सामग्री पर जाएँ

श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः (२))

विकिस्रोतः तः
               




   

चतुष्पष्टितमः सर्गः

[ रम्भाशापः ]

 सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।
 लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ १ ॥

 लोभनं-प्रतारणम् । काममोहेन–कामजनितचित्तवैवश्येन समन्वितम् ॥ १ ॥

 तथोक्ता साऽप्सरा राम ! सहस्राक्षेण धीमता ।
 व्रीळिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥ २ ॥

 व्रीळितेति । अशक्यार्थतोऽसामर्थ्यवचनानिमित्ता व्रीळा ॥ २ ॥

 अयं सुरपते ! घोरो विश्वामित्रो महामुनिः ।
 क्रोधमुत्सृजते घोरं मयि देव ! न संशयः ॥ ३ ॥
 []ततो हि मे भयं, देव ! प्रसादं कर्तुमर्हसि ।

 प्रसादमिति । एवमनियोगरूपमित्यर्थः ॥ ३ ॥

 तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥ ४ ॥
 [][]मा भैषी रम्भे ! भद्रं ते, कुरुष्व मम शासनम् ।

 माभैषी रम्भे भद्रमिति । गुरुरार्षः ॥ ४ ॥

 []कोकिलो हृदयग्राही []माधवे रुचिरद्रुमे ॥ ५ ॥


 अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।

 अहं कोकिलो भूत्वा माघवे–वसन्ते, स्थिते सतीति शेषः ॥

 त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ॥ ६ ॥
 तमृषिं कौशिकं रम्भे ! भेदयस्व तपस्विनम् ।

 रूपं-सौन्दर्यं बहुभिः-[]हावभावादिभिः गुणैरुपेतं, मत्वर्थीयोऽजन्तः । भेदयस्व-काममोहोत्पादनेन तपसश्चित्तं चालय ॥ ६ ॥

 सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ॥ ७॥
 []लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।

 ललिता-सुन्दरी ॥ ७ ॥

 कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ॥ ८ ॥
 संप्रहृष्टेन मनसा तत एनामुदैक्षत ।

 विश्वामित्रसंप्रहर्षः–कोकिलस्वनानुभवजसन्तोषः । ततः-तस्मादेव हेतोः ॥ ८ ॥

 अथ तस्य च शब्देन गीतेनाप्रतिमेन च ॥ ९ ॥
 []दर्शनेन च रम्भाया मुनिः सन्देहमागतः ।

 तस्य—कोकिलस्य वसन्तरूपस्य । []सन्देहमिति । इयं स्वेच्छया समागता ! आहोस्विदिन्द्रादिप्रेरिता वेत्येवं रूपम् ॥ ९ ॥


 सहस्राक्षस्य[१०]तत्कर्म विज्ञाय मुनिपुङ्गवः ॥ १० ॥
 रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ।

 तत्कर्म-तस्या लोभनादिकर्म सहस्राक्षस्य प्रेरणामूलमिति विज्ञाय-युक्त्या निश्चित्य[११]रम्भां शशापेति ॥ १० ॥

 यन्मां [१२]लोभयसे रम्भे ! कामक्रोधजयैषिणम् ॥ ११ ॥
 दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे !

 शैली-शिलाप्रतिमा ॥ ११ ॥

 ब्राह्मणः सुमहातेजाः तपोबलसमन्वितः ॥ १२ ॥
 उद्धरिष्यति रम्भे ! त्वां मत्क्रोधकलुषीकृताम् ।

 ननु स्वस्वामिनियोगतः प्रवृत्तायाः रम्भायाः कोऽपराधः? उच्यते । अत एव सोऽपि अज्ञानात् बतैवं वृथा शापः प्रवृत्त इति पश्चात्तापसहितस्तामनुगृह्णाति-ब्राह्मण इत्यादि ।[१३] ब्राह्मणः-ब्रह्मपुत्रः, वसिष्ठ इति यावत् ॥ १२ ॥

 एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ॥ १३ ॥
 अशक्नुवन् धारयितुं[१४]क्रोधं, सन्तापमागतः ।

 [१५]सन्तापं-शापनिमित्तपश्चात्तापम् ॥ १३ ॥

 तस्य शापेन महता रम्भा शैली तदाऽभवत् ॥ १४ ॥
 वचः श्रुत्वा च कन्दर्पो महर्षेः, स च निर्गतः ।


 अथ कन्दर्पः तस्य महर्षेः वचनं श्रुत्वा निर्गतः, स इन्द्रश्च, महर्षेः वचनं श्रुत्वेति शेषः, निर्गतः ॥ १४ ॥

 कोपेन सुमहातेजास्तपोऽपहरणे कृते ॥ १५ ॥
 [१६]इन्द्रियैरजितै राम ! न लेभे शान्तिमात्मनः ।

 इन्द्रियैरजितैरिति । उक्तरीत्या [१७]कामक्रोधाभ्यां [१८]हृतत्वादेवाजितत्वं । तैर्हेतुभिरित्यर्थः । शान्तिं-नीरागद्वेषनिजात्मप्रतिष्ठालक्षणां ॥

 बभूवास्य[१९]पुनश्चिन्ता तपोऽपहरणे कृते ॥ १६ ॥
 [२०]नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।
 अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ॥ १७॥

 [२१]न च वक्ष्य इति । शापवचनमिति शेषः ॥ १७ ॥

 अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।
 तावत्, यावद्धि मे प्राप्तं ब्राह्मण्यं [२२]तपसाऽऽर्जितम् ॥ १८ ।।
 अनुच्छ्वसन्नभुञ्जानः तिष्ठेयं शाश्वतीस्समाः ।

 आत्मानमिति । सेन्द्रियग्रामं शरीरमित्यर्थः ॥ १८ ॥

 न हि मे तप्यमानस्य क्षयं यास्यन्ति  मूर्तयः ॥ १९ ॥

 मूर्तयः-शिरः करचरणाद्यवयवाः न क्षयं यास्यन्ति; अनुच्छ्वासाभोजनयोः तपोऽर्थत्वात् तद्बलेन स्थास्यन्त्येवेति शेषः ॥ १९ ॥


 [२३]एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।
 चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ! ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्षष्टितमः सर्गः

 एवं दीक्षामिति । अनुछ्वासाभोजनसङ्कल्पमुद्दिश्येति शेषः । अप्रतिमां-निस्तुलां प्रतिज्ञां सर्वथा एवं करिष्यामीत्यध्यवस्यति स्मेत्यर्थः । नख (२०) मानः सर्गः ॥ २० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्षष्टितमः सर्गः


अथ पञ्चषष्टितमः सर्गः

[ ब्रह्मर्षित्वप्राप्तिः ]

 अथ हैमवतीं राम ! दिशं त्यक्त्वा महामुनिः ।
 पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥

 अथैवमुत्तरेऽपि चतुर्थव्यूहप्रधानपूर्वमुखप्राधान्येन पूर्वस्यां दिशि तप उपदिश्यते-अथेत्यादि । हैमवतीं -हिमवदुत्तरपार्श्वगां ॥ १ ॥

 मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।
 चकाराप्रतिमं राम ! तपः परमदुष्करम् ॥ २ ॥
 पूर्णे वषसहस्रे तु काष्ठभूतं महामुनिम् ।
 विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥
 स कृत्वा निश्चयं राम ! तप आतिष्ठदव्ययम् ।


 आधूतं-कम्प्यमानम् । आन्तरं-अन्तःकरणम् । निश्चयंक्रोधाकरणविषयकम् ॥ ३ ॥

 तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥ ४ ॥
 भोक्तुमारधवानन्नं तस्मिन् काले रघूत्तम !
 इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ ५ ॥

 तस्य वर्षसहस्रस्येति । व्यधिकरणे षष्ठ्यौ । सिद्धम्-पक्वम् ॥

 तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।
 निश्शेषितेऽन्ने भगवानभुक्त्वैव महातपाः ॥ ६ ॥
 [२४]न किंचिदवदद्विप्रं मौनव्रतमुपस्थितः ।

 निश्चित इति । तपस्सिद्धये सर्वथैव दातव्यमेवेति निश्चयवान् इत्यर्थः । अन्ने निश्शेषित इति । निश्शेषतो दत्त इति यावत् । अभुक्तैवेति । पुनः पक्वाऽभुक्त्वैवेत्यर्थः ॥ ६ ॥

 अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गवः ॥ ७ ॥
 तस्यानुच्छ्वसमानस्य मूर्ध्नि [२५].धूमो व्यजायत ।
 त्रैलोक्यं [२६]येन संभ्रान्तमा[२७]दीपित इवाभवत् ॥ ८ ॥

 येनेति । धूमेनेत्यर्थः । आदीपितमिति । दीपेर्ण्यन्तान्निष्ठा । यथा आदीपितः-तापितः पुमान् सम्भ्रान्तो व्याकुलितो भवति, तद्वत्रैलोक्यं सम्भ्रान्तमभूदित्यर्थः ॥ ८ ॥


 ततो [२८]देवास्सगन्धर्वाः पन्नगासुरराक्षसाः।
 मोहिता[२९]स्तपसा तस्य तेजसा मन्दरश्मयः॥ ९ ॥
 कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।

 कश्मलोपहताः-दुःखोपहताः ॥९॥

 बहुभिः कारणै[३०]र्देव विश्वामित्रो महामुनिः ॥ १० ॥
 लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।
 न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ ११ ॥

 लोभितः क्रोधितश्चैवेति । अथापि निर्विघ्न इति शेषः । वृजिनंपापं । सूक्ष्मं वृजिनं रागद्वेषरहितेन स्वतस्तत्त्वप्रतिष्ठालक्षणं सर्वभुवि साधारणं नीरागद्वेषनिजचित्तनिजतत्त्वब्रह्मप्रतिष्ठानमेव ब्रह्मलोकाधिकारिब्रह्मर्षिमुख्यलक्षणं, तदस्य संपन्नं; अतो ब्रह्मर्षितानुमतिः कर्तव्या; अन्यथा लोकनाश इत्याहुः ॥ ११ ॥

 न दीयते यदि त्वस्य तपसा यदभीप्सितम् ।
 [३१]विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥१२॥

 न दीयत इत्यादि । विनाशयति त्रैलोक्यमिति वृत्तभङ्ग आर्षः ॥१२॥

 व्याकुलाश्च दिशस्सर्वा न च किश्चित्प्रकाशते ।
 सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १३ ॥
 प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।
 ब्रह्मन् ! न प्रतिजानिमो [३२]नास्तिको जायते जनः ॥१४॥


 ब्रह्मन्न प्रतिजानीम इति । प्रतिक्रियामिह न जानीम इत्यर्थः । नास्तिको जायत इति । उक्तरूपजगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १४ ॥

 संमूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ।
 भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १५ ॥

 उक्तार्थस्यैव अनुवादपूर्वकमनुष्ठेयांशमाह-संमूढमिवेति । संमूढमिवत्रैलोक्यमिति वृत्तभङ्गः [३३]प्राग्वत् ॥ १५॥

 बुद्धिं न कुरुते यावन्नाशे देव ! महामुनिः।
 तावत्प्रसाद्यो [३४]भगवान् अग्निरूपो महाद्युतिः॥ १६ ॥

 हे देव ! अतः परं विश्वामित्रो जगत्क्षये यावत् बुद्धिं न कुरुते तावत् प्रसाद्यः-अनुग्राह्यः ॥१६॥

 कालाग्निना यथापूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।
 [३५]देवराज्यं चिकीर्षत दीयतामस्य [३६]यन्मतम् ॥१७॥

 पूर्वमिति । युगान्तकाल इत्यर्थः । देवराज्यं चिकीर्षेतापि, हिरण्यादिवत् , तदप्यस्य मतं-अभीष्टं दीयताम् ॥ १७ ॥

 ततः सुरगणाः सर्वे पितामहपुरोगमाः ।
 विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥१८॥
 ब्रह्मर्षे ! स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।

 स्वागतमिति । भद्रमित्यर्थः । स्मेति । [३७]सकारलोपश्छान्दसः ॥


 ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ! ॥ १९ ॥
 दीर्घमायुश्च ते ब्रह्मन् ! ददामि [३८]समरुद्गणः ।
 स्वस्ति प्राप्नुहि, भद्रं ते, गच्छ सौम्य ! [३९]यथासुखम् ॥

 ब्राह्मण्यं प्राप्तवानसीति देवोक्त्यचनन्तरमायुः प्रयच्छति भगवान्-दीर्घमायुरित्यादि । यथासुखमिति । तपस उपरत इति शेषः ॥ २० ॥

 पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
 कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ २१ ॥
 [४०]ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।
 ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ २२ ॥

 ओङ्कारः–ब्रह्मविद्यासाधनम् । वषट्कारः-यज्ञरूपब्रह्मकृत्यसाधनम् । वेदास्तु पूर्वापरविभागेन ब्रह्मकृत्यज्ञानापेक्षिताङ्गोपाङ्गसमस्तपरिकरप्रतिपादकाः । ते सर्वे यथा भगवन्मुखजं वसिष्ठवामदेवादिसहजब्रह्मकुलं वरयन्ति; वृञ् श्नौ, श्नायां वृञ्, णौ वृञ् आवरणे, श्नायां वृङ् संभक्तौ, अतो वरतेः स्वार्थे णिः । वृण्वन्तु एवं स्वप्रतिष्ठात्वेनाङ्गीकुर्वन्तु– स्वेषामुपदेशाध्यापनयाजनेऽनुमतिं कुर्वन्त्वित्यर्थः ॥

 [४१]क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।
 ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः  ! ॥ २३ ॥
 यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।


 [४२]ब्रह्मनुग्रहेऽपि ब्राह्मणैस्स्वकुलबहिष्कारे जातिब्राह्मण्याभावात् अन्वर्थब्राह्मण्यमप्यब्राह्मण्यकल्पमित्यभिप्रेत्यानादिब्राह्मणवासिष्ठेनापि ब्राह्मणस्वकुललक्षणब्राह्मणत्वानुमतिं प्रार्थयते-क्षत्रवेदेत्यादि । विवस्वन्तमारभ्य सूर्यवंशानादिपुरोहितत्वात् क्षत्त्रवेदविदां-क्षत्रियाणां शान्तिपुष्ट्यादिप्रयोजनानां अथर्ववेदधनुर्वेदादिविदुषां–श्रेष्ठः, ब्रह्म-ब्रह्मकुलनिजनित्यज्ञान[४३]कर्मापेक्षित[४४]वेदसारब्राह्मणत्रयी, तद्विदामपि-श्रेष्ठः । उत्तरश्रेष्ठ्यबीजं-ब्रह्मपुत्र इति । एवमिति । ब्रह्मर्षिमिति यावत् । परमोऽयं काम इति । वसिष्ठमुखेन ब्रह्मर्षित्वानुवादरूप इत्यर्थः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु ; नान्यथा इत्यर्थः ॥ २३ ॥

 ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ॥ २४ ॥
 सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।

 ततः-एवं विश्वामित्रोक्त्यनन्तरमित्यर्थः । प्रसादित इति । भगवता ब्रह्मणा सर्वैरस्माभिश्च लोकहितायानुमतत्वात् भवताऽपि तद्ब्रह्मर्षित्वमनुमन्तव्यमित्यनु[४५]नीत इत्यर्थः । जपतां वर इति सर्वतो वसिष्ठविशेषणं । 'छन्दोदृक्साधको मुनिः' इति रहस्यादनादितो ब्रह्मविद्यासाधकत्वलक्षणं ब्रह्मविद्याया ऋषित्वं सूचितम् । एवमुक्ताघोरशुद्धब्रह्मविद्याया वसिष्ठ एव ऋषिरद्यापि ; सघोरब्रह्मविद्याया एव विश्वामित्रस्साधक इति तस्या एवेदानीं विश्वामित्र ऋषिः । अथ देवैरनुनीतो वसिष्ठः एवमस्त्वियत् । सख्यं च विश्वामित्रेण चकार । ब्रह्मर्षित्वत एव पुराऽपि विद्वेषरहितः, इदानीं उपेक्षामतिं हित्वा मदीय इति पर्यग्रहीदित्यर्थः ॥ २४ ॥


 ब्रह्मर्षिस्त्वं न सन्देहः [४६]सर्वं सम्पत्स्यते तव ॥२५॥
 इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथाऽऽगतम् ।

 सर्वं-ब्राह्मण्यं । जन्मसंस्कारजपध्यानसन्ताननिरन्तरोपासनजनितनिजतत्त्वानुसन्धानलक्षणैः श्रीमद्योगभानुप्रतिपादितैस्सर्वैः ब्राह्मण्यसाधनैस्सम्पन्नो भविष्यसीत्यर्थः । इत्युक्त्वेति । यथा वसिष्ठेन भगवतोक्तं, एवमेव देवताश्चोक्त्वेत्यर्थः ॥ २५॥

 विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ॥२६॥
 [४७]ब्रह्मर्षिं पूजयामास वसिष्ठं जपतां वरम् ।
 कृतकामो महीं सर्वां चचार तपसि स्थितः ॥ २७॥

 ब्रह्मर्षि पूजयामासेति। [४८]सपरिकरस्य मे सत्कारद्वारा ब्रह्मर्षिताप्राप्त्यनन्तरतपस्साधनौन्मुख्यसम्पादनेन कृतार्थितोऽस्मि भवतेति पूजयामासेत्यर्थः । चचारेति । विश्वामित्र इति शेषः ॥२७॥

 एवं त्वनेन ब्राह्मण्यं प्राप्तं राम ! महात्मना ।
 एष राम ! मुनिश्रेष्ठ एष [४९]विग्रहवांस्तपः ॥२८॥
 एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।

 अथ प्रकृते शतानन्दवचनं-एवमित्यादि । एष धर्मपरो नित्यमिति । इदानीमपीति शेषः । वीर्यस्येति । तपोवीर्यस्येत्यर्थः ॥




 एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ २९ ॥
 शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।
 जनकः प्राञ्जलिवाक्यमुवाच कुशिकात्मजम् ॥ ३० ॥
 धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव !
 यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ! ॥ ३१ ॥
 पावितोऽहं त्वया ब्रह्मन् ! दर्शनेन महामुने !
 विश्वामित्र ! महाभाग ! ब्रह्मर्षीणां वरोत्तम ! ॥ ३२ ॥
 गुणा बहुविधाः प्राप्ताः तव सन्दर्शनान्मया ।

 पावितः-कृतपावनः ॥३२॥

 विस्तरेण च ते ब्रह्मन् ! कीर्त्यमानं महत्तपः ॥ ३३ ॥
 श्रुतं मया महातेजः ! रामेण च महात्मना ।
 [५०]सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥३४॥

 गुणाः-कर्मज्ञाननिष्ठाविशेषलक्षणाः । सदस्याः-विधिदर्शिनः। तैश्च दैवात् सदः प्राप्य ते गुणाः श्रुताः ॥ ३४ ॥

 अप्रमेयं [५१]तपस्तुभ्यं अप्रमेयं च ते बलम् ।
 [५२]अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ! ॥ ३५ ॥

 तुभ्यमिति । तवेति यावत् ॥ ३५ ॥

 तृप्तिराश्चर्यभूतानां [५३]कथानां नास्ति मे विभो !
 कर्मकालः, मुनिश्रेष्ठ ! लम्बते रविमण्डलम् ॥ ३६ ॥

 कथानां तृप्तिरिति । श्रवण इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः ॥ ३६॥


 श्वः प्रभाते महातेजः ! द्रष्टुमर्हसि मां पुनः ।
 [रामेण रमणीयेन लक्ष्मणेन च सङ्गतः ।
 स्वागतं तपतां श्रेष्ठ ! मामनुज्ञातुमर्हसि ॥ ३७ ॥
 एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।
 [५४]विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥३८॥

 स्वागतं भद्रमिति पर्यायः यथायोगं । अनुज्ञातुमर्हसीति । कर्मण इति शेषः ॥ ३८ ॥

 एवमुक्त्वा मुनिश्रेष्ठ वैदेहो मिथिलाधिपः ।
 प्रदक्षिणं [५५]चकाराशु सोपाध्यायः सबान्धवः ॥ ३९ ॥
 विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः ।
 [५६]स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चषष्टितमः सर्गः

 स्ववाटं-स्वनिवेशनम् । [५७]धन(४०)मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चषष्टितमः सर्गः


अथ षट्षष्टितमः सर्गः

[शैवधनुःप्रशंसा]

 [५८]ततः प्रभाते विमले कृतकर्मा नराधिपः ।
 विश्वामित्रं महात्मानं आजुहाव सराघवम् ॥ १ ॥

 अथ जगत्पितुः ब्रह्मणो रामस्य जगन्मातृजानकीगायत्रीसंयोजनाय विश्वामित्रस्य प्रस्तावः-ततः प्रभात इत्यादि ॥ १ ॥

 तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।
 राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ २ ॥

 कर्मणेति । अर्घ्यपाद्यादिलक्षणेनेत्यर्थः ॥ २ ॥

 भगवन् ! स्वागतं तेऽस्तु [५९]किं करोमि तवानघ !
 भवानाज्ञापयतु मां आज्ञाप्यो भवता ह्यहम् ॥ ३ ॥

 आज्ञापेर्ण्यन्तात् 'अचो यत्' इति यत्, पाक्षिकामित्वादह्रस्वः, आज्ञापयितुं योग्य इत्यर्थः । भवतेति । 'कृत्यानां कर्तरि वा' इति पाक्षिकी तृतीया ॥ ३ ॥

 एवमुक्तस्तु धर्मात्मा जनकेन महात्मना ।
 प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ ४ ॥

 [६०]वीरं-जनकं प्रतीति योजना । वीरं-रामं तत्प्रयोजनमुद्दिश्य ॥


 पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
 द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ ५ ॥

 एतदपि द्रष्टुकामाविति । आगताविति शेषः ॥ ५ ॥

 एतद्दर्शय, भद्रं ते, कृतकामौ नृपात्मजौ ।
 [६१]दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥६॥

 कृतकामौ–प्राप्तकामौ ॥ ६ ॥

 एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।
 भ्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ७ ॥

 एवं धनुःप्रसङ्गे तद्वृत्तान्तं वक्तुमुपक्रमते जनकः-एवमुक्त इत्यादि । अस्य धनुष इति । यद्दिदृक्षितं तस्य धनुष इहागमनादिवृत्तान्तं, इदानीं इह च यदर्थं यत्प्रयोजनाय तिष्ठति, तत्सर्व श्रूयताम् ॥ ७ ॥

 [६२]देवरात इति ख्यातो [६३]निमेष्षष्ठो महीपतिः।
 [६४]न्यासोऽयं तस्य भगवन् ! हस्ते दत्तो [६५]महात्मना ।

 निमिः-जनककूटस्थः । तस्य हस्ते दत्तो न्यासः निक्षेपरूपः ॥


 [६६]दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
 रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥ ९ ॥

 तर्हि कैस्तथा दत्त इत्यतः-दक्षेत्यादि । दक्षयज्ञवध इति निमित्तसप्तमी । आयम्येति नमनसज्जीकरणपूर्वकमाकृष्येत्यर्थः । सलीलमिति । अनेन वधविषयाप्रयासो द्योत्यते ॥ ९ ॥

 यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः !
 वराङ्गानि महार्हाणि धनुषा [६७]शातयामि वः ॥ १० ॥

