सामग्री पर जाएँ

तत्त्वप्रभावली

विकिस्रोतः तः
तत्त्वप्रभावली
[[लेखकः :|]]

अथ श्रीतत्त्वप्रभावल्याः प्रमाणखण्डे शब्दप्रमाणम्

शब्दः स्वार्थयुतः शक्त्या यद्वा लक्षणया युतः।
वाच्यबोधकरः सर्वव्यवहारस्य साधनम्।। 472 ।।
व्यापको गगनस्थश्च गगनाऽभिन्नतद्‌गुणः।
विद्युद्वायुसहायेन व्यक्तः सूक्ष्मोऽन्यथाऽस्ति खे।।
जले पृथ्व्यामनले च वायौ निमित्तबन्धनः।
कर्णग्राह्योऽक्षरादिस्च ध्वनिश्चाऽग्राह्यपूर्वकः।। 474 ।।
वृद्धिह्वासास्तरतमा बुध्यन्ते व्यक्तसंक्रमाः।
शब्दधाराः पर्वतादावनुभूयन्त ऊर्ध्वगाः।। 475 ।।
अतः शब्दा दशदिक्षूत्पद्यन्ते सर्वतः समाः।
कोमला मधुरा रूक्षा आनुपूर्वीसजातिकाः।। 476 ।।
कस्तु क एव सर्वत्र निमित्तानुगतः पृथक्।
व्यापकोऽनन्ततां प्राप्नुवानोऽसंख्यविधो मतः।।
लौकिकाः संस्कृताश्चापि विद्वद्भिः सन्निवेशिताः।।
अर्थे योग्ये व्यवहार्ये रेखाबोध्याः कृता जनैः।। 478 ।।
श्रोत्रेन्द्रियमात्रग्नाह्यतावच्छेदकजातिमत्त्वं शब्दत्वम्, आकाशगुणत्वं शब्दत्वम् शब्दपदजन्यबोधविषयत्वं शब्दत्वम्, शृणोमीतिप्रत्यक्षगुणत्वं शब्दत्वम्। ककाराद्या द्विपञ्चाशदक्षराः प्रामाणिकैर्मताः, सस्वरा एकैके द्वादशाक्षरीसंकलनारूपाः, संयुक्ताश्च शब्दपदादिरूपाः, शब्दसमूहाः वाक्यरूपाः, वाक्यसमूहाः श्लोकगद्यप्रकरणादिरूपाः शास्त्ररूपाश्च सर्वेऽपि निजनिजाऽर्थान्विता विद्यन्ते। वाचकं पदम्, वाच्योऽर्थः, शब्दज्ञानं प्रमाणं करणम पदजन्यपदार्थस्मरणं द्वारम्, शक्तिलक्षणाऽन्यतरवृत्तिज्ञानं सहकारिकारणम्, शाब्दबोधः फलं प्रमा, पदज्ञानम् एकसम्बन्धिज्ञानविधया पदार्थोपस्थापकम्। संकेतो लक्षणा चाऽर्थे पदवृत्तिः। सा च---`अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा, इदं पदममुमर्थं बोधयतु' इति चेश्वरेच्छारूपा वा `अस्याऽर्थस्य बोधोऽस्माच्छब्दाज्जायतामिति' वा। प्रथमे---एतत्पदजन्यबोधविषयतावानर्थो भवतु' इतीच्छा शक्तिः, एतत्पदनिष्ठप्रकारतानिरूपितजन्यत्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यताश्रयोऽर्थः इति बोधः। स्वजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्त्वम् पदस्याऽर्थे सम्बन्धः।। अथ द्वितीये `एतदर्थविषयकबोधजनकतावदिदं पदं भवतु' इतीच्छा, एतदर्थनिष्ठप्रकारतानिरूपितविषयित्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितजनकत्वनिष्ठप्रकारतानिरूपितविशेष्यताश्रयः पदमिति बोधः।। `पदं गां वक्ति' `पदेन गौरुच्यते' इत्यादौ `अस्मात्पदादयमर्थो बोद्धव्यः' इति संकेते बोधविषयत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यत्वं वाच्यर्थः। `गां पदं वक्ती'त्यत्र विशेष्यतायाः परम्परया निरूपकप्रकारताश्रयत्वात्मककर्तृत्वं कर्त्राख्यातेन बोध्यते, तत् स्वरूपेण पदेऽन्वेति, गामिति द्वितीयार्थो निष्ठत्वम्, गोनिष्ठा या बोधविषयत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतानिष्ठविशेष्यतानिरूपित-निरूपितत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितप्रकारत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितविषयत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितजन्यत्वसम्बन्धावच्छिन्नप्रकारताश्रयतावद गोपदमिति बोधः।। तादृशाद्यश्रयाऽन्तोऽत्र कर्त्राख्यातार्थः।। `पदेन गौरुच्यते' इत्यत्र तादृशविशेष्यतायाः आश्रयत्वसम्बन्धेन अर्थेऽन्वयः, तृतीयार्थ आधेयता, गोपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्चरेच्छीयविशेष्यताश्रयतावान् गौरिति बोधः।। अथ `पदं गां वक्ति' `पदेन गौरुच्यते' इत्यादौ `इदं पदमिममर्थं बोधयत्वि' ति संकेते बोधजनकत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यत्वं धात्वर्थः। `पदं गां वक्ती'त्यत्र तादृशविशेष्यताया आश्रयत्वेन पदेऽन्वयः, गोविषयकबोधजनकत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यताश्रयो गोपदमिति बोधः। `गोपदेन गौरुच्यते' इत्यत्र तृतीयार्थ आधेयता, तत्र निरूपितत्वेन पदस्याऽन्वयः, आधेयताया विशेष्यत्वेऽन्वयः, गोपदनिरूपिताऽऽधेयतावती या बोधजनकत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यता तन्निष्ठविशेष्यतानिरूपितनिरूपितत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितप्रकारत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितजनकत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितबोधत्वावच्छिन्नप्रकारत्वावच्छिन्नविशेष्यतानिरूपितविषयित्वसम्बन्धावच्छिन्नप्रकारताश्रयो गौरिति बोधः। तादृशाद्याश्रयान्तः कर्माऽऽख्यातार्थः। वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमित्तलक्षणम्, आश्रयत्वसम्बन्धावच्छिन्नघटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यता घटे, अवच्छेदकत्वसम्बन्धावच्छिन्नघटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यता घटत्वे, अवच्छेदकताऽवच्छेदकत्वसम्बन्धावच्छिन्नघटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यता समवाये वर्तते। आकारस्तु `घटो घटपदजन्यबोधविषयो भवतु' `घटत्वं घटपदजन्यबोधविषयतावच्छेकं भवतु' `समवायः घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको भवतु' इति। अत्र आधुनिकसङ्केतार्थमिच्छामात्रं शक्तिरित्यपि सुवचः। `गौः गोपदवान्' इत्यत्र गोपदवत्ता प्रथमसङ्केते ज्ञाने स्वजन्यबोधविषयत्वनिष्ठाऽ।ञश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितसङ्केतीयविशेष्यता गवि गोपदसम्बन्धः। सम्बन्धेन आश्रयत्वसम्बन्धावच्छिन्नप्रकारतायां गोत्वनिष्ठविशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्नाऽवच्छेदकतासम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नत्वं विशेषणविधया प्रविष्टम्। द्वितीयसङ्केते गोपदवत्ता स्वनिष्ठविशेष्यतानिरूपितबोधनिष्ठप्रकारत्वावचत्छिन्नविशेष्यतानिरूपितजनकत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितबोधनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितविषयत्वसम्बन्धावच्छिन्नसङ्केतीयप्रकारतासम्बन्धेन। अत्र सम्बन्धे विषयत्वसम्बन्धावच्छिन्नगोनिष्ठप्रकारतानिरूपितबोधनिष्ठविशेष्यतायां समवायसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकविषयत्वसम्बन्धावच्छिन्नगोत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाऽवच्छिन्नत्वं विशेषणविधया प्रविष्टम्। अस्माच्छब्दादस्याऽर्थस्य बोधो जायतामिति सङ्केते गोपदवत्ता स्वनिष्ठनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितजन्यत्वनिष्ठविशेष्यत्वावच्छिन्नस्वरूपसम्बन्धावच्छिन्नजन्यत्वनिष्ठप्रकारतानिरूपितबोधत्वावच्छिन्नविशेष्यत्वावच्छिन्नबोधनिष्ठविशेष्यतानिरूपितविषयत्वसम्बन्धावच्छिन्नप्रकारतासम्बन्धेन। अत्र सम्बन्धे विषयत्वसम्बन्धावच्छिन्नगोनिष्ठप्रकारतानिष्ठप्रकारतानिरूपितबोधत्वावच्छिन्नशेष्यतायां स्वनिष्ठसमवायसमवायसम्बन्धावच्छिन्नाऽवच्छेदकताकविषयत्वसम्बन्धावच्छिन्नगोत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नत्वं विशेषणविधया प्रविष्टत्वम्। वाच्यत्वज्ञानस्य शाब्दबोधौपयिकत्वात्। वाचकत्वज्ञानस्य न शाब्दबोधौपयिकत्वम्, समवायस्य स्वरूपतः प्रकारत्वाऽसंभवेन समवायत्वानुपस्थितत्वात् समवायेन गोत्वप्रकारकबोधाऽनुदयात्।।
`अस्मात्पदादयमर्थो बोद्धव्य` इत्यत्र वाच्यत्वपक्षे शब्दजन्यबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतावत्त्वसम्बन्धे संकतेः। संकेतीयशब्दजन्यबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतावत्त्वं वाच्यत्वम्। प्रकारतावत्त्वं च स्वनिरूपिकविशेष्यत्वस्वावछिन्नाऽवच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्व-स्वावच्छिन्नप्रकारतानिरूपितसंसर्गतावच्छेदकत्वैतदन्यतमसम्बन्धेन। गौः गोशब्दजन्यबोधविषयो भवतु इत्यर्थके गौः गोशब्दाद्‌बोद्धव्य इत्याकारके संकते गोशब्दजन्यबोधविषयत्वं गवि आश्रयतासम्बन्धेन प्रकारः, गोत्वे च समवायसम्बन्धावच्छिन्नाऽवच्छेदकता-समवायनिष्ठावच्छेदकतानिरूपिताऽवच्छेदकतासम्बन्धेन प्रकारः, उक्तसंकेतीया शब्दजन्यबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारता स्वनिरूपितविशेष्यतासम्बन्धेन गवि, स्वावच्छिन्नसमवायसम्बन्धावच्छिन्नाऽवच्छेदकतत्‌व-सम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन गोत्वे, स्वावच्छिन्नप्रकारतानिरूपितसंसर्गतानिरूपितावच्चेदकत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतासम्बन्धेन समवाये विद्यते इति गोगोत्वसमवायाः गोशब्दस्य वाच्याः।।

अथ तत्रैव वाचकत्वपक्षे-अर्थविशिष्टाश्रयत्वसम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नविषयत्वनिष्ठविशेष्यतानिरूपितप्रकारत्वावच्छिन्नबोधनिष्ठविशेष्यतानिरूपितप्रकारत्वावच्छिन्नजन्यत्वनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वसम्बन्धेन संकतेः, संकतायतादृशप्रकारतावत्त्वं वाचकत्वम्। विषयत्वनिष्ठाऽऽश्रयत्वसम्बन्धावच्छिन्नप्रकारतायाम् अर्थवैशिष्ट्यं स्वनिष्ठविशेष्यतानिरूपितत्वस्वनिष्ठविशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्नाऽवच्छेदकत्वसम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नत्व-स्वनिष्ठावच्छेदकतानिरूपिताऽवच्छेदकतानिष्ठावच्छेदकतानिरूपितप्रकारत्वावच्छिन्नत्वैतदन्यतरसम्बन्धेन। शब्दजन्यबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतायां गौः स्वनिष्ठविशेष्यतानिरूपितत्वसम्बन्धेन, गौत्वं स्वनिष्ठविशेष्यतानिरूपितप्रकारत्वावच्छिन्नत्वसम्बन्धेन, समवायश्च स्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितसंसर्गतानिरूपितप्रकारत्‌वावच्छिन्नत्वसम्बन्धेन वर्तते इति गोगोत्वसमवायानां गोशब्दो वाचकः।।
अथ-अयं शब्दोऽमुमर्थं बोधयतु' इत्यनुसारेण वाच्यत्वम्‌, शब्दनिष्ठविशेष्यतानिरूपितजनकत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितबोधनिष्ठप्रकारत्वावच्छिन्नविशेष्यतावत्त्वसम्बन्धे९ संकेतः, संकेतीयतादृशविशेष्यतावत्त्वं वाच्यत्वम्।। अत्रैव वाचकत्वम्-अर्थविशिष्टबोधनिष्ठशेष्यत्वावच्छिन्नप्रकारतानिरूपिततविशेष्यतावत्त्वसम्बन्धेन संकेतः, संकेतीयतादृशविशेष्यतावत्त्वं वाचकत्वम्।। सम्बन्धोऽत्र प्रतिलोमतया नियोज्यः।। तृतीयसंकेतानुसारेण वाच्यत्वम्-शब्दजन्यत्वनिष्ठप्रकारातानिरूपितबोधत्वावच्छिन्नविशेष्यतावत्त्वसम्बन्धेन संकेतः, संकेतीयतादृशविशेष्यतावत्त्वं वाच्यत्वम्।। तृतीयसंकेतानुसारेण वाचकत्वम्-अर्थविशिष्टबोधत्वावच्छिन्नविशेष्यतानिरूपितजन्यत्वनिरूपितजन्यत्वनिष्ठप्रकारत्वावच्छिविशेष्यतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतासम्बन्धेन संकतेः, संकेतीयतादृशप्रकारतावत्त्वं वाचकत्वम्‌।।
अथ प्रत्यक्षं सेन्द्रियम्, अनुमानं स्फुरणादिरूपम्, शब्दज्ञानं शब्दप्रत्यक्षमपि, शाब्दीवृत्त्या शक्त्या वा शक्यसम्बन्धात्मकलक्षणया सहकारिण्या शक्तिग्रहेण लक्षणाग्रहेण च श्रुतपदस्य पदार्थस्मृतिद्वारा सम्बन्धबोधात्मको वाक्यार्थबोधः इति पितृनिश्चय बालस्य मातृशब्दजज्ञानां करणं तदर्थदीर्व्यापारः शाब्दबोधः फलं तत्र शक्तिलक्षणान्यतरज्ञानां सहकारि कारणं यावच्छाब्दव्यवहारं बोध्यम्।। वाच्यार्थस्य बोधकरो वाचकः शब्दः, तज्जन्यस्य बाह्मस्य व्यवहारस्य मौनिश्लोकादिज्ञाप्यव्यवहारस्य स्फुरणादिव्यवहारस्यापि च साधनं शब्दज्ञानम्, तच्च प्रमाणम्।। रूपप्रत्यक्षं घटे धूमप्रत्यक्षं वह्रौ शब्दप्रत्यक्षं शाब्दे च बोधे करणमिति कारणमिति च वा सर्वंसम्मतम्।असम्मतानामपि पितृपरिचये तु प्रमाणान्तरसम्मतमेव।। आन्वीक्षिरी त्रयी वार्ता दण्डनीतिश्च विद्याः पारलौकिकपदार्थाश्च शब्दशास्त्रैकसमधिगम्याः। स्वाऽध्यायोऽध्येतव्य इति प्रमाकरणं शब्दशास्त्रैकसमधिगम्याः। स्वाऽध्यायोऽध्येतव्य इति प्रमाकरणं दृढीकृतम्। शिक्षाः सर्वाः शब्दमय्यः। काव्यानि शब्दप्रमाणकानि। राज्यतन्त्रं न्यायतनत्रं शब्दप्रमाणकम्। भिन्नदेशीयानां व्यवहाराः शब्दार्थभाषाधीनाः। विधिनिषेशीयानां व्यवहाराः शब्दार्थभाषाधीनाः। विधिनिषेधादिपरं शास्त्रं शब्दप्रमाणम्। मातृभूमिसम्ब्धः मातृभाषात्मकः। संगीतशास्त्रं शब्दप्रणाल्याधारम्। व्याकरणं शब्दप्रमाणम्। ओमित्यनादिशब्दः प्रमाणम्। यथार्था वाक्‌ प्रमाणम्। शब्दशक्तिर्लक्षणाजीविका। प्रत्यक्षेऽनुमाने वा पराहते तत्र तत्र शब्दप्रयोगः प्रधातोऽर्थबोधफलः। काव्यरसाऽलंकाराद्याः शब्दवेद्याः। देवताद्रव्यसम्बद्धा मन्त्राः प्रमाणम्‌। आम्नायस्य कियार्थत्वात् आनर्थक्यमतदर्थानाम्। विधिना त्वेकवाक्यत्वात् स्तुत्यर्थं विधीनां स्युः। सामवेदः स्तुत्यात्मकः शब्दप्रमाणम्। नित्यः शब्दार्थसम्बन्धः। वागर्थाविव सम्पृक्तौ। ल्वरूपतः प्रमाणानां पुंस्त्रीनपुंसकानां परपरिचयार्थं शब्दप्रमाणमुपयुज्यते। अक्षरसमाम्नायो ब्रह्मराशिः प्रमाणम्। इष्टबुद्ध्यर्थो वर्णानामुपदेशः। अपदं न प्रयुञ्जीत, चतुर्दशसूत्राणाम् अनुकरणाऽनुकार्यात्मकानां भेदाऽभेदौ प्रामाणिकौ। सूत्रसमाम्नाये महेश्वरपरम्परा प्रामाणिकी। वृद्धिरादैच्, अकारो वासुदेवः, ओमित्येकाक्षरं ब्रह्म,' अथ इति मंगले, प्रामाणिकाः प्रमाणशब्दाः।। 472-478।।
व्याकरणादुपमानात् कोशादाप्तोक्तितस्तथा।
व्यवहाराद्वाक्यशेषाद्विवृतेश्च प्रसिद्धितः।। 479।।
शक्तिग्रहं प्रकरणाच्चेष्टाव्यापारयोगतः।
जायते फलतोऽभ्यासात्‌ प्रमाऽन्यो भ्रम इत्यपि।।
