरूपः सन्निधिः। नहि व्यापकयोर्नित्ययोश्च तयोरन्यः सम्बन्धोऽस्ति । अयमेव छायापत्तिशब्देन प्रतिबिम्बशब्देन चेच्यते। * वृत्तिग्रहाहकत्वामिति। वृत्तिप्रकाशकत्वम्। नहि('नहि--रागः कुं.टी. कपु. नास्ति।) स्वप्रकाशा द्रष्ट्टत्वदृश्यत्वयोर्विरोधात् । * परिणामविशेष इति। परिणामस्य प्रतिबिम्बनं नाम पुरुषोपरागः । आत्मनो(आत्म--दीःकुं.टी.खपु.नास्ति।) ज्ञानात्मत्वात्पुरुषे प्रतिबिम्ब उक्तपरिणामविशेषः अभिमानात्मकः साक्षिभास्यः । अस्मादेव प्रतिबिम्बरूपद्दोषाच्चितपुरुषयोरेकताभ्रमः ' अहं सुखी ' ' पश्यामि ' इत्यादिः। साङ्ख्यादिमतं निराकरोति *नत्विति। * आदर्शदाविति। तत्र हि प्रतिहतचक्षुर्ग्राह्यत्वं प्रतिबिम्बत्वम्। आदर्शो दर्पणम्। तत्र हि मुखच्छायासादेश्याच्छायान्तरोद्भवो भवति। * उभयोः ---बुद्धिपुरुषयोः। * नीरूपत्वादिति। समलस्य हि पदार्थस्य निर्मलं प्रतिबिम्बो भवति दर्पणे मुखस्येव ।।1.96।।


  • वृत्तिसंबन्धात्-- वृत्तिप्रतिबिन्बात्। अयम्भावः अयः पिण्डस्य दग्धृत्वाभावे ऽपि दग्धृत्वाश्रयवन्हितादात्म्याध्यासाद ' अयो दहति ' इति यथा व्यवहारः तथा विषयाकारपरिणाम्यन्तः करणैक्याध्यासादात्मनो ऽपि सविषयकत्वमिति। * तद्रतेति। वृत्तिगतेत्यर्थः।* तत्सम्बद्धेति। तत्सम्बन्धात्- पुरुषसम्बन्धात् पुरुषचैतन्याद् वृत्तेः प्रकाश इत्यर्थः। " सत्यं ज्ञानम् " इत्यादिश्रुत्या मुख्यं ज्ञानं ब्रह्मैव, वृत्तेस्तु जडान्तः करणधर्मत्वेन जडत्वाद्रौणमेव ज्ञानत्वम्। जपाकुसुमस्फटिकयोरिव च सन्निधानादभेदग्रहे सति पुरुषधर्मो बुद्धावध्यस्यत इति भावः।। 1.97 ।।


घटं जानातीत्यादौ धात्वर्थो व्यापारो वृत्तिरूपं ज्ञानम्, तज्जन्यफलं प्रकटतेत्याह * वृत्तिजन्येति। * वृत्तिद्वारेति। वृत्तौ सम्तयामेव प्रतिबिम्बनादिति भावः । * शुद्धचेतने-- ज्ञानस्वरुपे आत्मनि। * तस्य - विषयस्य । * तत्सम्बन्धाच्चेति। वृत्तिसम्बन्धात्तु पुरुषसमवेतव्यापारजन्यफलाश्रयत्वात्कर्मत्वम्। परसमवेता क्रियाह्यत्र वृत्तिरेवेत्यर्थः। * कर्त्तृत्वमिति । अन्तः करणपरिणामरूपवृत्तेः पुरुषे ऽप्यासात्कर्तृत्वमित्यर्थः। ननु अहमर्थस्यैवज्ञातृत्वेनामत्मनस्तदभावाच्चडत्वापत्तिरिति चेन्न। तस्य ज्ञानरूपत्वेनाजडत्वात्। मोक्षदशायां विषयाववभासांत्कथं ज्ञानात्मकत्वमिति चेद्। अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वात्। ननु ज्ञानात्मकस्य पुरुषस्य ज्ञानाश्रयत्वाभावाज्जानातीत्यादौ कर्तृत्वानापत्तिरत आह * जानातेश्चेति । दण्डीति ज्ञाने दण्डांशे प्रकारत्वमुपपादयति * वृत्तिस्थेति । विषयतानां ज्ञाननिरूप्यत्वाद् वृत्तिस्थेत्युक्तिः। वृत्तिसंयुक्तस्यैव दण्डादेः प्रत्यक्षाद् वृत्तिस्थत्वम्। तत्र दण्डनिष्ठो यः सम्बन्धः स एव प्रकारता । * वृत्त्यनुयोगिकेति। वृत्तिनिष्ठो यश्चेतनस्य सम्बन्धः स एवात्र विषयता। अत एव ज्ञानस्य विषयेण सम्बन्धो विषयता। सा च ज्ञाननिष्ठा विषयविशिष्टज्ञानस्वरूपेति बौद्धाधिकारदीधितिः। एवं च विषयस्य नष्टत्वेऽपि ज्ञानस्य विद्यमानत्वाद्भवति। अन्यथा विषयतानां प्रकारताविशेष्यताभेदेन भिन्नतया घटत्वविशिष्टबुद्धिं प्रति घटत्वविषयकज्ञानहेतुतायामेकस्या निवेशे ऽन्यविषयताशालिज्ञानाद्बोदो न स्यात्। तस्माद्विषयतात्वमेकमूरीकर्तव्यमित्यर्थः।। 1.99 ।।


न्यायनयेत्विति। घटवद्‌भूतलमित्यत्र घटविशिष्टज्ञानरूपा विशेष्यतेत्यर्थः। विशेष्यतीदीनां शुद्धज्ञानस्वरूपत्वे ' भूतलप्रकारकज्ञानवानहम्' इत्यप्यनुव्यवसायापत्तिः, अतउक्तम् * तत्तद्विषयविशिष्टेति। तथा च घटांशे ज्ञानस्य प्रकारतारूपत्वं भूतलांशे विशेष्यतारूपत्वमिति भावः। अत्र ज्ञानमितीच्छाया उपलक्षणम्, अन्यथा ज्ञानद्वारा इच्छाया विषयतास्वीकारे ज्ञानोपरमे सविषयकत्वं न स्यात्।

यत्तु घटादिविषयकज्ञानजन्यत्वमेव इच्छाया विषयोतेति। तन्न। ईश्वरेच्छाया नित्यत्वेनाव्याप्तेः।

वस्तुतस्तु तद्व्यक्तित्वेन सम्बन्धत्वं न सम्बन्धित्वमिति रूपभेदस्यावश्यकतया विषयताया एव ज्ञानतोऽतिरिक्तत्वं न्याय्यम्।

  • त्रितयेति। विशेष्यताप्रकारतांससर्गतेत्यर्थः। ननु वृत्तिविषयस्यैव घटादेर्बुद्धिविषयत्वाद् बाह्यस्य कथं तद् अत आह * अविभागेनैवेति । तयोरेकत्वादित्यर्थः।।1.100 ।।


