व्योमवती/तृतीयः भागः
← द्वितीयः भागः | व्योमवती तृतीयः भागः [[लेखकः :|]] |
।। श्रीः ।।
अप्त्वाभिसम्बन्धादापः। रूपरसस्पर्शद्रवत्वस्मेहसंख्यापरिमाणपृथिक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवत्यश्च। एते च पूर्ववत् सिद्धाः। शुक्लमधुरशीता एव रूपरसस्पर्शाः। स्नेहोऽम्भस्येव सांसिद्धिकं द्रवत्वञ्च। तास्तु पूर्ववद् द्विविधा नित्यानित्यभावात्। कार्यं पुनस्त्रिविधं शरीरेन्द्रियविषयसंज्ञकम्। शरीरमयोनिजमेव धर्मविशेषसहितेभ्य आप्येभ्यः परमाणुभ्यो जायते करुणलोके। पार्थिवावयवोपष्टम्भादुपभोगसमर्थम्। इन्द्रियं सर्वप्राणिनां रसोपलम्भकमन्यावयवानभिभूतैर्जलावयवैरारब्धं रसनम्। विषयस्तु सरित्समुद्रहिमकरकादिरिति।%
इदानीमुद्देशवत उदकस्य लक्षणपरीक्षार्थमाह * अप्त्वाभिसम्बन्धात् * इत्यादिप्रकरणम्। अप्त्वेनाभिसम्बन्धोऽप्त्वेनाभिलक्षितः सम्बन्धः समवायो लक्षणमिति। तथा ह्याप इतरसमाद् भिद्यन्तेऽप्त्वाभिसम्बन्धात्, ये तु न भिद्यन्ते न ते अप्त्वाभिसम्बद्धाः। यथा क्षित्यादयः। न तथेदम्, तस्मादाप इत्येवं व्यवहर्त्तव्यमिति। शेषञ्च लक्षणस्याक्षेपप्रतिसमाधानं पृथिव्यधिकारे ज्ञेयम्। एवं शब्दार्थनिरूपणाय। शक्तेरतीन्द्रियत्वप्रतिषेधार्थञ्चाप्त्वाभिम्बन्धादिति वाक्यं पूर्ववद्योजनीयम्।
पूर्वं हि पृथिव्यादीनां नवानामपि समवायिकारणत्वं गुणत्वं क्षित्युदकात्मनं चतुर्दशगुणवत्त्वञअचेत्युक्तम्। तत्र केषामुत्पत्तौ समवायिकारणत्वम्, कैर्गुणैर्गुणकत्त्वम्, के वा चतुर्दश गुणाः, किं वा गुणात्मकं लक्षणमित्याह रूपरस्पर्शस्नेहसांसिद्धिकद्रवत्वादिसंस्कारपर्यन्ता विद्यन्ते यासां तास्तद्वत्य इति।
* एते च पूर्ववत् * इति गुणविनिवेशाधिकारे सिद्धाः। तथाहि, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च (वै0 सू0 2।1।2) इति पञ्चविशेषणाः सिद्धाः। ते चासाधारणत्वादितरस्माद् भेदका इत्यसाधारणताप्रतिपादनार्थमाह * शुक्लमधुरशीता एव रूपसस्पर्शाः * सूत्रेण सामान्यशब्देनाप्यर्थादभिहिता इति। तथाहि शुक्लमेव हि रूपमभास्वरमप्सु, मधुर एव रसः शीत एव स्पर्श इति।
तथा स्नेहोऽम्भस्येव सांसिद्धिकञ्च द्रवत्वमम्भस्येवेत्यसाधारणत्वमेषां। सांसिद्धिकमित्यग्निसंयोगानपेक्षम्, न त्वाकस्मिकम्, कार्ये कारणगुणपूर्वकं परमाणुषु च नित्यमिति। संख्यादयस्तु पूर्ववद् व्याख्येयाः।
एवं लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धो संशये सति तन्निराकरणार्थम् अप्त्वसामानय्स्य च भेदाधिष्ठानत्वादिति तत्समर्थानार्थम्, अद्वैतवादी चोदकस्योदकान्तराद् भेदं न प्रत्येति तन्निराकरणार्थं सर्वस्य कार्यद्रव्यस्य विनाशे प्रलयावस्थायाञ्च सर्गादौ पुवरुत्पत्तिर्न स्यादभावाद् भावोत्पत्तेरयोगादिति बीजप्रतिपादनारथञ्च * तास्तु पूर्ववद् द्विविधाः * इति वाक्यं व्याख्येयम्। यथा हि पृथिवी परमाणुस्वभावा नित्या कार्यलक्षणात्वनित्या तद्वदापोऽपीत्याह * नित्यानित्यभावात् * इति। नित्यत्वादनित्यत्वाच्चेत्यनेन रूपेण द्वैविध्यमित्यत्वान्तरभेदेन वैधर्म्यं दर्शयति। कार्यन्तु सत्यप्यानन्त्ये त्रिविधमिति ज्ञेयम्। केन रूपेणेत्याह शरीरमिन्द्रियं विषय इति संज्ञा यस्य तत्तथोक्तम्।
शरीरस्य च सामान्यलक्षणं पूर्वोक्तमित्युत्पत्तिरेवोच्यते * शरीरमयोनिजमेव * इति। न शुक्रशोणितसन्निपातजमिति। तच्च * धर्मविशेषसहितेभ्य आप्येभ्यः परमाणुभ्यो जायते वरुणालोके * प्रसिद्धमागमादिति। एथाप्यं शरीरं द्रवत्वाधिकरणतया न विशिष्टोपभोगाय कल्प्यत इत्याह * पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति। तथा ह्याप्यावयवाः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवावयवाश्च निमित्तकारणमिति। एवं तैजसा वायवीयश्चेति।
ननु चायुक्तमेतत्, शरीरस्य पाञ्चभौतिकत्वश्रवणात्। तथाहि, "गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञअचभौतिकम्" (न्या. सू. 3।1।31) इति।
गन्धोपलब्धेः क्षितेः कारणत्वम्, क्लेदाच्चापाम्, पाकात्तेजसः, व्यूहाच्च रचनाविशेषाद् वायोरवकाशदातृत्वेन चाकाशस्येति पाञ्चभौतिकत्वमित। तच्चासत्। विभिन्नजातीयानामेकद्रव्योत्पत्तौ समवायित्वस्यादर्शनात्। नच विभिन्नजातीयावयवेषु समवेतं शरीरमुपलभ्यते। यदि च पञअचानां समवायित्वं स्यादेवञअच सत्येभ्यः कः पार्थिवोऽन्यस्त्वाप्यस्तैजसवायवीयास्तेषु समवेतं शरीरमुपलभ्यते, न चैवम्। तथा विचित्रगुणाधिकरणत्वात् समवायिकारणानां कार्येऽपि तद्वैचित्र्यं स्यात्। एवञ्च सति पार्थिवावयवे शुक्लादीनामन्यतमं रूपम्, पाकजस्पर्शः स्यात्। आप्यावयवे च शुक्लमेव रूपम्, शीत एव स्पर्शः स्यात्। तैजसे भास्वरं रूपमुष्णं एव स्पर्शः, वायवीये चानुष्णाशीतत्वे सत्यपाकजस्पर्शः स्यादिति। विचित्रावयवैरारब्धत्वाच्छरीरं वैचित्र्यमुपलभ्येत। न तूपलभ्यते। तस्मादयुक्तमेतत्।
अथावयवस्याप्यनेकभूतैरारम्भः। तथाहि, पार्थिवाप्याभ्यां परमाणुभ्यां द्व्यणुकम्, पुनराप्यतैजसाभ्याम्, तथा तैजसवायवीयाभ्यामारब्धमिति। एवं वायुशब्दतन्मात्राभ्याम। एतानि द्व्यणुकान्युत्पन्नानि त्र्यणुकादिप्रक्रमेण शरीरमारभन्त इत्यभ्युपगमे च रूपादीनामुत्पत्तिर्न भवेत्। तथाहि " गुणाश्च गुणान्तरमारभन्ते" (वै. सू. 1।1।10) इति सूत्रेणानेकस्य गुणस्य गुणारम्भकत्वमुक्तम्। एवञ्च सति पार्थिवाप्याभ्यामणुभ्यामारब्धे द्व्यणुके गन्धोत्पत्तिर्न स्यात्। तस्य ह्येकत्वेनाजनकत्वात्। एवमाप्यतैजसाभ्यामारब्धे द्व्यणुके रसो न स्यात्। तथा तैजसवायवीयाभ्यामारब्धे द्व्यणुके रूपाभावः। तथा वायुशब्दतन्मात्राभ्यामारब्धे स्पर्शाभाव इति। तदेवं गन्धरसरूपस्पर्शानां द्व्यणुकेष्वभावे तत्कार्यकारयेष्वप्यभावादिति शरीरेऽप्यभावप्रसङ्गः।
एतच्च द्व्यात्मकादिष्वपि समानम्। तथाहि, पार्थिवाप्याभ्यामारब्धे शरीरे गन्धानुत्पत्ति। पार्थिवतैजसाभ्यामारब्धे गन्धरसानुत्पत्तिः। पार्थिववायवीयाभ्यामारब्धे शरीरे गन्धरसरूपानुत्पत्तिः। एवं पार्थिवाकाशाभ्यामारब्धे चतुर्णामनुत्पत्तिरिति।
