सामग्री पर जाएँ

सुमध्वविजयः/चतुर्दशः सर्गः

विकिस्रोतः तः
← त्रयोदशः सर्गः सुमध्वविजयः
चतुर्दशः सर्गः
[[लेखकः :|]]
पञ्चदशः सर्गः →

चतुर्दशः सर्गः

परिवृड्हघनसङ्घे राजसिंहोर्जशक्त्या
त्यजति मलिनभावं नीरसत्वान्निकामम्‌ ।
स्फुटमुदयति तेजस्व्युज्जवले मध्वभानौ
सुजनजलजकान्त्यै विश्वमासीन्मनोज्ञम्‌ ॥ 14.1॥

कृतमपकृतमार्यैः क्षम्यतां क्षान्तिभूषै
रिति मृदु वदतां सम्प्रार्थनाभिः प्रभूणाम्‌ ।
अपहृतमपरेषां मन्त्रतो ग्रन्थजातं
दशहृदयनियोगादग्रहीच्छङ्करार्यः ॥ 14.2॥

परिवृतमवनम्रैर्ग्रामणीग्राम्यपूर्वैः
अवनतमुरुचेतः पादपार्श्वे नृसिंहम्‌ ।
सहजविजयतोऽयुग्विक्रमार्यः प्रसन्नः
कविकुलतिलकोऽसावाशिषाऽतोषयत्‌ तम्‌ ॥ 14.3॥

उपचरति नितान्तं हन्त पौरन्दरीधू-
र्द्युसदसि भजतो यं दुर्लभा दभ्रभाग्यैः ।
दिशतु स परमानन्दाग्र्यतीर्थाङ्घ्रिरेणुः
धरणिधर सुखं ते सन्ततं स्वान्तरेति ॥ 14.4॥

अनतिपरिचितस्याप्यस्य सोऽयं कवीन्द्रो
गुणरसमतिगूड्हं ज्ञातवानित्यचित्रम्‌ ।
मधु मधुकरराजो निष्पतन्‌ पौष्पमाप्तुं
ननु परिचयहीनः काननेऽपि प्रभुः स्यात्‌ ॥ 14.5॥

अखिलखलकुलानां वर्धयन्‌ द्वेषदोषं
विदधदपि नराणां कौतुकं मध्यमानाम्‌ ।
स्वगतिसमुचितानां भूतिदायी शुभानां
बहुलहृदिह निन्ये शर्वरीः काश्चिदेवम्‌ ॥ 14.6॥

उदयति विनताया नन्दने श्लाध्यकाले
स कृतसकलकृत्यः कृत्यवेदिप्रवेकः ।
अरुणयवनिकान्तर्ब्रह्म नारायणाख्यं
गुरुगुणमभिदध्यौ योग्ययोगासनस्थः ॥ 14.7॥

अतिधवलितदन्ता दन्तकाष्ठैः प्रशस्तै-
रपि युगपदनेके सस्नुरत्र व्रतीन्द्राः ।
गुरुभिरभिहितेष्वाचारभेदेषु निष्ठां
स्फुटमवगमयन्तः सौष्ठवात्‌ कर्मणां च ॥ 14.8॥

चरमसमयसुप्ताः पूर्वमुत्थाय शिष्या
गुरुजनपरिचर्यां चक्रिरे दुष्करां च ।
सबहुमति तदाद्यप्यार्धरात्रात्‌ प्रसन्नाः ।
सुगतिरपरथैषां स्यात्‌ कथङ्कारमिष्टा ॥ 14.9॥

श्रवणमननहेतोः प्राक्‌ चिरायास्तनिद्रः
सपदि विवशयन्त्या निद्रया ग्रस्तचेताः ।
स्वयमपि नयति द्रागङ्गवस्त्रादि पूज्ये
ज्हटिति विगतनिद्रः कोऽपि शिष्योऽन्वशेत ॥ 14.10॥

