रत्नावदानम्-१
रत्नावदानम्-१ [[लेखकः :|]] |
कौशीद्यवीर्योत्साहनावदान
++ ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ++
यः श्रीमाञ्छ्रीघनो लोके सद्धर्मं समुपादिशत् ।
शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ १.१{१} ॥
अथाशोको महाराजः कृताञ्जलिः प्रमोदितः ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ १.२{२} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथा देष्टुं च मेऽर्हति ॥ १.३{३} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ १.४{३ } ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्यनुमोदय ॥ १.५{४} ॥
पुरासौ भगवान् बुद्धः शाक्यसिंहो दयानिधिः ।
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ १.६{५} ॥
(र्म् २)
सर्वविद्याकलाभिज्ञः षडभिज्ञो मुनीश्वरः ।
मारजिल्लोकविन्नाथो विनायकस्तथागतः ॥ १.७{६} ॥
श्रवस्त्यां जेतकारण्ये महोद्याने मनोरमे ।
अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः ॥ १.८{७} ॥
नानावृक्षैः समापन्ने नानापुष्पप्रशोभितैः ।
नानाफलभरानम्रैः कल्पपादपसन्निभैः ॥ १.९{८} ॥
अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पलादिभिः ।
पुष्पैश्च परिपूर्णाभिः पुष्करिणीभिराश्रिते ॥ १.१०{९} ॥
नानाजन्तुगणैश्चापि मिथस्नेहनिवन्धितैः ।
नानापक्षिगणैश्चापि संरावैरुपसेविते ॥ १.११{१०} ॥
तस्मिन् दिव्यमनोरम्य आरामे परिशोभिते ।
पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते ॥ १.१२{११} ॥
श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वगणैरपि ।
सर्वसत्वहितार्थेन तस्थौ धर्मं प्रकाशितुम् ॥ १.१३{१२} ॥
एवं तत्र समासीनं संबुद्धं धर्मदेशिनम् ।
दृष्ट्वा धर्मोत्तमं श्रोतुं सर्वे लोकाः समाययुः ॥ १.१४{१३} ॥
देवा दैत्याश्च सिद्धाश्च यक्षगंधर्वकिन्नराः ।
ग्रहा विद्याधराश्चापि नागाश्च गरुडा अपि ॥ १.१५{१४} ॥
सर्वेऽपि लोकपालाश्च मुनयश्च महर्षयः ।
ब्राह्मणाः क्षत्रियाश्चापि वैश्याश्च मंत्रिणो जनाः ॥ १.१६{१५} ॥
अमात्याः साधवः शूद्राः सार्थवाहा महाजनाः ।
धनिनो वणिजश्चापि गृहस्थाः पौरिका अपि ॥ १.१७{१६} ॥
तथा जानपदाश्चापि ग्राम्याः कार्पटिका अपि ।
एवमन्येऽपि सत्वाश्च सद्धर्मश्रवणार्थिनः ॥ १.१८{१७} ॥
पूजापंचोपहाराणि गृहीत्वा भक्तिसंयुताः ।
सद्धर्मं सौगतं श्रोतुमनुमोद्य समाययुः ॥ १.१९{१८} ॥
सर्वे तत्र प्रविष्टास्ते दृष्ट्वा तं सुगतं जिनम् ।
विस्मितानंदिताः पूजां कृत्वा नत्वा यथाक्रमम् ॥ १.२०{१९} ॥
सर्वे तत्र समासीनाः परिवृताः पुरस्कृताः ।
तं दृष्ट्वा सद्गुरुं धर्मं श्रोतुं तस्थुः समाहिताः ॥ १.२१{२०} ॥
अथासौ भगवान् दृष्ट्वा लोकान् सर्वान् समाहितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १.२२{२१} ॥
एवं नित्यमसौ नाथः सर्वसत्वहितार्थिकः ।
धर्मं प्रकाशयन् लोके तस्थौ भानुरिवोदितः ॥ १.२३{२२} ॥
(र्म् ३)
तस्मिंश्च समये तत्र श्रावस्त्यां सन्महाजनः ।
आढ्यः श्रेष्ठी महाभोगो विस्तीर्णसुपरिग्रहः ॥ १.२४{२३} ॥
श्राद्धो भद्राशयो धीमान् सर्वबन्धुसुहृत्प्रियः ।
तीर्थिकश्रावको मानी बभूव धनगर्वितः ॥ १.२५{२४} ॥
तदासौ सुन्दरीं भार्य्यां कुलधर्मसमानिकाम् ।
नीत्वा कामगुणासक्तो रेमे नित्यं तया सह ॥ १.२६{२५} ॥
तस्यैवं रमतस्तस्यां भार्यायां सुचिरादपि ।
पुत्रो न दुहिता वापि नोद्बभूव कथं चन ॥ १.२७{२६} ॥
तदपुत्रो गृहस्थोऽसौ पुत्राभिदर्शनोत्सुकः ।
