सामग्री पर जाएँ

सुमध्वविजयः/पञ्चदशः सर्गः

विकिस्रोतः तः
← चतुर्दशः सर्गः सुमध्वविजयः
पञ्चदशः सर्गः
[[लेखकः :|]]
षोडशः सर्गः →

पञ्चदशः सर्गः

भूयोबोधस्ततो भूयो व्याचख्यौ भाष्यमद्भुतम् ।
ग्रामे ग्रामीणसामान्ये वसंस्तत्रामरालये ॥ 15.1॥

परपक्षरथारूड्हं खरतर्कमहायुधम्‌ ।
त्रिविक्रमार्यं सोऽपश्यत्‌ प्रतिवीरमिवाग्रतः ॥ 15.2॥

तदा तदाननाम्भोजाद्वृत्तोपन्यासभारती ।
सेना सेनाग्रहा दिव्या शिबिरादिव निर्ययौ ॥ 15.3॥

नात्यत्वरा नातिरया न स्खलन्ती निरन्तरा ।
अनानावयवेत्येव दवीयोभिः प्रकीर्तिता ॥ 15.4॥

सूत्रस्यन्दनवृन्दाढ्या दुर्वारश्रुतिवारणा ।
सूपपत्तिमहापत्तिर्विचित्रस्मृतिसप्तिका ॥ 15.5॥

वर्धितोर्मिहरिप्रेष्ठा सुपयोधरसुस्वना ।
सवितानप्रकाशार्था सागरी श्रीरिवापरा ॥ 15.6॥

पद्मेशपदपद्मश्रित्कृत्याङ्गं पद्मजन्मनः ।
लालिता शिरसेशेन गङ्गेवाशेषपावनी ॥ 15.7॥

नारायणोऽनन्तगुणो ब्रह्माख्यो वेदवेदितः ।
विश्वकर्तेति विश्वज्ञः श्रुत्तया युक्त्याऽप्यसीषधत्‌ ॥ 15.8॥

प्रधानमपराधीनं कारणं परिणामि यत्‌ ।
पयोवदिति चेत्साध्यवैकल्यं स्यान्निदर्शने ॥ 15.9॥

विवादाध्यासिता सृष्टिश्चेतनेच्छानुसारिणी ।
सृष्टित्वात्पटसृष्टिर्वेत्यनुमा पक्षसाधिका ॥ 15.10॥

यच्चेतनाचेतनयोरङ्गाङ्गित्वादि मन्वते ।
सृष्टावीशानपेक्षायां तन्न शोभनतां व्रजेत्‌ ॥ 15.11॥

सर्वविन्निर्मितं सर्वं कदाचित्कत्वहेतुतः ।
न यदेवं नो तदेवं यथात्मेतीश्वरानुमा ॥ 15.12॥

बलाय सर्वानुमानां वेदाः स्युर्यैरपालिता ।
कामादेताः प्रवर्तन्ते कामिन्य इव भर्तृभिः ॥ 15.13॥

कारणं परिणामि स्याद्‌ ब्रह्म नो चेतनत्वतः ।
न यदित्थं नो तदित्थं यथा क्षीरपुरस्सरम्‌ ॥ 15.14॥

न विश्वकृत्‌ पशुपतिः श्रूयमाणागुणत्वतः ।
चैत्रवत्किं पुनर्विघ्नब्रध्नाद्या बालशङ्किताः ॥ 15.15॥

ननु सौख्यादिमान्नेशो दुःखादिरहितत्वतः ।
यो नैवं स्यात्स नैवं स्याद्यथा संसृतिमानिति ॥ 15.16॥

एवं चोद्विमतो ज्ञानी न भ्रान्तिरहितत्वतः ।
य एवं नो स एवं नो भवीवेत्यनुमीयते ॥ 15.17॥

सर्वज्ञस्याज्ञतां वेदः श्रद्धेयो विरुणद्धि चेत्‌ ।
तस्यैवमानन्दमानन्दं वदन्नाश्राव्यसौ कथम्‌ ॥ 15.18॥

दुःखं परिजिहीर्षन्यः सुखं नाङ्गीचिकिर्षति ।
स हन्तापतितं दुःखमीशस्य व्यस्मरज्जडः ॥ 15.19॥

