२३८ वशिष्टाद्वैतसिद्धिः द्वितीयः जगतो कसकलत्रमागाप्रामाण्यप्रसञ्जकत्वात् सुदृढप्रतीतिविषयस्य मिथ्यात्वापादकत्वात् पदवाक्यदोषबहुलत्वाच्च तत्त्वमसिवाक्यस्य नाद्वैनपरत्वं सम्भवि । • त्वतसदाभ्यामुपस्थितयोर्जीवेश्वरयोः सामानाधिकरण्यवोधि- ताभेदान्वयः कुतो न भवति ? भेदादिति चेन्, किं विशेषणमात्रेऽयं भेदः उत स्वरूपेऽपि ? आये विशेष्याभेदः प्राकू प्रतिपन्नो न वा । प्रतिपन्न - श्चेत् अस्य वाक्यस्य ऐक्ये मानत्वोक्तिरयुका | असम्भविनी चान्यतः प्रतिपत्तिः । प्रत्यज्ञानुमानाभ्यां भेदस्यैव सिद्धेः । ऐक्यत्रोधकस्य श्रुति- वाक्यान्तरस्य एतत्तुल्यत्येन प्रापकत्वानुपपत्तेः । अप्रतिपन्नश्चेत् विशेषण- मात्रभेदोक्तिरयुना। विरुद्ध विशेषणाना विशेष्यभेदकत्वावश्यम्भावात् । अन्त्ये सिंहा देवदत्त इत्यादिवत् पूर्व प्रतीतभेद विरोधेन अर्थान्तरल- क्षणयैव अभेदान्बयो निर्वाह्य इति नात्र जीवेश्वरैक्यप्रामतिर्भवितुमहति । पिच निर्धर्मकस्वरूपमात्रस्य प्रत्येतुमशक्यत्वात् पवन पि स्वरूपमात्राभिधाने घटो घट इतिवत् अवोधकत्वेन वाक्यस्यैवाप्रामाण्या- पत्तेः, स्वरूपमात्रावगाहिनिर्विकल्पकजनकत्वस्य क्वापि वाक्ये अदृष्ट- त्वेनामावोग'न्, अभ्युपगमेऽपि तत्पदलक्ष्यस्वरूपस्य त्वम्पदलक्ष्य- स्वरूपेण सह्रैक्याबोधऋत्वाच्च नास्य वाक्यस्य ऐक्ये मानत्वं कथमपि सम्भवति । न च तात्पर्यस्य सर्वंतो बलीयस्त्वात् सर्वमिदं सह्यम् | अद्वैततात्पर्ये मानाभावान् | वाक्यस्थैः पड़ैरेव हि तात्पर्यमध्यवधारणीयम् । न हि रामो रावणमवधीदित्युक्ते तात्पर्य बलीयस्त्वमपदिश्य रावगपक्षपाति- रभिधीयमानलाक्षणिकविपरीतार्थान्तरपरत्वं वाक्यस्यास्माभिरङ्गीकर्तु शक्यम् । अथोच्येत – जीवो यदि परमार्थतः सर्वेश्वराद् भिन्नः, तस्य बन्धश्च पारमार्थिकः, उपासनेन च क्रियारूपेण यजनेनेव स्वर्गो मोक्ष- स्तस्य भवति तहिं स्वर्गबन्मोक्षोऽप्यनित्यः म्यात् | साध्यत्वात् । तथा S
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५३
दिखावट