कपोलं स्वकरे धृत्वा व्यचिन्तयद्रहो गतः ॥ १.२८{२७} ॥
अहो दैवान्न मे पुत्रः पुत्री वाद्यापि नास्ति यत् ।
तन्मे स्युः संपदो व्यर्थायासां भोक्ता न विद्यते ॥ १.२९{२९!} ॥
किं ममैतैर्धनै रत्नैः केवलं दुह्खसाधनैः ।
येषां भोक्ता न विद्येत व्यर्थं मया ह्युपार्जितम् ॥ १.३०{३०} ॥
ह्यपुत्रस्य जगच्छून्यं संसारे निःसुखं मम ।
यतो न वर्द्धते धर्मस्तज्जन्मापि च निस्फलम् ॥ १.३१{३१} ॥
किमुपायं करिष्यामि यतो भाग्यं न विद्यते ।
दैवो हि वलवांल्लोके किमुपायैर्गुणैर्वलैः ॥ १.३२{३२} ॥
कुत्रात्र शरणं यास्ये ह्यपुत्रोऽहं कुलान्तकः ।
तन्मे स्यात्कोऽत्र सन्मित्रं संकटे यः समुद्धरेत् ॥ १.३३{३३} ॥
नूनं मे पितरः सर्वे पिण्डविछेददर्शिनः ।
मत्परं दुर्लभं मत्वा भविष्यन्ति निराशिताः ॥ १.३४{३४} ॥
सर्वथाहं विनष्टोऽस्मि कुलधर्मविनाशकः ।
किं परत्र प्रभोक्ष्यामि को मे पिण्डं प्रदास्यति ॥ १.३५{३५} ॥
इति चिन्ताविषण्णं तं दृष्ट्वा सर्वे च बान्धवाः ।
(र्म् ४)
समुपेत्य समामंत्र्य दुह्खहेतुमपृछन् ॥ १.३६{३६} ॥
किं दुःस्थितोऽसि साधोऽत्र किं चापि दुःखचिन्तया ।
वक्तव्यं चेत्तदस्माकं सर्वथा वक्तुमर्हसि ॥ १.३७{३७} ॥
इति पृष्टे गृहस्थोऽसौ दीर्घनिश्वासमुत्सृजन् ।
सर्वांस्तान् बान्धवान् दृष्ट्वा दुःखहेतुमुदहरत् ॥ १.३८{३८} ॥
भवन्तः श्रूयतां सर्वैर्मम दुःखस्य कारणम् ।
यदद्यापि न मे पुत्रः पुत्री वापि न विद्यते ॥ १.३९{३९} ॥
संपदो मे गृहे सन्ति सर्वरत्नसमन्विताः ।
सर्वद्रव्यसमृद्धाश्च तासां भोक्ता न विद्यते ॥ १.४०{४०} ॥
तत्सर्वं नक्ष्यते व्यर्थं मया यात्नैरुपार्जितम् ।
अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्य्ति ॥ १.४१{[४१]} ॥
अपुत्रोऽहं ह्यपुण्यात्मा गन्तव्यं मरणं ध्रुवम् ।
प्रेतीभूतस्य मे कोऽन्यः पिण्डदानं प्रदास्यति ॥ १.४२{[४२]} ॥
मया न प्रकृतं पुण्यं संपदर्थप्रसंगिना ।
तन्मे सर्वं निरर्थं स्यात्को मां पापात्समुद्धरेत् ॥ १.४३{४३} ॥
इह भोग्यं प्रभुक्त्वापि किं मे सारमवस्थितम् ।
केवलं धनसक्तस्य परत्र सद्गतिः कथम् ॥ १.४४{४४} ॥
इति चिन्ता हृदि स्थित्वा चित्तं मे तुदतेऽनिशम् ।
एवं चित्तव्यथाक्रान्तः शल्यविद्ध इवास्म्यहम् ॥ १.४५{४५} ॥
तद्व्यथाहरणोपायं दातव्यं मम तद्धितम् ।
अन्यथा चेदिहामुत्र विनष्टः स्यां निराशितः ॥ १.४६{४६} ॥
इति तेनोदितं श्रुत्वा सर्वे ते बान्धवा जनाः ।
करुणाविष्टचित्तास्तं बोधयन्तः समब्रुवन् ॥ १.४७{४७} ॥
मा मा भैष्ठा महाभाग त्यज चिन्तां वचः शृणु ।
तदुपायं वयं ब्रूमस्तत्कुरुष्व समाहितः ॥ १.४८{४८} ॥
देवताराधनां कृत्वा कुरुष्व वंशयाचनाम् ।
नूनं वंशं प्रदास्यन्ति देवतास्ते प्रसादिताः ॥ १.४९{४९} ॥
(र्म् ५)
एष लोके प्रवादोऽस्ति यदायाचनहेतुतः ।
पुत्रा दुहितरो वापि जाता देवप्रसादतः ॥ १.५०{५०} ॥
तथा नैव प्रमाणं स्याच्छास्त्रे कर्मप्रमाणतः ।
तत्तु देवप्रसादेन कर्मश्शीघ्रं प्रसिद्ध्यते ॥ १.५१{५१} ॥
तदेव देववैरुद्धे कर्म विघ्नैर्निहन्यते ।
तस्माद्दैवप्रसिद्ध्यर्थं श्रद्धाभक्तिसमाहितः ॥ १.५२{५२} ॥
देवताराधनां कृत्वा सर्वकार्य्यं प्रसाधयेत् ।
इति मत्वा भवांश्चापि सत्पुत्रप्रतिपत्तये ॥ १.५३{५३} ॥
भार्य्यया सह भक्त्या च देवतायाचनां कुरु ।
ततो रक्तैः प्रियां भार्यामृतुस्नातां प्रकामतः ॥ १.५४{५४} ॥
गाढमालिंग्य संरक्तो धर्मवीजं प्ररोपय ।
ततो देवप्रभावेन सुनिष्पन्नः प्रसिद्धितः ॥ १.५५{५५} ॥