यो दुःखसमवायोऽयं चैत्रे तेन ह्यभेदवान्‌ ।
समवायः कश्चिदीशे तदनेकत्वमन्यथा ॥ 15.20॥

औपाधिकोऽस्य भेदश्चेत्सत्योऽसत्यः स्विदुच्यताम्‌
। तत्‌ द्वयं चोक्तदोषं हि मायिवन्मा वदेत्परम्‌ ॥ 15.21॥

ब्रूयुरौपाधिकं भेदं ज्ञानादीनां यदात्मनः ।
नीत्याऽनया तन्निरासात्स्यात्तस्यानन्त धर्मता ॥ 15.22॥

गुणादिभेदे सम्बन्धमपेक्ष्याप्यनवस्थितेः ।
विशेषमात्रेणानन्त्यं गुणानां शोभते विभोः ॥ 15.23॥

मन्यन्ते शून्यमेवान्ये तत्तवमागमवैरिणः ।
मता माध्यमिकास्तेऽपि व्यक्ताश्छन्ना इति द्वये ॥ 15.24॥

शून्यं ब्रह्माह्वयेनाहुः स्वांश्च वेदान्तिनोऽभ्यधुः ।
अतत्तवावेदकं वेदं वदन्तश्चरमे खलाः ॥ 15.25॥

परतत्तवविवर्तत्वादपरस्याखिलस्य च ।
अविशेषत्वतश्चास्य नान्तरन्तरमेतयोः ॥ 15.26॥

अखण्डखण्डनन्यायनखण्डमपि खण्डयन्‌ ।
अखण्डयदखण्डज्ञो द्वयांश्चाखण्डलद्विषः ॥ 15.27॥

विमतं कारणं न स्यादसत्वान्न यदीदृशम्‌ ।
नेदृशं तद्यथा कुम्भकर्तेत्यत्रानुमीयते ॥ 15.28॥

अहो {अङ्घो, अथो} तापस नो शून्यं कारणं कुम्भकर्तृवत्‌ ।
यत्संवृत्युत्थितं विश्वं तत्कारणमितीर्यते ॥ 15.29॥

एवं चेत्‌ कारणं मा स्म ब्रवीः शून्यं कथञ्चन ।
आयुष्मंस्तदधिष्ठानं व्युत्पित्सस्व गुरोर्गृहे ॥ 15.30॥

विवादस्य पदं न स्यादधिष्ठानमसत्तवतः ।
वैधर्मेणैष दृष्टान्तः शुक्त्यादिवदितीर्यते ॥ 15.31॥

अतत्तवावेदकं मानमिति स्वव्याहतं यतः ।
तद्वादि तेन वेदस्य सोऽभिप्रैत्यप्रमाणताम्‌ ॥ 15.32॥

यं तत्तवावेदकं वेद वेदान्तं वेददूषकः ।
तत्तवस्यावर्णनीयत्वात्स तत्तवावेदकः कथम्‌ ॥ 15.33॥

लक्षणाभिः प्रवर्तन्ते वाक्यानि तिसृभिर्यदि ।
विषयत्वं लक्षणानां तस्यैवानिष्टमागतम्‌ ॥ 15.34॥

किञ्चाखण्डेऽत्र वाक्यानि किञ्चिद्विदधते न हि ।
तान्यभ्यधुरभावं चेज्जाड्यादेस्तन्न शोभते ॥ 15.35॥

अभावभावस्याभावाद्भावरूपस्य तस्य तु ।
भावाभावविशेषाणामभावादविशेषिणः ॥ 15.36॥

यो वेदवेदितार्थानां नित्यं सन्त्यागसंश्रवी ।
वेदबाह्यो विपश्चिद्भिरेष निश्चीयतां ततः ॥ 15.37॥

ज्यायसो दूषणेनैव धूर्तं मन्योऽपि दूषितः ।
पक्षयोरविशेषत्वादेतयोः सद्विपक्षयोः ॥ 15.38॥

असत्वादित्यसौ हेतुरसिद्धो ब्रह्मवादिनः ।
मेति भाण्यविशेषत्वात्तत्तवयोर्ब्रह्मशून्ययोः ॥ 15.39॥

सोऽङ्गीकरोति चेत्सत्तवं ब्रह्मणः स्याद्विशेषिता ।
न चेत्प्राप्तं पारिशेष्यादसत्तवं न निरस्यतु ॥ 15.40॥

