सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः संतप्तपांसुपटलदुर्गमा भूः | अतिप्रवलपिपासावसन्नानि गन्तुमरूपमपि मे नालमङ्गकानि । अग्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुरपि नाम खलो विधिरनिच्छतोऽपि मे मरणमथोपपादयेत् । ऐवं चिन्तयत्येव मयि तस्मात्सरसोऽर्दूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा मुनिकुमारक: सनत्कुमार इव सर्वविद्यावदात चेताः, संवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसुरतितेज- स्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतो दिवसकर मण्डलादिवोत्कीर्णः, तहिद्भिरिव 'रेचितावयवः, तप्त कनकद्रवेणेव यहिरुपलिप्तमूर्तिः पिशङ्गावदातया देहप्रभया स्फुरन्त्या सवालातपमिव दिवसं सदावानलमिव वनमुपदर्शयन्, उत्तप्तलोलोहिनीना मनेक तीर्थाभिषेकपूतानामंसस्थ- लावलम्बिनीनां जैंटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववनदिधचया कृतकपट- , . समूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति । अतिप्रवलात्यधिका या पिपासोदन्या तयावसन्नानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि गन्तुं नालं न समर्थानि । किं वहुनात्मनो देहेन्द्रि- यसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि' धातुः । लत्तमैकवचनम् | देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदति अवशीर्यते । चक्षुरपि नेत्रमण्यन्धकारतां तिमिरतामुपयाति प्राप्नो- ति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये | खलः अशुभकरणाद्दुर्जनो वि- धिर्विधातानिच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुपपादयेत्कुर्यात् । इलेवं पूर्वोक्तप्रकारेण मयि चिन्तयत्येव विचारयसेव यदभूत्तदाह – तस्मादिति । तस्मात्पूर्वी- क्तात्सरसोऽदूरवर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालि- नाम्ना महदत्युग्रं तपो यस्यैवंभूतो मुनिरृषिः प्रतिवसतिस्म । निवासं कृतवानित्यर्थः । तत्तनयश्चेति । तस्य तनय सुतः । च पुनरर्थ | हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । स्वल्पया इत्यर्थः । तदेव पूर्वोत्तं पम्पाभिधानं कमलसरः सिनामुः स्नातुमिच्छुः | सन्नन्तस्त्रावातो रूपम् । तत्रोपागमदित्यन्वयः। तभेव विशेषयन्नाह – सनत्कुमारेति | सनत्कुमारो वैधात्ररतद्वदिव सर्वविद्यास्ववदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति । सवयोभिः सदृशवयोभिरपरैखद्भित्रैतपोधनकुमार कैस्तापसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण | उपागमदिति पूर्वेणान्वयः। द्वितीय इवैतद्भिन्न इव भगवाञ्जानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी तरय भावस्तत्ता तथा दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं कुर्वतो दिवसकरमण्डलात्सूर्यविम्वादिव | उत्कीर्ण उलिख्य कर्पित इत्यर्थः । तडिद्भिरैरावतिभिरिव रचिता निर्मिता अवयवा यस्य सः | तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः शरीरं यस्य सः । पिशङ्गेति | पिशङ्गा पीतावदाता निर्मला ।