  • पुरुषे इति। चिच्छायासम्बन्धतो बुद्धिसत्त्वे पुरुषच्छायाऽऽविर्भवतीत्यर्थः। वृत्तिविषयस्य पुरुषस्यापि घटादिवद् दृश्यत्वदिति भावः। * ज्ञानोपपत्तिः--आत्मनो विज्ञानविषयत्वोपपत्तिः। आत्मानं जानतीत्यादौ एकस्यैव कर्तृत्वकर्मत्वोपपत्तिरित्यर्थः।

ननु आत्मनो ज्ञानकर्मत्वस्वीकारे अनात्मवत् स्वयंप्रकाशत्वानुपपत्तिः , ' न जानामि ' इत्यनुरोधेनाज्ञातत्वस्वीकारे च स्वयञ्ज्योतिष्ट्वाक्षतिः इति चेत्। सत्यम्। ' अन्यदेव तद्विदितादथो ऽविदितादधि ' इति श्रुत्या तस्य ज्ञाताज्ञातविलक्षण्तवात्। ' आ्तमानमहं जानामि ' इत्यनुभवस्यका गतिरिति चेद्। शुद्धस्यैवाऽऽत्मनः स्वप्रकाशत्वात् । यद्यपि ज्ञानेच्छादीनां सविषयकत्वं स्वभावः तथापि सविषयत्वं विषयसम्बन्धः सच न तात्त्विकः किन्तु आध्यासिकः। उपाधिविशिष्टस्य तु ज्ञानकर्मत्वे ऽप्यविरोधः।

तदाह * आत्मनमित्यादि । अन्तः करणविशिष्टं चैतन्यं जीवः, तदुपहितः साक्षी। तत्रेन्दियाणां तज्जन्यज्ञानानां चानुसन्धाता यद्यपि प्रमातैव तथापि प्रमातुरप्यनुसन्धानार्थं साक्ष्यभ्युपंगमः। साक्षी तु ब्रह्माभिन्नः स्वप्रकाशतया निरपेक्ष एव स्वपरविषयाननुसन्धत्त इति वृत्तिरूपं ज्ञानं तद्रतप्रामाण्यं च विषयः। ननु पुरुषस्यापि ज्ञानविषयत्वे स्वप्रकाशत्वभङ्ग इत्यत आह * बिम्बप्रतिबिम्बयोरिति। स्वेनैव प्रकाशो ऽस्य स्वप्रकाशः।

अयं भावः --घटादीनां प्रकाशको दीपो यथा स्वप्रकाशे दीपान्तरं नापेक्षते एवमर्थप्रकाशकं ज्ञानमपि स्वप्रकाशे ज्ञानान्तरं नापेक्षते। जडवैलक्षण्यं हि ज्ञानत्वमिति न प्रकाश्यत्वे ऽपि घटादिवज्जडच्त्वप्रसङ्गः । अर्थप्रकाशनकाले च प्रकाशकस्याप्रकाशेऽर्थसंवेदनमेव न स्यात्। नहि अप्रकाशितो दीपो घटादिकं प्रकाशयतीति।

  • साक्षिभास्यम्-- साक्षिवेद्यम्। * तन्निष्ठेति। घटत्वनिष्ठप्रकारत्वावच्छिन्नघटत्ववद्विशेष्यकत्वमित्यर्थः। * स्वतोग्राह्यमिति। स्वतोग्राह्यत्वं च दोषविशेषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम्। स्वाश्रयो वृत्तिज्ञानं तद्राहकं साक्षिज्ञानं तेन वृत्तिज्ञाने गृह्यमाणे तद्रतं प्रामाण्यमपि गृह्यत इत्यर्थः। इच्छाप्रामाण्यस्य स्वतोग्राह्यत्वे ऽनभ्यासदशोत्पन्नज्ञानेऽप्रामाण्यशयानापत्तिरिति चेद्। सत्यम्। तत्र संशयजनकदोषेण प्रामाण्यस्याग्रहात्। अत एव दोषविशेषाभावे सतीत्युक्तम्। अत एवाह* औत्तरकालिकेति । ' इदं ज्ञानम प्रमा ' इति बाधनिश्चये तु पूर्वज्ञानस्य भ्रमत्वं कल्प्यत इत्यर्थः। * आत्मानमपीते । एवं च " घटमहं जानामि " इत्यत्र घटो ज्ञानमात्मा चेति त्रयं ज्ञानेन विषयीक्रीयते। इदमेव त्रिपुटीप्रत्यक्षं प्राभाकराणाम्। तार्किकाणां तु ' घटविषयकज्ञानवानहम् ' इत्यनुव्यवसायेन ज्ञानग्रहः। ननु ज्ञानोत्पादिका चक्षुः संयोगादिरूपसामग्री कथं ज्ञाने ज्ञानविषयतां जनयेत् धर्मिण एवाभावादिति चेन्न। यथा कपालसंयोगो गुणविशिष्टं घटमुत्पादयति एवं प्रकाशत्वविशिष्टस्य ज्ञानस्योत्पत्तौ बाधकाभावात्। * एवं शब्दोऽपीति। आत्मानमपि प्रकाशयतीति पूर्वेणान्वयः। अत्रैव हेतुमाह* प्रकाशत्वादिति। त्रयाणामपि प्रकाशरूपत्वादित्यर्थः। ज्ञानस्य स्वप्रकाशत्वं चानुव्यवसायाविषयत्वात्।। 1.101 ।।


  • अत एव-- स्वप्रकाशत्वादेव। * ज्ञानेसतीति। ' अयं घट' इत्येवं घटे प्रकाशिते तद्विषयज्ञानस्यापि प्रकाशात् ज्ञानविषयकः संशयादिर्न भवति इत्यर्थः। 'घटविषयकज्ञानवानहम्' इत्यनुव्यसायेन ज्ञानग्रह इति तार्किकमतं निराकरोति * अनुव्यवसायेति। प्रतथमज्ञानं द्वितीयज्ञानेन प्रकाश्यं तदपि ज्ञानान्तरेमेत्येवमनवस्थेत्यर्थः। अप्रकाशितस्यानुव्यवसायस्य प्रकाशकत्वासम्भवादिति भावः। * अनुभवाभावाच्चेति। तथाच ज्ञानस्य न ज्ञानग्राह्यत्वम्।


ननु यत्र विषयतया प्रत्यक्षं तत्पूर्वक्षणे विषयस्य सन्निकर्षस्य चापेक्षणीयत्वात्कथं स्वतोग्राह्यत्वं इति चेन्न। ज्ञानेन्द्रियसन्निकर्षस्य ज्ञानप्रत्यक्षे हेतुत्वानभ्यपगमेन विषयतत्सन्निकर्षाघटिताया एव सामग्रीव्याप्तेरुपगमात्।

ननु स्वस्यैव कर्तृत्वक्रमत्वे विषयविषयित्वे च कथम् अत आह * अभेदेऽपीति ।

यथा हि तार्किकमतेऽपि 'सर्वं प्रमेयम् ' इति ज्ञाने स्वस्यैव विषयता,यथा वा द्रव्यादौ सद्‌व्यवहारः सत्ताप्रयुक्तः सत्तायां तु स्वातिरिक्तसत्ताऽभावेऽपि सद्‌व्यवहारः एवं स्वस्यैव विषयविषयिभावो न विरुध्यते। एवं (एवं--भावः पाठोऽयं कुंoकपुoनास्ति। )' स्वात्मानं जानामि ' इत्यादावेकस्यैव कर्तृकर्मभावश्च । तार्किकाणां स्वरूपसम्बन्धस्थल इव स्वस्यापि स्वसमबन्धित्वसम्भवाच्चेति भावः।