विगीतं न विचार्य स्यान्नभाव्यं न फलप्रदम्‌ ।
शून्यं ब्रह्माद्यमद्वैतं विधिधीगोचरो न यत्‌ ॥ 15.41॥

खपुष्पवदखण्डत्वाद्व्यतिरिक्तं निदर्शनम्‌ ।
प्रमाणादिवदित्येवमूहनीयं यथेप्सितम्‌ ॥ 15.42॥

आम्नायानाममानत्वे धर्मादेरप्रमाणता ।
धर्माद्यभावे नो मानं प्रत्यक्षैकप्रमाणिनः ॥43॥

न पौरुषेयं वचनं प्रामाण्येन विनिश्चितम्‌ ।
पौरुषेयत्वतो यद्वद्वाक्यमुन्मत्तभाषितम्‌ ॥ 15.44॥

विमतः पुरुषोऽज्ञः स्यात्स्याच्चासौ विप्रलम्भकः ।
पुंस्त्वाच्चैत्रवदित्यस्ताः सार्वज्ञे केवलानुमाः ॥ 15.45॥

दुःखाकरोति यद्दैवं दुःशास्त्रेषूग्र आग्रहः ।
दुःखाकरोति घोरः स्याल्लोकोऽतस्तद्वतां ध्रुवः ॥ 15.46॥

आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः ।
यत्र स्वानन्दिनः सन्तः सेवन्ते विषयान्‌ बहून्‌ ॥ 15.47॥

स्वव्याहत्यादिनोपेक्ष्या मुक्तिर्या निर्विशेषता ।
कदेत्याद्यनुयोगेऽस्या विशेषः स्यान्नतूत्तरे ॥ 15.48॥

अपि बुद्ध्यादिरहितः पुरुषार्थी न सर्वथा ।
निखिलानुभवाभावात्‌ पुत्तलीकापुरोगवत्‌ ॥ 15.49॥

ज्ञानप्रयत्नवाञ्छावानीशो न ह्यशुभं व्रजेत्‌ ।
स्वसामर्थ्येन तेनैवं तं च कुर्यात्‌ स तादृशम्‌ ॥ 15.50॥

दुःखव्याप्तं सुखं बद्धे दृष्ट्वा मुक्तेनिरस्यता ।
स्वरूपं च निरस्येत शून्यवादी तदा भवेत्‌ ॥ 15.51॥

ननुविप्रतिपन्नः स्यादूर्मिमान्‌ देहवत्तवतः ।
चैत्रो यथेत्युपाधिः स्यात्तत्र चाशुद्धदेहिता ॥ 15.52॥

अनैकान्तिकता हेतोर्देहवत्वादधीशितुः ।
सोऽदेहश्चेदनिच्छादिर्भवेच्छशविषाणवत्‌ ॥ 15.53॥

ज्ञात्रादिरूपमस्य स्याद्वैलक्षण्याय चेत्ततः ।
तदेव देहशब्दोक्तं न ह्यसौ प्राकृताकृतिः ॥ 15.54॥

एवं स्वरूपदेहत्वं मुक्तस्याप्युररीकृतम्‌ ।
नानिष्ट्भोगस्तेन स्यात्प्राकृतक्षेत्रसम्भवः ॥ 15.55॥

विमतो नावयववान्विनाशित्वप्रसङ्गतः ।
पटवच्चेदवयवा निरस्यन्तेऽत्र कीदृशाः ॥ 15.56॥

सिद्धसाधनता हेतोस्ते भिन्नाश्चेदचिन्मयाः ।
आत्मनो भेदरहिता एष्टव्या एव वादिभिः ॥ 15.57॥

परमाण्वादिदेशेषु व्याप्त्ये व्यामादिकेष्वपि ।
यथात्मनः प्रदेशाः स्युस्तेषां नोऽवयवास्तथा ॥ 15.58॥

मुक्तो रूपादिवित्सत्वाज्जडान्यत्वे सतीशवत्‌ ।
दृष्टान्तोऽसाध्यविकलस्तस्य सर्वज्ञताग्रहात्‌ ॥ 15.59॥

ईश्वरो न सुखी तेन रूपाद्यनुभवन्नपि ।
डुःखप्रसङ्गादिति मा वादि तद्व्याप्तिदूषणात्‌ ॥ 15.60॥