त्वत्पुत्रः संप्रजायेत सत्यमेवं प्रमाणय ।
इति तेषां वचः श्रुत्वा गृहस्थोऽसौ विनोदितः ॥ १.५६{५६} ॥
तथेति च प्रतिश्रुत्य भार्य्यया सह मोदितः ।
शिवब्रह्मादिदेवेशानिंद्रादिदिगधीश्वरान् ॥ १.५७{५७} ॥
जलाश्रयवनारामचत्वरमण्डपालयान् ।
सूर्य्यादींश्च ग्रहान् सर्वा भैरवाद्याश्च मातृकाः ॥ १.५८{५८} ॥
स्वकुलाधिपतीं देवानन्यांश्च त्रिभवस्थितान् ।
सर्वानेवं समाराध्य पूजयित्वा विधानतः ॥ १.५९{५९} ॥
संतानं प्रार्थयित्वासौ पत्न्या सह तथारमत् ।
तदा कश्चिन्महासत्वः स्वर्गाच्च्युत्वा भुवं गतः ॥ १.६०{६०} ॥
तस्य गृहपतेः पत्न्या गर्भे स समुपाविशत् ।
ततः सा श्रेष्ठिनो भार्य्यापन्नसत्वाशु गुर्विणी ॥ १.६१{६१} ॥
गर्भे सत्वं समुत्पन्नं मत्वा भर्त्तारमब्रवीत् ।
स्वामिन् प्रसीद मा भूस्त्वं विषण्नोऽत्र सुखी भव ॥ १.६२{६२} ॥
तव भाग्याद्धि मे गर्भे नूनं सत्वः प्रवर्त्तते ।
(र्म् ६)
यद्गर्भे दक्षिणे भागे स्थितः संपरिवर्त्तते ॥ १.६३{६३} ॥
तन्नूनं दारकोऽयं स्यात्सत्यमेव न संशयः ।
इति भार्यावचः श्रुत्वा गृहस्थोऽसौ प्रमोदितः ॥ १.६४{६४} ॥
भार्याया गर्भमालोक्य सत्यमित्यन्वमन्यत ॥ १.६५{५६!} ॥
ततोऽसौ सहसा वन्धुसुहृन्मित्रसहायकान् ।
प्राहूय पुरतस्तेषां मुदैवं समुदानयत् ॥ १.६६{६६} ॥
अहो भाग्यान्ममोत्पन्नं यदभिवांछितं मया ।
धन्योऽस्मि नावगीतः स्याद्देवतानुप्रसादतः ॥ १.६७{६७} ॥
चिराभिलषितं पुत्रमुखं पश्येय सांप्रतम् ।
कृत्या मे प्रतिकुर्वीत भृतश्च प्रतिविभृयात् ॥ १.६८{६८} ॥
दायाद्यं प्रतिपद्येत वंशो मे स्थितिको भवेत् ।
सुहृदो मे प्रसन्नाः स्युर्द्विषन्तश्च विषादिताः ॥ १.६९{६९} ॥
मया यावन्ति दानानि पुण्यानि प्रकृतानि च ।
एतत्पुण्यफलैर्नित्यं मंगलं भवतु द्वयोः ॥ १.७०{७०} ॥
एतत्पुण्यानुभावेन भूयान्माता निरातुरा ।
सुखं सुनोतु सत्पुत्रं मा पापं समुदागमत् ॥ १.७१{७१} ॥
इति तेनोदितं श्रुत्वा सर्वे बन्धुसुहृत्सखाः ।
तथास्त्वित्यनुमोदन्तः स्वस्वालयं समाययुः ॥ १.७२{७२} ॥
ततोऽसौ गर्भिणी कान्ता क्रमाद्गर्भप्रवर्द्धिता ।
वैद्योपदिष्टमाहारं भुक्त्वाचरद्यथा सुखम् ॥ १.७३{७३} ॥
ततश्च समयेऽसूत पुत्रं कान्तं मनोहरम् ।
सर्वलक्षणसंपन्नं भद्रांशं मंगलान्वितम् ॥ १.७४{७४} ॥
तच्छ्रुत्वैव गृहस्थोऽसौ सुप्रसन्नः प्रमोदितः ।
दृष्ट्वा तं दारकं सौम्यं नैव तृप्तिं समाययौ ॥ १.७५{७५} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा ।
पुत्रनामाभिसंस्कर्तुं भूय एतान् समब्रवीत् ॥ १.७६{७६} ॥
भवन्तो दृश्यतां सिद्धं ममभिलषितं चिरात् ।
(र्म् ७)
तन्नामास्य यथायोग्यं प्रसिद्धं क्रियतां शुभम् ॥ १.७७{७६!} ॥
इति तस्य वचः श्रुत्वा सर्वे ते ज्ञातयो मुदा ।
दारकं तं समालोक्य नंदिताः समभाषत ॥ १.७८{७८} ॥
यस्मिन् दिने ह्ययं जातस्तदा सर्वेऽपि पौरिकाः ।
नन्दितास्तद्भवत्वयं नाम्ना नन्द इति श्रुतः ॥ १.७९{७९} ॥
अथासौ दारको नन्दः सम्यग्देहोपचारणे ।
पित्राष्टासु च धात्रीषु परितोष्य समर्पितः ॥ १.८०{८०} ॥
ततोऽसौ क्रमशस्तासां धात्रिणामुपचारतः ।
दिने दिने प्रवृद्धोऽभूद्ध्रदस्थं पंकजं यथा ॥ १.८१{८१} ॥
एवं प्रवर्द्धमानोऽसौ षड्वर्षिको यदाभवत् ।
तदा कुशीदसंवृत्तो बभूव विरतोत्सवः ॥ १.८२{८२} ॥
सदा शय्यासनस्थस्तत्समुत्थातुं न चैछत ।
शय्यासनस्थितश्चैव भुक्त्वा नैवाचरत्क्वचित् ॥ १.८३{८३} ॥
सदा स्वान्तर्गृहस्थोऽपि सुतीक्ष्णबुद्धिमान् सुधीः ।
अधीत्य सर्वशास्त्राणि सत्यधर्मरतोऽभवत् ॥ १.८४{८४} ॥