  • व्याप्याकारेति। धूमाकारा या वृत्तिः तत्प्रतिबिम्बनमेव धूमज्ञानम्। तस्माद्वाह्याकारप्रतिबिम्बनमनुमितिः। * व्यापकेति। व्यापकरूपो यः स स पदार्थः, शब्दार्थरूपश्च यः स स पदार्थस्तदाकारा वृत्तिरित्यर्थः। * शाब्दबोधश्चेति। एवं शब्दाच्छाब्दबोधोऽप्युक्तरीत्येर्थः। ननु शशश्रृङ्गदौ बाह्यार्थाभावात्कथमर्थवत्त्वम् अत आह * शशशृङ्गेति। तदुक्तं हरिणा---


व्यपदेशे पदार्थानां बाह्यसत्तौपचारिकी।
सर्वावस्थासु सर्वेषामात्मरूपस्य दर्शिका।।इति।

अर्थानां बाह्यनां व्यपदेशे व्यवहारार्थं बाह्यविलक्षणसत्ता बुद्धिसमाविष्टा औरचारिकी आरोपप्रयोजनवती। सर्वास्वस्थास्वित्यनेन अतीतानागतानामपि बुद्ध्या प्रतिभासो दर्शितः। सर्वेषामित्यनेन शशश्रृङ्गादिशब्देऽपि तद्बुद्धिकल्पनया व्यवहारात् शब्दार्थसम्बन्धो नित्यो दशतः। अत एव बुद्ध्या शशशृङ्गमुद्दिश्य बाह्यसत्ताव्युदासाय नास्तीति प्रयुज्यते।। 1.102 ।।


ननु शशश्रृङ्गादिशब्देऽर्थस्य कल्पितत्वात्तत्र वासनासत्त्वे मानाभाव इत्यत आह * बोध एवेति। कथं तत्र वासना जन्यत इति चेत्तत्राह * पृर्वेति। पूर्वकालेऽपि कथम् अत आह * अनादित्वादिति। * न दोषः --न वासनाऽनुपपत्तिः।

केचित् शशशृङ्गादिशुक्तिरजतादिविषये बहिरसतोऽपि बुद्धिविषयत्वादसत्ख्यातिरिति व्यवहरन्ति।

पुरोवर्तिनः स्वरूपेण सत्त्वाद्बाह्यरजताकारेण चासत्त्वात् सदसत्ख्यातिरिति साङ्ख्याः।

ज्ञानसन्तानस्यैवातमत्मभ्युपगच्छतां वैभाषिकादीनाम् आत्मख्यातिरिति व्यवहारः।

रजतत्वेन शुक्तिप्रतितेरन्यथाख्यातिरिति तार्किकाः।

  • यो वार्थ इति। वाशब्दः पक्षान्तरे। बुध्द्युपारूढस्य शब्दस्य बाह्यवस्तुनिबन्धनो बुध्द्युपारूढो योऽर्थः स बाह्यं वस्त्विध्यस्तः सन् शब्दार्थः। यथा आन्तरः स्फोटो वाचकः तथा ऽर्थो ऽप्यान्तर एवेति भावः। नन्वत्राध्यासे बीजाभाव इत्यत आह * रागादिदोष इति। तद्वशादेव प्रवृत्तिरिति भावः।"सुखानुशयी रागः " इति पातञ्जलसूत्रम्। सुखे तत्कारणे वा तृष्णा राग इति तदर्थः। * अ एव-- बाह्ये अध्यासादेव। * संवादः--ऐक्यम्। * एवमेवेति। संवादित्वासंवादित्वाभ्यामेवेत्यर्थः। ज्ञाने संवादो नाम यथार्थविषयकत्वम्। * प्रमाणमिति। बाह्यार्थसंवादीत्यर्थः। ।। 1.103 ।।


ननु नलादिशब्दानामाधुनिकत्वात्तत्र कथं वासना कथं वा बौद्धबाह्ययोरध्यास इत्यत आह * नलादीति। * बौद्धेति। अस्ति हि आकारविषयिणी वासना अनादिः। ननु अज्ञातस्य आकारोऽपि कथं बुद्धिस्थ इत्यत आह * सचेति। सामान्यकारस्य सर्वत्रानुमानादिना बुद्धिस्थत्वादिति भावः। * तेषाम्-- नलादिपदानाम् । * शक्तिग्रहोऽपीति । बुध्द्या गृहीते आकारे इत्यत्रान्वयः । * व्युत्पादानावसर इति। चित्रपुस्तकादौ हि प्रतिकृतिरूपस्य प्रयोज्यप्रयोजकभावाध्यवसायात्कंसं घातयतीति सिद्धम्। यदा तु संसाद्यनुकारेण सादृश्यान्नटानां तद्रूपताप्रतीतिः तत्र प्राथमिकेषु कथमिति तत्र प्रश्नः। * तेषामुत्पत्तीतिः । कंसादीनाम् ॠद्धीर्व्याचक्षाणाः कथका बुद्धिविषयान् प्रकाशयन्ति चिरकालातीतानां बहिरसत्तवात् बुद्धिगोचरतया विद्यमानान् प्रकाशयन्ति। तथा च कथकैः श्रोतरि कंसाद्याकारप्रत्ययजननाद् बुद्धिवासुदेवेन कंसं घातयतीति प्रयोजकत्वोपपत्तिः। तथा च सूत्रेणैव सिद्धत्वाद्वार्तिकं नारब्धव्यमिति भावः। एवं च बुद्धिविषयसत्तयैव सर्वोऽपि व्यवहार इति फलितम्।। 1.104।।

  • शब्दोपहितेति। शब्दसमर्पितबुद्धिविषयाकारानित्यर्थः। * साधनत्वेनेति। बुद्धिविषयवधादेरित्यर्थः। तदेवं बुद्ध्या व्यवहारमुपपाद्यैकस्यापि वस्तुनः शक्तिनानात्वं बौद्धमित्याह * बुद्धीति। बद्धेः प्रवृत्तिर्व्यापारः परिच्छेदलक्षणः तस्या रूपमाकारः अविद्यया भासमानस्तमर्थेषु बाह्येष्वध्यस्य तेषां शक्तिनानात्वं कल्प्यते। तथाच बौद्धशक्तिभेदः । एवं च क्रियाभेदाद्वस्त्वेव नानाशक्तिकमवधार्यते। * क्रियाविशेषणमिति। इन्द्रियनिमित्तेन ज्ञानेन परिस्फुटार्थमवधारयतीत्यर्थ इति भावः। इवार्थमाह * इन्द्रियजेति। इन्द्रियजन्यमिदं ज्ञानं न भवतीति हेतोः प्रत्यक्षमिवेति इवशब्दः प्रयुक्त इत्यर्थः। * दृश्येति। बाह्येत्यर्थः। * ज्ञानविषयः --बौद्धः। * अत एव-- बौद्धसामान्यकारे शक्तिग्रहादेव। ' देशान्तरे वर्तते' इत्यपरिचितं देवदत्तं श्रुतवतः कासीस्थपुंसः काश्यां देवदत्ते सत्यपि ' काश्यां देवदत्ते नास्ति' इति वाक्याद्बोधो भवत्येव । बुद्धिस्थस्य सामान्याकारस्य बाह्याकारे ऽध्यासाभावादित्यर्थः। * संमुग्धत्वेन --अभिन्नत्वेन। * अस्य -- काशीस्थस्य । ननूपदेशात् ' सोऽयम् ' इति बुद्धिः कथम् अत आह * अयं स इति । * विजातीयेति। (विजाती--त्यर्थः पाठोऽयं कुंo कपुo नास्ति)एतच्च संमुग्धत्वे हेतुः। मोहश्चाज्ञानम्। तथाच मोहाद् द्वयोराकारयोर्नेक्यग्रह इत्यर्थः। * सः ---देशान्तरस्थः। अयमेवेत्यर्थः। * बौद्ध इति। तत्रोपदेशानन्तरं बौद्ध आकारो बाह्यरूपो भवतीत्यर्थः। * आतीतनलादीति।


