सुमध्वविजयः/त्रयोदशः सर्गः
← द्वादशः सर्गः | सुमध्वविजयः त्रयोदशः सर्गः [[लेखकः :|]] |
चतुर्दशः सर्गः → |
त्रयोदशः सर्गः
पृथुदर्शनमुत्थितं कृतार्थं पृथिवीभृत्प्रणतिं गृहीतवन्तम् ।
निजशिष्यमुदेऽथ सह्यमाप्तं पुरुषः कश्चिदुपाययौ कदाचित् ॥ 13.1॥
भगवानिह नः स्वकिङ्कराणामचिरेणाव्रजतादनुग्रहार्थम् ।
इति कार्यचिकीर्षयाऽर्थयत् त्वां नृप इत्यभ्यधितैष तं प्रणम्य ॥ 13.2॥
अथ माघवतीमपास्य काष्ठां व्रजता प्रैधिततेजसा प्रतीचीम् ।
परिशोधयता स्वपादसङ्गात् पृथिवीं प्राज्ञदिवाकरेण रेजे ॥ 13.3॥
अशुभानपहाय मायिजुष्टानधमाद्रीनिव गोत्रनिम्नगौघैः ।
सुजनैस्तरसाऽभिगम्यमानः परमस्नेहतया क्रमप्रसन्नैः ॥ 13.4॥
सुमनःफलशोभिनोऽत्र पुंसो नमयन् गोभिरनोकहानिवोच्चान् ।
अपि भङ्गमुपानयन्ननम्रान् दृड्हभावादपरानवार्यवीर्यः {दृड्हभावदनपरान} ॥ 13.5॥
गमनोत्सवविस्मितैर्निषेव्यो विविधैर्जानपदैर्जनैरजस्रम् ।
परिसत्वरकीर्तिरार्तिमुक्त्यै पुरुषैर्दूरभुवश्च गम्यमानः {पुरुषैर्दूरभवैश्च}॥ 6॥
अमरैरमरानुगैर्मुनीन्द्रैरपरेक्षाविषयैश्च {अपरेरोक्षा} सेव्यमानः ।
हरिपादसरोजसङ्गसारो भुवने पावनपावनो निकामम् ॥ 13.7॥
अयमप्रतिवारणः प्रयाणे परमानन्दसुतीर्थसूरिराजः ।
विबभावतिवेलमच्छरूपः सुरसिन्धोरिव सन्ततप्रवाहः ॥ 13.8॥
समयेन गतोमहीयसासौ {गतोऽमहीयसासौ} विषयं स्तम्भपदोपसर्जनाख्यम् ।
मदनाधिपतेः सुधामधाम प्रविवेशाखिललोकवन्दनीयम् ॥ 13.9॥
क्षणदामिह तावदूषिवांसं विहिताहर्मुखयोग्ययोगमेनम् ।
गमनोद्यमलक्षणैर्व्यजानन् {व्यरजानन्} गमनायोद्यतमाशु शिष्यसङ्घाः ॥ 13.10॥
पुरतो विसृताः समाधिशुद्ध्यै यतयस्तत्र पटीः कषायवेषाः ।
सहसोदहरन् स्वयोग्यमुद्रायुतदण्डादिकधारणोद्यमेन ॥ 13.11॥
अवधार्य विशेषकारिशङ्खप्रकटाङ्कान् सुधिया गतार्द्रभावान् ।
लसिता तुलसीस्रगस्य कण्ठे हरिनिर्माल्यतयोचिता न्यधायि ॥ 13.12॥
यतधीर्गुरुचक्रिमूर्तिपूर्णं यतनिश्वासवचा विशोध्य पाणी ।
गुणकुण्डलमण्डितं विमानं गुणबद्धं कवचावृतं बभार ॥ 13.13॥
सकमण्डलुमण्डलावलम्बं स्वयमेवालघुपुस्तकादिभारम् ।
युवशिष्यगणो दधे न यत्नान्न हि दाक्ष्यस्य समोऽपरो गुणोऽस्ति ॥ 13.14॥
अतिसम्भ्रमतः परिभ्रमन्तं भरदामानवलोकिनं चिराय ।
अनुयोगपरं मुहुः प्रमत्तं जहसुर्नूतनशिष्यमत्र केचित् ॥ 13.15॥
अथ तत्क्षणघट्टितोरुघण्टाघननादव्यपदेशतः परेण ।
अमितप्रमतिः प्रचोदितोऽसाविति निर्यत्सु निजेषु निर्जगाम ॥ 13.16॥
धृतमातपवारणं वरेण्यं व्रतिराजं तमुपर्युपर्युदारम् ।
उदयन्मिहिरोपरिष्ठपूर्णद्विजराजश्रियमाययावभूताम् । 17॥
