असार्वज्ञ्यम् ३५. असायम् । अज्ञत्वाभिधानेन ब्रह्मस्तवानन्तरं सार्वज्याभिधानेन स्तुवन्नाह - “शुद्धं ब्रह्म न सर्वज्ञम् | किन्तु विशिष्टमेव | तच्चाविद्यां विना न सम्भव तीति अविद्यासिद्धिः । तथा हि । सर्वज्ञी हि प्रमारणतः स्वरूपज्ञप्त्या वा । तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वात् । असङ्गम्वरूपज्ञप्तेश्चं विद्यांविना विषयासङ्गतेः । तदुक्तम् – स्वरूपतः प्रमाणैर्वा सर्वज्ञत्व द्विवा स्थितम् । तच्चोभयं विनाऽविद्यासम्बन्धं नैव सिद्धयति ।" इति । अनेन अस्मदवलम्बिता द्वैत सिद्धान्तविरोधित्वान् सर्वेश्वर सार्वज्ञ्यमापन मृष्यामह इत्युक्तं भवति । प्रामाणिकास्तु "यः सर्वज्ञः सर्ववित्”, "स्वाभाविकी ज्ञानवलक्रिया च”, “वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि”, इति श्रुतिमृतिशतप्रतिपन्नं तदपह्नु, - वानाननुक्रम्पन्ते । श्रुतमिदं सार्वज्ञ्यमाविद्यकमिति कुनः कल्यते ? अद्वै- तासिद्धेरिति चेत् अद्वैतं परित्यज्य श्रुतं सार्वज्ञ्यं कुतो नेष्यते । तरव- मसीत्यैक्यश्रवणविरोधःदिति चेन्न, ऐतदात्यमिदं सर्वमित्युपक्रमानु- रोधेन नीलो घट इतिवत् प्रकारप्रकारभावमादायैव सामानाधिकरण्यो- पपत्तौ लज्ञाश्रयणप्रमाणान्तरबाधवाक्यान्तरशतबाधा दीनानगन्यान ऐक्यश्रवणसिद्धेः । तथा च परिच्छेदः स्वरूपतो न सर्वज्ञो न प्रमाणैरपीश्वरः । सर्वज्ञानाश्रयत्वेन सर्वज्ञ श्रुतिराह तम् || अतः स्वभावसंसिद्धसार्वज्ञ्योद्भासिनः प्रभोः । अज्ञता दुर्घटाऽत्यन्तमर्कस्येवान्धकारिता || १२३ ३६, जीवाविद्या अनतिकठिनदयो वाचस्पति मिश्रः जगत्कारणे परतत्त्वे अविद्या- कल्पनमनिच्छन् जीवाश्रयैवा विद्येत्याह । तथाऽपि निर्गुणस्यैव ब्रह्मणोऽङ्गी-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३८
दिखावट