शक्तिग्राहकं व्याकरणमपि, धातूनां स्वार्थे भूसत्तायामिति भ्वादीनां सत्ताद्यर्थे, पाचकादौ पाचकार्थं, कृत्प्रत्ययस्य कर्तृत्वार्थे, निपातानां विपूयेत्यादीनां मुञ्जतृणौदौ, प्रकृतीनां स्वस्वार्थे,' वर्तमाने लट्' इत्यादिलट्‌प्रत्ययानां वर्तमानार्थे,आख्यातस्य कर्तरि, विभक्तीनामाश्रयाद्यर्थे, तत्र द्वितीयातृतीयासप्तमीनामाश्रयार्थे, द्वितीयायाः कियाजन्यफलाश्रये कर्मणि, तृतीयाया धात्वर्थव्यापाराश्रये कर्तरि, सप्तम्या आश्रये, पञ्चम्या अवधौ, चतुर्थ्या उद्देश्ये सम्प्रदाने, षष्ठ्याः सम्बन्धे, स्वादिप्रत्ययानामेकत्वादौ, समासादिवृत्तीनाम्‌ अर्थविशेषे, शक्तिग्रहो भवति। क्वचित् आख्यातानां कृतौ, सकर्मकधातुभ्यो यगाद्यनुत्तरं लकाराणां कर्तरि यगाद्यनुत्तरलकाराणां कर्तरि, यगाद्यनुत्तरलकाराणां निरर्थकत्वम्, नैयायिका आख्यातस्य कृतौ शख्तिः, नवनीनवैयाकरणाः कर्तृकर्माख्यातयोराश्रयमात्रे शक्तिः, एवकारस्य अन्ययोगव्यवच्छेदे अयोगव्यवच्छेदे अत्यन्तायोगव्यवच्छेदे वृत्तिः, इव सादृश्यवृत्तिः, मीमांसका आख्यातस्य व्यापारे शक्तिः, क्वचिन्निरूढा लक्षणा, चिन्तामणिकारः आख्यातस्याऽऽश्रयत्वे निरुढालक्षणा, मीमांसका आख्यातार्थो भावना। इच्छतीत्यत्र आख्यातस्य आश्रयत्वे लक्षणा, यतते इत्यत्र आश्रयत्वे, नश्यतीत्यत्र प्रतियोगित्वे आख्यातस्य लक्षणा, रत्नकोशकारः आख्यातस्य उत्पादनायां शक्तिः।।
अथोपमानात् गोनिरूपितगवयनिष्ठसादृश्यप्रत्यक्षात् गवयो गवयपदवाच्य इति शक्तिग्रहः, वैयाकरणमते धात्वर्थमुख्यविशेष्यकशाब्दबोधः-पश्य मृगो धावति मृगकर्तृकधावनकर्मकं त्वत्कर्तृकं दर्शनमिति बोधः, पचति-व्यापारविषयः पाकः, मीमांसकमते आख्यातार्थमुख्यविशेष्यकः शाब्दबोधः-देवदत्त ओदनं पचति-पाककरणिका ओदनभाव्यिका देवदत्तकृतिरिति। नैयायिकमते-प्रथमान्तमुख्यविशेष्यकशाब्दबोधः-चैत्रस्तुण्डुलान् पचति-तण्डुलनिष्ठपाकानुकूलकृतिमाँश्चैत्रः। भेदान्वयेन चैत्रस्य धनम्-चैत्रनिष्ठस्वामितानिरूपकं धनम्, अभेदान्वयेन-नीलो घटः नीलाऽभिन्नघट इति।।
कोशात्-पीताम्बरोऽच्युतः शार्ङ्‌गो-इतिश्रीकृष्णे शक्तिग्रहः, नीलस्य नीलरूपे नीलविशिष्टे च शक्तिग्रहः, नीले शक्तिः नीलविशिष्टे लक्षणा वा।। आप्तवाक्यात्-प्रयोगयथार्थज्ञाता आप्तः, तदुच्चरितवाक्यात्-कोकिलः पिकपदवाच्यः इति व्यवहारात्'घटम् आनये'ति श्रुत्वा बालस्य शिष्यकृतघटानयनमाकलय्य' अस्य घटानयनकिया घटानयनप्रवृत्तिपूर्विका प्रवृत्तिश्च तज्ज्ञानजन्या, घटानयनज्ञानम्-' घटमानय' वाक्यजन्यं, तदन्वयव्यतिरेकानुविधायित्वादिति क्रियतान्विते घटे शक्तिं गृह्णाति, ततो वाक्यान्तरेष्वपि तथारीत्या शक्तिग्रहः। मीमांसकाः स्मारिकाम् आनुभाविकीं च द्वेधा शक्तिं मन्यन्ते, घटपदस्य घटत्वे स्मारिका, पशुपदादीनां व्यक्तौ, अथाऽनुभाविकी क्रियान्वितघटादौ, सा इच्छैव स्वरूपसती। धातूनां तु क्रियान्वितघटान्वितशाब्दबोधप्रयोजकत्वम्। कार्यतान्वितशाब्दबोधं प्रति लिङ्‌लोट्‌तव्यादीनां प्रयोजकत्वम्, अतोऽर्थवादानां विधिवाक्यैवाक्यतया प्रामाण्यम्। नैयायिकमते कार्यतां त्यक्त्वा घटादीनां स्वार्थे शक्तिः। भट्टाः- इतरान्वितेऽर्थे पदानां शक्तिरिति। अन्विते शक्तिर्न किन्तु केवलेऽर्थे इति नैयायिकाः। वेदानतिनोऽपि अन्विते शक्तिरिति।। वाक्यशेषात्-यवमयश्चरुः-यवविकारीभूतचरुभवनमिष्टसाधनमिति बोधः, दीर्घशूके'मोदमानास्तिष्ठन्ती'ति वाक्यशेषात्। हरिपदस्य नानाऽर्थेषु शक्तिः। विवरणात्-घटोऽस्ति कलशोऽस्तीति, पचति पाकं करोतीति। आख्यातो यत्नार्थकः। प्रसिद्धपदयोगात् सहकारे पिको रौतीति कोकिलार्थो पिकपदशक्तिः, आम्रवृक्षार्थबलात्। एते शक्तिग्रहोपायाः। युद्धे सैन्धवमानयेति अश्वे प्रकरणाच्छक्तिः। कूरनेत्रकोणचेष्टया सहाऽपराधक्षमा द्रव्यदण्डमादायेत्यर्थे शक्तिर्वा लक्षणा गृह्यते। सभयधावनाऽऽक्रोशादिशक्तिरापतिबोधिका। फलप्रत्यक्षोतरं कथितशब्दशक्तिग्रहः। मुहुरभ्यासाद् वा पदाभ्यासात् तद्विशेषार्थे शक्तिग्रहः। मुहुरभ्यासाद् वा पदाभ्यासात् तद्विशेषार्थे शक्तिग्रहो वेदान्ते इव भवति।। जात्याकृतिव्यक्तयः शक्याः।। लक्षणायाम् अन्वयाऽनुपपत्तिस्तात्पर्यानुपपत्तिर्वा बीजम्।।
तत्पदस्य बुद्धिस्थप्रकारे शक्तिः, इदमेतदोः प्रत्यक्षबुद्धिप्रकारे शक्ति,अदसः परोक्षबुद्धिप्रकारे शक्तिः, किम्पदस्य अनिर्धारिते जिज्ञासिते शक्तिः, को घट-इति घटो मज्जिज्ञासाविषयः, सर्वपदस्य व्यापकत्वविशिष्टे, उद्देश्यतावच्छेदकनिरूपिते विधेयतावच्छेदकनिष्ठे व्यापकत्वे शक्तिः। सर्वे घटा रूपवन्तः-घटत्वव्यापकरूपवन्तो घटाः। त्वं-पदस्य-युष्मत्पदस्य तत्कालीनस्वतन्त्रोच्चारयितरि शक्तिः, एवपदस्य कैवल्यविशिष्टे सजातीयद्विचीयराहित्यविशिष्टे शक्तिः, धेनुपदस्य धानकर्मत्वगोत्वोभयविशिष्टकधर्मिणि शक्तिः, तत्र शक्तेरैक्यान्न नानार्थता, हर्यादिपदानां तु विभिन्नधर्मविशिष्टव्यक्तिषु विभिन्ना शक्तिः, शक्तं पदम्, वाक्यं तु लाक्षणिकम्‌, पदं चतुर्विधम्-योगशक्तिमत्, रुढिशक्तिमत्, योगरूढ्यैकशक्तिमत्, योदार्थरूढार्थभिन्नशक्तिमत्। योगशक्तिमत् पाचकादिपदम्, पच् ण्वुल्-अवयवशक्ति-जन्यार्थः पाककर्ता। यौगिकं त्रेधा-समासः, तद्धि-तोक्तं, कृदन्तं च। द्वन्द्वोऽपि यौगिकः। ब्राह्मणी श्वश्रूः शूद्रा इत्यादिपदानि यौगिकानि। पदघटितशक्ततावच्छेदकताशून्यसमुदायत्ववत्त्वं यौगिकत्वम्। यादृशानुपूर्व्यविच्छिन्नं स्वघटकाऽवयवमात्रलभ्यादृशविशिष्टार्थविषयकशाब्दं प्रति विषयतया जनकतावच्छेदकं भवति तादृशानुपूर्वोमच्छब्दत्वं तादृशार्थे यौगिकत्वम्। गोमण्डलादिपदम्, गच्छतीति गौः 'गमेर्डोः' इति निष्पन्नो गमनकर्तृत्वरूपाऽवयवार्थवत् गोपदम्। मण्डलं परिधिः। मण्डपस्तु वितानो रुढ्या। पजाऽघटितशक्ततावच्छेदकसमुदायत्ववत्त्वंरूढत्वम्। रूढं त्रेधा-नंमित्तिकं पारिभाषिकम्। औपाधिकं च, अथवा जातिद्रव्यगुणस्पन्दैः संकेतवत् चतुर्धारूढम्। गोगवयादीनां गोत्वादिजात्या, पश्वाढ्यादीनां लांगूलधनादिना, धन्यपिशुनादीनां पुण्यद्वेषादिना, चलचपलादीनां कर्मणा यादृशानुपूर्वौ यादृशार्थबोधजनकत्वप्रकारकेच्छाविषयताऽवच्छेदिकायोगरूढभिन्नत्वे सति तादृशानुपूर्वोमच्छब्दत्वं तादृशार्थे रूढत्वम्। पंकजादिपदं योगरूढम्-पंकाज्जायते, इत्यवयवशक्त्या, समुदायशक्त्या रूढ्या अवयविपद्मं बोधयति। रूढिज्ञानं केवलयौगिकार्थज्ञाने प्रतिबन्धकम्। अथवा व्यक्तिवचनानां सन्निहितविशेषपरत्वात्, समुदायार्थेऽवयवाऽर्थाऽन्वयस्य सान्निध्येन बलिष्ठत्वात्। रूढ्यर्थबाधेऽन्वयाऽनुपपत्त्या लक्षणा कुमुदार्थे। यत्र तात्पर्यं तदितरबाधश्च तत्र यौगिकम्। पंकजेन स्थलपद्मार्थस्तु अन्वयाऽनुपपत्त्या लक्षणयार्थः। अवयवार्थबाधेऽन्वयाऽनुपपत्त्या न लक्षणा किन्तु यौगिकी शक्तिः, स्थलपद्‌मे त्वजहत्स्वार्थालक्षणा तात्पर्याऽनुपपत्त्या।।
अथ समासः कृष्णसर्पादिः, तद्धिताक्तं वासुदेवादि, कृदन्तं पंकजादि च। यादृशानुपूर्वौ स्वाश्रयशक्ययादृशार्थधर्मिकस्वाश्रयाऽऽवयववृत्त्युपस्थायादृशार्थप्रकारकाऽन्वयबोधजनकताऽवच्छेदिका तादृशानुरूपूर्वौमन्नाम तादृशार्थघटिततादृशार्थे योगरूढम्। रूढिशक्तिनिरूपकतावच्छेदकं रूढिशक्यताऽवच्छेदकसमानाधिकरणधर्मावच्छिन्नशक्तपदघटितं समुदायत्वं यत्तद्वत्त्वं योगरूढत्वम्।। अथ-उद्भित्, महारजतम्, मण्डपः, यक्षकर्दमः, इत्याद्या अवयवशक्तया तरुगुल्मादीन्, बृहद्रजतम्, मण्डपानकर्तारं, यक्षाणां कर्दममिति यौगिकार्थान् बोधयन्ति, तु-यज्ञं सुवर्ण वितानं चन्दनं पृथगर्थं रूढं बोधयन्ति। यौगिकार्थरूढ्यर्थयोः स्वातन्त्र्येश बोधात्। रूढिशक्यतावच्छेदकावच्छिन्नविषयताशालिशाब्दबोधनिष्ठकार्यतानिरूपितज्ञाननिष्ठकारणतानिरूपितविषयतासम्बन्धावच्छिन्नाऽवच्छेदकतावच्छेदकं रूढिशक्यतावच्छेदाकाऽसमानाधिकरणधर्मावच्छिन्नविषयताशालिशाब्दबोधनिष्ठकार्यतानिरूपितज्ञाननिष्ठकरणतानिरूपितविषयतासम्बन्धावच्छिन्नाऽवच्छेदकताश्रयपदघटितं च यत् समुदायत्वं तद्वत्त्वं यौगिकरूढत्वम्। सामान्यतः शक्तिज्ञानशाब्दबोधयोः कार्यकारणभावे तु संसर्गे शक्तिरवश्यमादरणीया भवति, पदार्थद्वयोः सुशक्ययोः शाब्दबोधोऽन्वयं विनाऽनुपपद्यमानोऽशक्यबोधानुपपत्तयेऽन्वयेऽवर्जनीये सर्वत्र शक्तिरस्त्वयेवेति। पदार्थयोरन्वये आकांक्षाज्ञाननियतत्वस्य प्राधान्येन शक्याऽन्वयांऽगीकारात्।।
अनुमाकारणेभ्यः शाब्दे भिन्नानि कारणानि परिकरश्च। व्याप्तिग्रहाद्भिन्नः शक्तिग्रहः, लिंगदर्शनाद्भिन्नं वाक्यश्रवणम्, व्याप्तिस्मरणाद्भिन्नं पदार्थस्मरणम्, अनुमितिभिन्नो वाक्यार्थबोधः, साध्यपक्षप्रतीतिभिन्ना पदार्थप्रतीतिः, व्याप्तिसम्बन्धाद्भिन्नाः शब्दार्थशक्तिलक्षणाव्यञ्जनासम्बन्धाः, पक्षसत्त्वादिभ्यो भिन्न आप्तोक्तत्वनिश्चयः, व्याप्तिविषयतातः सांकेतिताऽभिधाया भिन्नत्वमू, अनुमितः शाब्दस्य चाऽनुव्यवसायभेदात्, पदपदार्थपक्षकाऽनुमानसिद्धाऽनुमितेर्भिन्ना योग्यताऽऽकांक्षाऽऽ सत्तिमत्पदस्मारितार्थप्रमा। पदपक्षकानुमाने लिंगज्ञानमुपयोगि, अनुमाने हेतुरूपाऽऽकांक्षा ज्ञाता सत्येवोपयोगिनी, शाब्दवोधे तु स्वरूपसती आकांक्षा कारणम्, अतोऽनुमानेन संसर्गाऽसिद्धेः, शाब्दं प्रमाणमावश्यकम्, आकांक्षा नाम समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, वैदिक इव लौकिकोऽपि शब्दः प्रमाणम्, न्यायालयो राज्यसत्ताको लौकिकोक्तिसाक्षिकः प्रमाणम्। शब्दमूलोऽतीन्द्रियार्थयात्म्यावगमः। प्रत्यमनुपमानं यत्र बाधिते, तत्र शब्दमूलकं ज्ञानं प्रमाणम्, अलौकिकमार्षज्ञानम् आगममूलकम्। गृहाऽन्तःस्थितवस्तुविषयकनिर्णये प्रमायां शब्दप्रमाणस्यैव शक्तिः। ब्रह्मसाक्षात्कारे श्रवणं कारणम्। शब्दस्य व्यापाररूपेण व्यञ्जनायाः पोषणं भवति। स्मृतिसहकारेण मनसाऽभिधया शाब्दबोधः, स्मृतिसहकारेण मनसाऽभिधया शाब्दबोधः, स्मृतिसहकारेण मनसा लक्षणया शाब्दबोधः, तथा व्यञ्जनयापि वयंग्यार्थस्य बोधः, अतोव्यंग्यव्यञ्जनाऽऽवश्यकी। शब्देन व्यंगयार्थानामवगतौ व्याप्तेरभावाच्छब्दप्रमाणं तत्र मुख्यम्। व्यंग्यार्थप्रतीतौ शब्दप्रमाणां करणम्। ब्रह्मणि विभिन्नप्रस्थानानामुपनिषत्प्रमाणता, कर्मकाण्डयज्ञादौ मीमांसाशास्त्रकृतनिर्णयानां श्रुतीनां प्रमाण्तेति शब्दप्रमाणं सर्वथा वाङ्‌मयं सध्रचीनम्।'न स पुनरावर्तते' इति मोक्षस्थितिप्रमाणं श्रुतिः। सर्वेषां लौकिकानां वैदिकानां च वाक्यानां यत्किञ्चिदर्थविशेषविषयकसंशयनिवर्तकज्ञानजनकत्वेन प्रामाण्यम्। शब्दैश्च परोक्षात्मकं ज्ञानं जायते शाब्दबोधात्मकम्। शाब्दस्थानि सप्तसाहित्यिक तत्त्वनि लक्षणाऽलंकारगुणदोषरीतिध्वनिरसरूपाणि प्रमाणपोषणानि प्रामाणिकानि शाब्दप्रमाजनकानि। अपौरुषेयशब्दराशिर्वेदः प्रमाणम्‌, वेदशब्दो रूढो योगरूढोऽपि, ब्राह्मण-उपनिषत यौगिकः, ऋच्यन्ते स्तूयन्ते देवा अनया-ऋक्, स्यति पापं साम्, इज्यतेऽ नेनेति यजुः यौगिकाः, विदन्ति अनेन धर्ममिति वेदो यौगिकोऽपि। ओमिति रूढः, यौगिकोऽपि त्रिवर्णः। आथर्वणः अथर्वणां समूहः, अथर्वमन्त्रेषु रूढः, अथर्वा नाम तु शक्तमंगिरसः पुत्रार्थो।।
अथ घटपटपचकाद्याः प्रकृतयः स्वार्थे शक्ताः, सुप्‌तिङाद्याः प्रत्ययाः, सुपाद्याः कर्मत्वकर्तृत्वादौ शक्ताः, तिङाद्या इष्टसाधनत्वकृतिवर्तमानत्वैकत्वादौ शक्ताः, निपाताः चवाहेत्याद्याः क्रमशः समुच्चयविकल्पस्फुटत्वाद्यर्थे शक्ताः, एकत्वे सुः, घटपटपाचकादीनां प्राकृतीनां नियमतो विभक्तिसहकारेण, प्रत्ययानां सुबादीनां नियमतः प्रकृतिसहकारेण, चवाहादिनिपानानां नियमतो लुप्तविभक्त्यादिसहकारेणाऽन्वयबोधजनकत्वम् अतः प्रकृतिः प्रत्ययः निपातश्चेति त्रेधा शब्दः सार्थकः। शशविषाणादिरयोग्योऽपि शशस्य विषाणस्य पृथक्‌प्रसिद्धत्वेन जन्यत्वसंसर्गाऽतिरिक्तसंसर्गेण बोधे न क्षतिरिति सवृत्तिकत्वम्। श्यप्‌श्यनाद्या विकरणप्रत्यया नुमाद्यागमा अपि प्रकृतिसहायाः, वसाद्यादेशाः सदृशाद्यार्थका निभनिकासाद्या अपि च प्रकृत्याधाराः पूर्वप्रकृत्याद्यर्थार्थाः अन्याधीवृत्तिका अन्यवृत्यात्मकस्ववृतिकाः शब्दत्वेन परिगाणिताः, अन्यथा तत्प्रापकसूत्रस्याऽनभिधानत्वापत्त्या शब्दनिष्पन्नतैव न स्यात्। अन्ततः स्वरूपसच्छक्ता मन्तव्याः।। एकत्वे सुः, द्वित्वे औ, बहुत्वे जस्, शक्ताः। हे सम्बोधने शक्तः। टाप् स्त्रीत्वविवक्षाविषयः। लट्‌प्रभृतयो लाकाराः सकर्मकधातुभ्यः कर्मणि कर्तारि च, सकर्मकेभ्यस्तु भावे कर्तरि च शक्ताः अपि तु`वर्तमाने लट्` इति लट्‌प्रत्ययानां वर्तमानार्थे शक्तिग्रहः,'लः कर्मणि च भावे चाऽकर्मकेभ्यः' इति बलात् आख्यातस्य तिप्रभृतेः कर्तरि शक्तिग्रहः, विभक्तीनामाश्रयाऽवध्युद्‌देश्यसम्बन्धशक्त्याद्यर्थे शक्तिग्रहः, द्वितीयातृतीयासप्तमीनाम् आश्रये, क्रियाजन्यफलाश्रये कर्मणि द्वितीयायाः, धात्वर्थव्यापाराश्रये कर्तरि तृतीयायाः, आधारोऽधिकरणमिति सप्तम्या आश्रयेऽधिकरणे, ध्रुवमपायेऽ पादानमि'ति पञ्चम्या अवधौ,' कर्मणा यमभिप्रैति स सम्प्रदानमिति चतुर्थ्या उद्‌देश्ये. सम्प्रदाने, षष्ठी शेषे इति षष्ठ्याः शक्तिग्रहः। स्वादिप्रत्यानामेकत्वादौ शक्तिग्रहः, मैत्रोऽस्ति-आश्रयत्वार्थस्तिङर्थ, यजेत-इष्टसाधनत्वं तिङर्थः, स्थीयते-वर्तमानत्वं तिडर्थः, पाचकः-कृतां स्वार्थे कर्तरि, काश्यपिः-कश्यपावच्छिन्ने स्वार्थेऽपत्ये, शक्तिः। मीमांसकाः- लकारसामान्यस्य व्यापारमात्रे शक्तिः नैयायिकाः-व्यापारे आख्यातस्य निरूढा लक्षणा। चिन्तामणिकारस्तु-आश्रयत्वे निरूढा लक्षणाऽऽख्यातस्य। मीमांसकाः-जानातीयत्र ज्ञाततावच्छिन्नं ज्ञानं धात्वर्थः, आख्यातार्थो भावना-उत्पादना, ज्ञातताश्रयज्ञानोत्पादनावानिति बोधः। नश्यतीत्यत्र आख्यातस्य प्रतियोगित्वे निरूढा