४२४ विशिष्टाद्वैतसिद्धिः [ १०० उक्तम् । जीवस्यैव शुद्धबुद्धमुक्तस्वभावब्रह्मभेदबोधकं शास्त्रमिति प्रति- पादयन् शङ्करः तद्विरांधेन नन्तृनन्तव्यभावेन भेदगर्भ नमस्कार करणं मन्थारम्भे अनुचितं मेने तस्मावश्यकर्तव्यमनिन चकारत्येकं समा- धानम् | आरम्भवाक्ये प्रत्यगर्थानुसन्धानेन मङ्गलं कृतमिति व्याख्यातृ- भिरुक्तं अपरं समाधानम् | तत्त्वांकायां श्रीदेशिकचरणास्तु “स च मङ्गलाचारः केषुचिद् ग्रन्थेषु अष्टोऽपि निमित्तफताभ्यामुन्नेयः" इति प्रथमं मङ्गलमनुमेय- मुक्त्वा तदनन्तरं 'अथवा शबरशङ्करयोः' इत्यादिना श्रुतप्रकाशिकोक्तं प्रथमं समाधानमभिधुः । ततः परं कृतस्य मङ्गलस्य ग्रन्थे निवेशनम- प्यावश्यक मिति प्रतिपादयन्तः तदुपष्टम्भकप्रदर्शनावसरे अत एव युष्मदस्मदित्यादौ कुग्रन्थत्वमाशङ्कय प्रत्यक्तत्त्वानुसन्धानेन (स) मङ्गल- त्वमाचख्युर्व्याख्यातारः' इति द्वितीयमपि समाधानमन्ववद्न् | परन्त वस्तुतः इदं समाधानमयुक्तमिति मत्वा 'तन्त्र मन्दम् | युष्मदर्थानुसन्धानस्यैव तत्रापि प्राथम्यात् । मध्यलघुत्वेन बह्निदेवत्यस्य रगणस्य निवेशाच इत्यब्रुवन । बहिर्ग्रन्थं मङ्गलमाचरितम | औचित्र्यावरहात् ग्रन्थे अनि बन्धनमित्येव वाच्यमित्येषामभिप्रायः । तदेषामपि सूत्रभाष्यदूपणा- भिप्रायो नैव लक्ष्यते | अत्र मङ्गलादर्शनात श्रीभाष्ये दृश्यमानं मङ्गलं न युक्तमित्या क्षेपपरिहाराय तत्रापि मङ्गलमाचरितमेव | ग्रन्थेऽनिवेशनं तु चित्यविरहातूंं, इत्येतावन् ते वदन्ति । तद्द्वगन्तुमक्षमः शास्त्री था अपरानोति । उपनिषदो भिन्नाः | वेदभेदेन शाखाभेदेन च पृथक् पृथगाम्नानात् । अतस्तद्भाष्याण्यपि भिन्नान्येव । वेदान्तपदवाक्यभाष्यरूपस्य सर्वस्य एकग्रन्थत्वाभिधानं केवलमज्ञत्वनिबन्धनम् । सूत्रभाष्यस्य मङ्गलवत्त्व- सध्यै पनिषद्भाष्याणां प्रथमर चितत्वं, तेष्वपि तैत्तिरीयभाष्यस्य
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३७
दिखावट