सर्गः १०३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सर्वभोगैः परित्यक्तं रामं संप्रेक्ष्य मातरः || आर्ता मुमुचुरश्रणि सखरं शोककर्शिताः ॥ १७ ॥ तासां रामः समुत्थाय जग्राह चरणाञ्भान् || मातृणां मनुजव्याघ्रः सर्वासां सत्य सङ्गरः ॥ १८ ॥ ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलिंतलैः शुभैः ॥ प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ १९ ॥ सौमित्रिरपि ताः सर्वा मातृः संप्रेक्ष्य दुःखितः || अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २० ॥ यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः ॥ वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २१ ॥ सीताऽपि चरणांस्ता सामुपसंगृह्य दुःखिता ॥ श्रश्रूणामश्रुपूर्णाक्षी साँ बभूवाग्रतः स्थिता ॥ २२ ॥ तां परिष्वज्य दुःखार्ती माता दुहितरं यथा ॥ वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २३ ॥ विदेहराजस्य सुता स्नुषा दशरथस्य च ॥ रामपत्नी कथं दुःखं संप्राप्ता 'निर्जने वने ॥ २४ ॥ पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम् || काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २५ ॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् || भृशं मनसि वैदेहि व्यसनारणिसंभवः ॥ २६ ॥ ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः || पादावासाद्य जग्राह वसिष्ठस्य चं राघवः ॥ २७ ॥ पुरोहितस्याग्निंसमस्य वै तदा बृहस्पतेरिन्द्र ईवामराधिपः ॥ प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ २८ ॥ ततो जघन्यं सहितैः सैंमत्रिभिः पुरप्रधानैश्च 'सहैव सैनिकैः ॥ जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाऽग्रजम् ॥ २९ ॥ उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ॥ श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ ३० ॥ किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ॥ इतीष तस्यार्यजनस्य तवतो बभूव कौतूहलमुत्तमं तदा ॥ ३१ ॥ स राघवः सत्यवृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः || ३८७ सत्येत्यन्वयः ॥ १५ – १८ ॥ रामस्यायतलोचना | शेषः । आश्रयं आश्रयभूतंकाष्ठादिकं ।। २५ – २८ ।। इतिपाठः ॥ १९ ॥ असक्तं अविरतं । “ अविरत- ततोजघन्यं वसिष्ठरामोपवेशादनन्तरं । उपोपविष्टः । मनवरतंस्यादेकार्थमनारतमसक्तमपि " इतिहलायुधः || २० || ववृतिरे चक्रुरित्यर्थः ॥ २१ – २४ ॥ तेमु- " प्रसमुपोदः पादपूरणे ” इतिद्विर्वचनं ॥ २९ ॥ खंप्रेक्ष्य स्थितामितिशेषः । मां मनसिस्थितःसन्निति | कृताञ्जलि: अभूदितिशेषः ॥ ३० ॥ इतीवेत्यत्र इवश- स० सत्यसंगरः सत्याकैकेय्यासह नविद्यतेसंगरः कलहोयस्यसः | सत्यप्रतिज्ञइतिवा ॥ १८ ॥ ति० पृष्ठात् पृष्ठदेशात् । “पृष्ठं तुचरमंतनोः” इत्यमरः ॥ १९ ॥ स० आसतं आसक्तिपूर्वकं स्नेहपूर्वक मितियावत् ॥ २० ॥ ति० वनवासकृतांदीनां वनवास- कृत दीनत्ववतीमितियावत् । शि० वनवासेकृतंप्रयत्नोयस्यास्तां अतएवदीनांक्षीणत्वेनप्रतीयमानां ॥ २३ ॥ ति० शोकाग्निः आश्रयं गृहमिव ॥ आशय मिति पाठेप्याशयो गृहमेव आशय्यतेऽत्रेतिव्युत्पत्तेः ॥ २६ ॥ ति० जघन्यं जघनभागं पृष्ठभागमाश्रि तस्सन्नु पोपविष्टोबभूवेत्यन्वयः | शि० जघन्यं निम्नदेशमवलोक्य तत् आग्रजं अग्रजासनं | उपोपविष्टः ॥ २९ ॥ [ पा० ] १ ग. ङ. झ. ट. तंभोगै: संपरित्यक्तं. छ. तंभोगैः परिसंव्यक्तं. २ च. सुखरं. ३ ङ. च. छ. झ ञ ट चरणांबुजान्. ४ ग. घ. ज. शुभस्पर्शै: ५ घ. ज. दलैः ६ ख. ग. च. दुःखिताः ७ घ. – छ. झ ञ ट संबभूव ८ ग. ङ. छ. झ. ट. कृतां. ९ ङ. छ. झ. ट. विजने. १० क. ङ. झ ञ ट. सराघवः. ११ क. ख. ग. ङ. च. झ ञ ट. समस्यतस्य वै• १२ ङ. इवामराग्रजः १३ क. ख. सहतैः १४ ङ. छ. झ. ट. खमन्त्रिभिः १५ क, ख. ङ, च, झ, ञ. ट. तथैव. १६ ङ. छ. झ. ट, तदाति. क. – घ. च, ज, ञ, तदास. १७ च. न. सर्वतो. ।
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९१
दिखावट