अतीतनलादिविषये नलत्वादिप्रकारकः शक्तिग्रहो न सम्भवति, नलत्वादिना पूर्वमज्ञातत्वात् किन्तु प्रमेयवानित्येव प्रमेयप्रकारकः । प्रमेयवानित्यनुभवे प्रमेयत्वेन नलत्वविशिष्टस्यापि पूर्वमनुभवोऽस्ति ।एवं चादृष्टविशेषस्य प्रमेयत्वांशे उद्‌बोधकत्वाकल्पनेन केवलचैत्र्तवविशिष्टस्मरणमिति प्राञ्चः।

तन्न। ' जातिमान् ' इति अनुभवोत्तरं ' घट ' इति स्मरमाषत्तेः। नहि तत्र कस्योद्‌बोधकत्वमस्ति कस्य नेत्यत्र नियाममस्ति । अतस्तत्र संस्कारधारकल्पनेनैव स्मृतिरिति नव्याः।।1.105।।

भावीति। नलादिर्योऽतीतः यश्च भावी चैत्रादिः यश्च प्रसिद्धो वर्तमानोऽपि असन्निकृष्ट इत्येतेषां द्वन्द्वः। * हेत्वसिद्धेरिति। विशिष्य बोधाभावेन तन्मूलकसंस्कारकल्पनाया असम्भवादिति भावः। * गृहीतेति। घटदर्शने घटपदस्मरणवदपूर्वचैत्रादिदर्शने ऽपि तद्वाचकपदस्मरमापत्तेरित्यर्थः। * पदप्रकारकेति। नलपदवाच्यः कश्चिदासीदिन्याकारकेत्यर्थः। * एवं पदमितीति। एतादृशो व्यवहार इति शेषः।* ज्ञातेष्वित। तार्किकमते तु नलशब्दे ज्ञाते तदर्थस्यापि ज्ञातत्वात्प्रश्नानुपपत्तिः। * उपमानस्येति। प्रामाण्यमित्यत्रान्वयः।

तत्र हि ---' गोसदृशो गवयपदावच्यः' इत्युपमानाद् ' गवयो गवयपदावच्यः ' इति शक्तिग्रहः । सादृश्यदीत्यादिना वैधर्म्यपरिग्रहः। यथा अतिदीर्घग्रीवत्वादिपश्वन्तरवैधर्म्यात् उष्ट्रे करभपदवाच्यताग्रहः।

  • सामानाधिकरण्यात्-- वाच्यतया एकार्थवृत्तित्वात्। *शक्तिग्रहासम्भवादिति। नलत्वेन रूपेण पूर्वमनुपस्थितेः। * मोषे अग्रहे। तदंशे ऽन्याप्रकारकस्मृतिं प्रति तदंशेऽन्याप्रकारकत्वेन तु नानुभवस्य हेतुत्वम्, मानाभावात् । नचैवं जातिमत्त्वादिरूपेण घटाद्यनुभवे ऽन्यांशे उद्बोधकालाभे ' घटः' स्मरणापत्तिरिति वाच्यम्। उद्बोधकलाभयोः फलबलकल्प्यत्वात् इति भावः। * तत्तज्जात्यादीति। चैत्रत्वादीत्यर्थः। * निर्विकल्पकमिति। यथा बालानां स्तनपानादाविष्टसाधनतायाः पूर्वानुभूतायाः स्मरणेऽदृष्टविशेष एव नियामकः, तथाऽपूर्वचैत्रत्वादिस्मरणेऽपीत्यर्थः। * आत्मवृत्तीते। आत्मनिष्ठेत्यर्थः। ' सुरभि चन्दनं पश्यामि' इत्यादौ सौरभस्मृतौ हेतुरिति भावः। * न सार्वज्ञ्यापत्तिरिति। प्रमेयत्वेन ज्ञानेऽपि बिशिष्य ज्ञानाभावान्न सर्वज्ञतापत्तिरित्यर्थः। * तादृशेति। प्रमेयत्वरूपेमानुभवाच्चैत्रत्वरूपेण स्मरणेत्यर्थः। * अनुभवाकार्तवस्यैवेति।


तथा च पातञ्जलसूत्रम् " जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वाद् " इति । जातिव्यवहितत्वं जन्मान्तरयोगेन । तत्र जन्मान्तराऽनुभूतस्मरणमञ्जनादिना। देशादिव्यवधानं दूरत्वादिना। नच सुषुप्तिदशायामनुभवाभावात् ' सुखमहमस्वाप्सं न किञ्चिदवोदिषम् ' इति स्मरमानुपपत्तिरिति वाच्यम्। एतदर्थमेव निद्राया वृत्तिविशेषत्वस्यैव स्वीकारात् । एतेन ज्ञानसामान्याभावो निद्रेति तार्किकोक्तमपास्तम्।। 1.106।।

ननु तद्विषयकस्मृतौ तद्विपयकानुभवहेतुतायां व्यभिचारवारणायाव्यवहितोत्तरत्वं वैजात्यं वा निवेश्यमित्यस्वरसादाह * किञ्च तदंशेति। यस्य कस्य चिद्विशिष्यानुभवो जातो ऽस्ति तस्यैव ज्ञानलक्षणयाऽपि ज्ञानं भवतीत्यर्थः। * नत्विति। तथा ऽननुभूतानां ज्ञानलक्षणया ऽपि न तथा ज्ञानमित्यन्वयः। * ब्रह्मणो ऽपीति। अस्मदादीनां सामान्यलक्षणया ब्रह्मणोऽप्यनुभवान्मुक्तत्वापत्तिरित्यर्थः।।1.107।।

