सामग्री पर जाएँ

कल्किपुराणम्/द्वितीयांश

विकिस्रोतः तः

द्वितीयांशः))

प्रथमो ऽध्यायः) page80)

सूत उवाच

इति पद्मावचः श्रुत्वा कीरो धीरः सतां मतः

कल्कि-दूतः सखी-मध्ये स्थितां पद्माम् Άथ+अब्रवीत्))1

वद पद्मे साङ्ग-पूजां हरेर् अद्भुत-कर्मणः

यामास्थाय विधानेन चरामि भुवन-त्रयम्))2

पद्मो’वाच)

एवं पादादि केशान्तं ध्यात्वा तं जगद्-ईश्वरम्

पूर्णात्मा देशिको मूलं मन्त्रं जपति मन्त्रवित्))3

जपादनन्तरं दण्ड-प्रणतिं मतिमांश् चरेत्

विष्वक्-सेनादिकानान्तु दत्त्वा विष्णु-निवेदितम्))4

तत उद्वास्य हृदये स्नापयेन् मनसा सह

नृत्यन् गायन् हरेर् नाम तं पश्यन् सर्वतः स्थितम्))5

ततः शेषं मस्तकेन कृत्वा नैवेद्य-भुग्भवेत्

इत्य् एतत् कथितं कीर! कमला-नाथ-सेवनम्))6

सकामानां कामपूरम् अकाम+अमृत-दायकम्

श्रोत्र+आनन्द-करं देव-गन्धर्व-नर-हृत्-प्रियम्))7

शुक उवाच)

समीरितं श्रुतं साध्वि भगवद्-भक्ति-लक्षणम्

त्वत् प्रसादात् पापिनो मे कीरस्य भुवि मुक्तिदम्))8

किन्तु त्वां काञ्चनमयीं प्रतिमां रत्न-भूषिताम्

सजीवाम् इव पश्यामि दुर्लभां रूपिणीं श्रियम्))9

नान्यां पश्यामि सदृशीं रूप-शील-गुणैस् तव

नान्यो योग्यो गुणी भर्ता भुवने ऽपि न दृश्यते))10

किन्तु पारे समुद्रस्य परमाश्चर्यरूपवान्

गुणवान् ईश्वरः साक्षात् कश्चिद् दृष्तो ऽतिमानुषः))11

न हि धातृ-कृतं मन्ये शरीरं सर्व-सौभगम्

यस्य श्री-वासुदेवस्य नान्तरं ध्यान-योगतः))12

त्वया ध्यातं तु यद् रूपं विष्णोर् अमित-तेजसः

तत् साक्षात् कृतम् इत्य् एव न तत्र कियदन्तरम्))13

पद्मो’वाच)

ब्रूहि तन् मम किं कुत्र जातः कीर परावरम्

जानासि तत्कृतं कर्म विस्तरेणात्र वर्णय))14

वृक्षादागच्छ पूजां ते करोमि विधिबोधिताम्

बीजपूर-फलाहारं कुरु साधु पयः पिव))15

तव चंचुयुगं पद्म-रागाद् अरुणम् उज्ज्वलम्

रत्न-संघट्टितम् अहं करोमि मनसः प्रियम्))16

कन्धरं सूर्य-कान्तेन मणिना स्वर्ण-घट्टिना

करोम्य् आच्छादनं चारु-मुक्ताभिः पक्षतिं तव))17

पतत्त्रं कुंकुमेन+अंगं सौरभेण+अतिचित्रितम्

करोमि नयन+आनन्द-दायकं रूपमीदृशम्))18

पुच्छयच्छ-मणिव्रात-घर्घरेण+अतिशब्दितम्

पादयोर् नूपुरालाप-लापिनं त्वां करोम्य् अहम्))19

तव+अमृतकथाव्रातत्यक्ताधिं शाधि माम् इह

सखीभिः संगिताभिस् ते किं करिष्यामि तद् वद))20

इति पद्मा वचः श्रुत्वा तदन्तिकम् उपागतः


कीरो धीरः प्रसन्नात्मा प्रवक्तुम् उपचक्रमे))21

कीर उवाच)

भ्रह्मणा प्रार्थितः श्रीशो महाकारुणिको बभौ

शंभले विष्णुयशसो गृहे धर्म-रिरक्षिषुः))22

चतुर्भिर् भ्रातृभिर् ज्ञाति-गोत्रजैः परिवारितः

कृतो’पनयनो वेदमधीत्य राम-सन्निधौ))23 (=परशुराम)

धनुर्-वेदञ् च गान्धर्वं शिवाद् अश्वम् असिं शुकम्

कवचञ् च वरं लब्धा शम्भलं पुनर्-आगतः))24

विशाखयूप-भूपालं प्राप्य शिक्षा-विशेषतः

धर्मान् आख्याय मतिमान् अधर्मांश् च निराकरोत्))25

इति पद्मा तद् आख्यानं निशम्य मुदितानना

प्रस्थापयामास शुकं कल्केर् आनयनादृता))26

भूषयित्वा स्वर्ण-रत्नैस् तम् उवाच कृताञ्जलिः))27

पद्मो’वाच)

निवेदितं तु जानासि किम् अन्यत् कथयाम्य् अहम्

स्त्रीभाव-भयभीतात्मा यदि नायाति स प्रभुः))28

तथापि मे कर्मदोषात् प्रणतिं कथयिष्यसि

शिवेन यो वरो दत्तः स मे शापो ऽभवत् किल))29

पुंसां मद् दर्शनेन+अपि स्त्रीभावं कामतः शुक

श्रुत्वेति पद्माम् आमन्तृय प्रणम्य च पुनः पुनः))30

उड्दीय प्रययौ कीरः शम्भलं कल्कि-पालितम्

तम् आगतं समाकर्ण्य कल्किः परपुरञ्जयः))31

क्रोडे कृत्वा तं ददर्श स्वर्ण-रत्न-विभूषितम्

सानन्दं परमानन्द-दायकं प्राह तं तदा))32

कल्किः परम-तेजस्वी परस्मिन्नमलं शुकम्

पूजयित्वा करे स्पृष्ट्वा पयः पानेन तर्पयन्))33

तन्-मुखे स्व-मुखं दत्त्वा पप्रच्छ विविधाः कथाः

कस्माद् देशाच् चरित्वा त्वं दृष्ट्वापूर्वं किम् आगतः))34

कुत्रोषितः कुतो लब्धं मणि-काञ्चन-भूषणम्

अहर्निशं त्वन् मिलनं वाञ्छितं मम सर्वतः))35

तवानालोकनेन+अपि क्षणं मे युगवद्भवेत्))36

इति कल्केर् वचः श्रुत्वा प्रणिपत्य शुको भृशम्

कथयाम् आस पद्मायाः कथाः पूर्वो’दिता यथा))37

संवादम् आत्मनस् तस्या निजालङ्कारधारणम्

सर्वं तद् वर्णयाम् आस तस्याः प्रणतिपूर्वकम्))38


श्रुत्वेति वचनं कल्किः शुकेन सहितो मुदा

जगाम त्वरितो ऽश्वेन शिव-दत्तेन तन्मनाः))39

समुद्र-पारम् अमलं सिंहलं जलसंकुलम् («=सिंहलद्वीप»)

नाना-विमान-बहुलं भास्वरं मणि-काञ्चनैः))40

प्रासादसदनाग्रेषु पताका-तोरणाकुलम्

श्रेणी-सभा-पणाट्ताल-पुर-गोपुर-मण्दितम्))41

पुरस्त्री-पद्मिनी-पद्मगन्धा-मोद-द्विरेफिणीम्

पुरीं कारुमतीं तत्र ददर्श पुरतः स्थिताम्))42

मराल-जाल-सञ्चाल-विलोल-कमलान्तराम्

उन्मीलित+अब्ज-मालालि-कलिताकुलितं सरः))43 (written andउन्मीलितानि मालानि )

