ईशानशिवगुरुदेवपद्धतौ अभिष्ठानादिकं प्राग्वत् कुर्यात् स्तम्भादिकान्यपि । यदि तत् प्राक्तनद्रव्यैर्निष्पाद्यं चेद् गृहादिकम् ।। १५ । प्रारभ्यादौ नवद्रव्यैः पुराणैर्योजयत् ततः । योगैर्नवैर्नवेष्विष्टः पुराणानां पुरातनैः ॥ १६ ॥ मिश्रयोगे विनाशः स्यादतो मिश्रं न कारयेत् । पुरग्रामालयादीनि पूर्ववस्त्वनुकूलतः ॥ १७ ॥ कुर्यात् तद्बाधकं वस्तु कुलनाशकरं त्यजेत् । अन्तर्हाराद् बहिर्मूलादस्पलिङ्गालयादिकम् ॥ १८ ॥ कुर्वीत वान्तः सालस्य यथा मूलं न पीडयेत् । • मूलालयसमं क्षुद्रमधिकं च न शस्यते ।। १९ ।। शस्तम च पादोनं शरांशे त्र्यंशमेव वा । क्रमादिन्द्रादिवाय्वन्तं मूलात् तु शिवमन्दिरम् ॥ २० ॥ कृतं विनाशयेत् स्थानं कर्तारं राजसन्ततिम् । राष्ट्रं धनं च सस्यं च तस्मात् तत् परिवर्जयेत् ॥ २१ ॥ एवं ग्रामपुरादीनां स्वगृहस्य च तत्समम् | तस्मादुदीच्यां मुख्यादिपर्जन्यान्तं च पूर्वतः ॥ २२ ॥ मानुषं शाङ्करं लिङ्गं स्थापयेच्छुभदं हिं तत् । शिवः प्राक्पश्चिमास्यस्तु मनुष्याणां हितावहः ॥ २३ ॥ अन्यत्राघोर नृत्तेशदक्षिणेशाच वामतः । सर्वत्राभिमुखाः सौम्या देवताः शुभदा नृणाम् ॥ २४ ॥ [क्रियापद : उम्राः पराङ्मुखाः शस्ताः पुरग्रामगृहादिषु । न मनुष्यालयं कुर्याद् देवागासधिकोन्नतम् ॥ २५ ॥ तत्समीपे विशेषेण तलाधिक्यं च नेष्यते । दैवाद् धाम्नः शुभं न्यूनं समं वा मानुष गृहम् ॥ २६ ॥ अनुकर्मविधानम् । अधिष्ठानादि सौन्दर्यमास्तूप्यमाच्छुभावहम् । प्रासादानेषु वैरूप्यं हीनाधिक्यं च निन्दितम् ॥ २७ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५१
दिखावट