 भागार्थिन इति । स्विष्टकृदादियज्ञभागार्थिन इत्यर्थः।[६८]वराङ्ग-शिरः ॥ १० ॥

 ततो विमनसः सर्वे देवा वै मुनिपुङ्गव !
 [६९]प्रसादयन्त देवेशं, तेषां प्रीतोऽभवद्भवः॥ ११ ॥
 प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् ॥

 विमनसः-दीनाः । भवः-रुद्रः । ददाविति । संहारगृहीतधनुरिति शेषः ॥ ११ ॥

 तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।
 [७०]न्यासभूतं तदा [७१]न्यस्तमस्माकं [७२]पूर्वके विभो ॥ १२ ॥

 धनुषां रत्नं धनूरत्नं । पूर्वके इति । देवरात इत्यर्थः ॥ १२ ॥


 [७३]अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता, मया ।
 क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १३ ॥

 'यदर्थमिह तिष्ठति' इति यदुक्तं तत्प्रतिपादयितुं प्रस्तावः-अथ मे क्षेत्रं कृषत इति । अग्निचयनार्थमिति शेषः । 'लाङ्गलं पवीरवम्' इति, 'द्वाभ्यां षड्गवेन कृषति' इत्यादिशास्त्रात् सिद्धं कर्षणं; लाङ्गलात्-लाङ्गलपद्धतेरित्यर्थः । उत्थितेति । कन्येति शेषः । यदेवं क्षेत्रं शोधयता लाङ्गलपद्धतेः मया लब्धा ततस्तन्नाम्ना सीतेति विश्रुता भवति ॥ १३ ॥

 भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ।
 वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १४ ॥
 भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।
 वरयामासुरागम्य राजानो मुनिपुङ्गव ! ॥ १५ ॥
 तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।
 वीर्यशुल्केति, भगवन् ! न ददामि सुतामहम् ॥ १६ ॥

 एवं यज्ञीयात् भूतलादुत्थिता सा तु ममात्मजा शनैरवर्धत । किं तत इत्यतः- वीर्येत्यादि । उक्तधनुरस्सज्जीकरणादिक्षमं वीर्यमेव शुल्कं-मूल्यं यस्यास्सा तथा, वीर्यशुल्केति यतः केवलं न ददामि-न प्रादाम् ॥ १६ ॥

 ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव !
 मिथिलामभ्युपागम्य [७४][७५]वीर्यजिज्ञासवस्तदा ॥ १७ ॥

 वीर्यजिज्ञासवः-धनुर्बलजिज्ञासवः । भवन्तीति शेषः ॥ १७ ॥


 तेषां जिज्ञासमानानां [७६]वीर्यं [७७]धनुरुपाहृतम् ।
 न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ १८ ॥

 वीर्यं-वीर्यशुल्कसाधनभूतम् । तोलनं-भारपरीक्षार्थं हस्तेन चालनम् ॥ १८ ॥

 तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने !
 प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ! ॥ १९ ॥

 प्रत्याख्याताः-कन्या न दत्तेति यावत् । तदित्यव्यम् । तस्मादनन्तरं यद्वृत्तान्तं तन्निबोध । बुधिरत्र निशामने (बुद्धेथ विज्ञापने बुद्धेत विज्ञापनीये बुद्धेः वेदने च बुद्धिरच अतो) (?) भौवादिकः, लोट् ॥

 ततः परमकोपेन राजानो नृपपुङ्गव !
 [७८]अरुन्धन् मिथिलां सर्वे [७९]वीर्यसन्देहमागताः ॥ २० ॥

 अरुन्धन्-उपरोध कृतवन्तः । वीर्यसन्देहं-धनुरारोपलक्षण-वीर्यविषये स्वेषां सामर्थ्यसन्देहं । अतो बलादेव [८०]कन्यां ग्रहीष्यामीति न्यरुन्धन्नित्यर्थः ॥ २० ॥

 आत्मानमवधूतं [८१]ते विज्ञाय नृपपुङ्गवाः ।
 रोषेण महताऽऽविष्टाः पीडयन्मिथिलां पुरीम् ॥ २१ ॥

 ते सर्वे नृपाः आत्मानं-स्वात्मानं मया अवधूतं–वीर्यशुल्क करणेन तिरस्कृतं विज्ञाय रोषाऽऽविष्टाः पीडयन्-अपीडयन्निति यावत् ॥ २१ ॥


 ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
 साधनानि, मुनिश्रेष्ठ ! ततोऽहं भृशदुःखितः ॥ २२ ॥

 क्षयं यातानीति । प्राकारयुद्धवशादिति शेषः ॥ २२ ॥

 ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् ।
 ददुश्च परमप्रीताः [८२]चतुरङ्गबलास्सुराः ॥ २३ ॥

 प्रसादयमिति । प्रासादयमिति यावत् । चतुरङ्गबला इति । चतुरङ्गबलदा अभवन्नित्यर्थः ॥ २३ ॥

 ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।
 अवीर्या [८३]वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २४ ॥

 अवीर्याः–अर्धवीर्याः । वीर्यसन्दिग्धाः–आहिताग्नित्वान्निष्ठायाः परनिपातः, संदिग्धवीर्याः बलात्कन्याजिघृक्षवस्सर्वे नानादिशो ययुः । समवायं विसृज्येति शेषः ॥ २४ ॥

 तदेतन्मुनिशार्दूल ! धनुः परमभास्वरम् ।
 रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ! ॥ २५ ॥

 तदेतदिति । उक्तवृत्तान्तकमित्यर्थः ॥२५॥

 यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
 सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्षष्टितमः सर्गः

 अचर (२६-१/२) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्षष्टितमः सर्गः


अथ सप्तषष्टितमः सर्गः

[धनुर्भङ्ग ]

 जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
 धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १ ॥

 अथ प्रस्तावितकार्यप्रवृत्तिः - जनकस्येत्यादि ।'रामाय इति' इति असन्धिः छान्दसः ॥ १ ॥

 ततः स राजा जनकः [८४]सामन्तान् व्यादिदेश [८५]ह ।
 धनुरादीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २ ॥

 सामन्तान् समीपे विद्यमान[८६] सचिवानित्यर्थः ॥ २ ॥

 जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् ।
 तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ ३ ॥

 पुरीं प्राविशन्निति । यज्ञवाटादिति शेषः ॥ ३ ॥

 नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।
 मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥ ४ ॥

 अथ नायकसङ्ख्याविशेष कथनपूर्वं कथंचिदानयनप्रदर्शनेन धनुषो दुर्ग्रहत्वादिवैभवः प्रकाश्यते-नृणामित्यादि । 'नृच' इति नामि न दीर्घः । पञ्चाशच्छतानीति । पञ्चसहस्राणीति यावत् । व्यायताः - दीर्घाः । महात्मानः- हृष्टपुष्टशरीराः । मञ्जूषा –आयसी पेटिका । अष्टचक्रां —अष्टायश्चक्ररक्षाबन्घवतीं । समृहुरिति । अनेकैदीर्घबृहद्वंशदण्डैरिति


शेषः । [८७]कश्चिदष्टचक्रां-अष्टचक्रशकटयुक्तामित्याह । तदा नृणां शतान्यूहुरिति न सङ्गच्छते । अपि च शकटेनानयने बलीवर्दादय एव नियोज्याः, न तु पञ्चसहस्रपुरुषाः ॥ ४ ॥

 तामादाय तु मञ्जूषां आयसीं यत्र तद्धनुः ।
 सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥५॥
 इदं धनुर्वरं राजन् ! पूजितं सर्वराजभिः ।
 मिथिलाधिप ! राजेन्द्र ! [८८]दर्शनीयं [८९]यदीच्छसि ॥६॥

 दर्शनीयं-प्रदर्शनीयं इच्छसि यदि । प्रदर्शयेति शेषः ॥६॥

 तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।
 [९०] विश्वामित्रं महात्मानं, तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥

 उभौ रामलक्ष्मणौ तद्विषयकधनुःप्रदर्शनमुद्दिश्य विश्वामित्रमभाषतेति योजना ॥ ७ ॥

 इदं धनुर्वरं ब्रह्मन् ! [९१]जनकैरभिपूजितम् ।
 राजभिश्च महावीर्यैः [९२]अशक्तैः पूजितं पुरा ॥८॥

 राजभिश्चेति । अन्यैरपीति शेषः । अशक्तैः-तोलनादिव्यापाराशक्तैः। पूजितं-ऐश्वरत्वादीश्वरवदेव केवलं पूजितं इत्यर्थः ॥ ८ ॥


 नैतत्सुरगणा[९३]स्सर्वे नासुरा न च राक्षसाः।
 गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९ ॥
 क्व गतिर्मानुषाणां च धनुषोऽस्य [९४]प्रपूरणे।
 आरोपणे समायोगे वेपने तोलनेऽपि वा ॥ १० ॥
 तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव !
 दर्शयैतन्महाभाग ! अनयोः राजपुत्रयोः ॥ ११ ॥

 प्रपूरणं-प्रसज्य धनुष आकर्णाकर्षणम् । इदं पूर्णबलम् । एतदधः-यत् आरोपणादि । आरोपणं-सज्यकरणं । समायोगः-शरेण संयोजनं । वेपनं-ज्यास्फालनं । तोलनं वर्णितचरम् । तोलनादिकृत्ये मानुषाणां क्व गतिः-क्व सामर्थ्यम्। अथापि त्वदाज्ञया आनीतं एतत् धनू राजपुत्रयोः [९५]प्रदर्शनाय ॥ ११ ॥

 विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् ।
 वत्स ! राम ! धनुः पश्य इति राघवमब्रवीत् ॥ १२ ॥
 महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः।
 मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १३ ॥

 अपावृत्य-अपगतावरणां कृत्वा ॥ १३ ॥

 इदं धनुर्वरं ब्रह्मन् ! संस्पृशामीह पाणिना ।
 यत्नवांश्च भविष्यामि [९६]तोलने पूरणेपि वा ॥ १४ ॥


 हे ब्रह्मन् इदं धनुर्वरं दृष्टं । इदं पाणिना च स्पृशामि । एतावता दर्शनौत्सुक्यं निवृत्तं । अतः परमेतद्धनुषि तोलनादवपि यत्नवांश्च भविष्यामि किम् ? इत्यपृच्छदिति शेषः ॥ १४॥

 बाढमित्यब्रवीद्राजा मुनिश्च समभाषत ।

 अथ गुर्वनुमतिः-बाढमित्यादि । राजा च समभाषत, स मुनिश्च समभाषतेति प्रत्येक योजना ॥ १४ ॥

 [९७]लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५ ॥
 पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥

 मध्ये-मध्यप्रदेशे भारवस्तुनो मध्यप्रदेशे गृहीत्वोद्धारो महाबलसाध्यः। पश्यतां-पश्यत्स्विति यावत् । भावलक्षणा षष्ठी ॥ १६ ॥

 आरोपयत्सधर्मात्मा सलीलमिव तद्धनुः ॥ १६ ॥
 आरोपयित्वा धर्मात्मा [९८]पूरयामास तद्धनुः।
 तद्वभञ्ज नरश्रेष्ठो धनुमेध्ये महायशाः॥ १७ ॥

 इव शब्द एवार्थे । सलीलमेव-लीलाधनुर्वदप्रयासमेवेत्यर्थः । पूरयामासेति। आकर्णमाकृष्टवानित्यर्थः । तद्धनुर्मध्ये बभञ्जेति । मध्ये गृहीत्वाऽऽकर्षणात् उभयनमनवेगेनेति शेषः ॥ १७ ॥

 तस्य शब्दो महानासीत् निर्घातसमनिस्वनः।
 भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥१८॥


 निपेतुश्च नराः सर्वे तेन शब्दन मोहिताः
 वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥

 मुनिवरः-विश्वामित्रः। राजा-जनकः ॥ १९ ॥

 प्रत्याश्वस्ते जने तस्मिन् , राजा विगतसाध्वसः।
 उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥ २० ॥

 विगतसाध्वस इति । [९९]रामेणापि धनुषः अनारोपे अयमपि मे जामाता न सिद्धयेदिति या भीस्थिता सा गतेत्यर्थः ॥ २० ॥ भगवन् ! दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥ २१ ॥ न तर्कितमिति । एतदारोपणसंभावनमपीति शेषः ॥ २१ ॥

 [१००]जनकानां कुले कीर्तिमाहरिष्यति मे सुता।
 सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ २२ ॥
 [१०१]मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक !
 सीता प्राणैर्बहुर्मता देया रामाय मे सुता ॥ २३ ॥

 प्राणैरिति पञ्चम्यर्थे तृतीया, प्राणेभ्य इति यावत् ॥ २३ ॥




 भवतोऽनुमते ब्रह्मन् ! शीघ्रं गच्छन्तु मन्त्रिणः ।
 मम, कौशिक ! भद्रं ते, अयोध्यां त्वरिता रथैः ॥ २४ ॥

 भवतोऽनुमते-निमित्तसप्तमीयं-अनुमतकृत्यसाधननिमित्तमित्यर्थः । मन्त्रिणः अयोध्यां गच्छन्त्विति योजना ॥ २४ ॥

 राजानं[१०२]प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।
 प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ २५ ॥

 सर्वशश्चेति । सर्वमप्यत्रत्यवृत्तान्तमिति शेषः ॥ २५ ॥

 मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।
 [१०३][१०४]प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः॥ २६ ॥
 कौशिकश्च तथेत्याह राना चाभाष्य मन्त्रिणः।
 अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ॥ २७ ॥
 यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तषष्टितमः सर्गः

 आभाष्य-आहूयेति यावत् । कृतशासनान्-दत्तकल्याणसन्देशपत्रिकानिति यावत् । दार(२८)मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तषष्टितमः सर्गः


अथ अष्टषष्टितमः सर्गः

[ दशरथाह्वानम् ]

 जनकेन समादिष्टा दूतास्ते [१०५]क्लान्तवाहनाः ।
 [१०६]त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥ १ ॥

 अथ मन्त्रिभिः राजनियोगसम्पादनम्-जनकेनेत्यादि । तिस्रश्च ता रात्रयश्च त्रिरात्रम्, सङ्ख्यादित्वात् रात्रान्तादच् समासान्तः । अत्यन्तसंयोगे द्वितीया, रात्रित्रयं मार्ग उषिताः-कृतवासाः ते दूताः-दौत्यविनियुक्तमन्त्रिण इत्यर्थः ॥ १ ॥

 ते राजवचना[१०७]द्दूता राजवेश्म [१०८]प्रवेशिताः।
 ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥ २ ॥

 राजवचनात्-जनकोऽस्मानिह प्रेषितवानिति स्वराजसंकीर्तनात् राजदर्शनद्वारभूतात् । राजवेश्म-दशरथवेश्म ॥ २ ॥

 बद्धाञ्जलिपुटाः सर्वे दूता । [१०९]विगतसाध्वसाः।
 राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् ॥ ३ ॥

 विगतसाध्वसा इति । महाराजनियुक्तदूतत्वेन तद्भत्यवत्तत्सन्निधौ भयरहिताः॥ ३ ॥

 मैथिलो जनको राजा साग्निहोत्र [११०]पुरस्कृतः।
 कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ ४ ॥


 मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा।
 [१११]जनकस्त्वां महाराजाऽऽपृच्छते सपुरस्सरम् ॥ ५ ॥

 मैथिलः-मिथिलापुरीश्वरः । पुरस्कृताग्निहोत्रसहितः-साग्निहोत्रपुरस्कृतः, आहिताग्नित्वान्निष्ठायाः परनिपातः । कुशलं-क्षेमम् । अव्ययः-अनपायः । महाराजा आपृच्छत इति पदम् । 'आङिनुपृच्छ्योरुपसङ्ख्यानम्' इत्यात्मनेपदम् । पुरस्सरन्तीति पुरस्सराः-भृत्यास्तत्सहितम् ॥ ५ ॥

 पृष्ट्वा कुशल[११२]मव्यग्रं वैदेहो मिथिलाधिपः ।
 कौशिकानु[११३]मते वाक्यं भवन्तमिदमब्रवीत् ॥ ६ ॥

 अनुमते-अनुमतकृत्यसाधननिमित्तम् ॥ ६ ॥

 पूर्वं प्रतिज्ञा[११४]विदिता वीर्यशुल्का ममात्मजा ।
 राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥ ७ ॥

 वीर्यशुल्केति प्रतिज्ञा पूर्वं युष्माभिर्विदितेति योजना । विमुखीकृताः इत्यपि विदितम् ॥ ७॥

 सेयं मम सुता राजन् ! विश्वामित्रपुरस्सरैः।
 यदृच्छयाऽऽगतैर्वीरैनिर्जिता तव पुत्रकैः ॥ ९ ॥

 तव पुत्रकैरिति । तव पुत्रेण बालेन सकलजगत्पूज्यरामेणेत्यर्थः । पूजायां बहुवचनम् । कप्रत्ययो बाल्यद्योतकः। जामातृबुध्या च बहुवचनप्रयोगः ॥ ९ ॥


 तच्च राजन् ! धनुर्दिव्यं मध्ये भग्नं महात्मना ।
 रामेण हि महाराज ! महत्यां जनसंसदि ॥ ९ ॥
 अस्मै देया मया सीता वीर्यशुल्का[११५]महात्मने ।
 प्रतिज्ञां-[११६]कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ १० ॥

 प्रतिज्ञां-वीर्यशुल्कतया सीतादानप्रतिज्ञापूरणं इत्यर्थः ॥ १० ॥

 सोपाध्यायो महाराज ! पुरोहितपुरस्सरः ।
 शीघ्रमागच्छ, भद्रं ते, द्रष्टुमर्हसि राघवौ ॥ ११ ॥

 महाराज शीघ्रमागच्छेति योजना ॥ ११ ॥

 [११७]प्रीतिं च मम राजेन्द्र ! निर्वर्तयितुमर्हसि ।
 [११८]पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥१२॥

 उभयोरेव पुत्रयोः, न केवलं रामस्य । प्रीतिमिति । विवाहकल्याणजप्रीतिमित्यर्थः । एवं च लक्ष्मणायोमिळाप्रदानमपि सूचितम् । तथाऽग्रे वक्ष्यति ॥ १२ ॥

 [११९]एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।
 विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १३ ॥

 अभ्यनुज्ञात इति । अभ्यनुज्ञातकन्यापदानकृत्य इत्यर्थः ॥ १३ ॥

 दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।
 वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥ १४ ॥
 गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।
 लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥


 दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
 सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १६ ॥
 यदि वो रोचते [१२०]वृत्तं जनकस्य महात्मनः ।
 पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः ॥ १७ ॥

 यदि वो रोचते इति । यौनसम्बन्धयोग्यमिति इति शेषः । पर्ययः-अतिक्रमः ॥ १७ ॥

 मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।  सुप्रीतश्चाब्रवीद्राजा वो यात्रेति स मन्त्रिणः ॥ १८ ॥  श्वो यात्रेत्यब्रवीदिति। तदर्थमुद्यमध्वमिति शेषः । मन्त्रिण इति । जनकमन्त्रिण [१२१]इत्यर्थः ॥ १८ ॥

 मन्त्रिणस्तां[१२२]नरेन्द्रश्च रात्रिं परमसत्कृताः ।
 ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैस्समन्विताः ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टषष्टितमः सर्गः

 गुणैः-सत्कारातिशयैः । नरेन्द्रश्च प्रमुदित उवासेति विपरिणामः । धैर्य (१९) मानः ॥ १९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टषष्टितमः सर्गः


अथ एकोनसप्ततितमः सर्गः
[दशरथजनकसमागमः]

 ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः ।
 राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥ १ ॥

 अथ दूतैराहूतदशरथागमनम्-ततो रात्र्यामिति ॥ १ ॥

 अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् ।
 व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥ २ ॥

 धनाध्यक्षाः–कोशरक्षाधिकृताः । सुविहिताः–सुसम्पादित-कल्याणोचितकर्माणः ॥ २ ॥

 चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः ।
 ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥ ३ ॥

 यानयुग्यमिति । यानं–शिबिकान्दोळिकादि, युग्यं–अश्वादि, सेनाङ्गत्वादेकत्वम् । अनुत्तमानि यानानि युग्यानि च निर्यान्तु-वसिष्ठाद्यर्थमिति शेषः ॥ ३ ॥

 वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
 मार्कण्डेयस्सुदीर्घायुः ऋषिः कात्यायनस्तथा ॥ ४ ॥
 एते द्विजाः प्रयान्त्वग्रे, स्यन्दनं योजयस्व मे ।
 [१२३]यथा कालात्ययो न स्यात् दूता हि त्वरयन्ति माम् ॥ ५॥

 प्रयान्त्वग्र इति । कल्याणप्रयाणत उत्तमयानयुग्वैरिति शेषः । दूताः–जनकमन्त्रिणः ॥ ५ ॥


 वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी ।
 राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात् ॥ ६ ॥
 गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।
 राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥ ७ ॥

 चतुर्भिरहोभिस्साध्यगमनो मार्गस्तथा । दूतैस्त्रिदिनगतोऽध्वा चतुरङ्गबलोपेतप्रयाणत्वाच्चतुर्दिनमपेक्षते । श्रुत्वेति । दशरथागमनमिति शेषः ॥ ७ ॥

 ततो राजानमासाद्य वृद्धं दशरथं नृपम् ।
 जनको मुदितो राजा हर्षं च परमं ययौ ।
 उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदाऽन्वितः ॥ ८ ॥
 स्वागतं ते, महाराज ! दिष्ट्या प्राप्तोऽसि राघव !
 पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥ ९ ॥

 पुत्रयोरुभयोः प्रीतिमिति । व्याकृतचरः । वीर्यनिर्जितामिति । रामवीर्यद्वारा सम्पादितामिति यावत् ॥ ९ ॥

 दिष्ट्या प्राप्तो महातेजाः वसिष्ठो भगवानृषिः ।
 [१२४]सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ॥ १० ॥

 शतक्रतुदृष्टान्तो वसिष्ठस्य पूर्णधर्मत्वे ॥ १० ॥

 दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ।
 राघवैः सह[१२५]सम्बन्धो वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥


 विघ्ना इति । कन्याप्रदानप्रतिबन्धा इत्यर्थः । राघवैस्सह सम्बन्धः यतः प्राप्तस्ततः पूजितामिति योजना ॥ ११ ॥

 श्वः प्रभाते [१२६]नरेन्द्रेन्द्र ! निर्वर्तयितुमर्हसि ।
 यज्ञस्यान्ते नरश्रेष्ठ ! विवाह[१२७]मृषिसंमतम् ॥ १२ ॥

 [१२८]नरेन्द्राणामपीन्द्रो नरेन्द्रन्द्रः । यज्ञस्यान्त इति । त्रिचतुर्दिनानन्तरभाविनीति शेषः ॥ १२ ॥

 तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ।
 वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥ १३ ॥
 प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ।
 यथा वक्ष्यसि धर्मज्ञ ! तत्करिष्यामहे वयम् ॥ १४ ॥

 प्रतिग्रहः-कन्यागवादीनां प्रतिग्रहः दातृवश एव–यदि ददाति–गृह्यते प्रतिग्रहीत्रेति वस्तुस्थितिः । एतत् युष्मदीयं वीर्यशुल्कं कन्याप्रदानविषयं, पुरा पूर्वमेव श्रुतम् । अतः परं कन्याप्रदस्त्वं यथा वक्ष्यसि तद्वयं करिष्यामहे ॥ १४ ॥

 धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः ।
 श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ॥ १५ ॥