विहितमविहितं प्रागेव कस्माद्विनिद्रैः
इति गुरुपरिवादाशङ्कया नम्रगात्राः ।
चिरमनवतरन्तः श्रावका मुक्तमार्गा
गुरुषु जलसकाशस्थेषु तूष्णीमतिष्ठन्‌ ॥ 14.11॥

विपुलहृदयपार्श्वे दीपदीप्तिप्रदीप्ते
दरवरपरिपूर्णैर्वार्भिरर्घ्यादि दत्वा ।
यतिरतियतचेताश्चक्रिणोऽर्चानिकायात्‌
कुसुमसमितिमग्र्यामादरादुज्जहार ॥ 14.12॥

अमृतमपि निरीक्ष्य स्रावि निर्माल्यसूने
घृतमिदमिति सद्यो भ्रान्तिमन्तोऽपि शिष्याः ।
श्रदधुरधिकवाक्यैर्विभ्रमास्तच्च पश्चात्‌
अनुदिनममृतान्नैस्तस्य सेव्यस्य शक्त्या ॥ 14.13॥

अगमदुचितमन्त्रैस्तूदयानां त्रयाणां
कृतिभिरनुमतात्मा तत्र पञ्चाङ्गविद्भिः ।
उदयमहिमरोचिश्चक्रवर्ती त्रिशक्तिः
दधदतिवृहदन्तः षड्‌गुणं स्वात्मतेजः ॥ 14.14॥

तिमिरनिकरकुम्भिव्रातमत्यन्ततीव्रं
स्थिरतरमखिलानां प्राणिनां रुद्धमार्गम्‌ ।
भुवनभवनपूर्णं भानुमानञ्जनाभं
हरिरिव नखरैः प्राग्रश्मिजालैर्निरास ॥ 14.15॥

मधुरपतगरावाः शान्तनैशाम्बुबाष्पाः
सपदि विपुलरागः स्वाभिसारात्‌ प्रसन्नाः ।
अरुणतरणिरत्यच्छाम्बरा दिक्पुरन्ध्रीः
स्मितसरसिजवक्त्राः स्वैः करैरालिलिङ्गे ॥ 14.16॥

प्रणतिरभसधूलीबद्धशोभाविशेषा
दधुरुपकृतिमत्तां साधुजालान्तराप्ताः ।
समयमुपनतं संवेदयन्तो वयस्या
इव दशशतकेतोः केतवः श्रावकाणाम्‌ ॥ 14.17॥

निहितमुचितमुच्चं योगपीठं प्रवक्तुः
परिषदि परितोऽमी सत्वराः सत्वभाजः ।
द्रुतमवसितकृत्यैर्धन्यसन्यासिवर्गैः
श्रवणपरमकृत्यायोपतस्थुः समेताः ॥ 14.18॥

बभुरमलगुणानां शोभनाच्छादनानां
मुररिपुनिलयानां हन्त वेदान्तिकीनाम्‌ ।
सपदि सुविवृतानामन्तरर्था धियां वा
विविधकवलिकानां सञ्चयाः पत्रिकाणाम्‌ ॥ 14.19॥

अनतिविरलभावा अप्यनन्योन्यसङ्गा
ऋजुतरततनानापङ्क्तिसाम्याप्तशोभाः ।
द्विरदतुरगदेश्या दूरतो वर्जितान्ताः
कुशललिखितरूपा रेजिरे तेषु वर्णाः ॥ 14.20॥

सपदि {ज्हटिति} ददृशुरेके वाचनीयादिभागं
परिचयपटुताभ्यां तावदेके चिरेण ।
हरिगुरुनमनं द्राग्यत्नतोऽमी विधाय
प्रययुरपरसाम्यं सिद्धये स्याद्धि यत्नः ॥ 14.21॥