  • बहुधेति। नलादिपदघटादिपदेभ्यो विशेष्यस्यानेकधा भानात्। उपमितौ अयं गवयपदवाच्य इत्यादिना बहुविधत्वात्। * अर्थबाधेत्विति। अर्थस्योच्चारणासम्भवात्। * शब्दमात्रेति। तत्रार्थस्य अप्रतीतिरेव। * तत एवेति। शब्दार्थयोरभेदादेवेत्यर्थः। * अनुविद्धमिति। शब्दार्थयोरभेदे शब्दपूर्वकत्वस्यैव न्याय्यत्वात्। * अनुव्यवसायः प्रमाणमिति। प्रत्यक्षे शब्दादीनां विषयत्वासम्भवात्तदुत्तरोत्पन्ने ऽनुव्यवसाये शब्दो विषय इत्यर्थः। अनुव्यवसाय एव ज्ञानस्य भानादुक्तम् * उत्तरार्द्धेति। * अत एव-- शब्दानुविद्धत्वादेव। * अज्ञानतबोधकमिति। न ज्ञातो बोधको वाचको यस्य तम्। शब्दानुविद्धिस्यैव भानात् वाचकशब्दाज्ञाने ऽर्थस्याप्यज्ञात्वव्यहार इत्यर्थः।। 1.108।।


  • मणिमन्त्रादीति।

अयं भावः-- ' ह्रदो वह्न्यभाववान्' इतिनिश्चयानन्तरं ' ह्रदो वह्निमान्' इति बुद्धेरनुदयात्तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः प्रतिबन्धकः। तत्र च ग्राह्याभावानवगाहित्वे ऽपि यथा दाहं प्रति मण्यादोर्विशिष्यैव प्रतिबन्धकता एवं चैत्रत्वादिना विशिष्य शक्तिग्रहाद् बोधादिरित्यर्थः।

  • अस्मदुक्तेति। बौद्धाकारेति प्रागुक्तत्वात्। * तद्गहे-- तदर्थग्रहे। *तस्य - शब्दस्य। * बाधकाभावादिति। शब्दार्थयोर्नित्यसम्बन्धित्वात्। पदाभाने दोषान्तरमाह* किंचेति। * नामेति। नामविषयकत्वं संसर्गविषयकत्वं चेत्यर्थः। चाक्षुपेऽपि नामवैशिष्ट्यमस्त्येव। सुरभि चन्दनमितिवन्नामांशे उपनीतभानसम्भवात्। नामांशे स्मरणं वा। अभावज्ञाने प्रतियोगिस्मरणवत्। * वाचकशब्दाभावादिति। पदार्थादिज्ञानस्य शब्दवाच्यत्वाभावादित्यर्थः। तथा च न शब्दानुविद्धंज्ञानं ज्ञानशब्दयोः सम्बन्धित्वाभावात्। * इतिकरणेति। घटार्थवाचक इतिकरणयुक्तो यो घटादिशब्दः तेन ज्ञानस्य व्यवहार इत्यर्थः। * इन्दरियार्थेति। इन्द्रियविषयसन्निकर्षेणोत्पन्नमित्यर्थः। यद्यपि मनोरूपेन्द्रियजन्यं सर्व ज्ञानं तथापीन्द्रियत्वावच्छिन्नजनकता विवक्षिता। मानसप्रत्यक्षे तु मनस्त्वेन जनकता । ईश्वरप्रत्यक्षस्य त्वजन्यत्वेऽपि जन्यप्रत्यक्षस्यैवेदं लक्षणम्। *अव्यभिचारीति। भ्रमभिन्नमित्यर्थः। प्रत्यक्षं विभजते* अव्यपदेश्यमिति। निर्विकल्पकमित्यर्थः। व्यपदेशः शब्दप्रयोगः। स च विशिष्टज्ञानादेवेति व्यपदेशानर्हत्वान्निर्विकल्पकलाभः। * व्यवसायात्मकमिति ।विशिष्टज्ञानात्मकमित्यर्थः। शाब्दप्रमाया अप्येकपदार्थे ऽपरपदार्थसंसर्गरूपयोग्यताजन्यत्वेनातिव्याप्तिवारणाय * इन्द्रियेति। त्वङ्‌मनोयोगजन्यानुमिताव तिव्याप्तिवारणाय * अर्थेति। सर्वाशे कामिनीत्याद्यलौकिकप्रत्यक्षे इन्द्रियार्थजन्यत्वाभावादव्याप्तिवारणाय * संनिकर्षेति। चक्षुः कपालसंयोगजन्ये चक्षुर्घटसंयोगेऽतिव्याप्तिवारमाय * ज्ञानमिति। न चैवमप्यात्ममनोयोगजन्यानुमितावतिव्याप्तिरिति वाच्यम्। ज्ञानपमहिम्ना विषयतासम्बन्धावच्छिन्नेन्द्रियार्थसंनिकर्षजन्यत्वलाभात्।


अथ गुडं भुङ्क्ते इत्यत्र गुडत्वस्येव मधुरत्वस्यापि प्रकारतया तत्प्रकारकशाब्दबोधवारमाय तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मप्रकारकशक्तिज्ञानस्य हेतुत्वं वाच्यम्। एवं च घटत्वावच्छिन्नप्रकारताशालिशाब्दबोधं प्रति तादृशशक्तिज्ञानस्य हेतुतया कथं घटशब्दत्वादेः प्रकारतावच्छेदकतया भानं घटशब्दस्य घटशब्दवाच्ये शक्तिरिति शक्तिग्रहाभावात्। यत्तु सम्बन्दिज्ञानविधया शब्दस्य भानामिति। तन्न। हस्तिपकशब्दाद्धस्तिनोऽपि बोधापत्तेरिति चेद्। शब्दांशे स्मरमात्मकबोधस्यैवोपगमात्।

  • अन्यत्र-- शाब्दबोधे । * तदभानेति। शब्दाभानस्या ग्रहो व्यर्थ इत्यर्थः। * वात्स्यायानेन--न्ययभाष्यकृता।

तत्र हि-- ' रूपम्' इति जानातीत्याकारकं प्रत्यक्षं भवति। रूपादिशब्दाश्च विषयनामानि तथा च नामधेयशब्देन व्यपदिश्यमानत्वात्प्रत्यक्षस्य शाब्दत्वापत्तिरित्याशङ्कायामव्यपदेश्यमिति सूत्रांशो ऽवतारितः।

तस्यायं भावः ---रूपादिप्रत्यक्षकाले नामधेयशब्दस्य न कोऽपि व्यापारः किं तु व्यवहाकाले रूपमिति जानातीत्यादिः। तस्मादशाब्दं प्रत्यक्षमिति।

  • उक्तप्रायम्--अत एव ज्ञानजन्यत्वे सति शब्दज्ञानजन्य्तवमनुमितिलक्षणमभिधाय मननजन्यतत्त्वज्ञाने नातिव्याप्तिः तत्त्वमसीत्यादिशब्दविषयत्वादिति तार्किका अपि वदन्ति। * न तु शब्दजन्यत्वमिति। विषयविधया शब्दप्रत्यक्षेऽतिव्याप्तेः।


यत्तु यत्र विभिन्नविषयकानुमितिसामग्रीकाले शाब्देच्छाबलाच्छाब्दबोधः , तत्र शब्दविषयकत्वासम्भवः । न। ' शब्दशाब्दं जायताम्' इत्याकारकेच्छाया एवोत्तेजकतया तदिच्छविरहविशिष्टानुमितिसामग्याः प्रतिबन्धकत्वात् तत्र शाब्दबोधाभावात्। तदिच्छाया अप्युत्तेजकत्वे तु तत्तदिच्छाभावकूटानां विशेष्याविशेषणभावे विनिगमनाविरहाद्रौरवमित्यर्थ इति । तन्न। शाब्दबोधमात्रस्यैव शब्दविषयकतयैकविधेच्छाया एवोत्तेजकत्वात्।। 1.109 ।।

