ब्रह्मसूत्रवृत्तौ ब्रह्मतत्वप्रकाशिकायाँ इति फलभेदः । अत्र किं विद्यायाः स्वोत्पत्तौ कर्मापेक्षास्ति न वेति सन्देहे नास्ती- ति पूर्वः पक्षः । सिद्धान्तस्तु विद्यायाः स्वोत्पत्तौ सर्वेषामाश्रमकर्मणामपेक्षास्ति । कुतः, यज्ञादिश्रुतेः । 'विविदिषन्ति यज्ञेन' (वृ. ४-४-२२) इत्यादिना यज्ञादि कर्म- णां विविदिषाद्वारा ज्ञानसाधनत्वश्रवणात् । ननु परम्परया ज्ञानोत्पत्तौ कर्मापेक्षा- वन्मोक्षेऽप्यस्त्वपेक्षा । तत्राह · अश्ववद्, यथाश्वो योग्यताबलाद्रथचर्यायां विनि- युज्यते न लाङ्गलाकर्षणे तद्वत् कर्मणां मोक्षे योग्यत्वाभावान्नोपेक्षेत्यर्थः ॥ २६ ॥ ज्ञानोत्पत्तौ बहिरङ्गमभिधायान्तरङ्गमभिधातुमाह- BUNDAY शमदमाधुपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषा- मवश्यानुष्ठेयत्वात् ॥ २७ ॥ यद्यध्यत्र विविदिषन्तीति वर्तमानापदेशान्न विधिः, तथापि शमदमाद्युपे - तस्तु ब्रह्मज्ञानार्थी स्यात् । कुतः, तदङ्गतया विद्याङ्गतया तद्विधेः । 'तस्मादेवंवि- च्छान्तो दान्त उपरत' (बृ. ४-४-२३) इत्यादिना तेषां शमदमादीनां विधा- नात्, तेषां विहितानां चावश्यानुष्ठेयत्वादित्यर्थः ॥ २७ ॥ ,
- ७ सर्वान्नानुमत्यधिकरणम् *
पूर्व यथा विद्यासन्निधानाच्छमादिकं विद्याङ्गं विधीयत इत्यभिहितं, तथा सर्वान्नानुमतिर्विद्यानमेव विधीयत इति दृष्टान्तसङ्गत्वेदमाह - सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥ अत्र पूर्वपक्षे प्राणविदो भक्ष्याभक्ष्यविभागासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । बृहदारण्यके (६-१-१४) प्राणविद्यायां श्रूयते 'न ह वा अस्यानन्नं जग्धं भवति' इति । तत्र प्राणोपासकस्य किमिदं सर्वान्नानुज्ञानं विद्याङ्गं विधीयते उत स्तुत्यर्थ सङ्कीर्त्यत इति संशये विद्याङ्गं विधीयत इति पूर्वः पक्षः । सिद्धान्त- स्तु प्राणात्यये सर्वमन्नं सुरावर्जे यत् तस्य विद्वांसमविद्वासं वा प्रत्यदनीयत्वेनानु- मतिरनुज्ञानं, न स्वस्थं प्रति । कुतः, तद्दर्शनात् । चाक्रायणोपाख्याने उषस्तेश्चा- क्रायणस्यापत्काल एव हि तस्य हस्तिपकोच्छिष्टकुल्माषभक्षणस्य दर्शनादित्यर्थः । एवञ्च विध्यभावादिपर्यन्तस्यान्नस्यैकेनात्तुमशक्यत्वाच्च न सर्वान्नानुज्ञानं विद्यानं १. 'सर्वानुज्ञा' कपुस्तके पाठः. २. ‘च्छ्वादिमर्यादान्न’ खपुस्तके पाठः,