यतवचसि जनेऽस्मिन्नानते सन्निरस्यन्‌
सिचययवनिकां तां सान्ध्यजीमूतरक्ताम्‌ ।
रविरिव रविपूज्याङ्घ्रिः समाजान्तरिक्षे
व्यलसदतिशयालुः सन्‌ सहस्रप्रकाशः ॥ 14.22॥

त्रिभुवनवरतेजो व्यक्तवेदार्थशुक्ल
त्रितयरसतया ये वर्णिता वर्णवर्याः ।
पृथुमतिरथ तेषामैक्यमापाद्य सम्यक्‌
प्रवचनपरिशुद्ध्यै स्म प्रणौति प्रवीणः ॥ 14.23॥

स्वरमचरमकाले मन्द्रमेवात्यजद्भिः
स्फुटमुपनिषदन्ते वाचकैर्वाच्यमाने ।
प्रवचनमतिचित्रं प्राणभाजां श्रुतीनां
अमृतममृतभावस्यैष हेतुं चकार ॥ 14.24॥

घनमिव सघनायेभ्योऽर्कसूनुः प्रसन्नः
शरशतमिव पार्थः संयुगार्थिभ्य उग्रः ।
अरतिविरहितः सोऽनारतं नोऽदिशन्नो
प्रतिवचनमदीनं चोदकेभ्योऽखिलेभ्यः ॥ 14.25॥

अथ दशशतशोचिष्याप्रयाति प्रतीच्याः
प्रवचनमवसाय्य स्नातुमायात्‌ तटाकम्‌ ।
पृथुमतिरिह तावछ्रेष्ठसंसर्गलोलैः
समगमि सपदि स्वर्निम्नगाद्यैः सुतीर्थैः ॥ 14.26॥

घनरसनिकरोऽसावन्तरत्यन्तशुद्धो
मुनिगण इव भूयः स्नेहवान्‌ प्राग्दधानः ।
प्रतिकृतिमखिलज्ञस्यापरोक्ष्येण तावत्‌
स्फुटमलभत रूपं मज्जने सज्जनेष्टम्‌ ॥ 14.27॥

अपरिमितमनीषस्योल्लसच्छङ्खबाहो
रथचरणशिलानां तन्वतोऽत्राभिषेकम्‌ ।
प्रतितनव उदारास्तास्वलं सन्निधातुः
तनव इव विरेजुः पाञ्चजन्यप्रियस्य ॥ 14.28॥

अभिदधति मुनीन्द्रा द्वादशाब्दोपवास-
प्रतिमफलमलं यत्सेवनं भक्तियुक्तम्‌ ।
अधिकममरनद्याद्याप्लवाद्धन्यमान्यात्‌
अपिबदलवबोधो विष्णुपादोदकं तत्‌ ॥ 14.29॥

तरणिभिरिव गौरैरूर्ध्वपुण्ड्रैर्द्विषड्‌भिः
सदरपरमचक्रोदीर्णतेजा हरीष्टः ।
मुररिपुविमुखानां दुःसहो देहभाजां
लयसमय इवान्यो मान्यधीराबभासे ॥ 14.30॥

समधिकधिषणस्य प्रेक्षमाणो जनौघः
प्रकृतिमधुरमास्यव्याजपूर्णेन्दुबिम्बम्‌ ।
अमुचदपसरेति श्रावकोक्तेः पुराऽस्मिन्‌
प्रचलति पदवीं तां प्राञ्जलिस्तूर्णमारात्‌ ॥ 14.31॥

गुरुचरणसरोजद्वन्द्वनिर्णेजनाम्भो
दधति जननिकाये सर्वमुर्वीगतं च ।
अवनिरनभिनन्दिन्यप्यदश्चक्षमेऽसौ
कथमपि कथमेव स्यात्‌ क्षमाख्याऽन्यथाऽस्याः ॥ 14.32॥