न च द्रव्यारम्भकत्वमाकाशस्यामूर्त्तत्वादिति। मूर्तस्य हि स्पर्शवतो द्रव्यस्य द्रव्यारम्भकत्वदर्शनात्। एवमण्वादेरपीतरसहकारित्वेनारम्भे दूषणमूह्यम्।
तथा त्रयाणां पृथिव्यादीनां चतुर्णाञ्चारम्भ इति पञ्चानाञ्च कारणत्वमिष्यत इति पाञ्चभौतिकत्वमिष्टम्। समवायित्वञ्चैकस्यैवेति। पार्थिवे हि शरीरे पार्थिवस्यान्यस्मिन्नस्येति। पार्थिवे च क्लेदोपलम्भः संयुक्तसमवायेन। पाकस्त्वान्तरानलसंयोगात्, स च नोपलभ्यत एवेन्द्रियेण शरीरे सर्वदा केवलन्तु गुणान्तरप्रादुर्भावात् पूर्वशरीरनिवृत्तावुत्पन्नपाकजैरारम्भः कल्प्यते। व्यूहस्त्ववयवरचनाविशेषः। स तु वायुकार्यो न भवत्येव। अवकाशदातृत्वञ्च मूर्तद्रव्याभावस्यैवेत्याकाशस्य न लिङ्गगमित्यलम्।
इन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियञ्च रसव्यञ्जकम् * इति। रसोपलब्धिः करणकार्या, क्रियत्वात्, या या क्रिया सा सा करणकार्या यथा छिदिक्रिया, तथा चेयं क्रिया तस्मात् करणकार्येति। यच्च रसोपलब्धिसम्पादकं करणं तदाप्यम्, तद्रसनम्, रूपरसादिषु मध्ये नियमेन रसव्यञ्जकत्वात्। यद् यद् रूपादिषु मध्ये नियमेन रसव्यञ्जकं तत्तदाप्यं दृष्टं यथा दन्तान्तर्गतोदकम्, तथा चैतत्, तस्मादाप्यमिति। रसनव्यापाराद् रसत्वादीनामपि ग्रहणस्य सम्भवादसम्भवित्वं स्यादिति रूपादिषु मध्ये इति पदम्। तथाहि, शुष्ककण्ठस्य मोदकादिषु रसोपलब्धिर्नोपलब्धा। उदकसद्भावे तु रूपादिषु मध्ये रसस्यैकस्योपलब्धिरिति सपक्षे सत्त्वम्। अनाप्ये चैतन्न सम्भवतीति विपक्षाद् व्यावृत्तिरिति। तदेतदसाधारणत्वादितरस्माद् भेदकमपीति ज्ञेयम्।
अथ क्समात् किञअचिदेवाप्यं द्रव्यं रूपादिषु मध्ये नियमेन रसव्यञ्जकमिन्द्रियञ्चेत्याह * अन्यावयवानभिभूतैः, ईषत्सम्पृक्तैरपि जलावयवैरारब्धं रसनम् * इति रसस्यैव व्यञ्जकमिति।
अन्ये तु अन्यावयवानभिभूतैरसंपृक्तैः शुद्धैर्जलावयवैरारब्धं इति ब्रुवते। भूयस्त्वाद्रसवत्त्वाच्चोदकं रसज्ञाने प्रकृतिः [वै. सू. ?] इति। अस्य च सूत्रस्येदं भाष्यम्---
भूयस्त्वादिति। भूयसामाप्यावयवानां रसोपलब्धिप्रापकादृष्टापेक्षाणां संयोगे सतीषदितरावयवसम्पर्के च विशेषोत्पाद उपदिश्यते। अत एव अन्यावयवाभिभवानुत्पत्तिः। जलावयवानां भूयस्वादितरेषाञ्च अल्पत्वादिति। रसवत्त्वञ्च रसनेन्द्रियस्य रसोत्कर्षः। सामान्यशब्देनाप्यर्थोऽनुक्त इति रसो ज्ञायतेऽनेनेति रसज्ञानमिन्द्रियम्। तस्मिन्नुत्पाद्ये प्रकृतिः कारणमुदकं भयस्त्वाद् व्याकृतान्निमित्तात्। तस्मादेतदेवेन्द्रियम्। तस्मिन्नुत्पाद्ये प्रकृतिः कारणमुदकं भूयस्त्वा4द् व्याकृतान्निमित्तात्। तस्मादेतदेवेन्द्रियम्, रूपादिषु मध्ये नियमेन रसप्रकाशकञ्चेति।
यद् वा कार्यनियमः कारणनियमं विना न घटत इति नियमेन रसनेन्द्रियाद्रसोपलब्धेरेवोत्पत्तिः कुत इत्याह भूयस्त्वाद्रसवत्त्वाच्च निमित्ताद् रसे ज्ञप्तिः ज्ञानम्, तत्र प्रकृतिः कारणं रसनेन्द्रियमिति। तथाहि, संयुक्तसममवायाविशेषेऽपि नियमेन रसोपलम्भान्यथानुपपत्त्या ज्ञायते नियमहेतुः। स चान्यस्यासम्भवाद् रसोत्कर्षो भूयस्त्वञ्चेति कल्प्यते।
यद् वा रसोपलम्भानुपपत्त्यान्यस्यस्यासम्भवाज् ज्ञायते, रसोत्कर्षे किं निमित्तमित्याह भूयस्त्वमिति। तथा ह्याप्यत्वाविशेषेऽपि रसस्यैवोत्कर्षो न रूपादेरिति भयस्त्वं विशिष्टोत्पादे निमित्तम्। स चादृष्टवशात्। अदृष्टस्य च व्यवस्थाहेतुत्वादिति।।
विषयं निरूपयति। शरीरेन्द्रियव्यतिरिक्तो द्व्यणुकादिप्रक्रमेणारब्धो विषयः। तस्य हि विषयभावेनैवोपकारित्वादिति। स तु सरित्समुद्रहिमकरकादिरिति।
%तेजस्त्वाभिसम्बन्धात्तेजः। रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्। पूर्ववदेषां सिद्धिः। शुक्लं भास्वरश्च रूपम्। उष्ण एव स्पर्शः। नैमित्तिकञ्च द्रवत्वम्। संख्यादयश्च पूर्ववत्।%
%तदपि द्विविधम् अणुकार्यभावात्। कार्यं शरीरादित्रयम्। शरीरमयोनिजमेव धर्मविशेषसहितेभ्योऽणुभ्योऽणुभ्यो जायते आदित्यलोके। पार्थिवाक्यवोपष्टम्भाच्चोपभोगसमर्थम्। इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमन्यावयवानाभिभूतैस्तेजोऽवयवैरारब्धं चक्षुः। विषयलक्षणं चतुर्विधं भौमं दिव्यमुदर्यमाकरजञ्च। तत्र भऔमं काष्ठेन्धनप्रभवमूर्ध्वज्वलनस्वभावं पचवस्वेदनादिसमर्थम्। दिव्यमबिन्धनं सौरविद्युदादि। भुक्तस्याहारस्य रसादिभावेन परिणामसमर्थमुदर्यम्। आकरजं सुवर्णादि। तत्र संयुक्तसमवायाद् रसाद्युपलब्धिरिति।%
इदानीमुद्देशवतस्तेजोलक्षणपरीक्षार्थमाह * तेजस्त्वाभिसम्बन्धात् * इत्यादि प्रकरणम्। तेजस्त्वेनाभिलम्बन्धस्तेजस्त्वोपलक्षितसमवायो लक्षणमिति। तथाहि, तेजः, इतरस्माद् भिद्यते, तेजस्त्वाभिसम्बन्धात्। ये तु न भिद्यन्ते न ते तेजस्त्वाभिसम्बन्धाः यथा क्षित्यादयः, न च तथा तेजः, तस्मादिसतरस्माद् भिद्यत इति। व्यवहारो वा साध्यते। तथा तेजःशब्दस्य सामान्यवानर्थ इति ज्ञापनार्थमतीन्द्रियशक्तिप्रतिषेधार्थञ्च पूर्ववद् व्याख्येयम्।
एवं समवायित्वगुणत्त्वप्रतिपादनार्थञ्च रूपादिवाक्यम्। तथाहि, रूपस्पर्शादयः संस्कारपर्यन्ता विद्यन्ते यस्य तत् तद्वदिति। * पूर्ववदेषां सिद्धिः * इति। यथा पृथिव्यधिकारे रूपादयो विशेषगुणा गुणविनिवेशाधिकारे सिद्धास्तद्वदिहापीति। तथा "तेजोरूपसस्पर्शवद्" (वै. सू. 2।1।3) इति सूत्रेण विशेषगुणावुक्तौ। तौ चासाधारणत्वाद् इतरस्माद् भेदिकावित्यसाधआरणतामाह *शुक्लं भास्वरञ्च रूपम् * प्रकाशनशीलमिति। *उष्ण एव स्पर्शः * न स्पर्शान्तरमिति। *शुक्लं भास्वरञ्च रूपम्* प्रकाशनशीलमिति। *उष्ण एव स्पर्शः * न स्प्रशान्तरमिति। * नैमित्तिकञ्च द्रवत्वम् * इति। * संख्यादयश्च पूर्ववत् * इति। "त्रपुसीलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्" (वै. सू. 2।1।7) इति सूत्रेण द्रवत्वमुक्तम्।
लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासाय, अद्वैतत्वादिनश्च प्रतिषेधाय, सामान्यसमर्थनाय, बीजसद्भावप्रतिपादनाय च * तदपि द्विविधम् * इति पूर्ववद् वाक्यं वाख्येयम्। तथाहि, न केवलं पृथिव्युदकञ्च द्विवधम्, किं तर्हि ? एतदपीति। तेजोऽपि हि द्विविधमिति। केन रूपेणेत्याह * अणुकार्यभावात् * इति। परमाणुस्वभावं नित्यं कार्यस्वभावञ्चानित्यम्। कार्यस्य चानन्त्याजपरिज्ञानं मा भूदित्याह *कार्यं शरीरादित्रयम् * इति। शरीरमिन्द्रियं विषयमित्यनेन रूपेण ज्ञेयमित्यत्वान्तरवैधर्म्यम्।।
शरीरस्य सामान्यलक्षणमुक्तमित्युत्पत्तिरेवोच्यते * शरीरमयोनिजमेव * इति। अयोनिजं हि शुक्रशोणितसन्निपातानपेक्षम्। * धर्मविशेषसहितेभ्योऽणुभ्यः * इति। तेजसाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवाद्यवयवाश्च निमित्तकारणमिति। तच्चादित्यलोके सिद्धमागमात्। अथ तेजोऽवयविनः क्षणिकताया तदारब्धं विशिष्टोपभोगाजनकमित्याह * पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति। तच्च शरीरं सामान्यलक्षणलक्षितत्वे सति तेजोऽवयवैरारब्धत्वादितरस्माद् भिद्यत इति विशेषलक्षणं ज्ञेयम्।।
अथेन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकम् * इति। रूपोपलब्धिः, करणकार्या, क्रियात्वात् या या क्रिया सा सा करणकार्या यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात्, करणकार्येति। यद्रपोपलब्धेः सम्पादकं करणं तच्चक्षुरिति। तच्च तैजसम्, रूपादिषु मध्ये नियमेन रूपव्यञ्जकत्वात्। यद् यद् रूपादिषु मध्ये नियमेन रूपव्यञ्जकं चक्षुः, तस्मात्तैजसमिति। चक्षुषो हि रूपवद्द्रव्यादि प्रकाशकत्वोपलब्धिर्नियमेन रूपप्रकाशकत्वसिद्धं स्यादिति `रूपादिषु मध्ये' इति पदम्। रूपरसगन्धस्पर्शेषु मध्ये नियमेन रूपव्यञअजकत्वं विवक्षितमिति।
अथ तैसत्वाच्चक्षुषो रूपस्येवोष्मप्रकाशकत्वमपि स्यात्, तस्य हि तैजसत्वात् संयुक्तमसवायस्याविशेषाद्, अन्यस्य च विशेषहेतोरभावादित्याह * अन्यावयवानभिभूतैस्तेजोऽवयवैरारब्धं चक्षुः * अतो रूपस्यैव व्यञ्जकमिति। तथा हीषत्पार्थिवावयवसंयुक्तैरनभिभूतैस्तेजोऽवयवैरारब्धं चक्षुरिति रूपस्यैव व्यञ्जकम्।
अथ इत्थम्भूतारम्भे किं प्रमाणम् ? कार्यनियमः। तथा हि चक्षुर्व्यापाराद् रूपादिषु मध्ये रूपस्यैवोपलब्धिर्दृष्टा। सा च कारणनियमं विना न स्यादित्यन्यस्यासम्भवाद् विशिष्टोत्पादोऽत्र निमित्तम्। स चादृष्टाद् रूपोपलब्धिसम्पादकात् तस्य हि वस्तुव्यवस्थाहेतुत्वादिति।
भूयस्त्वाद् रूपवत्त्वाच्च रूपज्ञाने प्रकृतिः कारणं तेजः [वै0 सू0 ?] इति। अस्य च सूत्रस्येदं भाष्यम्। रूपं ज्ञायतेऽनेनेति। रूपज्ञान चक्षुस्तस्मिन्नुत्पाद्ये प्रकृततिः कारणं तेजो भूयस्त्वान्निमित्तादतो रूपस्यैव प्रकाशकमिन्द्रियञ्जचेति। भूयस्त्वं हि भूयसां तेजोऽवयवानां विशिष्टादृष्टोपगृहीतानामीषदितरावयवसम्पर्कै चारभकत्वमिति। यद् वा रूपे ज्ञाप्तिर्ज्ञानम्, तस्मिन्नेव रूपादिषु मध्ये कारणं चक्षुः। कुत इत्याह भूयस्त्वाद् व्याकृताद् रूपत्त्वाच्च इति। रूपवत्त्वं हि रूपोत्कर्षो विवक्षितः। अन्यथा हि तैजसत्वादुष्णस्पर्शवत्त्वमिपि सम्भाव्यत इति विशेषाभिधानमनर्थकं स्यात्। यद् वा रूपादिषु मध्ये रूपस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते रूपोत्कर्षः। कुतो भवतीत्याह भूयस्त्वादुक्तरूपादिति।
अथ महत्त्वादनेकद्रव्यत्वाच्चक्षुषः कस्मादिन्द्रियेणोपलम्भो न भवति ? प्रदीपस्यैव विशिष्टरूपाभावात्, यत्र हि रूपवद्द्रव्यस्य चक्षुःस्पर्शनाभ्यामुपलम्भ इति। रबपविशषस्तु यत्कृता [क्व] चिद्वेषये रूपोपलब्धिर्यदभावाच्च महदनेकद्रव्याश्रयस्याप्यनुपलब्धिः स उद्भावसमाख्यातो रूपधर्मः सहकारिविशेष इति। दृष्टञ्च रूपविशेषाभावाद् वारिस्थिते तेजसि महदनेकद्रव्यत्वेऽप्यग्रहणम्। उद्भूतरूपस्य प्रदीपस्यान्धकारेऽपि ग्रहणम्। उपभोगार्था हि सृष्टिर्भावानामिति रूपस्याद्भवे चक्षुषोऽन्धकारेऽपि ग्रहणे दुष्टसत्त्वानामुपभोगानुत्पत्तिः स्यादिति तदुपभोगप्रापकादृष्टवशेनानुद्भूतरूपं चक्षुर्जनितं प्रजापतिना। तथोष्णस्पर्शोद्भवोऽप्यमेकचक्षुःसन्निपातात् प्रीतिकरे वस्तुनि नर्तक्यादौ ग्रीष्मसमयेऽत्युष्णैर्मरीचिभिरिव दाहः स्यादित्यदृष्टवशादेवोष्णस्पर्शस्याप्यनुद्भावः कल्प्यत इति।
विषयस्वरूपनिरूपणार्थमाह * विषयलक्षणम् * विषयस्वरूपम्। * चतुर्विधम् * इति। केन रूपेणेत्याह * भौम दिव्यमुदर्यमाकजञ्च * इति। विषयलक्षणेन शरीरेन्द्रियाद् व्यावृत्तस्य विषयस्यावान्तरवैधर्म्यमेतदिति। तत्र भूमौ भवं भौमम्। काष्ठान्येवेन्धनानि यस्य तेभ्यः प्रभवत्युपपद्यत इति तत्प्रभवमितीन्धनविशेषादितरस्माद् भिद्यते। तच्चोर्ध्वज्वलनस्वभावकमिति। अमुष्मादपीतरस्माद् भिद्यत एव। यदेवार्थक्रियाकारि तदेव परमार्थसदिति दर्शनस्य सत्तासम्बन्धेनापि सत्त्वभ्युपगमेऽयभ्युपगमवादेन प्रतिषेधार्थम्। क्रियानुरूपणञ्च पचनस्वेदिनादिसमर्थमिति। दिव्यमबिन्झनविशेषाद् विशिष्यत इत्याह * अबिन्धनम् * इति। आप इन्धनं यस्य, न त्वाप एवेति। तच्च सौरमिति आदित्यसम्बद्धम्। विद्युदादीत्यादिपदेनोल्का (पाता) देर्ग्रहणमिति। एवमुदरे भवमुदर्यम्। तच्च भुक्तस्याहारस्य रसादिपरिणामार्थमिति रसमलधातुपरिणामार्थम्। परिणामश्च परमाणुषु पूर्वरूपादिनिवृत्तावुत्पन्नपाकजैद्ध्यणुकादिप्रक्रमेण रसादिद्रव्यारम्भ इति वक्ष्यामः पाकजोत्पत्तौ। आकरजञ्चेति। आकराज्जातं सुवर्णादि। आदिग्रहणात् त्रपुसीसलोहरजतानां ग्रहणम्।।
अथैतेषां तैजसत्वे किं प्रमाणम् ? आगमः। तथा च "अग्नेरपत्यं प्रथमं सुवर्णं द्यौर्वैष्णवी सूर्यसुताश्च गावः"।
अथाग्नेर्जातमतज्जातीयं भवतीत्यनेकान्तादसाधनमेतत्। तथा चाग्नेर्जातं धूमादि न तज्जातीयम्। तदसत्। अपत्यव्यवहारस्य साजात्यापेक्षस्यैव दृष्टत्वात्। तथाहि, न कार्यमात्रेऽपत्यव्यवहारो दृष्टः। किं तर्हि ? समानजातीये। यथा मानुषापत्यमिति। नन्वेवं चेतनेष्वेवापत्यव्यवहारोपलब्धेरचेतनेऽनुपपत्तिः ? न। तेजोऽधिष्ठआनस्य चेतनतया तदपेक्षयास्योपपत्तेः। यद् वा अग्निकार्यस्यानेकत्वेऽप्यग्नेरपत्यं सुवर्णमिति विशेषाभिधआनात् समानजातीयत्वं लभ्यते। अविशेषविवक्षायान्तु कार्यान्तरमपत्यमित्यभिदध्यात्। आगमान्तराद्वा विशेषप्रतिपत्तिरित्यलम्। तथा प्रथमं सुवर्णमित्यभिधानादग्नेरपत्यं रजतादिकमपि लभ्यतेऽन्यथा हि प्रथममित्यनर्थकं स्याद् विशेषणम्। एवञ्च सति गुरुत्वाधिकरणत्वात् पार्थिवं सुवर्णादीत्यनुमानमागमबाधितत्वादप्रमाणम्। एवञ्च सति गुरुत्वाधिकरणत्वात् पार्थिवं सुवर्णादीत्यनुमानमागमबाधितत्वादप्रमाणम्। आगमिके हि विषयेऽनुमानप्रवृत्तेः प्रतिषेधात्।
