परिमलोपेता 1 भेदोऽपि तद् त्रत्वभेदोपश्लेषसौभाग्यालवणाकरावगाढसर्वलावण्यन्यायेन दूष्यतयैवावतिष्ठते । यदस्माभिर्विभागनिबन्धन एव भेदो विश्वस्याभ्युप- गम्यते । न तु पृथक्त्वोपाधिकः, तयोर्द्धितीयेनैवाभेदस्य विरोधात् । ननु भेदानुषङ्गदौर्भाग्यादभेदस्यापि दृष्यत्वमिति विपर्ययः किं न स्यादिति चेत् । न । प्रकृतिर्हि विकृतिमनुगृह्णाति । तत्र चाभेदः प्रकृतिरन्यो विकृ- तिरित्यभ्युपगन्तव्यम् । यतो भिन्नानामपि पदार्थानां प्रातिस्विकेन रूपेणै- क्यमपरिहार्यम् । तदेव चाभेद इति विश्वविलासँस्यास्य वास्तवस्वभावो- sयमभेद एवेलन न काचिदनुपपत्तिः । यदत्रैव वस्तुनि 'एकमेवाद्वितीयं ब्रह्म', 'नेह नानास्ति किञ्चन' इत्यादयोऽनन्ता उपनिषद् उन्मिपन्ति । ननु व्याहतोऽयमथ मेदयभेदन्येति चेत् । दन्त प्रकान्तं स्मृतमायु- ष्मता एवमतिदुर्घटेज कार्यघटनहेतोर्हि भगवतो माया नाम काचिदति- महती शक्तिरस्तीक्रियते । एतेनाद्वैतमेव सर्वसाः सिद्धान्तः । तच्च पार्यन्तिकी प्रतिष्ठेति परावस्था | भेदाभेदस्तु व्यवहारसर्वस्वं निर्वहन विश्वस्य विश्वोत्तीर्णस्य च सम्बन्धत्वभावो विजृम्भत इति परापरावस्था । मेदश्य विश्वोत्तीर्ण परमेश्वरकाशपरामर्शत्रागल्भ्य पल्लवपरम्पराप्रायता विश्व- वैचित्र्यशिल्पकल्पनाचित्रमण्डपायमान विभ्रमः प्रसर्पतीत्यपरावस्था । यासु क्रमात् सुप्रबुद्धः प्रबुद्धोऽप्रबुद्ध इति योगितारतम्यम् । आसु च सर्वा- स्वपि पारमेश्वरप्रकाशानुस्यूतेर्न कचिदपि वैलक्षण्यमित्यतिविचक्षणैकशिक्ष- ●णीयोऽयमास्माकीनः पक्ष इति । तदुक्तं पर्यन्तपञ्चाशिकायाम् - “अनन्तैताव दाकार स्वीकारेऽप्येकलक्षणाम् । ३ तां स्वसंविदयाविश्व विकल्पान विकल्पयेत् ॥” इति । एता एवोपासकजनापेक्षया तत्तदेवतात्वेनाराध्यन्ते । यदुक्तं श्रीत- न्त्रालोके - w “परा चन्द्रसमप्रख्या रक्ता देवी परापरा | अपरा सा परा काळी भीषणा चण्डयोगिनी ॥" १. 'का', २. 'नु', ३. 'कतया वि . पाठः ४, 'नु दोषानु', क. पाठः ६. 'कदाचि' ख. ग. पाठः, ७. क. पाठ:. ९. 'टका' १० 'य' ग. पाठ:. H ५. 'सस्य' 'क' ग. पाठ:. ८. 'श्चात्मभे'
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६७
दिखावट