सदयो मनांसि मदयति गीतिः स्रीणां मदेन मत्तानाम् ॥ ८
आर्यादितीयरकैऽशे यद्रदितं लक्षणं तत्स्यात् । यदुभयोरपि दलयोरुपगीतिं तां मुनिरत्रूते ॥ ९
आर्याद्वितीयेऽर्धं यल्लक्षणमुक्तं तद्यदि द्रयोरप्यर्धयोर्भवति तामुपगीतिमिति पिंगलनागो मुनि्रूते । यथा ।
शारदचद्रो्योते पायंपायं मधु स्वैरम् ।
पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ ९
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्रीतिः किल गदिता तद्रयत्यंशभेदसंयुक्ता ॥ १०
यस्या आर्याया उत्तरार्धलक्षणं पूर्वार्ध भवति पूर्वार्धलक्षणमुत्तरार्थं सा उद्रीतिः । यथा ।
मण्डपनगरवधूनामुद्रीतिं वत्समल्लारम् ।
आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणोऽपि ॥ १०
आर्यापूर्वर्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्न्निखिलं यदीयमुदितैवमार्यागीतिः ॥ ११
यदयार्यायाः पूर्वर्धमुत्तरार्धं च निधनेऽवसाने एकेन गुरुणाधिकेन युक्तं भवति तदाऽऽर्यागीतिर्यथा । स्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः । अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥ स्कन्धकमित्यिके* । ११
॥ गीतिप्रकरणम् ॥
° पाठे नेत्रयो युगं । ४" पाठे पौरसखिभिरभीष्टा ।
- वराहमिहिर कृतवृहत्संहितायाम् १०३.५४ स्कन्धकमार्यागीतिः' ।