लजकुक्कुट-दात्यूह-नीदितं हंस-सारसैः

ददर्श स्वच्छ-पथसां लहरीलोलवीजितम्))44

वनं कदम्ब-कुद्दाल-शाल-ताल+आम्र-केसरैः

कपित्थ+अश्वत्थ-खर्जूर-बीजपूर-करंजकैः))45

पुन्नाग-पनसैर् नागरङ्गैर् अर्जन-शिंशपैः («=नरंगी») («=अर्जुन»)

क्रमुकैर् नारिकेलैश् च नाना-वृक्षैश् च शोभितम् («=नारियल»)

वनं ददर्श रुचिरं फल-पुष्प-दल+आवृतम्))46

दृष्ट्वा हृष्ट-तनुः शुकं सकरुणः कल्किः पुरान्ते वने)

प्राह प्रीतिकरं वचो ऽत्र सरसि स्नानव्यमित्यादृतः)

तच् छ्रुत्वा विनयान्वितः प्रभुमतं यामीति पद्माश्रमं)

तत्सन्देशम् इह प्रयाणमधुना गत्वा स कीरो ऽवदत्))47

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे कल्केर् आगमनवर्णनं नाम प्रथमो ऽध्यायः))1


द्वितीयांशः) द्वितीयो ऽध्यायः) सूत उवाच)

कल्किः सरोवर+आभ्यासे जलाहरगवर्त्मनि

स्वच्छ-स्फटिक-सोपाने प्रवालाचितवेदिके))1

सरोज-सौरभ-व्यग्र-भ्रमद्भ्रमरनादिते

कदम्ब-पोतपत्रालि-वारित-आदित्य-दर्शने))2

समुवासासने चित्रे सदश्वेनावतारितः

कल्किः प्रस्थापयाम् आस शुकं पद्माश्रमं मुदा))3

स नागेश्वर-मध्य-स्थः शुको गत्वा ददर्श ताम्

हर्म्यस्थां बिसिनीपत्र-शायिनीं सखीभिर् वृताम्))4

निश्वासवाततापेन म्लायतीं वदन+अम्बुजम्

उत्क्षिपन्तीं सखीदत्त-कमलं चन्दनो’क्षितम्))5

रेवा-वारिपरिस्नातं परागास्यं समागतम् (written also «परागाढ्यां»)

धृतनीरं रसगतं निन्दन्तीं पवनं प्रियम्))6

शुकः स-करुणः साधु-वचनैस् ताम् अतोषयत्

सा) त्वमेह्येहि) ते स्वस्ति स्वागतं? स्वस्ति मे शुभे!))7

गते त्वय्य् अतिव्यग्राहं शान्तिस् ते ऽस्तु रसायनात्

रसायनं दुर्लभं मे) सुलभं ते शिवाश्रमे))8

क्व मे भाग्य-विहीनाया इहैव वरवर्णिनि

देवि! तं सरसस्तीरे प्रतिष्थाप्यागता वयम्))9

एउअमन्योन्यसंवाद-मुदितात्म-मनोरथे

मुखं मुखेन नयनं नयने सादृता ददौ))10

विमला मालिनी लोला कमला कामकन्दला

विलासिनी चारुमती कुमुदे’त्य् अष्ट-नायिकाः))11

सख्य एता मतास् ताभिर् जल-क्रीडार्थमुद्यता

पद्मा प्राह) सरस्तीरम् आयान्त्व् एता मया स्त्रियः))12

इत्य् आख्यायाशु शिबिकाम् आरुह्य परिवारिता

सखीभिश् चारुवेशाभिर् भूत्वा स्वान्तः पुराद् बहिः

प्रययौ त्वरितं द्रष्तुं भैष्मी यदु-पतिं यथा))13 («=रुक्मिणी»)

जनाः पुमांसः पथि ये पुरस्थाः) प्रदुद्रुवुः स्त्रीत्वभयाद् दिगन्तरम्) शृङ्गाटके वा विपणिस्थिता ये) निजाङ्गगास्थापित-पुण्यकार्याः))14

निवारितां तां शिबिकां वहन्त्यो) नार्यो ऽतिमत्ता बलवत्तराश् च)

पद्मा शुको’क्त्या तद् उपर्युपस्था) जगाम ताभिः परिवारिताभिः))15

सरोजलं सारस-हंस-नादितं) प्रफुल्ल-पद्मो’द्भव-रेणु-वासितम्)

चेरुर्विगाह्याशु सुधाकरालसाः) कुमुद्वतीनामुदयाय शोभनाः))16

तासां मुखामोदमदान्ध-भृङ्गा) विहाय पद्मानि मुख+अरविन्दे)

लग्नाः सुगन्धाधि-कमाकलय्य) निवारिताश् च+ अपि न तत्यजुस् ते))17

हासोपहासैः सरसप्रकाशैर्) वाद्यैश् च नृत्यैश् च जले विहारैः)

करग्रहैस् ता जलयोधनार्ताश्) चकर्षताभिर् वनिताभिर् उच्चैः))18

सा काम-तप्ता मनसा शुको’क्तिं) विविच्य पद्मा सखिभिः समेता)

जलात् समुत्थाय महार्ह-भूषा)

जगाम निर्दिष्ट-कदम्ब-षण्डम्))19 (निर्दिष्ट= shown, suggested)

मुखे शयानं मणिवेदिकागतं) कल्किं पुरस्ताद् अतिसूर्यवर्चसम्)

महामणिव्रातविभूषणाचितं) शुकेएन सार्धं तमुदैक्षतेशम्))20

तमाल-नीलं कमला-पतिं प्रभुं) पीताम्बरं चारु-सरोज-लोचनम्)

आजानुबाहुं पृथुपीनवक्षसं) श्रीवत्स-सत्कौस्तुभ-कान्तिराजितम्))21

तद् अद्भुतं रूपम् अवेक्ष्य पद्मा) सस्तम्भिता विस्मृत-सत्क्रियार्था)

सुप्तं तु संबोधयितुं प्रवृत्तं) निवारयाम् आस विशङ्कितात्मा))22

कदाचिद् एषो ऽतिबलो ऽतिरूपी) मद् दर्शनात् स्त्रीत्वम् उपैति साक्षात्)

तद+अत्र किं मे भविता भवस्य) वरेण शाप-प्रतिमेन लोके))23

चराचर+आत्मा जगताम् अधीशः) प्रबोधितस् तद् धृदयं विविच्य)

ददर्श पद्मां प्रिय-रूप-शोभां) यथा रमा श्री-मधुसूदनाग्रे))24

संवीक्ष्य मायाम् इव मोहिनीं तां) जगाद कामाकुलितः स कल्किः)

सखीभिरीशां समुपागतां तां) कटाक्ष-विक्षेपविनामितास्याम्))25

इहैहि सुस्वागतम् अस्तु भाग्यात्) समागमस् ते कुशलाय मे स्यात्)

तव+अनने’न्दुः किल कामपूरत+अपाप-नोदाय सुखाय कान्ते!))25

लोलाक्षि! लावण्य-रसामृतं ते) कामाहिदष्टस्य विधातुरस्य)

तनोतु शान्तिं सुकृतेन कृत्या) सुदुर्लभां जीवनम् आश्रितस्य))27

बाहू तवै’तौ कुरुतां मनोज्ञौ) हृदि स्थितं काममुदन्तवासम्)

चार्व्-आयतौ चारु-नख+अङ्कुशेन) द्विपं यथा सादिविदीर्ण-कुम्भम्))28

स्तनाव् इमाव् उत्थित-मस्तकौ ते) काम-प्रतोदाव् इव वाससाक्तौ)

ममोरसा भिन्न-निज+अभिमानौ) सुवर्तुलौ व्यादिशतां प्रियं मे))29

कान्तस्य सोपानम् इदं वलित्रयं) सूत्रेण लोमावलिलेखलक्षितम्)

विभाजितं वेदिविलग्नमध्यमे!) कामस्य दुर्गाश्रयम् अस्तु मे प्रियम्))30

रम्भोरु! सम्भोगसुखायमे स्यान्) नितम्बबिम्बं पुलिनोपमं ते)