अथ श्रेष्ठी पिता दृष्ट्वा पुत्रमेवं कुशीदितम् ।
सर्वविद्यागुणाधारं दृष्ट्वा चैवं व्यचिन्तयत् ॥ १.८५{८५} ॥
कथं चिद्यो मया प्राप्तो देवतासंप्रसादतः ।
सोऽपि पुत्रो ममाभाग्याद्भवत्येवं कुशीदितः ॥ १.८६{८६} ॥
सर्वविद्यागुणाधारं सर्वशास्त्रविचक्षणः ।
किं ममानेन पुत्रेण दुस्थितेनेव रोगिना ।
यतः स्वस्थशरीरोऽपि भुक्त्वैवं पशुवत्स्थितः ॥ १.८७{८७} ॥
किमत्राहं करिष्यामि यत्पुत्रोऽयं नि रुद्यमः ।
किमीद्रिग्जन्तुना कार्य्यं कुलधर्मोपहारिणा ॥ १.८८{६८!} ॥
धिग्मे दैवं प्रयत्नं च सर्वं तत्स्यान्निरर्थकम् ।
किमुपायं करिष्यामि सर्वथाहं विभग्नितः ॥ १.८९{७८} ॥
एवं चिन्तापरीतोऽसौ गृहस्थश्च व्यचिन्तयत् ।
पूरणो मेऽस्ति शास्ता यः पृछेयं तदुपायकम् ॥ १.९०{७९} ॥
इति मत्वा गृहस्थोऽसौ तदाश्रमं समागतः ।
पूरणं तं गुरुं नत्वा पप्रच्छ तदुपायताम् ॥ १.९१{८०} ॥
(र्म् ८)
भगवन् भो महाभिज्ञ शास्तासि मे प्रसीद तत् ।
यन्मया पृछ्यते कार्य्यं तत्समादेष्टुमर्हसि ॥ १.९२{८१} ॥
इति तेनार्थितं श्रुत्वा तीर्थिको मानगर्वितः ।
आशु सिद्धं करिष्यामो यत्कार्य्यं तेऽत्र तद्वद ॥ १.९३{८२} ॥
इति प्रोक्त्वैवमाश्वास्य पूरणोऽत्यभिमानिकः ।
प्रवदंस्तं गृहस्थं वै सर्वथैवमबोधयत् ॥ १.९४{८३} ॥
इति तेन समादिष्टं श्रुत्वा गृहपतिर्मुदा ।
कृताञ्जलिपुटो नत्वा तं गुरुं समभाषत ॥ १.९५{८४} ॥
भगवन् भो विजानीया यो मे पुत्रः प्रजायते ।
स प्रवृद्धो निरुत्साही कुशीदो वर्त्ततेऽधुना ॥ १.९६{८५} ॥
सदा शय्यास्थितो भुङ्क्ते भुक्त्वा शेते निरुद्यमः ।
नोत्सहति क्वचिद्गंतुं पशुवत्तिष्ठते गृहे ॥ १.९७{८६} ॥
न शयनात्समुत्थाय श्रोतुं द्रष्टुं समिच्छति ।
गृहे शय्यासनारूढो रोगीव वसते सदा ॥ १.९८{८७} ॥
तदुपायं कथं कुर्य्यां येनायं शयनोत्थितः ।
श्रोतुं द्रष्टुं च गंतुं च कर्त्तुं कार्य्यं यथोत्सहेत् ॥ १.९९{८८} ॥
तथा मे भगवन् पुत्रं कुलधर्मे नियोजय ।
भवानेव हि मे शास्ता तद्धितं कर्तुमर्हसि ॥ १.१००{८९} ॥
इत्येवं प्रार्थितं तेन श्रुत्वासौ पूरणो यतिः ।
तस्य गृहपतेश्चित्तं प्रहर्षयन् समब्रवीत् ॥ १.१०१{९०} ॥
अरे मा गा विषादं त्वं चिन्तया किं प्रतप्यसे ।
अस्मासु विद्यमानेषु षट्सु विज्ञेषु शास्तृषु ॥ १.१०२{९१} ॥
तदहं ते महाभाग सार्द्धं सर्वैश्च तीर्थिकैः ।
ऋद्ध्या गत्वा करिष्यामि दारकं विस्तयोत्थितम् ॥ १.१०३{९२} ॥
यदासौ दारको ह्यस्मान् सर्वान् दृष्ट्वा समुत्थितः ।
कृत्वा प्रणाममस्माकं धर्म्मं श्रोतुं समुत्सहेत् ॥ १.१०४{९३} ॥
श्रुत्वा धर्मसमुत्साहात्कुशलानि समाचरेत् ।
तत्कुशलैः समापन्नो वीर्यवान् स भवेत्सुधीः ॥ १.१०५{९४} ॥
(र्म् ९)
ततस्ते सर्वकार्याणि साधयेत्स समुद्यतः ।
स्वकुलधर्मकर्माणि कुशली संचरिष्यते ॥ १.१०६{९५} ॥
एवं मे वचनं सत्यं दृष्ट्वा सम्यक्प्रमाणय ।
तद्विषादं परित्यज्य कर्त्तव्यं हि तथा कुरु ॥ १.१०७{९६} ॥
इति तेन समादिष्टं श्रुत्वा स गृहभृन्मुदा ।
सहसा स्वगृहं गत्वा तद्भोज्यं समसाधयत् ॥ १.१०८{९७} ॥
अथासौ पूरणोऽन्यैश्च तीर्थिकैः सार्द्धमागतः ।
गृहे गत्वा पुरस्तस्य पर्य्यङ्के समुपाश्रयत् ॥ १.१०९{९८} ॥
तथासौ तान् समागत्वा क्रमश आसने स्थितान् ।
दृष्ट्वा संहर्षितः श्रेष्ठी सहसा पुत्रमब्रवीत् ॥ १.११०{९९} ॥
पुत्र पश्य गृहेऽस्माकं शास्तारः समुपस्थिताः ।
तत्समुत्थाय नत्वैताञ्छास्तॄन् भोज्यैः प्रवारय ॥ १.१११{१००} ॥
इत्युक्त्वा जनकेनासौ दारको न समुत्थितः ।