दृष्टान्तो यस्य नेष्टोऽयं तस्य स्याद्व्यतिरेकवान्‌ ।
शिलावदित्यतः शुद्धचिद्देहेन्द्रियभोग्यसौ ॥ 15.61॥

स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।
द्वेषोऽयं वादिनां कस्मात्तद्विरुद्धेऽथवाग्रहः ॥ 15.62॥

ततः स्वतः प्रमाणेन देवो वेदेन वेदितः ।
विष्णुर्मोक्षादिदातेति विश्वं भवति शोभनम्‌ ॥ 15.63॥

इत्यादीन्‌ दर्शयन्त्यर्थान्‌ व्याख्योपन्याससंयुतान्‌ ।
त्रिविक्रिमार्येण तदा विश्वाभिज्ञस्य शुश्रुवे ॥ 15.64॥

अथा प्रायुङ्क्त विविधान्‌ बोधचापगुणेरितान्‌ ।
विपक्षयुक्तान्‌ वीर्येण तीक्ष्णान्तर्कशरानसौ ॥ 15.65॥

चिच्छेदातुच्छधिषणस्तांस्तदा तर्कसायकैः ।
प्रयुक्तमात्रान्‌ प्रहसन्‌ ल्लीलयाऽतिशयालुभिः ॥ 15.66॥

अधार्याणीतरजनैरनिवर्त्यानि पूरुषैः ।
विजिगीषुर्द्विजश्रेष्ठो वेदास्त्राणिप्रयुक्तवान्‌ ॥ 15.67॥

वाक्यैरतिबलीयोभिः प्रत्यस्त्रैरिव वैदिकैः ।
अर्थान्तरं प्रकटयंस्तान्यसौ सन्यवर्तयत्‌ ॥ 15.68॥

सप्ताष्टानि दिनान्येवं वादं कृत्वा सहामुना ।
निरुत्तरं च निश्चोद्यं चक्रे चक्रायुधप्रियः ॥ 15.69॥

प्रणम्याच्चाष्ट शिष्टोऽसौ क्षम्यतां नाथ चापलम्‌ ।
पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥ 15.70॥

व्याख्यां भाष्यस्य भूयोधीः श्रवणं सूरिनन्दनः ।
सन्तः प्रीतिमसन्तोऽन्यां सममारेभिरे ततः ॥ 15.71॥

गुर्वाज्ञागौरवाट्टीकां कुर्वन्‌ भाष्यस्य दुष्कराम्‌ ।
षडर्धविक्रमार्योऽसौ महाचार्यमवोचत ॥ 15.72॥

कवीन्द्रैर्न समाप्यन्ते सङ्गृह्यापि यतोऽनिशम्‌ ।
न्यायरत्नानि भाष्याब्धेरस्य गाम्भीर्यमद्भुतम्‌ ॥ 15.73॥

दशोपनिषदो देवीर्देवा इव समीप्सिताः ।
युक्ताः प्रसादयन्त्यर्था एषु भाष्यालयेष्वलम्‌ ॥ 15.74॥

गीतातात्पर्यभाष्याभ्यामाभ्यां विश्वं प्रकाश्यते ।
गोगणैरप्रतीकारैरर्केन्दुभ्यामिवाधिकम्‌ ॥ 15.75॥

इतिहासपुराणाब्धेर्भवच्चित्ताद्रिलोडितात्‌ ।
जातां भारततात्पर्यसुधां कः सन्न सेवते ॥ 15.76॥

पुराणस्थानपान्थानामभाषात्रयवेदिनाम्‌ ।
भवता सुसखा चक्रे श्रीभागवतनिर्णयः ॥ 15.77॥

कस्तन्त्रसारं सम्प्राप्य न स्यात्पर्याप्तवाञ्छितः ।
अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम्‌ ॥ 15.78॥

लोकानामवलोकाय मार्गस्यास्य व्यधाद्भवान्‌ ।
करुणाकरनेत्राभे वादसन्मानलक्षणे ॥ 15.79॥

एकाकी किल यश्चक्रे पदं मौलिषु विद्विषाम्‌ ।
तत्तवनिर्णयपार्थोऽयम् केन नाम न पूज्यते ॥ 15.80॥

