सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८ सर्गः]
177
भरतस्तद्वधोद्युक्तं शत्रुघ्नं तु न्यवारयत


तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः ।
चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ १७ ॥

 ’भाण्डं भूषणमात्रेऽपि ' इति विश्वः ॥ १७ ॥

तेन भाण्डेन []संस्तीर्ण श्रीमद्राजनिवेशनम् ।
अशोभत तदा भूयः शारदं गगनं यथा ॥ १८ ॥
स बली बलवत्क्रोधात् गृहीत्वा पुरुषर्षभः ।
कैकेयीमभिनिर्भर्त्स्य बभाषे [] परुषं वचः ॥ १९ ॥

 कैकयीमभिनिर्भर्त्स्येति । कुब्जाया मोचनार्थमागतामिति शेषः ॥

तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।
शत्रुघ्नभय[] वित्रस्ता पुत्रं शरणमागता ॥ २० ॥

 परुषैः -- मर्मग्राहिभिः, अत एव दुःखैः । भयवित्रस्तेति । कुब्जारक्षणार्थमागतेति कोपात् कैकेयीं च प्रहर्तुमुद्यतवान् शत्रुघ्न इति स्पष्टम् ॥ २० ॥

[] तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।
अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ २१ ॥
हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।
यदि मां धार्मिको रामः । [] नासूयेन्मातृघातकम् ॥ २२ ॥


  1. संकीर्ण-ङ.
  2. वाक्यानामननुवादः अत्यन्तपारुष्यादनुवादानर्हत्वतः, अशक्त्या वा स्यात् ।
  3. संत्रस्ता-ङ.
  4. तं-ङ.
  5. नासूयेत-न गर्हेत- गो.