लक्षणा, नाशप्रतियोग्येको घट इति बोधः। रत्नकशकारस्तु-आख्यात्य भावनायामुत्पादनायां शक्तिः, आख्यातार्थे धात्वर्थोत्पादकत्वम्, पचति-पाकमुत्पादयति, गच्छति-गमनमुत्पादयति, यतते-यत्नमुत्पादयति, तत्राऽऽथ्यात्याऽऽश्रयताऽर्थता। लिट्‌-भूतानद्य-तनपरोक्षार्थे शक्तिमान्। भविष्यति-अनद्यतनेऽर्थे लुट्‌शक्तिः। भविष्यार्थे लट्‌। लोट्‌-विध्याद्यर्थेषु शक्तिमान्। आशिषि लिङ्‌लोटो शक्तौ। अनद्यतनभूतार्थे लङ्‌शक्तिः। विधिनिमन्त्रणाऽऽमन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्‌शक्तिः। भूतार्थे लुङ्शक्तिः। धातवः स्वस्वार्थे शक्ताः प्रेषणाऽध्येषणानुमत्युपदेशाद्यर्थे वाच्ये णिच् शक्तिमान्। सन्‌प्रत्ययस्य इच्छायां शक्तिः। यङ्‌प्रत्ययस्य पुनःपौन्ये भृशार्थे च शक्तिः। क्यच् इच्छार्थे शक्तः। क्यङ्‌काम्यच् लालसायां शक्तौ। आचारार्थे क्यङ्‌। एवं नामधातुनिष्पादकप्रक्रियाप्रत्ययास्त्वनेकार्थशक्ताः धात्वर्थयोग्यार्थकाः। भावक्रियावाचिनि सार्वधातुके यक् भवति, तत्र लकारोऽनुवादकः। उत्तमैकत्वं भावे लकारे, तिड्‌वाच्यो भावः, एकत्वप्राप्तिश्च। यत्र कर्मेव कर्तृत्वेन विविक्षितं तत्र कर्तरि भावे लकाराः, गौः पयो दुग्धेस्वयमेव गौः पय उत्सृजतीत्यर्थः। उदुम्बरः फलं पच्यते-उदुम्बरवृक्षः फलं पचति काले इत्यर्थः। स्मृतिबोधिन्युपपदे भूतानद्यतने लृट्‌ शक्तः। पक्षे लङ्‌, परोक्षे लिट्‌। अत्यन्ताऽपह्रवे लिट्। पृच्छ्यमानेऽर्थे लिङ्‌विषये लङ्‌लिटौ। भूतानद्यतने लट्। पृच्छ्यमानेऽर्थे लिङ्‌विषये लङ्‌लिटौ। भूतानद्यतने लट्‌-भूते लट् पुरायोगे भूतानद्यतनेऽर्थे लुङ्। यावत्पुरानिपातयोरग्रे लट्। कदा कर्हियोगे लट् वा। वर्तमानसामीप्येऽर्थे वर्तमानार्थप्रत्ययाः वाचकाः। भविष्यदाशंसायां भूतवर्तमानप्रत्ययाः शक्ताः। क्षिप्रपर्यायोपपदे लृट्। आशंसावचने लिङ्‌। हेतुहेतुमतोर्लिङ्‌। इच्छार्थे लिड्‌लोटौ। समानकर्तृकेच्छार्थेषु लिङ्‌। विधिनिमन्त्रणादिषु लिङ्‌। प्रैषविध्यतिसर्गप्राप्तकालाद्यर्थेषु कृत्यप्रत्ययाः वाचकाः। तत्र लोट्‌ च। अर्हाऽर्थे कृत्यतृजौ लिङ्‌ च। शक्यार्थे लिङ्‌ कृत्याश्च। तिडन्तवाच्यक्तियाप्राधान्ये गौणक्रियावाचिधातुतः सम्बन्धेऽन्यत्राऽपि च प्रत्यया वाचकाः। पौनःपुन्ये भृशार्थे लोट्। अनुप्रयोगाद्यथायथंलडादयस्तिबादयश्च संख्याकालपुरुषिशेषबोधकाः। इति त्वभेदान्वयतात्पर्यवान्। कृत्यक्तखलर्थाः प्रत्यया भावे कर्मणि च। तव्यत्‌तव्याऽनीयर्‌प्रत्यया भावे धात्वर्थे शब्दसाधुत्वे प्रवृत्तिमन्तः। तत्र औत्सर्गिकम् एकवचनं क्लीबत्वं च। भावकर्मणोः केलिमर्। कर्मण्यर्थेऽपि केलिमर्‌। वस्‌धातोः कर्तरि तव्यत्। कृत्यलुटौ प्रवृत्यप्रवृत्तिविभाव्याऽनित्यत्वादिविषयो। स्नाधातोः करणे अनीयर्। दाधातोः सम्प्रदायेऽनीयर्। उपलभेर्नुम् प्रशंसायाम् आचारधातोर्गुरुभिन्नेऽर्थे यत्। यत् प्रत्ययः यत्प्रत्ययान्ताश्च स्वस्वार्थे निपात्यन्ते। भूधातुतो भावार्थे क्यप्। निष्ठायाम् अनिट्। अवश्यम्भाव्यर्थे ण्यत्। भव्यः गेय इत्यादौ कर्तरि यत्। प्रवचनीय इत्यादौ कर्तरि अनीयर्। आप्लाव्य इति कर्तरि ण्यत्। सूर्यः सृधातोः कर्तरि क्यप्। कृष्टपच्याः कर्मकर्तरि क्यप्। अमापूर्वकवस्‌धातोरधिकरणार्थे ण्यत्। चिधातोः चित्यः कर्मणि ण्यत् तुक् च। आशीर्वादार्थे वुन्। गोपाभ्यां कर्मणि उपपदे टक्। पुषपाहरः ताच्छील्ये अच्। अधिकरणाऽर्थे डः। आशीर्वादार्थे डः। शक्तिद्योत्यार्थे टक्। ताच्छील्यद्योत्ये णिनिः। भूतार्थाद्‌ यजेः णिनिः कर्तरि। अग्रिस्थण्डिले श्येनचिदिति क्विप्। निन्दागम्ये भूतकाले इनिः सोमविकयी। कृञो भूतार्थे क्वनिप्। जनेर्डः संज्ञायाम्। घनीभूतार्थे श्यैङ्‌। आदिकर्मणि भूतांशविविक्षया क्तः कर्तरि भावे कर्मणि च भवति। अधिकरणेऽपि क्तः। वर्तमानेऽपि क्तः। क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः वर्तमानेऽपि क्तः। क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः। भूतकाले ङ्‌वनिप्। भूतकाले कालसामान्ये क्तः। भूतकाले ड्‌वनिप्। भूतकाले अतृन्। वेदेषु भूतकाले लिट्। तच्छीलादिकर्तरि चानश् क्विप् तन् आलुच् इष्णुच् ग्स्नु क्नु धिनुण युच् वुञ् उकञ् पाकन् उवरच् प्रत्यया भवन्ति। करणे ष्ट्रन्‌ इत्र प्रत्ययौ। संज्ञायाम् इत्र। कृषधातोर्वर्णार्थे नक्। अशधातोः स्तुत्यर्थे असुन्। बलेऽसुन्। स्वांगेऽसुन्। वर्तमानकाले संज्ञार्थे उणादयः। तुमुन् भावे। ण्वुल कर्तरि। कर्तृभिन्नकारके घञ्‌। भावे। ण्वुल कर्तरि। कर्तृनिवृत्तार्थे मप्। भावे अथुच्। भावादौ किः। स्त्रीलिंगभावे क्तिन्। भावे क्यप्। भावे शः निर्दघञ्‌। णिनिः कर्तरि। क्तिच् क्ति आशीर्वादार्थे। प्रातिपदिकार्थे लिगमात्राधिक्ये परिमाणे संख्यायां च प्रथमा शक्ता।।
स्त्रीत्वद्योत्ये टाप्‌ ङीप् ङीष्, आशीर्वादार्थे वुन्, गर्भसंयोगे भर्तृसंयोगेऽर्थे नुक्। देवतार्थे चाप् सूर्या। स्वार्थे ङीष् आनुक् क्षत्रियाणी। जातिवाचके स्त्रीत्वद्योत्येऽर्थे ङीष्। स्त्रीत्वद्योत्ये ऊङ्। स्त्रीद्योत्ये ङीन-ति-प्रत्ययावपि।। अथ प्राग्‌दीव्यतीयाऽर्थेषु अण् ण्य अञ्‌ नञ् स्नञ्। अपत्यार्थे गोत्रापत्यार्थे यञ्‌, प्राग्दीव्यतीयार्थे अञ्। अपत्यार्थे इञ्, बह्वपत्येषु अः, ऋषिभिन्नाऽपत्यार्थे अण्। अपत्यार्थे अण् ढक् यत् ठक्। स्वार्थे त्र्यः। गोत्रार्थे फक् फञ्। अपत्यार्थे ढ्‌क् छण् अञ् ण्यः। रक्तार्थे अण् ठक् अन् कन् अञ्। इष्टसामार्थे अण् डयत् ङच। उद्‌धृतार्थे अण्। संस्कृतार्थे अण् यत् ठक्। अस्यार्थे घन् ट्यण् यत् छ ठञ्। षष्ठ्यन्तसमूहार्थे अण् वुञ् यञ् ठञ् तल्। यज्ञवाच्ये समूहार्थे खः। समूहार्थे ठक् य इनि त्र क्यच्। कीडायां णः ञ्‌। अधीचे वेदार्थे वुन् ठक्। अस्मिन्नस्त्यर्थे अण्, तन्निवृत्तार्थे अण्। निवासार्थे अण्, अदूरभवार्थे अण्, उक्तवतुरर्थेषु वुञ् छणाद्याः, तथा मतुर् इमतुप् मतुबर्थे ड्‌वलाच् वलच। चातुरार्थिकः छः। भवार्थे च्यप्, ध्रुवार्थे छः। कुत्सिते प्रावीण्ये वुञ्‌। देशगम्यार्थे छ। शेषार्थे खञ्। स्वार्थे ठञ्‌। साम्प्रतिकेऽर्थे अः। सामीप्ये यञ्‌। कालार्थे ठञ्‌, भवार्थे ठञ्। सन्धिवेलाऋतुनक्षत्रभवार्थे अण्। भवार्थे ट्यु टुल ल डिमच् टयुल्। जातेऽर्थे धः अण्।ठप्, प्रायोभवेऽर्थे अण्, समभूतार्थे अण्, विकारार्थे ढञ्, भवार्थे घः यत, भवार्थेढञ् छः। आगेतार्थे अण् ठक् वुञ्, ठञ् यत् रूप्ये मयट्। तत्प्रभवार्थे अण्, विदूररप्रभवार्थे त्र्य, गच्छन्त्यर्थे अण्, अभिनिष्कमणार्थे अण्, अधिकृत्यार्थे अण्, निवासार्थे अण्,निवसार्थे अण्, तत्प्रोक्तार्थे अण्, प्रोक्तार्थे णिनिः, प्रोक्ताऽध्ययनार्थे इनिः, प्रथमज्ञातेऽर्थे अणादिः, तस्येदमर्थे अणादिः, यत् अञ् ठक् वुञ्। अङ्कलक्षणाऽर्थे घोषार्थे च अण्।। अथ विकारार्थे अणादिः, तस्येदमर्थे च अण्, अथ विकारार्थ अणादिः, अवयवार्थे अण्, विकारार्थे अञ्, अवयवार्थेऽपि अञ्, प्राप्यादिविकारार्थे अञ्, शमीविकारे ष्लञ्‌, सामान्यविकापे मयट अण्। गोः पुरीषार्थे मयट्, एणीविकाराद्यथें ढञ्, गोविकारार्थे यत्, फलविकारार्थे प्रत्ययस्य सुक्, प्लक्षादिविकारार्थे अण्। शब्दनिषेधार्थे ठक् आहेत्यर्थे ठक्, पृच्छत्यर्थे ठग् ठक, तरत्यर्थे ठग्, जितमित्यर्थे ठक्, संस्कृतार्थे ठक् तरत्यर्थे ठक्। जितमित्यर्थे ठक्, जिचमित्यर्थे ठक् संस्कृतार्थे ठक्, पच्छत्यर्थे ठग् ठन्, चरत्यर्थे ठग्, चरत्यर्थे ष्ठन् ठञ्। जीलत्यर्थे ठञ्। जीवत्यर्ते ठञ्। हरत्यर्थे ठक् ष्ठन्। निर्वृत्तार्थे ठक्, संसृष्टार्थे ठक्, करोत्यर्थे ठक्‌, हन्त्यर्थे ठक्, पण्यार्थे ठक् उन्, शिल्यार्थे ठक् ण, निययुक्तार्थे ठक् ईकक्, मत्यर्थे ठक्, शीलार्थे ठक्, प्रहरणार्थे ण, नियुक्तार्थे ठक्, वसत्यर्थे ठक्, विध्यत्यर्ते यत्, योग्यार्थे यत, साध्वर्थे यत, समार्थे य, कीतार्थे छ, हितार्थे यत् छ थ्यन् ख। तुल्यार्थे ठञ्, क्रीतार्थे ठक् ठन् यत्। आर्हौयेऽर्थे कन्। क्रीतार्थो टिठन् ठञ्। ईश्वरार्थे अण्
अञ्। परिमाणार्थे ठञादि,स्तोमवाक्ये ड, परिमाणार्थे तिः शातिच शत् तः। अर्हत्यर्थे ठञादयः ठञ् यच्। निर्वृतार्थे ठञ्। तुल्यार्थे वति, इवार्थे वति, भावार्थे त्वतलौ, भावार्थे इमनिच् इयसुन् ष्यञ्। कर्मणि भावार्थे ष्यञ्, स्वार्थेऽपि ष्यञ्। कर्मणि भावे च यत्। भावे कर्मणि य ठक् यक्। भावे कर्मणि अञ् अण् वुञ्। क्षत्रभनार्थे खञ् ढक् यत्। प्राप्नोत्यर्थे ख। संज्ञायां खञ्, पाकार्थे कुणप्, मूलार्थो जाहच् ति, वितार्थे चुञ्चुप्। विशिष्टकारकस्वार्थे शालच्, शङ्कटक्। विशिष्टसाधने कटच्, रजसर्थे कटच्, स्थानार्थे गोष्ठच, संघातार्थे कटच्, विस्तारार्थे पटच्, द्वित्वार्थे गोष्ठच, संघातार्थे कटच्, विस्तारार्थे पटच, द्वित्वार्थे गोयुष्ठच, षट्त्वे षङ्‌गवच, स्नेहवाच्ये तैलच्, क्रियाविशिष्टसाधने कुटटारच् कटच्, नासिकाऽवनतार्थेटीटच्, भ्रटच्। आसन्नार्थे अवरूढार्थे च त्यकन्। घटमानेऽर्थे अठच्। सञ्जातार्थे इतच्, प्रमाणार्थे द्वयसच्, दध्नच् मात्रच्। ऊर्ध्वमानार्थे द्वयसचू दध्नच्। परिमाणार्थे अण् द्वयसच्। परिमाणार्थे वतुप्। संख्यापरिमाणे इति वतुप्। अवयवसंख्यार्थे तयप्। अधिकार्थे डः, पूरणार्थे डट्। पूरणार्थे छ यत्, पूरणार्थं तीय डट्। सूक्तसामार्थे छ, अधीतार्थे घन, भुक्तार्थके इति ठन्, कृतार्थे इनि। इष्टार्थे घन्, भुक्तार्थके इनि ठन्, कृतार्थे इनि। इष्टार्थं इनि, अन्वेषणार्थे इनि, दृष्टार्थे संज्ञावाच्ये इनि, सम्बन्धाधिकरणयोः मतुप्, मत्वर्थे लच, कामवदर्थे बलवदर्ते लच्, मत्वर्थे इलच् श न ण विनि अण्। औन्नत्यार्थे च मत्वर्थे उरच्। मत्वर्थे र म, संज्ञागम्ये मत्वर्थे व ईरत् ईरच् वलच्। मत्वर्थे इनि ठन् इलच् मतुप्। प्रशंसार्थे यप्। मत्वर्थे विनि आरकन्। असहनार्थे मत्वर्थे आलु इनच् तप्। मत्वर्ते युस् ग्मिनि, बहुभाषितत्वेऽर्थे आलच् आटच्। ऐश्वार्थार्थे स्वे आमिनच्। मत्त्वर्थे अच् इनि। ब्रह्मचर्यगम्येऽर्थे मत्वर्थे इनि, सुखिमत्वर्ते ब भ युस् ति तु त यस्। मत्त्वर्ते भ युस्। स्वार्थे किमादिभ्यः तसिल्, सप्तम्यन्तस्वार्थे त्रल्। इदमः स्वार्थे ह तसिल्, काले दा हिल् अधुना दा दानीम् हिल् दा। अहनि द्यस्। सम्वत्सरार्थे उत्, तरार्थे आरि। अहन्यर्थे एद्यपि, अत्र सम्बत्सरे समसण्। अहन्यर्थे एद्युस्। प्रकारे थाल् थम्। वर्तमाने काले स्वार्थे अस्तात्यर्थे अतसुच् रिल् रिष्टातिल आति। अवाधिसामीप्ये एनप्, अस्तात्यर्थे आच, आहि। वर्तमानसंख्यावाचके स्वार्थे धा। कुत्सितार्थे पाशप् तीय इकक्। असहायार्थे स्वार्थे आकनिच्। भूतपूर्वार्थे स्वार्थे चरट् रूप्य। विशिष्टार्थे स्वार्थे तमप् इष्ठन् तिङन्ते द्योत्ये तमप्। द्रव्यप्रकर्षभिन्नार्थे आमु। एकातिशयद्योत्येऽर्थे तरप् ईयसुन्। प्रशंसार्थे आमु। एकातिशयद्योत्येऽर्थे तरप् ईयसुन्। प्रशंसार्थे रूपप्, अपूर्णार्थे तरप् ईयसुन्। प्रशंसार्थे रूपप्, अपूर्णार्थे कल्पप् देश्य देशीयर् बहुच् अकच्। अज्ञातार्थे कः अकच्। कुत्सितार्थे कः, ह्रस्वार्थे र डुपच् कासू एरच्। तन्वर्थे ष्टरच् द्वयोरेकनिर्धारणे डतरच्। ब्रह्वेकनिर्धारणे डतमच अकच्। इवाऽर्थे सादृश्ये कन् य छ। प्राचुर्ये मयट्। अधिकरणेऽपि मयट्। संख्यार्थे स्वार्थे कृत्वसुच्। द्वित्र्यर्थे स्वार्थे सुच्। स्वार्थे सुच्। तादर्थ्ये यत् त्र्य। स्वार्थे त्नप् तनप् धेय अञ् तल क कन् विकन्। प्रशंसार्थे स स्न। स्वार्थे अण् त्र्य। मंगले अमंगलेऽर्थे शस्। वीप्सायां शस्। सार्वविभक्तिकार्थे तसि। विकारार्थे च्विः अभूततद्भावे च्विः। साकल्यार्थे साति। व्याप्त्यर्थे च्विः साति। त्रा साति डाच, निष्कोणार्थे डाच्, आनुलोम्ये प्रातिलोम्ये पाकार्थे डाच, अशपथार्थे मुण्डनार्थे डाच, मंगलभद्रार्थे डाच्।। वर्जनार्थे परि। उपरि अधः देशसामीप्ये कालसामीप्ये। वृथाऽर्थे सुन्दरः। सम्पत्तौ देवः, कोपे दुर्विनीतः, कुत्सने धानुष्कः, भर्त्सने चौरः, पीडायां गतः, सादृश्ये पटुः।। 479-480।।
शाब्दबोधो द्विधा खण्डशश्चाऽखण्डश इत्यापि।
खण्डानां योजनात् सोऽत्राखण्ड इत्यभिधीयते 489
शाब्दबोधो द्वेधा, खण्डशाब्दबोधः, अखण्डशाब्दबोधश्च। आद्यः घटमानयेत्यत्र घटः कम्बुग्रीवादिमान्द्वितीयायाः कर्मत्वमर्थः, आङ्‌पूर्वकनयधातोरानयनमर्थः, अख्यातस्य कृतिरर्थः, इत्येवं खण्डशो बोधः। अन्वया आकांक्षाभास्या बोधविषयाः। ततो द्वितीयः घटकर्मकाऽऽनयनानुकूलकृतिमाँस्त्वमिति बोधः। न्यायनये प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधः-घट-कर्मकाऽऽवयनानुकूलकृतिमाँश्चैत्र इति। वैयाकरणैः भावप्रधानमाख्यातमितिनियमेन भावा(धात्व) र्थमुख्यविशेष्यकबोधोऽङ्गीक्रियते यथा चैत्रकर्तृकंघटकर्मकमानयनम्। मीमांसकैः आख्यातार्थमुख्यविशेष्यकशाब्दबोधोऽङ्गीक्रियते यथा घटकर्मकाऽऽनयनानुकूला चैत्रसमवेता कृतिरिति।।
