सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशोऽध्यायः 253 तत् इति सर्वनामपदेन सामान्य मात्राभिधायिना विशे षपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते; अभिसं- धानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहि- त्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायो- गात् । सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते । क्रियमाण- मपि इदं यज्ञादिकं 'दुष्टम्' इति बुद्धया क्रियमाणं तामसता- मेति । विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्, बन्धाधायकमेवेति । तस्मात् 'कर्तव्यमिदम्' इति मन्वाना: [फलविशेषमनभिसंदधानाः] यज्ञादि कुर्वाणा अपि न बध्यन्ते । अनेनैवाभिप्रायेण आदिपर्वण्युक्तम्- तपो न कल्कोऽध्ययनं न कल्क: स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्क- स्तान्येव भावोपहतानि कल्कः ।। (MB, Adi, Ch, 1, verse 210) इति । कल्क:, बन्धकः । स्वाभाविक इति- 'ब्राह्मणेन निष्का- रणं षडङ्गं वेदादि अध्येतव्यम्' इति । प्रसह्य, शास्त्रलोक- प्रसिद्धोचितया चेष्टया । भावेन, सत्त्वादिगुणत्रययोगिना चि- त्तेन उपहतान्येतान्येव बन्धकानि, नान्यथा इति तात्पर्यम् । 1. B omits षडङ्गम् 2. B,N, K उपहतान्येब