कामं तु मम यत्सैन्यं मया सह गमिष्यति ।
बलेन चतुरङ्गेण स्वयमेत्य [१]निशाचरान् ॥ ७ ॥
वधिष्यामि, मुनिश्रेष्ठ ! शत्रूंस्ते मनसेप्सितान् ।
इत्येवमुक्तः स मुनिः राजानमिदमब्रवीत् ॥ ८ ॥
रामानान्यद्वलं लोके पर्याप्तं तस्य रक्षसः ।
देवतानामपि भवान् समरेष्वभिपालकः ।। ९ ।।
आसीत्तव कृतं कर्म त्रिलोके विदितं,नृप !
काममस्तु [२]महत् सैन्यं तिष्ठत्विह, परंतप ! ॥ १० ॥
आसीत्तवेति । त्वया कृतं तव कर्म त्रिषु लोकेषु विदितं यद्यपि, ते कामं महत् सैन्यमस्ति, सर्वमपि तदिदैव तिष्ठतु ।। १० ।।
[३] बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे ।
गमिष्ये राममादाय स्वस्ति तेऽस्तु, परंतप ! ॥ ११ ॥
एवमुक्ता तु स मुनिः तमादाय नृपात्मजम् ।
जगाम परमप्रीतः विश्वामित्रः स्वमाश्रमम् ।। १२ ।
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य [४] दीक्षितम् ।
[५].बभूवोपस्थितो रामः[६]. चित्रं विष्फारयन् धनुः ॥ १३ ॥
अजातव्यञ्जनः श्रीमान् [७]पद्मपत्रनिभेक्षणः ।
[८] एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ १४ ॥