प्रथमाया नियतार्थाऽभावात् साधुत्वार्थत्वम्, न कारके गणितत्वम्, कर्तृत्वमेकत्वम् अभिन्नत्वम् इत्येवं मतभेदेन शक्तत्वम्।। द्वितीयायाः निष्ठत्वं विषयत्वं विशेष्यत्वं प्रकारत्वं प्रतियोगित्वं निरूपितत्वं व्यापकत्वं चेत्यादिरर्थः।। तृतीयायाः कर्तृत्वकरणात्वं ज्ञानज्ञाप्यत्वम् अभेदः साहित्यं प्रतियोगित्वं निरूपितत्वं निष्ठत्वं समवेतत्वं समानकालिकत्वम् अवचछिन्नत्वं चाऽर्थः।। चतुर्थ्या उद्देश्यत्वं तृप्तिप्रयोजकत्वं समवेतत्वं निष्पत्तिप्रयोजकत्वं विकारित्वं वृद्धिप्रयोजकत्वम् आश्रितत्वं विषयत्वं स्वापहरणेच्छाप्रयोज्येच्छाविषयत्वम् प्रयोजकत्वम् इच्छाऽधीनेच्छाविषयत्वं चेत्यादिरर्थः।। पञ्चम्या अवधिमत्त्वं प्रतियोगित्वं जन्यत्वं स्वकर्तृकोच्चारणाऽधीनत्वं निरूपितत्वं ज्ञानज्ञाप्यत्वम् आरम्भः पर्यन्तः तपदेक्षत्वं चेत्यादिरर्थः।। षष्ठ्या विषयत्वं विशेष्यत्वं प्रकारत्वं स्वत्वं प्रतिपादकत्वम् उच्चरितत्वं वृत्तिः स्वामिता-निरूपितस्वत्वं प्रतिपादकत्वम् उच्चरितत्वं प्रतियोगित्वमनुयोगित्वम् अभेदः कर्तृत्वं कर्मत्वम् अवयवत्वं करणत्वं समवेतत्वंसमभिव्याहृतपदार्थताऽवच्छेदकजातिशून्यषष्ठ्यन्तपदार्थव्यावृत्तत्वं चेत्यादिरर्थः।। षष्ठ्यर्था अनेके।। सप्तम्याः आधेयत्वं विषयत्वं विशेष्यत्वं निरूपितत्वं व्यापकत्वम् अभेदः अवच्छेद्यत्वं घटकत्वं प्रतिपाद्यत्वं प्रकारत्वं समानाधिकरण्यात्मकवैशिष्ट्यं प्रतिपाद्यत्वं प्रकारत्वं समानाधिकरण्यात्मकवैशिष्ट्यं समानाकालिकत्वलं पूर्वकालिकत्वम् उत्तरकालिकत्वम् अनुयोगित्वं प्रतियोगित्वं स्वविषयकेच्छाऽधीनत्वं स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यसप्तम्यन्तपदार्थव्यावृत्तत्वं कार्यकारणभावश्चेत्यर्थाः।।
इव-वा-वत्-यथादीनां सादृश्यमर्थः।। इतिशब्दस्य पूर्वोक्तवाक्यार्थ एवाऽर्थः।। इत्येवमादीनामपि स एवाऽर्थः।। स्थाणुः पुरुष इति ज्ञात इत्यत्र इतिशब्दस्य स्वसमभिव्याहृतपदार्थतावच्छेदकप्रकारकज्ञानहेतुकत्वमर्थः। तमाल इति वृक्ष इत्यत्र इतिशब्दस्याऽभेदोऽर्थः, इति समाप्त्यर्थकः। किम्पदसमभिव्याहृतेतिशब्दस्य जिज्ञासाविषयहेतुकत्वमर्थः। इतिः शब्दस्वरूपार्थक।। दृष्ट्वा गत इत्यादौ क्त्वाप्रत्ययान्ताऽवयवानामुत्तरकालीनत्वमर्थः। ल्यबन्तानामुतरकालीनत्वमर्थः। तुमन्ताऽवयवस्थले तुमुन्प्रत्ययस्य इच्छाप्रयोज्यत्वमर्थः। तुमन्ताऽवयवस्थले तुमुन्प्रत्ययस्य इच्छाप्रयोज्यत्वमर्थः। तुमन्ताऽवयवस्थले तुमुन्प्रत्ययस्य इच्छाप्रयोज्यत्वमर्थः, इच्छाऽधीनेच्छाविषयत्वं वाऽर्थः।। सम्यक्पदार्थः। श्रद्धापूर्वकत्वम्, सम्यक् पठति। सम्यक् स्वपीतीत्यत्र जाग्रत्ज्ञानाऽभावसामानाधिकरण्यं सम्यक्‌पदार्थः। सम्यक्फलतीत्यत्र सम्पूर्णत्वम्। समयङ् नमस्मकरोतीत्यत्र भक्तिपूर्वकत्वम्, सम्यक् पश्यतीत्यत्र अनुरागपूर्वकत्वम्, सम्यक् ताडयतीत्यत्र दयाराहित्यपूर्वकत्वम्, इत्यर्था ऊह्याः। स्तोकं पचतीत्यत्र स्तोकपदार्थोऽल्पः। सुखं शेते इत्यत्र सुखजनके लक्षणा। मधुरं रौतीत्यत्र मधुराऽभिन्नकूजनानुकूलब्यापारानुकूलकृतिमानिति बोधः।। चैत्र एव मैत्रं ताडयतीत्यत्र चैत्रो मैत्रकर्मकताडनकर्ता चैत्रान्यो मैत्रकर्मकताडनकर्तृत्वाऽभाववानिति बोधः। कामी कान्तामेव कामयते इत्यत्र कानताविषयकेच्छावान् कान्ताऽन्यविषयकेच्छाऽभाववान् कामीति बोधः।।
आङ् ईशदर्थकः अभिव्याप्तार्थकः सीमार्थकः धातुयोगजार्थकश्च। आ स्मरणार्थको वाक्यार्थश्च। अः कोपपीडार्थकः। कुः पापकुत्सेषदर्थकः। धिक् निर्भर्त्सननिन्दार्थकः। च पादपूरणसमाहारसमुच्चयार्थकः। स्वस्ति आशीःक्षेमपुण्यार्थकः। अति प्रकर्षोल्लङ्‌घनार्थकः। स्वित् प्रश्नवितार्कार्थः। तु भेदाऽवधारणार्थकः। सकृत् एवारार्थकः। सारात् दूरसमीपार्थकः। पश्चात् प्रतीचीचरमार्थकः। उत अर्थविकल्पार्थकः। शश्वक् पुनःसहाऽर्थकः। साक्षात् प्रत्यक्षुतल्यार्थकः। बत खेदानुकम्पासन्तोषविस्मयाऽऽमन्त्रणार्थकः। हन्त हर्षाऽनुकम्पावाक्यारम्भविषादार्थकः। प्रति प्रतिनिधिवीप्सालक्षणार्थकः। इति हेतुप्रकरणप्रकाशसमाप्त्याद्यर्थकः। पुरस्तात् प्राचीप्रथमपुराऽग्रार्थकः। यावत् तावच्च साकल्याऽऽवधिमानाऽवधारणार्थकौ। अथोऽथ मंगलाऽनन्तराऽऽसम्भप्रश्नकार्त्स्न्याऽर्थकौ। वृथा निरर्थकविधिवर्ज्यार्थकः। नाना अनेकोभयाऽर्थकः। नु पृच्छविकल्पार्थकः। अनु पश्चात्सादृश्यार्थकः। ननु प्रश्नाऽवधारणाऽनुज्ञानुनयाऽऽमन्त्रणार्थकः। अपि गर्हासमुच्चप्रश्नशंकासंभावनार्थकः। वा उपमाविकल्पार्थकः। सामि अर्धजुगुप्सार्थकः। अमा सहसमीपार्थकः। एवम् इवेत्थाऽर्थकः प्रकारोपमांऽगीकाराऽवधारणार्थकश्च। नूनं तर्कनिश्चयार्थकः। किं प्रच्छाजुगुप्सनार्थकः। नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सनाऽर्थकः। अलम् भूषणपर्याप्तिशक्तिवारणवाचकार्थकः। हुं वितर्कपरिप्रश्नार्थकः। समया अन्तिकमध्यमाऽर्थकः। पुनः अप्रखमभिन्नतार्थकः। निः निश्चयनिषेधार्थकाः किल वार्तासंभावनार्थकः। निः निश्चयनिषेधार्थकः। पुरा प्रबन्धनिकटागामिकचिरातीतार्थकः। ऊरी उरी ऊररी विस्ताराऽङ्गीकारार्थकाः। किल वार्तासंभावनार्थकः। खलु निषेधवाक्याऽलंकारजिज्ञासाऽनुनयाऽर्थकः। अभितः समीपोभयशीघ्रसाकल्याऽभिमुखार्थकः। प्रादुः नामप्राकाश्यार्थकः। मिथः अन्योऽन्यरहस्यार्थकः। तिरः अन्तर्धितिर्यगर्थकः हा विषादशुगर्तिकुत्सार्थकः। अहह उद्‌भुतखेदार्थकः। हि हेत्ववधारणार्थकः। चिरं चिराय-चिररात्राय-चिरस्यचिरेण-चिरात्-चिरे-चिरार्थको दीर्घकालार्थकः। मुहुः पुनः-पुनः शश्वदभीक्ष्णमसकृदर्थकः। तत्क्षणं स्त्राक्-भक्तटित्यञ्जसाहायद्राङ्‌मंक्षुसपदिद्रुतार्थकम्। अतिशयः बलवत्सुष्ठु-किमुतस्वस्त्यतीवनिर्भरार्थकः। वर्जनम् पृथग्‌विनाऽन्तरेणर्तेहिरुङ्‌नानार्थकम्। हेतुः यततत्ततोयत इत्यर्थकः। चित् चन असकलाथौ। जातु कदाचिदर्थकः। सह सार्धं साकं सत्रा समं सहेत्यर्थकः। प्राध्वम्-आनुकूल्यार्थकः। मुधा व्यर्थकव्यर्थवृथाऽर्थकः। विर्तक अहो आहो उताऽहो किं किमुतेत्याद्यर्थकः। तु हि च स्म ह वै पादपूरणार्थकाः। सु सुष्ठुचारुपूजनभृशस्मृद्धिप्रभृत्यर्थकः। अग्रम् पुरः पुरतः प्रान्त इत्यर्थकः। अमुत्र प्रेत्य भवान्तरार्थकौ। व वा यथा तथा एवैवं साम्यार्थकाः। अहो ही विस्मयार्थकौ। तूष्णीं तूष्णीकां मौनार्थकौ। दिव्या शम् उपजोषं कल्याणार्थकाः। अन्तराऽन्तरेणाऽन्तरे मध्यार्थकाः। प्रसह्य हठार्थकः। उचितं साम्प्रतं स्थाने युक्तार्थकाः। अभीक्ष्णं शश्वदनारतं निरन्तरार्थकाः। अ अन नहि नो न स्वल्पार्थप्रतिषेधाऽभावाऽर्थकाः। मा स्म माऽलं वारणार्थकौ। चेद् यदि पक्षान्तरार्थकः। उद्धाऽञ्जसा तत्त्वार्थकौ। प्रादुः आविः प्रकटार्थाः। ओम्‌ एवं परमम् अनुमत्यर्थकाः। परितः सर्वतः विश्वक् समन्ततार्थकाः। अस्तु अभ्यनुज्ञार्थकाः। ननु च विरोधार्थकौ। कच्चिकौ। इष्टप्रशनार्थकः। निःषमं दुःषमं गर्ह्यार्थकौ। यथास्वं यथायथम् योग्यप्रकारार्थकौ। मृषा मिथ्या वितथार्थकौ। यार्थकः। एवं तु पुनः वै एव हि अवधारणार्थकाः नूनम्। अवश्यं निश्चयार्थकौ। अर्वाक् अवरार्थकाः। आम् एवं निश्चयार्थकौ। स्वयम् आत्मना निजार्थकौ। नीचैः अल्पार्थकः। उच्चैः महतार्थकः। प्रायो बहुलं बहुगुणार्थकौ। शनैः अद्रतार्थकः। सनात् सनत् नित्यार्थकौ। स्म अतीतार्थकः। अस्तम् अदर्शनार्थकम्। उ रुषोक्तिकोपनार्थकः। ऊंप्रश्नार्थकः। अयि अनुनयसान्त्वनार्थकः। हुं तर्कार्थकः दुष्ठु निन्दार्थकः। सुष्ठु प्रशंसनार्थकः। प्रगे प्रातरर्थकः। निकषा अन्तिकार्थकः। परुत् पूर्ववर्षार्थकः। परारि एषमसृ पूर्वतरवर्षार्थकौ। परेद्यवि उत्तरदिवसार्थकाः। ह्यः अतीतदिनार्थकः। परश्वः परतरदीनार्थकः। एतर्हि सम्प्रतीदानीमधुना साम्प्रतम् एतत्कालार्थकाः। चटचटादिः हुम्फट् हु वाइदिस्तोमः। हुं कोधबीजम्, फट् अस्त्रबीजं, हावु हावु बावु स्तोमाः मन्त्रैकदेशाः, ते आधुनिकसंकेतवन्तः। चादयो निपाताः स्वार्थे समुच्चयादौ च। प्रादयः प्रकर्षाद्यर्थे। तेमनं व्यञ्जनार्थकम्। गौः रूढम्। गंगा तीरलक्षकम्। पंकजं योगरूढम्। पाचकं यौगिकम्। मण्डपः यौगिकरूढा। महारजतं सुवर्णवाचकम्। अहं कर्तृशक्तिकतम्। रुढसंज्ञा नैमित्तिकी पारिभाषिकी औपाधिकी च। तत्र जात्यवच्छिन्नसंकेतवती नैमित्तिकी गोचैत्रादिः। परिभाषया शब्दाश्रय आकाशः, पुच्छादिमान् पशुः, परिभाषया काष्ठगजो हित्थः। धनवान् श्रेष्ठी। उपाधिना क्रियया वा चाञ्चल्येन चपलश्चंचलादिः, पृथिव्यादिनि भूतानि, जडः चेष्टारहितप्राणी। मूर्खः विद्यादिरहितप्राणी। मूकः वाणीरहितप्राणी। आधुनिकसंकतेः परिभाषा पक्षतादिः, प्रकृतिस्त्रेधा नाम घटाद्याः। धातवः भू अस् कृञ्‌ प्रभृतयः क्रियाशक्ताः। प्रातिपदिका रामाद्याः। लाक्षणिका दाक्षिपाचकाद्या अपि। जात्यखण्डोपाधीनां स्वरूपतो भानम्। प्रमा प्रमाणं परिभाष्याऽर्थबोधके भवतः। अर्थवादाः शाब्दबोधजनका इति मीमांसकाः। तरतमाः प्रकर्षार्थकाः। मतुप् प्रशंसाद्यर्थकः। भवतीत्यत्र शाब्दबोधजनकतावच्छेदकः शंप् आकांक्षासम्पादकः। प्रपराद्यास्तु लक्षणायां निरूढत्वसम्पादका अपीति केचित्। सुप्‌तिङ्‌कृत्तद्धिताः सर्वेऽपि स्वत्तयः स्वाद्या योगबलात्संख्यादिपराः। सन्-तलाद्याः स्वरूपमात्रार्था अपि भवन्ति। भावविहितघञाद्या अपि स्वरूपमात्रार्था भवन्ति। क्रियाविशेषणानाम् एकत्वं कर्मत्वं नपुंसकत्वं चाऽनुशासनात् स्वीक्रियते। स्तोकः प्रत्ययार्थविशेषणे प्रथमान्तः, धात्वर्थविशेषणे तु एकत्वकर्मत्वनपुंसकत्वार्थकः। स्थीयते आख्यातेन, गतं क्तेन, द्रष्टव्यं तव्येन, कमशो वर्तमानाऽतीतभविष्यकालप्रत्यायनम्। पानं द्रवद्रव्यस्य गलाऽधःसंयोगानुकूलव्यापारः। आवापः अन्वयित्वम्, उद्वापः व्यतिरिक्तत्वम्, प्राप्तिपरिहारौ क्ति। विवरणं तुल्यार्थकता। ककुदः अलंकृतससत्कारकन्यादाता। स्वाराज्यम् इनद्रत्वम्। स्वः नित्यसुखस्वर्गः लक्षकपदम्। अर्थसम्बन्धवति वृत्तिर्लक्षणा तद्वल्लक्षकं-समूहो यातीति समूहितजनो यातीति। सौन्धवपदं लवणे तुरगेऽपि शक्तम्। गाच् माच् आदयः आधुनिकसंकेतिताः। मीमांसका वाक्यमपि लक्षकं मन्यन्ते, चित्रगोस्वामीति। गौर्वाहीकः-गोसदृशे लक्षणा। भावे क्तः। आलंकारिका वाक्ये लक्षणां स्वीकुर्वन्ति। कसधातोर्विकसितार्थे लक्षणा। धेनुः धानकर्मत्वशिष्टगौः शक्त्या रूढिः। एकाक्षरेषु शक्तिः नः ख, समुदाये नखः। योगरूढं तैलम्। तैलं योगेन तिलप्रभवं रूढया स्नेहम्। योगरूढ्या तैलं पत्रं चेति। योगेन पंकजं कुमुदं रूढ्य पद्‌मम्। योगरूढे समासः कृष्णसर्पादिः लोहितशल्यमिति। कृदन्तस्य पंकजादियोगरूढस्य सामासिकत्वमपि। इकण् स्वार्थे। पद्‌मनाभो युधिष्ठिरः मनसादेवी यगरूढाः। यौगिकं त्रेधा-समासः, तद्विताक्तं, कृदन्तं च। द्वन्द्वोऽपि यौगिकः। ब्राह्मणी श्वश्रूः शूद्रा यौगिकानि ङीब्‌ आङ् आप। स्त्रीत्वविशिष्टब्राह्मणवाचकं ब्राह्मणीति। समासानां समुदायशक्तत्वं, समुदायत्वम् अपेक्षाबुद्धिविशेषविषयत्वम्। पदं विभक्त्यन्तं, वा सुप्तिङन्तं वा शक्तं पदम्। सुप्तिङन्तचयो वाक्यम्, समर्थः पदसमूहो वाक्यम्, व्यञ्जकमपि पदम्, व्यञ्जनया वृत्त्या च लक्षणा, लक्षणाया मूलं व्यञ्जना शक्तिः। अभिधा शब्दशक्तिः साऽपि मूलं व्यञ्जनाया इति च मूलं सहकारि। शक्त्या वृत्तिर्जहत्स्वार्था गंगायास्तीरे। शक्यलक्ष्योभयवृत्तिश्च अजहत्स्वार्था घटपदस्य द्रव्ये नीलघटस्य चापि द्रव्ये। अनादितात्पर्यवती निरूढा लक्षणा, अरुणं रक्तम्, अरुणया गवा सोमं क्रीणातीत्यत्र। आदितात्पर्यवती आधुनिकी घटत्वेन घटपदस्य। गौणी शक्यदृशी अग्निर्माणवकः अग्निसदृशो माणवकः। शक्तत्वेन लक्षकत्वेन च पदज्ञानं हेतुः। अभिधया स्मृतिसहकारेण मनसा बोधः, लक्षणयाऽपि स्मृतिसहकारेण मनसा बोधः, लक्षणयाऽपि स्मृतिसहकारेण मनसा बोधः। व्यञ्जनयाऽपि तथा व्यङ्ग्यार्थस्य बोधः। स्मृतिसहकारेण वाच्यार्थस्य मनसा बोधः। स्मृतिसहकारेण लक्ष्यार्थस्यापि अभिधाया लक्षणाया व्यञ्जनायाश्च वृत्तित्वेन. पार्थक्यम्। पदार्थोपस्थितिनियामकः संकेतो वृत्तिः, तात्पर्यज्ञानं साक्षाच्छाब्दबोधोपयोगीति तात्पर्यं न वृत्तिरूपम्। लक्षणायास्तु वृत्तित्वमावश्यकम्। पदार्थयोर्वाच्यवाचकभावः स्वतन्त्रः सम्बन्धः। अर्थज्ञाननिष्ठशक्त्या अर्थवाचकत्वं पदानामिति तु मीमांसकाः पदनित्यत्ववादिनः।। कुमारीलभट्टस्तु पदार्थसंसर्गस्यापि वाच्यत्वं स्वीकरोति। शक्तिज्ञानं पदार्थवाचकत्वावगाहि, अर्थे पदवाच्यत्वाऽवगाहि, चेत्युभयविधं शाब्दबोधप्रयोजकम्। आकांक्षा संसर्गभाननियामिका। पदार्थद्वयसंसर्ग आकांक्षाबललभ्यः। वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमितत्वम् सति वाच्योपस्थितिप्रकारत्वं प्रवृतिनिमित्तत्वम्। पदार्थः पदार्थेनाऽन्वेति न तु पदार्थेकदेशेनेति तत्र पदार्थत्वं बोधविषयताश्रयत्वेन संकेतविषयत्वं तदेकदेशत्वं तु बोधविषयताऽवच्छेदकत्वेन संकेतविषयत्वं, तदेव शक्यतावच्छेदकमिति। आकाशपदस्य निरवच्छिन्ने शक्तिः। अष्टद्रव्यातिरिक्तद्रव्यत्वेन आकाशपदावच्यत्वेन वा आकाशपदे लक्षणाया उपगमः। यद्वा आकाशः शब्दाश्रय इति मुख्यक्तिबोधः। द्रव्यं नास्ति गौर्नास्तीत्यत्र तदा लक्षणा। स्वर्गधेन्वादि लाक्षिकम्। प्राभाकरास्तु धेनुपदस्य धानकर्मताविशिष्टे शक्तिः, न तु गोत्वविशिष्टे। दिवाकरनिशाकरयोः शक्तं पुष्पवन्तपदमिति शक्तिग्रहे उभयनिष्ठविषयताया ऐक्यात् समूहालम्बनलिलक्षणे उभयत्वधर्मितावच्छेदकतापन्नचन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानिमिति। पुष्पवन्तपदाच्चन्द्रत्वावच्छिन्नविषयतसूर्यत्वावच्छिन्नविषयकशाब्दबोधो भवत्विति'तत्र संकेतः। उभयविषयकत्वावच्छिन्नाया बोधनिष्ठसंकेतविषयताया ऐक्याच्छक्तेरैक्यम्, न नानार्थता। एकया उक्त्या शक्त्या दिवाकरनिशाकरावित्यमरकोशोऽपि।। सर्वनामपदानामपि शक्तेरैक्यान्न नानर्थता। हर्यादिपदानां नानार्थेषु शक्तिः। युष्मदस्मदोः युष्मत्पदविशिष्टो बोधो भवत्विति भगवदिच्छासंकेतः। प्रथमे वैशिष्ट्यं स्वघटितवाक्यजन्यबोधाऽऽश्रयत्वप्रकारकेच्छोद्देश्यत्वाऽवच्छेदकत्वोपलक्षितधमांवच्छिन्नविषयकत्व-स्वजन्यत्वोभयसंसर्गेण। द्विताये वैशिष्ट्यंस्वोच्चारयितृत्वाऽवच्छेदकत्वोपलक्षितधर्मावक्छिन्नविषयकत्वस्वजन्यत्वोभयसंसर्गैणेति। स्वत्वस्य संसर्गकुक्षिप्रविष्टतया नाऽननुगमः।।'