भुवनत्रयधारिणं {भुवनत्रयभारिणं} मुकुन्दं दधदन्तः स दधे गुरुः स्वयं च ।
अपि केनचिदित्यदो न चित्रं ननु स प्राणपतिर्वभार तं च ॥ 13.18॥
यतयो गृहिणोऽथ वर्णिमुख्याः श्रुतिगास्त्यक्तनिषिद्धकाम्यभावाः ।
इह मूर्तिधरा इव स्वधर्माः शतसङ्ख्याः शतसङ्ख्यमन्वगच्छन् ॥ 13.19॥
परिवारजना न मार्गदुःखं प्रययुः पूरुषरत्नमीक्षमाणाः ।
इति नाद्भुतमस्य हि प्रयान्ति स्मृतिमात्राद्भविनो भवापवर्गम् ॥ 13.20॥
मदनेश्वरवल्लभप्रदेशे प्रभुमायान्तमथाभ्यपद्यत द्राक् ।
जयसिंह इमं नृसिंहवर्यः शुभधीः स्तम्भविशिष्टसिंहनामा ॥ 13.21॥
अवतीर्य पुरैव वाहनात् स्वादपि मार्गादपसार्य सैनिकान् सः ।
सह कैश्चन भूसुरैरवाप्तस्त्रिजगत्पूज्यपदान्तिके ननाम ॥ 13.22॥
पृथिवीपतिनाऽनुगम्यमानो विनयाद्भक्तिरसार्द्रमानसेन ।
अचिरेण स विष्णुमङ्गलस्य प्रययावायतनोत्तमस्य पार्श्वम् ॥ 13.23॥
नरदेवदिदृक्षया समेता उभयग्रामजना जनाः परे च ।
उपयान्तमनन्तमानसं तं मुहुरैक्षन्त कुतूहलाब्धिमग्नाः ॥ 13.24॥
पुरतो मधुरस्वरैर्वदद्भिः स्वकृताः कर्णसुखा मुकुन्दगाथाः ।
धृतपङ्कजबीजचक्रचिह्नैः कृतनृत्यै {कृतनृत्तै}श्चतुरैर्निषेव्यमाणम् ॥ 13.25॥
कलिताञ्जलिना स्फुटानुयातं जनसम्बाधसहेन भूमिभर्त्रा ।
करुणाविषयं चिकीर्षुणा स्वं व्रजता किङ्करतामकैतवेन ॥ 13.26॥
इदमित्थमितीक्षणैर्नराणामपरिच्छेद्यमहिष्ठधामरूपम् ।
अधिकं धरणीमलञ्चिकीर्षुं स्फुटमुद्यन्तमिव द्युनाथमन्यम् ॥ 13.27॥
अशनैः शनकैरिवाव्रजन्तं युवसिंहप्रवरप्रगल्भयानम् ।
अतिपाटलपादपल्लवाभ्यामवनीं {अवनिं} पावनतामलं नयन्तम् ॥ 13.28॥
नखनिर्जितपद्मरागरागं वरकूर्मप्रपदं निगूड्हगुल्फम् ।
सुरवर्यकराग्रसेव्यजङ्घं द्विरदोदारकरोपमोरुयुग्मम् ॥ 13.29॥
शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषबाह्यवस्त्रम् ।
तनुकुक्षिगलालिकेषु रेखात्रितयेन प्रकटेन शोभमानम् ॥ 13.30॥
मृदुसूक्ष्मघनारुणाविकाच्छप्रकटप्रावरणेन {प्रकटवरप्रावरणेन} भासमानम् ।
अतिनूतनतिग्मभानुभासां निकरेणेव सुवर्णसानुमन्तम् ॥ 13.31॥
पृथुवक्षसमुन्नतांसभित्तिं गुरुवृत्तायतहृद्यबाहुदण्डम् ।
परमारुणपाणिपल्लवान्तःस्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम् ॥ 13.32॥
परिपूर्णशशाङ्कबिम्बशङ्काविषयं प्राक् सहसाऽवलोकनेन ।
अकलङ्कतया परं विविक्तं वदनं बिभ्रतमच्छविभ्रमाब्धिम् ॥ 13.33॥
अतिसुन्दरमन्दहासराजन्नवकुन्दाभरदं शुभारुणोष्ठम् ।
कमलायतलोचनावलोकैरपि लोकान् सकलान् प्रहर्षयन्तम् ॥ 13.34॥
अतिभासुरकर्णभासितश्रीतुलसीगुच्छमतुच्छकान्तिगण्डम् ।