द्रष्टुमपि न चोत्सेहे किं नमेच्च प्रवारयेत् ॥ १.११२{१} ॥
बहुशः प्रेर्य्यमाणोऽपि पित्रा स बन्धुभिः सह ।
दारकस्तान् समासीनान् द्रष्टुमपि न चैछत ॥ १.११३{२} ॥
किं पुनरुत्थितो नत्वा भोजणैः संप्रवारयेत् ।
तथा शय्यासनारूढ एवं तस्थौ निरुत्सवः ॥ १.११४{३} ॥
ततस्ते तीर्थिकाः सर्वे दृष्ट्वैवं निरुत्सवम् ।
नानाविधिप्रयत्नैस्तमुत्थापयितुमारभन् ॥ १.११५{४} ॥
तथापि नैव शय्याया उदतिष्ठत्स दारकः ।
स्वधर्मदेशकांश्चापि तान् द्रष्टुमपि नैहत ॥ १.११६{५} ॥
एवं चानुत्थितं दृष्ट्वा तं ते सर्वे च तीर्थिकाः ।
हठाच्चैनं समुत्थाप्य वशीकर्त्तुं पराक्रमन् ॥ १.११७{६} ॥
तथैतांस्तीर्थिकान् सर्वानेव गर्वाभिवादितान् ।
(र्म् १०)
दृष्ट्वाभिसंमुखायातान् भीतोऽरौत्सीत्स दारकः ॥ १.११८{७} ॥
तथा तं रुदितं दृष्ट्वा सर्वे ते लज्जया भिया ।
प्रतिजग्मुर्विभिन्नास्याः स्वस्वालयानि भेदिताः ॥ १.११९{८} ॥
तथा गृहपतिर्दृष्ट्वा सर्वानेतान् परायितान् ।
प्रतिभिन्नविषण्नात्मा तस्थौ चिन्ताविमोहितः ॥ १.१२०{९} ॥
अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः ।
पश्यन् सत्वान् समुद्धर्तुं ददर्श तं कुशीदितम् ॥ १.१२१{१०} ॥
दृष्ट्वा तस्य कुशीदस्य कर्मवृत्तिपरंपराम् ।
तत्कुशीदं समुद्धर्तुमर्यानंदं समब्रवीत् ॥ १.१२२{११} ॥
पश्यानंद गृहस्थस्य श्रावस्तीपुरवासिनः ।
पुत्रो नंद इति ख्यातः साम्प्रतं संकुशीदिकः ॥ १.१२३{१२} ॥
असौ मे दर्शनादेव नूनं वीर्य्यं समारभन् ।
सहसोत्थाय स नत्वा धर्मं प्रशृणुयान्मुदा ॥ १.१२४{१३} ॥
ततो मे शासने धर्मं प्रचरेत्स सुधीः सदा ।
क्रमाद्बोधिचरीं पूर्य्य संबोधिं चापि लप्स्यति ॥ १.१२५{१४} ॥
तस्मात्तस्य गृहे गत्वा तीर्थिकदर्प्पछित्तये ।
सद्धर्मे संप्रतिष्ठाप्य सर्वान् बोधौ नियोजये ॥ १.१२६{१५} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानन्दः स हर्षितः ।
कर्त्तव्यं भगवन्नेवमित्यनुमोदितोऽभवत् ॥ १.१२७{१६} ॥
ततो भगवता तेन सुवर्णाभा मरीचयः ।
उत्सृष्टास्तैश्च तद्गेहमवभास्य व्यशोधयत् ॥ १.१२८{१७} ॥
यदा तैर्दारकः स्पृष्टो बुद्धमैत्रीमरीचिभिः ।
तदा प्रह्लादितश्चासावित्येवं समचिन्तयत् ॥ १.१२९{१८} ॥
अहो कस्य प्रभावोऽयं येनैवमवभासितम् ।
प्रह्लादितश्च मे कायस्तन्न जाने कुतः कथम् ॥ १.१३०{१९} ॥
इति चिन्तां समालम्ब्य कौतुकाक्रान्तमानसः ।
समन्ततो निरीक्ष्यैवं तस्थौ गेहे सुविस्मितः ॥ १.१३१{२०} ॥
(र्म् ११)
तथा तं विस्मितं दृष्ट्वा भगवान् भिक्षुभिः सह ।
सहसा तद्गृहं गत्वा प्रादुरासीत्प्रभासयन् ॥ १.१३२{२१} ॥
तत्र स दारकोऽपश्यद्भगवन्तं तमास्थितम् ।
कान्तं दिव्यातिरिक्ताभं समन्तभद्ररूपिणम् ॥ १.१३३{२२} ॥
दृष्ट्वैव सहसोत्थाय नत्वा पादौ प्रमोदितः ।
स्वयमेवासनं तस्मै प्रज्ञप्यैवमभाषत ॥ १.१३४{२३} ॥
स्वागतं भगवन्नाथ विजयस्व मुनीश्वर ।
प्रसीदानुग्रहार्थेन निषीदात्र शुभासने ॥ १.१३५{२४} ॥
इति तेनोदिते तत्र भगवान् भिक्षुभिः सह ।
तत्प्रज्ञप्तासने स्थित्वा धर्मं देष्टुं समारभत् ॥ १.१३६{२५} ॥
तद्दृष्ट्वा दारकस्यैवं धर्मोत्साहं समुत्थितम् ।
पितरौ ज्ञातिवर्गाश्च सर्वेऽप्यासन् सुविस्मिताः ॥ १.१३७{२६} ॥
तत्रासौ दारको हर्षादुत्फुल्लनयनो मुदा ।
नत्वा पादौ मुनेश्चाग्रे धर्मं श्रोतुमुपाश्रयत् ॥ १.१३८{२७} ॥
अथासौ भगवांस्तस्य ज्ञात्वाशयविशुद्धताम् ।
आदिमध्यान्तकल्याणं धर्मं देष्टुं तमब्रवीत् ॥ १.१३९{२७} ॥