वादादयः प्रकरणस्फुलिङ्गास्तनवोऽप्यलम्‌ ।
विपक्षकक्षं क्षिण्वन्ति मारुतेन त्वयेरिताः ॥ 15.81॥

अनन्तोऽर्थः प्रकटितस्त्वयाऽणौ भाष्यसङ्ग्रहे ।
अहो आत्मपरिज्ञप्त्यैः कृष्णेनेवाननान्तरे ॥ 15.82॥

भगवंश्चित्रकवितां लौकिकीं दर्शयन्‌ किल ।
गोप्यं भारतसंक्षेपमकृथा विश्वविस्मयम्‌ ॥ 15.83॥

नानासुभाषितस्तोत्रगाथादिकृतिसत्कृतीः ।
त्वयि रत्नाकरे रत्नश्रेणीर्वा गणयन्ति के ॥ 15.84॥

एषु दभ्रमतीन्दभ्रान्‌ हसत्युच्चैः सतां सभा ।
चिन्तामणींश्चिन्तयन्ती मितानप्यमितार्थदान्‌ ॥ 15.85॥

अपरोऽपीष्यतेऽस्माभिर्ग्रन्थेष्वेतेषु सत्स्वपि ।
सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः ॥ 15.86॥

ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नः दुरुद्धराः ।
मनोमान्द्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु ॥ 15.87॥

इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम्‌ ।
दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम्‌ ॥ 15.88॥

युगपद्रचयन्नेनां कदाचित्स निरन्तरम्‌ ।
चतुरश्चतुरः शिष्यांल्लीलयाऽलेखयत्‌ खलु ॥ 15.89॥

युक्ताया युक्तिमालायाः प्रोक्तायास्तत्र चात्मना ।
व्यक्तं चक्रे विवरणं कवीन्द्रैरेष दुष्करम्‌ ॥ 15.90॥

मध्वेन्दोर्नित्यसम्बन्धान्निस्तमस्तापचेतसोः ।
वैकुण्ठं यातयोः पित्रोर्गृहेऽस्यावरजोऽवसत्‌ ॥ 15.91॥

विधिभ्रूविभ्रमभ्रश्यद्धनगोधान्यसम्पदा ।
निर्वेदिना वेदविदा तेनापे वेदवादिराट्‌ ॥ 15.92॥

पारिव्राज्यं प्रार्थयन्तं पादानम्रमिमं मुहुः ।
समयापेक्षयोर्वीक्षो गमयामास धाम तम्‌ ॥ 15.93॥

न जघास न सुष्वाप न जहास स धीरधीः ।
समयार्थी स्मरञ्ज्येष्ठं रामं रामानुजो यथा ॥ 15.94॥

राज्ये कथञ्चिन्निक्षिप्य राजानं विरहार्दितम्‌ ।
अवतारभुवं प्रायाद्भगवाञ्छरदत्यये ॥ 15.95॥

विशुद्धद्विकुलं श्रौतं शुचिं कृतपितृक्रियम्‌ ।
विरक्तं विषयान्‌ भुक्त्वा व्यधान्मध्वोऽनुजं यतिम्‌ ॥ 15.96॥

रहस्यतिरहस्यं तद्‌ ब्रह्म ब्रह्मसमो ददौ ।
अमुष्मै पञ्चतपसो न विदुर्यत्तपस्विनः ॥ 15.97॥

प्रेमामृतप्रसन्नास्यस्मिताङ्गापाङ्गपूर्वकम्‌ ।
श्रीविष्णुतीर्थनामास्मैः प्रीतितीर्थः प्रदत्तवान्‌ ॥ 15.98॥

श्रवणेनानुवादेन मननेनावृथाकरोत्‌ ।
कालं वेदान्तशास्त्रस्य वेदान्तगुरुसोदरः ॥ 15.99॥

स दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुरैः ।
महाविटपिनं चक्रे गुरोः स्वस्थं कृपाकुरम्‌ ॥ 15.100॥

अनन्तमतिकारुण्यकल्पद्रुमवतो जनैः ।
अवर्ण्यो महिमा तस्य लौल्यात्संवर्ण्यते मनाक् ॥ 15.101॥