भुवनत्रयभूत्यभूतिदाने चतुरभ्रूवरविभ्रमं सुमौलिम् ॥ 13.35॥
सकलावयवान् स्फुटं मिमानाः प्रतिमालक्षणदर्शनाय लक्ष्यम् ।
चतुरा विदधुर्यदीयगात्रं स सुलक्ष्मेत्यधुना निगद्यते नो ॥ 13.36॥
अतिलोलदृशां समीक्षितुं स्वं जनसम्बाधभयेन दूरभाजाम् ।
समदर्शयदूर्ध्वमोरसोऽसौ दययैवोरुजनौघमध्यगोऽपि ॥ 13.37॥
सविकासदृशां कृताञ्जलीनां जनतानां परमादरान्नतानाम् ।
वलयेन वृतः प्रियं मुरारेः प्रविवेशायतनं प्रबर्हबोधः ॥ 13.38॥
विविधप्रभुमध्यसन्नीषण्णो नरदेवेन समं स गूड्हदेवः ।
विबभावुडुराडिवोडुमध्ये सह मह्यास्तनयेन पूर्णबिम्बः ॥ 13.39॥
अवदत् स कथां रथाङ्गपाणेर्भगवान् भागवते भवापहन्त्रीम् ।
अनुरूपगुणस्वरादिभाजा {अनुरूपकूलगुणस्वरादिभाजा} निजशिष्यप्रवरेण वाच्यमाने ॥ 13.40॥
कथनं तदुदारधैर्यसारं मधुरं पुष्कलभाववत् प्रसन्नम् ।
विदुषोऽविदुषोऽपि शृण्वतोऽलं व्यधितानन्दरसाम्बुधौ निमग्नान् ॥ 13.41॥
गमनासनसङ्कथादिलीलाः स्मृतिमात्रेण भवापवर्गदात्रीः ।
कथमप्यमराः प्रपञ्चयेयुर्ननु मध्वस्य न मादृशोऽल्पबोधाः ॥ 13.42॥
सुतपःकवितादिसद्गुणानां लिकुचानां कुलजोऽङ्गिरोन्वयानाम् ।
अभवद्गुहनामको विपश्चित् कविवर्योऽखिलवादिवन्दनीयः ॥ 13.43॥
दयिताऽस्य सती गुणानुरूपा विधिवीर्येण मुहुर्मृतप्रजाऽपि ।
अभजद्भुवनप्रभू हरीशौ सुतकामा वसुदेवसूनुभक्ता ॥ 13.44॥
परमेश्वरयोः प्रसादयोगात् सुतरत्नं तदसूत सूरिपत्नी ।
परिषत्पदपत्तनेषु नार्घो विविदे यस्य समः परीक्षकाग्र्यैः ॥ 13.45॥
वदनेन्दुमवेक्ष्य नन्दनस्य स्वकुलोत्तारणदक्षलक्षणस्य ।
कृतकृत्यतया क्रियाः प्रकुर्वन् कविराख्यादुचितां त्रिविक्रमाख्याम् ॥ 13.46॥
कलभाषण एव सूरिपोतः कविरासीदनवद्यपद्यवादी ।
अवभाति ननु प्रभाप्रभावी भगवान् बालतमोऽपि तिग्मभानुः ॥ 13.47॥
सकलाङ्गयुतावभातशाखः समये प्राप्त उदारपक्षिसेव्यः ।
स ससर्ज सदध्वगोपकृत्यै लिकुचः काव्यफलं रसाभिरामम् ॥ 13.48॥
प्रतिपादितमात्मना {प्रतिपादिभावितमात्मना} यथार्थं पृथुमायासमयस्य दुर्घटत्वम् ।
स्वगुरौ परिहर्तुमक्षमेऽपि श्रुतवान् तत् स्ववयस्यबोधितोऽलम् ॥ 13.49॥
भगवत्युदिते सगोविलासे वटुभावं त्यजति त्रिविक्रमार्ये ।
अपि भानुपुरःसराः समस्ताः प्रययुः कीटमणिप्रभत्वमाशु ॥ 13.50॥
अतिदक्षमतिं सपादलक्षे समये मायिजनस्य युक्तिशूरम् ।
महितं हि महीतले महिम्ना जनको नन्दनमब्रवीदुपांशु ॥ 13.51॥
शृणु वाचमिमां विचारितार्थां न कलौ निर्गुणभावना सुखाय ।
इति गौणविमुक्तये गुणाढ्यं स्मर {भज} देवं सुत वासुदेवमेव ॥ 13.52॥
इति तातवचो निशम्य किञ्चित् तरलात्माऽपि विचार्य शास्त्रसारम् ।