तन्वङ्गि! तन्व्-अंशुकसंगशोभं) प्रमत्तकामाविमदो’द्यमालम्))31

पादाम्बुजं ते ऽङ्गुलि-पत्र-चित्रितं) वरं मरालक्वण-नूपुरावृतम्)

कामाहिदष्टस्य ममास्तु शान्तये) हृदि स्थितं पद्मघने सुशोभने))32

श्रुत्वै’तद् वचन+अमृतं कलिकुलध्वंसस्य कल्केर् अलं)

दृष्ट्वा सत्पुरुषत्वमस्य मुदिता पद्मा सखीभिर् वृता)

कान्तं क्लान्तमना कृताञ्जलिपुटा प्रोवाच तत्सादरम्)

धीरं धीरपुरस्कृतं निजपतिं नत्वा नमत्कन्धरा))33

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांसे पद्मा-कल्कि-साक्षात्-संवादो नाम द्वितीयो’ध्यायः))2

द्वितीया’ंशः) तृतीयो’ऽध्यायः)

सूत उवाच)

सा पद्मा तं हरिं मत्वा प्रेमगद्गदभाषिणी

तुष्टाव व्रीडिता देवी करुणा-वरुणालयम्))1

प्रसीद जगतां नाथ्Ά! धर्म-वर्मन्! रमापते!

विदितो ऽसि विशुद्ध+आत्मन्! वशगां त्राहि मां प्रभो!

धन्या ऽहं कृत-पुण्या ऽहं तपो-दान-जप-व्रतैः

त्वां प्रतोष्य दुर्-आराध्यं लब्धं तव पदाम्बुजम्))3

आज्ञा कुरु पदाम्भोजं तव संस्पृश्य शोभनम्

भवनं यामि राजानम् आख्यातुं स्वागतं तव))4

इति पद्मा रूपसद्मा गत्वा स्वपितरं नृपम्

प्रोवाच+आगमनं कल्केर् विष्णोर् अंशस्य दौत्यकैः))5

सखीमुखेन पद्मायाः पाणि-ग्रहण-काम्यया

हरेर् आगमनं श्रुत्वा सहर्षो ऽभूद् बृहद्रथः))6

पुरोधसा ब्रह्मणैश् च पात्रैर् मित्त्रैः सुमङ्गलैः

वाद्य-ताण्डव-गीतैश् च पूजायोजनपाणिभिः))7

जगामा’नयितुं कल्किं सार्धं निजजनैः प्रभुः

मण्डयित्वा कारुमतीं पताका-स्वर्ण-तोरणैः))8

ततो जलाशय+अभ्यासं गत्वा विष्णुयशः-सुतम् (जलाशय= अभ्यास= )

मणिवेदिकयासीनं भुवनै’क-गतिं पतिम्))9

घना घनोपरि यथा शोभन्ते रुचिराण्यहो

विद्युद् इन्द्रा’युधा’दीनि तथै’व भूषणान्युत))10

शरीरे पीतवास+अग्र-घोरभासा विभूषितम्

रूप-लावण्यसदने मदनोद्यमनाशने))11

ददर्श पुरतो राजा रूप-शील-गुणाकरम्

साश्रुः सपुलकः श्रीशं दृष्ट्वा साधु तम् अर्चयत्))12

ज्ञान+अगोचरम् एतन् मे तव+ आगमनम् ईश्वर!

यथा मान्धातृ-पुत्रस्य यदु-नाथेन कानने))13 (कानन= )

इत्य् उक्त्वा तं पूजयित्वा समानीय निजाश्रमे

हर्म्यप्रासादसंबाधे स्थापयित्वा ददौ सुताम्))14

पद्मां पद्मपलाशाक्षीं पद्मनेत्राय पद्मिनीम्

पद्मजादेशतः पद्म-नाभायादाद्यथाक्रमम्))15

कल्किर् लब्ध्वा प्रियां भार्यां सिंहले साधु-सत्कृतः

समुवास विशेषज्ञः समीक्ष्य द्वीपम् उत्तमम्))16

राजानः स्त्रीत्वम् आपन्नाः पद्मायाः सखितां गताः

द्रष्तुं समीयुस् त्वरिताः कल्किं विष्णुं जगत्पतिम्))17

ताः स्त्रियो ऽपि तम् आलोक्य संस्पृश्य चरण+अम्बुजम्

पुनः पुंस्त्वं समापन्ना रेवा-स्नानात् तद् आज्ञया))18

पद्मा-कल्की गौर-कृष्णौ विपरीतान्तराव् उभौ (गौर= )

बहिः स्फुटौ नील-पीत-वासोव्याजेन पश्यतु))19

दृष्ट्वा प्रभावं कल्केस् तु राजानः परम+अद्भुतम्

प्रणम्य परया भक्त्या तुष्टुवुः शरण+अर्थिनः))20

जय जय निज-मायया कल्पिता-शेष-विशेष-कल्पना-परिणाम!

जलाप्लुत-लोकत्रयोपकरणमाकलय्य मनुम् अनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर! त्वं निजकृत-धर्म-सेतु-संरक्षण-कृतावतारः))21(मत्स्य+अवतार is referred to)

पुनर् इह दितिज-बल-परिलङ्/घित-वासव-सूदनादृत-जितत्रिभुवन-पराक्रम-हिरण्याक्ष-निधन-पृथिव्य्-उद्धरण-संकल्प+अभिनिवशेन धृत-कोलावतारः पाहि नः))22(वराह+अवतार is referred to)

पुनर् इह जलधि-मथनादृत-देव-दानव-गण-मन्दर+अचलानयनव्याकुलितानां साहाय्येनादृतचित्तः पर्वतो’द्धरणामृत-प्राशनरचनावतारः कूर्माकारः प्रसीद परेश! त्वं दीन-नृपाणाम्))23 (कूर्मावतरः is referred to)

पुनर् इह त्रिभुवनजयिनो महाबल-पराक्रमस्य हिरण्यकशिपोर् अर्दितानां देववराणां भयभीतानां कल्याणाय दिति-सुत-वध-प्रेप्सुर्-ब्रह्मणो वरदानादवध्यस्य न शस्त्र+अस्त्र-रात्रि-दिवा-स्वर्ग-मर्त्य-पाताल-तले देव-गन्धर्व-किन्नर-नर-नागैर् इति विचिन्त्य नर-हरि-रूपेण नखाग्र-भिन्नोरुं दंष्ट्र-दन्तच्छदं त्यक्तासुं कृतवान् असि))24

पुनरिह त्रिजगज्जय्नो बलेः सत्रे शक्रानुजो बटुवामनो दैत्य-संमोहनाय त्रिपद-भूमियाच्ञाच्छलेन विश्व-कायस्-तद्-उत्सृष्ट-जल-संस्पर्श-विवृद्धमनोऽभिलाषस् त्वं भूतले बलेर् दौवारिकत्वम् अङ्गीकृतम् उचितं दानफलम्))25 (दौवारिक= )

पुनरिह हैहय+आदि-नृपाणाम् अमित-बल-पराक्रमाणां नाना-मदो’ल्लङ्/घित-मर्यादा-वर्त्मनां निधनाय भृगुवंशजो जामदग्न्यः पितृ-होम-धेनु-हरण-प्रवृद्धमन्युवशात्-त्रिसप्त-कृत्वो निःक्षत्रियां पृथिवीं कृतवान् असि परशुराम+अवतारः))26 (उल्-लङ्/घित=with transceding)

पुनरिह पुलस्त्यवंशावतंसस्य विश्रवसः पुत्रस्य निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य रवि-कुल-जात-दशरथ+आत्मजो विश्वामित्राद् अस्त्राण्य् उपलभ्य वने सीता-हरण-वशात्-प्रवृद्धमन्युना अम्बुधिं वानरैर् निबध्य सगणं दश-कन्धरं हतवान् असि राम+अवतारः))27

