सामग्री पर जाएँ

कल्किपुराणम्/अध्यायः १३

विकिस्रोतः तः

द्वितीय+अंशः) षष्ठो ऽध्यायः) सूत उवाच)

गते नृप-गणे कल्किः पद्मया सह सिंहलात्

शम्भलग्राम-गमने मतिं चक्रे स्वसेनया))1

ततः कल्केर् अभिप्रायम्ं विदित्वा वासवस् त्वरन्

विश्वकर्माणम् आहूय वचनञ् चे’दम् अब्रवीत्))2

इन्द्र उवाच)

विश्वकर्मञ् छम्भले त्वं गृहो’द्यान+अट्ट-घट्टितम्

प्रासादहर्म्य-संबाधं रचय स्वर्णसञ्चयैः))3

रत्न-स्फटिक-वैदूर्य-नानामणि-विनिर्मितैः

तत्रै’व शिल्पनैपुण्यं तव यच् च+अस्ति तत् कुरु))4

श्रुत्वा हरेर् वचो विश्व-कर्मा शर्म निजं स्मरन्

शम्भले कमलेशस्य स्वस्त्य्-आदि-प्रमुखान् गृहान्))5

हंस-सिंह-सुपर्ण+आदि-मुखांश् चक्रे स विश्वकृत्

उपर्युपरि तापघ्नवातायनमनोहरान्))6

नाना-वन-लता+उद्यान-सरोवापीसुशोभितः

शम्भलश् च+अभवत् कल्केर् यथे’न्द्रस्य+अमरावती))7

कल्किस् तु सिंहलाद् द्वीपाद् बहिः सेनागणैर् वृतः

त्यक्त्वा कारुमतीं कूले पाथोधेर् अकरोत् स्थतिम्))8

बृहद्रथस् तु कौमुद्या सहितः स्नेह-कातरः

पद्मया सहितायास्मै पद्मानाथाय विणवे))9

ददौ गजानाम् अयुतं लक्षं मुख्यञ् च वाजिनाम् (वाजिनाम्= )

रथानाञ् च द्वि-साहस्रं दासीनां द्वे शते मुदा))10

दत्त्वा वासांसि रत्नानि भक्तिस्नेहाश्रुलोचनः

तयोर् मुखालोकनेन न+अशकत् किञ्चिद् ईरितुम्))11(अशकत्= )

