उत्तरभागः । ५२७ पनिर्गत्यास्मिन्नेव शिलातले विमुक्ताङ्गी कहारसुरभिणा मन्दमन्देनाच्छोदानिले नावीज्यमाना वर्णसुधाकू कैरिव करैर्धवलितदशाशामुखे चन्द्रमसि निहितदृष्टिरपि नामायमेभिरमृतव- र्षिभिरखिलजगदाह्लादकारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेदित्याशंसाप्रसङ्गेन देवस्य सुगृहीतनाम्नः पुण्डरीकस्य स्मरन्ती कथमभाग्यैर्मे मन्दपुण्यायास्तादृशस्यापि दिव्या- कृतेर्महापुरुषस्य तस्य नभसोऽवतीर्णस्य भाषितमलीकमुपजातं जातानुकंपेन वा यथाकथं - चिंज्जीवितुमित्येव समाश्वासिता जीवितप्रिया तपस्विन्यपि येन पुनदर्शनमेव तेर्न #म न दत्तम् । किं करोतु देव: सुगृहीतनामा पुण्डरीको यः परासुरेवोत्क्षिप्य नीतः । कपि- 'जलस्तु जीवगन्तः कथमियता कालेन गतेनापि निष्करुणेन वार्तापि मे न संपादिता' इत्येतानि चान्यानि चालजालानि दुर्जीवितगृहीता चिन्तयन्ती जाग्रत्येवातिष्ठम् । अथ निभृतपदसंचरणमा चरणादुत्कण्टकमनवरतनिपतितमदनशरशल्यनिकरनिचित- मित्र शरीरमुद्वहन्तम्, उद्विकासिकेतकरजःपटलधवलं प्रथमतरमेव भस्मसात्कृतमिध मंद- सौख्यं यया सैवंविधाहं संतापं संज्वरं तस्य निर्गत्या निर्गमनहेतुनास्मिन्नेव शिलातले विमुक्ताङ्गी न्यस्तदेहा कह्लारं सौगन्धिकं तेन सुरभिणा सुगन्धिना मन्दमन्देनाच्छोदा निलेना च्छोदवायुना वीज्यमानोद्धूयमाना वर्ण- सुधा श्वेतसुवा तस्याः कूर्चकैः कुञ्चिकाभिरिव करैः किरणैर्धवलितं शुभीकृतं दशसंख्याका या आशा दिश स्तासां मुखं येनैवंविधे चन्द्रमसि कुमुदबांधवे निहिता स्थापिता दृष्टिग्यया सा निहितदृष्टिरपि । नामेति कोमलामन्त्रणे । अयं चन्द्र एभिरमृतवर्षिभिः पीयूषत्राविभिरत एवाखिलजगतः समग्र विश्वस्याहादकारिभिः प्रमोदजनकैः करैः किरणैः कृत्वा चन्द्रमाः शशाको मे मम तमपि हृदयवल्लभं चित्तप्रियं वर्षेदृष्टिं कुर्यात् । इत्येवंरूपाशंसा स्पृहा तस्याः प्रसङ्गेन संवन्धेन देवस्य पूज्यस्य सुठु गृहीतं नाम यस्यैवंभूतस्य पुण्डरीकस्य स्म रन्ती स्मृतिपथमानयन्ती । 'अधीगर्थदयेशां कर्मणि' इति षष्ठी । मे मम मन्दपुण्याया हीनसुकृताया अभा ग्यैर्दुर्दैवैस्तस्य कपिञ्जलस्य नभसो व्योमादवतीर्णस्योत्तरितस्य तादृशस्य दिव्याकृतेः सुन्दराकारस्य महापुरुष- स्यापि कथं भाषितं जल्पितमलीकं मिथ्योपजातम् । वाथवा जातानुकम्पेन समुत्पन्न करुणेन यथाकथंचित्प्रका रेण केपलं जीवितुं प्राणितुमित्येव हेतोः समाश्वासिताश्वासनां कारिता येन हेतुना जीवितप्रिया प्राणित- वालभा तपस्विनी वराक्यसि तेन हेतुना मम पुनदर्शनमेव न दत्तं पुनः समीपे नागतम् | देवः सुगृहीत नामा पुण्डरीकः किं करोतु कुर्यात् | यः परासुरेव मृत एवोत्क्षिप्योत्पाद्य नीतः प्रापितः । स्वर्गमिति शेषः । कपि- जलस्तु जीवन्गतः । कथं तेनापीयता कालेन निःकरुणेन मे मम वार्तापि किंवदन्त्यपि न संपादिता न विहिता । इत्येतानि च पूर्वोक्तान्यन्यानि च पुरो वक्ष्यमाणान्यालजालानि स्वप्नान्तर्गतप्रायाणि दुर्दुष्टं यज्जी- वितं तेन गृहीतात्मसात्कृता चिन्तयन्ती ध्यायन्ती जाग्रती जागरैवातिष्ठं स्थिता ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२४
दिखावट