पुनरिह यदु-कुल-जलधि-कलानिधिः सकल-सुर-गण-सेवित-पदारविन्द-द्वन्द्वः विविध-दानव-दैत्य-दलन-लोकत्रय-दुरित-तापनो वसुदेव+आत्मजो राम+अवतारो बलभद्रस् त्वम् असि))28

पुनरिह विधिकृत-वेद-धर्म+अनुष्थान-विहित-नाना-दर्शन-संघृणः संसार-कर्म-त्याग-विधिना ब्रह्माभासविलासचातुरी प्रकृति-विमाननामसम्पादयन् बुद्ध+अवतारस् त्वम् असि))29

अधुना कलि-कुल-नाश+अवतारो बौद्ध-पाखण्ड-म्लेच्छ+आदीनाञ् च वेद-धर्म-सेतु-परिपालनाय कृत+अवतारः कल्किरूपेणास्मान् स्त्रीत्वनिरयाद् उद्धृतवान् असि तव+अनुकम्पां किम् इह कथयामः))30

व् – – – – – υ υ υ υ υ – – υ υ υ ः following metre:)

क्व ते ब्रह्मादीनाम् अविदितविलासावतरणं

क्व नः कामा वामाकुलित-मृगतृष्ना’र्तमनसाम्)

सुदुष्प्राप्यं युष्मच् चरण-जलजालोकनम् इदं

कृपापारावारः प्रमुदित-दृशाश्वासय निजान्))31

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे नृपाणां स्तवो नाम तृतीयो’ध्यायः))3 (wrongly written द्वितीयांसे)


द्वितीयांशः) चतुर्थो’ध्यायः) page116)

सूत उवाच)

श्रुत्वा नृपाणां भक्तानां वचनं पुरुषोत्तमः

ब्रह्मण-क्षत्र-विट्-शूद्र-वर्णानां धर्मम् आह यत्))1

प्रवृत्तानां निवृत्तानां कर्म यत् परिकीर्तितम्

सर्वं संश्रावयाम् आस वेदानाम् अनुशासनम्))2

इति कल्केर् वचः श्रुत्वा राजानो विशदाशयाः

प्रणिपत्य पुनः प्राहुः पूर्वान्तु गतिमात्मनः))3

स्त्रीत्वं वाप्यथवा पुंस्त्वं कस्य वा केन वा कृतम्

जरा-यौवन-बाल्यादि सुख-दुःख+आदिकं च यत्))4

कस्मात् कुतो वा कस्मिन् वा किम् एतद् इति वा विभो

अनिर्णीतान्य् अविदितान्य् अपि कर्माणि वर्णय))5

(तदा तद् आकर्ण्य कल्किर् अनन्तं मुनिम् अस्मरत्)

सो ऽप्य् अनन्तो मुनि-वरस् तीर्थ-पादो बृहद्-व्रतः))6

कल्केर् दर्शनतो मुक्तिम् आकलय्यागतस् त्वरन्

समागत्य पुनः प्राह किं करिष्यामि कुत्र वा

यास्यामि+इति वचः श्रुत्वा कल्किः प्राह हसन् मुनिम्))7

कृतं दृष्तं त्वया सर्वं ज्ञातं याह्यनिवर्तकम्

अदृष्टम् अकृतञ् चे’ति श्रुत्वा हृष्टमना मुनिः))8

गमनायो’द्यतं तं तु दृष्ट्वा नृप-गणास् ततः

कल्किं कमल-पत्र+अक्षं प्रोचुर् विस्मित-चेतसः))9

राजान ऊचुः)

किम् अनेन+अपि कथितं त्वया वा किम् उ तान् प्रति

सर्वं तच् छ्रोतुम् इच्छामः कथो’पकथनं द्वयोः))10

नृपाणां तद् वचः श्रुत्वा तान् आह मधुसूदनः

पुच्छतामुं मुनिं शान्तं कथोपकथनादृताः))11

इति कल्केर् वचो भूयः श्रुत्वा ते नृप-सत्तमाः

अनन्तम् आहुः प्रणताः प्रश्नपारतितीर्षवः))12

राजान ऊचुः)

मुने! किम् अत्र कथनं कल्किना धर्म-वर्मणा

दुर्बोधंः केन वा जातं तत्त्वं वर्णय नः प्रभो!))13

मुनिर् उवाच)

पुरिकायां पुरि पुरा पिता मे वेद-पारगः

विद्रुमो नाम धर्मज्ञः ख्यातः परहिते रतः))14

सोमा मम विभो! माता पति-धर्म-परायणा

तयोर्वयः परिणतौ काले षण्धाकृतिस् त्व् अहम्))15

संजातः शोकदः पित्रोर्लोकानां निन्दिताकृतिः

मामालोक्य पिता क्लीबं दुःख-शोक-भयाकुलः))16

त्यक्त्वा गृहं शिववनं गत्वा तुष्टाव शङ्करम्

संपूज्येशं विधानेन धूप-दीप+अनुलेपनैः))17

विद्रुम उवाच)

शिवं शान्तं सर्व-लोकै’क-नाथं) भूतावासं वासुकी-कण्थ-भूषम्)

जटाजूटा-बद्ध-गङ्गातरङ्गं) वन्दे सान्द्रानन्द-सन्दोह-दक्षम्))18

इत्य् आदि बहुभिः स्तोत्रैः स्तुतः स शिवदः शिवः

वृषारूढः प्रसन्नात्मा पितरं प्राह मे वृणु))19

विद्रुमो मे पिता प्राह मत् पुंस्त्वं तापतापितः

हसञ् छिवो ददौ पुंस्त्वं पार्वत्या प्रति-मोदितः))20

मम पुंस्त्वं वरं लब्ध्वा पिता’यातः पुनर् गृहम्

पुरुषं मां समालोक्य सहर्षः प्रियया सह))21

ततः प्रवयसौ तौ तु पितरौ द्वादशाब्दके

विवाहं मे कारयित्वा बन्धुभिर् मुदमापतुः))22

यज्ञरातसुतां पत्नीं मानिनीं रूपशालिनीम्

प्राप्याहं परि-तुष्ट+आत्मा गृहस्थः स्त्री-वशो ऽभवम्))23

ततः कतिपये काले पितरौ मे मृतौ नृपाः

पारलौकिक-कार्याणि सुहृद्भिर् ब्राह्मणैर् वृतः))24

तयोः कृत्वा विधानेन भोजयित्वा द्विजान् बहून्

पित्रोर् वियोग-तप्तो ऽहं विष्णु-सेवापरो ऽभवम्))25

तुष्तो हरिर् मे भगवाञ् जप-पूज+आदि-कर्मभिः

स्वप्ने माम् आह मायेयं स्नेह-मोहविनिर्मिता))26

अयं पितेयं मतेति ममताकुलच्तसाम् (अय्Άं=this one)

शोक-दुःख-भयो’द्वेग-जरा-मृत्यु-विधायिका))27

श्रुत्वेति वचनं विष्नोः प्रतिवाद+अर्थम् उद्यतम्

मामालक्ष्या’न्तर्हितः स विनिद्रो ऽहं ततो ऽभवम्))28

तत्रै’व दक्षिणे पार्श्वे निर्माय+आश्रमम् उत्तमम्

स-भार्यः स+अनुगामात्यः करोमि हरि-सेवनम्))30

माया-संदर्शनाकाङ्क्षी हरिसद्मनि संस्थितः

गायन् नृत्यञ् जपन् नाम चिन्तयच् छमनापहम्))31

एवं वृत्ते द्वादशाब्दे द्वादश्यां पारणा-दिने

स्नातु-कामः समुद्रे ऽहं बन्धुभिः सहितो गतः))32

तत्र मग्नं जलनिधौ लहरीलोलसंकुले

समुत्थातुम् अशक्तं मां प्रतुदन्ति जलेचराः))33

निमज्जनो’न्मज्जनेन व्याकुलीकृतचेतसम्

जलहिल्लोलमिलनदलित+अङ्गम् अचेतनम्))34

जलधेर् दक्षिणे कूले पतितं पवने’रितम्

मां तत्र पतितं दृष्ट्वा वृद्धशर्मा द्विजो’त्तमः))35(«वृद्धशर्मा नामक एक ब्राह्मण»)