महाविणुदम्पती तौ प्रस्थाप्य पुनर्-आगतः

पूजितः कल्किपद्माभ्यां निजकारूमतीं पुरीम्))12

कल्किस् तु जलधेर् अम्भो विगाह्य पृतना-गणैः

पारं जिगम् इषुं दृष्ट्वा जम्बुकं स्तम्भितो ऽभवत्))13

जलस्तम्भम् अथालोक्य कल्किः स-बल-वाहनः

प्रययौ पयसां राशेर् उपरि श्रीनिकेतनः))14

गत्वा पारं शुकं प्राह याहि मे शम्भलालयम्))15

विश्वकर्मकृतं यत्र देवराजाज्ञया बहु

सद्म सम्बाधम् अमलं मत् प्रियार्थं सुशोभनम्))16

तत्रापि पित्रोर् ज्ञातीनां स्वस्ति ब्रूयाद् यथो’चितम्

यदत्राङ्ग! विवाहादि सर्वं वक्तुं त्वम् अर्हसि))17

पश्चाद् यामि वृतस् त्व् एतैस् त्वम् आदौ याहि शम्भलम्))18

कल्केर् वचनम् आकर्ण्य कीरो धीरस् ततो ययौ

आकाश-गामी सर्वज्ञः शम्भलं सुरपूजितम्))19

सप्त-योजन-विस्तीर्णं चातुर्-वर्ण्य-जनाकुलम्

सूर्य-रश्मि-प्रतीकाशं प्रासादशतशोभितम्))20

सर्वर्तु-सुखदं रम्यं शम्भलं विह्वलो ऽविशत्))21

गृहाद् गृह+अन्तरं दृष्ट्वा प्रासादाद् अपि चाम्बरम्

वनाद् वन+अन्तरं तत्र वृक्षाद् वृक्ष+अन्तरं व्रजन्))22

शुकः स विष्णुयशसः सदनं मुदितो ऽव्रजत्

तं गत्वा रुचिरालापैः कथयित्वा प्रियाः कथाः))23

कल्केर् आगमनं प्राह सिंहलात् पद्मया सह))24

ततस् त्वरन् विष्णुयशाः समानार्यप्रजाजनान्

विशाखयूप-भूपालं कथयाम् आस हर्षितः))25

स राजा कारयाम् आस पुर-ग्रामादि मण्दितम्

स्वर्ण-कुंभैः सद्-अम्भोभिः पूरितैश् चन्दनो’क्षितैः))26

कालागुरु-सुगन्धाढ्यैर् दीपलाजाङ्कुराक्षतैः

कुसुमैः सुकुमारैश् च रम्भापूग-फलान्वितैः

शुशुभे शम्भलग्रामो विबुधानां मनोहरः))27

तं कल्किः प्राविशद् भीम-सेनागण-विलक्षणः

कामिनी-नयनानन्द-मन्दिराङ्गः कृपानिधिः))28

पद्मया सहितः पित्रोः पदयोः प्रणतो ऽपतत्

सुमतिर् मुदिता पुत्रं स्नुषां शक्रं शचीम् इव

ददृशे त्वमरावत्यां पूर्णकामा दितिः सती))29

शम्भलग्रामनगरी पताकाध्वज-शालिनी

अवरोधसुजघना प्रासादविपुलस्तनी

मयूर-चूचका हंस-संघहारमनोहरा))30

पटवासोद्योत-धूम-वसना कोकिल-स्वना

सहासगोपुरमुखी वामनेत्रा यथाङ्गना

कल्किं पतिं गुणवती प्राप्य रेजे तम् ईश्वरम्))31

स रेमे पद्मया तत्र वर्ष-पूगान् अज+आश्रयः)

शम्भले विह्वलाकारः कल्किः कल्क-विनाशनः))32

कवेः पत्नी कामकला सुषुवे परमेष्ठिनौ(सुषुवे= gave birth)

बृहत्कीर्ति-बृहद्बाहू महाबल-पराक्रमौ))33

प्राज्ञस्य सन्नतिभार्या तस्यां पुत्रौ बभूवतुः

यज्ञ-विज्ञौ सर्व-लोक-पूजितौ विजिते’न्द्रियौ))34

सुमन्त्रकस् तु मालिन्यां जनयाम् आस शासनम्

वेगवन्तञ् च साधूनां द्वावेतावृपकारकौ))35

ततः कल्किश् च पद्मायां जयो विजय एव च

द्वौ पुत्रौ जनयाम् आस लोक-ख्यातौ महा-बलौ))36

एतैः परिवृतो ऽमात्यैः सर्व-सम्पत्-समन्वितौ

वाजिमेधविधानार्थम् उद्यतं पितरं प्रभुः))37

समीक्ष्य कल्किः प्रोवाच पितामहमिवेश्वरः

दिशां पालान् विजित्या’हं धनान्याहृत्य इत्य् उत))38

कारयिष्याम्य् अश्वमेधं यामि दिग्-विजयाय भोः!))39

इति प्रणम्य तं प्रीत्या कल्किः परपुरञ्जयः

सेनागणैः परिवृतः प्रययौ कीकटं पुरम्))40

बुद्ध+आलयं सुविपुलं वेद-धर्म-बहिष्कृतम्

पितृ-देव+अर्चनाहीनं परलोक-विलोपकम्))41

देहात्मा-वाद-बहुलं कुल-जाति-विवर्जितम्

धनैः स्त्रीभिर् भक्ष्य-भोज्याः स्व-पर-अ-भेद-दर्शिनम्))42

नाना-जनैः परिवृतं पान-भोजन-तत्परैः))43

श्रुत्वा जिनो निज-गणैः कल्केर् आगमनं क्रुधा

अक्षौहिणीभ्यां सहितः संबभूव पुराद् बहिः))44

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – ||

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – υ – – ||metre follows:

गज-रथ-तुरगैः समाचिता भूः) कनक-विभूषण-भूषितैर् वराङ्गइः)

शत-शत-रथिभिर् धृता’स्त्र-शस्त्रैर्) ध्वजपटराजि-निवारितातपैर् बभौ सा))45

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे बुद्ध-निग्रहे कीकट-पुर-गमनं नाम षष्ठो ऽध्यायः))6