१३० विशिष्ट तसिद्धिः प्रथमः ननु अहङ्कारस्य अविद्यापरिणामत्वान् तस्य अज्ञानाश्रयत्वं न घटते । तेनास्मिन् परामर्शे अहमिति उपहित चैतन्यमेव विवक्षणीयम् । तस्य च स्वयम्प्रकाशत्वात् सुषुप्तावप्यनुभवो वाच्य इति चेन्न । प्रकृतिपरिणाम- रूपस्य जडस्याहङ्कारस्य, अहमस्वाप्समित्यादिप्रतीतिविपयस्याहमर्थस्य प्रत्यगात्मनश्चात्यन्तं भिन्नत्वात् । अस्य चाहमथस्य प्रत्यगात्मनोऽज्ञाना- श्रयत्वोपपत्त्या ततिरिक्तस्यात्मनोऽसिद्धेः । ननु सुषुनौ। यह मत्यनुभवो नोपलभ्यत इति चेत् चैतन्यानुभवः किमुपलभ्यते ? असम्भवी च अह- मुल्लेखरहितश्चैतन्यस्य स्वानुभवः । सर्वो हि प्रत्ययः अहमिति वा इद- मिति वा भवति । तत्र प्रत्येतुः स्वात्मावगाही प्रत्ययः अहमित्येव भवेन् नान्यथा | तेन सुषुप्रौ यद्यात्मनः स्वानुभवोऽस्ति तहि सः अर्हामत्येवंरूप एव । अन्यथा अनुभव एव नास्तीति स्यात् । न तु अहमुल्लेखशून्यः कदिनुभवोऽस्तीति शक्यं साधयतुम् । एतेन 'नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्तीति' इति सुषुप्रिविषया श्रुतिरपि तदानीन्तनाहमर्थाज्ञाने प्रमाणम्' इत्येतन्निर- स्तम् । आत्मानं न जानातीत्यात्मज्ञानस्यापि प्रतिषेधात् । यत्तु 'अहरह- र्गच्छन्त्यः’, ‘सति सम्पद्य नवदुः' इत्यात्मवेदनबांधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्तं मि’त तन्न । अनयोः श्रुत्योः जीवानां ब्रह्मसम्प- त्तिपरत्वात् स्वात्मवेदनबोधकत्वाभावात् । सम्पत्तिपदवाच्यसम्बन्धविशे- षमात्र परत्वेन ब्रह्मवेदनबोधकत्वाभावाच । विशेषाज्ञानपरत्वेऽपि अहमु- ल्लेखातिरिक्तविशेषान्तर राज्ञानपरत्वस्यैव वाच्यत्वाश्च । तथा संह/^: आत्मानं सम्प्रति सः यथा वर्तने, साान् तथा, तद्रूपतया न जानाति कथम् | अहं अयं अस्मिन् कुले जातः अस्मिन् मे वर्तमानः एत- न्नामा अस्मिन् देशे काले अस्मीति एवं न जानातीति ह्यस्याः श्रुतेरर्थः । त्तत्र अहमथंस्य आत्मनः स्वशरीरादिविशेषाज्ञानमुच्यते, नत्वहमर्था- ज्ञानमिति स्पष्टम् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४५
दिखावट