अयमहं पण्डित इति जानातीत्युवाच' इति स्थले सर्वत्र वाक्यार्थो न कर्म, तत्रेतिपदं तद्वाक्यजन्यज्ञानसमानाकारपरम्, इतिपदार्थः अभेदेन धात्वर्थे तदवच्छेदकज्ञाने च विशेषणमिति सर्वत्र इतिपदं युष्मत्पदघटिताऽवान्तरवाक्यस्थले तद्वाक्यजन्यज्ञानसमानाकारकपरम्।। त्वं स्थूलः अहं स्थूलः, त्वं स्वर्गं भोक्ष्यसे अहं स्वर्गं भोक्ष्ये इत्युभयत्रैव युष्मदस्मदोर्मुख्यत्वात् सम्बोध्योच्चारयितृशरीरतदात्मनोरेव युष्मदस्मदर्थथा। सर्वे घटा रूपवन्त इत्यत्राऽशेषत्वं सर्वपदार्थः। उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिमित्तं, तथाविधधर्मोऽत्र घटादिनिष्ठयावत्त्वम् व्यासज्ज्यवृत्तिघटत्वव्यापको रूपादिव्याप्यश्च, व्याप्यव्यापतभावोऽर्थाल्लभ्यते, उद्देश्यतावच्छेजकव्यापकत्वं तु तत्समानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वं, यावत्त्वपर्याप्तिश्च न भिन्ना, विधेयव्याप्यत्वं तु व्यभिचारित्वसम्बन्धावच्छिन्नप्रतियोगिताकतत्तद्विधेयतावच्छेदकावच्छिन्नप्रतियोगिताकतत्तद्विधेयाऽभाववत्त्वम्।। काले सर्वे वृत्तिमन्त इति विधेयवाचकपदसमानाधिकरणसर्वपदस्य विधेयतावच्छेदकव्यापकोद्देश्यतावच्छेदकावच्छिन्नसम्बन्धव्याप्यपर्याप्तिकं यावत्त्वमर्थः। कालः सर्वधर्मवान् इत्यत्रापि सर्वपदेन वृत्तिमत्त्वादिव्यापककालादिसम्बन्धव्याप्यपर्याप्तिकं यावत्त्वं प्रतीतिविषयम्। सर्वं प्रमेयमित्यत्र अन्योन्याभावप्रतियोगितानवच्छेदकविधेयव्याप्यपर्याप्तिकयावत्त्वार्थत्वं सर्वपदस्य। अयं सर्वं घटं वेत्तीत्यत्र इदमीयज्ञाने निरूपकतया द्तीयार्थविषयताया अन्वयस्याऽऽनुभविकत्वेन इदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने सर्वपदशक्तिरिति। अत्र न सर्वाणि रूपाणीत्यत्र नञर्थप्रतियोगिविशेषणार्थकसर्वशब्दस्य स्वार्थान्वयितावच्छेदकरूपत्वादिव्यापकपर्याप्तिनिरूपकयावत्त्वार्थकत्वेन तदविच्छन्नाभावो घटादावबाधित एव सर्वं द्रव्यं न रूपवदिति द्रव्यत्वादिव्यापकयावत्त्वसामानाधिकरण्यभावस्य प्रतीयते, अनुयोगिविशेषणावच्छेदेनैव नञा अभावः प्रत्याय्यते। चैत्रो दधि, मैत्रः पयः, जैत्रो घृतं, पैत्रस्तु सर्वं भुक्तंे' इत्यत्र सर्वपदं तथाविधयावद्धर्मप्रकारकं बधं जनयत्वितिसंकेतरूपा विलक्षणा शक्तिः 'एकस्मै वा अन्या इष्टयः कामायाऽऽह्रियन्ते सर्वेभ्यो दर्शपूर्णमासौ' इत्यत्र तु प्रत्येकफलकामस्य तत्राऽधिकारात् योगसिद्धिः-प्रत्येकप्रयोगसम्बन्धेनयोगेन ततत्फलोत्पत्तिः कमेणेति सर्वेभ्य इत्यस्य प्रत्येकप्रयोगेण प्रत्येकस्मै इति पक्षो दृढीकृतः। किंपदस्य जिज्ञासिते शक्तिः, वक्तृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तम्। कस्य पुत्रः सुन्दर इत्यत्र तु विशेषधर्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्देश्यताऽवच्छेदकताकप्रकृतविधेयज्ञानगोचरेच्छा प्रतीयते। जिज्ञासिते विशेषधर्मावच्छिन्ने शक्तिः अयं कः इत्यत्र इदन्त्वावच्छिन्नांऽशे विधेयतावच्छेदकत्वेन जिज्ञासितधर्मवानिति बोधः। इदं किं द्रव्यम्, इदं कस्य धनम्, भवतः पुत्राः कृति, भवान् कस्य पुत्रः, इत्यत्र इदन्त्वावच्छिन्नोद्देश्यतानिरूपितस्वार्थाऽभेदाऽन्वयिताऽवच्छेदकाऽवच्छिन्नविधेयतानिरूपिताऽभेदसम्बन्धावच्छिन्नाऽवच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यो द्रव्यत्वस्य विशेषधर्मस्तद्वदभिन्नद्रव्याऽभिन्नमिदमिति बोधः। इदं कस्येत्यत्र स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्मावच्छिन्नोद्‌देश्यातनिरूपितस्वार्थान्वयितावच्छेदकधर्मावच्छिन्नविधेयतानिरूपितनिरूपितत्वसम्बन्धावचछिन्नाऽ वच्छेदकत्वेन जिज्ञासितनिरूपितत्वप्रतियोगित्वन्यूनवृत्तिधर्मावच्छिन्ने किंपदस्य शक्तिः। इदन्त्वावच्छिन्ननिरूपितस्वत्वत्वावच्छिन्नविधेयताऽवच्छेदकतावच्छेदकत्वेन जिज्ञासितनिरूपतित्वप्रतियोगित्वन्यूनवतिधर्मावच्छिन्नवत्स्वत्‌ववदिदमिति बोधः। उत्तरवाक्यं तत्र स्वीयमिति प्रयोगः।। भवतः पुत्राः कति, इत्यत्र विधेयतावच्छेदकसंख्यायां किंपदार्थस्याऽ भेदेनाऽन्वयः। भवान् कस्य पुत्र इत्यत्र विधेयतावच्छेदकषष्ठ्यर्थे जन्यत्वे किंपदार्थस्याऽऽभेदेनाऽन्वयः। प्रथमे जिज्ञासितस्वार्थाऽभेदाऽन्वयिताऽवच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तिधर्मावच्छिन्ना किंपदस्य शक्तिः। द्वितीये जिज्ञासितस्वार्थाऽभेदाऽन्वयिताऽवच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तिधर्मावच्छिन्ना शक्तिः। किमिन्दुः किं पद्ममित्यत्र अव्ययकिमो वितर्कोरऽथेः प्रयोक्तुः संभावनात्मकं ज्ञानम् अभेदेन चन्द्रादिप्रकारिका संभावना, ज्ञानस्य विशेष्यता सम्बन्धेन प्रथमान्तपदोपस्थाप्ये विशेष्ये, प्रकारिता सम्बन्धेन च तत्र चन्द्रान्वयः। संभावनाः संशयः, इदमध्याहार्यम्, तथा च उभेदसंसर्गावच्छिन्नप्रकारतासंसर्गकेन्दुविशेष्यकसंशयस्य विशेष्यतासम्बन्धेनेदन्त्त्वावच्छिन्नविशेष्यताको बोधः। आलंकारितमतेऽत्र व्यञ्जनातः शाब्दबोधः। नैयायिकमते मानसो बोधः। त्वदन्यः को न ददातीत्यादौ अन्योन्याभावप्रतियोगिताऽनवचछेदकपर्याप्तिकधर्मावच्छिन्ने किंपदस्य शक्तिः। त्वमेव दानकर्तृभिन्नः। त्वदन्यः सर्वो दानकर्ता। नञ् तात्पर्यग्रहाकः। किंशब्दस्य नानार्थशक्तयः। इदं को जानीते इत्यत्र इदंविषयकज्ञानश्रयत्वाऽभाववान् इति बोधः। किं गौरितिकुत्सार्थः किं शब्दः।। यत्पदस्य तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तिः। स्वोच्चारकपुरुषोच्चरितस्वपूर्वपदोपस्थाप्यतावच्छेदकधीस्थधर्मावच्छिन्ने प्रक्रान्तपरामर्शियत्पदस्य शक्तिः।। यत्पदोपस्थाप्येऽर्थे तत्पदस्य शक्तिः। पूर्वप्रयुक्तपदोपस्थापितेऽर्थे तच्छब्दस्य शक्तिरिति। प्रसिद्धार्थे शक्तमपि तत्पदम्। इदमेतदोः प्रत्यक्षबुग्घिविषये पदार्थे शक्तिः। अदसः परोक्षवुद्धिविषये शक्तिः। अदसः परोक्षबुद्धिविषये शक्तिः। स्वपदस्य स्वसमभिव्याहृतपदोपस्थाप्ये शक्तिः। समभिवयाहार एकपदघटकत्वम्।। साक्षात्परम्परया वा यः स्वार्थस्य विशेष्यो यश्च समभिव्याहृतक्रियाकारकपदार्थस्तदुभयत्र स्वपदस्य शक्तिः। चैत्रं, पश्यतीत्यत्र, स्वपुत्रचैत्रेण दृश्यते, चैत्रः स्वं पश्यति, चैत्रेणाऽवलोकितं स्वपुत्रं मैत्रः पश्यति, स्वव्यापकह्निव्याप्यवान् पर्वत, इत्यादौ यथायथं शख्त्या तल्लक्षणया च प्रतीत्युपपत्तिः। ब्रह्मणः स्वपुत्रं पश्यति, ऋतौ भार्यामुपेयादित्यादावपि स्वाश्रयत्वस्वनिरूपकदर्शनविषयपुत्रजनकत्वोभयसंसर्गोणाऽन्वयः। साक्षात्परम्परया स्वार्थनिष्ठविषयतानिरूपितविशेष्यताऽवच्छेदकत्वेन वक्तृबुद्धिस्थत्वाद्युपलक्षितधर्मावच्छिन्ने शक्तिस्तथा विभक्त्यर्थद्वारा स्वसमभिव्याहतक्रियाऽन्वयिताऽवच्छेदकत्वेन वक्तृबुद्धिस्थत्वाद्युपलक्षितधर्मावच्छिन्ने शक्तिश्चेति तत्र तत्र सति तात्पर्ये बोधोऽव्याहतः।। एकपदस्य कैवल्यादिविशिष्टे शक्तिः, कैवल्यं सजातीयद्वितीयरहितत्वं सजातीयनिष्ठभेदाऽप्रतियोगित्वं, सजातीयद्वितीयरहितत्वं सजातीयनिष्ठभेदाऽप्रतियोगित्वं, सजतीयत्वं प्रकृतविधेयवत्त्वम्' अत्राऽयमेको भुक्ते' इत्यत्र एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाऽप्रतियोग्ययमत्र भुंक्ते इति बोधः। स्वजन्यत्वस्वसदातीयनिष्ठभेदाऽप्रतियोगिविषयकत्वैदुभयसम्बन्धेन एकविशिष्टो बोधो भवत्विति संकेतः। पिण्डमय्यो गाव इत्यत्र तु लक्षणया प्रतीतिः। मीमांसकाः कुब्जां शक्तिं व्यक्त्यंशे मन्यन्तेऽपि, कुब्जा तु वाच्यत्वव्यहाराऽप्रयोजिका, यद्वा पदार्थान्तरमेव शक्तिः। मण्डनमिश्रस्तु लक्षणा जाति-प्रकारेण व्यक्तिं बोधयति, आकृतौ शक्तिर्व्यक्तौ लक्षणेत्यपि पक्षान्तरम्। प्राभाकरास्तु संस्काराद्व्यक्तिस्मरणम्। शक्तित्वशख्यसम्बन्धत्वाम्यामपि सहकारिज्ञानस्य कल्पनम्। वृत्तिसंसर्गकपदप्रकारकज्ञानं वा शाब्दबोधे कारणम्। यद्वा-गवादिपदादेः समवायादिना गोत्वादिप्रकारकज्ञाने एवशक्तिः।। 481।।
धर्माऽधर्मावपूर्वाख्यौ हरेः प्रसन्नतात्मकौ।
स्तरौ तौ पुद्गलौ वाऽपि भिन्नप्रक्रियया मतौ।। 482।।
न्याये धर्मः पुण्यार्थकः, धर्माऽधर्मावदृष्टार्थकौ। मीमांसायाम् अपूर्व पुण्यं धर्मः, उपासनायां भगवत्प्रसन्नताधर्मः। चोदनालक्षणेऽर्थे धर्मपदं लाक्षणिकम्। ' स्वाध्यायोऽध्येतव्य' इत्यत्र तव्यप्रत्ययः शाब्दभावनार्थकः। धर्मो वेदार्थज्ञानम्। जिज्ञासा जहल्लक्षणाया इच्छासाध्यविचारबोधिका। प्रत्ययार्थः साध्यसाधनभावसम्बन्धः। जिज्ञासेत्यत्र शक्तिमज्ज्ञानम् अजहल्लक्षणयाऽनुष्ठानोपयोगिज्ञानपरम्। अनुष्ठानोपयोगिज्ञानेच्छासाध्यविचारः कर्तव्य इति बोधः।।
यागादौ धर्मपदं जनकत्वेन लाक्षणिकम्। धर्मपदस्य वेदप्रतिपाद्यप्रयोजनवदर्थो लाक्षणिकार्थः। 'श्येनेनाऽभिचरन् यजेते'त्यत्र श्येनपदं श्येनयागे लाक्षणिकम्। अभिचारपदस्य वैरिमरणानुकूलशस्त्रघातादिरूपहिंसात्मकार्थे लक्षणा। अधर्मपदस्य वेदबोधिताऽनिष्टसाधनताकेऽर्थे लक्षणा। यजेतेत्यत्र तिप्रत्यये आख्यातैकांशाच्या, अवच्छेदकैक्येऽपि विषयभेदेन भिन्नवाच्यार्थस्वीकारात्। मानसापेक्षो विषयत्वाकार उद्‌देश्यत्वार्थः। भावना प्रयोजकस्य व्यापारः शक्यार्थः। यस्माच्छब्दाद् यन्नियमतः प्रतचीयते तत् तस्य वाच्यम्। अन्यत्र तु अभिप्रायविशेषः शक्तिः, अभिप्रेतार्थः शक्यार्थः। जातो वा व्यक्तौ वा सम्बन्धे वेति मीमांसकाः। तदितरत्र लक्षणा। यजेतेत्यत्र यागानुकूलप्रवृत्त्यनुकूलव्यापारवानिति बोधः। भावनायाः शक्यं वा शक्यतावच्छेदकं प्रवर्तनात्वम्। अनुकूलत्वं जनकत्वम्। आप्तस्य यथार्थवक्तरि लोकवेदसाधारणप्रतारणाद्यजन्यहिताऽहितोपदेष्टृतदिरिक्तोपदेष्टरि उपदेशे वा लक्षणा। प्रवर्तनाप्रेषणाविधिभावनावैदिकव्यापारो लिङादिवाच्यार्थः। लोकवाक्ये प्रेषणाऽऽज्ञाऽध्येषणानुज्ञाऽनुमतिप्रैषकामचारपुरुषप्रवर्तनाभावना लिङादिवाच्यार्थः। अयं ज्ञानविशेषो वा इच्छाविशेष अशयविशेषोऽभिप्रायः पुरुषनिष्ठो लोके।। लोकवाक्ये प्रैषे, वैदिके तु व्यापारे, व्यापारत्वं प्रवर्तनात्वं शक्यतावच्छेदकम्। व्यापारे, व्यापाराख्यप्रवर्तनायां मुग्धाकारा शक्तिः। शक्ततावच्छेदकं तु लिङ्‌त्वलेट्‌त्वलोट््त्वादिकम्। भावनाया व्यापारो लिङ्गद्यर्थः। लोके तु अजहल्लक्षणया यादृशो व्यापारस्तद्धर्मेण प्रवृत्तिः, इष्टसाधनत्वाद्यपि लिङाद्यर्थः। मण्डनमिश्रस्तु इष्टसाधनत्वं प्रवर्तनात्वं लिङ्गाद्यर्थः। मण्डनमिश्रस्तु इष्टसाधनत्वं प्रवर्तनात्वं लिङ्गाद्यर्थः। पार्थसारथिस्तु अर्थभावनाभिधानानुकूलाया लिङदिनिष्ठशक्तेरभिधाख्यायाः प्रवर्तनात्वेन लिङादिवाच्यत्वम्, प्रवर्तनाज्ञानं प्रवृत्तिकारणम्।। अथ लिङादिश्रवणोत्तरं प्रवृत्तेस्तज्जननस्वरूपसच्चिकीर्षात्मकसामग्रीजननद्वारा सामग्रीज्ञाने लिङादिक्षानस्योपयोगः, ज्ञानं च बलवदनिष्टाऽननुबन्धित्वज्ञानं कृतिसाध्यत्वज्ञानम् इष्टसाधनत्वज्ञानं कृतिसाध्यत्वज्ञानम् इष्टसाधनत्वज्ञानं चेति लिङादिज्ञानेन त्रितयज्ञानजननाल्लिङादेर्बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वकृतिसाध्यत्वेत्रितये शक्तिरिति तार्किकाः। मीमांसकास्तु बलवदनिष्टाननुबन्धित्वज्ञानं प्रवृत्तिप्रतिबन्धकमिति तदभावः स्वरूपसन्नेव प्रवृत्तिकारणमिति नेष्टसाधनत्वादित्रितयं लिङाद्यर्थः। शब्दभावनया साध्याऽर्थभावना, साधकसाध्यत्वं तयोरन्वयः। लिंगज्ञानं ज्ञापककारणं, भावनयोः सहैव नित्यसत्त्वात्।।
अथ विधिशब्दस्य पुरुषप्रवृत्तिरूपाऽर्थभावनाज्ञानहेतुव्यापारवाचकशक्तिमत्त्वेन ज्ञानद्वारा प्रवृत्तिजनकत्वं, ज्ञानकारणकश्च व्यापारः, तस्य स्वज्ञानं शक्तिज्ञानं शक्तिविशिष्टस्वज्ञानं च,तत्राऽऽद्ययोरन्यतरस्य शब्दभावनात्वं तृतीयस्य तत्र करणत्वम्, यस्य प्राशस्त्यज्ञानं फले रागश्च तस्य जनस्य प्रवृत्तिः। करणगतप्रकाशाऽऽकांक्षापूरकत्वम् इतिकर्तव्यतात्वम्। प्राशस्त्यविशेषज्ञापकोऽर्थवादविशेषः। विधेयतावच्छेदकसामानाधिकरण्येन बलवदनिष्टाऽननुबन्धित्वे सति क्रियाजन्यदुःखाऽपेक्षयाऽधिकेष्टजनकत्वं प्राशस्त्यं विध्यर्थवादेषु लक्षयते। निषेधार्थवादेषु तु निषेध्यताऽवच्छेदकसामानाधिकरण्येन क्रियाफलाऽपेक्षयाऽधिकदुःखसाधनत्वम् अप्राशस्त्वं लक्ष्यते। सर्वत्र वाक्ये लक्षणा। एकस्मिन् पदे लक्षणायामितरपदानि तात्पर्यग्राहकाणि वा। पुरुषप्रवृत्तिलक्षणाऽर्थभावनाभाव्यको लिडादिशब्दस्य व्यापारविशेषः शब्दभावना लिडादिशब्देन लिङ्‌त्वांऽशेन उच्यते। स्वर्गादिफलेच्छाजनितो यागादिक्रियाविषयः प्रयत्नः सव्यापारोऽर्थभावनात्वेन उच्यते। प्रयत्न एव आख्यातसामान्यस्याऽर्थः। यद्वा-फलोत्पादनसामर्थ्यवान् व्यापार आख्यातसामान्याऽर्थः। व्यापारोऽयम् अग्न्यन्वाधानादिब्राह्मणतर्पणान्नप्रवृत्तिरूपः। रथे तु पूर्वोत्तराऽवान्तरदेशविभजनसंयोजनरूपः। कुठारे उद्यमननिपतनरूपः। प्रयत्नो धातुमात्रलभ्यः। ज्ञानेच्छाद्या अपि व्यापाराः अथ यागविषयकव्यापारस्य स्वर्ग प्रति विलक्षणमानुकूल्यम्, पाकव्यापारस्य ओदनं प्रति विलक्षणमानुकूल्यम्, भेषजपानव्यापारस्य नैरोग्यं प्रति विलक्षणमानुकूल्यम्, पाकव्यापारस्य ओदनं प्रति विलक्षणमानुकूल्यम्, विलक्षणाऽऽनुकूल्यविशिष्टव्यापारविशेषस्य प्रतिधात्वर्थविलक्षणत्वम्, अतो न प्रकृत्यर्थसामान्यं भावना, किन्तु धात्वर्थभिन्ना आख्यातार्थप्रत्ययसामान्याऽर्थभूताऽऽर्थभूताऽऽर्थोभावना अर्थः साध्यं फलं स्वर्ग पुरुषविशेषणम्, अर्थः, अर्थः यागांगानि प्रयाजादीनि च अर्थार्थार्थानि चापि अर्थः। स्वर्गाऽऽकांक्षिताऽपूर्वाऽऽकांक्षितयागानुष्ठानकर्ता तिप्रत्ययार्थभावनाभ्‌यां व्याप्रियते सः अधिकारी लाक्षणिकः।। अपूर्वं चतुर्धा वा बहुधा पारिभाषिकं यागस्वर्गसम्बन्धात्मकं यौगिकरूपं यद्वा