उत्तरार्धे पञ्चत्रिंशः पटलः । तत्तद्रव्यैः शिलाद्यैस्तु समाधेयं हि पूर्ववत् । संस्थानं प्राग्वदेव स्यादलङ्कारादिकं च यत् ॥ २ ॥ व्यासतुङ्गत्वहानिर्वा वृद्धिश्चापि न शस्यते । जातिच्छन्दविकल्पानां स्यान्मानं प्राग्वदेव हि ॥ ३ ॥ स्वयम्भूदैविकार्षाणामल्पं प्राक्तनधाम चेत् । जीर्ण वा पतितं तस्य न वृद्धिर्दोषमावहेत् ॥ ४ ॥ अनुकर्मविधानम् ] द्वारप्राकारपीठाद्यमनुक्तस्थानगं यदि । परिवारं च तत्प्रोक्तस्थाने कुर्यात् सलक्षणम् ॥ ५ ॥ दैविकं प्राक्तनं धामै मानहीनमलक्षणम् । सलक्षणं प्रकुर्वीत पूर्वसंस्थानसुन्दरम् || ६ || स्वायम्भुवार्षदैवं वा निष्कलं सकलं तु वा । स्थानान्न चालयेल्लिङ्गं पूर्वस्थानेऽर्हति स्थितिम् ॥ ७॥ नद्यब्धिजलवाताद्यैर्हते विचलितेऽथवा । तस्मात् सहस्रदण्डान्तक्षेमे संस्थापयेत् पुनः ॥ ८ ॥ तदेव तदभावे तु पूर्वलिङ्गसमं नवम् । पूर्वतुल्यविमाने तु प्रायश्चित्तादनन्तरम् ॥ ९ ॥ प्रतिष्ठितं भवेद्धयै राजराष्ट्रप्रजाहितम् । तत्र मूलालयाद् रक्षोयमाझिमरुतां दिशः ॥ १० ॥ त्यक्त्वा यथेष्टमन्यत्र विधिना स्थापयेद् दिशि । यमे भर्तुर्नृपस्यापन्मरुद्रक्षोमिपु क्षयः ॥ ११ ॥ तस्मात् तत् परिहृत्यैव चलितस्थापनं हितम् । छन्दानां प्राक्तनाद् धिष्ण्यात् प्राग्वोदक्परितोऽधिकम् ॥ १२ ॥ मानोन्मानप्रमाणोच्चतलाधिक्यं च शस्यते । पूर्वस्माद्धीनमानाद्यं स्थानं कर्तृनृपाहितम् ॥ १३ ॥ द्वारभित्त्यङ्गणादीनां हापनं च विनाशकृत् । विनष्टवस्तुनो गर्भ त्यक्त्वा गर्भं न्यसेत् पुनः ॥ १४ ॥ 'म हीनमानमल' क. पार्टः,
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५०
दिखावट