 परं विस्मयमिति । कन्याया वीर्यशुल्कत्वेन जितत्वात् तदनुमत्यनपेक्षणत्वेऽपि 'प्रतिग्रहो दातृवशः, यथा त्वं वक्ष्यसि [१२९]तद्वयं करिष्यामहे' इति राज्ञो लौकिकवचनचातुरीदर्शनाद्विस्मयः ॥ १५ ॥


 ततः सर्वे मुनिगणाः परस्परसमागमे ।
 [१३०]हर्षेण महता युक्तास्तां निशामवसन् सुखम् ॥ १६ ॥
 राजा च राघवौ पुत्रौ निशम्य परिहर्षितः ।
 उवास परमप्रीतो जनकेनाभिपूजितः ॥ १७ ॥

 निशम्य-अवलोक्य, 'शमो दर्शने' इति दर्शने मित्वनिषेधाद्ध्रस्वः ॥ १७ ॥

 जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् ।
 यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनसप्ततितमः सर्गः

 यज्ञस्य अवशिष्टाः क्रियाः, सुताभ्यां कन्यादानशेषतया यत्कर्तव्यं लौकिकालौकिकं तत्सर्वं च क्रुत्वेवास इति । अदय (१८१/२) मानः सर्गः ॥ १८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनसप्ततितमः सर्गः

अथ सप्ततितमः सर्गः
[ इक्ष्वाकुवंशवर्णनम् ]

 ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
 उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥


 अथ स्वस्वबन्धुभावरहितयोः यौनसम्बन्धापेक्षितः परस्पर-कुलविचारः सर्गाभ्यां-ततः प्रभात इत्यादि ॥ १ ॥

 भ्राता मम महातेजा [१३१]यवीयानतिधार्मिकः ।
 कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥
 [१३२][१३३]वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।
 साङ्काश्यां [१३४]पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥

 पुरीमध्यवसदिति । पुर्यामिति यावत् । 'उपान्वध्याङ्वसः' इत्याधारस्य कर्मत्वम् । परबलं वारयितुं अर्हा-वार्या 'ॠहलोर्ण्यत्'-प्राकार इति यावत् तस्याः फलकाः-यन्त्रफलकाः, तद्युक्तः पर्यन्तः-परिसरो यस्यास्सा तथा । एतेन स्थलदुर्गत्वं पुर्या उक्तं । अथ जलदुर्गत्वमप्युच्यते-वार्येत्यादि । आवर्तते चेदं पदं, उक्तार्थवार्या-फलकपरिसरप्रवाहवतीं इक्षुमतीं नदीं-तज्जलं पिबन्, सांकाश्यां-संकाशेन निर्वृत्ता सांकाश्या, वुञ्छणादितो ण्यः । पुण्यसंकाशां-शुभदर्शनां । पुष्पकविमानं प्रसिद्धं कौबेरं ॥ ३ ॥

 तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
 [१३५]प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ ४ ॥

 तमिति। उक्तपुरवासिनमिति यावत् । यज्ञगोप्तेति। मिथिलायां क्रियमाणयज्ञस्य रक्षणं-साङ्काश्य एव स्थित्वाऽस्मद्यज्ञापेक्षितसर्व-


सामग्रीसम्पादकत्वात् । इमां प्रीतीं-विवाहकल्याणसन्तोषं मया सह भोक्तुमर्हति । अतस्तदानयनं कारयत्विति शतानन्दमुवाचेति योजना ॥

 शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।
 [१३६]समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ५ ॥

 एवं नरेन्द्रस्य-जनकस्य शासनात् शतानन्दप्रेषिताः प्रययुः । दूता इति शेषः । विष्णुः-उपेन्द्रः ॥ ५ ॥

 अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वजः ।
 स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥
 अभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ।
 राजार्हं परमं दिव्यमासनं सोऽध्यरोहत ॥ ७ ॥

 सोऽध्यरोहतेति। पुरोहितज्येष्ठानुमत्येति शेषः ॥ ७ ॥

 उपविष्टावुभौ तौ तु आवरावतितेजसौ ।
 प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ॥ ८ ॥
 गच्छ मन्त्रिपते ! शीघ्रमैक्ष्वाकममितप्रभम् ।
 आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥

 सुदामनं क्व प्रेषयामासतुरित्यतः-गच्छेत्यादि ॥ ९ ॥

 औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ।
ददर्श, शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥

 औपकार्यामिति । उपकर्याशब्दात् स्वार्थे ष्यञ् । दशरथशिबिरसन्निवेशमित्यर्थः ॥ १० ॥


 अयोध्याधिपते वीर ! वैदेहो मिथिलाधिपः ।
 स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥
 मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।
 सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥
 स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ।
 वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३ ॥

 इदं वाक्यमिति । निजकुलप्राशस्त्यप्रतिपादनप्रयोजननिज पुरोहितनियोजनरूपवक्ष्यमाणवाक्यमित्यर्थः ॥ १३ ॥

 विदितं ते, महाराज ! इक्ष्वाकुकुलदैवतम् ।
 वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ॥ १४ ॥

 ते विदितमिति । 'मतिबुद्धि' इत्यादिना वर्तमानार्थे क्ते क्तस्य च वर्तमाने' इति षष्ठी। त्वया विदितं इत्यर्थः । वक्तेति । कृत्याकृत्यानीति यावत् ॥ १४ ॥

 [१३७]विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।
 [१३८]एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५ ॥

 वक्ष्यतीति । दशपुरुषविख्यातादिति न्यायेन यौनसम्बन्धापेक्षितवंशपारम्पर्यमिति शेषः ॥ १५ ॥

 तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ।
 उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ १६ ॥


 अव्यक्त प्रभवो ब्रह्मा शाश्वातो नित्य अव्ययः ।
 तस्मान्मरीचिः संजज्ञे मरीचेः [१३९]कश्यपः सुतः ॥ १७ ॥

 अव्यक्तेति । सत्त्वादिशक्तिमयसांध्यभूमविग्रहात्मकमादिविष्णुतत्त्वं अव्यक्तं । यद्यपि अतितुर्यादिरुद्रतत्त्वानामेवानुपग्रहविकल्प- चिद्गगनत्वकालकृतिमात्रोपग्रहत्वतत्कार्याविविक्तत्रिगुणमात्रोपग्रहतोऽव्यक्तत्वं साक्षात्, अथापि सांध्यत्वादादिविष्णुतत्त्वम[१४०]प्यनादिब्रह्मतत्त्ववदिहामुत्रव्यवहारार्हस्थिराव्यक्तमेव । तस्मादव्यक्तात्त्रिशक्तिमयादुस्थितैस्त्रिरूपकालाकाशैस्त्रिवृत्पञ्चकभक्तैर्हिरण्मयभूममहाविराडण्डोपग्रहो भगवानादिगुरुस्त्रिमूर्तिलीला मूर्तिस्तुर्य आदिब्रह्मा स महेशस्सकलसंसारशाश्वतसकलपुरुषार्थसाक्षात्प्रवर्तको नित्यं जाग्रन्निस्तुलाधिकभूमविद्यैश्वर्यानन्दशक्तिर्नित्यं प्रतितिष्ठति । सोऽसौ हिरण्यगर्भादित्रिब्रह्मलीलामूर्तिरपि शाश्वतत्वादिस्वभावः, स्वराजश्रीहिरण्यगर्भस्य गगनात्मकत्वादेव शाश्वतत्वं-अविकारसदैकरूपत्वं सम्राजः कालाग्निस्वभावत्वेन स्वेतरसकलसंसारानित्यतासम्पादकस्य तस्यानित्यतासम्पादकहेत्वभावात् नित्यविराजो यद्यपि कालविकार्यत्वेनानित्यत्वं, अथाप्यव्ययत्वं नित्यनियतप्रवृत्तत्रिमण्डलीनित्यजाय[१४१]मानाशयोत्कर्षसासाम्ययोगतः प्रत्यग्वत्कालत्रयेऽप्यवयवविनाशरहितत्वात् । सिद्धान्तविदेकसुलभोऽयमर्थः । प्रपञ्चः आकरे द्रष्टव्यः । तस्मात् विराजः प्रजापतेः दशप्रजापतिष्वेको मरीचिर्जज्ञे । ततः काश्यप इत्यादिः ॥ १७ ॥

 विवस्वान् कश्यपाञ्जज्ञे मनुर्वैवस्वतः स्मृतः ।
 मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ १८ ॥

 मनुः प्रजापतिरिति । प्रजासर्गाधिकारीति यावत् ॥ १८ ॥


 तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।
 इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः ॥ १९ ॥
 कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ।
 विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ॥ २० ॥
 बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।
 अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुतः ॥ २१ ॥
 त्रिशङ्कोरभवत्पुत्रो [१४२]धुन्धुमारो महायशाः ।
 धुन्धुमारान्महातेजा युवनाश्वो महारथः ॥
 युवनाश्वसुतस्त्वासीत् [१४३]मान्धाता पृथिवीपतिः ॥ २२ ॥
 मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत ।
 सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ २३ ॥
 यशस्वी, ध्रुवसन्धेस्तु भरतो नाम नामतः ।
 भरतात्तु महातेजा असितो नाम जातवान् ॥ २४ ॥
 [१४४]तस्यैते प्रतिराजान उदपद्यन्त शत्रवः ॥
 हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २५ ॥
 तांस्तु स प्रतियुध्यन् वै युद्धे राज्यात्प्रवासितः ।

 तस्यैत इति । असितस्येत्यर्थः। प्रतिराजानः-शत्रुराजानः । राज्यात्प्रवासित इति । न तु हत इत्यर्थः ॥ २५ ॥

 हिमवन्तमुपागम्य [१४५]भृगुप्रस्रवणेऽवसत् ॥ २६ ॥
 असितोऽल्पबलो राजा [१४६]मन्त्रिभिस्सहितस्तदा ।


 द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति [१४७] श्रुतिः ॥ २७ ॥
 एका गर्भविनाशाय सपत्न्यै [१४८]सगरं ददौ ।

 इति श्रुतिरिति । पुरातनकथेत्यर्थः । सगरं-गरसहितं । भक्ष्यामिति शेषः ॥ २७ ॥

 ततः शैलवरं रम्यं बभूवाभिरतो मुनिः ॥ २८ ॥
 भार्गवश्चयवनो नाम हिमवन्तमुपाश्रितः ।

 ततश्शैलवरं रम्यं हिमवन्तमुपाश्रितो भार्गवश्चयवनो मुनिः तत्रैव हिमवति अभिरतो बभूव ॥

 तत्र चैका महाभागा भार्गवं देववर्चसम् ॥ २९ ॥
 ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मनः ।

 तत्र चैकेति । प्राशितगरेति यावत् ॥ २९ ॥

 तमृषिं साऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ ३० ॥
 [१४९]तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।

 कालिन्दीति तस्या नाम । अभ्यवादयच्चेति चकारेण शुश्रूषणमप्यकरोत् ; पुत्रार्थमित्यर्थः । पुत्रमाप्तुमिच्छुः पुत्रेप्सुः । पुत्र-जन्मनि-पुत्रोत्पत्तिविषये ॥ ३० ॥

 तव कुक्षौ महाभागे ! सुपुत्रः सुमहाबलः ॥ ३१ ॥
 महावीर्यो महातेजाः अचिरात्सञ्जनिष्यति ॥
 [१५०]गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥ ३२ ॥


 गरेण सहितस्सन् जनिष्यतीति मुनेः प्राप्तानुग्रहात् । तत्पुत्रकालमृतपतिकां ऋषिराश्वासयति च-माशुच इति । पतिमृति-जशोकंत्यज; सुपुत्रेणैव सुखीभविष्यसीत्याश्वासयत् ॥ ३२ ॥

 च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
 [१५१]पतिना रहिता [१५२] तस्मात् पुत्रं देवी व्यजायत ॥ ३३ ॥

 अनन्तरं-च्यवनं तु नमस्कृत्य, पतिना रहितेति नाभावश्छान्दसः, तस्मात्-देशादपावृत्तेति शेषः । व्यजायत-प्रसूतवती ॥ ३३ ॥

 सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
 सह तेन गरेणैव जातः स सगरोऽभवत् ॥ ३४ ॥

 जातस्स इति । यतो गरेण सह जातः ततः सगर इति योजना ।

 सगरस्यासमञ्जस्तु असमञ्जात्तथांऽशुमान् ।
 दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३५ ॥
 भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ।
 रघोस्तु पुत्रस्तेजस्वी[१५३]प्रवृद्धः पुरुषादकः ॥ ३६ ॥
 कल्माषपादो ह्यभवत्तस्माञ्जातश्च शङ्खणः ।

 रघुपुत्रः प्रवृद्धस्तु वसिष्ठशापवशात् पुरुषादकः-राक्षसस्समभवत् । प्रतिशापायोद्धृतजलं स पत्न्यनुनयेन स्वपादयोर्विसृष्टवान् । अतः स कल्माषपाद इत्यभवत् ॥ ३६ ॥


 सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥ ३७ ॥
 शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
 मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥ ३८ ॥
 अम्बरीषस्य पुत्रोऽभून्नहुपः पृथिवीपतिः ।
 नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ३९ ॥
 नाभागस्य बभूवाज अजाद्दशरथोऽभवत् ।
 अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४० ॥

 नाभागस्याजः, अजाद्दशरथ इति । [१५४]एवमत्रोक्तवंशपरम्परायां पुराणादिवैषम्यं बह्वस्ति । तत्सर्वं चतुर्युगसहस्रमानभगवद्विराजाहनि किञ्चित्किञ्चिद्युगभेदवशजं इति ध्येयम् ॥ ४० ॥

 आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
 इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ ४१ ॥

 आदिवंशेति । आदितः–ब्रह्माणमारभ्य वंशेन विशुद्धास्तथा ॥ ४१ ॥

 रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप !
 सदृशाभ्यां नरश्रेष्ठ ! [१५५]सदृशे दातुमर्हसि ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्ततितमस्सर्गः


 त्वत्सुते वरय इति । पुरोहितकृत्यत्वाद्वरणादेरित्याशयः । सदृशेति ।'समानान्ययोश्चेति वक्तव्यम्' इति दृशेः कञि 'टिढ्ढाणञ्' इति ङीबभावश्छान्दसः । समानस्य 'ज्योतिर्जनपद' इत्यादिना विधीयमानस्य सादेशस्य प्रायिकत्वादन्यत्रापि सादेशः ॥ ४२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्ततितमस्सर्गः


अथ एकसप्ततितमः सर्गः
[निमिवंशवर्णनम् ]

 एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।
 श्रोतुमर्हसि, भद्रं ते, कुलं नः परिकीर्तितम् ॥ १ ॥

 अथ दशरथापेक्षया [१५६]अप्रभावात्, कन्यादातृत्वेन च जामातृवर्गे प्रभावस्यायुक्तत्वाच्च स्वयमेव स्ववंशपरम्परामाचष्टे-एवमित्यादि । ब्रुवाणमिति । वसिष्ठमिति शेषः ॥ १ ॥

 प्रदाने हि[१५७]नरश्रेष्ठ ! कुलं निरवशेषतः ।
 वक्तव्यं कुलजातेन तन्निबोध महामुने ! ॥ २ ॥

 नरश्रेष्ठानां कुलं-नरश्रेष्ठकुलं ॥ २ ॥

 राजाऽभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
 [१५८]निमिः परमधर्मात्मा सर्वसच्चवतां वरः ॥ ३ ॥
 तस्य पुत्रो मिथिर्नाम निर्मिता[१५९]मिथिला यतः ।
 प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥

 तस्य पुत्र इति । तस्य निमेः साम्पराये सति ऋषिभिस्तदुरोमथनेन निर्मितः-उत्पादितो मिथिर्नाम जज्ञे । यतः-येन मिथिना मिथिला पुरी च निर्मिता, स जज्ञे । तथा भागवते ज्ञेयम्- "ममन्थ स निमेर्देहं कुमारस्समजायत' इति ॥ ३-४ ॥


  [१६०]उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः ।
 [१६१]नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ५ ॥
 सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
 देवरातस्य राजर्षेबृहद्रथ इति स्मृतः ॥ ६ ॥
 बृहद्रथस्य शूरोऽभून्महा[१६२].वीरः प्रतापवान् ।
 महा[१६३]वीरस्य धृतिमान् सुधृतिस्सत्यविक्रमः ॥ ७ ॥
 सुधृतेरपि धर्मात्मा [१६४] दुष्टकेतुस्सुधार्मिकः ।
  [१६५]दुष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥
 हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः [१६६]प्रतिन्धकः ।
  [१६७]प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथस्सुतः ॥ ९ ॥
 पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
 देवमीढस्य [१६८]विबुधो विबुधस्य महीध्रकः ॥ १० ॥
 महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
 कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥
 महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
 स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥
 तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
 ज्येष्ठोऽहमनुजो आता मम वीरः कुशध्वजः ॥ १३ ॥

 तस्येति । ह्रस्वरोम्णः इत्यर्थः ॥ १३ ॥

 मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ।
 कुशध्वजं समावेश्य [१६९]भारं मयि, वनं गतः ॥ १४ ॥


 कुशध्वजं राज्यभारं च मयि समावेश्येत्यर्थः । सीरध्वजाख्य इत्यर्थः । "सीता सीराग्रतो जाता तस्मात्सीरध्वजः स्मृतः" इति [१७०] पुराणम् ॥ १४ ॥

 वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।
 भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥ १५ ॥
 कस्य चित्त्वथ कालस्य सांकाश्यादगमत्पुरात् ।
 सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ १६ ॥

 [१७१]मिथिलामवरोधकः अगमदिति । अवरोद्धुमागतवानित्यर्थः । 'तुमुण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल् । 'अकेनोर्भविष्यदाधमर्ण्ययोः' इति कर्माणि षष्ठीनिषेधः ॥ १६ ॥

 स च मे प्रेषयामास, शैवं धनुरनुत्तमम् ।
 सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ १७ ॥

 शैवं धनुस्सीता कन्या चेति उभयं मह्यं दीयतामिति प्रेषयामास । दूतानिति शेषः ॥ १७ ॥

 तस्याप्रदानाद्ब्रह्मर्षे ! युद्धमासीन्मया सह ।
 स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८ ॥

 तस्येति । उक्तोभयवस्तुन इत्यर्थः । अभिमुखः–युद्धाभिमुखः । [१७२]सुधन्वेति । 'वा संज्ञायां' इत्यानङ् ॥ १८ ॥


 निहत्य तं मुनिश्रेष्ठ ! सुधन्वानं नराधिपम् ।
 साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चम् कुशध्वजम् ॥ १९ ॥
 कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने !
 ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ! ॥ २० ॥
 सीतां रामाय, भद्रं ते, [१७३]ऊर्मिळां लक्ष्मणाय च ॥ २१ ॥

 ऊर्मिलामिति । योनिजां निजपुत्रीमित्यर्थः ॥ २१ ॥

 वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।
 [१७४]द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥ २२ ॥

 त्रिर्ददामीति । उक्तार्थमितिशेषः । 'त्रिषत्या हि देवाः' इति न्यायादित्याशयः ॥ २२ ॥

 [१७५]रामलक्ष्मणयो राजन् ! गोदानं कारयस्व ह ।
 पितृकार्यं च, भद्रं ते, ततो वैवाहिकं कुरु ॥ २३ ॥

 [१७६]गोदानमिति कर्मनाम । गावो रोमाणि, दोःपन्मूलगान्यपि, यत्र दीयन्ते खण्ड्यन्ते तदेतत् गोदानम्, समावर्तनकर्मेति यावत् । वैवाहिकं-पितृकार्यं नान्दीश्राद्धम् ॥ २३ ॥


 मघा ह्यद्य महाबाहो ! [१७७]तृतीये दिवसे विभो ।
 फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ।
 रामलक्ष्मणयो राजन् ! दानं कार्यं सुखोदयम् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकसप्ततितमस्सर्गः

 ततो वैवाहिकं–विवाहप्रयोजनं विचित्रवस्त्राभरणाद्यलंकारादिलक्षणं; 'तदस्य प्रयोजनम्' इति ठक् । मघानक्षत्रयुक्तः कालः मघः,' चन्द्रः । अत्रार्थजस्याणस्तु 'लुबविशेषे' इति लुप् । फल्गुन्यामुत्तर इति । उत्तरस्यामिति यावत् । रामलक्ष्मणयोरर्थे-प्रजाधर्मप्रयोजनाय सुखोदयं, व्याकृतं, दानं-कन्यादानमवश्यं कार्यमिति उपसंहारः । भद्र (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकसप्ततितमस्सर्गः


अथ द्विसप्ततितमः सर्गः
[ कन्यावरणम् ]

 तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
 उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥


 रामलक्ष्मणयोः विवाहप्रसङ्गे भरतशत्रुघ्नयोरपि विवाहप्रस्तावः-तमुक्तवन्तमित्यादि ॥ १ ॥

 अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव !
 इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ २ ॥
 सदृशो धर्मसम्बन्धः सदृशो रूपसंपदा ।
 रामलक्ष्णयो राजन् ! सीता चोर्मिलया सह ॥ ३ ॥

 इक्ष्वाकूणां विदेहानां च धर्मसम्बन्धः–धर्माय सम्बन्धो यौनलक्षणस्तु सदृश एव-अनुरूप एव । अपि च या सीता ऊर्मिळया सह वर्तमाना तस्यास्तस्याश्च क्रमात् रामलक्ष्मणयोः सम्बन्धः-पतिभार्यासम्बन्धः रूपसम्पदा सदृश इति योजना ॥ ३ ॥

 वक्तव्यं च नरश्रेष्ठ ! श्रूयतां वचनं मम ॥ ४ ॥

 हे नरश्रेष्ठ–जनक ! किंचिदन्यदपि वक्तव्यं अस्ति । तदपि मे वचः श्रूयतम् ॥ ४ ॥

 भ्राता यवीयान् धर्मज्ञ ! एष राजा कुशध्वजः ।
 अस्य धर्मात्मनो राजन् ! रूपेणाप्रतिमं भुवि ।
 सुताद्वयं नरश्रेष्ठ ! पत्न्यर्थं वरयामहे ॥ ५ ॥

 किं तदित्यतः–भ्रातेत्यादि ॥ ५ ॥

 भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
 [१७८]वरयामः सुते राजंस्तयोरर्थे महात्मनोः ॥ ६ ॥

 पत्न्यर्थं वरयाम इति, कयोः पत्न्यर्थमित्यतः–भरतस्येत्यादि ॥ ६ ॥


 पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
 लोकपालोपमास्सर्वे देवतुल्यपराक्रमाः ॥ ७ ॥

 दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनताशङ्केत्याह-पुत्रा इत्यादि ॥ ७ ॥

 [१७९] उभयोरपि राजेन्द्र ! सम्बन्धेनानुबध्यताम् ।
 इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८ ॥

 यदेवमुभयकुलवधूवरयोर्नानाप्रकारतः सम्बन्धानुरूप्यं अतः-उभयोरपीत्यादि । कुलयोरित्यर्थः । सम्बन्धः–यौनसम्बन्धः । भवतः पुण्यकर्मण इति । अनुबध्यतां । सम्पाद्यतामिति यावत् । कुलमव्यग्रमिति अनुकर्षः ॥ ८ ॥

 विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।
 जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ ९ ॥

 वसिष्ठस्य मत इति । वसिष्ठस्याभिमतप्रयोजननिमित्तमुक्तविश्वामित्रवचः श्रुत्वेति योजना ॥ ९ ॥

 कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ ।
 सदृशं कुलसम्बन्धं यदाज्ञाप[१८०]यथः स्वयम् ॥ १० ॥

 स्वयमिति । न शिष्यादिमुखत इत्यर्थः ॥ १० ॥


 एवं भवतु, भद्रं वः, कुशध्वजसुते इमे ।
 पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ ११ ॥

 पत्न्यौ–पत्नीत्वापन्नौ । सहितौ–अश्विनाविव, रामलक्ष्मणाविव परस्परनित्यसहचरौ । क्रमादिति शेषः ॥ ११ ॥

 एकाह्ना राजपुत्रीणां चतसृणां महामुने !
 पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ १२ ॥

 एकाह्नेति । अजभाव आर्षः । सप्तम्यर्थे तृतीया । एकदिवस इति यावत् । चतसृणामिति । 'छन्दस्युभयथा' इति पक्षे दीर्घः ॥

 उत्तरे दिवसे ब्रह्मन् ! फल्गुनीभ्यां मनीषिणः ।
 वैवाहिकं प्रशंसन्ति [१८१]भगो यत्र प्रजापतिः ॥ १३ ॥

 उत्तर इत्यादि । फल्गुनीभ्यामुपलक्षितयोर्दिवसयोरुत्तरस्मिन्दिवसे । उत्तरफल्गुन्यामित्यर्थः । अस्य विवाहकर्मणि प्रशस्तता कुत इत्यत्र–भग इत्यादि । भगः–प्रसिद्धप्रजोत्पत्तिसाधनयोनिलिङ्गाधिष्ठाता भगवान्प्रजापतिर्यतो देवता उत्तरफल्गुन्याः, यतश्च प्रजाग्निहोत्रार्थं दारकर्म, अतः प्रजायज्ञसृक्तत्पतिभगवन्नक्षत्रत्वात् प्रशस्त्यमित्यर्थः ॥ १३ ॥

 एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृताञ्जलिः ।
 उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १४ ॥
 परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा ॥ १५ ॥


परो धर्म इति । कन्याप्रदानधर्म इत्यर्थः । अहं भवतोः शिष्योऽस्मि । दशरथश्च सुतरामिति शेषः ॥ १५ ॥

 [१८२]इमान्यासनमुख्यानि [१८३][१८४]आसेतां मुनिपुङ्गवौ ।
 [१८५] यथा दशरथस्येयं तथाऽयोध्या पुरी मम ।
 प्रभुत्वे नास्ति सन्देहो [१८६]यथार्हं कर्तुमर्हथ ॥ १६ ॥

 यदेवमतः—इमानीत्यादि । मन दशरथस्य च यानि आसनमुख्यानि–सिंहासनानि तानि युवां आसेतां-व्यत्ययात्परस्मैपदे शनि प्रार्थनायां लिङि प्रथमपुरुषद्विवचनं–अधितिष्ठतामिति यावत् । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु कथं दशरथ सिंहासनं त्वया शक्यदानमित्यत्राह–यथेत्यादि । इयं मिथिला यथा दशरथस्य यथेष्टविनियोगार्हा, ऐक्यात्, एवमयोध्यापुरी च मम यथेष्टविनियोगार्हा । यदेवमतो युष्माकं [१८७]त्रिसिंहासनप्रभुत्वे तु नास्ति सन्देहः । अतो यथार्हं–यथोचितं प्रभुत्वकर्म अर्हथ, पूजार्थे बहुवचनम् ॥ १६ ॥

 तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।
 राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १७ ॥

 हृष्ट इति । एवमैक्यवादेनेति शेषः ॥ १७ ॥


 युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
 ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजितः ॥ १८ ॥

 महद्विषये समग्रसत्कारो युष्माकं कुलधर्मः इति नायमपूर्वोऽर्थ इति दशरथः स्तौति— युवामित्यादि ॥ १८ ॥

 [१८८]स्वस्ति प्राप्नुहि, भद्रं ते, गमिष्यामि स्वमालयम् ।
 श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ १९ ॥
 [१८९]तमापृच्छ्य नरपतिं राजा दशरथस्तदा ।
 मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ २० ॥

 आपृच्छ्य-आभाष्य ॥ २० ॥

 स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
 प्रभाते [१९०]काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ २१ ॥

 निश्चयं–चतुर्णां विवाहनिश्चयं । काल्यं–प्रातः कालार्हं । गोदानं व्याकृतं । समावर्तनमिति यावत् ॥ २१ ॥

 गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
 [१९१]एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ २२ ॥
 [१९२]सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः ।
 गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ २३ ॥


 तदङ्गत्वेन प्रसिद्धगोदानम्-गवां शतेत्यादि । कांस्यदोहना इति बहुव्रीहिः । अधिकरणे ल्युट् । कंसीयस्य विकाराणि, 'कंसीय-परशव्ययोर्यञञौ लुक् च' इति यञ् । सन्नियोगप्राचीनप्रत्ययस्य लुक् ।

शतसहस्रं-लक्षम् ॥ २३ ॥

 वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः ।
 ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २४ ॥
 स सुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
 लोकपालैरिवाभाति वृतः[१९३] सौम्यः प्रजापतिः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विसप्ततितमः सर्गः


 सौम्यः-सोममण्डलाधिष्ठातृदेवता । 'सोमाट्ट्यण् । मख (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विसप्ततितमः सर्गः



अथ त्रिसप्ततितमः सर्गः
[सीतादीनां विवाहः]

 यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।
 तस्मिंस्तु दिवसे शूरो युधाजित्त्वभ्युपेयिवान् ॥ १ ॥

 अथ संप्राप्तसर्वबन्धुकस्य दशरथस्य सुतविवाहकर्मनिर्वृत्तिः-यस्मिन्नित्यादि । अभ्युपेयिवानिति । दशरथमिति शेषः ॥ १ ॥


 पुत्रः [१९४]केकयराजस्य साक्षाद्भरतमातुलः ।
 दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ २ ॥
 केकयाधिपती राजा स्नेहात् कुशल[१९५]मब्रवीत् ।
 येषां कुशलकामोऽसि तेषां संप्रत्य नामयम् ॥ ३ ॥

 स्नेहात्कुशलमब्रवीदिति । युष्मान् प्रतीति शेषः । अपि च येषां-अस्माकं त्वं कुशलकामोऽसि तेषां अस्माकपि संप्रत्यनामयमिति चाब्रवीत् ॥ ३ ॥

 [१९६]स्त्रीयं मम, राजेन्द्र ! द्रष्टुकामो महीपतिः ।
 तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ! ॥ ४ ॥
 श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
 मिथिलामुपयातांस्तु त्वया सह महीपते !
 [१९७]त्वरयाऽभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् ॥ ५ ॥

 स्वसुरपत्यं [१९८]स्वस्त्रीयः । 'स्वसुश्छः' । त्वरयाऽभ्युपयातोऽस्मि, साऽयमयोध्यायामदृष्ट्वेह द्रष्टुकाम उपयातोऽस्मीति योजना । उपयात इति कर्तरि निष्ठा ॥ ५ ॥

 अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
 दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥ ६ ॥


 ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ।
 प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ॥ ७ ॥
 ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ।

 यज्ञवाटं-यज्ञशालां । उपागमदिति । तत्समीपं प्राप्तवानित्यर्थः । प्रवेशो जनकानुमत्याऽग्रे भविष्यति ॥ ७ ॥

 युक्ते मुहूर्ते विजये सर्वाभरण[१९९]भूषितैः ॥ ८ ॥
 भ्रातृभिस्साहितो रामः कृतकौतुकमङ्गलः ।
 [२००]वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ॥ ९ ॥

 युक्ते-शुभलग्नादिगुणयुक्ते, विजये–[२०१]विजयप्रदे, विजया[२०२]ख्ये च । पुरतः कृत्वा उपागमदित्यनुकर्षः ॥ ९ ॥

 वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।

 भगवानेत्येत्यादि । यज्ञवाटान्तर्वर्तिनमिति शेषः ॥ ९ ॥

 राजा दशरथो राजन् ! कृतकौतुकमङ्गलैः ॥ १० ॥
 पुत्रैर्नरवर[२०३] श्रेष्ठ ! दातारमभिकाङ्क्षते ।

 कृतेति। कृतकौतुकसूत्रधारणरूपाणि मङ्गळानि यैस्ते तथा । दातारं, त्वामिति शेषः ॥ १० ॥

 दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ॥ ११ ॥
 स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ।


 दातृप्रतिग्रहीतृभ्यामिति । योग इति शेषः । सर्वार्थाः-दान-धर्मादयः । हि-यस्मादेवं तस्मात् स्वसाध्यो धर्मो दानरूपः । विवाहो-पयुक्तं कर्म लौकिकालौकिकं-वैवाह्यं । ष्यञ् छान्दसः ॥ ११ ॥

 इत्युक्तः परमोदारो वसिष्ठेन महात्मना ॥ १२ ॥
 प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ।

 परमोदारः-परमदाता ॥ १२ ॥

 कः स्थितः [२०४]प्रतिहारो मे कस्याज्ञा सम्प्रती[२०५]क्ष्यते ॥ १३ ॥
 स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ।

 कः स्थित इति । कः प्रतिहारः स्थितः । येन द्राग्गमनं परिहियत इति शेषः । अपि चागत्य वा कस्याज्ञा संप्रतीक्ष्यते । कुत एवमित्यतः-स्वगृह इत्यादि । स्वगृहत्वमेव कथमित्यतः-यथेत्यादि । इमान्यासनमुख्यानि आसेतामिति यथोक्तरीत्या इदं राज्यमेव तव । स्वगृहे मम गृहमात्रस्वीयत्वे को विचार इत्यर्थः ॥ १३ ॥

 कृतकौतुक सर्वस्वा वेदिमूलमुपागताः ॥ १४ ॥
 मम कन्या मुनिश्रेष्ठ ! दीप्ता वह्नेरिवार्चिषः ।

 अपि च कृतस्वकर्तव्येन मयैव युष्मत्प्रतीक्षा क्रियत इत्याहकृतेत्यादि । कृतं कौतुकसर्वस्वं -वैवाहिककृत्स्नमंगळानुष्ठानं याभिस्तास्तथा। वेदिमूलं-यज्ञवेदिसमीपं ॥ १४ ॥


 [२०६]सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ॥ १५ ॥
 [२०७]अविघ्नं कुरुतां राजा [२०८]किमर्थमवलम्बते ।

 आविघ्नं-अविळम्बं यथा तथा कुरुताम्, विवाहकर्मेति शेषः । अवलम्बते-विळम्बते । द्वारावस्थानेनेति शेषः ॥ १५ ॥

 तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ॥ १६ ॥
 [२०९]प्रवेशयामास सुतान् सर्वानृषिगणानपि ।

 श्रुत्वेति । वसिष्ठमुखादिति शेषः ॥ १६ ॥

 ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ॥ १७ ॥
 कारयस्व ऋषे ! सर्वामृषिभिः सह धार्मिक !
 [२१०]रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ! ॥ १८ ॥

 लोका रमन्ते अस्मिन्निति लोकरामः ॥ २३ ॥

 तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।
 विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १९ ॥


 [२११]प्रपामध्ये तु विधिवत् वेदिं कृत्वा महातपाः ।
 अलंचकार तां वेदिं गंधपुष्पैः समन्ततः ॥ २० ॥

 प्रपामध्ये । यज्ञशालामध्य इत्यर्थः । वेदिं-विवाहवेदिम् ॥ २० ॥

 सुवर्णपालिकाभि[२१२]श्चा [२१३]छिद्रकुम्भैश्च साङ्कुरैः ।
 अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥ २१ ॥

 सुवर्णपालिकाभिरिति । साङ्कुराभिरित्याकर्षः । तथा साङ्कुरैः आच्छिद्रकुम्भैः–अच्छिद्रमष्टापदं स्फुटनादिदोषरहितम् ; स्वर्णकुम्भैरित्यर्थः ॥ २१ ॥

 शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्यादिपूरितैः ।
 लाजपूर्णैश्च पात्रीभिरक्षतै[२१४]रभिसंस्कृतैः ॥ २२ ॥

 अर्घ्यादिपूरितैरिति भावे निष्ठा । अर्घ्यादिदेवपूजाप्रयोजनैरित्यर्थः । अभिसंस्कृतैरिति । हरिद्रालेपनादिसंस्कारवद्भिरित्यर्थः ॥

 दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।
 अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।
 जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ॥ २३ ॥

 समैः-समप्रमाणैः। समास्तीर्येति । प्रागुक्तविशेषणैरुपलक्षितां वेदिमिति शेषः। विधिना-कल्पोक्तक्रियाकलापेन मन्त्रैश्च पुरस्कृतं तथा । विवाहहीमादीनां वरकृत्यत्वात् तत्पुरोहितो वसिष्ठ एव जुहावेति ॥


 [२१५]ततः सीतां समानीय सर्वाभरणभूषिताम् ।
 समक्षमग्नेः संस्थाप्य [२१६]राघवाभिमुखे तदा ।
 अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥ २४ ॥

 अग्नेस्समक्षं राघवाभिमुखे-राघवपुरः प्रदेशे । नन्दः-हर्षः ॥

 इयं सीता मम सुता सहधर्मचरी तव ।
 प्रतीच्छ चैनां, भद्रं ते,[२१७]पाणिं गृह्णीष्व पाणिना ॥ २५ ॥

 धर्म चरतीति धर्मचरी । 'चरेष्टः' इति टः, टित्वात् डीपू, प्रतीच्छ-प्रतिगृहाण, तदर्थं पाणिना पाणिं गृह्णीष्व ॥ २५ ॥

 पतिव्रता महाभागा छायेवानुगता [२१८]सदा ।
 [२१९]इत्युक्त्वा प्राक्षिपद्राजा [२२०]मन्त्रपूतं जलं तदा ॥ २६ ॥

 कल्पोक्तकन्यादानमन्त्रेण पूतं जलं प्राक्षिपत्, रामहस्त इति शेषः ॥ २६ ॥

 साधु साध्विति देवानां ऋषीणां वदतां तदा ।
 देवदुन्दुभि[२२१]निर्घोषः पुष्पवर्षो महानभूत् ॥ २८ ॥

 वदतामिति भावलक्षणे षष्ठी, वदत्स्विति यावत् ॥ २७ ॥

 एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।
 अब्रवीञ्जनको राजा हर्षेणाभिपरिप्लुतः ॥ २८ ॥


 मन्त्रेति । दानीयमन्त्रोदकाभ्यां पुरस्कृतां, दानशेषतयेति शेषः ॥

 लक्ष्मणागच्छ, भद्रं ते, [२२२]ऊर्मिळामुद्यतां मया ।
 प्रतीच्छ पाणिं गृह्णीष्व, मा भूत् [२२३]कालस्य [२२४]पर्ययः ॥२९॥

 उद्यतां-दातुं कृतोद्योगां । अत्र ज्येष्ठात् भरतात् पूर्वं लक्ष्मणपरिग्रहस्तु भिन्नोदरत्वात् । 'पितृव्यपुत्रे सापत्ने परनारीसुतेषु च। विवाह-दानयज्ञादौ परिवेत्त्राद्यदूषणम्' इति स्मरणाददोषः । तदपि स्वसुता-प्रदानम्, अनन्तरमेव कनिष्ठसुतयोः प्रदातव्यत्वात् ॥ २९ ॥

 तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
 गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ ३० ॥
 शत्रुघ्नं चापि धर्मात्मा अ[२२५]अब्रवी[२२६]ज्जनकेश्वरः ।
 [२२७]श्रुतकीर्त्या महाबाहो ! पाणिं गृह्णीष्व पाणिना ॥ ३१ ॥
 सर्वे भवन्तस्सौम्याच सर्वे सुचरितव्रताः ।
 पत्नीभिस्सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ॥ ३२ ॥

 सुचरितव्रता इति । स्वनुष्ठितब्रह्मचर्यव्रता इत्यर्थः । पत्नीभिः सहिताः सन्त्विति योजना ॥ ३२ ॥

 जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्
 चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः ॥ ३३ ॥
 अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।


 ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।
 [२२८]यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ ३४ ॥

 वेदिं-पालिकाद्युपलक्षितवेदिं । राजा-जनकः । यथोक्तेनेति । रामलक्ष्मणभरतशत्रुघ्नलक्षणक्रमेणेत्यर्थः ॥ ३४ ॥

 पुष्पवृष्टिर्महत्यासीत् अन्तरिक्षात्सुभास्वरा ।
 दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥३५॥
 ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
 विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥३६॥

 तदद्भुतमिति । पुष्पवृष्ट्यादिकमित्यर्थः ॥३६॥

 ईदृशे वर्तमाने तु तूर्योद्धुष्टाननादिते ।
 त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ ३७ ॥

 तूर्याणां घुष्टैः-घोषैः निनादितं-तथा-तादृशकाल इत्यर्थः । [२२९]अविशब्दनत्वात् 'घुषिरविशब्दने' इति नेट् । त्रिरग्निमित्यादिः उपसंहारेण वादः ॥ ३७ ॥

 [२३०]अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः |
 राजाऽप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिसप्ततितमस्सर्गः



 पश्यन्निति । वधूवरसंसर्गकल्याणमिति शेषः । दण्ड (३८)मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिसप्ततितमः सर्गः



अथ चतुस्सप्ततितमः सर्गः
[परशुरामाभियोगः]

 अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
 [२३१]आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ १ ॥

 अथ भार्गवगतिहरणरूपश्रीरामदिव्यचरितवर्णनशेषतया भार्गवप्रादुर्भाववर्णनं प्रतिप्रयाणसमये । अथेत्यादि । आपृष्ट्वा-आपृच्छ्येति यावत् । उत्तरपर्वतं-पूर्वमेवाध्यासिषितकौशिकीप्रदेशीयमिति शेषः ॥ १॥

 विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
 [२३२]आपृष्ट्वाऽथ जगामाशु राजा दशरथः पुरीम् ॥ २ ॥
 अथ राजा विदेहानां ददौ कन्याधनं बहु ।
 गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ ३ ॥
 कम्बलानां च मुख्यानां [२३३]क्षौमान् [२३४]कोट्यम्बराणि च ।

 कन्याधनं बहु ददावित्यस्यैव प्रपञ्चनम्-गवामित्यादि । मुख्यानां कम्बळानां-रत्नकम्बळानां बहुनीति योजना । क्षौमान् बहूनिति विपरिणामः । पुंस्यप्यस्ति क्षौमः । कोट्यम्बराणि कोटिसङ्ख्याकानि सामान्यप्रच्छदपटानि ॥ ३ ॥

 हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ॥ ४ ॥
 ददौ कन्यापिता तासां दासीदासमनुत्तमम् ।

 हस्तीत्यादि । सेनाङ्गत्वादेकत्वम् । तासामिति । राजकुमारीणामित्यर्थः । कन्याशतदानं अन्तरङ्गपाकादिव्यवहाराय । दासीदासदानं जलाहरणावहननादिबाह्यव्यापाराय ।गवाश्वादित्वादेकत्वम् ॥ ४ ॥


 हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ५ ॥
 ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।

 हिरण्यमिति रजतं । पूर्वमेव (३०३ पुटे) तथा प्रतिपादितम् ॥५॥

 दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् ॥ ६ ॥
 प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।

 पार्थिवं-दशरथं ॥ ६ ॥

 राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः ॥ ७ ॥
 [२३५]ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।

 बलैः-चतुरङ्गैः, अनुगैः किंकरैश्च सहितस्तथा ॥ ७ ॥

 गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥ ८ ॥
 घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।

 गच्छन्तं दशरथं इति शेषः । पक्षिणः करटादयः ॥ ८ ॥

 भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ ९ ॥

 एवमान्तरिक्षं दुर्निमित्तम् । अथ भौमं मृगप्रदक्षिणगमनं सुनिमित्तम्-भौमा इत्यादि ॥ ९ ॥

 तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
 असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥ १० ॥
 किमिदं हृदयोत्कंपि ? मनो मम विषीदति ।

 तान्-शुभाशुभनिमित्तविशेषान् । हृदयं उत्कंपयितुं शीलमस्येति हृदयोत्कंपि इदं किमिति । दुःखोदर्कं सुखोदर्कं वा भविष्यतीति मे मनो विषीदति । अशक्यनिश्चयादिति शेषः ॥ १० ॥


 राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥ ११ ॥
 उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।
 उपस्थितं भयं घोरं [२३६]दिव्यं पक्षिमुखाच्च्युतम् ॥ १२ ॥
 मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ।

 दिवि-खे भवं दिव्यं । तत्पक्षिमुखात् च्युतं वचनं घोरं भयमावेदयतीति शेषः। प्रशमयन्तीति । प्रशमं सूचयन्तीत्यर्थः ॥ १२ ॥

 [२३७]तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥ १३ ॥
 कम्पयन् पृथिवीं सर्वां पातयंश्च [२३८]द्रुमान् शुभान् ।

 संवदतां -भावलक्षणषष्ठी ॥ १३ ॥

 तमसा संवृतः सूर्यः [२३९]सर्वा न प्रबभुर्दिशः ॥ १४॥
 भस्मना चावृतं सर्वं संमूढमिव तद्वलम् ।

 तमो भस्म चोभयमप्युत्पातजम् ॥ १४ ॥

 [२४०]वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ॥१५॥
 [२४१]ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।

 ससंज्ञाः-इवेति एवार्थे । राजा चैवेति योजना ॥ १५ ॥

 तस्मिंस्तमास घोरे तु भस्मच्छन्नेव सा चमूः ॥ १६ ॥
 ददर्श [२४२]भीमसंकाशं जटामण्डलधारिणम् ।

 भस्मच्छन्नेव-छन्नैवेति यावत् । मीमसंकाशं -भयङ्करदर्शनम् ॥


 भार्गवं जामदग्न्यं तं [२४३]राजराजविमर्दनम् ॥ १७ ॥
 कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ।

 कैलासमिवेति । अनेन महाकारत्वमुक्तं । दुर्धर्षं-अशक्याति- क्रमम् ॥१७॥

 ज्वलन्तमिव तेजोभिर्दुर्निरीक्षं पृथग्जनैः ॥ १८ ॥
 स्कन्धे [२४४]चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।
 प्रगृह्य [२४५]शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥ १९ ॥

 पृथग्जनः-पामरजनः । विद्युद्गणोपमत्वं प्रभातिशयवत्त्वे दृष्टान्तः । त्रिपुरघ्नं यथा-रुद्रमिव स्थितमित्यर्थः ।‘अमनुष्यकर्तृके च' इति हन्तेष्टक् ॥ १९ ॥

 [२४६]तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।
 वसिष्ठप्रमुखा विप्रा [२४७]जपहोमपरायणाः ॥ २० ॥

 जपहोमेति । यद्यपि तत्काले न समस्ति मुख्यहोमः, अथापि अपाने जुह्वति प्राणम्' इत्याद्युपदिष्टो गौणः ॥२०॥

 संगता मुनयः सर्वे संजजल्पुरथो मिथः ।
 कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ २१ ॥

 कच्चिदिति विमर्शः ॥ २१ ॥


 पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
 क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २२ ॥
 एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम् ।
 ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ २३ ॥
 प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।
 [२४८]रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्सप्ततितमः सर्गः


 घोर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुस्सप्ततितमः सर्गः


अथ पञ्चसप्ततितमः सर्गः
[वैष्णवधनुः प्रशंसा]

 राम ! दशरथे ! राम ! वीर्यं ते श्रूयतेऽद्भुतम् ।
 धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥

 अथ जामदग्न्यस्य रामाभियानम्-रामेत्यादि । निखिलेन-कार्त्स्न्येन ॥ १ ॥

 तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।
 तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ॥ २ ॥


 यत्त्वया धनुषो भेदनं कृतं तदद्भुतमचिन्त्यं च भवत्येव ।

अतः-तच्छ्रुत्वेत्यादि । गृह्य-गृहीत्वा ॥ २ ॥

 तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।
 पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥३॥

 जामदग्न्यं -जमदग्नेस्स्वपितुरागतं । आगतार्थे ष्यञ् आर्षः ॥ ३ ॥

 तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।
 [२४९]द्वन्द्वयुद्धं प्रदास्यामि वीर्य[२५०]श्लाघ्यमहं तव ॥ ४ ॥

 प्रपूरणं प्रागुक्तार्थं । वीर्यवद्भिः श्लाघ्यं वीर्यश्लाघ्यं ॥ ४ ॥

 तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।
 [२५१]विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥५॥

 तद्वचनं । द्वन्द्वयुद्धवचनमित्यर्थः ॥ ५ ॥

 क्षत्त्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।
 बालानां मम पुत्राणां अभयं दातुमर्हसि ॥६॥

 क्षत्त्ररोषादिति । तज्ज[२५२]क्षत्त्रवधादित्यर्थः ॥ ६ ॥

 भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
 सहास्राक्षे प्रतिज्ञाय । [२५३]शस्त्रं निक्षिप्तवानसि ॥ ७ ॥


 सहस्राक्ष इति । तत्सन्निधावित्यर्थः । प्रतिज्ञायेति । अतः परं शस्त्रं न ग्रहीष्यामीत्येवमिति शेषः । निक्षिप्तवान् । त्यक्तवानिति यावत् ॥ ७ ॥

 स त्वं धर्मपरो भूत्वा कश्यपाय वसुन्धराम् ।
 दत्त्वा वनमुपागम्य [२५४]महेन्द्रकृतकेतनः ॥ ८ ॥

 स त्वं-तथात्यक्तशस्त्रस्त्वं ॥ ८ ॥

 मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।
 [२५५]न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९ ॥

 मम सर्वविनाशायेति योजना। कुतस्सर्वविनाशनप्रसंग इत्यतः न चेत्यादि ॥ ९ ॥

 ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
 [२५६]अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १० ॥
 इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते।
 [२५७]दृढे बलवती मुख्ये [२५८]सुकृते विश्वकर्मणा ॥ ११ ॥

 इमे द्वे धनुषी इति । वक्ष्ममाणलक्षणे दृढे स्थिरे बलवती क्षतक्षमे इति यावत् ॥ ११ ॥

 [२५९][२६०]अतिसृष्टं! सुरैरेकं त्र्यम्बकाय युयुत्सवे ।
 [२६१]त्रिपुरघ्नं [२६२]नरश्रेष्ठ! भग्नं काकुत्स्थ! यत्त्वया ॥ १२ ॥


 युयुत्सव इति । त्रिपुरावासिभिरिति शेषः । त्रिपुरघ्न-तद्धननसाधन मित्यर्थः ॥१२॥

 तदिदं वैष्णवं राम ! धनुः परमभास्वरम् ।
 समानसारं काकुत्स्थ ! रौद्रेण धनुषा त्विदम् ॥ १३ ॥
 [२६३]तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।
 शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ १४ ॥

 [२६४]तस्येदानीं असमानसारतामाह-तदा त्वित्यादि । अग्निमनीकं सोमं शल्य विष्णुं तेजनं इति विष्णोः रुद्रसंहारपरिकरान्तर्भावश्रवणाद्विष्णोश्चान्यत्र सर्वत्र सर्वासुरसंहारकत्वेन प्राबल्ये चाविवाददर्शनात् अयं रुद्राद्दुर्बलस्समोऽधिको वेत्येवं शितिकण्ठस्य विष्णोर्बलाबलनिरीक्षया सर्वा देवताः पितामहं पृच्छन्ति स्म ॥ १४ ॥

 अभिप्रायं तु विज्ञाय देवतानां पितामहः ।
 [२६५]विरोधं जनयामास [२६६]तयोः सत्यवतां वरः ॥ १५॥
 [२६७]विजये च महद्युद्धमभवद्रोमहर्षणम् ॥
 शितिकण्ठस्य विष्णोश्च परस्पर[२६८]जिगीषिणोः ॥१६॥

 स च भगवांस्तेषां अभिप्रायं उक्तरूपं विज्ञाय ;अथकस्यैव श्रीमदादिब्रह्मणो मूर्तित्रये प्रतीच इव स्थिते मोहादुपाधिभेदाव


लम्बनजां इमां दुश्चिन्तां स्वयमेव भेत्स्यन्त इति विज्ञाय श्रीमच्चतुर्मुखप्रदेशमूर्त्यन्तरभूतयोः रुद्रविष्ण्वोः सत्यसङ्कल्पत्वात् सङ्कल्पशक्तिमदान्तरप्रधानत्वाच्च स्वेच्छया वैरं सञ्जनयामास । अग्निभूतत्त्वयोर्वैरस्य सम्पादनमीषत्करं भगवतो ब्रह्मणः । सत्यवतां वरः-इत्यनेन अस्मदुक्त-सत्यसङ्कल्पत्वमुक्तम् । [२६९] विजय इति निमित्तसप्तमी ॥१६॥

 [२७०]तदा तु जृम्भितं शैवं धनुर्भीमपरक्रमम् ।
 हुंकारेण, महादेवः स्तम्भितोऽथ त्रिलोचनः ॥१७॥

 तदा-विरोधसमये । अथ तथाविरोधाद्युद्धकाले हुङ्कारेण जृम्भितामिति । उत्कटरजश्शक्त्यधिष्ठानजो हुङ्कारः, तेन तद्विषयीकृतत्वेन जृम्भितं-सोच्छ्वासमभवदित्यर्थः । 'रजस्सत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा । अभिभूय प्रभवति' इति न्यायेन उत्कटरजःप्रवृत्तौ तदितरगुणाभिभवस्य स्वाभाविकत्वात्तत्कालमितरगुणप्राधान्यात् भगवांस्त्रिलोचनः स्तम्भितः-स्तंभितपरिकरोऽभूत् ॥ १७ ॥

 देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ।
 [२७१]याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥१८॥


एतावद्दर्शने सति प्राप्तनिश्चयैः देवैः युद्धादुपरतिं याचितौ देवतानुग्रहाय प्रशमं जग्मतुः ॥ १८ ॥

 [२७२]जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।
 [२७३]अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ १९ ॥


 तदा कीदृशं निश्चयं प्राप्तवन्त इत्यतः-जृम्भितामित्यादि । विष्णुपराक्रमो हुंकाररूपः, तेन शैव धनुर्जृम्भितं दृष्ट्वा तदा विष्णुं विष्णुबलं अधिकं मेनिरे । सिद्धान्तस्तु त्रिब्रह्मसु कालत्रयेऽपि 'शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' इति प्रसिद्धक्षत्रधर्माणां प्रसक्त्यभावाद्विना क्षत्रधर्मं स्वसृष्टप्रजारक्षाऽसम्भवात् तत्तदर्थमग्निभूप्राधान्येन परिगृहीतचतुर्मुखप्रदेशरुद्रविष्णुमूर्त्योर्धनुर्ग्रहप्रमुखसकलक्षत्रवर्मसहजस्वभावयोर्यदा यस्मिन्नुत्कटभूमरजश्शक्क्त्यावेशस्स तु तदाऽधिकक्षत्त्रबलभानो भवति । अन्योन्यथा चलं गुणवृत्तमिति न्यायेन (परिगृहीतचतुर्मुख) गुणौत्कठ्यानौकठ्ये तु न व्यवस्थिते । योऽशेषवानरलक्ष्मणोपेतो रामोऽपि भगवानेकेनेन्द्रजिता सर्वात्मना जित एव । स एव पुनर्द्देवतासाहाय्यादुज्जीविताशेषपरिकर उत्कटरजश्शक्तिस्तमप्यजयच्च । अतश्व द्वन्द्वयुद्धे किंचित्क्षत्रबलाधिक्यमानम् विष्णोः, त्रिपुरसंहारदक्षाध्वरादौ रुद्रस्य । वस्तुतस्तु-क्षत्रधर्मप्राबल्यं रुद्रस्य, अग्नितत्त्वत्त्वात् । अतो ब्रह्मविद्भिः रुद्रोऽधिको विष्णुर्न्यूनस्सवाऽधिको न्यून इति दुर्मतिर्दूरे त्याज्या । एकस्यैव ब्रह्मणः प्रत्यग्वदेव गुणभेदमात्रनिबन्धनरुद्राविष्णुशब्दतो भेदाभावात् ॥
 यस्तु रुद्रोपाधिर्भगवानादिगुरुः स एव विष्णूपाधिरिति यश्चैवमुपाधिस्स एवोपाधिरिति वामदक्षिणोर्ध्वाघोऽवयववत् किंचित्कचित्कदाचित् गुणवत्त्वेनाधिकत्वेन न्यूनत्वेन च भाति । सर्वोऽप्ययमेकधर्म इति न वृथोल्लाळनं कर्तव्यमिति ॥१९॥

 [२७४]धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः।
 [२७५]देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ॥ २० ॥

 धनू रुद्र इत्यादि । एवं युद्धदशायां सङ्क्रुद्धः पश्चाद्देवप्रार्थनया प्रसन्नो देवेभ्य एव तद्धनुः ससायकं दत्त्वा तच्च वरुणद्वारा विदेहेषु वर्तमानस्य देवरातस्य राजर्षेर्हस्ते ददौ। एवं विशेषव्याख्या तु षट्षष्टितमे 'प्रीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम्' इति प्रति एव रुद्रो देवेभ्यो ददावित्युक्तेः । तथाऽग्रे वरुणेन दत्तमिति वक्ष्यमाणत्वाच्च ॥ २० ॥




 इदं च वैष्णवं राम ! धनुः परपुरंजयम् ।
 ऋचीके भार्गवे प्रादाद्विष्णुः [२७६]स्वन्यासमुत्तमम् ॥ २१ ॥

 एतवतानूक्तं भार्गवेण तु रौद्रं धनुः शिथिलप्रायं जनकवंशे स्थितं । न तु तद्भञ्जनमात्रतस्तव वीर्याधिक्यामिति । तर्हि क्व मे वीर्यशुद्धिरित्यतः-इदञ्चेत्यादि । परपुरञ्जयमिति । असंज्ञायामप्यार्षः खच् । भार्गवः-भृगुपुत्रः। स्वस्य-स्वीयस्य न्यासः-सन्यासः ॥

 ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।
 पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २२ ॥

 पुत्रस्येति । जमदग्नेरिति यावत् । अप्रति[२७७]कर्मणः-स्वघातुत्के कार्तवीर्ये शापादिप्रतिक्रियारहितस्तथा ॥ २२ ॥

 [२७८]न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।
 अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥


 न्यस्तं विष्णुधनूरूपं शस्त्रं येन स तथा । तपोबलसमन्वितेऽपि प्राकृतां बुद्धिमास्थितः सन् अर्जुनः-कार्तवीर्यार्जुनो [२७९] रुद्रः मृत्युं अस्मत्पितुर्विदधे ॥ २३ ॥

 [२८०]वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।

 प्रतिरूपं-न्याय्यम् ॥ २४ ॥

  [२८१]क्षत्त्रमुत्सादयन् रोषात् [२८२] जातं जातमनेकशः ॥ २४ ॥
 पृथिवीं [२८३]चाखिलां प्राप्य कश्यपाय महात्मने ।
 यज्ञस्यान्ते तदा राम दक्षिणं [२८४][२८५]पुण्यकर्मणे ॥ २५ ॥

 प्राप्येति । स्वबलेनेति शेषः । पुण्यकर्मण इति । यज्ञमयपुण्यकर्मसाद्गुण्यार्थमित्यर्थः ॥२५ ॥

 [२८६]दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।
 श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ॥ २६ ॥

 महेन्द्रः-महेन्द्रपर्वतः ॥ २६ ॥

 तदिदं वैष्णवं राम ! पितृपैतामहं महत् ।
 क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ २७ ॥


 पितृपैतामहमिति । पितृपितामहक्रमागतमित्यर्थः । उत्तरपदवृद्धिरार्षी । क्षत्रधर्मं पुरस्कृत्येति । ब्राह्मणवच्छान्तिमास्थाय नाहं शक्त इति मा ब्रूहीत्यर्थः ॥ २७ ॥

 योजयस्व धनुश्रेष्ठे शरं परपुरञ्जयम् ।
 यदि शक्नोषि, काकुत्स्थ ! द्वन्द्वं दास्यामि ते ततः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः

 यदि शक्नोषि तावतापि न त्वां मुञ्चामि । अपि तु ततः अनन्तरं द्वन्द्वयुद्धं प्रदास्यामि । वीर्यपरीक्षणार्थमित्यर्थः । जरा (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चसप्ततितमः सर्गः

अथ षट्षष्टितमः सर्गः

[परशुरामप्रतिष्टम्भनम्]

 श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
 गौरवाद्यन्त्रितकथः[२८७] पितू राममथाब्रवीत् ॥१॥

 अथ रामेण जामदग्न्यसंहारः-श्रुत्वेत्यादि । पितुर्गौरवादिति । पितृसन्निधिगौरवादित्यर्थः । यन्त्रिता-नियमिता [२८८]कथा उच्चैः कथनं येन स तथा ॥ १ ॥


 श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव !
 [२८९]अनुरुध्यामहे ब्रह्मन् ! पितुरानृष्यमास्थितः ॥ २ ॥

 श्रुतेत्यादि । पितुरानृण्यं-पितृघातृक्षत्रवधेन पितृवैरशुद्धिं आस्थितस्सन् यत्कर्म-त्रिस्सप्तकृत्वः क्षत्रवधरूपं कृतवान् असि तच्छ्रुतवानस्मि । तदेनमनुरुध्यामहे-[२९०]अनुरुन्ध्मः-अङ्गीकुर्मः, अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात्, [२९१]कर्तरि यगार्षः ॥ २ ॥

 वीर्यहीनमिवाशक्तं [२९२]क्षत्रधर्मेण भार्गव !
 अवजानासि [२९३]मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३ ॥

 अपि तु वीर्यहीनं अत एव क्षत्रधर्मेण प्राप्ते धनुर्ग्रहयुद्धादौ अशक्तमिव मन्यमानो यन्मां अवजानासि, 'क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व' इत्यादिवचनेनावमानं कृतवानसि, तन्नानुरुध्यामहे । 'अस्मदोर्द्वयोश्च' इति चकारादेकस्मिन्नपि बहुवचनम् । यदेवमतः- तेज इत्यादि । तेजः-पराभिभवासहनं । तच्च तच्च तन्मूलं पराक्रमं स्वशक्त्या पराभिभवनरूपव्यापाररूपं च पश्य ॥ ३ ॥

 इत्युक्त्वा राघवः क्रुद्धो भागर्वस्य शरासनम् ।
 [२९४]शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥ ४ ॥

 इत्युक्त्वा क्रुद्धः-प्रागुक्तरूपावमानवचनेन [२९५]क्रुद्धः । एवं क्रोधाविष्टत्वादेव तद्धस्तात्स्वयमेव धनुरादेर्बलात् प्रतिग्रहः । लघुः-शीघ्रः पराक्रमो यस्य स तथा ॥ ४ ॥


 आरोप्य स धनू रामः शरं सज्यं चकार ह ।
 जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ ५ ॥

 स रामो धनुरारोप्य-ज्यारोपं कृत्वा, शरं सज्यं–ज्यासहितं चकार । सन्धानं कृतवानिति यावत् ॥ ५ ॥

 ब्राह्मणोऽसीति पूज्यो मे[२९६] विश्वामित्रकृतेन च ।
 तस्माच्छक्तो न ते राम ! मोक्तुं प्राणहरं शरम् ॥ ६ ॥
 [२९७]इमां[२९८] वा त्वद्गतिं राम ! [२९९]तपोबल[३००]समार्जितान् ।
 लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ ७ ॥

 ब्राह्मणोऽसीति । जमदग्निबीजत्वेन ब्राह्मण इति कृत्वा सामान्यतः पूज्योऽसि —वधानर्होऽसि । अपि च विश्वामित्रकृतेन-विश्वामित्रभागिनेयसुतत्वेन च हेतुना पूज्योऽसीति यतः तस्मात् इमां प्रत्यक्षसिद्धां त्वद्गतिं गतिसाधनपादावित्यर्थः । लोकानिति । [३०१]लोकप्राप्तिमार्गमित्यर्थः । यदिच्छसीति । उभयोर्मध्ये तद्वदेति शेषः ॥ ७ ॥

 न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।
 [३०२]मोघः पतति वीर्येण बलदर्पविनाशनः ॥ ८ ॥


 कुत एवमित्यतः-न ह्ययमित्यादि । वीर्येण-स्वशक्त्या शत्रूणां बलजदर्पविनाशनः ॥ ८ ॥

 वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः।
 पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ ९ ॥

 वरायुधं-वैष्णवं धनुः । सर्वतो रामाभ्युदये-निजावतारत्वादेव सदेवगणपरिकरस्य भगवतो ब्रह्मणो दिदृक्षया आगमनं भवति । "अनुग्रहात्तदंशानां तत्प्रेम्णाम्" इत्युपनिषद्रहस्यात् । नैवं क्वचित् कस्यचिदप्यभ्युदये भगवतो दिदृक्षाप्रवृत्तिः । एवं प्रतिसर्गभगवदनुग्रहप्रसंगोपबृंहितत्वादेवेदं रामायणामृतं ब्रह्मकुलजीवातुः ॥ २ ॥

 गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।
 यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ १० ॥
 [३०३]जडीकृते [३०४]तदाऽऽलोके रामे वरधनुर्धरे ।
 निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥ ११ ॥

 एवं वरधनुर्धरे रामे-अधिकरणे, तदाऽऽलोके-तस्य भार्गवस्याऽऽलोके ; सति सङ्क्रान्त इति यावत् । तथा[३०५]पुराणे-"ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत्" इति । अत एव भार्गवे जडीकृते-निर्वीर्ये सति, योऽसौ निर्वीर्यो जामदग्न्यो रामः राममुदैक्षत । उद्भूतविष्णतेजस्कमपश्यदित्यर्थः । तथैव जामदग्न्यो वक्ष्यति । त्वां मधुहन्तारं जानामि" इति ॥ ११ ॥


 [३०६]तेजोभिर्गतवीर्यत्वाज्जामदग्नयो जडीकृतः ।
 [३०७]रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ १२ ॥

 उक्तश्लोकार्थ एव विवरणरूपेणोच्यते पुनः-तेजोभिरित्यादि । रामसङ्क्रान्तैर्हेतुभिरिति शेषः । उवाच हेति । शरगतिप्रश्नोत्तरमिति शेषः ॥

 [३०८]कश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।
 विषये मे न वस्तव्यमिति मां कश्यपोऽब्रवीत् ॥ १३ ॥

 विषय इति । मे-मह्यं दत्ते विषये-कृत्स्नवसुन्धरालक्षणे देशे त्वया न वस्तव्यमिति मां कश्यपोऽब्रवीत्, प्रजाभीत्यादि-निवृत्तिप्रयोजनाय ॥ १३ ॥

 सोऽहं[३०९] गुरुवचः कुर्वन् पृथिव्यां न वसे[३१०]निशाम् ।
 कृता प्रतिज्ञा काकुत्स्थ ! कृता भू: कश्यपस्य हि ॥

 यदेवमतः-सोहं गुरुवचः-कश्यपवचः अनुतिष्ठन् पृथिव्यां निशां न वसे, छान्दसस्तङ्, रात्रौ पृथिव्यां न वसाम्यद्यापि । अहन्यावश्यककार्यायागत्य गमनमात्रं दीक्षितपत्न्या इवादोष


इत्याशयः । तदेति । यदा दत्तं, यदा च न वस्तव्यमित्युक्तं तदारभ्येत्यर्थः । पृथिव्यां न वस इति सम्बन्धः । कुतः पृथिव्यां न वस इत्यतः- कृतेत्यादि । हि शब्दः प्रसिद्धौ । यतस्सर्वप्रसिद्धतया भूः कश्यपस्य स्वत्त्वेन कृता, न वत्स्यामीति च प्रतिज्ञा च कृता,

तस्मादेवेत्यर्थः ॥ १४ ॥

 [३११]यदीमां मद्गतिं वीर ! हन्तुं नार्हसि राघव !
 [३१२]मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १५ ॥

 यदेवमतो-यदीत्यादि । नार्हसि यदि-इमां मद्गतिं च त्वं हन्तुन्नार्हसि-यदि नेच्छसीति यावत्, ततो मनोजवं पादमास्थाय महेन्द्रं पर्वतोत्तमं-केरळभूरूपं गमिष्यामि । स तु समुद्रान्मयाऽऽवासाय याचितः पश्चात् ॥ १५ ॥

 लोकास्त्वप्रतिमा राम ! निर्जितास्तपसा मया ।
  [३१३] जहि तान् शरमुख्येन मा भूत्कालस्य पर्ययः ॥ १६ ॥

 अतो ये लोका निर्जितास्ताञ्जहि ॥ १६ ॥

 [३१४].[३१५]अक्षयं मधुहन्तारं जानामि त्वां सुरेश्वरम् ।
 धनुषोऽस्य परमाशत् स्वस्ति तेऽस्तु परंतप !॥ १७ ॥

 त्वां तु लोकदानप्रतिबन्धस्वतन्त्रं 'उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं विराजं ब्रह्माणमेव जानामि इत्याह–अक्षयमित्यादि । भूमविराडुपग्रहमिति यावत् । कुत एवं निश्चयः ? इत्यतः-धनुष इत्यादि । अस्येति । वैराजस्येत्यर्थः । परामर्शः-ग्रहणाकर्षणा-दिव्यापारः ॥ १७ ॥

 एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।
 त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८ ॥

 आहवे अप्रतिद्वन्द्वं-अस्मद्रूपप्रतिभटरहितं सर्वदेवा निरीक्षन्ते –पश्यन्ति ॥ १८ ॥

 न चेयं मम काकुत्स्थ ! व्रीडा भवितुमर्हति ।
 त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९ ॥

 इयं त्वद्विषये अशक्तिः मम व्रीळा-व्रीळावहा भवितुं नार्हति । कुत इत्यतः-त्वयेत्यादि । विराडादिपदत्रयनाथेनास्मदादेस्तथा तथा शक्तिप्रदेन ब्रह्मणा त्वया स्वयं दत्तशक्तेः पुनः स्वस्मिन्नेव संयोजनेन विमुखीकृतः-अशक्तः कृतः, कुष्णेनार्जुन इव, न तु अन्येन प्राकृतेन संसारजीवकोट्यन्तर्गतेन; तदा किल व्रीळा । तत्तत्स्वामिना तत्तत्स्वे गृहीते तत्तन्न्यासरक्षिणां का व्रीळा इत्याशयः ॥ १९ ॥

 शरमप्रतिमं राम ! मोक्तुमर्हसि सुव्रत !
 [३१६]शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ २० ॥

 अतो लोकेश्वरस्त्वं शरं मल्लोकप्रतिबन्धाय मोक्तुमर्हसि । शरमोक्षे सति दत्तशरगतिरहं [३१७]अप्रतिबद्धो महेन्द्रं गमिष्यामि ॥ २० ॥