लाक्षणिकम्। फलार्थमन्तिमं फलाऽपूर्व तदर्थं समूहाऽपूर्वं तदर्थानि उत्पत्त्यपूर्वाणि तदर्थानि चांऽगाऽपूर्वापि प्रारम्भादारभ्य भोग्याऽन्ताऽवस्थानानि सञ्चितानि प्रारब्धानि क्रियमाणानि अपि तानि विविधानि विविधवाच्यार्थवनति यद्वा व्यापारत्वेनाऽदृष्टत्वेनाऽपूर्वत्वेनैकेनाऽनुगतेन लक्ष्याणि। अपूर्ववाचकं पदम् आख्यातज्ञानमेकमेव महाऽपूर्वबोधकम्, तदवान्तराऽऽख्यातपदानि तत्तदपूर्वबोधकानि। असंख्यानां धातूनां तदीयाऽऽख्यातव्यक्तीनामपि बहुत्वादेकधातुविशेषानुषक्तत्वेनोत्पन्नानां भावनावाचकत्वाद् यागदानहोमभावनाः परस्परं भिद्यन्ते भावनाभदे तत्करणाभावार्थस्याऽपर्यायशब्दान्तराद् भेदे एवेति, बहुवारप्रयोगाद्‌यजनादिकर्मभेदोऽपि, तदाख्यातलभ्याऽपूर्वभेदोऽपि। उपकार्योपकारकभावेन भेदोऽपि। द्वित्वत्रित्वादिसंख्यान्वयबलेन एकतिङन्तपदेनाऽपि संश्याधीनत्रियागत्रिभावनाश्चेति एवं बहुधाऽपि। द्रव्यदेवतालक्षणस्य रूपस्य भेदाद् भावनाया भेदः। घनीभूतपयःपिण्ड आमीक्षार्थः। जलमवशिष्टं वाजिनद्रव्यार्थः। वाजोऽन्नम्। शब्दान्तराऽभ्याससंख्यासंज्ञागुणभेदप्रकरणान्तरैः कर्मभदैभविनाभिन्नाश्च। प्रयोजनवदर्थाऽववोधकाऽपौरुयवाक्यसमूहत्वं वेदत्वमिति। अज्ञातार्थादिज्ञापकवेदभागत्वं विधित्वम्, सोमपदं सोमवति लाक्षणिकम्। प्रयोगसमवेतार्थस्मारकवाक्यत्वं मन्त्रत्वम्। उद्भिदा यजेत पशुकाम इत्यत्र उद्िद्वता यागेन पशुं भावयेदिति उध्भित्पदस्य विशिष्टविधौ लक्षणा। चित्रया यजेत पशुकमः इतयत्र यागस्य दधिमधुपयोधाना उदकं तन्डुला इति विचित्रदेयद्रव्यषट्‌कमाम्नातमितीप्टेरनेकद्रव्यत्वेन चित्राशब्दवाच्यत्वम्, इष्टिश्चित्रायाग, तत्परं चित्रापदं लाक्षणिकम्। अग्निहोत्रं जुहोतीत्यत्र अग्निमनूद्य तत्समुच्चितप्रजापतिदेवताविधानात् तत्प्रख्यशास्त्रान्नामधेयत्वम्, अग्निहोत्राख्यं कर्महोमात्मकम्। श्येनेनाऽभिचरन् यजेतेत्यत्र श्येनस्तुत्या श्येनव्यप्रदेशादुपमानात् श्येनसंज्ञकयागः स्तूयते। श्यननामकयागः कर्म। वैश्वदेवेन यजेतेत्यत्र प्रकृते वैश्वदेवनामके योगऽष्टानामाग्नेयादीनां संघातात्मके' यद्विश्वेदवाः समयजन्त तद् वैश्वदेवस्य वैश्वदेवत्मि'ति गुणप्रतिपन्नशास्त्रस्याऽर्थवादरूपस्य सत्त्वेन तत्प्रख्यशास्त्राद्‌वैश्वदेवस्य कर्मनामधेयत्वम्।। निषेधविधिर्निवर्तनां प्रतिपादयन् स्वनिवर्तकत्वनिर्वाहार्थ निषेध्यस्य कलञ्जभक्षणस्य पराऽनिष्टसाधनत्वमाक्षिपान् पुरुषं निवर्तयतीति, नञश्च स्वभावः स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम्'न कलञ्जं भक्षयेदि'-त्यत्र कलञ्जकर्मकभक्षणानुकूलपुरुषप्रवृत्तिजनकप्रवर्तनां प्रति लिङर्थप्रवर्तनाविरोधिनिवर्तना वाक्यार्थः नञ्‌ स्वसमाभिव्याहृतपदार्थविरोधिवाधेकः। 'नेक्षेतोद्यन्तमादित्मि'-त्यत्र तु उद्यन्ता दित्येतरेक्षणार्थकत्वम्, विधिप्रकरणे निषेधस्य विध्यनुगुणो निषेधः पर्युदासो निषिद्धेतरकर्तव्यत्वे प्रयुक्त इति। व्रतपदं कर्तव्यार्थे रूढम्। पर्युदासपक्षे कर्तव्यार्थो लभ्यते। निषेधपक्षे दुर्लभ इति। धात्वर्थविरोध्यनीक्षणसंकल्पो लक्षणया प्रतिपाद्यते। आदित्यविषयकाऽनीक्षणसंकल्पेन भावयेदिति वाक्यार्थः।'यजतिषु येयजामहं करोती'-तिशास्त्रात् येयजामहगानप्रप्तिः' नाऽनुयाजेष्वि'-ति निषेधेन अनुयाजेषु, येयजामहं न कर्यादिति निषेधः स्यात्‌, प्राप्तिपूर्वकप्रतिषेधे विकल्पः स्यान्न तु बाधुः, शास्त्रान्तरेण प्राप्तिमूलशास्त्रस्य बाधाऽयोगात्, विकल्पे च द्विरदृष्कल्पनायां पाक्षिकाऽप्रामाण्यापातः स्यादतो न प्रतिषधाश्रयणं किन्तु पर्यदासाश्रयणम्' अनुयाजव्यक्तिरिक्तेषु यजतिषु येयजामहमन्त्रगानं कुर्यादिति वाक्यार्थबोधः। नञोऽनुयाजव्यतिरिक्ते लाक्षणिकत्वम्। सामान्यशास्त्रप्राप्तयेयजामहइत्यनुवादेन तस्याऽनुयाजव्यतिरिक्तविषयकत्वं विधीयते। पर्युदासः तदन्यमात्रसंकोचार्थकः। उपसंहारस्तत्संकोचार्थकः। रागप्राप्तस्य निषेधः, न तु शास्त्रविधानविषयस्येति क्रतुवैगुण्यसम्पादकस्य निषेधः, तदितरकर्तव्यविधिश्चापि। प्राशस्त्ये निन्दायां वाऽर्थवादवाक्यं लाक्षणिकम्।।
अर्थवादः प्रशंसानिन्दापरकृतिपुराकल्पात्मः,'शोभतेऽस्य मुखं य एवं वेदे'ति प्रशंसार्थकः। 'वायुर्वे क्षेपिष्ठा देवते'-त्यादेर्विधेयार्थप्राशस्त्यबोधकतयाऽर्थवत्त्वम्। बर्हिषि रजतं न देय'-मितिनिषेधस्य 'सोऽरोदीत् तद्रुद्रस्य रुद्रत्वमि'-ति निषेध्यस्य रजतदाने पितरो रुदन्तीति सुर्वण देयमिति रजतदानस्य निन्दितत्वबोधकतयाऽर्थवत्त्वम्। गुणवादो प्रमाणान्तरविरोधे सति अर्थवादो गुणवादः' आदित्यो यूप' इत्यत्र आदित्यवदुज्ज्वलदुणोऽनेन लक्षणया प्रतिपाद्यते। प्रमाणान्तराऽवगताऽर्थबोधकोऽर्थवादोऽनुवादः' अग्निर्हिमस्य भेषजमि'-ति हिमविरोधित्वस्याऽग्नौ प्रत्यक्षाऽवगमात्। प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादो भूतार्थवादः' इन्द्रो वृत्राय वज्रमुदयच्छदि'-ति। अथउत्पत्तिविधिं' अग्रिहोत्रं जुहोती'-त्यत्र अग्रिहोत्रहो मेनेष्टं भावयेदिति कर्मस्वरूपमात्रबोधकविधिः। विधिशब्दो गुरुमते लिङ्गादिशब्दवचनस्तदर्थवचनश्च। भटृमते तदर्थः शब्दव्यापारविशेषो भावना, गुरुमते नियोगाख्यमपूर्वमिति, तच्च जीवनादिमतोऽधिकारिणः, होमादावपूर्वं कृतिसाध्यम्। अपूर्वं वा पापक्षयादि प्रयोजनम्। यागस्य द्वे रूपे द्रव्यं देवता च। यागबोध्ये द्वे द्रव्यत्वं देवतात्वं वाच्यं, लक्ष्ये च द्वे द्रव्यदेवते। अंगप्रधानबोधको विधोः विनियोगविधिः' दध्ना जुहोती-'ति। वाजपेयशब्दः पेयसुराद्रव्यवाचकः। फलं स्वाराज्यं प्रधानं, याग उपसर्जनम्, यागे च द्रव्यमुपसर्जनम्। पारार्थ्यम् अंगत्वमपि विधिना ज्ञाप्यते, क्वचिच्छ्रुत्या निरपेक्षरवात्मिकया विधानकर्त्र्याऽभिधानकर्त्र्या विनियोगकर्त्र्या वा सहकारिण्या सहकृकेन विधिनाऽङ्गत्वं ज्ञाप्यते। लिङलेडाजिश्रवणेन, व्रीहीनितश्रवणेन सम्बन्धप्रतीतिजनकशब्दश्रवणेन चांगत्वं ज्ञाप्यते। विभक्तिविनियोगेन चापि अंगत्वं ज्ञायते। आक्षेपपदम् अनुमानेऽर्थापत्तौ च लाक्षणिकम्। भावनाक्षिप्तः कर्ता अशाब्दोऽपि लक्षणया शाब्दः संख्यायाश्चाऽन्वयः। शब्दगतं वाऽर्थगतं सामर्थ्यं रूढिलिंगम्। शेषशेषिपदसहोच्चारणात्मकसमभिव्याहारो वाक्यम्। जुहूः पर्णतयैव क्रियते जुह्वैवाऽपूर्व जन्यते। सर्वागोपदेशः प्रकृतिः, असर्वागोपदेशो विकृतिः, उभयाकांक्षा किं कथमिति प्रकरणम्, मुख्यभावनासम्बन्धिप्रकरणं महाप्रकरणम्, अंगभावनासम्बन्धिप्रकरणम् अवान्तरप्रकरणम्। एकंगाऽनुवादेन विधीयमानयोरंगयोरन्तराले विहितत्वं सन्दंशः। देशसामान्यं स्थानं तच्च स्थानं कमश्चेति लक्ष्यौ। दब्धिः घातकम्‌ आयुधम्। यौगिकशब्दः अवयवशक्तिमान् समाख्या, अध्वर्यवः पाचका इति। समुदायशक्तिमान् समाख्या, उध्वर्यवः पाचका इतिष समुदायशक्तिमान् रूढ गवादिः। अवयवशक्तिमिश्रसमुदायशक्तिप्रवृत्तो योगरूढः पंकजादिः। स्वतन्त्रयोगशक्तिमान् स्वतन्त्ररूढशक्तिमान् यौगिकरूढः उद्भिदादिः। अवघातप्रोक्षणादि सन्निपत्योपकारकम्। प्रयाजादि आरादुपकारकम्। आश्रयिकर्म सन्निपत्योपकारकं द्रव्यदेवतारूपं परिभाषिकी संज्ञा। कमबोधकविधिः प्रयोगविधिः। क्रमः विततिः पौर्वापर्यम्। कमपरवचनं श्रुतिः। प्रयोजनवशेन क्रमनिर्णयोऽर्थकमः। पदार्थबोधकवाक्यकमः पाठकमः उपस्थितिकमः स्थानकमः। प्रधानकमाधीनांगकमो मुख्यक्रमः। कर्मजन्यफलस्वाम्यबोघको विधिरधिकारविधिः। आख्यातानामर्थ, ब्रुवतां शक्तिः सहकारिणी। उपच्छेदन्यायः कच्छमोचनम्। द्वयोः सहमोचनेऽपि प्रायश्चित्तम्।। एकस्मिन्वा द्वयेऽपच्छेदेऽपि सर्वस्वं दातव्यं पुनः।। नानासाध्यसाधनकियामेकसाधनप्राप्तावप्राप्तस्याऽपरसाधनस्य प्रापकोविधिः नियमविधिः नियमविधिः। पक्षेऽप्राप्तस्य प्रापको विधिः सः। उभयोर्युगपत्प्राप्तौ इतरव्यावृत्तिपरो विधिः परिसंख्याविधिः, 'पञ्च पञ्चनखा भक्ष्या इति अपञ्चनखभक्षणनिवृत्तिपरम्स सोऽत्र वाक्यार्थः। लाक्षणिकी परिसंख्येयम्।।
गार्हपत्यो दाक्षिणात्य आहवनीयः रभ्य आवसथ्यो नाचिकेतसः पावकः पवमानः शुचिः अग्निपदवाच्यविशेषाः। वरं-गोदानबोधकः। पुरोडाशः क्षीरपक्वतन्दुलद्रव्य तदेव चरुनामकम्ष स्त्रुवः वर्तुलपुष्करो दर्वोसमाकारो निम्नमध्यो होमपात्रम्, स्त्रुक् नमच्चञ्चुकपुष्कारो निम्नमध्यं होमपात्रम्। विंशत्याहुतयः अग्निहोत्रम्। अग्निहोत्राख्यं कर्म' अग्न्याधानादारभ्याऽग्निहोत्रस्थालीप्रभालितजलस्य स्वशिरः सेचनान्तं सर्वकलापात्मकं लक्षणया बोध्यम्। अत्र पशुकामस्वर्ग्कामेन्द्रियबलकामग्रामकामाऽन्नकामौजः कामबलकामतेजःकामाद्या अधिकारिणः। तण्डुलैः शिथिलपक्वा विरलद्रवा यवागूः। वैवाहिकोऽग्निः गृह्याऽग्निः गार्हपत्यः। अग्निनाशपदम् अग्निधर्मह्रासे लाक्षणिकम्। पौर्णमास्यां प्रातरारभ्य प्रतिपत्पूर्वाह्णे समापनकर्म पूर्णमासपदबोध्यम्। अमावास्यायां प्रातराभ्य प्रतिपत्पूर्वाह्णसमापनीयकर्म दर्शपदलक्ष्म्। सायंप्रातर्होमसमुदायद्वयं मिलित्वा एकमग्निहोत्रं कर्म लक्ष्यम्। दर्शे पूर्णमासे तत् पृथक्। व्रीहयो यवा वा द्रव्याणि। याज्यानामकाः पुरोनुवाक्यानामका मन्त्रा यजुर्वेदे ऋग्वेदे च पठिताः। परिसमूहनं कुण्डसंस्कारा गोमयेन लेपनं तिसृतिसृरेखाकरणं पांसूद्धरणं चेत्यादि। प्रथमः कुशानां युग्मानामयुग्मानां नवपर्यन्तानां मुष्टिः-प्रस्तरः चमसः चतुष्कोणं दारुपात्रम्। योक्त्रम्-यजमानपत्न्याः कटिबन्धार्थं मुञ्जतृणीयरज्जुः। ताप्ता आपो मदन्त्यः। पिष्टानां जलमिश्रणाय काष्ठपात्रं मेक्षणम्। वेदः दर्भमुष्टिविशेषः। ऋत्विग्भ्यो दक्षिणादेय ओदन अन्वाहार्थः। हविर्निर्वापः-पृथक्पात्रे शटस्थहविषो मुष्टिना स्थापनम्। न्यञ्चि अधोमुखानि अधोबिलानि पात्राणि। फलीकरणं तण्डुलानां वितुषाणाम् उज्ज्वलीकरणायाऽवहननम्। दृषदमती-लिंगोपलया तण्डुलप्रेषणधारशिला। पिष्टतण्डुलचूर्णानि उष्णजलेन पिण्डीकृत्य वह्नौ सुपक्वपिण्डौ अत्र पुरोडाशौ एकग्नये एकमग्रीषोमाभ्यां निर्दिशेत्। धातवः त्रिवारमावृत्तदर्भशालाकाः। उपस्तरणं पात्र्यां स्त्रुवेणघृतक्षेपणम्। अभिधारणम्‌-पुरोडाशोपरि स्त्रुवेण घृतक्षारणम्, कठिनहविर्द्रव्येषु कर्तव्यम। सामिधेन्यः-सामिधेनीसंज्ञिकाः ऋचः। स्त्रुवेण आज्यधारा आघारः। समित्सु चापि आज्यधाराः। समित् तनूनपात्, इट्, बर्हिः, स्वाहाकारः, पञ्च प्रयाजाः, चतुर्णां ता एव देवताः, पञ्चमस्य स्विष्टकृदाज्यभागप्रयाजाऽनुयाजा देवताः, पञ्चमस्य स्विष्टकृदाज्यभागप्रयाजाऽनुयाजा देवताः। प्रैषो मन्त्रः। प्राशित्रं-ब्रह्मणे भक्षणार्थं दीयमानहविर्भागः। स्विष्टकृन्नामाऽग्निः। तण्डुलौदनं दुग्धपक्वम्, अनुयाजहोमाः। पत्नीसंयाजहोमाः। वत्साऽपाकरणं गोमातृभ्यो वत्सानां दूरीकरणम्। शृतपयःकृम्भ्यां स्वल्‌पदध्यासिच्य तत्पात्रं शिक्ये निदध्यादिति आतञ्चनं कर्म।।
स्त्रुवः खादिरोऽङ्‌गुष्टपर्ववृत्तगर्तः पूर्वार्धखातः अरत्निमात्रपरिमाणो हवनसाधनं सहस्तकम्। स्फ्यः-खादिरः खङ्गकृतिः अरत्निमात्रपरिमाणः सहस्तो दर्वोविशेषः। जुहूः-मूलदण्डा त्यक्तोबिला हंसमुखसदृशैकप्रणालिकायुता प्रादेशार्धपुष्करा तावत्खाता पलाशकाष्ठनिर्मिता हवनपात्रम्‌ष पर्णमयी जुहूरपि च। उपभृत् मूलदण्डा त्यक्तोबिला हंसमुखसदृशैकप्रणालिकायुता प्रादेशाऽर्धपुष्करा तावत्खाता पलाशकाष्ठनिर्मिता हवनपात्रम्। ध्रुवात्यक्तोबिला हंसमुखसदृशैकप्रणालिकायुता प्रादेशार्घपुष्कारा विकंकृवृक्षनिर्मिता हवनपात्रम्। अग्निहोत्रवहवणीत्यक्तोबिला हंसमुखसदृशैकप्रणालिकायुता प्रादेशाऽर्घपुष्कारा तावत्खाता वैकंकती विकंकतवृक्षनिर्मिता हवनपात्रम्। अग्निहोस्त्रुवः-स्त्रुववत् हंससदृशैकप्रणालिकायुतो वैकंकतवृक्षनिर्मितो हवनपात्रम्। उलूखलं-कण्डनापात्रम् अर्थलक्षणं वरणकाष्ठनिर्मितम्। मुसलम्-अर्थलक्षणं वरणकाष्ठनिर्मितम्‌ अवधातसाधनम् कूर्चः-बाहुमात्रः पीठाकारः पटृकः। इडापात्री-अरत्निमात्री चतुरंगुलदण्डा मध्यसंगृहीता चतुरंगुलपरिणाहवती। पुरोडाश-पात्री-प्रादेशमात्री समचतुरस्त्रा षडंगुलवृत्तखातवती। शम्याबाहुमात्री पद्मकोशवत् पृथुतीक्ष्णाऽग्रमुखा गदाकारा साधनम्ष उपवेषः-प्रादेशमात्रः पालाशशाखातः कृत्तो दण्डितानिभः शलाकाविशेष। प्राशित्रहरणम्-गोकर्णाकृति चरुनिष्कासनसाधनम्। शूर्पं वैणवं यथायोग्यपरिणाहकम्। चमसः-त्र्यंगुलदण्डः चतुरंगुलोच्छ्रायः षडंगुलविस्तारः प्रादेशमात्रो वरणकाष्ठनिर्मितः अप्‌प्रणयनार्थः साधनं पात्रम्। योक्त्रं-मुञ्जनिर्मिता पत्नीकटिबन्धनरज्जु। मदन्ती-पात्रम्-पित्तलपात्रं संयवनार्थं जलोष्णीकरणार्थकम् मेक्षणम्‌-वरणवृक्षनिर्मितं पिष्टसंयवनार्थम् अरत्निमात्रं दर्वोसाधनम्‌। अन्वाहार्यस्थाली-पुरुषचतुष्टयभोजनपर्याप्ताऽन्नपचनयोग्यं ताम्रं पैत्तलं व पाकपात्रम्। पिष्टलेपपात्रम्‌-वरणवृक्षनिर्मितम्। फलीकरणपावम्-वरणवृक्षनिर्मितं प्रादेशमात्रम्‌। शकटः-शकटाकारं शकटम्। कपालानि-एकोनविंशतिः स्फुटितभाण्डाऽवयवाश्चतुरस्त्रादीनि। इध्मकाष्ठानि-इन्धनानि। कुशाः-वेद्यास्तरणपवित्रकरणपरिस्तरणसाधनानि दर्भाः। दर्भमयानि दारुमयानि चासनानि। यवागूः अग्निहोत्रार्था। कुम्भी पयःश्रपणार्था मृत्पात्री। अभिधात्री गोबन्धनो रज्जुः। निदाने-दोहनकाले पादबन्धनरज्जुः वत्सबन्धनरज्जुश्च। वृक्षखण्डकीलको यूपोऽष्टकोणः वत्सबन्धनरज्जुश्च। वृक्षखण्डकीलको यूपोऽष्टकोणः, तत्र तक्षितस्य प्रथमं शकलं स्वरूः पश्वंजनार्थः। यूपमस्तकं न दृश्येत तथा तथाविधपरिदापनार्थः चषालः। हृदयशूलाख्यं कण्टकम्‌। दध्ना मिश्रितमाज्यं पृषदाज्यम्। उपाकरणं-देवतामुद्दिश्य पशोरुपस्पर्शनपूर्वकं निर्देशः। तनूनपात्‌ नराशंसो वाऽग्निः। वपा श्वेतरक्ता मृदुला तनीयसी अन्तस्त्वक्। यकृत्‌कालखण्डमांसम्। वृक्यौ पर्श्वस्थपिण्डौ। सव्यं बाहुमूलम्। इडा पुराडाशरूपा पक्वा वपा। स्वधितिः-छुरिका मेदः जीर्णपटसदृशं हृदयवेष्टनं वपारूपम्। पाकभाण्डस्थः स्नेहात्मको रसो-वसा। एकादश देवा अनुयाजादौ, ते च नामभिः-बर्हिः, द्वारः, उषासानक्ता, जोष्टी, ऊर्जा, आहुती, होता, नराशंसः। तिस्रत्रो देवयः, वनस्पतिः, बर्हिः, स्विष्टकृत् अग्निः। चषालः-हृदयशूलं कण्टकः। अभ्रिः- यूपाऽवटखननार्था। चत्वारि पर्वाणि-वैश्वदेवः, वरुणप्रघासाः, साकमेधाः, शुनशीरीयः। पूर्णिमायामेते यागाः पर्ववाच्याः। अवभृथं यज्ञान्तस्नानम् शुनासीरः-शुनः इन्द्रः, सीरो वायुः, शुनासीरीयं पर्व।'