अथैतेषां तैजसत्वे रसाद्युपलब्धिस्तर्हि कथम् ? संयुक्तसमवायात्। तथाहि, संयुक्तं सुवर्णादौ पार्थिवं द्रव्यम्, तत्र समवेता रसादय उपलभ्यन्त इत्याह * तत्र संयुक्तसमवायाद् रसाद्युपलब्धिः * इति। अथ द्रवत्वमप्येवमस्तु, किमर्थं तस्य तेजोगुणत्वमिति चेत्, न। पार्थिवादस्य विशेषोपलब्धेः। तथाहि, पार्थिवं लाक्षाद्यग्निसंयोगाद् भस्मतामापद्यमानं दृष्टम्। सुवर्णादौ च भृशमप्यग्निसंयोगातिशयेन द्रवत्वमेव। उष्णस्पर्शानुद्भवचात्रदृष्टात्।
वायुत्वाभिसम्बन्धाद् वायुः। स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान्। स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजो गुणविनिवेशात् सिद्धिः। `अरूपिष्वचाक्षुष'-वचनात् सप्तसंख्यादयः। `तृणकर्म'-वचनात् संस्कारः। स चायं द्विविधोऽणुकार्यभावात्। तत्र कार्यलक्षणश्चतुर्विधः। शरीरमिन्द्रियं विषयः प्राण इति। तत्र शरीरमयोनिजमेव धर्मविशेषसहितेभ्यो वायुपरमाणुभ्यो जायते मरुतां लोके, पार्थिवावयवोपष्टम्भच्चोपभोगसमर्थम्। इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं शरीरव्यापि त्वगिन्द्रियम्। विषयस्तूपभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गस्तिर्यग्गमनस्वभावो मेघादिप्रेरणधारणादिसमर्थः। तस्याप्रत्यक्षस्यापि नानात्वं संमूर्छनेनानुमीयते। संमर्छनं पुनः समानजवयोर्विरुद्धदिक्किययोर्वाय्वोः सावयविनोरूर्ध्वगमनेनानुमीयते। तदपि तृणादीनामूर्ध्वगमनेनेति। प्राणोऽन्तःशरीरेरसमलघातृनां प्रेरणादिहेतुरेकः सन् क्रियाभेदात् प्राणापनादिसंज्ञां लभत इति। %
इदानीं वायोरुद्देशवतो लक्षणपरीक्षार्थं * वायुत्वाभिसम्बन्धात् * इत्यादिप्रकरणम्। वायुरिति लक्ष्यनिर्देशो वायुत्वाभिसम्बन्धादिति लक्षणम्। वायुत्वेनाभिसम्बन्धो वायुत्वेनोपलक्षितः समवाय इति। समवायो ह्यतिव्यापकत्वादलक्षणं स्यादिति वायुत्वपदम्। वायुत्वञ्चसम्बद्धमपक्षधर्मतया गमकं न स्यादिति पक्षधर्मताज्ञापनार्थमभिसम्बन्धपदम्। तथा च वायुत्वेनेतरस्माद् भिद्यते, वायुत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते न ते वायुत्वेनाभिसम्बद्धाः यथा क्षित्यादयः, नच तथा वायुत्वेनानाभिसम्बद्धो वायुः, तस्मादितरस्माद् भिद्यत इति। व्यवहारो वा साध्यते। शेषञ्च लक्षणस्य दूषणप्रतिसमाधानं पृथिव्यधिकारे ज्ञेयम्। तथा वायुशब्दस्य सामान्यवानर्थध इति ज्ञापनार्थमतीन्द्रियशक्तिप्रतिषेधार्थञ्च पूर्ववद् वाक्यं व्याख्येयम्।
समवायित्वगुणवत्त्वप्रतिपादनार्थं स्पर्शादिवाक्यम्। स्पर्शादयः संस्कारपर्यन्ता विद्यन्ते यस्यासौ तद्वानिति। स्पर्शस्य साधारणत्वादन्यस्माद् भेदकत्वाभावादित्यसाधारणतामाह * स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजः * इति। अनुष्ण इत्युष्णस्पर्शव्यवच्छेदः। अशीत इति शीतस्पर्ळात्। अपाकज इति पार्थिवात्। स च गुणविनिवेशाद् द्वितीयाध्याये सिद्धः " वायुः स्पर्शवान्" (वै0 सू0 2।1।4) इत्यनेन सूत्रेण।
अत्र च स्पर्शवानिति सामान्यशब्देनापि अर्थादयं विशेषो विवक्षितोऽनुष्णाशीतत्वे सत्यपाकजस्पर्शवानिति। "अरूपिष्वचाक्षुषत्वात्" (वै0 सू0 4।1।12) इति। सूत्रेण संख्यादयः सिद्धाः।
तथाहि, रूपविशेषवति द्रव्ये चाक्षुषास्तद्विपरीते चाचाक्षुषाः इत्यन्यपरेणापि सूत्रेण अरूपिषु संख्यादीनां सद्भावोऽभिहित एव। तथा चारूपिषु समवेताः संख्यादयः परं चक्षुर्ग्राह्या न भवन्तीति प्रतिषेधः। तथा * तृणकर्मवचनात् * इति "वायुसंयोगात्तृणे कर्म"(वै0 सू0 5।1।14) इति सूत्रं दर्शयति।
वायुसंयोगश्च तृणकर्मोत्पत्तौ सापेक्षः कारणमिति प्रयत्नादेरभावाद् वेगापेक्षः कारणमिति संस्कारः सिद्धः।
तथा वायुत्वसामान्यस्य भेदाधिष्ठआनत्वादिति तत्समर्थेनार्थाल्लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धो संशये सति तन्निरासार्थम्, अद्वैतवादिप्रतिषेधार्थं बीजसद्भावप्रतिपादनार्थञ्च * स चायं द्विविधोऽणुकार्यभावात् * इति वाक्यम्। तथा ह्यणुस्वभावो नित्यः कार्यस्वभावत्वनित्य इति।
अवान्तरवैधर्म्यं दर्शयति * कार्यलक्षणः *। कार्यस्वभावः। * चतुर्विधः * इति। केन रूपेणेत्याह *शरीरमिन्द्रियं विषयः प्राण * इति।
शरीरोत्पत्तिमाह * शरीरमयोनिजमेव * इति। अयोनिजञअच शुक्रशोणितसन्निपातमनपेक्ष्योपजातम्। * धर्मविशेषसहितेभ्यो वायुपरमाणुभ्यः * इति। तथाहि, वायवीयाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, क्षित्यादि च निमित्तकाणमिति। तच्च * मरुतां लोके * सिद्धमागमात्। अथ वायोस्तिर्यग्गतिशीलत्वात् क्षणिकत्वाच्च तदारब्धशरीरमुपभोगाजनकं स्यादित्याह * पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति।
इन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकम् * इति। तथाहि, स्पर्शोपलब्धिः, करणकार्या, क्रियात्वाद् या या क्रिया सा सा करणकार्या, यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति। यद् यत् स्प्रशोपलब्धेः सम्पादकं करणं तद् वायुवीयम्, रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकत्वात्, यद् यद् रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकं त्वगिन्द्रियम्, तस्माद् वायवीयमिति। त्वगिन्द्रिययस्य स्पर्शवद्द्रव्यादिव्यञ्जकत्वोपलब्धेर्नियमेन स्पर्शव्यञ्जकत्वमसिद्धं स्यादिति रूपादिषु मध्य इति विशेषणम्। व्यजनानिले तु तद्गतस्पर्शव्यक्तौ यद्यपि रूपाद्यसम्भवस्तथापि शीतादिस्पर्शव्यञ्जकत्वसद्भावाद् विशेषणसद्भावः।