 तथा ब्रुवति रामे तु जामदग्नये प्रतापवान् ।
 रामो दाशरथिःश्रीमांश्चिक्षेप शरमुत्तमम् ॥ २१ ॥
 स हतान् दृश्य रामेण स्वांल्लोकांस्तपसाऽऽर्जितान् ।
 जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२ ॥

 सः-जामदग्नयः शरक्षेपानंतरं तपसाऽऽर्जितान् स्वान् लोकान् रामेण तेन शरेण हतान्-रुद्धान् दृश्य–दृष्टा महेन्द्रं जगाम ॥

 ततो वितिमिराः सर्वा [३१८]दिशश्चोपदिशस्तथा ।
 सुराः सर्षिगणा रामं प्रशशंसु[३१९]रुदायुधम् ॥ २३ ॥
 रामं दाशरथिं रामो जामदग्नयः प्रशस्य च ।
 [३२०]ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्सप्ततितमः सर्गः


 रामं प्रदक्षिणं कृत्वेति । रामे सम्यक् समुत्पन्नब्रह्मबुद्धित्वादपेतबालक्षत्रियबुद्धित्वात्स्वयं ब्रह्मर्षिवृद्धोऽपि सन् प्रदक्षिणादिकमकरोत् । आत्मगतिं-आत्मत्वेन गतिरात्मगतिः-रामः मदन्तर्यामी भगवान् आदिगुरुर्ब्रह्मैवेति तत्त्वज्ञनं प्राप्तवान् । आत्मगति-स्वस्थानं च जगामेत्यर्थः । प्रभुरिति । ब्रह्मज्ञत्वेन सर्वलोकप्रभुत्वम् । भार (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्सप्ततितमः सर्गः


 गते रामे प्रशान्तात्मा रामो दाशरथिधर्नुः ।
 [३२१]वरुणायाप्रमेयाय ददौ हस्ते[३२२]ससायकम् ॥१॥

 अथ संपूर्णकामतया दशरथस्य पुरप्रवेशादिः-गते राम इत्यादि । परशुराम इति यावत् । हस्ते-स्वहस्ते स्थितं सायकं धनुश्च वरुणाय ददौ, न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं -"भृगुर्वै वारुणिः । वरुणं पितरमुपससार' इत्यादिना साक्षात् शुद्धब्रह्मविद्याप्रवर्तकदेशिकेन्द्रत्वादप्रमेयवैभवत्वम् । तस्य च सत्त्वप्रधानतो ब्रह्मण आन्तरमूर्तित्वात् ब्रह्मणा रामेणाप्ते एतस्मिन् प्रदानम् । एवं वरुणादिमहामहादेवतानामपि स्वेष्टविनियोजकत्वेन भगवान् रामो ब्रह्मा स्वावगमः । वरुणायेत्यादैा षष्ठ्यर्थे चतुर्थ्याश्रये तु पाङ्कोऽर्थः ॥ १ ॥

 अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।
 [३२३]पितरं [३२४]विह्वलं दृष्ट्टा प्रोवाच रघुनन्दनः ॥ २ ॥

 विह्वलः-परवशः ॥ २ ॥


 जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।
 [३२५] अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ ३ ॥

 चतुराङ्गणीति । 'प्रातिपदिकान्तनुम्' इत्यादिना णत्वम् ॥ ३ ॥

 रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।
 बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ ४ ॥
 गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
 पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥ ५ ॥
 चोदयामास तां सेनां, जगामाशु ततः पुरीम् ।

 तां सेनां-प्रथमं क्षुभितां पश्चात् प्राप्ताश्वासां चेत्यर्थः । प्रतिबन्धाभावात् पुरीं चाशु जगाम ॥ ५ ॥

 [३२६]पताकाध्वजिनीं रम्यां तूर्योद्धुष्टनिनादिताम् ॥ ६ ॥
 [३२७][३२८]सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।

 अस्यैव विस्तरः-पताकेत्यादि । पताका-ध्वजपटः । ध्वजः-दण्डः। पताकान्विता ध्वजास्सान्त अस्या इति तथा । उद्धुष्टमिति भावे निष्ठा ॥६॥


 राजप्रवेशसुमुखैः पौरैर्मङ्गल[३२९]वादिभिः ॥७॥
 संपूर्णां प्राविशद्राजा जनौधैः समलङ्कृताम् ।

 मङ्गलं-आशीर्वदनं वदितुं शीलमस्त्येषामिति तथा ॥७॥

 पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८ ॥
 पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ॥

 श्रीमद्भिरिति । दारपरिग्रहादधिकलक्ष्मीवद्भिः ॥ ८ ॥

 प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ॥ ९ ॥
 ननन्द सजनो राजा गृहे कामैः सुपूजितः।

 हिमवत्सदृशामिति । अनेन सुधालेपजधावल्यमौन्नत्यं च लक्ष्यते । सजनः-सबन्धुजनः गृहे विद्यमानः । काम्यन्त इति कामाः विषयभोगपरिकरस्रक्चन्दनाभरणादयः तैः सुपूजितः-प्राप्तपूजा प्राप्तानन्द इत्यर्थः ॥ ९ ॥

 कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥ १० ॥
 वधूप्रतिग्रहे [३३०]युक्ता याश्चान्या राजयोषितः ।

 वधूनां-स्नुषाणां प्रतिग्रहः-आरात्रयादिमङ्गलाचारपूर्वकः । राजयोषितः-दशरथपत्न्यः ताश्च वधूप्रतिग्रहे युक्ताः ॥ १० ॥


 ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥ ११ ॥
 कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।
 मङ्गला[३३१]लपनैश्चैव शोभिताः क्षौमवाससः ॥ १२ ॥
 [३३२]देवतायतनान्याशु [३३३]सर्वास्ताः प्रत्यपूजयन् ।

 मङ्गलार्थमालपनमाशीर्वादः तैरुपलक्षिता इति शेषः । देवतायतनं पुरदैवत[३३४]गृहदैवतायतनवेदिः । प्रत्यपूजयन्निति । प्रणमन्ति स्म ॥

 [३३५]अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥ १३ ॥
 [३३६]रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।
 कृतदाराः [३३७]कृताज्ञाश्च सधनाः ससुहृज्जनाः ॥ १४ ॥

 अभिवादार्हाः-अभिवाद्याः । कृताज्ञाः-अनुष्ठितपितृनियोगाः । सधनाः-स्वस्वभोगोपयुक्तजीवाजीवधनसहिताः ॥ १४ ॥

 [३३८]शुश्रूषमाणाः पितरं [३३९]वर्तयन्ति नरर्षभाः ।

 शुश्रूषमाणाः-सर्वकृत्येषु पितरं संपृच्छयमानाः । वर्तयन्ति-पित्रुक्तमेवानुवर्तयन्ति स्म ॥ १४ ॥

 [३४०]कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥ १५ ॥

 कस्यचित्कालस्येति । अत्यय इति शेषः ॥ १५ ॥


 भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः ।
 अयं केकयराजस्य पुत्रो वसति पुत्रक !॥ १६ ॥
 [३४१] त्वां नेतुमागतो वीर ! युधाजिन्मातुलस्तव ।

 मातुलस्तवेति । अतो गत्वाऽऽगच्छेति शेषः ॥ १६ ॥

 [३४२]श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ॥ १७ ॥
 गमनायाभिचक्राम[३४३]शत्रुघ्नसहितस्तदा ।

 एतदिति । वाक्यमिति शेषः ॥ १७ ॥

 आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥ १८ ॥
 [३४४]मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।

 [३४५]अक्लिष्टं-कस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ॥ १८ ॥

 गते च भरते रामो लक्ष्मणश्च महाबलः ॥ १९ ॥
 पितरं देवसंकाशं पूजयामासतुस्तदा ।
 पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥ २० ॥


 चकार रामो धर्मात्मा प्रियाणि च हितानि च ।
 मातृभ्यो मातृकार्याणि [३४६]कृत्वा परमयन्त्रितः ॥ २१ ॥
 गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत ।

परमं-अत्यन्तं यन्त्रितः-श्रुतिस्मृतिमर्यादानतिलंघी । गुरुकार्याणीति । गुरूचितशुश्रूषादिकार्याणीति यावत् ॥ २१ ॥

 एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥ २२ ॥
 रामस्य शील[३४७]वृत्तेन सर्वे विषयवासिनः।

 तथा नैगमाः-वणिजः। विषयवासिन इति । प्रीता इति विपरिणामः ॥ २२॥

 तेषामतियशा लोके रामः सत्यपराक्रमः॥ २३ ॥
 स्वयम्भूरिव भूतानां बभूव गुणवत्तरः।

 तेषां चतुर्णां पुत्राणां मध्ये सत्यपराक्रमः राम एव लोके गुणवत्तरः-अतिशयेनानन्तकल्याणगुणसम्मतो बभूव । यथा भगवान् स्वयम्भूः देवासुरान्तसकलसंसारिणां साधारण्येन निस्तुलाधिकजाग्रन्निर्मलनिसर्गभूमविद्यैश्वर्यानन्दवैभवेन सज्जनसाधारणनिरयभरणस्वर्गप्रापणपरमापवर्गान्तसकलपुरुषार्थसाक्षात्साधकत्वेन सर्वसम्मतसर्वोपसेव्यानन्तकल्याणगुणो भवति, उपादानत्वेन सर्वात्मकत्वाच्च सर्वसम्मतसच्चिदानन्दतत्त्वतस्वरूपत एवाविवादतस्सर्वलोकसम्मतविद्यैश्वर्यादिगुणो भवति तथेत्यर्थः ॥ २३ ॥

 रामस्तु सीतया सार्धं विजहार बहूनृतून् ॥ २४ ॥
 मनस्वी[३४८] [३४९]तद्गतस्तस्या नित्यं हृदि समर्पितः ।


 मनस्वी-अनुकूलमनस्कः । अतः तद्गतः-तया सीतया अभिगतः-नित्यसेव्यमानः; आस्थान्यवस्थानादिना असन्निधानेऽपि तस्य हृदि तया नित्यं समर्पितः-सततोत्कण्ठितो भवति ॥ २४ ॥

 प्रिया तु सीता रामस्य दाराः [३५०]पितृकृता [३५१] इति ॥ २५ ॥
 [३५२]गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ।

 सीता रामस्य पितृकृता दारा इति तु विशिष्य प्रिया भवति । उत्तमस्त्रीत्वादेव स्वतः प्राप्ता प्रीतिस्सीतायां पितृकृतत्वेन बहुमाननास्पदभूता चाभूदित्यर्थः । न केवलं पितृकृतेति प्रीतिः, अपि तु गुणात्-इष्टशिष्टहितकारित्वादिपातिव्रत्यगुणात् । रूपं-आत्मीयनिस्तुलाधिकसौन्दर्यात्मक-गुणस्तथा । भूयः-अभ्यधिकं रामस्यास्यां प्रीतिरवर्धत ॥२५॥

 तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥ २६ ॥
 अन्तर्जातमपि व्यक्तं आख्याति हृदयं हृदा ।

 तस्याश्च हृदये भर्ता रामः गुणाद्रूपगुणाच्च द्विगुणं परिवर्तते स्म । उभयोः परस्परेङ्गितज्ञानं स्नेहमूलकं प्रदर्श्यते--अन्तरित्यादि । तस्य रामस्यान्तर्जातमपि हृदयं-हार्दाभिप्रायं मैथिली हृदा-स्वहृदयेन ज्ञात्वा भूयः-अभ्यधिकं व्यक्तं विशेषेणैव एवमेवेति विविच्य आख्याति एवं सोऽपि सीतायाः ॥ २६ ॥


 तस्य भूयो विशेषेण मैथिली जनकात्मजा ॥ २७ ॥
 देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।

 देवताभिस्समेति । मानुषावतारेऽपीति शेषः । अत एव श्रीरिवेति उपमाऽपि श्रिया एव सत्या। अत एवोत्तरश्लोकोपमाऽप्युभयोः ॥

 तया स राजर्षिसुतोऽभिरामया ।
  समेयिवानुत्तमराजकन्यया
 अतीव रामः शुशुभेऽतिकामया
 विभुः [३५३]श्रिया विष्णुरिवामरेश्वरः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां
संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः

समाप्तश्व बालकाण्डः


[३५४]अदुःखमानः (२८ १/२) सर्गः ॥२८ १/२ ॥

 बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।
 श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ॥

इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां
बालकाण्डे सप्तसप्ततितमः सर्गः

बालकाण्डव्याख्या समाप्ता

 यस्सर्वोपनिषद्व्याख्या मङ्गलाभरणं व्यधात् ।
 [३५५]ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ॥