अविदितरसभेदं शीतलं लध्वगन्धं
विमलममलपाणिः पाणिजैरप्रविष्टम्‌ ।
वदनपवनभीत्या पार्श्वतो बिभ्रदग्र्यं
कमथ करकपूर्णं संयमीहानिनाय ॥ 14.33॥

विहसितबिसभङ्गश्रीप्रकर्षं सितिम्ना
जलजममृतपूरैः पूरयामास रम्यम्‌ ।
समयगुणविशेषालोचकैर्लालनीयः
ससुरभिसुमनोभिः स स्फुटं गौरपक्षः ॥ 14.34॥

विमलमलयजाम्भोबिन्दुभिश्चर्चितार्चो
नवललिततुलस्याः पुष्पराज्याऽऽर्चयत्‌ सः ।
स्थलजजलजवल्लीवृक्षवीरुत्समस्त
प्रसवविजयलक्ष्म्या मूर्तयेवेन्दिरेशम्‌ ॥ 14.35॥

स दददधिकबोधः षोडशात्रोपचारान्‌
व्यरहयदगुणान्‌ द्वात्रिंशदागः पुरोगान्‌ ।
अगणितगुणमुच्चैस्तोषयन्‌ शार्ङ्गपाणिं
षडपि परमभक्त्याऽनूपचारान्‌ दिदेश ॥ 14.36॥

तमरुणमणिवर्णं दिव्यदेहाख्यगेहे
स्नपितमतिपृथुश्रद्धानदीचित्तवार्भिः ।
ननु स यजति नित्यं हृत्सरोजासनस्थं
न तु सकृदिति पुष्पैरष्टभिर्भावपुष्पैः ॥ 14.37॥

कृतपरमसपर्यः सान्द्रसच्चन्दनाम्भः
परिमलितभुजोरोमण्डलांसो मनीषी ।
स्मितरुचिरमुखेन्दुः स्निग्धकौशेयवासाः
ससुरमुनिनराणां चक्षुषामुत्सवोऽभूत्‌ ॥ 14.38॥

परमथ परमान्नं प्राप्तमेवाप्रयासं
प्रभुरिह बुभुजेऽसौ वेदवादप्रवीणः ।
अजितपरमभक्तः सन्ततं मन्यमानः
सकलजगदधीशः प्रीयतां शौरिरित्थम्‌ ॥ 14.39॥

सहचरपरिक्ळ्^इप्ते सूक्ष्मवस्त्रावृतेऽसा
ववितनुरुहरूपौशीरवर्ये निषण्णः ।
अरमयदिह नानाहृद्यविद्याविलसैः
कविजनपरिवारं मण्डयन्‌ मण्डपाग्र्यम्‌ ॥ 14.40॥

अवसरमधिगम्य भ्रूविजृम्भादभीष्टो
मुखसततगलक्ष्मीभूत {लक्षीभूत}पाणिप्रवालः ।
स्मितनयनविकासैस्तस्य विज्ञातभावः
श्रवसि किमपि कार्यं मन्त्रयामास मङ्क्षु ॥ 14.41 ।

प्रणतिपरमकृत्याः सन्मतेर्ये जनौघा
विबभुरनतिदूरे सङ्गता {संहता}स्तानतीत्य ।
अहमहमिकयाऽऽशु प्राप्य पार्श्वं प्रणेमुः
बहव इह गृहस्थाः पूर्वसेवां विधातुम्‌ ॥ 14.42॥

विविधजनपदस्थाः प्राक्‌ श्रुतेभ्यो गुणेभ्यः
शतगुणगुणमेनं विस्मिता वीक्षमाणाः ।
मुकुलितकरपद्मा आस्यतामित्यवाप्ताः
प्रचुरतरहृदा सम्भावयाञ्चक्रिरेऽन्ये ॥ 14.43॥