चतुरोऽसौ प्रवचने मनुसंसिद्धिमान्मनः ।
सङ्ख्या मां पूरणी मागान्मध्वदासमिति व्यधात्‌ ॥ 15.102॥

दिशं प्रयातं शशिनश्चरन्तं भुव्यशोधयत्‌ ।
तीर्थकं विष्णुतीर्थं च विष्णुतीर्थश्च तीर्थकम्‌ ॥ 15.103॥

अकामानामनेकेषां सिद्धिभूमिं तपस्विनाम्‌ ।
तिरोहितात्मा प्रापासौ हरिश्चन्द्रमहीधरम्‌ ॥ 15.104॥

द्वन्द्वदुःखानले वीरो मात्सर्येण विमत्सरः ।
तत्याज मत्वा तस्यासावशनादीन्धनायितम्‌ ॥ 15.105॥

भक्तैरनुगिरं नीतं प्रार्थितो यतिशेखरः ।
पञ्चगव्यं पपौ किञ्चित्पञ्चमे पञ्चमे दिने ॥ 15.106॥

स त्यजन्साहसी तच्च तपस्तेपेऽतितापसम्‌ ।
बिल्ववर्णैः क्षितौ पन्नैस्तृप्तिमान्सलिलैरपि ॥ 15.107॥

यथेष्टमध्यास्त शिलां यमी सुनियमी स ताम्‌ ।
नाध्यासते यामेकाहं दैवभग्नास्तपस्विनः ॥ 15.108॥

पवनांशानुजो जित्वा पवनं रेचकादिभिः ।
विषयेभ्यो हृषीकाश्वान्‌ मनोयन्त्रा समाहरत्‌ ॥ 15.109॥

स्मरन्मुरारेराकारं दध्यावध्यात्मकोविदः ।
समाधिमाधिशमनं योगलभ्यं स लब्धवान्‌ ॥ 15.110॥

मौकुन्दे सुन्दरे रूपे स्वानन्दादिगुणार्णवे ।
स्वाश्चर्यरत्ने मग्नात्मा नान्यत्किञ्चिद्विवेद सः ॥ 15.111॥

कामत्रसविहीनस्य तस्य सुज्ञानचक्षुषः ।
विना कैवल्यसाम्राज्यं नार्घो योगमणेरभूत्‌ ॥ 15.112॥

मध्वानुजे मध्वनाथो यं प्रसादं व्यधात्तदा ।
स चित्ताविषयत्वाद्वा गोप्यत्वाद्वा न वर्ण्यते ॥ 15.113॥

अहो महाबोधसेवामहिमाऽस्मिन्युगे यतः ।
धन्योऽसौ सिद्धिमापेमां सोऽमरैरित्यलाल्यत ॥ 15.114॥

तीव्रव्रतोऽतीन्द्रियविद्विद्याब्धिस्तर्कपण्डितः ।
अनिरुद्धपदाधारः प्रेष्ठः शिष्यस्तमाययौ ॥ 15.115॥

तेन सम्प्रार्थितं प्राप्तं रूप्यपीठमिमं पुनः ।
कृत्स्नज्ञं कृपया स्वेषु सम्प्राप्तं मेनिरे प्रजाः ॥ 15.116॥

कवीन्द्रतिलको विद्वच्छेखरस्तापासाग्रणीः ।
मध्वकेलीशुकोऽस्याभूच्छिष्यो व्यासपदाश्रयः ॥ 15.117॥

असौ दास्यं ध्रुवं यान्तं महान्तं महतामपि ।
व्यधादनुग्रहं कुर्वन्‌ सामर्थ्यैः कौतुकं नृणाम्‌ ॥ 15.118॥

आरुरोह दुरारोहं स परैः प्रीतिकृद्धरेः ।
महान्तं महिमानं च महीध्रं च गुहप्रियम्‌ ॥ 15.119॥

आकृष्टोऽस्य गुणैव्याप्तैर्यो गोदाया उपाययौ ।
स पद्मनाभतीर्थाख्यः शिष्योऽन्योऽभूत्सुचेतसः ॥ 15.120॥

श्रुत्तया मत्तया सदा भक्त्या विरक्त्या नित्यसेवया ।
तस्मै प्रसन्नः प्राज्येक्षः सद्यो विद्यां ददौ शुभाम्‌ ॥ 15.121॥