अथ वायवीयत्वाविशेषे कस्मात् किञ्चिदेव स्पर्शव्यञ्जकमिन्द्रियमिति त्वगिन्द्रियञअचेत्याह * पृथिव्याद्यनभिभूतैः * वायवीर्यैर्विशिष्टादृष्टोपगहीतैरीषदितरावयवसंपृक्तैः शुद्धैर्वा आरब्धम्। अतः स्पर्शस्यैवाभिव्यञ्जकमिन्द्रियञ्चेति। तच्च * शीररव्यापि * सर्वत्र स्पर्शोपलम्भाद् विज्ञातम्। तस्य च संज्ञा * त्वगिन्द्रियम् * इति। त्वगिति शरीरावगुण्ठकं चर्म, तत्सायनमिन्द्रियम् उपचारेण त्वगिन्द्रियमित्युक्तम्।
अथ त्वगिन्द्रियस्य विशिष्योत्पादे किं प्रमाणम् ? कार्यनियमः। तथा च रूपादिषु मध्ये स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते कारणनियमः। स चान्यस्यासम्भवाद् विशिष्योत्पादे निमित्तमिति कल्प्यते।
अस्य च सूत्रस्येदं भाष्यम् "भूयस्त्वात् स्प्रशनवत्त्वाच्च स्प्रशज्ञाने प्रकृतिर्वायुः" (लुप्तं वै0 सू0) इति। स्पर्शो ज्ञायतेऽनेवेति स्पर्शज्ञानमिन्द्रियमिति। तस्मिन्नुत्पाद्ये प्रकृतिः कारणं वायुः, भूयस्त्वान्निमित्तात्, अतस्तदेवेन्द्रियं रूपादिषु मध्ये स्पर्शस्यैव व्यञ्जकमिति। भूयस्त्वादिति। भूयसां विशिष्टादृष्टोपगृहीतानां वाय्ववयवानाम् ईषदितरावयवसम्पर्कैरारम्भकत्वम्।
यद् वा स्पर्शे ज्ञप्तिर्ज्ञानम्, तस्मिन्नेव रूपादिषु मध्ये प्रकृतिः कारणं वायुः। कुत इत्याह भूयस्त्वाद् व्याकृतात् स्पर्शवत्त्वाच्चेति। स्पर्शवत्त्वञ्चास्य स्पर्शोत्कर्षो विवक्षितः।
यद् वा स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञातः स्पर्शोत्कर्षः, क्समाद् भवतीत्याह भूयस्त्वान्निमित्तादिति।
ननु सर्वमेतद् असम्बद्धम्, वायुसद्भावे प्रमाणाभावात्। न। प्रत्यक्षेणोपलम्भात्। तथा हि स्पर्शानव्यापाराद् अपरोक्षज्ञानमुत्पद्यमानं दृष्टम् `वायुर्वाति, शीतो वायुः, उष्णो वायुः' इति। न चेदं लिङ्गलिङ्गिसम्बन्धानुस्मरणपरामर्शज्ञानानन्तरमुत्पद्यत इति नानुमानप्रभवम्। शब्दं विनाप्युत्पत्तेर्न शाब्दम् इतीन्द्रियानुविधानाद् इन्द्रियजम्। यच्चापरोक्षज्ञानं तत्प्रत्यक्षम्।
अथ " महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्" (वै0 सू0 4।1।6) इति सूत्रविरोधः, न। सूत्रार्थापरिज्ञानात्। तथा च सूत्रार्थः, अपरोक्षज्ञानसद्भावे सति समस्तं व्यस्तञ्च लक्षणमिति ज्ञेयम्। यत्र ह्यपरोक्षं ज्ञानं तत्रामीषां समस्तव्यस्तानां कारणत्वम्। तथा ह्यात्मा महत्त्वादेव प्रत्यक्षः। वायुस्तु महत्त्वानेकद्रव्यवत्त्वाभ्याञ्च। यत्र च चक्षुःस्पर्शनाभ्यां विज्ञानं द्रव्ये तत्र समस्तं लक्षणमिति। प्राधान्यन्तु यथा दर्शनमभ्युपेयम्। तथा हि रात्रावग्निर्दूरेऽप्युपलभ्यते रूपातिशयात्। महत्त्वानेकद्रव्यवत्त्वेऽप्यग्रहणं पर्वतादेरिति रूपस्य प्राधान्यम्। एवमालोकसद्भावे दूरेऽपि पर्वतादेर्ग्रहणम्। महत्त्वे तु अल्पप्राधान्यमित्युत्प्रेक्ष्यम्।
अथ यत्र स्पर्शनप्रत्यक्षत्वं तत्र दर्शनस्यापि व्यापारो दृष्ट ओघशब्दादौ, संख्यादयश्च प्रत्यक्षा इतीहापि तथाभावः स्यात्। न चास्त्यतः स्पर्शमात्रमेव प्रत्यक्षम्, वारिस्थिते तेजस्युष्णतावदिति। यथा वारिस्थिते तेजसि आश्रयाप्रत्यक्षत्वेऽप्युष्णताग्रहणं तद्वदिहाप्याश्रयाप्रत्यक्षत्वेऽपि स्पर्शस्यैव ग्रहणमिति।
नैतदेवम्। वारिस्थिते तेजसि रूपस्यानुद्भूतत्वात् स्पर्शमात्रस्य प्रत्यक्षत्वं युक्तम्। यत्र रूपोद्भवः कारणं प्रत्यक्षत्वे तत्रावश्यं चक्षुशषापि ग्रहणम्, संख्यादयश्च प्रत्यक्षाः। रूपानुद्भवे च न ग्रहणमिति। दृष्टश्च वायौ न रूपविशेषः प्रत्यक्षतायां कारणमिति चक्षुषा अग्रहणम्। संख्यादेरप्रत्यक्षत्वं युक्तम्।
अथ रूपविशेषाभावेऽप्रत्यक्षत्वमेव स्यादिति चेत्। न। आत्मना व्यभिचारात्। तथाहि, आत्मा रूपविशेषाभावेऽप्यन्तःकरणप्रत्यक्षः। संख्यादयः प्रत्यक्षा अप्यात्मनि रूपविशेषाभावादेव अप्रत्यक्षा इति।
अथ द्रव्यस्पार्शनप्रत्यक्षत्वं रूपविशेषसद्भावे सत्येव दृष्टं घटादौ। तथा (च) रूपस्पर्शव्यतिरिक्तद्रव्यालम्बनत्वेऽनुसन्धानज्ञाने च प्रमाणमस्ति `यमहमद्राक्षं चक्षुषा तमेवैतर्हि स्पृशामि, यं वा अस्प्राक्षं स्पार्शनेन तं पश्यामि' इति। न च वायावेतदस्तीति स्पर्शमात्रालम्बनमिति चेत्। तदेतदसत्। रूपं विनापि वायोः स्पर्शनेन प्रत्यक्षत्वात्। अथ साध्यमेतत्। न। दृष्टस्य साध्यत्वे सत्यतिप्रसङ्गात्। तथाहि, स्पर्शनव्यापाराद् वायावपरोक्षज्ञानम्। इन्द्रियभावव्यतिरेकाभ्यामुत्पद्यमानं दृष्टमित्युक्तम्। तस्य च साध्यत्वे घटादावपि दर्शनस्पर्शनप्रत्यक्षं साध्यमेव स्यात्। अथेन्द्रियानुविधानान्न साध्यमेतत्, समानं वायावपि । तथेदमनुसन्धानम्, तद् द्वीन्द्रियग्राह्यत्वाद् घटादावुपपन्नम्, वायोरेकेन्द्रियग्राह्यत्वादसम्भवेनातीन्द्रियत्वादिति।
न चानुसन्धानादेव गटादिज्ञानस्य रूपाजिव्यतिरिक्तद्रव्यालम्बनत्वम्। किं तर्हि ? घटादिज्ञानस्य विलक्षणत्वाद् रूपादिव्यतिरिक्तार्थालम्बनत्वम्। तत्र चानुसन्धानस्यापि प्रामाण्यमिति। नैवं `वायुर्वाति' `शीतो वायुः' इति ज्ञानस्य स्पर्शज्ञानविलक्षणत्वात्, तद्व्यतिरिक्तार्थालम्बनत्वम्। न च स्पर्शोपलम्भानादनुमानजं ज्ञानमेतदिति वाच्यम्, अविनाभावसम्बन्धानुस्मरणादेरभावात्। अननुभूयानस्यापि सम्बन्धानुस्मरणादेरभावात्। अननुभूयमानस्यापि सम्बन्धानुस्मरणादपि [? देरपि] व्यापारस्य [? त्व] कल्पना अन्याय्या, घटादिज्ञानस्याप्यनुमानताप्रसङ्गात्। वायुप्रत्ययसमानाधिकरणश्चायं प्रत्यय इति वाय्वालम्बन एव।
अन्ये तु अनुमानेनापि वायोः प्रत्यक्षतां व्यवस्थापयन्ति, स्वयं प्रत्यक्षेणोपलब्धोऽप्यर्थः परस्मै प्रतिपाद्यमानोऽनुमानेनैव प्रतिपाद्यत इति मन्यमानाः। तथा च अस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानत्वात्,यो योऽनुभूतरूपान्यत्वे सति अस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानः स सोऽस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानो वायुः, तस्मादस्मदादित्वगिन्द्रियप्रत्यक्ष इति।