सन्ध्यामुपास्य सघृणः स्व-पुरं मां समानयत्

स वृद्धशर्मा धर्मात्मा पुत्र-दार-धन+अन्वितः

कृत्वा’रुग्णन् तु मां तत्र पुत्रवत् पर्य्-अपालयत्))36

अहन् तु तत्र दीन+आत्मा दिग्-देश+अभिज्ञ एव न

दम्पती तौ स्व-पितरौ मत्वा तत्रावसं नृपाः))37(«हे राजाओ»)

स मां विज्ञाय बहुधा वेद-धर्मेष्व् अनुष्ठितम्

प्रददौ स्वां दुहितरं विवाहे विनय+अन्वितः))38

लब्ध्वा चामीकरा’कारां रूप-शील-गुण+अन्विताम्

नाम्ना चारुमतीं तत्र मानिनीं विस्मितो ऽभवम्))39

तयाहं परितुष्टात्मा नाना-भोग-सुःअ+अन्वितः

जनयित्वा पञ्च पुत्रान् संमदेना’वृतो ऽभवम्))40

जयश् च विजयश् चैव कमलो विमलस् तथा

बुध इत्य् आदयः पञ्च विदितास् तनया मम))41(5 sons names)

स्व-जनैर् बन्धुभिः पुत्रैर् धनैर् नानाविधैर् अहम्

विदितः पूजितो लोके देवैर् इन्द्रो यथा दिवि))42

बुधस्य ज्येष्ठ-पुत्रस्य विवाह+अर्थं समुद्यतम्

दृष्ट्वा द्विज-वरस् तुष्तो धर्मसारो निजां सुताम्))43

दित्सुः कर्माणि वेदज्ञश् चकाराभ्युदयान्य् अपि

वाद्यैर् गीतैश् च नृत्यैश् च स्त्री-गणैः स्वर्ण-भूषितैः))44

अहञ् च पुत्र+अभ्युदये पितृ-देव+र्षि-तर्पणम्

कर्तुं समुद्रवेलायां प्रविष्तः परमादरात्))45

वेलालोलायिततनुर् जलाद् उत्थाय सत्त्वरः

तीरे सखीन् स्नान-सन्ध्या-परान्वीक्ष्य+अहम् उन्मनाः))46

सद्यः समभवं भूपाः! द्वादश्यां पारणादृतान्

पुरुषोत्तम-संवासान् विष्णु-सेवार्थमुद्यतान्))47

ते ऽपि मामग्रतः कृत्वा तद् रूपवयसां निधिम्

विस्मय+अविष्ट-मनसं दृष्ट्वा माम् अभ्रुवञ् जनाः))48

अनन्त! विष्णु-भक्तो ऽसि जले किं दृष्टवान् इह

स्थले वा व्यग्रमनसं लक्षयामः कथं तव))49(स्थले वा= )

पारणं कुरु तद् ब्रूहि त्यक्त्वा विस्मयमात्मनः

तान् अब्रुवम् अहं नैव किञ्चिद् दृष्तं श्रुतं जनाः))50

काम+आत्मा तत् कृपणधीर् मायासन्दर्शनादृतः

तया हरेर् माययाहं मूढो व्याकुलिते’न्द्रियः))51

न शर्म वेद्मि कुत्र+अपि स्नेह-मोह-वशं गतः

आत्मनो विस्मृतिर् इयं को वेद विदितां तु ताम्))52

इति भार्या-धनागार-पुत्रो’द्वाह+अनुरक्तधीः

अनन्तो ऽहं दीनमना न जाने स्वाप्(न्;)असम्मितम्))53

मां वीक्ष्य मानिनी भार्या विवशं मूढवत्-स्थितम्

क्रन्दन्ती किम् अहो’कस्माद् आलपन्ती ममान्तिके))54

इह तां वीक्ष्य तांस् तत्र स्मृत्वा कातर-मानसम्

हंसो ऽप्य् एको बोधयितुम् आगतो मां सद्-उक्तिभिः))55(«परमहंस»)

धीरो विदितसर्वार्थः पूर्णः परमधर्मवित्))56

सूर्याकारं सत्त्वसारं प्रशान्तं) दान्तं शुद्धं लोकशोकक्षयिष्णुम्) ममाग्रे तं पूजयित्वा मदङ्गाः) पप्रच्छुस्ते मच् छुभ-ध्यान-कामाः))57

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे अनन्त-मायादर्शनं नाम चतुर्थो’ध्यायः))


द्वितीय+अंशः) पञ्चमो ऽध्यायः) सूत उवाच)

उपविष्ते तदा हंसे भिक्षां कृत्वा यथोचिताम्

ततः प्राहुर् अनन्तस्य शरीरारोग्यकाम्यया))1

हंसस् तेषां मतं ज्ञात्वा प्राह मां पुरतः स्थितम्

तव चारुमती भार्या पुत्राः पञ्च बुधादयः))2

धन-रत्न+अन्वितं सद्म सम्बाधं सौधसंकुलम्

त्यक्त्वा कदागतो ऽसि+इह पुत्रो’द्वाह-दिने न तु))3

समुद्र-तीरसञ्चारः पुराद् धर्मजनादृतः

निमन्तृय मामिहायातः शोकसंविग्नमानसः))4

त्वञ् च सप्तति वर्षीयस् तत्र दृष्तो मया प्रभो!

त्रिंशद् वर्षीय-वत् कस्माद् इति मे संभ्रमो महान्))5

इयं भार्या सहाया ते न तत्रालोकिता क्वचित्

अहं वा क्व कुतस् तस्मात् कथं वा केन काशितः))6

स एव वा न वापि त्वं नाहं वा भिक्षुर् एव सः

आवयोर् इह संयोगश् चे’न्द्रजाल य्वा’भवत्))7

त्वं ग्रहस्थः स्वधर्मज्ञो भिक्षुको ऽहं परात्मकः

आवयोर् इह संवादो बालको’न्मत्तयोर् इव))8

तस्माद् ईशस्य मायेयं त्रिजगन्-मोहकारिणी

ज्ञानाप्राप्याद्वात-लभ्या मन्ये ऽहम् इति बो द्विज!))9(«अद्वैत-ज्ञान»)

इति भिक्षुः समाश्राव्य यद् अन्यत् प्राह विस्मितः

मार्कण्देय! महाभाग! भविष्यं कथयामि ते))10

प्रलये या त्वया दृष्टा पुरुषस्यो’दराम्भसि

सा माया मोहजनिका पन्थानं गणिका यथा))11

तमो ह्य् अनन्त-सन्तापा नोदनोद्यतम् अक्षरी

यये’दम् अखिलं लोकम् आवृत्यावस्थयास्थितम्))12

लये लीने त्रिजगति ब्रह्मतन्मात्रतां गतः

निरुपाधौ निरालोके सिसृक्षुर् अभवत् परः))13

ब्रह्मण्य् ऽपि द्विधाभूतो पुरुष-प्रकृती स्वया

भासा संजनयाम् आस महान्तं कालयोगतः))14

कालस्वभावकर्मात्मा सोऽहङ्-कारस् ततो ऽभवत्

त्रिवृद्-विष्णु-शिव-ब्रह्म-मयः संसार-कारणम्))15

तन्मात्राणि ततः पञ्च जज्ञिरे गुणवन्ति च

महाभूतान्य् अपि ततः प्रकृतौ ब्रह्मसंश्रयात्))16

जाता देव+असुर_नरा ये च+अन्ये जीव-जातयः

ब्रह्माण्ड-भाण्ड-संभार-जन्म-नाश-क्रियात्मिकाः))17

मायया मायया जीव-पुरुषः परमात्मनः

संसारशरणव्यग्रो न वेदात्मगतिं क्वचित्))18

अहो बलवती माया ब्रह्माद्या यद् वशे स्थिताः

गावो यथा नसि प्रोता गुणबद्धाः खगा इव))19

तां मायां गुणमय्यां ये तितीर्षन्ति मुनीश्वराः

स्रवन्तीं वासनानक्रां त एवार्थविदो भुवि))20

शौनक उवाच)