अलमलमनुवादेनानुवाच्येत पश्चा
न्ननु गुरव इदानीमुद्यता हि प्रवक्तुम्‌ ।
न मननमधुना द्रागाव्रजेत्याह्वयत्तान्‌
श्रुतपरिचयसक्ताञ्छ्रावकाञ्छ्रावकाग्र्यः ॥ 14.44॥

अधिकधिषणमेनं व्याख्यया शोभमानं
हरिमिव कविवर्यं सत्यवत्यास्तनूजम्‌ ।
सततमनिमिषं सन्दृश्य सानन्दचित्ताः
समयमपि गतं संविन्दते न स्म लोकाः ॥ 14.45॥

उदयमिति इवास्तं यंश्च भानुर्बभासे
स्फुटमकलुषरूपो दर्शनीयोऽनुरागी ।
शुचिहरिपदमापत्सम्पदोराश्रितानां
न हि भवति विशेषः स्वप्रकाशोन्नतानाम्‌ ॥ 14.46॥

मरकतमणिवर्णे भूतधात्री पुरन्ध्र्या
लसति जलधिवासस्यर्धलीनः क्षणार्धम्‌ ।
अरुणतरणिबिम्बच्छद्मना पद्मरागः
कपिशकरकलापोल्लस्यभूत्‌ प्रेक्षणीयः ॥ 14.47॥

अवनिवनवनध्रुग्वायुखाहम्महत्सु
प्रकृतिगुणसमेताव्याकृताकाश एकम्‌ ।
ततमतनुमनाः सोऽचिन्तयत्‌ सत्‌ समाधा
वसुरसुरनरेभ्यः सद्गुणं नाथमन्यम्‌ ॥ 14.48॥

व्यदधत परिदृष्टज्योतिषः साधु सान्ध्यं
नियममवनिदेवा ज्योतिषोऽप्यावलोकात्‌ ।
विहितमनुसरन्तो धर्मशास्त्रप्रवीणाः
सवितरि सवितारं चिन्तयन्तस्त्रिलोक्याः ॥ 14.49॥

विविदुरतितरां ये देवताः षोडशोक्ता
हरहरिहयपूर्वान्त्या कलाभेदतोऽस्य ।
सुहुतमतिसृजन्तोऽग्न्याहितास्तेऽग्निहोत्रं
व्यधुरुचितमपूर्वं येन गायत्रलोकः ॥ 14.50॥

विधुरयमकलङ्कः स्याद्यदि स्यादवश्यं
ननु निजसहजायाः सुन्दरास्येन्दुकल्पः ।
इति सुरललनाभिर्लालितः खेचरीभिः
समधिकमधुरिम्णा पूर्णचन्द्रस्तदोदैत्‌ ॥ 14.51॥

इनविरहमसह्यं प्राप्य पद्मैः सचक्रैः
चिरमपि परितप्तं पूर्वतप्तैः सुतुष्टम्‌ ।
मृदुकुमुदचकोरैः पादसङ्गेन राज्ञः
कमपि सकलहृद्यं कल्पयेन्नैव दैवम्‌ ॥ 14.52॥

दलितेन्द्रनीलमणिनीलविभ्रमं
नवकुन्दकुड्‌मलसितद्विजावलि ।
स्मितया नगोत्तमशिरः सुजातया
वनमालया सुरभिताशयाऽन्वितम्‌ ॥ 14.53॥

मृदुगामिविमानसम्पदोऽरमयत्‌ सुस्मितगोपसुन्दरीः ।
परितापविहीनमुज्जवलं सुततं सूक्ष्मतराम्बरं वरम्‌ ॥ 14.54॥

गोभिस्तमांस्यपनयन्‌ गतिदं प्रजाना-
मर्थान्तरं स भगवान्‌ प्रकटीचकार ।
सानन्दचिद्गुणगणं परिपूर्णसंवि
च्चन्द्रस्तु शब्दगुणमित्ययमेव भेदः ॥ 14.55॥

इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के चतुर्दशः सर्गः