सत्यद्वयावतारः
सत्यद्वयावतारः [[लेखकः :|]] |
सत्यद्वयावतारनाम
॥ नमो महाकारुणिकाय ॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ १ ॥
संवृत्तिर्मन्यते द्वेधा मिथ्या च तथता तथा ।
आद्या द्विधोदचन्द्रश्च कुसिद्धान्तवितर्कणा ॥ २ ॥
अविचारैकरम्या च विनाशोत्पादधर्मिणी ।
अर्थक्रियासमर्था च तथतासंवृतिर्मता ॥ ३ ॥
एक एवपरो ह्यर्थः परैश्च द्विविधो मतः ।
न काचिद्धर्मता सिद्धा कुतो द्वित्र्यादिकं भवेत् ॥ ४ ॥
अनुत्पादनिरोधादि देशनावाक्यलक्षितम् ।
परमार्थाभिन्नशीलत्वान्नैव धर्मा न धर्मता ॥ ५ ॥
शून्यतायां विभेदस्तु किञ्चिन्मात्रं न विद्यते ।
निर्विकल्पतया बोधे शून्यतादृष्टिरुच्यते ॥ ६ ॥
उक्तं सूत्रे सुगम्भीरे तद्दर्शनमदर्शनम् ।
तत्र द्रष्टा न दृश्यं चाप्यनादिनिधनं शिवम् ॥ ७ ॥
निर्विकल्पं निरालम्बं भावाभावविवर्जितम् ।
अनाश्रयाप्रतिष्ठानमतुल्यं निर्गतागतम् ॥ ८ ॥
अनिर्वाच्यमनाभासं निर्विकारमसंस्कृतम् ।
योगिगम्यमिदं क्लेशज्ञेयावरणवर्जितम् ॥ ९ ॥
प्रत्यक्षमनुमानञ्च तद्द्वयं बौद्धसम्मतम् ।
उभाभ्यां शून्यता गम्येत्यर्वाग्दृङ्मोहभाषितम् ॥ १० ॥
प्रसज्येद्धर्मताज्ञानं तीर्थिके श्रावकेऽपि च ।
विज्ञानिनाञ्च किं वाच्यं माध्यमिकेऽविरुद्धता ॥ ११ ॥
तर्हि सर्वेऽपि सिद्धान्ता मानमेयतया समाः ।
सर्वतर्कविरुद्धत्वान्मानमेयापि धर्मता ॥ १२ ॥
बाहुल्येन कथं न स्यात्प्रत्यक्षं चानुमा वृथा ।
तीर्थ्यवादनिवृत्यर्थं विद्वद्भिः कृतयः कृताः ॥ १३ ॥
सविकल्पाविकल्पाभ्यां ज्ञानाभ्यां नावगम्यते ।
आगमेऽपि स्फुटं विद्वानाचार्यो भव्य आह च ॥ १४ ॥
शून्यतावगता केन व्याकृता या तथागतैः ।
नागान्तेवासिचन्द्रो हि धर्मतासत्यदर्शकः ॥ १५ ॥
ततः परम्पराम्नायैर्धर्मतासत्यगम्यता ।
धर्मस्कन्धसहस्राणि चत्वार्युक्तान्यशीति च ॥ १६ ॥
धर्मतान्तर्गतं सर्वं मुक्तिस्तु शून्यताबोधेस्
तदर्था शेषभावना तथ्यसंवृतिमाधूय ॥ १७ ॥
शून्यताभ्यसने सति संवृतिहेतोःपुण्यादेः ।
परलोकाच्च वञ्च्यते विविक्तार्थमजानानः ॥ १८ ॥
स्वल्पश्रुतिसमाश्रितः यो नरः पुण्यकृन्नास्ति ।
नष्टः कापुरुषस्तु सः विनाशयति दुर्दृष्टा ॥ १९ ॥
शून्यता मन्दमेधसं चन्द्राचार्य उवाचैवम् ।
उपायभूतं व्यवहारसत्यमुपेयभूतं परमार्थसत्यम् ॥ २० ॥
द्वयोर्विभेदं न हि वेद यो स व्रजेदपायं विपरीतबोधात् ।
व्यवहारमनागम्य परमार्थो न देश्यते ॥ २१ ॥
तथ्यसंवृतिसोपानमन्तरेण विपश्चितः ।
तत्त्वप्रासादशिखरारोहणं न हि युज्यते ॥ २२ ॥
यथायं संवृतेर्भासो युक्त्या किञ्चिन्न लभ्यते ।
परमार्थस्त्वलब्धत्वमादिसंस्थितधर्मता ॥ २३ ॥
हेतुप्रत्ययजन्यत्वात्संवृतिर्भासवन्मता ।
अयुक्तं शोधितुं चेत्कैर्जलचन्द्रादिविनिर्मितम् ॥ २४ ॥
नानाप्रत्ययजन्यत्वात्सिद्धो भासोऽखिलस्ततः ।
प्रत्ययानां तु विच्छेदात्संवृत्त्यापि न सम्भवः ॥ २५ ॥
एवं दृष्टेरसंमोहाज्जाते चर्याविशोधने ।
उन्मार्गेऽगमनं कृत्वाकनिष्ठं स्थानमाप्नुयात् ॥ २६ ॥
आयुष्यमल्पं बाहुलाश्च विद्या आयुःप्रमाणं च कियन्न विद्मः ।
स्वाभीष्टमेव प्रतिलम्भनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ २७ ॥
अर्वाग्दृशा मोहवशेन चापि क्षमो न सत्यद्वयनिर्णयेऽपि ।
उक्तीर्गुरूणामिह सम्प्रतीत्य न्यस्तं द्वयं नागमतं हि सत्यम् ॥ २८ ॥
राज्ञोऽनुरोधेन सुवर्णद्वीपे कृतेऽत्र श्राद्धो यदि वा जनोऽद्य ।
गृह्णातु सम्यक्सुपरीक्षणेन न श्रद्धया नैव च गौरवेण ॥ २९ ॥
सौवर्णराजेन गुरोःफलेन संप्रेषितो देवमतिर्हि भिक्षुः ।
तस्याग्रहात्सत्यद्वयावतारो युक्त्या सुधीभिस्त्विह वीक्षणीयः ॥ ३० ॥
आचार्यदीपङ्करश्रीज्ञानविरचितः सत्यद्वयावतारः समाप्तः ।
तेनैव पण्डितेन अनुवादकेन वीर्यसिंहेन चानूद्य संशोध्य च निर्णीतः ।