तृतीयाध्याये द्वितीयः पादः । १०३ नद्वयसाध्यस्य कर्मणोऽधं कृत्वा सुप्तः पुनरुत्थायावशिष्टम करोति । अनुशब्देन प्रत्यभिज्ञा सूच्यते 'योऽहमतीतेऽप्यहनि घटमद्राक्षं स एवैतर्हि स्पृशामी त्याद्या- कारा । पश्चात् स घट इत्यादिस्मरणं स्मृतिशब्देनोच्यते । ‘पुनः प्रतिन्यायं प्रति- योन्याद्रवति बुद्धान्तायैव' (वृ. ४-३-१६) इत्यादिश्रुतिसमूहः शब्दशब्देनोच्यते । कर्मविद्याविधयो विधिशब्देनोच्यन्ते । यदि सुप्तस्य पुनर्नोत्थानं तर्धुक्तहेतवो बा- ध्येरन् । अतः सुप्त एवोत्तिष्ठतीति सिद्धम् ॥ ९ ॥
- ४ मुग्धाधिकरणम् *
पूर्व सोऽहमिति प्रत्यभिज्ञानाज्जीवस्य सुषुप्तप्रतिबुद्धैक्यमुक्तम् । तद्वद्विशे- षाभावप्रत्यभिज्ञानात् सुषुप्तिरेव मूर्छेति दृष्टान्तसङ्गत्येदमाह--- मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ अत्र पूर्वपक्षे मूर्च्छातिरेकार्थं न पृथक् प्रयतितव्यं, सिद्धान्ते तु प्रयतित- व्यमिति फलभेदः । अत्र मूर्च्छावस्था सुषुप्त्यन्तर्गता, उतातिरिक्तेति सन्देहे सु- षुप्त्यन्तर्गतेति पूर्वः पक्षः । सिद्धान्तस्तु न तावत् स्वप्नजागरिते मूर्छावस्था, तत्र ज्ञानाभावात् । नापि मरणावस्था, प्राणोष्मणोः सत्त्वात् । नापि सुषुप्तिः, भयानक - वदनवत्त्वादिलक्षणभेदात् । किन्तु परिशेषात् प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गाच्छि- ष्यमाणे वस्तुनि यः संप्रत्ययः स परिशेषः, तस्माद् । मुग्धे मुग्धिमूर्च्छावस्था तद- वस्थापन्ने विशेषविज्ञानराहित्यादिनार्धेन (सुषुप्ति) धर्मजातेन मूर्च्छावस्थायाः सम्प- नत्वादर्घेन कम्पनादिना मरणावस्थाधर्मजातेन च युक्तत्वादर्धसम्पत्तिर्मूर्च्छावस्था सुषुप्तिव्यतिरिक्तैवेत्यनवद्यम् ।। १० ।।
- ५ उभयलिङ्गाधिकरणम्
इत्थं चतुर्भिरधिकरणैरुद्देश्यत्वेन प्रथमजिज्ञास्यं त्वंपदार्थं स्वप्रकाशचिदे- करसं सर्वावस्थाविनिर्मुक्तं निर्विशेषं संशोध्य तज्जिज्ञासोपरमानन्तरमवसरसङ्गत्या विधेयत्वेन जिज्ञास्यं तत्पदार्थ शोधयितुं पादशेषमारभमाणो मूर्च्छावस्थाया विरुद्ध - सुषुप्तिमरणावस्थोभयधर्मवत्त्ववैद् ब्रह्मणोऽप्युभयरूपत्वं भवत्विति दृष्टान्तावान्तर- सङ्गत्येदमाह - न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ १. 'ककम्पनव' खपुस्तके पाठः. २. 'वत् परब्र' खपुस्तके पाठ:. १३. 'त्वमस्त्विति' खपुस्तके पाठः,