परमेव स पारमारुरुक्षुर्विगुणोपास्तिमुपाशृणोत् परेभ्यः ॥ 13.53॥
निजधर्मरतो गृहिप्रबर्हः कलिकालाकुलितान्तरोऽपि हन्त ।
नितरां निशितात्मना निसर्गात् स्फुटमालोचयदित्यसौ कदाचित् ॥ 13.54॥
रचितं ननु सूत्रमत्र मानं विदुषां सत्यवतीसुतेन साक्षात् ।
अपरस्परसङ्गतानि भाष्याण्यपि {भाष्याण्यथ} सर्वाणि न मानतां व्रजेयुः ॥ 13.55॥
यदि तेषु निराग्रहान्तराः स्मः सुघटं नोपलभामहे हि किञ्चित् ।
न तथापि परम्परोपयातं न पठामः प्रणयेन साङ्करीयम् ॥ 13.56॥
घटनोपनिषत्सु नाल्पबुद्धेः सुघटेत्यभ्युपगम्य चिन्तयामः ।
न विमुक्तिमुपैति कोऽपि मुक्त्वा समयोक्तामिह यामिमामुपास्तिम् ॥ 13.57॥
विततः सुखसच्चिदद्वयात्मा समुपास्यो विहितो हि तत्तवविद्भिः ।
स च नावयवी निरूप्यते चेद्दयुतिमात्रं च नहीत्यदो रहस्यम् ॥ 13.58॥
यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात् ।
फलमप्यथ मुक्तिरीदृशी स्यादिति नो नैव धिनोत्युपास्तिरेषा ॥ 13.59॥
अथ वेदपुराणभारतादि स्वयमालोच्य यथावबोधमत्र ।
गुणवन्तमुपास्महे मुकुन्दं स्मृतिदर्मान् भृश {स्पुट}माचरन्त एव ॥ 13.60॥
अवधार्य यदेतिकार्यमार्यः स विवेकादुपचक्रमे विधातुम् ।
परिपूर्णमतेर्जगत्सु कीर्तिं परिपूर्णामशृणोत् तदा विशुद्धाम् ॥ 13.61॥
विहिनस्ति हि नो जनोऽतिवाग्मी समयं कोऽपि परम्परोपयातम् ।
क्षिप तं त्वमपारयुक्तिशूरो न परे तत्र समर्थतां व्रजेयुः ॥ 13.62॥
तव वेदनदीर्विगाह्य भूयः समयाम्भोधिषु कुर्वतो विहारम् ।
नवकाव्यरसप्रियस्य वादिद्विरदेन्द्रप्रतिवारणो न जज्ञे ॥ 13.63॥
उपयाहि यशः शशाङ्कगौरं निजयूथस्य भयं निराकुरु त्वम् ।
अधुना विधिनोपपादितं त्वं {तं} प्रतिवादिप्रतिवारणं निवार्य ॥ 13.64॥
इति मायिजनेन तत्र तत्र स्वजनत्वेन स तावदर्थ्यमानः ।
अनुकूलवचा महिष्ठमानो मनसा संशयमाप संशयच्छित् ॥ 13.65॥
सितमध्ववचःसृणिप्रयोक्तॄन् पुरुषानेष विषादयन् कवीभः ।
विविधोत्तरधूलिपातनेन प्रतिघेनाधिकमन्धयाञ्चकार ॥ 13.66॥
क्षणदासु विचक्षणः स वीक्ष्य प्रचुरप्रज्ञमनोज्ञशास्त्रसारम् ।
अपराविदितः प्रसादगर्भं विदधे विस्मयमान्तरं महान्तम् ॥ 13.67॥
विदितवान् व्यवहृत्य सुदर्शनं बहुलबोधमवेक्ष्य स निश्चयात् ।
अपि न तस्य मतं सहसाऽऽददे ननु विमृश्य कृती कुरुतेऽखिलम् ॥ 13.68॥
तं विष्णुमङ्गलगतं बहुलप्रबोधं प्राप्याभ्यवन्दत तदाऽयुगविक्रमार्यः ।
आनन्ददं स चतुराननहासलक्ष्म्या तत्तवं प्रवेत्तुममरेन्द्र इवाब्जयोनिम् ॥ 13.69॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के त्रयोदशः सर्गः