नन्वेवं सर्वेषामप्यतीन्द्रियाणामस्मदादिप्रत्यक्षत्वं स्यात् प्रमेयत्वादिति हेतुना ? न। परप्रतित्त्यैव बाध्यमानत्वात्। तथाहि, परो विजानाति `न मोऽस्ति परमाण्वादि विषयज्ञानम्' इति। स्वयमपरोक्षज्ञानसद्भावे सति परप्रतिपादनायानुमानोपन्यासो युक्तः। स च वायवावस्ति न परमाण्वादाविति। तथा परमाण्वादिरस्मदादीन्द्रियिषयत्वे परमाण्वादिरूपतां जह्यात्, महत्त्वादियोगिन्यस्मदादीन्द्रियव्यापारोपलब्धेरिति।
इदानीं प्रत्यक्षेण वायुसद्भावे व्यवस्थापिते विषयनिरूपणार्थमाह * विषयस्तूपलभ्यमानस्पर्शीधिष्ठानम् * इति। उपलभ्यमानश्चासौ स्पर्शाधिष्ठानभूतश्चेति तथोक्तः। अप्रत्यक्षवादिनाम् उपलभ्यमानश्चासौ स्पर्शश्च, तस्याधिष्ठानभूतधिष्ठानभूत इति व्याख्या। तत्र चास्मदादिप्रतिपादनाय शास्त्रस्यारम्भाद् अस्मदादिविशेषणमप्यूह्यम्। उपलम्भोऽपीन्द्रियद्वारेणैव विवक्षित इति। अन्यथा हि प्रमाणान्तरेणोपलम्भः शरीरादावप्यस्तीति उपलभ्यमानस्पर्शाधिष्ठानत्वं व्यभिचार विषयलक्षण स्यात्। एवम् अस्मदादीन्द्रियोपलभ्यमानस्पर्शाधिष्ठानत्वाद् इतरस्माद् भिद्यते, विषय इति वा व्यवहर्त्तव्यः। तथा न परं विषयलक्षणो वायुरस्मदादीन्द्रियप्रत्यक्षोऽनुमानावगम्यश्चेत्याह * स्पर्शशब्दधृतिकम्पलिङ्गः * इति। स्पर्शश्च शब्दश्च धृतिश्च कम्पश्चेति लिङ्गानि यस्यासौ तथोक्त इति। तथा ह्यनुष्णाशीतत्वे सति अपाजकः स्पर्शः, क्वचिदाश्रितः, गुणत्वात्, यो यो गुणः स स आश्रितो दृष्टः यथा रूपादिः,तथा चायं गुणः, तस्मादाश्रित इति। गुणत्वञ्चास्य सामान्यवत्त्वेऽद्रव्यत्वे च सति नियमेनाचाक्षषप्रत्यक्षत्वाद्रसवदिति। अचाक्षुषप्रत्यक्षत्वं घटादावस्तीति नियमग्रहणम्। तथापि स्पर्शत्वादिसामान्ये नियमेनाचाक्षुषप्रत्यक्षत्वम्, न च गुण इति व्यभिचारस्तदर्थं सामान्यवत्त्वे सतीति विशेषणम्। सामान्यवत्त्वम् द्रव्यादित्रयस्यास्तीति नियमेनाचाक्षुषप्रत्यक्षपदम्। सामान्यवत्त्वे सति। नियमेनाचाक्षुषप्रत्यक्षत्वं वाय्वादावस्तीति अद्रव्यत्वे सतीति पदम्। अस्य पक्षधर्मत्वे सति सपक्षैकदेशे वर्त्तमानस्य अत्यन्तं विपक्षाद् व्यावृत्तस्य अबाधितविषयत्वाद् असत्प्रतिपक्षत्वेन गमकत्वम्।
अथास्त्वनुष्णाशीतत्वे सत्यपाकजस्पर्शस्य आश्रुतत्वम्, अपाकजत्वे तु किं प्रमाणम् ? पाकजरूपादिवियोगात्। तथाहि,पाकजस्पर्शः पाकजरूपादिसहितो दृष्टो घटादाविति, अस्यापि पाकजत्वे तथाभावःस्यात्। अथ सद्भावेऽप्यनुद्भूतत्वात् तेषामनुपलम्भः ? तन्न। अन्यत्राभावात्. न हि पाकजस्पर्शोपलम्भेऽपि रूपादीनामन्यत्र अत्यन्तानुपलम्भो दृष्ट इति। न चात्र रूपादीनामस्तित्वे प्रमाणमिति चेद्, अत्यन्तानुपलब्धिरेव। तथाहि, विवक्षितस्पर्शाधिकरणं गुरुत्वरहितं सम्भवतीति सहचरितारूपादयो न कदाचिदुपलभ्यन्ते प्रमाणत इत्यसन्तः। तथा पाकजस्पर्शस्य गुरुत्वसाहचर्योपलब्धेरस्यापि पाकजत्वे तत्सद्भावः स्यात्। गुरुत्वसम्बन्धे चोर्ध्वं पर्णादिधारणानुपपत्तिः, तस्यापि गुरुत्वसम्बन्धितया तत्प्रसङ्गात्। न च पाकजस्पर्शाधिकरणं गुरुत्वरहितं सम्भवतीति पार्थिवस्पर्शविलक्षणत्वान्न पृथिव्यां वर्त्तते, नाप्युदकतेजसोरनुष्णाशीतत्वात्। अन्यत्रासम्भव एवेति। यत्रायं वर्त्तते असौ वायुरिति।
तथा आद्यः शुकशुकाशब्दः सन्ततानुमितः, स्पर्शवद्द्रव्यसम्बन्धकार्यः, विभागजशब्दजशब्दान्यत्वे सति शब्दत्वात्, यो यो विभागजशब्दजशब्दान्यत्वे सति शब्दः स स्पर्शवद्द्रव्यसंयोगकार्यः, यथा भेरीदण्डसंयोगजः शब्दः, तथा चायम्, तस्माद् यथोक्तसाध्य इति। ननु विभागजशब्दादय विसेषानुपलब्धेः सन्दिग्धं तदन्यत्वे सतीति विशेषणम्। न रूपादिमतां घनावयवसन्निवेशभाजां कारणविभागपूर्वकविभागस्य शब्दारम्भकत्वोपलब्धेस्तदभावस्तु अविवादास्पद इति विभागजत्वाभावात्। तथा विभागजत्वे शुकशुकादिशब्दस्य शाखादिषु कम्पमानकालोपलब्धिर्न स्यात्। सा तु दृष्टा। न चात्र शाखादिवायुविभागस्य शब्दारम्भकत्वं युक्तम्, कारणविभागजत्वानुपपत्तरतस्तदन्यत्वे सतीति विशेषणमसन्दिग्धमेव।
धृतिर्धारणम्, आकाशे पर्णादीनामवस्थानम्। तच्च, स्पर्शवद्द्रव्यसंयोगकार्यम्, यथा आधारगतोदकम्, तथाचेदम्, तस्मात् स्पर्शवद्द्रव्यसंयोगकार्यमिति।
पक्षीणां [? सन्निपतितानां] मूर्च्छनमित्याह * समूर्च्छनं पुनः समानजवयोर्वाय्वोर्विरुद्धदिक्क्रिययोः * । सन्निपातो हि सम्बन्धः। स च कयोः ? * वाय्वोः * किंविशिष्टयोरित्याह * समानजवयोः * समानस्तुल्यो जवो व्गो ययोस्तो समानजवौ तयोरिति। अन्यथा हि एकस्याल्पजवत्वे बलीयसा अभिभवान्न संमूर्च्छनमिति। तथा ह्येकदिक्क्रिययोर्न संमूर्च्छनमित्याह [विरुद्धदिक्क्रिययोः] विरुद्धे दिक्क्रिये ययोस्तौ विरुद्धदिक्क्रियावेति। तथा ह्येकस्य प्राचीनदिग्गमनमन्यस्य च तदभिमुखमागमनमिति क्रिययोर्विरोधः।
अन्ये तु विरुद्धायां दिशि क्रिये ययोस्तौ तथोक्ताविति मन्यन्ते। अत्राविरोधश्चिन्तनीयः।।
अथेत्थं सन्निपातः कुतः प्रतीयत इत्याह सोऽपि सन्निपातः * सावयविनोरूर्ध्वगमनेनानुमीयते * । सहावयविभिर्वर्त्तेते यौ तौ सावयविनाविति, तदवयवा अपि महान्तोऽवयविन इति ज्ञापनार्थमिदमुक्तम्, अन्यथा हि सावयवयोरिति स्यात्।
अन्ये वायोरेवोर्ध्वगमनं कथं प्रतीयत इत्याह * तदपि तृणादीनामूर्ध्वगमनेनेति *। तथाहि, तृणादीनामूर्ध्वगमनमचेतनत्वान्नोपपन्नं भवति, नापि वेगात्, क्वचिन्मन्दगतित्वाद्,आद्यकर्मोत्पत्तौ च तदभावात्। अन्यस्य च सामर्थ्यानुपलब्धेर्वोगवद्द्रव्यसम्बन्धोऽनुमीयते। न च तत् पार्थिवम्, आप्यं वा। तस्यापिगुरुत्वाधिकरणतया ऊर्ध्वगमने गुरुत्वरहितं निमित्तान्तरं वाच्यम्। न चात्र तस्यापि गुरुत्वाधिकरणतया ऊर्ध्वगमने गुरुत्वरहितं निमित्तान्तरं वाच्यम्। न चात्र अग्नेरूर्ध्वज्वलनस्वभावतया तत्संयोगात् तृणादीनामूर्ध्वगमनम्, इन्धनविशेषाभावेन ऊर्ध्वज्वलनासम्भवात्, तदनुपलब्धेश्च। न चान्यस्यात्र सामर्थ्यमिति वायुसम्बन्धात् तृणादीनामूर्ध्वगमनमिति ज्ञायते।तस्य तिर्यग्गतिशीलतया नोर्ध्वं गमनम्, अन्तरालेऽन्यथा सम्भाव्यत इति वाय्वन्तरेण प्रतिबन्धः। तथा हि वायुर्बलीयाना अपरेण च बलीयसा प्रतिबन्धात् सन्निपातात् स्वां गतिं विरहय्योर्ध्वं गच्छति। तत्संयोगाच्च तृणादीनामूर्ध्वगमनमिति सिद्धं तृणादीनामूर्ध्वगमनेन वायोरूर्ध्वगमनम्। तेन च सन्निपातः। तस्मान्नानात्वमिति ।