  1. एतदनन्तरं–एवमुक्तस्तया राम ! रम्भया भीतया तदा ॥ इत्यधिकं-ङ. ज.
  2. मा भैषीस्त्वं वरारोहे-झ.
  3. 'मा भैषि रंभे' इत्यत्र आर्षो ह्रस्वः-गो.
  4. हृदयग्राही कोकिलः माधवे-वसन्ते रुचिरद्रुमे-स्थास्यतीति शेषः-शि. 'अहं कोकिलो भूत्वा स्थास्यामि इति व्याख्याने तु 'माधवे रुचिरद्रुमे' इत्यस्यानन्वयः, तव पार्श्वतः ' इति स्थानवचनात् । अध्याहारादिक्लेशश्च । पाठान्तरे तु-हृदयग्राही कोकिलः स्थास्यति, रुचिरद्रुमः माधवः
    स्थास्यति, अहं कन्दर्पसहितः स्थास्यामीत्यन्वयः
  5. माधवो रुचिरद्रुमः-ङ. झ.
  6. हासभावा-क. ग.
  7. एतदनन्तरं-कोकिलो रुचिरग्राही भेदयामास वै मुनिम्-इत्यधिकं-झ.
  8. एतदनन्तरं–ध्यात्वा मुहूर्ते तेजस्वी दण्डाहत इवोरगः । त्रसन् क्रोधसमाविष्टो विपर्व इव भानुमान्-इत्यधिकं क्वचित्-ङ.
  9. पूर्वं मेनकाविषयानुभवात्, किमियं मत्तपोनाशनोद्देशेनैव समागता स्यादिति संशयः
  10. तत्सर्वं-ङ.
  11. एतेन-रंभाया इन्द्रस्य प्राणप्रियात्वेन तच्छापतो इन्द्रस्यापि दुःखं सूचितमिति-शि.
  12. क्रोधयसे-ङ.
  13. गोविन्दराजीयानुरोधेनैवमुक्तम्
  14. कोपसंताप-ङ.
  15. तपोव्ययजन्यदुःखेन संतापं-ति.
  16. इन्द्रियैः क्षुभितं-ङ.
  17. मेनकाप्रसङ्गे कामः, रंभाप्रसङ्गे क्रोध इत्यर्थः ।
  18. हतत्वा-ग.
  19. मनश्चिन्ता-ङ.
  20. नैवं-ङ.ज.
  21. मौनव्रतं वा विवक्षितम् । अनन्तरस्मिन् सर्गे 'मौनं वर्षसहस्रस्य' इत्यभिधानात् ।
  22. तपसोर्जितम्-ङ.ज.
  23. वर्षसहस्रस्य–वर्षसहस्रसम्बन्धिनीं दीक्षां-गो. वर्षसहस्रस्य दीक्षां निर्वर्तयितुं अप्रतिमां प्रतिज्ञां चकार-शि.अप्रतिमां प्रतिज्ञां दीक्षां च चकार इति वाऽर्थः ।
  24. एतदनन्तरं 'तथैवासीत्पुनमौनमनुच्छ्रासं चकार सः' इत्यधिकं-ङ..
  25. धूम इति । धूमकेतुरित्यर्थः-अग्निरिति यावत् । अत एवाग्रे ‘आतापितमिव इति वक्ष्यति । अयं शुद्धसत्त्वप्रभवोऽग्निः इतरेषां रजस्तमः प्रधानानां-देवादीनां तापजनक इति बोध्यम्-ति
  26. येन धूमेन संभ्रान्तं-उद्वेगं प्रापितं त्रैलोक्यं आदीपितमिव-सन्तापितमेवाभवत्-शि.
  27. दीपितमिवा-ङ, तापितमिवा-ज.
  28. देवर्षि गन्धर्वाः पन्नगोरग-ङ.
  29. स्तेजसा तस्य तपसा-ङ. झ.
  30. देंवैः-ङ.
  31. विनाशमेति-ङ.
  32. नास्ति कं-सुखं यस्य सः, अत्यन्तव्याकुलत्वेन सुखरहित इत्यर्थः-शि.
  33. आर्ष इत्यर्थः ।
  34. भगवन्-ङ.ज.
  35. देवराज्यं चिकीर्षेत-देवानामाधिपत्यं कर्तुं इच्छेतापि
  36. यन्मनः-ङ.
  37. विसर्गलोप इत्यर्थः ।
  38. भवता एकेनैव अङ्गीकारे किं फलमित्यत्राह-समरुद्गण इति । अत एव उत्तरत्र 'देवताः' इत्युक्तिः सङ्गच्छते ।
  39. यथाऽऽगतम्-ङ.
  40. ब्राह्मणशब्दयोगार्थपौष्कल्येपि न हि मुख्यं ब्राह्मण्यं संभवेदित्यर्थः ।
  41. ब्रह्मवेदविदां-ब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपि - शि. ब्रह्मवेदाः-ब्रह्मप्रतिपादका वेदाः वेदान्ताः । यद्वा ब्राह्मणमात्रप्रवचनार्हावेदाः त्रयीरूपाः -गो.
  42. ब्राह्मा-ग.
  43. धर्माः-ग.
  44. वेदः सारब्राह्मणा त्रयी.
  45. नीतवानिति मातृकासु ।
  46. अनेन त्रिपुरुषपर्यन्तं विश्वामित्रस्य ब्राह्मण्यलाभः सूचितः । एतच्च 'अनृष्यानन्तर्षे' इतिसूत्रे महाभाष्ये स्पष्टम्-ति.(तथा हि भाष्यम्-'विश्वामित्र-स्तपस्तेपे नानृषिः स्यामिति; तत्रभवानृषिः संपन्नः, स पुनस्तपस्तेपे-नानृषेः पुत्रः स्यामिति; तत्रभवान् गाधिरपि ऋषिः संपन्नः, स पुनस्तपस्तेपे-नानृषेः पौत्रः स्यामिति ; तत्रभवान् कुशिकोऽपि ऋषिः संपन्नः' इति).
  47. पूजयामास ब्रह्मर्षिर्व-ङ.
  48. ससैन्यस्येत्यर्थः ।
  49. निग्रहवत्तपः-ङ. ज.
  50. सदः प्राप्य स्थितैः सदस्यैश्च ते गुणाः श्रुताः-गो.ति.
  51. तव तपः-ङ.
  52. एतदनन्तरं-पितामहस्य च यथा यथा चैव ह्युमापतेः । इत्यधिकं-ङ.
  53. 'पूरण गुण' इति तृतीयार्थे षष्ठी-गो.
  54. विससर्जाथ-ङ.ज.
  55. आशु इत्यनेन-गृहं गत्वा कदा इमां कथां वर्णयिष्यामि-इत्यभिलाषातिशयः सूचितः-शि.परन्तु-पूर्वश्लोके 'मुनिवरः जनकं आशु विससर्ज' इत्युक्तम् । तत्र मुनिवरस्य त्वरायां हेतुः 'एवमुक्तः' इत्यनेन सूचितः । तत्पूर्वं हि 'कर्मकालः अतिवर्तते 'इति जनकेनोक्तं । तच्छ्रुत्वा विश्वामित्रः तत्वरे । तदृष्ट्वा जनकोऽपि तत्त्वरे, महर्षेस्तस्य अनुष्ठानकालातिक्रमणभयात् । जनकोऽपि हि कर्मठ इति प्रसिद्धम् । अतः 'आशु' इत्यनेन कालातिक्रमभयं सूच्यत इति युक्तम् ।
  56. स्ववासमभि-ज.
  57. अत्र क-ग मातृकाद्वये अङ्कसंख्यया ३१. इति श्लोकानां निर्देशो दृश्यते । दृश्यन्ते तु ४० श्लोकाः । घ. पुस्तके 'धनमानः' इति दृश्यते । तत्र यथा श्रुते ४० इति सङ्ख्या विवक्षणीया । परन्तु कटपयादीनां व्यत्यासेन लेखनमेव सांप्रदायिकम् ॥
  58. अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवधायावतीर्णः, तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मी 'तुल्यशीलवयोवृत्ताभिजनेनैव कन्या वरणीया इत्यमुमर्धविशेषं प्रवर्तयिष्यन् जनककुलेऽवतार्य तत्परिणयनाय यतत इत्याह-तत इत्यादिना-गो.
  59. किङ्करोऽस्मि-ङ.
  60. एतद्व्याख्यारीत्या मूले 'प्रत्युवाच मुनिवरं वीरं वाक्यविशारदः' इति पाठेन भाव्यम् ।
  61. अस्य दर्शनादेव कृतकामौ भूत्वा प्रतिवास्यत इत्यन्वयः-गो. अस्य धनुषो दर्शनात् इष्टं-अभीप्सितं यथा-यथावत् प्रतियास्यतः-प्राप्स्यतः-शि.
  62. निमेःनिमिवंशोद्भवस्य-सुकेतोरित्यर्थः किञ्च निमिपुत्रस्य मिथेरेव देवरात इति नामान्तरं 'निमेः षष्ठः' इति पाठे तु निमिं परित्यज्य षष्ठ इत्यर्थः-शि.
  63. निमेर्ज्येष्ठो-ङ.ज.
  64. यद्वा-न्यासः-नितरां आ-समन्तात् अस्यन्तेरिपवो येन सः,शत्रुनाशक इत्यर्थः, 'युक्तश्चायमर्थः अन्यस्वामिके वस्तुनि स्वातन्त्रयानुपपत्तेः। अत एव तनुर्भजनादिविषयिणी प्रवृत्तिर्नृपतेः संगच्छते-शि.
  65. महासनः-ङ.
  66. दक्षयशवध इति निमित्तसप्तमी-ति.
  67. पातयामि नः-ङ.
  68. वराङ्गानि-शिरांसि.
  69. प्रसादयन्ति-ङ.
  70. न्यासभूतं-न्यस्तं-देवैरिति शेषः-गो.
  71. दत्तम-ङ
  72. पू जे-ङ. च. ज.
  73. मे कृषतः-मयि कर्षतीत्यर्थः-गो.
  74. वीर्य जिज्ञा ङ. च. ज.
  75. वीर्यशुल्केयं कन्येति कथिते 'कीदृशं तत् शुल्कभूतं वीर्यम्' इति ज्ञातुमिच्छव आसन्नित्यर्थः ।
  76. शैवं-ङ.ज. ऐशं-झ.
  77. धनुरुपाहृतं-आनीय स्थापितम्-शि. वीर्य जिज्ञासमानानामित्यन्वयः-गो.
  78. न्यरुन्धन्-ङ.
  79. वीर्यसन्देहं-धनुरारोपलक्षणवीर्यविषये अन्येषां सन्देहविषयत्वं गताः-शि. यद्वा शुल्कत्वेन कल्पिते धनुरारोपणरूपवीर्ये संदेहं-किमनेनास्मदवमाननार्थमेवेदं कल्पितं स्यादिति संशयमित्यर्थः । अत एवानन्तरश्लोकोऽपि संगच्छते ।
  80. प्रत्येकान्वयाभि-प्रायेणैकवचनम् ।
  81. मे-ङ.
  82. चतुरङ्गबलमिति सर्वत्र पाठः ।
  83. सन्दिग्धवीर्याः–अहिताग्न्यादित्वात् परनिपातः-ति.वीर्यसन्दिग्धा इति सोपहासोक्तिर्वा.
  84. सचिवान् -ङ, ज, समेतान्, संयतान् ङ.
  85. 'ह' इति हर्षद्योतकः- शि.
  86. अनन्तरश्लोकानुसारादेवं व्याख्यातम् ।
  87. गोविन्दराजः । परन्तु तत्र-'समूहुः-आचकर्षुः' इति व्याख्यातम् ।
  88. यत् धनुः दर्शनीयमिच्छसि तदिदं धनुः आनीतमिति शेषः-गो.
  89. यदिच्छसि-ङ.
  90. महात्मानं विश्वामित्रं तौ रामलक्ष्मणौ च अभाषत-शि. परन्तु उत्तरश्लोकेषु विश्वामित्रस्यैव सम्बोधनात् कतककृताऽन्यथा व्याख्यातम् ।
  91. जनकैः-तद्वंश्यैः । पूरितुमशक्तैः राजभिस्तु जनकैः-देवरातातिरिक्तैः पूजितं-ति । राजभिः सीतार्थिभिः पूजितं अहोमहासारमैश्वरं धनुरिति-गो.
  92. अशक्यं पूरितुं-ङ.
  93. शशक्ताः-ङ.
  94. प्रपूरण-आकर्णाकर्षणं, आरोपणं-सज्यीकरणं, समायोगः-शरेण योजनं, वेपनं-ज्यस्फालनं, तोलनमुक्तम्-ति. प्रपूरणे-नम्रीकरणे, आरोपणे मौर्व्याः संयोजने, समायोगे-शरेण योजने, वेपने-मौर्व्याकर्षणे-गो।
  95. प्रदर्शय-ग.
  96. वेपने-ङ.
  97. मध्ये-मध्यप्रदेशे–जग्राह-पादाङ्गुलेनोन्नतं कृत्वा करेण जग्राह । तदुक्तं पाद्मे-'रामोऽपि तद्धनुः कोटिं स्पृष्टा पादाङ्गुलात्ततः । उन्नतं चापमारोप्य बभञ्जे मोहिता जनाः' इति-ति.
  98. ननु उक्तरित्या महोन्नतस्य धनुषः कथं बालेनारोपणं संभवति ? अग्रस्पर्शाभावादिति चेत्-उच्यते-आश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावानतं धनुः-गो. वस्तुतस्तु-धनुष उन्नतत्वेऽपि ज्याया आकर्षणेन धनुषः नमनं संभवत्येवेति ॥
  99. 'वर्जयित्वा राजानं ' इत्युक्तत्वात् साध्वसमेवंरूपं व्याख्यातम् । प्रथमं रामदर्शनसमय एव जनकस्य 'अयं मम जामाता स्याद्वा' इत्याशाऽऽसीदिति 'समुपस्थितयौवनौ' (५०-१९) इत्यादितद्वाक्यरेवावगम्यते । अत एव धनुर्दिदृक्षापात्रे विश्वामित्रेण कथितेऽपि जनकः- 'यद्यस्य धनुषो रामः कुर्यादारोपणं' इत्याद्याहेति भावः ॥
  100. जनकानां 'अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते॥ इति प्रोक्तनिरतिशयकीर्तिमतामपि कुले। भर्तारं-भरणदक्षं 'वित्तमिच्छन्ति मातरः' इत्युक्तधनवन्तं-, राम-रूपमिच्छन्ति कन्यकाः।' इत्युक्तरूपवन्तं, 'दशरथात्मजं' 'बान्धवाः कुलमिच्छन्ति' इत्युक्तरीत्या बन्धुकांक्षितं च-गो.
  101. सीता वीर्यशुल्केति मम प्रतिज्ञा सत्या जाता ॥
  102. प्रश्रितैः-विनयसहितैः
  103. प्रीतियुक्तं तु-कु.च. ज. झ
  104. प्रीतियुक्तमिति क्रियाविशेषणम्-ति.
  105. ६९तमसर्गे 'गत्वा चतुरहं मार्गं' (श्लो. ७) इत्युक्तदिशा चतुर्दिवससाध्यगमनस्य मार्गस्य दिनत्रयेण गमनात्-क्रान्तवाहना इति ॥
  106. एतदनन्तरं-राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन् । शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च ॥ इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् । इत्यधिकम्-ङ.
  107. द्गत्वा ङ.
  108. प्रदुद्रुवुः-ङ.
  109. 'बद्धाञ्जलिपुटाः' इति विशेषणश्रवणजन्यसंशयपरिहाराव विगतसाध्वसा इति॥
  110. पुरस्कृतम्-ङ
  111. अत्र द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मरणार्थः-गो. कं-सुखं यस्मात्स-प्रजासुखदातेत्यर्थः । तादृशो जनकः-रा.
  112. मव्यग्रो-ङ.ज.
  113. मतो-ङ.
  114. विहिता-ङ.
  115. ममात्मजा-ङ.
  116. तर्तु-ङ.ज.
  117. प्रतिज्ञां मम-ङ.ज.
  118. पुत्री च पुत्रश्च-तयोः-मत्पुत्र्यां त्वत्पत्रे चेत्यर्थः। यद्वा स्नुषाऽपि पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोर्मिलाप्रदानं सिद्धं कृत्वैवमुच्यते-गो.
  119. 'एतदनन्तरं' इत्युक्त्वा विरता दूताः राजगौरवशङ्किताः' इत्यधिक-ड.
  120. वृत्तिः-ङ.
  121. इति शेषः-ग.
  122. नरेन्द्रस्य-ङ.
  123. एतदनन्तरं 'इत्युक्त्वा स महातेजाः राजा दशरथो रथम् । आरुरोह यथा भानुः भगवान् रघुनन्दनः । इत्यधिकं-ङ.
  124. अस्यार्धस्य 'स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव' इत्यर्धानन्तर्ये संगत्यतिशयः स्फुटः । स तु सुरेन्द्रः, अयं च भूसुरेन्द्र इति ।
  125. संबन्धात्-ङ.ज.
  126. नरेन्द्र वं-ङ. ज.
  127. मृषिसत्तमैः - ङ.
  128. इक्ष्वाकुप्रथमवंशत्वेन नरेन्द्राणाम पीन्द्रत्वम्- गो..
  129. तथा - ग.
  130. एतदनन्तरं-अथ रामो महातेजा लक्ष्मणेन सम ययौ । विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन् ॥ इत्यधिकं-ङ.
  131. वीर्यवान्-ङ. ज.
  132. वारिणि आ कीर्णाः-निखाताः फलकाः शूलानि येषु ते वार्याफलंकाः, तादृशाः पर्यन्तप्रदेशाः यस्यास्तां । 'बार्यामलक' इति पाठे वार्यामलकाः-आमलकविशेषाः ।
  133. वार्यामलक-ङ. ज.
  134. पुण्यशब्देन तत्फलं स्वर्गः-तत्सङ्काशां-ति । पुण्यतुल्यां---स्ववासिनां पुण्यवत् स्वत एवाभीष्टप्रदां-गो.
  135. एतदनन्तरं-एवमुक्ते तु वचने शतानन्दस्य सन्निधौ । आगताः केचिदव्यमाः जनकस्तान् समादिशत्-इत्यधिकं-ङ.
  136. 'एतदनन्तरं 'सांकाइयां ते समागत्य ददृशुश्च कुशध्वजम् । न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥ तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ॥ इत्यधिकं–ङ ।
  137. विश्वामित्रस्य कोपपरिहाराय–विश्वामित्राभ्यनुज्ञात इति गो। परन्त्वेवं सति सर्वैर्महर्षिर्भिरिति कथम् ? । अतः ब्रह्मविदां सदसि तदनुशां लब्धेत्यर्थः । तत्र च विश्वामित्रस्य प्रकरणात्प्राधान्यकथनमिति युक्तम् ॥
  138. एतदनन्तरं ' एवमुक्ता नरश्रेष्ठे राशां मध्ये महात्मनाम्' इत्यधिकं-ङ.
  139. काश्यपः - ङ.
  140. प्यादि-ग.
  141. मानोत्कर्ष-ग.
  142. अत्र गोविन्दराजीये अनन्तरमर्धं नास्ति । धुन्धुमारः-युवनाश्वापरनामधेय इति च व्याख्यातम् ॥
  143. अस्य कथा उत्तरकाण्डे सप्तषष्टितमे सर्गे द्रष्टव्या ।
  144. यस्य सर्वत्र-ङ.
  145. भार्याभ्यां सहितोऽवसत्-ङ.
  146. कालधर्ममुपेयिवान्-ङ.
  147. श्रुतम्-ङ.
  148. सा गरं-ङ.
  149. तामभि-तां प्रतीत्यर्थः ।
  150. एतदनन्तरं-एवमुक्ता महाभागा, असिते स्वर्गते सति । निधाय चेतो नृपतौ विद्युल्लेखेव सुप्रभा ॥ ३५ ॥ -इत्यधिकं-ङ.
  151. पतिशोकातुरा-पत्या विरहिता-ङ.
  152. तस्मात्-च्यवनप्रसादात्-गो. ति. शि.
  153. एतत्कथा उत्तरकाण्डे पञ्चषष्टितमसर्गे वर्तते। परं तु तत्र, भागवते च (९-९) सुदासस्य पुत्रः वीरसहः कल्माषपादः संपन्न इत्युक्तम् ।
  154. एकस्यानेकनामकत्वाद्वा विरोधपरिहारः-ति.
  155. सदृशे-ङ.
  156. अप्रभावः-प्रभावराहित्यम्
  157. मुनिश्रेष्ठ-ङ. च.
  158. अयं च निमिः इक्ष्वाकुपुत्र इति उत्तरकाण्डे ५५ सर्गे उक्तम् ॥ श्रीभागवते च (९-१३) द्रष्टव्यम् ।
  159. मिथिला येन निर्मिता-ङ. ज.
  160. उपावसोस्तु-ङ.
  161. नन्दिवर्धसुतः शूरः-ङ.
  162. वीर्यः-ङ
  163. वीर्यस्य-ङ.
  164. धृष्टकेतोस्तु-ङ.
  165. धृष्टकेतु-ङ.
  166. प्रतीन्धकः, प्रतीन्धनः-ङ.
  167. प्रतीन्धकस्य, प्रतीन्धनस्य-ङ.
  168. सुविधो सुविधस्य-ङ..
  169. भारं–भरणीयं-पोषणीयमित्यर्थः । मयि कुशध्वजं भारं समावेश्येत्यन्वयः ।
  170. भागवतं-९–१३–१०.
  171. मिथिलामवरोधकः मिथिला मगमत्-प्राप्तवान् ।
  172. वस्तुतस्त्विदं व्याख्यानं १६ तमश्लोकव्याख्यानावसरे युक्तम् ।
  173. यद्यपि रामेणैव धनुर्भङ्गः कृतः, तथापि तादृशशक्तेः लक्ष्मणेऽपि दर्शनात् तद्द्वीर्यभेवोर्मिलाया अपि शुल्कमित्यर्थः । हे मुनिपुङ्गव-ते वध्वौ परमप्रीतो ददामीत्यन्वयः ।
    एतदेव विवृणोति उत्तरार्धेन ।
  174. एतदनन्तरं ' ददामि परमप्रीतो वध्वो ते रघुनन्दन ' इत्यधिकं कचित्- ङ.
  175. एवं वसिष्ठं प्रत्युक्ता ततः दशरथं प्रत्याह-रामेत्यादि ।
  176. गोदानं नाम विवाहपूर्वसमनियत किञ्चित्कर्म । गावः – केशाः दोः पादमूल रोमाणि च यत्र खण्ड्यन्ते तत् गोदानं नाम समावर्तनाख्यं कर्मेत्याहुः- गो.
  177. तव मिथिलाप्रवेशात् तृतीयदिवसे, यशसमाप्तेः तृतीयदिवसे वाऽद्य मघा-नक्षत्रम् । फल्गुन्यां–पूर्वफल्गुनी नक्षत्रे, उत्तरे-श्रेष्ठे; अत एव-भगो यत्र प्रजापतिः इत्यनेनाविरोधः । भगो हि पूर्वफल्गुनीदेवः उत्तरफल्गुन्यास्त्वर्यमेति बोध्यम्, 'मघा नक्षत्रं पितरो देवताः; फल्गुनी नक्षत्रं, अर्यमा देवता; फल्गुनी लक्षत्रं, भगो देवता' इति तैत्तरीयसंहितायां 'अर्यम्णः पूर्वे फल्गुनी, भगस्योत्तरे' इति तद्ब्राह्मणे चोक्तत्वात् यथाश्रुतमेव सम्यक्-ति । अद्य-अस्मिन् दिवसे मघा नक्षत्रमस्ति, अतः तृतीयदिवसे उत्तरे फल्गुन्यां-उत्तरफल्गुन्यां-शि.
  178. वरये ते सुते, वरयाम सुते-ङ. ज.
  179. उभयोर्भ्रात्रोः (जनककुश ध्वजयोः) सम्बन्धेन इक्ष्वाकुकुलं सम्बध्यताम् । तत्र च सम्बन्धे पुण्यकर्मणो भवतः चित्तमव्ययं भवतु; कथमीदृशेन महाराजेन मया-युगपत्सम्बन्ध चतुष्टयं कार्यमिति व्यग्रता मारित्वत्यर्थः-ति. उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यत— भवतः कुलमित्यनुकर्षः, अव्यग्रं–निर्दोषं, अन्योन्यसम्बन्धेनान्योन्यमुत्कर्षं प्राप्नुयांदित्यर्थः-गो.
  180. यतः-ङ. ज.
  181. यत्र-ययोः भगः प्रजापतिरर्यमा च स्थितः ताभ्यां फल्गुनीभ्यां पूर्वफल्गुन्युत्तर फल्गुनीभ्यां विशिष्टयोर्दिवसयोः उत्तरे-उत्तरफल्गुनीविशिष्टे दिवसे-शि. उत्तरे-फल्गुनीभ्यां उपलक्षितयोरूत्तरस्मिन् दिवसे-उत्तर फल्गुन्यामित्यर्थः-गो.
  182. इमानि-मत्समर्पितानि आसनमुख्यानि-गुरूचितासनानि-गुरुत्वादासनयोर्बद्दुत्वं, आसनबाहुल्याद्वा-चि.
  183. आसातां, आस्यतां, आस्येतां-ङ. च. ज.
  184. आसातां–पुरुषव्यत्यय आर्षः-गो.
  185. 'आत्माऽपिचायं न मम सर्वा वा पृथिवीमम' (वि. पु.) इतीदृशशानी खलु जनकः ।
  186. यथेष्टं-ङ.
  187. कुशध्वज जनक दशरथाः-त्रयः ।
  188. क्षत्रियत्वेऽपि प्रतिग्रहीतृत्वात् दातरि जनके आशीः-ति. त्वं स्वस्ति प्राप्नुहिस्वसुतादानेन मङ्गलं प्रापय, अन्तर्भावितणिजर्धः-शि.
  189. तमापृष्ट्वा
  190. काव्यं-मङ्गलं गोदानमिति केचित्.-झ.
  191. एकैकश इत्यार्षम्-ति । एकैकशः पुत्रानुद्दिश्य–' उक्तार्थानां ' इति न्यायाप्रवृत्तिस्तु ‘ द्वौ ब्राह्मणौ' इत्यादाविव 'द्विर्बद्धं सुबद्धं भवति' इति स्वीकारात । अर्ष इत्युक्तिस्तु तदविचारमूला-शि ।
  192. सुवर्णशृङ्ग्यः-ड..
  193. सोम इव सोम्यः, सोम्य एव सौम्यः-ति. सौम्यः-सोमः प्रजापतिरिव-सोमशब्दः स्वार्थष्यञन्तः-शि. सौम्यः-सुप्रसन्नचित्तः-गो.
  194. कैकय-ङ.
  195. अब्रवीत्-अपृच्छदित्यर्थः
  196. मम स्वस्रीयं-भरतं द्रष्टुकामः महीपतिः केकयराजो वर्तते । अतः भरतनयनायाहमुपयात इत्यर्थः । अयोध्यायां तु तवात्मजान्स्व विवाहार्थं त्वया सह मिथिलामुपयातान् श्रुत्वा त्वरयाऽत्राभ्युपयात इत्यन्वयः ॥
  197. एतदनन्तरं-तस्य त्वं राजशार्दूल प्रीतिं कर्तुमिहार्हसि । तस्य तद्वचनं श्रुत्वा मधुरं मधुराक्षरम् । इत्यधिकं-ङ.
  198. भरत इत्यर्थः
  199. भूषितः-ङ.
  200. एतदनन्तरं 'पितुस्समीपमाश्रित्य तस्थौ भ्रातृभिरावृतः'
    इत्यधिकं ङ.
  201. विजयप्रदे न तु विजयाख्ये; तस्थापराह्निकत्वात् ।-गो.
  202. र्थे-क.
  203. श्रेष्ठैः-ङ.
  204. प्रतिहारः-द्वारपालः-गो.
  205. क्षते-ङ.ज.
  206. सद्योऽहं-ङ.
  207. अविघ्नंकुरुतां ब्रह्मन्-ङ.
  208. किमर्थं हि विलम्ब्यते-ङ.
  209. एतदनन्तरं-'विश्वामित्रो महातेजा विदेहाधिपतेः करम् । कुशध्वजस्य हस्तं च वसिष्ठो भगवानृषिः । गृहीत्वा प्राविशच्छिष्यैः सहितौ द्विजपुङ्गवो ॥ अथ राजा दशरथः पुत्रैः स्त्रीभिश्च संवृतः । सर्वानृषीन् पुरस्कृत्य प्रविवेश महाद्युतिः ॥ प्रवेश्यमानं राजानं वसिष्ठं गाधिनः सुतम् । सर्वान्नृपवरान् विप्रान् जनको धर्मवत्सलः ॥ वस्त्रैभरणैश्चैव गन्धपुष्पैश्च साक्षतैः । पूजयामास विधिवद्यथायोग्यं यथाक्रमम् ॥ इत्यधिकं क्वचित्-ङ.
  210. एतदनन्तरं-त्वया न विदितं किंचित् नास्ति ब्रह्मविदां वर !। तस्मास्वमेवजह्मर्षे ! अशेषं कर्तुमर्हसि ॥ इत्यधिकं-ङ.
  211. सभामध्ये-ङ.
  212. श्च छिद्र-श्च जल-ङ. चित्र-ज
  213. छिद्रकुंभैः-करकैः गो-ति- चित्रकुंभैः-नानावर्णयुक्तकुंभेः-ति.
  214. रपि सं-ङ.
  215. एतदनन्तरं–पद्मां पद्मवियुक्तां वै केशवाङ्कच्युतामिव विद्युत्प्रभां विशालाक्षीं स्निग्धकुञ्चितमूर्धजाम् । हंसाङ्कितेन क्षौमेण किञ्चित्पीतेन संवृताम् । वासितेनोत्तरीयेण सुरक्तेन सुसंवृताम्' इत्यधिकं-ङ.
  216. राघवाभिमुखी-ङ.
