ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय • एकस्मिन्नेव तेजस्युत्क्रान्तिसमये जीवो नावतिष्ठते, उक्तदेहस्य पाञ्चभौ- तिकत्वेन पञ्चसु भूतेष्ववस्थितेरावश्यकत्वात् । दर्शयतो हि । इममर्थे रंहत्यधि- करणे* व्याख्याते प्रश्ननिरूपणे इत्यर्थः ॥ ६ ॥ ४ आसृत्युपक्रमाधिकरणम् पूर्वोक्तोत्क्रान्तिमुपजीव्यान्यत् किञ्चिद्विचार्यत इत्युपजीव्योपजीवकभावस- इत्येदमाह - समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥ अत्र पूर्वपक्षे दहरायुपासकस्योत्क्रान्त्यभावादिहैव मुक्तिः, सिद्धान्ते तत्क्रान्ति- सम्भवाद् ब्रह्मलोकप्राप्तिरिति फलभेदः । किमुत्क्रान्तिरविदुष एव, उत दहरादिसगु- णब्रह्मोपासकस्यापीति सन्देहे 'तयोर्ध्वमायन्नमृतत्वमेति' (छा. ८-६-६) इत्युपास- कस्य मोक्षश्रवणादविदुष एवेति पूर्वः पक्षः । सिद्धान्तस्तु आसृत्युपक्रमाद् देवया- नमार्गोपक्रमात् प्राग् येयमुत्क्रान्तिः सा विद्वदविदुषोः समाना भवितुमर्हति । कुतः, ‘वाङ् मनसी’त्याद्यविशेषश्रवणात् । ननु कथं तर्हेि सगुणविद्यायाममृतत्वश्रवणमिति तत्राह- अमृतत्वं चानुपोष्य । अदग्ध्वात्यन्तमविद्याक्लेशजाँतम् । एतदमृतत्वमा- पेक्षिकमित्यर्थः ॥ ७ ॥ - --
५ तदापीत्यधिकरणम् ननूत्क्रान्तिः समानेत्ययुक्तम् अमृतम्य स्वरूपत एवात्यन्तं ब्रह्मसम्पत्तेरि त्याक्षेपसङ्कत्येदमाह-
तदापीतेः संसारव्यपदेशात् ॥ ८ ॥ अत्र पूर्वपक्षे मृतमात्रस्य मुक्तिः, सिद्धान्ते तदभाव इति फलभेदः । ‘तेजः परस्यां देवतायाम्' (छा. ६-८-६ ) इत्यत्र साध्यक्षं भूतान्तरसहितं तेजः परमा- त्मनि सम्पद्यत इति तेजसो लय इति श्रूयते । स किमात्यन्तिक उत नात्यन्तिक इति सन्देहे परमात्मनः सर्वोपादानत्वात् तत्रात्यन्तिक एव लय इति पूर्वः पक्षः । सिद्धान्तस्तु तद् यथोदीरितं तेज आपीतेरामोक्षादवतिष्ठते । कुतः, ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः' (क. ५-७) इत्यादिना संसारव्यपदेशात् । अन्यथा पुनः संसाराभावः प्रसज्येत । तस्मात् सुषुप्ताविव नात्यन्तिकलय इति सिद्धम् ॥ ८ ॥ २. 'मानैव भ' ख. पाठः. ३, 'जालम्' ख. पाठः. १. 'पूर्वोत्का' क.पाठः. ४. वः पुनः प्र' ख. पाठः.
- रंहत्यधिकरणं तृतीयाध्यायप्रथमाधिकरणम्,