मार्कण्देयो वशिष्ठश् च वामदेवादयो ऽपरे

श्रुत्वा गुरुवचो भूयः किम् आहुः श्रवणादृताः))21

राजानो ऽनन्त-वचनम् इति श्रुत्वा सुधोपमम्

किं वा प्राहुर् अहो सूत! भविष्यम् इह वर्णय))22

इति तद् वच आश्रुत्य सूतः सत्कृत्य तं पुनः

कथयाम् आस कार्त्स्न्येन कार्त्स्न्येन शोक-मोह-विघातकम्))23

सूत उवाच)

तत्र+अनन्तो भूप-गणैः पृष्तः प्राह कृतादरः(«आदरपूर्वक»)

तपसा मोहनिधनम् इन्द्रियाणाञ् च निग्रहम्))24

अनन्त उवाच)

अतो ऽहं वनमासाद्य तपः कृत्वा विधानतः

ने’न्द्रियाणां न मनसो निग्रहो ऽभूत् कदाचन))25

वने ब्रह्म ध्यायतो मे भार्या-पुत्र-धनादिकम्

विषयञ् च+अन्तरा शश्वत् संस्मारयति मे मनः))26

तेषां स्मरणमात्रेण दुःख-शोक-भय+आदयः

प्रतुदन्ति मम प्राणान् धारणा-ध्यान-नाशकाः))27

ततो ऽहं निश्चितमतिर् इन्द्रियाणाञ् च घातने

मनसो निग्रहस् तेन भविष्यति न संशयः))28

अतो माम् इन्द्रियाणान् च निग्रह-व्यग्र-चेतसम्

तद् अधिष्थातृ-देवाश् च दृष्ट्वा मामीयुरञ्जसा))29

रूपिणो माम् अथो’चुस् ते भो ऽनन्त! इति ते दश

दिग्-वात+अर्क-प्रचेतो ऽश्वि-वह्नि+इन्द्रो’पेन्द्र-मित्रकाः))30(«दो अश्विनी-कुमार»)

इन्द्रियाणां वयं देवास्तव देहे प्रतिष्ठिताः

नखाग्रकाण्डसंभिन्नान् नास्मान् कर्तुम् इह+अर्हसि))31

न श्रेयो हि तव+अनन्त! मनो-निग्रह-कर्मणि

छेदने भेदने ऽस्माकं भिन्न-मर्मा मरिष्यसि))32

अन्धानां बधिराणाञ् च विकलेन्द्रियजीविनाम्

वने ऽपि विषयव्यग्रं मानसं लक्षयाम् अहो))33

जीवस्य+अपि गृहस्थस्य देहो गेहं मनो ऽनुगः

बुद्धिर् भार्या तद् अनुगा वयम् इत्य् अवधारय))34

कर्मायत् तस्य जीवस्य मनो बन्ध-विमुक्ति-कृत्

संसारयति लुब्धस्य ब्रह्मणो यस्य मायया))35

तस्मान् मनोनिग्रहार्थं विष्णु-भक्तिं समाचर

सुख-मोक्ष-प्रदा नित्यं दाहिका सर्व-कर्मणाम्))36

द्वैत+अद्वैत-प्रद+आनन्द-सन्दोहा हरि-भक्तिका

हरि-भक्त्या जीव-कोष-विनाशान्ते महामते!))37

परं प्राप्स्यसि निर्वाणं कल्केर् आलोकनात् त्वया

इत्य् अहं बोधितस् तेन भक्त्या संपूज्य केशव्Άम्))38

कल्किं दिदृक्षुर् आयातः कृष्णं कलि-कुला’न्तकम्))39

दृष्तं रूपम् अरूपस्य स्पृष्टस् तत्पद-पल्लवः

अपदस्य श्रुतं वाक्यम् अवाच्यस्य परात्मनः))40

इत्य् अनन्तः प्रमुदितः पद्मानाथं निजेश्वरम्

कल्किं कमलपत्राक्षं नमस्कृत्य ययौ मुनिः))41

राजानो मुनि-वाक्येन निर्वाण-पदवीं गताः

कल्किम् अभ्यर्च्य पद्माञ् च नमस्चृत्य मुनिव्रताः))42

शुक उवाच)

अनन्तस्य कथाम् एताम् अज्ञानध्वान्त-नाशिनीम्

माया-नियन्त्रीं प्रपठञ् छृण्वन् बन्धाद् विमुच्यते))43

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

संसाराब्धि-विलासलालसमतिः श्री-विष्णु-सेवादरो)

भक्त्य्-आख्यानम् इदं स्वभेद-रहितं निर्माय धर्मात्मना)

ज्ञानो’ल्लास-निशात-खङ्गमुदितः सद्-भक्ति-दुर्ग+आश्रयः)

षड्वर्गं जयताद् अशेष-जगताम् आत्मस्थितं वैष्णवः))44

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे अनन्त-मायानिरसनं नाम पञ्चमो’ध्यायः))5


द्वितीय+अंशः) षष्ठो ऽध्यायः) सूत उवाच)

गते नृप-गणे कल्किः पद्मया सह सिंहलात्

शम्भलग्राम-गमने मतिं चक्रे स्वसेनया))1

ततः कल्केर् अभिप्रायम्ं विदित्वा वासवस् त्वरन्

विश्वकर्माणम् आहूय वचनञ् चे’दम् अब्रवीत्))2

इन्द्र उवाच)

विश्वकर्मञ् छम्भले त्वं गृहो’द्यान+अट्ट-घट्टितम्

प्रासादहर्म्य-संबाधं रचय स्वर्णसञ्चयैः))3

रत्न-स्फटिक-वैदूर्य-नानामणि-विनिर्मितैः

तत्रै’व शिल्पनैपुण्यं तव यच् च+अस्ति तत् कुरु))4

श्रुत्वा हरेर् वचो विश्व-कर्मा शर्म निजं स्मरन्

शम्भले कमलेशस्य स्वस्त्य्-आदि-प्रमुखान् गृहान्))5

हंस-सिंह-सुपर्ण+आदि-मुखांश् चक्रे स विश्वकृत्

उपर्युपरि तापघ्नवातायनमनोहरान्))6

नाना-वन-लता+उद्यान-सरोवापीसुशोभितः

शम्भलश् च+अभवत् कल्केर् यथे’न्द्रस्य+अमरावती))7

कल्किस् तु सिंहलाद् द्वीपाद् बहिः सेनागणैर् वृतः

त्यक्त्वा कारुमतीं कूले पाथोधेर् अकरोत् स्थतिम्))8

बृहद्रथस् तु कौमुद्या सहितः स्नेह-कातरः

पद्मया सहितायास्मै पद्मानाथाय विणवे))9

ददौ गजानाम् अयुतं लक्षं मुख्यञ् च वाजिनाम् (वाजिनाम्= )

रथानाञ् च द्वि-साहस्रं दासीनां द्वे शते मुदा))10

दत्त्वा वासांसि रत्नानि भक्तिस्नेहाश्रुलोचनः

तयोर् मुखालोकनेन न+अशकत् किञ्चिद् ईरितुम्))11(अशकत्= )

