सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अन्यच्च तन्त्रवार्तिके प्रथमाध्यायतृतीयपादे सप्तम- सूत्रव्याख्यानावसरे ब्रह्मवादिशब्दस्यार्थविचारप्रस्तावे णिनि- मधिकृत्य भट्टपादै: 'तच्छीलतद्धर्मतत्साधुकारित्वनिमित्तत्वात्' इति दर्शितम् । तदनुसारेणाभिनवगुप्तपादैरपि विलिखितमि- त्यपि पश्यामः । भट्टपादस्यायमाशय:- 'सुप्यजातौ इति सूत्रेण ताच्छील्ये तदधस्तनेन वार्तिकेन साधुकारिणि चार्थे णिनिः । 'आवश्यकाधमर्ण्ययोणिनि:' (PA, III, iii, 170) इति आवश्य कार्थकणिनिस्तु तद्धर्मार्थे पर्यवस्यति । न त्विह 'आ क्वे:' इति सूत्रस्य व्यापारोऽस्ति इति । विस्तरस्तु शब्दकौस्तुभे प्रौढ- मनोरमायां च 'ब्रह्मणि वद उपसंख्यान' मिति वार्तिकस्य सुप्य- जातावितिसूत्राधस्तनस्यार्थविचारसंदर्भे ॥ 288 श्लो. २९ (व्या) पदार्थस्त्वप्रसिद्ध इत्यादि । अत ऊर्ध्वं तु अप्रसिद्धः पदार्थ एव व्याख्यास्यते इत्यर्थः ॥ श्लो. ३५ (मू) मदमेव चेति रामकण्ठीयः पाठः ॥ श्लो. ३३-३५ (व्या) योगेन धारयतीति विवक्षित- योगस्वरूपमाह - कि ममेत्यादिना । तथा च एतादृशयोग- स्वरूपया धृत्या अव्यभिचारिण्या, सात्त्विकं पुरुषं कदाप्यवि- मुञ्चन्या धारयति इति मूलार्थोऽभिप्रेत आचार्येणेति भाति ॥ श्लो. ३६-३९ (व्या) आत्मप्रसादात् बुद्धिप्रसादो जायत इति । अयं च कार्यकारणभावरूपोऽर्थः आत्मबुद्धि-