  • न वा एतदिति। स्वंरूपमिति सूत्रं न वक्तव्यमित्यर्थः। * शब्दपूर्वको हीति।शब्दज्ञानपूर्वको हीत्यर्थः। उपलब्धस्यैव हि शब्दस्यार्थबोधकत्वं न तु चक्षुरादिवत्सत्तामात्रेण बोधकत्वमिति भावः।


अयमाशयः--अतरङ्गत्वादहेयत्वादसाधारणत्वाच्च स्वरूपमेव मुख्यमर्थः। शब्दार्थयोश्चाभेदाच्छब्दगतैव जातिरर्थ आरोप्यते। अत एवोक्तं हरिणा----
तथा शब्दार्थसम्बन्धाच्छब्दे जातिरवस्थिता।
व्यपदेशेऽर्थजातीनाञ्जातिकार्याय कल्पते।। इति।

  • शब्दपूर्वकश्चेति । शब्दपूर्वको हीत्यर्थः। * व्यतिरेकमिति। शब्दज्ञानाभावेऽर्थज्ञानाभावादिति भावः। * युक्त्यन्तरत्वमेवेति।' यतः शब्दपूर्वक' इति पूर्वहेतुतया न व्याख्येयमित्यर्थः। * मन्त्रइति। मन्त्रशब्दादिग्रहणवारणाय अशब्दसंज्ञेति निषेध इत्याशङ्क्य भाष्यकार आह " लक्ष्ये मन्त्रशब्दग्रहणासम्भवादर्थस्य ग्रहणं भविष्यति " इति कैयटोक्तिमेवाह * साहचर्य चेति। * यज्ज्ञानमिति । दृष्टं च शाब्दबोधे घटज्ञानं घटपदविषयकम्। * यज्ज्ञानम्-- घटज्ञानम्। *यत्पदादिविषयम्--घटादिपदविषयम्। * तद्--घटज्ञानम्। * तत्पदजन्येति। घटपदन्यतेत्यर्थः। घटपदजन्यबोधे या विषयता तत्समानविषयताकमित्यर्थः। एवं च प्रत्यक्षेऽपि पदविषयताऽऽवश्यकी। तथाच विषयताऽपि शक्यैवेति बावः। * समानेति। शाब्दबोधे यावन्तो विषयास्ते प्रत्यक्षेऽपीत्यर्थः।। 1.110 ।।


ननु यथा संयुक्तसमवायबलाद्रूपस्य प्रत्यक्षं तथा संयुक्तविशेषणताबलादेव विषयताभानं सिद्धं किमर्थं विषयताया वाच्यत्वमत आह * सन्निकर्षादिभिस्त्विति। कदाचिद् रूपस्य विशेषणता कदाचिच्च विशेष्यता भवति तथा प्रकारत्वादीनामप्यनियमः स्यादिति भावः।

एतेन पदानां स्वपरत्वे लक्षणैव न शक्तिः, अन्यलभ्यत्वात्। प्रत्यक्षोपस्थितत्वात् शब्दस्यापि भानमिति तु न युक्तम्। वृत्त्यभावे 'प्रत्ययानां प्रकृत्यर्थान्वित---' इति न्यायविरोधात् प्रत्ययार्थान्वयानापत्तेः । अत एव वृत्तिं विनापि पदस्य भानं स्वभावात्। अन्यबोधनेऽतिप्रसङ्गवारणाय वृत्तिरपेक्षिता न तु स्वबोधनेऽपीत्यपि न वक्तव्यमित्यपास्तम्।

  • घटरूपेति। यदा यस्य पूर्वं ज्ञानं तदा तस्य विशेषणतेत्यर्थः। * विशेष्यज्ञानस्यापीति। तथा च विशेष्यस्य पूर्वं ज्ञानतत्वे विशेषणत्वापत्तिः। * किञ्चिदिति। विशेष्यरहितमपि प्रतीयेतेत्यर्थः। * न तु घट इत्यादीति। ' रूपवान् घट ' इति बुद्धिर्न स्यादित्यर्थः। अत्रैव हेतुमाह * विशेष्याग्रहेति। * तदनुत्पत्त्या---रूपविविशिष्टघटज्ञानानुत्पत्त्या । * विशिष्टस्येति। ' रक्तदण्डवद् भूतलम्' इत्यत्र रक्तत्वविशिष्टदण्डस्य वैशिष्ठ्यं भूतले भासते। तत्र रक्तत्वप्रकारकनिश्चयः कारणम्। ' रक्तो दण्डो न वा ' इति संशयानन्तरं तदनुदयादिति भावः।


ननु निश्चयत्वेनैव हेतुत्वे 'रक्तो दण्डो न वा 'इति संशयानन्तरं 'रक्तदण्डं संदेह्मि' इति विशिष्टविषयकोऽनुव्यवसायो न स्यादिति चेत्।

सत्यम्। तादृशानुव्यवसायो दण्डे रक्तत्वाभावावगाही ' दण्डे रक्तत्वं सन्दोह्मि ' इत्याकारक एव। 'घटवद् भूतलम् ' इति विशिष्टबुद्धौ तु विशेषणतावच्छेदकप्रकारकज्ञानमेव कारणं न तु निश्चयत्वगर्भम्। ' अयं घटो न वा ' इति संशयानन्तरमपि तादृशबुद्ध्युदयात्।

ननु 'घटत्वप्रकारकघटविशेष्यकज्ञानवानहम्' इत्यनुव्यवसायवालादस्तु सविकल्पकस्य प्रत्यक्षसिद्धत्वं निर्विकल्पकस्वीकारे तु मानाभाव इत्यत आह * अत एवेति। विशेषणज्ञानस्य कारणत्वादेवेत्यर्थः। घट्तवज्ञानं विना घटत्वप्रकारकज्ञानं न सम्भवतीति भावः।

ननु अन्यथासिद्धत्वाद्विशेषणज्ञानं न कारणमिति चेन्न।

स्वरूपतो 'घट ' इति विशिष्टबुद्धिं प्रति स्वरूपतो घटत्वज्ञानस्य हेतुतया ' जातिमान्' इति बुद्धि प्रति जातित्वेन हेतुतया विशेषणज्ञानस्य हेतुतासिद्धेः।

  • विशिष्टइति। ' रक्तदण्डः प्रमेय ' इत्यत्र रक्तत्वविशिष्टे दण्डे प्रमेयत्ववैशिष्ट्यज्ञानम्। * घटघटत्वेइति। व्यक्तिं विनाजातेरभानाद्व्याक्तिरपि भासते। तदुभयसंसर्गस्तु फलबलान्न भासत इति भावः। ननु चक्षुस्संयुक्तसमवायरूपकारणबलात्सम्बन्धस्यापि भानं दुर्वारमिति चेद् एवं तर्हि निष्प्रकारकत्वा देव निर्विकल्पकत्वम्।। 1.111 ।।