यद्देवा देवहेडनम्' इत्यादयो मन्त्राः, तैः कृता होमाश्चापि कूश्माण्डाः। सोमो लताविशेषः- 'श्यामाऽम्ला च निष्पर्णाक्षीरिणी त्वचि मांसला। श्लेष्मला वमनी वल्लीसोमाख्या छागभोजनम्'। तत्कृतसोमद्रव्यकयागः सोमपदप्रवृत्तिनिमित्तम्। सोमयागे द्वादश स्तोत्राणि, अग्निष्टोमाख्यमन्तिमं स्तोत्रम्, अतोऽग्निष्टोमनामाऽपि यागः। स्तोत्रवशान्मामानि-उक्थ्यः, अतिरात्रमित्यादीनि। पूतिकालताऽपि सोमलतास्थानीया। ऋत्विजां वरणार्थं प्रेष्यते वस्तुप्रभृति तत्सैमप्रवाकम्। अध्वर्युगणाः-अर्ध्वर्युः, प्रतिप्रस्थाता, नेष्टा, उन्नेता। ब्रह्मगणः-ब्रह्मा, ब्राह्मणाच्छंसी, आग्नीध्रः, पोता। होतृगणः-होता, मैत्रावरुणः, अच्छावाकः, ग्रावस्तुत्। उद्‌गातृगणाः-उद्‌गाता, प्रस्तोता, प्रतिहर्ता, सुबह्मण्यः।। सदस्यः ऋत्विजः सप्तदशकः। प्रागग्नैराचछादनधारणवंशैराच्छादिता शाला-प्राचीनवंशा विमिता वा नाम्ना कथिता। इषीकानिर्मितजालं-पत्न्याः शिरः कचबन्धम्। पथ्या स्वस्तिः देवता। विचयनम्-सोममध्यस्तृणादितन्तूनामपाकरणं संशोधनम्। प्रवर्ग्य इति कर्मणो नामधेयम्। प्रवर्ग्यसंभारेषु महावीराख्यम् मृत्पात्रम् आजपयसा अन्यलोकादिमिश्रंकृतम् अन्तरवकाशं पुतलत्रयम् उपिरिबिलम्। आसन्दीमुञ्जासनम्। धृष्टी-अंगारनिरूहणार्थं काष्ठद्वयम्। मेथी-गोबन्धनार्था। शंकु-कीलकः। रुक्मः वर्तुलाकारः मृगचर्मजः। पादबन्धनरज्जुः। विशाखदाम-वत्सबन्धनरज्जुः। तप्ते धते पयःप्रक्षेपणम्। एतत्सम्बन्धेन नाम। वम्रयः-उपदीकाः श्वेतपिपीलिकाः। धनुर्ज्याछेदेन कोटछिन्नशिरसो विष्णोः शिरःसन्धानम् ज्ञशिरः प्रतिसन्धानरूपं प्रवर्ग्यकर्म। महावीरो यज्ञशिरोरूपः। उपसत्-अपूर्वा इष्टिः। सुब्रह्मण्या-इन्द्रः। ऋत्विक् तत्कर्मकर्ता सुब्रह्मण्यः। गार्हपत्योऽग्निः पश्चात् प्राजहितसंज्ञको भवति। अभिषुतसोमरसवर्धनाय तडागजलं वसतीवरीसंज्ञकम्। शस्त्रं स्तोत्रम्। करम्भः-आज्यमिश्रिता यवसक्तवः। परिवापः-लाजा। पयस्या आमिक्षा। ग्रहं पात्रम्। अंशुग्रहपात्रम् अदाम्यग्रहपात्रम् एकमेव। उपांशुग्रहः, अधाराग्रहः, धारातो गृहीतव्या धाराग्रहाः। सोमांशवः पिष्टसोमलताकूर्चाः। ऋषीजं गृहीतसारो नीरसस्तृणांशः। अन्तर्यामग्रहः। बहिष्पवमानं स्तोत्रम्ष याज्याऽनुवाक्या स्तोत्रे। वसन्तादिऋतुदेवताकाः ऋतुग्रहाः। मार्जालीयं-प्रक्षालनार्थसदनम्। खरंनिक्षेपसदनम्ष द्वादश ऋतुग्रहाः-द्वादशमासनामकग्रहाः प्रतिगरं-प्रतिपठ्यमानं स्तोत्रम्। चमसद्रव्यसधूननबिन्दुयतनमग्नौ-नाराशंसहोमः, नाराशंसचमसाः। प्रउदशस्त्रं-तन्नामकस्तोत्रम्। चात्वालः मृगश्ृंगस्थापनाऽर्हसदनम्। मरुत्वतीयं स्तोत्रम्। अनवस्त्रावितः तण्डुलपक्व ओदनः- चरु)। दधिद्रप्सः दध्यल्पांशरसः। सोमरसो यागात्पूर्वं यत्र स्थापितः सः राजासन्दी। षोडशस्तोत्राणि तत्सम्बन्धी ग्रहः षोडशी, ऋतुरपि षोडशी, धाराग्रहाणामन्ते चनुरस्रत्रे पात्रे षोडश्याख्यग्नहं धाराग्रहं गृह्णीयात्। आश्विनग्रह्स्तोत्रयोरश्विनीकुमारौ देवते। सोमयागाऽग्निष्टोमाऽत्यग्निष्टोमवाजपेयाऽप्तोर्यामनामका यागाः सोमसंस्थानान्तरीयकयागाः। स्पतदशदीक्षस्तोत्रचरुदेवताको वाजपेयः-आप्तो वाजपेयः कुरुवाजपेय इति च। प्रयोग्रहाः सप्तदशात्र। येन यज्ञेन प्रजापतिना पशवः प्राप्ताः स अप्तोर्यामसंस्था यज्ञः। एकोनत्रिंशतं स्तोत्राणि। यागाः श्रौतसूत्रादिभ्योऽवगन्तव्याः। रात्रिपर्याये सवने रात्रिशस्त्रं स्तोत्रम्। ऊनत्रिंशत् स्तोत्राण्यत्र।। स्तोत्रसंख्याःस्तोमाः। स्तोमपदाऽभिधेयः स्तोत्रगताऽऽ वृतिविशेषः। त्रिणवः- सप्तविशतिः। त्रिवृत्-नवसंख्या। कुशाशब्दः तीक्षणाग्रे प्रादेशमात्रे उदुम्बरवृक्षीये एकत्र तष्टे लघुकायेकाष्ठविशेषे लाक्षणिकः, रूढो वा। चितिः-स्थण्डिलाः चितयः। आकाराः श्येनादिवत् भिन्ना। उखा-मृत्तिकापात्रम्‌। उख्यमग्निं नाभ्युपरि पात्रं कृत्वा चतुरो विष्णुक्रमान् कामेत् इत्यादि विष्णुक्रमणम्। देवसुवां हवींषिं अष्ट।। सौत्रामणी नाम पशुयागः-चरकसौत्रमणी कौकिलसौत्रामणी च। राजसूयः- बह्वीनाम्, इष्टीनां द्वयो पशुयागयोः सप्तानां दर्विहोमानां षण्णां च सोमयागानां समुदायरूपः। वटांकुरमर्दितरसं राजानं पाययेत्। आतञ्चनमन्तरेण यत्पयो दधि सम्पद्यते तत् मूर्तमिति। तत्र बदराणि क्षिपेत् स्वयंमथितं भवेत्, तेन खण्डिततण्डुलैः चरुं पक्त्वा तेन मित्रं यजेतेति। शुनःशेपस्य कथां श्रावयेत् क्षत्त्रोऽधिकारी।। अथाऽश्वमेधः सम्राडधिकारी सार्वभौमः। साधारणनृपस्य राजयज्ञः। महोपकरणयोगः,'अश्वमेधः'। अश्वमेधे सांग्रहिणी इष्टिः। पुरुषमेधे पुरुषपशवः, जीवत्पुरुषा एव समर्प्य परित्याज्या।। पुरुषमेधे जीवन्नेव शुनःशेपः परित्यक्तः। सर्वमेधेऽपि मनुष्यस्योपाकरणानन्तरं परित्यागः। सवाः एकाहसम्पाद्याः सोमयागाः, द्वादशसवाः तत्तद्देवताकाः। प्रायणीयम् उदयनीयमिति दिनसंज्ञे आरम्भसमाप्तिसम्बद्धे वैदिकवाक्यप्रक्रियादिबोध्ये। द्वादशाहक्रतौ त्र्यनीका ग्रहाग्रग्रहाः। गवामयनं गोभिरनुष्ठितः क्रतुः सम्वत्सरसत्रम्।। 482।।
धातवो वाङ्‌मूलरूपाः शब्दास्तज्जनयो मताः।
प्रत्ययास्तत्र संलग्नास्ततः स्युः कारकाणि च।। 483।।
गणपठिताः पञ्चभूप्रभृतयो मूलधातवः। सूत्रमात्रोपात्ताः स्कन्‌भूजुप्रभृतिका धातवः सौत्राः योगलभ्यार्थकाः स्वाऽवयवलभ्यार्थस्य बोधकाः पाचिपिपक्षादयो यौगिकाः प्रत्ययन्ता धातवः। तितिक्षादयः सजर्थस्वरूपाद्यन्तर्भावेण यौगिका एव। हिन्दोलाऽ।ञन्दोलादयो लौकिका अपि धातवः। गमभूप्रभृतयः स्वार्थस्य गत्युत्पतिप्रवृतेर्मुख्ये गौणे वा परस्मैपदार्थे एव कर्तृत्वेऽन्वयधियं प्रति प्रभवः। संगच्छते भवते इत्यादितः संगतिप्राप्त्यादिकर्तृत्वाऽ वगमात् तादृशार्थे आत्मनेपदिनः। यजति करोतीत्यादित इव यजते कुरुते इत्यादितोऽपि यागादिकर्तृत्वस्वावगतेर्यागाद्यर्थे यजिकृञादिरुभयपदी। समाहारस्वराऽनुबन्धा यजपचाद्याः ञ्यनुबन्धाः कृञ्‌सुञादयः, ण्यन्ताश्च भाविप्रभृतयः, कर्तृत्ववाचिना पदद्‌वयेन समं साकांक्षाः। सनन्तास्तु स्वप्रकृतिपदभाजः। स्मृदृशोः परस्मैपदित्वेऽपि तयोः सनन्तयोरात्मनेपदित्वम्। क्यङन्ताः हंसायाद्याः, यङन्ताः बोभूयाद्याः, ङानुबन्धाः शीङाद्याः, रुचादिगणश्च कर्तृत्ववाचिना आत्मनेपदेनैव साकांक्षाः।। उभमपद्यात्मनेपदभिन्नास्तु ये ते परस्मैपदेनैव साकांक्षाः।।
प्रत्ययाऋ पञ्चधा-विभक्तिः, धात्वंशः, तद्वितं, कृत, कप्रभृतिश्चेति। संख्यात्वाऽवान्तरजात्यवच्छिन्नशक्तिमान् प्रत्ययो विभक्तिः सुप्‌तिङ चेति भेदतो द्विविधा। यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेयकाऽन्वयबोधं प्रति समर्थः सा सुबादिविभक्तिः। घटम्‌ इत्यत्र कर्मत्वं घटीयं पचतीत्यादौ पाकीया कृतिरित्याद्युद्देश्यविधेयभावेन स्वार्थे प्रकृत्यर्थस्य विधेयभावेन धियं जनयति। नीलो धटो नीलाऽ भिन्नघटः। तत्र तादात्म्यं नीलीयमिति अवान्तरवाक्यार्थबोधे सति नीलतादात्म्यवान्‌ घट इतति बोधः। प्रकृत्यर्थधर्मिकस्वार्थसंख्याऽन्वयबोधजनिका विभक्तयः सुपः। तादात्म्यभिन्नस्वार्थधर्मिकप्रकृत्यर्थबोधं प्रति या न स्वरूपययोग्या सा प्रथमा। एषा विशेषणपदोत्तरस्था स्वोपस्थाप्ये तादात्म्ये प्रकृत्यर्थाऽन्वयं बोधयति। प्रथमाया द्विवचनम् औत्वावच्छिन्नं, बहुवचनं जस्त्वावच्छिन्नम्। इत्येवमन्यविभक्तिवचनान्यपि। स्वर्गकामो यजेतेत्यत्र प्रथमोपस्थाप्यनियोज्यत्वस्य तादात्मयभिन्नस्य यागेऽन्वयाद् अव्याप्तिः, नियोज्यत्वं, ममेदं कार्यमिति बोध्यत्वस्य तद्भानस्य यागादौ मीमांसकैरंगीकारात्। आधेयत्वस्य विध्यर्थकृतिसाध्यत्वादिघटककृत्यादौ संसर्गेणाऽङ्गीकारात्, तत्रोभयत्राऽव्याप्तिरतो लक्षणान्तरम्-धात्वर्थावच्छिन्नतिङ र्थस्याऽन्वयबोधं प्रति यदन्तनानोपस्थाप्यत्वं प्रयोजकं तादृशी सुप् प्रथमा यजेतेत्यत्र तिङर्थेष्टसाधनत्वादेः केवलस्याऽन्वयो न तु धात्वर्थावच्छिन्नस्य यागादावन्वयः।। तिबन्तपचादिधातूपस्थाप्यपाकादिधर्मिककर्मत्वानुभावानुकूलसुप्‌सजातीयत्वं द्वितीयाविभक्तित्वम्, ग्रमं गच्छतीति अमादेः पाकादेः कर्मत्वाद्यननुभावकत्वेऽपि कर्मत्वाद्यनुभावकसजातीयत्वात् समन्वयः।। पच्याद्यर्थधर्मिककरणत्वाऽन्वयबोधानूकूलसुप्‌सजीयत्वं तृतीयाविभक्तित्वम्-रामेण पच्यते।। ददात्यर्थदानधर्मिकसम्प्रदानत्वानुभावसुप्सजातीयत्वं चतुर्थोत्वम्-रामाय ददाति।। पतधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकविभागबोधानुकूलसुप्सजातीयत्वं पञ्चमीत्वम्-वृक्षात्पर्ण पतति।। तिबन्तदाधात्वर्थधर्मिकस्वार्थाऽन्वयबोधस्वरूपाऽयोग्यत्वे सति प्रथमान्युप्तवं षष्ठीत्वम् रामस्य शरः।। हिनस्त्यर्थहिंसाधर्मिकस्वार्थकर्मत्वानुभावककसुप्सजातीयत्वं वा षष्ठीत्वम्, -मृगस्य हिंसकः।। सम्बन्धसामान्ये सत्वत्वे वा शक्ता सुप् षष्ठी,-राज्ञः प्रजा, नृपस्य कोशः।। पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकस्वार्थाऽऽधेयत्वबोधानुकूलसुप्पसजातीयत्वं सप्तमीत्वम्, शाकसूपयोः पाचकः।। अधिकरणतायाम् आधेयत्वे वा सक्ता सुप् सप्तमी,-पथिव्यां गन्धः, बलिनि चैत्रै। गन्धे पृथिवीगुणता। चैत्रधर्मिकष्वार्थाऽधिकरणत्वाऽन्वयबोधकसुप्‌समानानुपूर्वोकत्वंसप्तमीत्वम्। चैत्रे। चैत्रीयमधिकरणत्वमिति बोधः।। धात्वर्थांऽशे प्रकारः सुबर्थः कारकम्। कारकस्य वृत्त्याबोधिकाकारकान्यस्य बोधिकासुपूविभक्तिः। क्रियाप्रकारूभूतोऽर्थः कारकम्।।
शेषः सम्बन्धः कारकादन्यः कारकादवशिष्टः, स न कारकम्। यद्धातूपस्थाप्य यादृशार्थेऽन्वयप्रकारीभूय भासते यः सुबर्थः सः तद्धातूपस्थाप्यतादृशक्रियायां कारकम्। ग्रामं गच्छति घटं पश्यति, दात्रेण छिनति घटत्वेन जानाति, चैत्रेण पच्यते घटेन भूयते, ब्राह्मणाय ददाति पुत्राय क्रुध्यति, वृक्षात्पतति व्याघ्राद्‌ बिभति, स्थाल्यां पचति शुक्तौ भासते, इत्यादौ गमुप्रभृतिधात्वर्थे गमनादौ द्वितीयाद्युपस्थापितः कमत्वादिः प्रकारीभूय भासते, सः कर्मत्वादिः सुबर्थः ततद्धातूपस्थाप्यततत्क्रियायां कर्मत्वादिकं प्रकृते कारकम्।। यादृशेन नामार्थेनाऽवच्छिन्नस्य सुबर्थस्य यादृशधात्‌वर्थेऽन्वयः स एव तादृशधात्वर्थेऽकारकतया व्यपदिश्यते। षष्ठ्यर्थः सम्बनधो न धात्वर्थे प्रकारीभूय भासतेऽतः सम्बन्धो न कारकं, न तदर्थिका षष्ठी, न सा कारकविभक्तिः।। रजकस्य वस्त्रं ददातीत्यत्र परिष्कार्यत्वात्मकसम्बन्धो वस्त्रादौ षष्ठ्याऽनुभाव्यते। तण्डुलस्य पाचकः, मैत्रस्य भोक्तव्यमित्यादौ कर्मत्वकर्तृत्वादिकारकम्, धात्‌वर्थे पचनादौ कृद्योगे कर्तृत्वकर्तृत्वादिकारकम्, धात्वर्थे पचनादौ कृद्योगे कर्तृकर्मणोः षष्ठ्यनुशिष्टेः।' गुरुविप्रतपस्विदुर्गतानां प्रतीकुर्वोत भिषक् स्वभेषजैःपद्‌मस्याऽनुकरोत्येष कुमारीमुखमण्डलः'। 'सा लक्ष्मीरूपकुरुते यथा परेषाम्'। 'मातु स्मरति'। 'चौरस्य हिनस्ति'। 'जलस्योपकुरुते' इत्यादौ क्रियाविशेषयोगे कारकार्थो षष्ठी।' सामान्यवत्त्वे सतीत्यत्र सतिसप्यम्याः सामानाधिकरण्यमित्यधिकरणार्थः। मम प्रतिभाति स्फुरति रोचते इत्यत्र प्रतिभाज्ञानेच्छानामाधेयतात्वेनाऽस्मदादेः सम्बन्धभानात् सप्तमीप्रसक्तौ विवक्षातः षष्ठी न तु सम्बन्धत्वावच्छिन्नत्वस्येति। अथवा चित्ते इत्यध्याहार्यम्, सप्तमीकारकम्।। 483।।
शाब्दवोधोऽन्वयबोधोऽन्वय आकांक्षितोऽर्थगः।
वृत्त्याऽर्थाः परिगृह्यन्तेऽन्वीयन्ते योग्यताबलात्।। 484