  217. ब्राह्मणस्यैव पाणिग्रहणं, क्षत्रियादेः शरादिग्रहणं विहितं । अतः कथमिदं इति न शङ्कनीयम् । तस्यासवर्णविषयत्वात् । आह च मनुः-पाणिग्रहणसंस्कारः सवर्णासु प्रशस्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु इति ।-गो.
  218. तव-ङ.
  219. एतदनन्तरं 'प्रक्षिप्ते सलिले भूमौ गगने चोत्थिताः स्वनाः इत्यधिकं-ङ.
  220. मन्त्रपूर्वं-ङ.
  221. निर्घोषैः-ङ.
  222. ऊर्मिलां च ममात्मजां-ङ.
  223. कालविपर्ययः-ङ.
  224. पर्ययः-विलम्बः ।
  225. सन्धिरार्षः ।
  226. न्मिथिलेश्वरः-ङ.
  227. श्रुतकीर्तेर्महा-ङ.
  228. एतदनन्तरं, काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु । इत्यधिकं -ङ.
  229. शब्देन स्वाभिप्रायप्रकाशनं विशब्दनम् ।
  230. एतदतनन्तरं 'प्रीयमाणो दशरथः पुत्रान् पुत्रवतां वर.' इत्यधिकं-ङ.
  231. अपृच्छयाथ च-ङ. ज. एतदनन्तरं 'आशीभिः पूरयित्वा च कुमारांश्च सराघवान् ।' इत्यधिकं-ङ.
  232. एतदनन्तरं 'गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः' ।
    इत्यधिकं ङ.
  233. क्षौमकोट्यम्बराणि-ङ. ज.
  234. कोट्यम्बराणि-उत्कृष्टवस्त्राणि वा-गो.
  235. एतदनन्तरं 'वाहिनीं महतीं कर्षन् कीर्तिमांश्च ययौ तदा ।' इत्यधिकं-ङ.
  236. दिव्यपक्षि-ड.
  237. तेषां संवदतामित्यत्र पुर इति शेषः-सि. दशरथादिषु संवदत्सु- गो. शि.
  238. महाद्रुमान्-ड.
  239. सर्वे नावेदिषुर्दिशः-ङ. ज.
  240. वसिष्ठः, अन्ये ऋषयश्च, राजा च सशङ्का इवासन्–अन्यत्सर्वं विचेतनमास-शि. ससंज्ञा इव-ईषत्संज्ञाः । अन्यत्तु बलं निस्संशमेव ।
  241. सशङ्का-ज.विसंज्ञा-ङ.
  242. हिमसंकाशं-ङ.
  243. राजा-ङ. ज.
  244. चासज्य-ङ. ज.
  245. शरमुग्रं-ङ.ज.
  246. एतदनन्तरं यथा कृष्णगतिं घोरं युगान्ते प्रोद्यतं तथा । इत्यधिकम् -ङ
  247. होमः मानसः-गो. जपहोमपरायणत्वमुपलक्षणम् । अतएवाग्रे संजजल्पुरिति सङ्गच्छते । अन्यथा तादृशहोमादिपरायणानां जलासंभवादित्याहुः-ति. परंतु 'संजजल्पुरथो मिथः' इत्यत्र अथशब्द स्वारस्यान्न विरोधः । प्रथमं शान्त्यर्थं जपादिकं किञ्चित्कृत्वा ततः संजजरुपुरित्यर्थः ॥
  248. एतदनन्तरं तस्मिंस्तु घोरे जमदग्निसूनुना त्वासादिते राममभि प्रकोपे ॥ दृढं नरेन्द्रस्य बलं महाबलं भयं प्रविष्टं च विषादितं च ॥ इत्यधिकं-ङ.
  249. एतदनन्तरं 'भीतो यदि धनुस्त्यक्ता निर्जितोऽस्मीति वा वद' इत्यधिकं-ङ. झ.
  250. श्लाघ्यस्य राघवः-ङ.ज.
  251. अदीन-त्रैकालिकदीनताभावविशिष्टः, विषण्णवदनः-उदासीनचित्तः-शि.
  252. क्षत्रिय-घ.
  253. ब्रह्माण्डपुराणे (3.47) परशुरामः स्वपितॄणां वचनात् शस्त्रं निक्षिप्तवानिति वर्तते । महाभारते तु (वन. 117) ऋचीकनियमनादिति वर्तते । अत्र तु इन्द्रनियमनादिति । अतः स्वपितॄणां देवानां च सन्निधौ-इति विरोधः परिहरणीयः । तत्र चेन्द्रस्य प्रधान्यादत्र तस्य निर्देश इति ।
  254. महेन्द्रः-महेन्द्रपर्वतः.
  255. नचैतस्मिन्-ङ.
  256. एतदनन्तरं 'रोषात्प्रस्फुरमाणोष्ठो रामं परमधन्विनम् ।' इत्यधिकं-ङ
  257. एतदनन्तरं 'करवीरसमे गन्धे विशाले विमले शुभे' इत्यदिक-ङ.
  258. विश्वकर्मणा सुकृते-सुष्टु निर्मिते.
  259. अनुसृष्टं-ङ. ज.
  260. अतिसृष्टं-दत्तम् । तदा-दुष्करत्रिपुरहननानन्तरकाले-गो.
  261. एतदनन्तरं-इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः इत्यधिक-ङ ज.
  262. धनुःश्रेष्ठं-ङ.
  263. कदाचिद्देवताः-ङ.
  264. धनुर्द्वयस्य तौल्ये एकधनुषो भङ्गे कृते किं द्वितीयभङ्गेन ? इत्याक्षेपः स्यादितितदपेक्षयाऽस्य वैशिष्ट्यमुच्यत इति भावः.
  265. बहुश उपदेशेऽपि नैषां चित्तं समाधत्ते; अतः क्रिययैव बलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोधं जनयामास । अहं धन्वी प्रधानः, विष्णुस्तु ममोपसर्जनम्' इति रुद्रेणोक्तमिति विष्णुं प्रत्युक्त्वा, शराग्रतयाऽवस्थानात् मयैव त्रिपुरहननं कृतम् इति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्या च विरोधजननमित्यवगभ्यते-गो.
  266. तयोःसत्वपरीक्षगा-ङ
  267. विरोधे-इत्येव सर्वकोशेषु दृश्यते.
  268. जयैषिणोः-ङ.ज.
  269. अजय-इति मातृकासु । परन्त्वौचित्यादेवं निवेशितम्
  270. हुंकारेणैव-विष्णोरिति शेषः । जृंभित-शैथिल्यं प्राप्तम् । अथ -धनुर्विजृम्भणानन्तरं त्रिलोचनो महादेवः स्तम्भितः-व्यापाररहितः आसीदिति शेषः । एतेन सत्त्वगुणस्य तदानीं प्राबल्यं सूचितम्-शि ॥ हुंकारेण न स्वाभिमन्त्रितबाणेन, महादेवः-महादेवशब्दो महावृक्षसमाख्यायित इति भावः । त्रिलोचन इत्यनेन तृतीर्थं लोचनमपि निरर्थकं कृतमिति भावः-गो.
  271. एतावत्यर्थे दृष्टे प्राप्तनिश्चयैःर्देवैर्युद्धादुपरतिं याचितौ-ति. अनेन उभयोरपि शान्तियाचनं समर्थितम् ॥
    अत्र शिवस्तंभनानन्तरं तत्प्रशान्तियाचनया तमोगुणोद्रेकसमये स्वीकृततमोगुणस्य विजयो भविष्यति, पुनः सत्त्वगुणोद्रेकसमये स्वीकृतसत्त्वगुणस्य विजयो भविष्यतीत्यनवस्थास्यादिति देवाभिप्रायः सूचितः-शि. किमनेन बालेन ? अनुकम्प्यताम्-इति याचितः
    तन्निग्रहान्निवृत्तः विष्णु: ; रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायेति सान्त्वितः तत्तुरूयस्वाभिमानात् (पराजयनिमित्तशोकाद्वा) निवर्तित इत्यर्थः-गो ।
  272. विष्णुं अधिकं-श्रेष्ठं सेव्यत्वेन मेनिरे । वस्तुतस्तु प्रकृतयुद्धे विष्णोराधिक्यदर्शनात् त्रिपुरवधे शिवस्याधिक्यदर्शनात् तयोः साम्यग्रहणमिति तात्पर्यम् । अधिकमित्यस्य स्वीयपूर्वज्ञानविषयस्वरूपापेक्षयाऽधिकमित्यर्थः-ति. विष्णुमधिकं मेनिरेस्वीकृततत्सत्त्वगुणस्य तत्काले आधिक्यं स्वीचक्रुरित्यर्थः । अत एव त्रिपुरविजयकाले शिवबलस्याधिक्यदर्शनेऽपि नैतेषां संशयोत्पत्तिः......हरिहरयोरैक्यात् तत्तन्यूनाधिक्ययोर्वक्तुमशक्यत्वात् । अत एव ‘एको ह वै रुद्रः ' 'एको ह वै नारायणः' इति श्रुत्योर्न विरोधः....... एतेन 'तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति वा केनचिदुक्तं प्रत्युक्तम् ' इति भूषणकारोक्तमेव प्रत्युक्तम् । त्रिपुरविजयकाले विष्णोरल्पबलवत्त्वे अस्या एव रीतेस्तैरपि वक्तव्यत्वात्-शि ॥
    तत्-विष्ण्वाधिष्ठानेन पूर्वं त्रिपुरघ्नं धनुः जृम्भितं-विष्ण्वधिष्ठानाभावेन जृम्भितं दृष्ट्वा-न त्वाप्तवाक्यात् श्रुत्वा; ......आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति। अतीन्द्रियार्थद्रष्टार ऋषयः, तेषां गणाः........ भूयसां स्याद्धलीयस्त्वम्' इति न्यायेन. तत्ज्ञानं न पक्षपातमूलं न वा भ्रान्तिमूलमिति भावः-एतेन तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति केन चिदुक्तं प्रत्युक्तम् । तमोऽभिभवस्यैवावरत्वनियामकत्वात् । इन्द्रजिता रामपराजयस्तु-'अदृश्यो न शब्दवेधेन वध्यते' इति धर्मप्रवर्तनाय । धर्मसंस्थापनार्थाय हि तदवतार इत्युक्तम् । (अत एव अनन्तरमिन्द्रजिद्धसंगच्छते)। अत्र तु स्वरूपत एव रुद्रस्य पराजयः। किञ्च रुद्रपराजयस्य तमःकृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव ॥ अयं च धनुर्भङ्गः दक्षयशान्त इति बोध्यम् । अन्यथा 'दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्' इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्ददावित्युक्तं विरुध्येत । अत्रेदमेव धनुत्रिपुरनं, 'त्रिपुरनम्' इत्युक्तत्वात् । एतद्विरुद्धं मेरूधनुष्टुं पुराणान्तरोक्तमनादरणीयम्-गो ।
  273. एतदनन्तरं पूजयित्वा ततो विष्णुमामंत्र्य च पिनाकिनम् । ब्रह्मेन्द्रादीन् पुरस्कृत्य नाकपृष्ठं ययुसदा ॥' इत्यधिकं-ऊ.
  274. ननु पूर्वं दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्दत्तवानित्युक्तम् । अत्र पुनः देवराताय रुद्रो दत्तवानित्युक्तम्। विश्वामित्राश्रमे मुनिभिः यज्ञे जनकाय देवा ददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रयताम्-पूर्वे देवाः त्रिपुरवधाय विश्वकर्मणा निर्मितं धनू रुद्राय ददुः । दक्षयशान्ते विरोधे विष्णुहुंकारेण जम्भितं तत् देवैः प्रार्थितो रुद्रो देवरातस्य हस्ते दत्तवान् । ततः प्रभृति न्यासमावेन मैथिलेषु वर्तमानं तत्स्वत्वेन देवाः वरुणेन जनकायादापयन्निति क्रमः। तेन दक्षयशान्ते धनुदानवचनं देवैर्जनकस्य यशफलत्वेन दानवचनं वरुणेन दत्तत्ववचनं च समंजसं, गो । इदं तु चिन्त्यम्----दक्षयज्ञवधानन्तरं दाक्षायण्याः हिमवत्पुत्रीत्वेन जननम् । ततः स्कन्दोत्पत्ति. । ततस्तेन तारकासुरवधः । त्रिपुरासुराश्च तारकासुरपुत्राः । एवञ्च दक्षयज्ञवधः त्रिपुरासुरवधात्पूर्वमेव स्यात् । दक्षयशवधान्त एव यदि धनुर्दत्तं स्यात् तर्हि त्रिपुरवधः अन्येन धनुषा कृतः स्यात् । तथा सति त्रिपुरघ्नं' इति विशेषणं बाधितम् । यदि च त्रिपुरवधानन्तरमेव दत्तं स्यात् तर्हि दक्षयज्ञकाले दत्तस्ववचनं बाध्येत । अत एवमत्र वक्तव्यम्-दक्षयशान्ते शिवः धनुः देवेभ्यो दत्तवान् । देवाश्च वरुणद्वारा देवराताय न्यासतया ददुः । (वैष्णवमपि धनुः रामः परशुरामात् गृहीत्वा वरुणायैव दत्तवान् इति (बाल. ७७-१) श्रयते ।) अनंतरं तेनैव देवरातात् गृहीतेन त्रिपुरवधः कृतः । तदन्ते च विष्णुशिवयोयुद्धं । ततः पुनर्देवराताय तद्दानमिति । एवं क्रमाङ्गीकारे न कोऽपि विरोधः आपाततः कुत्रचित् विरोधः प्रतीयमानोऽपि पदाक्षरपर्यालोचनायां सुपरिहर एव इति केचित् । परे तु त्रिपराणां तारकपुत्रत्वेऽपि शङ्करसंहितादिपर्यालोचनया प्रथममेव त्रिपुरवधः, अनन्तरं च दक्षयशध्वंस इति त्रिपुरघ्नं' इति विशेषणं युक्तमेवेऽत्याहुः ॥
  275. एतदनंतरं-तद्धनुर्देवरातोऽपि शिरसा गृह्य पूजयत् । भग्नं तन्मनुजश्रेष्ठ त्वया पैनाकमुत्तमम् । इत्यधिकं-ङ..
  276. संन्या-सर्वत्र.
  277. कर्मा-इति स्यात्.
  278. यद्यपि महाभारते (वन. ११७) ब्रह्माण्डपुराणे (३-४५) च कार्तवीयार्जुन पुत्रैः शूरसेनादिभिर्जमदग्निर्हत इति कथ्यते--अथापि ब्रह्माण्डपुराणे कथाक्रम एवं दृश्यते । कदाचित् कार्तवीर्यार्जुन: मृगयार्थ वनं गतः तत्र जमदग्निना कामधेनुसहायेन ससैन्यः सत्कृतः। प्रतिनिवर्तनकाले स्वमंत्रिणं चन्द्रगुप्तं तद्धन्वानयनाथ प्रेषयामास । यदा च जमदग्निर्धेनुं न ददौ, तदा सः जमदग्निं कशादिमि तप्रायं कृत्वा गतः । तदैव च परशुरामो बहिर्गतः प्रत्यागच्छत् । तं दृष्टा तन्माता रेणुका सोदरताडनं चुकोश । यावच्च रामः न्यरोधत् तावत्येव तया एकविंशतिवारमुदरमताडि । अतो रामेणापि एकविंशतिवारं निक्षत्रीकरणशपथः कृतः । अनन्तरं च भृगुमहर्षिः संजीविनीविद्यया जमदग्निं अजीवयत् । ततश्च परशुरामेण कार्तवीयों हतः । कालान्तरे च कार्तवीर्यपत्राः शूरसेनादयः मृगयार्थ वनं गताः परशुरामानुपस्थितिसमये जमदग्निशिर एव छित्वा गृहीत्वा गताः । तत् शात्वा परशुरामः क्षत्रियरुधिरेण स्वपितृतर्पणं कुर्यामहम ' इति प्रतिजज्ञे । तथैव कृतवांश्चेति । एवञ्चात्र प्रथमं यत् कार्तवीर्येण स्वामात्यद्वारा जमदग्निवधः कृतः सोऽत्र विवक्षितः । महाभारते तु सङ्ग्रहत्वात् द्वितीयवारजमदग्निवध एवं वर्णित इति न विरोधावकाश इति ॥ अप्रतिकर्मण इत्यस्यैव विवरणं-न्यस्तशास्त्र इति.
  279. इदं पदं-ग. पुस्तके नास्ति.
  280. एतदनंतरं अमर्षो मे महानासीन् सर्वलोकभयप्रदः। शास्त्रतोग्निर्हुतो विप्रैर्यथा हुतमुखे प्रभुः । अशक्नुवन् स तं क्रोधं धनुर्गुह्य परं शुभम् । इत्यधिकं- ङ.
  281. क्षत्रमुत्सादयम्-ड. च. ज. क्षत्रमुत्पाटयन्-ड.
  282. जातं जातं क्षत्रमुस्सादयन् अखिला पृथिवीं प्राप्य इत्यन्वयः.
  283. चाखिलां प्रादां-ङ.
  284. पुण्यकर्मणे महात्मने कश्यपाय-शि.
  285. पुण्यकर्मणां-ङ.
  286. एतदनन्तरं 'स्थितोऽस्मि तस्मिस्तप्यन्वै सुसुखं सुरसेविते। अद्य तूत्तमवीर्येण त्वया राम महाबल' इत्यधिक-ड..
  287. जामदग्न्यमथा-ङ.
  288. कथा-आत्मश्लाघनं, अधिकभाषणं वा। तेन रामस्य परशुरामवैलक्षण्यमुक्तं भवति ॥
  289. अनुरुन्ध्यामहे-ज.
  290. अनुसरामः-ग.
  291. 'अनो रुध कामे' इति धातुवोऽयम्
  292. क्षत्रधर्मेण स्थितं, अत एव अशक्तं-ब्राह्मणोद्देश्यकातिभाषणासामर्थ्यरहितं मां स्वं वीर्यहीनमिवावजानासि-शि.
  293. मां राम-ङ.
  294. चात् भार्गवनिष्ठां वैष्णवीशक्ति.....अग्रे वक्ष्यति 'निर्वीर्यो जामदग्न्योऽसौ' इति-ति.
  295. क्रोधः-घ.
  296. विश्वामित्रकृतेन–विश्वामित्रकृतेन स्नेहेन; विश्वामित्रभगिन्यां सत्यवत्यां ऋचीकाञ्जातो जमदग्निः, तस्य पुत्रः परशुरामः इति विश्वामित्रसम्बन्धेनेत्यर्थः-गो. विश्वामित्रात्–अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन–जातत्वेन च हेतुना-शि. विश्वामित्रकृते–इत्यस्मिन्नर्थे विभक्तिप्रतिरूपकमव्ययं वेदम्
  297. उत्तरत्र 'यदीमां मद्गतिं
    इत्यत्र संचारस्य स्पष्टं प्रतीत्या अत्रैवं व्याख्यानम् । अत एव गोविन्दराजीये 'पादगतिं' इति पाठ आदृतः । पाद्मेऽपि त्वत्पादकमले इन्मि' इति दृश्यते। शिरोमणिस्तु त्वद्गतिं – त्वत्कर्तृकं कामचारगमनं इति व्याचख्यौ । शिष्टं १४ तमश्लोकटिप्पण्यां द्रष्टव्यम्
  298. पादगतिं -ङ.
  299. 'लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया' इत्यनुपदं सत्वात् अयं पाठो युक्तः
  300. समार्जिताम्- ङ.
  301. परं तु उत्तरत्र २२ तमलोके 'लोकान्' इति पदमन्यथा व्याख्यातम्.
  302. एतदनन्तरं-इति ब्रुवति काकुत्स्थे भार्गवं प्रति रोषिते । शतक्रतुमुखा देवा पुरस्कृत्य शतक्रतुम् ॥ इत्यधिकं-ङ.
  303. लोके-जने जडीकृते-स्तब्धे निर्वीर्यः-निर्गतवैष्णवतेजाः-गो.
  304. तदा लोके-ङ
  305. नृसिह्मपुराणे.
  306. तेजोभिऽहत-ध.
  307. एतदनंतरं राम राम महाबाहो श्रुणु राम मयेरितम् । राजसूये कृते पूर्व यज्ञे
    दशरथात्मज ॥ इत्यधिकं-ङ.
  308. कश्यपस्थाने सर्वत्र काश्यपेत्यपि पाठः.
  309. ब्रह्माण्डपुराणे ३-४७ तमेऽध्याये 'तेषामनुमते कृत्वा कश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन् आजहार' इति दर्शनात् काश्यपस्य स्वगुरुत्वेनाभिधानम्
  310. ब्रह्माण्डपुराणादौ-"आहूय भृगुशार्दूलः सशौलवनकाननाम्। कश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत्" इति दृश्यते । एतेन परशुरामः सर्वक्षत्रियविनाशपरिहाराय कश्यपेन निष्कासितः । अथापि स्वदेशे गमनागमनादिकं न प्रतिषिद्धवान् । यदाकदाचित् कार्यार्थमन्त्रागतोऽपि परशुरामः बहुदूरादपि प्रभाववशात् रात्रेः पूर्वं महेन्द्रं प्रति प्रतिनिवर्तमान आस । एतादृशगत्तिसामर्थ्यमेव 'मनोजवं गमिष्यामि' इत्यनेन सूचितम् । एतदेव च गतिशब्दे- नास्मिन् प्रकरण उच्यत इति भाव्यम् ॥
  311. तदिमां, तामिमां त्वं गतिं -ङ. ज.
  312. महेन्द्रं मनोजवं यथा स्यात् तथा गमिष्यामि-शि.
  313. अत्र पुण्यार्जितलोक-हननाभ्यनुशयाऽस्य तत्त्ववित्त्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं च-ति. लोकहनननं नाम लोकदानप्रतिबन्धः- गो.
  314. 'उतामृतत्वस्ये-शानः' इति श्रुतिप्रसिद्धं ब्रह्म स्वमित्याह—अक्षय्यमिति-ति
  315. अक्षय्यं-ङ.
  316. पापस्य तपसा दग्धत्वात्, पुण्यस्य च शरमोक्षण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थः-ति.
  317. अप्रतिबन्धः-ग.
  318. दिशश्च विदिश-ङ.
  319. र्मुदान्विताः-ङ.ज.
  320. अन्तर्यामित्वेन ज्ञानात् प्रदक्षिणकरणं, क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम्-ति.। प्रकृष्टा-सर्वोत्तमा दक्षिणा-आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वा-शि.
  321. वरुणाय-देवैस्सह कौतुक दर्शनार्थमन्तरिक्षे स्थिताय-ति, अप्रमेयाय-अन्यैः अयं वरुण इति तस्मिन् काले प्रमातुमशक्याम-शि. अप्रमेयाय-अदृश्याय-गो.। अत्र ससायकं धनुरिति वाऽन्वयः.
  322. महायशा:-ङ.ज.
  323. विह्वलं-परवशं । अनेन परशुरामेण कृतां परत्वसूचिका स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यते-गो.धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रति-ति. अत्र विह्वलत्वं भयकृतमिति युक्तम् । पूर्वं परशुरामात् भयाविष्करणात्, 'गतो राम इति श्रुत्वा हृष्टः' इत्यनन्तरमेवोक्तेश्च.
  324. विकलं-ङ.ज.
  325. एतदनन्तरं-संदिशस्त्र महाराज सेनां त्वच्छासने स्थिताम् । शासनं काङ्क्षते सेना चातकालिर्जलं यथा ॥ ४ ॥ इत्यधिकं.ङ.
  326. यद्यप्यत्र पताका-ध्वजपटः, ध्वजः-दण्डः इति गोविन्दराजैरपि व्याख्यातम्, अथापि तैरेव अन्यत्र (अयो-६-२३) ध्वजाः-सचिह्नाः, पताकाः-चिह्नरहिता; इति व्याख्यातम् । तदेवात्रापि युक्तं ग्रहीतुमिति ॥ (ह्रस्वदीर्घध्वजभेद इत्यप्याहुः- गो.)
  327. रम्यामिति पुनरुक्तिः तत्तविशेषणरमणीयत्वाभिप्रायेण-गो. सिक्तैः राजपथे: रम्यां शि. सिक्तेन राजपथेन आ-समन्तात् रम्यां-ति.
  328. सिक्तराजपथैरभ्यां, सिक्तराज-पथारम्यां-ज.
  329. पाणिभिः-ङ.
  330. युक्ताः-आसक्ता अभूवन्नित्यर्थः ।
  331. लपनैर्होमैः-ज., लंभनैश्चैव-ङ.
  332. देवतायतनानि-गृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्-गन्धपुष्पादिभिरपूजयन् ।
    आयतनपूजामात्रे स्त्रीणामधिकारादिति भावः-गो.
  333. यथार्हे-ङ.
  334. ग्राम-ग.
  335. एतदनन्तरं 'स्वं स्वं गृहमथाऽऽसाद्य कुबेरभवनोपमम् । गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्-ङ.
  336. एतदनन्तरं-कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । अधिकम्-ङ.
  337. कृतास्त्राश्च-ङ.
  338. एतदनन्तरं-कालेकाले तु नीतिशास्तोषयन्तो गुरुं गुणैः । अधिकं-ङ.
  339. वर्तयन्ति-वर्तन्ते, णिजर्थोऽ-विवक्षितः-शि.
  340. एतदनन्तरं-अभिवादयितुं प्राप्तं श्यामं कमललोचनम् । अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । अधिकम्-ङ.
  341. एतदनन्तरं ‘प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा । ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि ॥ इत्यधिकम्-ङ.
  342. एतदनन्तरं-अभिवाद्य गुरुं रामं परिष्वज्य च
    लक्ष्मणम् । इत्यधिकम् ङ.
  343. १८ सर्गे रामलक्ष्मणयोरिव भरतशत्रुघ्नयोः सौभ्रात्रातिशयः प्रत्यपादि.
  344. एतदनन्तरं-युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ।
    स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह । इदमधिकम्-ङ.
  345. 'अक्लिष्टव्रतधर्मज्ञः' इत्यादाविव विनैव क्लेशं उत्साहेनानायासतः सर्वं कर्तुं समर्थ इति वाऽर्थः.
  346. राज्ञा-ङ.
  347. वृत्ताभ्यां-ङ.
  348. तस्यां गतः-इति वाऽर्थः.
  349. तद्गतमनाः-ङ.
  350. अत्र पितृपदेन दशरथो विवक्षितः । अथवा 'इयं सीता मम सुता' इत्यादिना सीतायाः जनकेन दानात् पिताऽत्र सीतापिता विवक्षितः । सीताविवाहस्य स्वयंवरत्वव्यावृत्तये इदं विशेषणम् । यद्यपि अयोध्याकाण्डान्ते-अनसूयया सीतां प्रति तत्स्वयंवरवृत्तान्त एव पृष्टः, अथापि सीता 'मम पित्रा त्वहं दत्ता' इत्येव प्रत्यवोचत् । एवञ्च सीताविवाहः वीर्यशुल्कप्रधानः गौणः स्वयंवर इति ॥
  351. इव-ड.
  352. एतदनन्ततरं-तथैव रामस्सीताया प्राणेभ्योऽपि प्रियोऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ अधिकम्-ड.
  353. अमरेश्वर:-विष्णुः श्रियेव, मूर्तिभेदेनोपमानत्वम्-गो.
  354. अजरमानः- ग.
  355. क पुस्तके अन्ते इदं पद्यमधिकं दृश्यते-
    दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि ।
    त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते सकलानभीष्टान् ॥