सामग्री पर जाएँ

पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १३९ मैत्री – *ता गच्छदु पिअसही । अहँवि स्सकं णिओअं अणु- चिट्ठामि । श्रद्धा – एवं भवतु । (इति निष्क्रान्ते ।) ( विष्कम्भकः ।) (ततः प्रविशति राजा प्रतीहारी च । ) राजा - आः पाप महामोहहतक, सर्वथा हतस्त्वयायं महा- जनः । तथाहि- - शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली- निर्मुक्तेऽमृतसागराम्भसि मनायझोऽपि नाचामति ।

  • तद्गच्छतु प्रियसखी । अहमपि स्वकं नियोगमनुतिष्ठामि ।

रति । 'कर्मणो रोमन्थ-' इत्यादिना क्यच् | विष्कम्भक इति । विष्कम्भको निर्दिष्ट इत्यर्थः । ततः प्रविशतीति । उपनिषत्संगमार्थं तपस्यतीत्यनेन पात्रसू- चनम् । शान्तेऽनन्तमहिम्नीति । शान्तेऽविद्याविक्षेपरहिते निर्मले निर्विकारे । उदासीन इति यावत् । अनन्तमहिनि । अतन्तश्चासौ महिमा चेति विशेषणस- मासः । तस्मिन् । अनन्तोऽपरिच्छिन्नः देशतः कालतो वस्तुतच परिच्छेदरहितः सर्वदेशकालव्यापित्वाद्देशकाल परिच्छेदरहितो वस्त्वन्तराभावात् । वस्तुतः परिच्छे- दरहिते महिम्नि भूम्नि विभुखरूपे 'यो वै भूमा तत्सुखम्' इति श्रुतेः । शान्ते- ऽनन्तम हिनि जीवे । अविद्यायातं संसर्ग निवारयति । निर्मले 'निर्मलं निष्कलं शान्तम्' इति श्रुतेः । जडरूपतां व्यावर्तयति चिदिति । दुःखरूपतां व्यावर्त - यति आनन्देति । शीतोष्णवद्विशेषणसमासः । तरङ्गावलीनिर्मुक्ते निस्तरङ्गे षड्- - । उपनिषदो विरहादिति भावः । [मैत्री - तद्गच्छतु प्रियसखी, अहमपि स्वकं नि- योगमनुतिष्ठामि ।] विष्कम्भको नाम पूर्वकथासंक्षेपः । प्रतीहारी दौवारिका | शान्ते इति । अयं जनः अमृतं नास्ति मृतं मरणं यत्र तदमृतं ब्रह्म तदेव समुद्रजलं तत्र मन आम्लुतो मनागपि वल्पमपि नाचामति न पिबति । नानुभवतीत्यर्थः । अन्यसागर- जलापेक्षया विशेषमाह । कीदृशेऽमृतसागराम्भसि । शान्ते निरुपद्रवे । अन्यत्तु न तथा । नक्रशिशुमाराद्युपद्रुतत्वात् । अनन्तो निःसीमा महिमा सामर्थ्य यस्य तस्मिन् । अन्यतु गणनीयसामर्थ्यन् । निर्मलदेहेन्द्रियादिविषयमलरहित: चिन्मात्रो ज्ञानरूप आनन्दः सुखं यस्मिन् । तरङ्गा उच्चावचविकारास्तेषामावलिः पकिस्तया निर्मुक्ते रहिते । १ 'णिओगं' इति पाठः ।