शाब्दबोधोऽन्वयविषयकः, अन्वयाश्च योग्यानां पदार्थानामाकांक्षाभास्याः। अथप्रत्यक्षे घटे घटत्वरूपादिसंसर्गः संयुक्तादिसम्बन्धनिष्ठा विशेषणताप्रयोज्याऽस्ति विषयता। अनुमाने वह्निनिष्ठा विषयता व्याप्तिज्ञानप्रयोज्या पर्वतीयवह्निसंयोगनिष्ठा विषयता पक्षधर्मताज्ञानप्रयोज्याऽस्ति। उपमितौ गवयनिष्ठा विषयता चक्षुःसंसर्गप्रयोज्या वाच्यवाचकभावनिष्ठा च विषयता सादृश्यज्ञानप्रयोज्याऽस्ति। राजपुरुष इति स्वत्वाऽभेदादिविषयता किंप्रयोज्याऽस्ति, शाब्दबोधे स्वत्वाऽभेदादिसम्बन्धानां च प्रतीतिश्च कथं भवतीतिजिज्ञासायाम्, उत्तरम्-' पदार्थयोः संसर्गः राजप्रतियोगिकः पुरुषानुयोगिकश्च स्वत्वसंसर्गः आकांक्षाबलेन भासते। एवं सर्वत्र। अभेदादिसम्बन्ध आकांक्षाप्रयोज्यविषयतावान् भवति।'नीलघट' इत्यत्र शब्दनिष्ठविषयता श्रावणप्रत्यक्षप्रयोज्या, अर्थविषयता पदप्रयोज्या, अभेदादिसंसर्गविषयता आकांक्षाज्ञानप्रयोज्येति।' नीलो घट' इतिव्यासस्थले विशेषणविभक्तेरभेदार्थः प्रकारो न तु संसर्गः,'नीलाऽभेदवान् घट' इतिबोधः। विशेषणविभक्तेर्निरर्थकत्वपक्षे तु अभेदादिः संसर्ग आकांक्षाभास्यः। विशेषणविभक्तिः साधुत्वार्था,अभेदसम्बन्धेन नीलविशिष्टो घटः, स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इत्यादिर्बोधः। शाब्दबोधेऽभेदो भेदश्चेति द्वेधा संसर्गः पदार्थयोः। अभेद एकः सम्बन्ध, अनेकेऽपि अभेदत्वेन एकः। भेदास्तु ते स्वरूपातुपूर्वौ त एव भिन्नाः, घटवद्‌भूतलमित्यत्राऽऽधेयाऽऽधारभावः, भूतले घटो नास्तीत्यत्र प्रतियोग्यनुयोगिभावः, घटे ज्ञानं, मोक्षे इच्छा, इत्यादौ घटविषयकं ज्ञानं मोक्षविषयकेच्छेति विषयविषयिभावः, एते प्रत्येकमपि भिन्नाऽऽधेयताऽऽधारतेत्याद्याः। अभेदसम्बन्धाः एकप्रातिपदिकार्थे स्वसमानविभक्तिकस्वाऽव्यवहितपूर्ववर्तिपदोपस्थाप्याऽर्थस्य आकांक्षया भासन्ते। विरुद्धविभक्तिमत्पदार्थयोस्तु अभेदो न भासते। स्वसमानविभक्तिकत्वं स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम्स साजात्यं च विभक्तिविभाजकप्रथमात्वादिना।'शतं ब्राह्मणा' इत्यत्र' विशत्याद्याः सदैकत्वे' इत्यनुशासनात् शताऽभिन्नब्राह्मणा इति प्रामाणिको बोधः प्रामाणिकः। समानानुपूर्वोकत्वं सुजसोः साजात्यमत्र नास्ति। किञ्च समानवचनकत्वं नास्ति। समानलिङ्गकत्वमपि नास्ति। एवं' प्रत्यक्षानुमानोपमानाशब्दाः प्रमाणानिपितरो देवताः' इतिसमानलिङ्गकत्वं नास्ति, कथं तत्प्रयोगप्रामाण्यम्?। इत्थम्-यत्र विशेषयवाचकपदोत्तरविभक्तितात्पर्यविषसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः। तथा च उक्तस्थलेषु असमानवचनकत्वे वेदपदोत्तरजस्‌विभक्तितात्पर्यविषयबहुत्वसंख्यातो विरुद्धैकत्वसंख्याया अविविक्षितत्वाऽभावात् समानवचनकत्वनियामकाऽभावात् असमानवचनकप्रयोग प्रमाणम्, प्रमितिकरणं प्रमाणमिति प्रकृत्यर्थतावच्छेदकं प्रमितिकरणत्वं चतुर्ष्वपि वेदेषु एकं विविक्षितमित्येकत्वस्य प्रमितिकरणत्वेऽन्वयो न तु वेदेषु, शाब्दप्रमाकरणत्वं च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमिति न अयोग्यता।। अथ' असति बाधके पदार्थः पदार्थेनाऽन्वेति न त्वेकदेशेने'-तिनियमात् प्रमितिकरणत्वात्मकैकदेशे एकत्वान्वयस्य' सम्पन्नो व्रीहि'-रित्यत्र एकत्वस्य अनेकव्रीहिषु बाधेन व्रीहित्वजातावन्वयवत् निर्दोषत्वात्। यद्वा स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन एकत्वस्य वेदेष्वन्वयः, न तु नानैकत्वानि, स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकैकत्वरूपसजातीयद्वितीयरहितत्वम् एवचनार्थो न त्वेकत्वमात्रं' पशुना यजेते'-त्यत्र पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वात् तत्करणकयागेऽदृष्टसिद्धेः। साजात्वं च स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यरथतावच्छेदकवत्त्वरूपेण।'अत्र घटोऽस्ती'- त्यत्र एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्य बोधान्नाऽप्रसिद्धिः। बहुघटसत्त्वदशायां जात्येकत्वात्‌ प्रयोगः।'त्रयः समुदिता हेतुरि'- त्यत्र प्रयोजकतावच्छेदसमुदायत्वावच्छिन्नसमुदायपरं हेतुपदमिति समुदायत्वे एकत्वाऽन्वयः, एकत्वविशिष्टं यत् कार्योत्पादप्रयोजकतावच्छेदक,मुदायत्वं तद्धर्मवन्तस्त्रय इति बोधः। काव्ये त्रिसमुदायो हेतुः, वह्निं प्रति तु तृणाऽरणिमणिप्रभृतीनाम् असमुदितानामपि कारणता।। अथ' जात्याकृतिव्यक्तयः पदार्थः' इति सूत्रे त्रितयनिष्ठपदशक्तिरूपपदार्थत्वस्य एकत्वं विवक्षितम्, पदवाच्यत्वं जात्याकृतिव्यक्तितृतीयपर्याप्तमिति। पदार्थे पदार्थत्लं तत्र निरूपकत्वसम्बन्धेन पदशक्तिरिति पदशक्तिनिरूपकत्वं पदार्थत्व।'प्रत्यक्षाऽनुमानोपमानशब्दाः प्रमाणानी'-त्यत्र प्रमाकरणत्वनिष्ठैकत्वस्य चतुष्टये बाधितत्वेन बहुवचनान्तत्वं प्रमाणानीति।'पितरो देवताः' इत्यत्र देवतात्वनिष्ठैकत्वमविवक्षितम्, विशेषणे बहुत्वं विवक्षितम्। स्वप्रकृतिकत्वं-स्वाऽव्यवहितोतरत्वेन प्रतिसन्धीयमानत्वं स्वं तत्प्रकृतिकत्वम्। तेन' दधि सुन्दरमि'-त्यत्र दध्युत्तरविभक्तेरसत्त्वेऽपि व्यासस्थले लुप्तविभक्तिस्मरणस्वीकारात्‌ समानवचनकत्वादावक्षतिः। तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभक्तयव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वं, तेन 'इदं दधी-'त्यत्र विशेषणपदानन्तरं विभक्तेरसत्त्वेऽपि नाऽन्वयबोधे क्षतिः।।
अथ'नीलो घट'-इत्यत्र'नीलाऽभिन्नघट' इतिशाब्दबोधं प्रति प्रथमान्तविशेष्यघटपदसमभिव्याहृतप्रथमान्तनीलपदत्वम्, आकांक्षा, घटपदाऽव्यवहितपूर्ववर्तिनीलपदत्वं नीलपदाऽव्यवहितोत्तरवर्तिधटपदत्वं वाऽऽकाक्षा तज्ज्ञानं कारणं, सा यत्र नास्ति तत्र 'नीलस्य घट' इत्यत्र नाऽभेदेन बोधः।'नीतां घटमानये'-त्यत्र नीलोत्तरकर्मत्वस्य न कुत्रऽप्यन्वयः, विशे।णविभक्तेः साधुत्वार्थत्वात्, असमाससथले तस्या अभेदार्थः। अभेदस्य संसर्गमर्यादया भानुं तु समासे, विभक्तेर्लोपात्। अथ अभेदो भेदाऽभावः, भेदेऽभावे च खण्डशक्तिः विशेषणिभक्तेः, विशिष्टलाभस्त्वा कांक्षावशात्‌।'नीलो घट' इत्यत्र नीलपदार्थस्य प्रतियोगित्वेन विभक्त्यर्थे भेदे, भेदस्य प्रतियोगित्वेनाऽभावे, अभावस्य विशेष्यतया घटे, अन्वयः, नीलभेदाऽभावविशेष्यो घट इतिबोधः।'धान्येन धनवानि'-त्यत्र, गोत्रेण गार्ग्यः, इत्यत्र तूपपदविभक्तिस्थलेऽभेदस्य प्रकारतया बोधं प्रति विरुद्धविभक्तिराहित्यं न कारणम्, अतो धान्याऽभिन्नधनवान् गोत्राऽभिन्नगार्ग्य इति बोधः।'प्रकृत्यादिभ्य उपसंख्यानम्' इतिवार्तिकेनाऽभेगार्थे तृतीयाविधानात्‌। प्रकृत्या चारुः,प्रायेण याज्ञिकः, समेन एति, विषमेण एति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून् गृह्णति, सुखेन दुःखेन वा यातीत्यादौ तृतीया साधुः।। अथ'प्रमेयो घट' इत्यत्र प्रमेयभेदाऽप्रसिद्धिः,' कम्बुग्रीवादिमान् घट' इत्यत्र गुरुधर्माऽवच्छिन्नभेदाऽप्रसिद्धिः। अत्राह-तत्तद्व्यक्तित्वावच्छिन्नभेदाऽभावस्तत्तद्व्यक्तीनां सम्बन्धतया भासते, सम्बन्धता तस्य भेदप्रतियोगिताकाऽभावत्वेन तत्तद्व्यक्तिभेदप्रतियोगिताकाऽभावत्वेन वा।'नीलो (पटः)घट' इत्यत्र पटात्मकनीलपादर्थस्य तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेद एन घटे।' प्रमेयो घट' इत्यत्र भासमानतत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धिः। कम्बुग्रीवादिमान् घट इत्यत्र भासमानकम्बुग्रीवादिमद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयः प्रसिद्धः।।
अथ अभेदस्तादात्म्यमर्थः। तच्चैकमात्रवृत्तिधर्मः, वृत्तिश्च संसर्गमर्याजया भासते, धर्मश्च ततद्व्यक्तित्वादिः, तस्य सामान्यप्रत्यासत्त्या सुग्रहः। अभेदः संसर्गमर्यादयाभासते, तत्राऽपि अनुगतोऽभेदः संसर्गः। तादात्म्यं स्ववृत्त्यसाधारणोधर्मः, असाधारण्यम् एकमात्रवृत्तित्वम्, तच्च स्वसामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत् तदन्यत्वमित्येवोचितम्, न तु तत् तत्तद्व्यक्तित्वावच्छिन्नभेदाऽभावकूटरूपम्, तथा च' घटो न नीलः" नीलो न नीलः' इत्यत्रैकनीलभेदाऽभदाऽभावमादाय प्रामाण्यं स्यात्। यादृशसमभिव्याहारस्थले येन सम्बन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं नञोऽसत्त्वे प्रतीयते तादृशस्थले नञा तद्धर्मिणि तादृशशम्बन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्यव्युत्पत्तिसिद्धत्वात् नञो न भेदबोधकत्वम्। अनीलं घटमादायेत्यत्र तु नञो भेदवति लक्षणा, घटपदसामानाधिकरण्याऽनुरोधेनाऽनीलपदस्य नीलभिन्नपरत्वम्। अभेदस्य प्रकारत्वे तु'घटो न नील' इत्यत्र नीलभेदाऽभावस्य अभावस्य नीलभेदस्वरूपतया भेदत्वप्रकारेण नञा भेदबोधः। नीलो घट इति व्यासस्थले तु विशेषणविभक्तेः संसर्गे वृत्तिकल्पनम्। स्तोकं पचति मृदु पचतीत्यत्र आकांक्षयाऽभेदाऽन्वयात् स्तोकाऽभिन्नपाककृतिमान् मृद्वभिन्नपाककृतिमानिति बोधः। क्रियाविशेषणानां क्लीवत्वं कर्मत्वं चेत्यनुशासनात्। स्तोकः पाक इत्यत्र घञः साधुत्वमात्रार्थकत्वं सार्थकत्‌वाऽभावान्न स्तोक इत्यत्र द्वितीया। अथ स्तोकं स्थीयते इत्यत्राऽऽख्यातस्य वर्तमानार्थकत्वेन सार्थकत्वाद् द्वितीया। यत्र धातुमात्रस्यैव पाकादौ तात्पर्यं तत्र समानविभक्तितेति स्तोकः पाक इति। तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थविषयताशालिशाब्दबोधसामग्री अपेक्षिता, एको घटः, द्वौ घटौ, इथ्यादै। नीलौ घटावित्यादौ तु घटपदोत्तरविभक्त्या द्वित्वं प्रताय्यते न तु नीलोत्तरविभक्त्या। क्रियाविशेषणपदोत्तरमेकवचनमेव साधुत्वार्थम्। अभेदान्वयो विरूपोषस्थितयोः, तेन'घटो घटः" दण्डवान् दण्डवान्' पाकं पचती' त्यादौ नाऽभेदेनाऽन्वयेन बोधः।'द्रव्यं घट' इत्यत्र धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वेऽभेदसम्बन्धेन घटप्रकारको बोधो भवति।।
आत्मनि समवायेन शाब्दबोधं प्रति समवायेनोपस्थित्यादि कारणम्। घटे धर्मितारूपविषयतासम्बन्धेन शाब्दबोधः, घटत्वे धर्मितावच्छेदकतारूपविषयतासम्बन्धेन समवायेन धर्मितावच्छेदकतारूपविषयतासम्बन्धेन समवायेन धर्मितावच्छेदकतारूपविषयतासम्बनधेन, शुक्ले प्रकारताख्यविषयतासम्बन्धेन, शुक्लक्वे प्रकारतावच्छेदकतारूपविषयतारूपविषयतासम्बन्धेन, अभेगसंसर्गे तु अभेगसंसर्गाख्यविषयतासम्बन्धेन, शाब्दबोधं विषयत्वादिसम्बन्धेनोपस्थित्यादि कारणाम्।। समानप्रकारताप्रत्यासत्त्या पदार्थोपसथितेः शाब्दबोधं विषयत्वादिसम्बन्धेनोपस्थित्यादि कारणम्।। समानप्रकारताप्रत्यासत्त्या पदार्थोपस्थितेः शाब्दबोधे हेतुत्वात्। येन सम्बन्धेन तद्धर्माबच्छिन्नकार्यं प्रति येन सम्बन्धेन यद्धर्मावच्छिन्नकार्योत्पादकसामग्र्यास्तेन सम्बन्धेन तद्धर्मावच्छिन्नाकार्योत्पत्तावपेक्षितत्‌वम्। प्रकारतासम्बन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यभावे द्रव्यत्वदौ धर्मितावच्छेदकतासम्बन्धेनापि न शाब्दबोधोत्पत्तिः। तद्धर्मावच्छिन्नशाब्धेनापि न शाब्दबोधोत्पत्तिः। तद्धर्मावच्छिन्नशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञाननजन्यतद्धर्मप्रकारकपदार्थोपस्थितिः कारणम्‌। एवं तद्धर्माऽवच्चिन्नाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन प्रति तद्धर्मभेदस्य हेतुत्वम्।'स घट' इत्यत्र बोधार्थं प्रकारतावच्छेदकं विशेष्यतावच्छेदकं च निरवच्छिन्नं ग्राह्यम्।' घटो घट' इत्यत्र धर्मभेदाऽभावान्न बोधः।'घटो नीलघटः' इत्यत्र धमैभेदेन बोधात्।' द्रव्यं घट' इत्यत्र द्रव्यत्वघटत्वोर्भेदाद् बोधः।। तद्धर्मवृत्त्यभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसमबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदः कारणम्। प्रकारतायां तद्धर्मवृत्तित्वं च स्वनिरूपिताऽवच्छेदकतात्‌वाऽवच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन, स्वम् अभेदसम्बन्धावच्छिन्ना प्रकारता। 'सः स' इति तत्पदयोः जातिमति शक्तित्‌वात् जातित्वावच्छिन्ना प्रकारता विशेष्यता च, तत्र 'जातिमान् जातिमान्' इति बोधवारणाय' तद्धर्मावच्छिन्नाऽवच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शाब्दबोधं प्रति तद्धर्मभेदस्यापि पृथक् कारणत्वम्।'दण्डवान् दण्डवान्' इति तत्रापि दण्डत्वादिभेदस्य पृथक् कारणत्वम्।' जातिमद्‌वान दण्डवान्दण्डवान् जातिमद्वान्' इत्यत्राऽभेदाऽ न्वयबोधार्थम् अवच्छेदकताद्वये निरवच्छिन्नत्वं देयम्। वस्तुस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धर्मभेदत्वेन हेतुत्वम्।' घटो घट' इत्यत्र धर्मभेदसामग्रीः नास्ति, न बोधः।'घटवान् घटवान्‌' इत्यत्रापि न बोधः।' एकः' द्वौ' इत्यत्र भेदान्वयबोधाऽभावः। कर्म गच्छतीत्यत्र धर्मितावच्छेदककर्मत्वत्वस्य प्रकारतावच्छेदकतावच्छेदकस्य च कर्मत्वत्वस्यै क्यान्न बोधः।' घटो न घट' इत्यत्रापि घटत्वस्यैक्येन न बौधः। इत्यभेदान्वयशाब्दबोधः।। 484।।
अथ भेदाऽन्वयशाब्दबोधप्रकारः- भेदसम्बन्धाः स्वस्वामिभावः प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिभावः आधाराधेयभावः निरूपित्तत्वम् अनुकूलत्वं स्वकर्मकत्वं चैत्रकर्तृकत्वं चेत्याद्याः।
विभक्त्या वा निपातेनोपस्थितेर्भेदवोधने।
हेतुत्वं च तदन्यत्र भेदबोधो यथायथम्।। 485।।
भेदसम्बन्धेनाऽन्वयबोधः प्रतिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन निपातार्थेन च समं जायते। भेदसंसर्गावच्छिन्ननामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विभक्तिनिपातान्य रजपुरुषयोः स्वस्वामिभावः, राज्ञः पुरुषे स्वत्वं सम्बन्धः। भेदसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति ङस्‌विभक्तिजन्यतदर्थोपस्थितिः कारणम्। घटो न पट इत्यत्र घटपटयोः प्रतियोग्यनुयोगिभावलक्षणो भेदसम्बन्धः। घटे पटस्य स्वप्रतियोगिकभेदविशिष्टत्वं सम्बन्धः, भेदसम्बन्घावच्छिन्नपटत्वावच्छिन्नप्रतियोगिताकभेगत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति नञ्‌पदजन्यतदर्थोपस्थितिः कारणम्। तण्डुलं पचतीत्यत्र प्रातिपदिकार्थतण्डुलस्य अम्‌प्रत्ययार्थकर्मत्वे आधेयतात्मक भेदसम्बन्धेन आधेयतासम्बन्धेन तण्डुलवती कर्मतेति बोधः। चन्द्र इव मुखमित्यत्र निरूपितत्वात्मकभेदसम्बन्धेन प्रातिवदिकार्थचन्द्रस्य इव निपातार्थसादृश्येन सहाऽन्वयः। सादृश्यस्य चाऽऽधारतासम्बन्धेन मुखेन सहाऽन्वयः- चन्द्रनिरूपितसादृश्यवन्मुखमिति बोधः। तण्डुलं पचतीत्यत्र धात्वर्तपाकस्याऽनुकूलतासम्बन्धेनाऽऽख्यातप्रत्ययार्थकृत्या सहाऽन्वयः-पाकानुकूला कृतिः, कृतेश्चाधारतासम्बन्धेन कर्त्का सहाऽन्वयः-पाकानुकूलकृतिमानिति न कलञ्जं भक्षयेदित्यत्र धात्वर्थभक्षणे विध्यर्थभूतं यद् बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वं तदभावस्य निपातनञर्थस्याऽनुयोगितासम्बन्धेनाऽन्वयः, बलवदनिष्टाननुवन्धित्वविशिष्टेष्टसाधनत्वाऽभाववत्कलञ्जभक्षणमिति बोधः। मीमांसकगुरुमते कलञ्जभक्षणाऽभाववत्पण्डापूर्वमुत्पादयेत्, पण्डापूर्वं निष्फलाऽपूर्वम्, अपूर्वम् अदृष्टम् पुण्यात्मकम्।।

"https://sa.wikisource.org/w/index.php?title=तत्त्वप्रभावली&oldid=401836" इत्यस्माद् प्रतिप्राप्तम्