महार्थमञ्जरी इति । एवञ्च विश्वग्रसनयुक्त्या स्वाहादलाभानुभूतिमत्स्वसंविद्वमनसु- द्रया तस्य मायीयतादोषशङ्काप्यपमृज्यत इति तात्पर्यार्थः । 'तिउडिमअ- खु समथ्र्थ्य' इत्यादिकायां गाथायां प्रमात्रादित्रितयात्मनः प्रपञ्चस्य चिन्मयत्वमुन्मीलितम् । अत्र तु तस्य चिन्मयत्वादेव होतोमययितारू- पापवादपर्युदास इति विशेषः । ६३ ।। नन्विदं योगिनां नैश्चिन्त्यमाणवायुपायसव्यपेक्षतया विकल्पक- क्ष्योल्लङ्घनक्षमत्वादनैश्चिन्त्यपक्षमनुप्रविशतीत्याशङ्कयाह - जह तुह ठिई तहच्छस णिश्चिन्तोत्ति हु पडिडिओ अत्थो । तत्थ वि अस्थि विवेओ एव्वं उवदिसइ तस्स को अण्णो । यथा तब स्थितिस्तथास्व निश्चिन्त इति खलु प्रतिष्ठितोऽर्थः । तत्राप्यस्ति विवेक एवमुपदिशति तस्य कोऽन्यः ॥ इति । यद्यप्याणवायुपायानां भेदप्रथानुप्राणनतया विकल्पपर्वानु प्रवेशः, तथाप्याणवे विकल्पौल्वण्यम् । शाक्ते तस्य स्फुरत्तामात्रम् | शा- म्भवे तु निर्विकल्पत्वमित्युत्तरोत्तर पर्वानुशीलनादुक्त रूपमेषां नैश्चिन्त्यम- व्याहतम् । यत् पुनः शाम्भवेऽप्युपाय सामान्यानुप्रवेशात् सूक्ष्मेक्षिकया किञ्चिद्विकल्पशङ्काया अवर्जनीयत्वं तदपि निरुपायपर्वसन्निकर्षादत्य- न्तशुद्धसंविन्मयं सत् पर्यन्ततो विकल्पवार्तानभिज्ञतायां पर्यवस्यति । तथाहि - , “यथा स्थितैस्तथैवास्स्व मा गा बाह्यमतौन्तरम् । केनचिञ्चिद्विकासेन विकारनिकरान जहि ।।" इति स्थित्या तवोपदेशस्य येन प्रकारेण स्थितिः वृत्तिर्भवति, तेनैव प्रका- रेण विकल्पलक्षणां चिन्तामतिक्रामन्नास्स्व अव्याकुलं वर्तस्वेति योऽय- मुपायभूमिलक्षणोऽर्थः स खल्वाणवादिक्रमोल्लङ्घनेन प्रतिष्ठितः शाम्भवता- त्मना पार्यन्तिक इत्याख्यायते । तत्रापि कश्चिद् विवेकोऽस्ति । पर्या- 'था' ख. ग. पाठः १. 'वेऽपि वि', २. 'ति' क. पाठ:. 'स्मृतिर्भ' क. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८६
दिखावट