महाविणुदम्पती तौ प्रस्थाप्य पुनर्-आगतः

पूजितः कल्किपद्माभ्यां निजकारूमतीं पुरीम्))12

कल्किस् तु जलधेर् अम्भो विगाह्य पृतना-गणैः

पारं जिगम् इषुं दृष्ट्वा जम्बुकं स्तम्भितो ऽभवत्))13

जलस्तम्भम् अथालोक्य कल्किः स-बल-वाहनः

प्रययौ पयसां राशेर् उपरि श्रीनिकेतनः))14

गत्वा पारं शुकं प्राह याहि मे शम्भलालयम्))15

विश्वकर्मकृतं यत्र देवराजाज्ञया बहु

सद्म सम्बाधम् अमलं मत् प्रियार्थं सुशोभनम्))16

तत्रापि पित्रोर् ज्ञातीनां स्वस्ति ब्रूयाद् यथो’चितम्

यदत्राङ्ग! विवाहादि सर्वं वक्तुं त्वम् अर्हसि))17

पश्चाद् यामि वृतस् त्व् एतैस् त्वम् आदौ याहि शम्भलम्))18

कल्केर् वचनम् आकर्ण्य कीरो धीरस् ततो ययौ

आकाश-गामी सर्वज्ञः शम्भलं सुरपूजितम्))19

सप्त-योजन-विस्तीर्णं चातुर्-वर्ण्य-जनाकुलम्

सूर्य-रश्मि-प्रतीकाशं प्रासादशतशोभितम्))20

सर्वर्तु-सुखदं रम्यं शम्भलं विह्वलो ऽविशत्))21

गृहाद् गृह+अन्तरं दृष्ट्वा प्रासादाद् अपि चाम्बरम्

वनाद् वन+अन्तरं तत्र वृक्षाद् वृक्ष+अन्तरं व्रजन्))22

शुकः स विष्णुयशसः सदनं मुदितो ऽव्रजत्

तं गत्वा रुचिरालापैः कथयित्वा प्रियाः कथाः))23

कल्केर् आगमनं प्राह सिंहलात् पद्मया सह))24

ततस् त्वरन् विष्णुयशाः समानार्यप्रजाजनान्

विशाखयूप-भूपालं कथयाम् आस हर्षितः))25

स राजा कारयाम् आस पुर-ग्रामादि मण्दितम्

स्वर्ण-कुंभैः सद्-अम्भोभिः पूरितैश् चन्दनो’क्षितैः))26

कालागुरु-सुगन्धाढ्यैर् दीपलाजाङ्कुराक्षतैः

कुसुमैः सुकुमारैश् च रम्भापूग-फलान्वितैः

शुशुभे शम्भलग्रामो विबुधानां मनोहरः))27

तं कल्किः प्राविशद् भीम-सेनागण-विलक्षणः

कामिनी-नयनानन्द-मन्दिराङ्गः कृपानिधिः))28

पद्मया सहितः पित्रोः पदयोः प्रणतो ऽपतत्

सुमतिर् मुदिता पुत्रं स्नुषां शक्रं शचीम् इव

ददृशे त्वमरावत्यां पूर्णकामा दितिः सती))29

शम्भलग्रामनगरी पताकाध्वज-शालिनी

अवरोधसुजघना प्रासादविपुलस्तनी

मयूर-चूचका हंस-संघहारमनोहरा))30

पटवासोद्योत-धूम-वसना कोकिल-स्वना

सहासगोपुरमुखी वामनेत्रा यथाङ्गना

कल्किं पतिं गुणवती प्राप्य रेजे तम् ईश्वरम्))31

स रेमे पद्मया तत्र वर्ष-पूगान् अज+आश्रयः)

शम्भले विह्वलाकारः कल्किः कल्क-विनाशनः))32

कवेः पत्नी कामकला सुषुवे परमेष्ठिनौ(सुषुवे= gave birth)

बृहत्कीर्ति-बृहद्बाहू महाबल-पराक्रमौ))33

प्राज्ञस्य सन्नतिभार्या तस्यां पुत्रौ बभूवतुः

यज्ञ-विज्ञौ सर्व-लोक-पूजितौ विजिते’न्द्रियौ))34

सुमन्त्रकस् तु मालिन्यां जनयाम् आस शासनम्

वेगवन्तञ् च साधूनां द्वावेतावृपकारकौ))35

ततः कल्किश् च पद्मायां जयो विजय एव च

द्वौ पुत्रौ जनयाम् आस लोक-ख्यातौ महा-बलौ))36

एतैः परिवृतो ऽमात्यैः सर्व-सम्पत्-समन्वितौ

वाजिमेधविधानार्थम् उद्यतं पितरं प्रभुः))37

समीक्ष्य कल्किः प्रोवाच पितामहमिवेश्वरः

दिशां पालान् विजित्या’हं धनान्याहृत्य इत्य् उत))38

कारयिष्याम्य् अश्वमेधं यामि दिग्-विजयाय भोः!))39

इति प्रणम्य तं प्रीत्या कल्किः परपुरञ्जयः

सेनागणैः परिवृतः प्रययौ कीकटं पुरम्))40

बुद्ध+आलयं सुविपुलं वेद-धर्म-बहिष्कृतम्

पितृ-देव+अर्चनाहीनं परलोक-विलोपकम्))41

देहात्मा-वाद-बहुलं कुल-जाति-विवर्जितम्

धनैः स्त्रीभिर् भक्ष्य-भोज्याः स्व-पर-अ-भेद-दर्शिनम्))42

नाना-जनैः परिवृतं पान-भोजन-तत्परैः))43

श्रुत्वा जिनो निज-गणैः कल्केर् आगमनं क्रुधा

अक्षौहिणीभ्यां सहितः संबभूव पुराद् बहिः))44

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – ||

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – υ – – ||metre follows:

गज-रथ-तुरगैः समाचिता भूः) कनक-विभूषण-भूषितैर् वराङ्गइः)

शत-शत-रथिभिर् धृता’स्त्र-शस्त्रैर्) ध्वजपटराजि-निवारितातपैर् बभौ सा))45

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे बुद्ध-निग्रहे कीकट-पुर-गमनं नाम षष्ठो ऽध्यायः))6


द्वितीय+अंशः) सप्तमो ऽध्यायः) सूत उवाच)

ततो विष्नुः सर्व-जिष्नुः कल्किः कल्क-विनाशनः

कालयाम् आस तां सेनां करिणीम् इव केसरी))1

सेनाङ्गनां तां रतिसङ्गरक्षतीं) रक्ताक्तवस्त्रां विवृतोरुमध्याम्)

पलायतीं चारुविकीर्णकेशां) विकूजतीं प्राह स कल्किनायकः)) (जिन= victorious= Buddha/ जैन अर्हत्= / व्Ίष्णु name)

रे बौद्धा! मा पलायध्वं निवर्तध्वं रणाङ्गणे

युध्यध्वं पारुषं साधु दर्शयध्वं पुनर् मम))3

जिनो हीन-बलः कोपात् कल्केर् आकर्ण्य तद् वचः

प्रतियोद्धुं वृषारूढः खड्ग-चर्म-धरो ययौ))4

नाना-प्रहरणो’पेतो नाना+आयुध-विशारदः

कल्किना युयुधे धीरो देवानां विस्मयावहः))5

शुलेन तुरगं विद्ध्वा कल्किं बाणेन मोहयन् (स तुर्Ά-ग=)

क्रोडीकृत्य द्रुतं भूमेर् न+अशकत् तोलना’दृतः))6(तद् तोलन= ) तोल=)

जिनो विश्वंभरं ज्ञात्वा क्रोधाकुलितलोचनः

चिच्छेदास्य तनु-त्राणं कल्केः शस्त्रञ् च दासवत्))7

विशाखयूपो ऽपि तथा निहत्य गदया जिनम्

मूर्च्छितं कल्किम् आदाय लीलया रथम् आरुहत्))8

लब्धसंज्ञस् तथा कल्किः सेवको’त्साह-दायकः

समुत्पत्य रथात् तस्य नृपस्य जिनम् आययौ))9

शूल-व्यथां विहायाजौ महासत्त्वस् तुरङ्गमः

भ्रमजैः पादविक्षेपहननैर् मुहुः))10

दण्दाघातैः सटाक्षेपैर् बौद्ध-सेना-गण+अन्तरे

निजघान रिपून् कोपाच् छतशो ऽथ सहस्रशः))11(रिप्Ύ= )

नि-श्वासवातैर् उड्दीय केचिद् द्वीप+अन्तरे ऽपतन्( केचिद्=some)

हस्त्यश्व-रथ-संबाधाः पतिता रण-मूर्धनि))12

गर्गा जघ्नुः षष्टिशतं गर्गः कोटिशतायुतम्

विशालास् तु सहस्राणां पञ्चविंशं रणे त्वरन्))13

अयुते द्वे जघानाजौ पुत्राभ्यां सहितः कविः

दशलक्षं तथा प्राज्ञः पञ्चलक्षं सुमन्त्रकः))14

जिनं प्राह हसन् कल्किस् तिष्थाग्रे मम दुर्मते!