शृणु वत्स महाभाग पापपुण्यार्थसाधने ।
हेतुं वक्ष्ये शुभार्थे ते तदत्र त्वं समाचर ॥ १.१४०{२९} ॥
मानुष्यं दुर्लभं प्राप्य विद्युत्तरंगचंचलम् ।
पापक्षये मतिः कार्या पुण्यार्थसाधनेषु च ॥ १.१४१{३०} ॥
पापेन दुर्गतिं यायात्पुण्येन सद्गतिं व्रजेत् ।
पापमित्रानुरागेण मतिः पापे प्रवर्त्तते ॥ १.१४२{३१} ॥
ततः पापरतः कुर्यात्पापानि दारुणान्यपि ।
ततो दुष्टः सुपापिष्ठः सद्धर्माणि विनिन्दयेत् ॥ १.१४३{३२} ॥
ततो धर्मविरुद्धत्वात्कुशक्तिः कुत्सितो भवेत् ।
ततः स कुत्सितात्मा हि सर्वसत्वैर्विनिन्द्यते ॥ १.१४४{३३} ॥
परिभूतो विषादेन भवेत्मूढो निरुत्सहः ।
उत्साहवर्जिते चित्ते आलस्यं समुपाश्रयेत् ॥ १.१४५{३४} ॥
आलस्वी साधयेन्नैव किंचिद्धर्मं गुणानि वा ।
(र्म् १२)
धर्मकर्मविरक्तात्मा निर्गुणी किं करिष्यति ।
भोग्य एव सदासक्तः पशोरप्यधमो नरः ।
किं तेन पुरुषेणापि निर्गुणेन सुखाशिना ।
यस्य पुण्ये गुणे वापि कदापि नोत्सहेन्मनः ।
पुण्योत्साहविपन्नात्मा दुष्टक्लेशैर्विहन्यते ।
क्लेशितो मारसंघैश्च वशीकृत्य निवद्ध्यते ॥ १.१४६{३६} ॥
मारस्य वशगः स्त्रीणां दासत्वं समुपाश्रयेत् ।
स दासनिरतो भुक्त्वा पशुवत्तिष्ठते गृहे ॥ १.१४७{३६} ॥
नैव धर्मं क्वचिच्छ्रोतुं द्रष्टुं वापि न चोत्सहेत् ।
धर्मं विना व्रजेन्नैव सद्गतिं हि कदा चन ॥ १.१४८{३७} ॥
तस्माद्धर्मे समाचर्तुं पुण्योत्साहं प्रवर्द्धयन् ।
त्रिमण्डलविशुद्धेन दानं दद्याच्छुभाप्तये ॥ १.१४९{३९} ॥
दानेन सिद्ध्यते धर्मं धर्माच्चित्तं विशुद्ध्यते ।
शुद्धचित्तश्चरेच्छीले शीलवान् हि भवेत्सुधीः ॥ १.१५०{४०} ॥
सुधीरो भावयेत्क्षांतिं क्षान्तिमान् दुष्टजित्कृती ।
कुशली प्रारभेद्वीर्य्यं वीर्य्यवान् पुरुषोत्तमः ॥ १.१५१{४१} ॥
महासत्वो लभेद्ध्यानं ध्याता ब्रह्मविहारिकः ।
संस्मृतः साधयेत्प्रज्ञां प्रज्ञावान् हि गुणालयः ॥ १.१५२{४२} ॥
गुणज्ञः समुपायैश्च सत्वान् धर्मे नियोजयेत् ।
एतत्पुण्यानुभावेन बोधौ प्रणिधिमाचरेत् ॥ १.१५३{४३} ॥
बोधिप्रणिधिचित्तेन बलानि साधयेद्दश ।
तद्बलैश्च महाघोरां मारसंघान् पराजयेत् ॥ १.१५४{४४} ॥
जित्वा मारगणान् सर्वान् संबोधिज्ञानमाप्नुयात् ।
ततः सर्वत्र लोकेषु धर्मचक्रं प्रवर्त्तयेत् ॥ १.१५५{४५} ॥
एवं प्रवर्त्तयन् धर्मं शास्ता लोकाधिपो भवेत् ।
सर्वलोकहितं कुर्वन्महत्पुण्यैः समृद्धितः ॥ १.१५६{४६} ॥
सदैवं सद्गतौ स्थित्वा संबुद्धपदमाप्नुयात् ।
एवं मत्वा त्वया वत्स चरितव्यं तथा शुभे ॥ १.१५७{४७} ॥
इत्यादिष्टं जिनेन्द्रेण श्रुत्वा स दारको मुदा ।
(र्म् १३)
कृतांजलिः पुनर्नत्वा भगवन्तमभाषत ॥ १.१५८{४८} ॥
अद्यारभ्य सदा शास्तर्भवतः शरणं व्रजे ।
तद्यथा भवताज्ञप्तं तथा सत्यं चराम्यहम् ॥ १.१५९{४९} ॥
कृपादृष्टिमुपस्थाप्य समन्वाहर मां सदा ।
भवानेव हि सर्वज्ञस्त्रैधातुकविनायकः ॥ १.१६०{५०} ॥
यदैवं ते दया नास्ति मय्युद्यमविवर्जिते ।
क एवं समुपागत्य प्रोद्धरेन्मां कुशीदिकम् ॥ १.१६१{५१} ॥
पवित्रीभूतमात्मानं मन्येऽहं ते प्रसादतः ।
धन्योऽस्मि तन्महाभद्रो यच्छास्त्रैवं प्रदर्शितः ॥ १.१६२{५२} ॥
इति तेनोदिते भूयः सर्वज्ञः स मुनीश्वरः ।
सुचंदनमयीं यष्टिं दत्वैनं समभाषत ॥ १.१६३{५३} ॥
वत्सेमां यष्टिमाधाय प्रकोटय समाहितः ।
ततस्त्वं सर्वदावश्यं लभेः पुण्यमहोत्सवम् ॥ १.१६४{५४} ॥
इति शास्त्रा प्रदत्तां तां नत्वासौ दारकोऽग्रहीत् ।
यथादिष्टं मुनीन्द्रेण तथा कर्तुमुदाचरत् ॥ १.१६५{५५} ॥