अथ प्राणाख्याय वायोरुपलभ्यमानस्पर्शाधिष्ठानतया विषयान्तर्भावेऽपि प्राधान्यज्ञापनार्थं विशिष्टार्थक्रियाकारितया पृथगभिधानम्। तथा तत्त्वज्ञानिनो योगाभ्यासे प्रवर्तमानस्य प्राणोऽत्यन्तमुपकारीति पृथगुच्यत इत्याह * प्राणोऽन्तःशरीरे रसमलधातूनां प्रेपणादिहेतुः * इति। तथा ह्यन्तःशरीरे वर्तमानत्वात् प्राण इत्युक्ते रसादिभिर्व्यभिचारः, तगर्थं रसमलधातूनां प्रेरणादुहेतुरिति। तथापि रसादिप्रेरणहेतुत्वात् प्राण इत्युक्तेऽदृष्टादिषु व्यभिचारः, तदर्थम् अन्तःशरीरे वर्तमान इति। न चादृष्टाजयोऽन्तःशरीरे वर्तन्तेऽदृष्टस्य चात्मवृत्तित्वाद्, ईश्वरस्य चावृत्तिमत्त्वादिति।तदेवमन्तःशरीरे वर्तमानो रसादिप्रेरणहेतुत्वाद् इतरस्माद् भिद्यते, प्राण इति वाव्यवहर्त्तव्यः।
यद् वा वायुसामान्यलक्षणानुवृत्तौ सत्यमन्तःशरीरे वर्तमानत्वाद् रसादिप्रेरणहेतुत्वाच्च प्राण इत्युक्ते वयभिचाराभावः।
अथासौ किमेकोष़नेक इत्याह * एकः सन् क्रियाभेदाद् अपानादिसंज्ञां लभते * इति। अथ वास्तवभेदः कस्मान्नेष्यते ? तथा हि पञ्च वायवः शरीरे यदि व्याप्त्या वर्तन्ते तदा सम्बन्धादेको वायुर्भवतीति पञ्चवनिवृत्तिः। अथाव्याप्त्या, तथाप्येकेन शरीरस्य व्यापनादरेषामसम्भव इति मन्यमानः क्रियाभेदेन भेदमाह। स एव मुखनासिकाभ्यां निष्क्रमणशीलो वायुः प्राणाख्यः। अधोनयनान्मलादेरपानः। समं नयनात् समानः। ऊर्ध्वं नयनादुदानः। विविधमनेकप्रकारेण नयनाद् व्यान इति।।
इति वायुवैधर्म्यम् %
इदहेदानीं चतुर्णां महाभूतानां सृष्टिसंहारविधिरुच्यते। ब्राह्मेण मानेन वर्षशतस्यानते वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारखिन्नानां सर्वप्राणिनां निशि विश्रामार्थं सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षानिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः। तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिंश्च सति पूर्वपूर्वस्य विनाशः। ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धाश्चात्मानस्तावन्तमेव कालम्। %
ततः पुनः प्राणिनां भोगभतये महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवरपरमाणुषु कर्मोत्पत्तौ तेषां पूर्वदिशा परस्परसंयोगेभ्यो द्व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति। %
तदनन्तरं तस्मिन्नेवाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति। तदनन्तरं तस्मिन्नेव जलनिधौ पार्थिवेभ्यः परमाणुभ्यो द्व्युकादिप्रक्रमेण महापृथिवी समुत्पन्ना संहता अवतिष्ठते। %
तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्योऽणुभ्यो द्व्यणुकादिप्रक्रमेणोत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति। एवं समुत्पन्नेषुचतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमुत्पद्यते। %
तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणंसकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते। स च महेश्वरेण विनियुक्तो ब्रह्मा अतिश.ज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मावुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपदतश्चतुरो वर्णान् अन्यानि चोच्चावचानि च सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीति। %
सृष्टिसंहारविधिः %
अथेदानीं भूतानां परीक्षाशेषनिवर्तनद्वारेणेश्वरपरीक्षार्थं * चतुर्णाम् * इत्यादिप्रकरणम्। तथा हि भूतानामुद्देशानन्तरं पूर्वप्रकरणेषु लक्षणपरीक्षाभिधानेऽपि सृष्टिसंहारविधिर्नोक्तः। तथेश्वर ऊर्ध्वं नमस्कारव्याजेनोद्दिष्टो लक्षणतश्च, प्रधानत्वाद् धर्मपरीक्षामन्तरेण परीक्षितुं न शक्यत इति प्रकरणारम्भः। सृष्टिसंहारविधिश्च तुल्यतयैकस्मिन्नेव प्रकरणेऽभिधीयते। प्रतिप्रकरणाभिधाने तु प्रकरणचतुष्टयमेतावत् स्यादिति सङ्ग्रहरूपताव्याघातः।
नन्वेवं वैधर्म्यावसरे साधर्म्यप्रतिपादनमन्याय्यम् ? न। प्रत्येकं भूतेषु सृष्टिसंहारविधेर्वैलक्षण्येऽपि एकत्राभिधानात् साधर्म्यज्ञानम्, न परमार्थतः। न च वैधर्म्येऽभिधीयमाने यद् यत् साधर्म्यं तस्य प्रतिषेधः। यथा पृथिव्यादीनां परमाणुकार्यरूपतया द्वैविध्यम्। कार्यञ्च शरीरादित्रयं परस्परवैलक्षण्याद् वैधर्म्येऽपि न साधर्म्यरूपतां विजहातीति।।
अथ चतुर्णाम् इत्युक्ते न ज्ञायते केषाम् अतो * महाभूतानाम् * इति महद्ग्रहणम् अणुव्यवच्छेदार्थम्। नन्वेवं द्व्यणुकस्यापि सृष्टिसंहारवतो व्यवच्छेदः स्यात् ? न । महदारम्भकत्वेन तस्यापि महच्छब्दवाच्यत्वात्। तथाहि, द्व्यणुकादिप्रक्रमेणोत्पत्तिविधानात् संहारस्य च परमाण्वन्तस्य द्व्यणुकेऽपि सृष्टिसंहारविधौ प्रतिज्ञा कार्यैव। सा चैवं कृता स्यात्। तथापि महाभूतानामित्युक्ते न ज्ञायते कियतामिति, तथापि चतुर्णां भूतानामित्युक्ते न ज्ञायते केषामतः * पृथिव्यादीनाम् * इति लभ्यते। न चाकाशस्य एतद्व्याख्यानावसरसंगत्या अस्त्ववसरः। तदेवं चतुर्णां महाभूतानां सृष्टिसंहारयोर्विधिः प्रकारस्तावेवाभिधीयेते अनेनेति। विधिः प्रमाणं ताभ्यां वा प्रमाणभूताभ्यां विधिर्विधाता कर्त्तोच्यत इत्यावर्त्त्यमानम् अनेकार्तमेतदेव वाक्यम्।
