दृक्श्य सम्बन्धभङ्गः 51 परिच्छेदः] प्रतीत्या घटस्यापि ज्ञानावच्छिन्नस्वभावत्वेनासम्भवाच्च । अथ- यज्ज्ञानं यदीयस्वभावं स तस्य विषयः; मत्समवेतं रूपज्ञान- मित्यत्र तु समवाय एव रूपज्ञानावच्छिन्नस्वभावो न तु रूप- ज्ञानं तदवच्छिन्नस्वभावम् ; इदं च ज्ञानस्यैव विषयत्वमुक्तम् ; न त्विच्छादिसाधारणमिति नाव्याप्तिरिति चेन्न; यदीयस्वभाव- असम्भवादिति । न च यज्ज्ञानप्रत्यक्षत्वं यद्विषयसम्बन्धव्याप्यं स तद्विषय इति वाच्यम्; यज्ज्ञानप्रत्यक्षेत्यत्र यज्ज्ञानस्य विषयतानिवेशे आत्माश्रयात्, सम्बन्धसामान्यनिवेशे आत्मादेर्धीमात्र विषयत्वापत्तेः || यत्तु – ' आत्मसमवायम्य' स्वविषयकज्ञानं सम्बन्धित्वेनावच्छे- - दकम्, न तु ज्ञानत्वेनेति तथा निवेशान्न दोषः, विषयस्तु न केनापि रूपेण ज्ञानावच्छिन्नः ; ज्ञानं विनापि घटोऽयमित्यादिना निरूप्यत्वात् ' इति, ततुच्छम्; ज्ञानत्वेनावच्छेदकतानिवेशे तज्ज्ञानानवच्छिन्नत्वदळ- कृत्यस्यैवासम्भवात् । न हि ध्वंसेच्छादौ ज्ञानत्वेन ज्ञानमवच्छेदकम् ; किंतु प्रतियोगित्वविषयत्वादिना । अथ -- येन रूपेण सम्बन्धिताधी:, तेनावच्छेदकत्वं निवेश्यम् तथा च ज्ञानं नष्टमित्यादौ ज्ञानत्वेन नाशादौ सम्बन्धित्व प्रत्ययात्त द्वारणम्; तर्हि प्रकृतेऽपि ज्ञानत्वेन 'सम्बन्धताप्रतीतिर्दोषः विषयन्त्वित्यादिकं तूक्तव्याप्तिनिरासेन निर- म्तम्. ज्ञानं गुण इत्यादौ विषयं विनापि ज्ञाननिरूपणाच || • न त्विच्छादीनि । ज्ञानत्वघटितत्वादित्यादिः । ननु यदीयत्वं यत्सम्बन्धस्तत्त्वेन निवेश्यत न तु विषयितात्वेन; येनात्माश्रयः, न- च घटज्ञानस्यापि कालिकादिसम्बन्धन पटीयतया पटविषयकत्वापत्तिरिति वाच्यम् ; यज्ज्ञानं यत्सम्बन्धिरूपेणैव प्रत्यक्षविषयः स तम्य विषय इत्यस्य वाच्यत्वात् । न चोपनयादिना पटादिसम्बन्धितया प्रत्यक्षविषयां 1 यत्समवायस्य क 2 द्वारंग-ग. नि. ग. . 2
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८०
दिखावट