इत्येवं तं समादिश्य स संबुद्धः ससांघिकः ।
स्वं विहारमुपाश्रित्य धर्मं दिशन् समावसत् ॥ १.१६६{५६} ॥
अथासौ दारको हर्षात्तां यष्टिं स्वयमादधत् ।
यथादिष्टं मुनीन्द्रेण प्राकोटयत्समाहितः ॥ १.१६७{५७} ॥
तस्यामाकोट्यमानायां पुण्यशब्द उदाचरत् ।
गृहे रत्ननिधानानि प्रादुरासन् बहूनि च ॥ १.१६८{५७} ॥
तच्छब्दश्रवणं कृत्वा दारकोऽसौ प्रमोदितः ।
गृहे रत्ननिधानानि दृष्ट्वाश्चर्य्यं समाययौ ॥ १.१६९{५९} ॥
ततश्च विस्मितो हर्षात्पुनरेवं व्यचिन्तयत् ।
बतेदं सुमहाशौर्य्यं वीर्य्यं प्रारम्भये ततः ॥ १.१७०{६०} ॥
तथा रत्नाकरं गत्वा रत्नानि समुपार्जयन् ।
ससंघं सुगतं नित्यमुपतिष्ठेय संभजन् ॥ १.१७१{६१} ॥
(र्म् १४)
इति ध्यात्वा समुत्साहं संनिबध्य स दारकः ।
रत्नाकरं समागन्तुं प्रारेभे सह वाणिजैः ॥ १.१७२{६२} ॥
ततोऽसौ दारको वीरस्तस्यां पूर्य्यां समन्ततः ।
सार्थवाहं स्वमात्मानं कृत्वा घोषमकारयत् ॥ १.१७३{६३} ॥
तथा तद्घोषणां श्रुत्वा ये वीरास्ते वणिग्जनाः ।
तेन सार्द्धं महोत्साहैर्महाब्धिं गन्तुमैछन् ॥ १.१७४{६४} ॥
ततोऽसौ पुरुषो वीरः सर्वैस्तैश्च वणिग्जनैः ।
सह रत्नाकरं गत्वा बहुरत्नान्यसाधयत् ॥ १.१७५{६५} ॥
ततः सार्थपतिः सर्वैः सार्थैः सार्द्धं महोदधेः ।
क्षेमेन सहसोत्तीर्य्य स्वदेशं समुपाययौ ॥ १.१७६{६६} ॥
अथ सार्थपतिस्तत्र यात्रासिद्धिप्रमोदितः ।
सर्वान् सार्थान् समामंत्र्य दृष्ट्वैवं समभाषत ॥ १.१७७{६७} ॥
भवन्तः श्रूयतां सर्वैर्यत्स्वस्ति प्रागता वयम् ।
तत्प्रभावं विजानीध्वं जिनेन्द्रस्य प्रसादताः ॥ १.१७८{६८} ॥
तस्मादस्य मुनीन्द्रस्य कृत्वा दर्शनमादरात् ।
पूजयित्वा प्रणत्वा च पश्चाद्गेहं व्रजेम हि ।
इति तस्य वचः श्रुत्वा सर्व्वेऽपि ते वणिग्जनाः ।
दृष्टसत्यानुमोदन्तः तथेति प्रतिमेनिरे ।
इति संभाषणां कृत्वा सर्व्वसार्थसमन्वितः ।
ततः सार्थपतिः शीघ्रं विहारं समुपाययौ ।
तत्र दृष्ट्वा जिनेन्द्रं तं सर्व्वे ते संप्रहर्षिताः ।
पादौ नत्वा मुनेस्तस्य परिवृत्योपतस्थिरे ॥ १.१७९{६९} ॥
अथासौ भगवान् दृष्ट्वा सर्वान् सार्थगणानपि ।
धर्मोत्साहप्रावृद्ध्यर्थैः समामंत्र्य समब्रवीत् ॥ १.१८०{७०} ॥
आगताः स्थ समायात मा स्थ श्रान्ताश्च खेदिताः ।
यात्रासाफल्यसिद्धिश्च कच्चिद्वः कुशलानि च ॥ १.१८१{७१} ॥
एवं पृष्टे जिनेन्द्रेण सर्वे ते संप्रमोदिताः ।
कृताञ्जलिपुटो नत्वा संबुद्धं प्रोचुरादरात् ॥ १.१८२{७२} ॥
(र्म् १५)
भगवन् भवतामेवं कृपादृष्टिप्रसादतः ।
यात्रासिद्धिः कथं न स्यात्सर्वत्र कुशलं हि नः ॥ १.१८३{७३} ॥
यद्वयं शास्तरायाताः शुभरत्नसमन्विताः ।
तत्सर्वं त्वत्प्रभावेन सत्यमेतत्प्रमाण्यते ॥ १.१८४{७४} ॥
तद्भवन्तं सुशास्तारं द्रष्टुं सर्वे समागताः ।
पूजयितुं समिछामस्तत्प्रसीद जगद्गुरो ॥ १.१८५{७५} ॥
इति विज्ञापनां कृत्वा सह सार्थैः स सार्थभृत् ।
ससंघं पूजयित्वा च रत्नानि समढौकत ॥ १.१८६{७६} ॥
नमस्ते भगवन्नाथ व्रजामः शरणं तव ।
पाहि नः सर्वदाप्येवं त्वमेव जगदीश्वरः ॥ १.१८७{७७} ॥
एवं स्तुत्वा मुनीन्द्रं तं सर्वे ते संप्रसादिताः ।
कृताञ्जलिपुटा नत्वा स्वगृहं गन्तुमीहिरे ॥ १.१८८{७८} ॥
ततश्च भगवान् दृष्ट्वा तान् सर्वान् स्वगृहोत्सुकान् ।
दत्वाशीर्वचनं स्पृष्ट्वा व्रजतेति व्यसर्जयत् ॥ १.१८९{७९} ॥
ततः सर्वेऽपि ते सार्थाः कृत्वा प्रदक्षिणत्रयम् ।
शास्तारं सुगतं नत्वा स्वं स्वं गेहं समाययुः ॥ १.१९०{८०} ॥
ततो भूयस्तथान्यैश्च प्रार्थ्यमानः स वीर्य्यवान् ।