वेदान्ताब्धिं न यो जातु जहौ विद्वत्तिमिङ्गलः ।
युक्तिप्रवाहसंरम्भात्परशास्त्रनदीचरः ॥ 15.122॥

व्याख्याप्रणादमात्रेण वीरंमन्यान्स्वमण्डले ।
मायाविग्रामसिंहान्‌ यो वादिसिंहो निराकरोत्‌ ॥ 15.123॥

मत्तदुर्वादिमातङ्गतर्कमस्तकदारणे ।
पञ्चास्यो योऽभवद्व्यक्तं चतुरास्योऽपि केवलम्‌ ॥ 15.124॥

सङ्न्यायरत्नावलिरप्युदपादि यतः शुभा ।
टीका परानुव्याख्यायाः अनर्घा बोधसागरात्‌ ॥ 15.125॥

वेदप्रवचनाचार्यशिष्योऽसाविति पूजितः ।
सभ्यः सभायां यो वेदं व्याचख्यौ वेदसारवित्‌ ॥ 15.126॥

अनयोः प्रथमे शिष्याश्चरमे चाभवन्निह ।
अनन्तबोधस्यानेके यतीन्द्रा बहुदेशजाः ॥ 15.127॥

वशीकृतहृषीकाश्च जननाद्युपमर्दिनः ।
नरसिंहपदाधारा अभ्यस्तोपेन्द्रनामकाः ॥ 15.128॥

अदीर्धान्याभिधाना ये श्रीमद्रामपदाश्रयाः ।
अप्रत्यक्षगुणोद्रिक्ता भक्तिवैराग्यसागराः ॥ 15.129॥

पादैः पुनन्तः पृथिवीं दर्शयन्तो हरेः पदम्‌ ।
धूतदुस्समयध्वान्ता आदित्या इव गां गताः ॥ 15.130॥

मोक्षशास्त्रामृताम्बोधिसेवया नित्य निर्वृताः ।
चक्रिचारुतरार्चासु चक्रिणश्चरणार्चकाः ॥ 15.131॥

मध्वप्रशिष्या बहवः शिष्या येषां मुहुस्तथा ।
अलञ्चक्रुरलं पृथ्वीं सर्वे सद्गुणभूषणाः ॥ 15.132॥

सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः ।
सर्वे दुर्वादिदुर्वादकाण्डखण्डणमण्डनाः ॥ 15.133॥

भूरिभक्तिभराः केचिदप्यल्पश्रुतिसम्पदः ।
अप्यल्पबोधा अपरे बहुश्रुतमहागुणाः ॥ 15.134॥

बहवो गृहिणोऽप्यस्मात्समग्रानुग्रहं ययुः ।
दीप्ता यत्राग्नय इव त्रयो लिकुचशेखराः ॥ 15.135॥

माध्वं नियोगं ये प्रायो नात्यजन्विदुषां वराः ।
शिष्यक्षेत्रेषु सद्विद्याबीजावापैकदीक्षिताः ॥ 15.136॥

ग्रामण्यो ब्राह्मणाग्रण्यः प्रापुः पूर्णेक्षशिष्यताम्‌ ।
येषां सद्गुप्तिमात्रेण भवेत्किल परं पदम्‌ ॥ 15.137॥

शुश्रूषापक्षपाताद्यैः केभ्यश्चित्केवलं ददौ ।
रामप्रियो राम इव स्वां गतिं योगिदुर्लभाम्‌ ॥ 15.138॥

शिष्यप्रशिष्यातिशया ईदृशा यद्दयोदयात्‌ ।
को नेच्छेत्सुलभं भक्त्या तत्पादसुरपादपम्‌ ॥ 15.139॥

इत्थं सद्भिः सद्भिरर्च्यो धरायां
चक्रे वासं शेषशय्ये शयाने ।
ग्रामे वातैः पाविते काण्वतीर्थैः
भक्तप्रीत्या सन्मठेऽनूनबोधः ॥ 15.140॥

आनन्दतीर्थभगवद्वदनेन्दुबिम्बं
विद्यासुधाविततकान्ति सुकान्तिकान्तम्‌ ।
यैः प्रैक्ष्यतात्र भवतापशमायभक्तैः
तद्दासदास्यमपि किं न ददाति पुंसः ॥ 15.141॥

इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के पञ्चदशः सर्गः