सामग्री पर जाएँ

पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रांतसूत्रे प्रथमप्रश्न प्रथम पटल [ख. १, सू १ (भा) ऐन्द्रामपशुविधानात् सोमस्यात्मस्परणार्थत्वाच 'स एतांश्चतुर्हो - तॄनात्मस्परणानपश्यत्' इति । अतो व्याख्यातव्यानि ॥ [ दर्शपूर्णमासप्राथम्यम् | 1 शाखादौ दर्शपूर्णमासमन्त्राणा मेव पूर्वमानानात् आघाने- ष्टीनामपि दर्शपूर्णमासप्रकृतित्वात् आघानादपि पूर्व दर्शपूर्णमासव्याख्या क्रियते ॥ (घ) रेष्टयादिप्रायश्चित्तविधानाच | काम्यस्याकरणे प्रायश्चित्ताभावाञ्च । तथा र्दशर्पूर्णमासयो ‘परमामेव काष्ठा गच्छति' इति अपवर्गार्थत्वात् । 'स्वर्गकामो दर्शपूर्णमासाभ्याम्' इत्यादिषु च स्वर्गशब्दस्य अपरि मितनिश्रेयस रूपमोक्षपरत्वेनापि सभवात् । ‘पञ्चहोतार चामीथ्रे पशुकामस्य ' इत्यत्र भाष्यकारेण स्वर्गशब्दस्य तथा व्याख्यानात् अत्रापि मोक्षपरत्वम् । अत. स्वर्गफलत्वश्रवणेऽपि नित्यत्वमुपपद्यते । 'वसन्ते वसन्ते ज्योतिष्टोमेन' इति ' उक्थ्यादिसस्थानामपि ज्योति- ष्टोमत्वान्नित्यत्वम् । पाक्षिकस्त्वभ्यासः 'अपुनर्भक्षोऽस्य सोमपीथो भवति' इति लिङ्गादिति वक्ष्यति । अभ्यासपक्षे तु पशुकामादिगुण- फलार्थिनापि कर्तव्यानि ॥ सोमस्या – इति–आत्मनिष्क्रयणार्थत्वावश्यंभाविता। अग्नि- होत्रदर्श पूर्णमासचातुर्मास्यपशुबन्धसोमान्ताना निर्देशात् । [मृलोक्त हेतूपपत्तिः] - अतो – व्यानि – सर्वाधिकारिणां नित्यकर्तव्यत्वात् । अव्या- ख्याने च स्वरूपाज्ञानान्नित्यवदनुष्ठानानुपपत्तेः । शाखादौ - क्रियते - ननु च अन्वाधानाद्येव वक्तव्यम्; किमर्थं 1 णा पूर्व. 2 उक्थ्यादीनामपि-क.