304 अद्वैतसिद्धिव्याख्यां गुरुचन्द्रिकायां स्थाया उभयसमाधेयत्वात् । न हि तर्काभाससधीचीनमनु- मानं प्रमाणमिति केनाप्यभ्युपेयते । अत उपपन्नं सत्तर्कसचिव- मनुमानं प्रत्यक्षस्य बाधकमिति ॥ इति प्रत्यक्षस्यानुमानबाध्यत्वासाद्धः [प्रथमः आगमबाध्यत्वविचारः. किञ्च परीक्षितप्रमाणभावशब्दबाध्यमपि प्रत्यक्षम् । ननु प्रत्यक्षं यदि शब्दबाध्यं स्यात् तदा जैमिनिना 'तस्मालूम एवानेर्दिवा ददृशे नार्चिः' इत्यद्यार्थवादस्य 'अदितिर्द्यौः ' इत्यादिमन्त्रस्य च दृष्टविरोधेनाप्रामाण्ये प्राप्ते 'गुणवादस्तु' 'गुणादविप्रतिषेधः स्यात्' इत्यादिना गौणार्थता नोच्येत । नेन बाध्यत्वं यन्मूले उक्तं तत् तज्जन्यमिथ्यात्वधीविषयविषयकत्वम् । यदि तु प्रमात्वेनैव अभानापादकाज्ञानं प्रत्यपि निवर्तकता, दोषविशेषाणां प्रतिबन्धकत्वात् न चन्द्रप्रादेशिकत्वादिभ्रमनिवृत्तिः । ज्ञाननिवर्त्यत्व- रूपमिथ्यात्वलक्षणे साक्षात्कारत्वेन आचार्याणां दृश्यनिवर्तकतोक्तिस्तु नैतन्मते तदा तज्जन्याप्रमाजन्याज्ञाननिवृत्तिप्रयुक्तनिवृत्तिप्रतियोगित्वमेव । तदेवं शब्दबाध्यत्वं वक्ष्यमाणं बोध्यम् || तर्कैः सारस्वतै रत्नैः चन्द्रिकाचन्द्रभूषणैः । दुरन्धध्वान्तहन्त्रीयमनुमित्याऽक्षबाध्यता || इति प्रत्यक्षस्यानुमानबाध्यत्वम्. तस्मासूम इत्यादि । तस्मादित्याद्यर्थवादस्य 'गुणवादस्तु' इति सूत्रेण 'अदितिः' इत्यादिमन्त्रस्य च 'गुणादपि प्रतिषेधः इति सूत्रेण गौणार्थता सिद्धान्तत्वेन नोच्येतेत्यर्थः । दृष्टविरोधेनेति । ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२४
दिखावट