दैवं मां विद्धि सर्वत्र शुभ+अशुभ-फल-प्रदम्))15

मद् बाण-जाल-भिन्न+अङ्गो निःसङ्गो यास्यसि क्षयम्

न यावत् पश्य तावत्त्वं बन्धूनां ललितं मुखम्))16

कल्केर् इति+ईरितं श्रुत्वा जिनः प्राह हसन् बली

दैवं त्व् अदृश्यं शास्त्रे ते वधो ऽयमुररीकृतः

प्रत्यक्ष-वादिनो बौद्धा वयं यूयं वृथाश्रमाः))17

यदि वा दैवरूपस् त्वं तथा+अप्य् अग्रे स्थिता वयम्

यदि भेत्त+असि बाणौघैस् तदा बौद्धैः किम् अत्र ते))18

सो’पालभ्यं त्वया ख्यातं त्वय्य् एव+अस्तु स्थिरो भव

इति क्रोधाद् बाणजालैः कल्किं घोरैः समावृणोत्))19

स तु बाणमयं वर्षं क्षयं निन्ये ऽर्कवद् धिमम्))20

ब्राह्मं वायव्यम् आग्नेयं पार्जन्यं च+अन्यद् आयुधम्

कल्केर् दर्शन-मात्रेण निष्फला न्य् अभवन् क्षणात्))21

यथो’षरे बीजम् उप्तं दानम् अश्रोत्रिये यथा

यथा विष्णौ सतां द्वेषाद् भक्तिर् येन कृता’प्य् अहो))22

कल्किस् तु तं वृषारूढम् अवप्लुत्य कचे ऽग्रहीत्

ततस् तौ पेततुर् भूमौ ताम्रचूडाव् इव क्रुधा))23

पतित्वा स कल्कि-कचं जग्राह तत्-करं करे))24

ततः समुत्थितौ व्यग्रौ यथा चाणूर-केशवौ (व्यग्र= )

धृत-हस्तौ धृत-कचौ र्क्षाव् इव महाबलौ

युयुधाते महावीरौ जिन-कल्की निर्-आयुधौ))25

ततः कल्की महायोगी पदाघातेन तत्-कटिम्

विभज्य पातयाम् आस तालं मत्तगजो यथा))26

जिने निपतिते भ्राता तस्य शुद्धोदनो बली([zuddhodana]3[zuddh'odana] mं ` having pure rice or food ' , Nं of a king of Kapila-vastu (of the tribe of the "Saakyas and father of Gautama Buddha cfं Buddhं cfं MWBं 21 छ्cं)---> [-suta] mं ` son of "Suddh'odana ' , Gautama Buddha)

पादचारी गदापाणिः कल्किं हन्तुं द्रुतं ययौ))28

कविस् तु तं बाण-वर्षैः परिवार्य समन्ततः

जगर्ज परवीरघ्नो गजम् आवृत्य सिंहवत्))29

गदाहस्तं तम् आलोक्य पतिं स धर्मवित्-कविः

पदातिगो गदापाणिस् तस्थौ शुद्धोदना’ग्रतख्))30

स तु शुद्धोदनस् तेन युयुधे भीम-विक्रमः

गजः प्रति गजेने’व दन्ताभ्यां सगदाव् उभौ))31

युयुधाते महावीरौ गदा+आयुद्ध-विशारदौ

कृत-प्रति-कृतौ मत्तौ नदन्तौ भैरवान् रवान्))32

कविस् तु गदया गुर्व्या शुद्धोदन-गदां नदन्

करादपास्याशु तया स्वया वक्षस्यताडयत्))33

गदाघातेन निहतो वीरः शुद्धोदनो भुवि

पतित्वा सहसो’त्थाय तं जघ्ने गदया पुनः))34

संताडितेन तेन+अपि शिरसा स्तम्भितः कविः

न पपात स्थितस् तत्र स्थाणुवद् विह्वलेन्द्यृयः))35(वि-ह्वल= )

शुद्धोदनस् तम् आलोक्य महासारं रथ+अयुतैः

प्रावृतं तरसा माया-देवीम् आनेतुम् आययाव्))36

यस्या दर्शन-मात्रेण देव+असुर-नर-आदयः

निःसाराः प्रतिमाकारा भवन्ति भुवनाश्रयः))37

बौद्ध शौद्धोदन+आद्यग्रे कृत्वा ताम् अग्रतः पुनः

योद्धुं समागता म्लेच्छ-कोटि-लक्ष-शतैर् वृताः))38

सिंह-ध्वजो’त्थित-रथां फेरु-काक-गणावृताम्

सर्व+अस्त्र-शस्त्र-जननीं षड्-वर्ग-परिसेविताम्))39(«काम) क्रोध) लोभ) मोह) मद) मत्सरता»)

नानारूपां बलवतीं त्रि-गुण-व्यक्ति-लक्षिताम्

मायां निरीक्ष्य पुरतः कल्कि-सेना समापतत्))40

कल्किस् तान् आलोक्य निजान् भ्रातृ-ज्ञाति-सुहृज्-जनान्

मायया जायया जीर्णान् विभुर् आसीत् तद् अग्रतः))42

ताम् आलोक्य वरारोहां श्री-रूपां हरिर् ईश्वरः

सा प्रियेव तम् आलोक्य प्रविष्टा तस्य विग्रहे))43

ताम् अनालोक्य ते बौद्धा मातरं कतिधा वराः

रुरुदुः संघशो दीना हीन-स्व-बल-पौरुषाः))44

विस्मयाविष्ट-मनसः क्व गते’यम् अथ+अब्रुवन्

कल्किः समालोकनेन समुत्थाप्य निजाञ् जनान्))45

निशातम् असिम् आदाय म्लेच्छान् हन्तुं मनो दधे

सन्नद्धं तुरगा’रूढं दृढ-हस्त-धृतत् सरुम्))46

धनुर् निषङ्गमनिशं बाणजाल-प्रकाशितम्

धृत-हस्त-तनुत्राण-गोध+अङ्गुलि-विराजितम्))47

मेघो’पर्युप्तताराभं दशन-स्वर्ण-बिन्दुकम्

किरीट-कोटि-विन्यस्त-मणिराजि-विराजित,म्))48

कामिनी-नयन+आनन्द-सन्दोह-रस-मन्दिरम्

विपक्ष-पक्ष-विक्षेप-क्षिप्त-रूक्ष-कटाक्षकम्))49

निज-भक्त-जनो’ल्लास-संवास-चरण+अम्बुजम्

निरीक्ष्य कल्किं ते बौद्धास् तत्रसुर् धर्म-निन्दकाः))50(and they said:)

जहृषुः सुर-संघाः खे याग्-आहुति-हुताशनाः))51

υ υ υ υ υ υ – – | – υ – – υ – – metre follows)

सु-बल-मिलन-हर्षः शत्रु-नाशैकतर्षः

समरवरविलासः साधु-सत्कारकाशः)

स्व-जन-दुरित-हर्ता जीवजातस्य भर्ता)

रचयतु कुशलं वः काम-पूर+अवतारः))52

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे बौद्ध-युद्धो नाम सप्तमो ऽध्यायः))7