तद् * बाह्मेण मानेन * इत्यादिना संहारविधेर्व्याख्यानं क्रमातिक्रमेणादौ संसारस्यानादित्वज्ञापनार्थम्। तथाहि, संहारात् पूर्वं सृष्टिर्लभ्यते ततोऽपि लंहार इत्यनादित्वम्। स च संहारः कथं भवतीत्याह * महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः * इति। तेषां शरीरेन्द्रियाणामारम्भकेष्वणुषु द्रव्यारम्भकसंयोगनिवृत्तौ द्व्यणुकविनाशे तदारब्धस्यापि निवृत्तिरित्याह महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रि.कारणाणुविभागेभ्यः, परमाणुर्यावत् तावद् विनाश इति। द्रव्यारम्भकसंयोगनिवृत्तिः स्वकारणाणुविभागेभ्यः ते च महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः। तथाहि, महेश्वरेच्छा निमित्तकारणम्। आत्मनाम् अणुभिः संयोगश्च असमवायिकारणम्। अण्वस्तु समवायिन इत्यणुषु कर्माण्युत्पद्यन्ते। कस्मिन्नवसर इत्याह [ * सर्वात्मगतादृष्टानाम् * ] सर्वात्मसु गताश्च तेऽदृष्टाश्च तेषाम्। किंविशिष्टानाम् ? [* शरीरेन्द्रियमहाभूतोपनिबन्धकानाम् *]शरीरेन्द्रियमहाभूतान्युपनिबध्यन्ते सम्पाद्यन्ते यैस्तेषाम्। वृत्तिः फलदानसामर्थ्यम्। तस्योपभोगाद् युगपन्निरोधे विनाशे सति। स च * सञ्जिहीर्षासमकालम् * यदा हि सकलभुवनपतेर्महेश्वरस्य संहर्त्तुमिच्छा सम्पाद्यते। सा च किमर्थम् ? [* संसारखिन्नानाम् * ] प्राणिनां संसारे शररोपादानपरित्यागद्वारेण खिन्नानां निशि रात्राविव विश्रामार्थम्। यथा हि शरीरव्यापारादहनि खिन्नानां तदभावाद् रात्रौ विश्रामस्तथेहापीति।
कदा च सञ्जिहीर्षा ? * ब्रह्मणोऽपवर्गकाले *। यदा हि अधिकारसमाप्तौ ब्रह्मा अपवृज्यते। स च वर्षशतावसाने वर्तमानस्य ब्रह्मणो भवतीति। केन मानेनेत्याह [* ब्राह्मेण * ] ब्रह्मण इदं ब्रह्मं तेनेति। तत्पुनः
दिव्यं द्वादशसाहस्त्रं कल्पं विद्धि चतुर्युगम्।
एतत् सहस्त्रपर्यन्तं तदहब्पाह्ममुच्यते।।
इत्येवंविधैर्दिनैर्मासादयोऽपि वक्तव्या इति मानम्।
एवं यथा ब्रह्मणोऽपवर्गकाले महेश्वरस्य सञ्जिहीर्षासमकालं विशिष्टादृष्टानां वृत्तिनिरोधे सति शरीरेन्द्रियाणां विनाशस्तथा * पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैव क्रमेण * इति।
परमाणुषु कर्मोत्पत्तौ विभागेभ्यः सत्संयोगनिवृत्तिद्वारेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाश इत्युत्पत्त्यपेक्षया। यद् यत् पूर्वमुत्पन्नं तत्तद् उत्तरस्मिन्नुत्तरस्मिन् विद्यमाने सति विनश्यतीति। तथाहि, उत्तरस्मिन् सति पूर्वं वायोर्विनाशस्तदनन्तरमुदकस्येत्यादि।
अन्ये तु एतद्वाक्यं पाठापेक्षयैव विवक्षितमिति मन्यन्ते। तथाहि, यथाशरीरेन्द्रियाणां विनाशस्तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानां विनाशोऽनेनैव क्रमेणेति पाठक्रमेण, न क्रमान्तरेणेति। एवञ्च शरीरेन्द्रियमहाभूतानां विनाशे तदाश्रितानां गुणकर्मणामपि विनाशः। ततः प्रविभक्ताः कार्यानाधाराः परमाणवोऽवतिष्ठन्ते। तथा न परं परमाणवो धर्माधर्मसंस्कारैरनुविद्धाः सम्बद्धा आत्मानश्चावतिष्ठन्ते।
अथान्येषामपि सामान्यादीनामवस्थाने किमर्थं विशेषाभिधानमिति चेत्, द्रव्यविनाशस्य परमाण्वन्ततताज्ञापनार्थम्। आत्मनाञ्च धर्मादिविनाशकारण [त्व] भावाद् धर्माधर्मसंस्कारानुविद्धानामवस्थानम्, न केवलानामिति। अन्यथा हि निमित्ताभावात् पुवरुत्पत्तिर्न स्यात्।
अथ कियन्तं कालमेवमवस्थानमित्याह * तावन्तमेव कालम् * इति। ब्राह्मेण मानेन वर्षशतं यावदिति।।
ततःपुनर्वर्षशतान्तेऽपि विश्रामप्रापकादृष्टनिवृत्तौ प्राणिनां कर्मविपाकोपलम्भात् * भोगभूतये * भोगभूत्यर्थम्। महेश्वरस्य * सिसृक्षा * स्त्रष्टुमिच्छा सम्पद्यते। तदनन्तरं पवनपरमाणुषु समवेतानि कर्माण्युत्पद्यन्ते। केभ्यः कारणेभ्य इत्याह * तत्संयोगेभ्यः * । तेषां भोगिनां संयोगाः परमाणुभिस्तेभ्य इत्यसमवायिकारणनिर्देशः। ते च कर्मारम्भे सापेक्षा इत्याह * सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यः * इति। सर्वात्मसु भोगिषु गताः सर्वात्मगतस्ते च ते वृत्तिलब्धादृष्टाश्चेति। वृत्त्या सहकारिकारणेन लब्धाश्च तेऽदृष्टाश्चेति तथोक्तस्तानपेक्ष्यन्त इति तदपेक्षास्तेभ्य इति। न तु वृत्तिर्लब्धा यैरिति व्याख्यानम्, अत्र निष्ठान्तस्य पूर्वनपातप्रसङ्गात्।।
अथ कासौ वृत्तिरदृष्टानां सहकारिकारणम् ? विश्रामप्रापकादृष्टाभावोपलक्षितः कालविशेषः, तत्सद्भावे कार्यकारणात्। तथाहि, ब्राह्ममानेनापरिपूर्णे वर्षशते विश्रामप्रापकादृष्टस्य प्रतिबन्धकस्य भावादुपभोगप्रापकादृष्टसद्भावेऽपि सृष्टिर्न भवति। परिपूर्णे तु वर्षशते विशिष्टादृष्टाभावादुपभोगप्रापकादृष्टानां सृष्ट्यै व्यापार इति प्रतिबन्धकाभावविशिष्टः कालो वृत्तिस्तेषामिति ज्ञायते। महेश्वरस्यापि तत्सद्भाव एव सिसृक्षा भवतीति।
तदेवं पवनपरमाणुषु कार्योत्पत्तौ सत्यामनन्तरं विभागः। तस्मात् संयोगनिवृत्तौ तेषां परमाणुनां परस्परसंयोगेभ्यो द्व्यणुकान्युत्पन्नानि त्र्यणुकान्यारभन्त इत्यादिक्रमेण महान् वायुः समुत्पन्नो नभस्याकाशे दोधूयमान इत्यतिशयेन कम्पमानस्तिष्ठन्ति। स चादावुत्पन्नोऽतिशयवेगसम्बन्धाद् गुरुत्ववतामपातहेतुर्भवति। दृष्टञ्च वायोः पर्णादि[पतन] प्रतिबन्धे सामर्थ्यम्। अयञ्चातिशयेन महत्त्वे सति वेगसम्बन्धाद् उदधिसहितां पृथिवीं तृणमिव धारयत इति न चित्रम्।
* तदनन्तरम् * वायूत्पत्त्यनन्तरम्, * तस्मिन्नेव * वायावधिकरणभूत एवेति। * आप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण * इति। कर्मोत्पत्तिद्वारेण विभागेभ्यः संयोगनिवृत्तौ परस्परसंयोगेभ्यो द्व्यणुकान्युत्पद्यन्ते, ततस्त्रेयणुकमिति क्रमेण। * महान् सलिलनिधिः * समुद्रः समुत्पन्नः, * पोप्लूयमानः * अत्यर्थं प्लवमानस्तिष्ठति।
* तदनन्तरम् * सलिलोत्पत्त्यनन्तरम्, * तस्मिन् * सलिलनिधावधिकरणे, * पार्थिवेभ्यः परमाणुभ्यः * पूर्वक्रमेण द्व्यणुकत्र्यणुकोत्पत्तिरिति। एवमादिक्रमेण महापृथिवी समुत्पद्यते। सा चोत्पन्ना * संहतावतिष्ठते *
* तस्मिन्नेव महादधौ * अधिकरणे तैजसेभ्यः परमाणुभ्यः पूर्ववद् द्व्णुकोत्पत्तिक्रमेणोत्पद्यते महांस्तेजोराशिः। स चोत्पन्नो देदीप्यमानोऽत्यर्थं प्रकाशमानस्तिष्ठति। न च तेजसो जलेन विरोधादाधाराधेयभावानुपपत्तिरिति वाच्यम्। आधाराधेयभावस्याप्युपलब्धेर्यथा वाडववरुणाविति।
अन्ये तु विरोधपरिहारार्थं तस्मिन्नेव महोदधाविति वाक्यं पृथिव्यां सम्बन्धयन्ति। तदनन्तरं तस्मिन् पृथिव्युत्पादे सति तैजसेभ्यः परमाणुभ्यो द्व्यणुकादिप्रक्रमेण महांस्तेजोराशिरिति।