  • विशेषणज्ञानेति। युगपद्विशेषणविशेष्येन्द्रियसंनिकर्षेणैव विशिष्टबुद्‌ध्युत्पत्तौ विशेषणज्ञानहेतुत्वे मानाभावः। एवं च विशेषणज्ञानसंपादकतयाऽपि निर्विकल्पकस्वीकार इति भावः। ननु विशेषणज्ञानशून्यकाले संस्काराभावादेव स्मरमासंभवात्, तथा च विशिध्यस्मरणमेव कारणमस्तु किं निर्विकल्पेनेति चेत्। अपूर्वचैत्रत्वादिस्मरणाभावेन विशिष्टबुद्धिर्न स्यादिति। * सन्निकर्षेणैवेति। संनिकर्षस्यैव हेतुतामिच्छन्तीत्यर्थः। * अनुपपत्तिरेवेति। विशेष्यणभावेऽनियमापत्तिरित्यर्थः।


तार्किकास्तु प्रत्यक्षे एव विशेषणतावच्छेदकप्रकारकनिश्चयादेः कारणतां वदन्ति। खलेकपोतन्यायेन तैः शाब्दबोधस्वीकारेण शाब्दबोधादौ पदार्थोपस्थित्यादेरेव नियामकत्वात्।
ननु विशेषणज्ञानहेतुतयैव गतार्थ्तवाद्विशेषणतावच्छेदकप्रकारकज्ञानस्य हेतुत्वे मानाभावः । सत्यम्। घटत्वादिनिर्विकल्पकानन्तरं ' घटो नास्ति ' इति प्रत्यक्षवारणाय प्रतियोगितावच्छेकप्रकारकज्ञानस्य हेतुत्वकल्पने गौरवात्।

ननु पदानुपस्थितस्य विषयत्वस्य भाने हेत्वभावोऽत आह * विषयताभानेत्विति । घटादिवत् घटनिष्ठाविषयता ऽपि भासत इत्यर्थः। * घटत्वनिष्ठेति। एवं च प्रकारत्वादिघटितधर्मस्य वाच्यत्वे प्रकारत्वादीनामपि वाच्यत्वं सिद्धमित्यर्थः। * विषयताविषयक इति। ' घटत्वप्रकारकज्ञानवानहम्' इत्यादिः। * स्वरूपतइति। शक्तिग्रहाविषयस्यापि पदार्थस्य भाने त्वित्यर्थः। * कुब्जखञ्जइति। अत्र कुब्जत्वनिष्ठैव प्रकारता। ननु विषयताभाने तत्रापि विषयत्वान्तरापत्तिरत आह * स्वरूपेति। न तु सम्बन्धान्तरेत्यर्थः। * बलादेवेति। घटत्वप्रकारकशाब्दबोधं प्रतीत्यादिनेत्यर्थः । * तद्बोधेति। घटत्वे प्रकारताबोधा्र्थ प्रकारतांशेऽपि शक्तिरावश्यकीत्यर्थः।।1.112 ।।

  • विशेष्यत्वरूपस्वार्थस्येति।

अयं भावः-- राजत्वनिष्ठप्रकारतानिरूपिता या विशेष्यता तदवच्छिन्नो राजपदार्थः। वृत्तौ तु राजपदार्थस्य विशेषणत्वाद्विशेष्यत्वरूपस्वार्थस्य त्यागः। राजरूपार्थस्य तु त्यागाभावान्न तत्प्रयुक्तजहत्स्वार्थत्वमिति।

  • तच्छक्यत्वञ्चेति । विषयतया भानं शक्यत्वं चानुभवसिद्धमित्यर्थः।। 1.113 ।।


  • व्यक्त्याकृतीति। जातिविशिष्टायां व्यक्तौ शक्तिस्वीकारे सम्बन्धारो ऽपि शक्त्यापत्तिः, विशेष्यविशेषणभावे विनिगमनाविरहापत्तिश्चेति पृथक् तयोः शक्यत्वम्। जातेर्नियतसंस्थानव्यङ्ग्य्तवनियमाभावादाकृतेः पृथग्वाच्यता । * विशेषणार्थ इति। विशेषणं व्यावर्तनम्। किं व्यावर्त्यत इति पृच्छति * किंविशेष्यत इति। उत्तरमाह * प्रधानेति। जात्यादीनां गौणप्रधानभावस्य नियतत्वाभावात्तिसृणामपि पदार्थत्वमित्यर्थः। " तुशब्द एकैकमात्रस्य पदार्थत्वव्यवच्छेदाय। अन्यथा कदाचित्कस्याश्चिदुपस्थितिः। स्यात्' इत्यन्यैर्व्याख्यातमत उक्तं * वार्तिककृतेति।


यदा हि भेदविवक्षा विशेषगतिश्च ' गौस्तिष्ठति ' इत्यादि तदा व्यक्तिः पदार्थः अङ्गं तु जात्यादीति। यदा भेदोऽविवक्षितः सामन्यगतिस्च तदा जातिः पदार्थः। यथा `गौर्न पदा स्प्रष्टव्या ' इति। आकारस्य प्राधान्ये तु `पिष्टकमय्यो गाव ' इति।

  • प्रज्ञापनीयेति। `पर्वतो वह्निमान्' इत्यत्र बोधनीयो धर्मो वह्निः तद्विशिष्टो धर्मो पर्वतः। * साध्यः -- प्रतिपाद्यः । अनित्यः शब्द इत्यत्रानित्यत्वविशिष्टः शब्दः प्रतिपाद्यते तस्मादनित्य्तवविशिष्टः(तस्मा--ञ्जलीः पाठोऽयं कुं.कपु. नास्ति) शब्दः साध्यत इति भावः। अत एव " जिज्ञासितधर्मविशिष्टो धर्म्यनुमेय " इति भगवान् पतञ्जलिः। एतच्च ( एतच्च --कार अयं पाठः कुं. खपु. न विद्यते।)" साध्यनिर्देशः प्रतिज्ञा" इति सूत्रस्य व्याख्यानम्। अतएव " प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा " इति तत्र भाष्यकारः । प्रज्ञापनीयेत्यस्य कृत्यमाह * अनित्य इति। अत्र शब्दस्य सिद्धत्वात्साध्यत्वं न सम्भवति। नापि अनित्यत्वं साध्यं तस्य घटादौ सिद्धत्वात्। नापि शब्दनिष्ठमनित्यत्वं साध्यमित्याह * नापीति। अनित्यत्वं शब्दवृत्तीत्यनुमाने हि अनित्यत्वं पक्षीकृत्य शब्दवृत्तित्वं साध्यं तत्रानित्यत्वरूपे धर्मिणि कृतकत्वरूपहेतोरभावः। * साध्यस्येति। धर्मवत्तया प्रतिपाद्यस्य पक्षस्येत्यर्थः। * योगाभावादिति। तस्मात्प्रज्ञापनीयेत्यादिः। सुष्ठूक्तमिति। भावः। * परम्परेति। स्वाश्रयवृत्तित्वेत्यर्थः। कथं तर्हि ' एकं रूपम् ' इत्यादौ गुणे गुणानङ्गीकारात्स्वाश्रयसमवायेनैकत्वंरूपे प्रतीयत इति प्रवाद इति चेन्न। तत्र सङ्ख्याऽभावरूपस्यैकत्वस्य स्वीकारात्। * नचेति। घटादौ सिद्धमनित्यत्वमपीह न साध्यं सिद्धत्वादेव हेतोरिति भावः।क्वचित् किञ्चानित्य्तवमपीति पाठः। ननु यदि धर्मः प्रज्ञापनीयस्तदा अज्ञातस्य धर्मस्य कथं विशेषणत्वमत आह * तस्मादिति। * अन्यधर्मत्वेन ---घटादिधर्मत्वेन ।धर्मधर्मिणोः सामान्यतो ज्ञातत्वेऽपि विशेष्यविशेषणभावरूपविशेषबोधार्थमेवेानुमानमिति भावः। * सचेति। विशेष्यविशेषणभावश्चेत्यर्थः। उभयाश्रयत्वे सति यत्सिद्धं तदुपपादयति * धर्मोति। पर्वतादिः। * धर्मः --वह्न्यादिः।। 1.114।।


  • तद्विविक्तेति। जात्यादिव्यतिरेकेण द्रव्यस्यानुपलम्भादित्यर्थः। शब्दशब्दार्थयोरभेदाध्यासेऽर्थगदजातेरपि शब्दत्वसम्भवादिति भावः। * कथमिति। एकस्मिन्नेव फले पूर्वरूपनाशेन रूपान्तरोत्पत्तौ `तदेवेदं फलम् ' इति प्रत्यभिज्ञया गुणवन्यतिरिक्तस्यैव द्रव्यास्य न्याय्य्तवात् इति भावः। ` गुणसमूबोद्रव्यम् ' इति पक्षे समूहस्य शब्दवाच्यत्वेऽवयवस्यापि शब्दवाच्यत्वात् शब्दत्वमिति भावः। * अवयवविशेषेति। अयुतसिद्धाये अवयवास्तदनुगतो यः सामान्यविशेषरूपगुणसमुदायः स एव द्रव्यमित्यर्थः। अयुतसिद्धत्यवमपृथग्‌भावेनानुभूयमानत्वम्।


अयस्भावः--पृथिव्याः सामान्यं कठोरत्विम्, जलस्य स्नेहः, वह्नेरुष्णता, वायोर्वहनशीलता, आकाशस्य सर्वतो गतिः। शब्दस्पर्शरूपरसगन्धाश्च पृथिव्यादीनां विशेषास्तत्समूहो द्रव्यम्। तत्र समूहमात्रं न द्रव्यमिति बोधयितुमुक्तम् * अयुतसिद्धेति। एतस्यैव विवराणम् * निरन्तरत्वरूपेति। यथा हि शरीरादीनामवयवा अयुतसिद्धा नैवं वनादीनामवयवा अयुतसिद्धा इति न तेषां द्रव्यत्वम्। गुणानामपिरूपादि सामान्यं शुक्लादिर्विशेष इति। *कः सम्प्रत्ययइति। किमात्मकं द्रव्यं भवान् मन्यत इत्यर्थः। * गुणसमुदायो द्रव्यमिति।

सत्त्वरजस्तमसां गुणानां परिणामविशेषाः शब्दादयः पञ्चरागाः सत्त्वाद्यत्मका एव तत्सङ्घात एव घटादिकं नतु तद्व्यतिरिक्तमवयविरूपमस्तीति सांख्यसिद्धान्तः। शतशः छिन्नस्यापि पशोः रूपरसगन्धादिव्यतिरिक्तस्य कस्य चिद्वस्तुनोऽनुपलम्भाद् गुणानां समुदाय एव द्रव्यम्। तत्र प्रत्येकाभिप्रायेण गुणव्यवहारः समुदायामिप्रायेण द्रव्यव्यवहारः। लोहकार्पासयोर्गुरुत्वभेदस्तु समूहकृत एव न द्रव्यभेदकृतः। " तस्य भावः। ' इति सूत्रे भाष्येऽपि द्रव्यगुणयोर्भेदव्यवहारः समूहसमूहिकृत एवेति भावः। तत्र समूहसमूहिनोरभेदात्तद्‌ग्रहो द्रव्यम्, व्याकरणे तु गुणशब्देन धर्ममात्रमुच्यते।
तदुक्तम् हिरणा---
संसर्गिभेदकं यद्यत्सव्यापारं प्रतीयते।
गुणत्वं परतन्त्रत्वात्तस्यशास्त्रे उदाहृतम्।।इति।
संसर्गिण आधारस्य भेदकं सव्यापारमवच्छेदकरूपेण प्रतीयते तस्य गुणत्वम्। लोके हि परतन्त्रो गुण इत्युच्यते। तदाश्रयो द्रव्यमिति वैशेषिकपरिभाषा । इह तु सर्वनामपरामर्शयोग्यत्वं भेद्यत्वं वेत्यादि द्रव्यलक्षणम्। अत एव द्रव्यं पदार्थ इति पक्षः।अत एवच समानाधिकरणशब्दस्य समानद्रव्यवचनतया सर्वरस इत्यत्र समासः।

नन्वेवं " विप्रतिषिद्धं चानधिकरणवाचि " इत्यत्रापि गुणादीनां निषेधात् शीतोष्णं सुखदुःखमित्यत्रैकवद्भावो न प्राप्नोतीति चेन्न। तत्र वचनसामर्थ्यात्प्रसिद्धद्रव्यग्रहणात्।

" वोतो गुणवचनाद् " इत्यत्र गुणोपसर्जनद्रव्यग्रहणाज्जात्यादिविशिष्टग्रहणे प्राप्ते " सत्त्वे निविशते " इति परिभाषा आश्रिता।

" गुणवचनब्राह्मणादिभ्य " इत्यत्र समासादिभिन्नत्वं गुणत्वमिति वार्तिकसमयः । " तृतीयातत्कृतार्थ " इत्यत्र खण्डादिरेव गुणः।

त्रिगुणा रज्जुरित्यत्र समवायवचनो गुणशब्दः । गुणशब्देनावयवानामपि ग्रहणात्। तत्समुदायोऽपि द्रव्यमिति व्यवस्थापयति * कञ्च समुदायघटकत्वाद्रूपादयोऽप्यवयवा इत्यभिप्रेत्याह * अयुतसिद्धेति। एतदभिप्रेत्यैवाह * गुणपदेनेति। * भामत्यामिति।

तत्र हि ' निरवयव' इति शारीरकभाष्यप्रतीपादाय ' व्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथाऽनुमन्यते नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयोऽस्ति ' इत्युक्तम्।

ननु गुणसमुदायस्यैव द्रव्यत्वे स्वस्यैवाधाराधेयभावासम्भव इत्यत आह * समुदायसमुदायिनोरिति । * अत एव गुणाश्रय इति। समूहसमूहिनोर्भेदस्यापि स्वीकारादयमपि व्यवहार इत्यर्थः। * नातिरिक्तेति। वृक्षसमूह एव वनं नातिरिक्तमित्यर्थः। ननु अवयवसमुदायस्यैव द्व्यत्वे तन्नाशः कथमत आह* विभाग एव तन्नाशक इति।

अत एवासमवायिकारणनाशात्कार्यनाशः, न तु समवायिकारमनाशात्। परमाणूनां नित्यत्वेन द्व्यणुकनाशानापत्तेरिति तार्किकाः।

ननु सम्पूर्णस्याप्रत्यक्षे घटादेः प्रत्यक्षं न स्यादत आह * भूयो वयवेति ।। 1.115 ।।