षड्ढा रत्नाकरं गत्वा बहुरत्नान्यसाधयत् ॥ १.१९१{८१} ॥
ततश्च गृहपतिः श्रेष्ठी सार्थवाहः सुवीर्य्यवान् ।
ससङ्घं सुगतं गेहे प्रणीत्वार्चितुमारभत् ॥ १.१९२{[८२]} ॥
ततो भोजनसामग्रीं साधयित्वा निवेशने ।
ससंघैः बुद्धमामंत्र्य न्यवेशयच्छुभासने ॥ १.१९३{[८३]} ॥
ततः पूजोपहारैश्च पूजयित्वा विधानतः ।
प्रत्येकं चीवरं दत्वा भोजनैः समतोषयत् ॥ १.१९४{८४!} ॥
ततश्च भोजनान्तेऽसौ सार्थवाहः कृताञ्जलिः ।
ससंघं सुगतं नत्वा प्रणिधानं तथाकरोत् ॥ १.१९५{८५} ॥
यत्किञ्चित्प्रकृतं दानं संबुद्धशासने मया ।
एतत्पुण्यफलेन स्यां संबुद्धोऽयं जिनो यथा ॥ १.१९६{८६} ॥
इति तस्य गृहस्थस्य चित्तं संबोधिवांछितम् ।
ज्ञात्वासौ भगवान् बुद्धः स्मितं कृत्वाभ्यनंदत ॥ १.१९७{८७} ॥
तदा भगवतो वक्त्रान्निश्चेरुः पंचवर्णिकाः ।
(र्म् १६)
रश्मयस्ताः समन्ताच्च त्रैलोक्यं शामभासयन् ॥ १.१९८{८८} ॥
याः काश्चिद्रश्मयो याता अधस्तान्नरकेष्वपि ।
ताश्च निश्चरितास्तावत्संजीवं कालसूत्रकम् ॥ १.१९९{[८९]} ॥
संघातं रौरवं चापि महारौरवविश्रुतम् ।
तपनाख्यं तथा चैवं प्रतापनाह्वयं ततः ॥ १.२००{९०} ॥
अवीचिमर्बुदं चैवं निरर्बुदं तथाटटम् ।
हहवं हुहुवं चैवमुत्पलं पद्मकं ततः ॥ १.२०१{९१} ॥
महापद्माख्यमेतानि षोडश निलयानि हि ।
तत्रोष्णनरका ये तु तेषु सर्वेषु निःसृताः ॥ १.२०२{९२} ॥
शीतीभूता विनिःपत्य प्रभासयन् समंततः ।
ये शीतनरकास्तेषु तूष्णीभूताप्यभासयन् ॥ १.२०३{९३} ॥
तेषु ये नारकाः सत्वा नानादुःखाभिवेदिनः ।
ते ताभी रश्मिभिः स्पृष्टा महत्सौख्यं प्ररेभिरे ॥ १.२०४{९४} ॥
अथ सर्वेऽपि ते सत्वा महत्सौख्यसमन्विताः ।
विस्मितास्तत्र संमील्य मिथश्चैवं वभाषिरे ॥ १.२०५{९५} ॥
अहो भवन्त आश्चर्य्यं किं चास्माकं भवेत्खलु ।
यद्वयं सर्वदापीत्थं नानादुःखैः प्रपीडिताः ।
तन्मुक्ताः सांप्रतं सर्वे वयं सौख्यसमन्विताः ॥ १.२०६{९६} ॥
किं ततो हि वयं मुक्ता अन्यत्र चरिता ननु ।
इति विस्मितचित्तानां सर्वेषां चित्तबोधने ॥ १.२०७{९७} ॥
भगवान्निर्मितं तेषां पुरस्तात्समदर्शयत् ॥ १.२०८{९८} ॥
तत्र तं निर्मितं दृष्ट्वा सर्वेऽपि तेऽतिविस्मिताः ।
परस्परं मुखं दृष्ट्वा तथैवं संवभाषिरे ॥ १.२०९{९९} ॥
भो भवन्त इतश्च्युत्वा नान्यत्र गमिता वयम् ।
किं त्वयं सुगताकार आयातोऽपूर्वदर्शनः ॥ १.२१०{१००} ॥
नूनमस्यानुभावेन वयमित्थं सुखान्विताः ॥ १.२११{१} ॥
इति संभाष्य ते सर्वे तस्मिं सौगतनिर्मिते ।
चित्तं प्रसाद्य बुद्धाय नम इति प्रणेमिरे ॥ १.२१२{२} ॥
ततस्ते निर्मितं दृष्ट्वा नत्व चित्तप्रसादितः ।
(र्म् १७)
सर्वपापविनिर्मुक्ताः सर्वेऽपि सुगतिं ययुः ॥ १.२१३{३} ॥
याश्च काश्चिद्गता ऊर्द्ध्वं ता महाराजिकान् गताः ।
त्रयस्त्रिंशांश्च यामांश्च तुषितांश्च गतास्ततः ॥ १.२१४{४} ॥
निर्माणरतिमाभास्य निर्मितवशवर्त्तिकान् ।
ब्रह्मकायिकलोकांश्च गता ब्रह्मपुरोहितान् ॥ १.२१५{५} ॥
महाब्रह्मालयं चापि परीताभांस्तथा गताः ।
अप्रमाणाभलोकांश्च तत आभास्वरान् गताः ॥ १.२१६{६} ॥
परीत्तशुभलोकांस्तदाप्रमाणशुभान् गताः ।
शुभकृत्स्नाननभ्रांश्च पुण्यप्रसवकांस्ततः ॥ १.२१७{७} ॥
बृहत्फलांस्ततश्चैवमवृहानतपान् गताः ।
ःसुदृशांश्च ततो याता तथा चैवं सुदर्शनान् ॥ १.२१८{८} ॥
अकनिष्ठं तथा गत्वा सर्वानेतान् व्यभासयन् ।
तेषु ये संस्थिता लोकाः सर्वे ताभिश्च रश्मिभिः ॥ १.२१९{९} ॥
परिस्पृष्टाः सुखप्राप्ता दृष्ट्वा तां चैवमूचिरे ।
अहो चित्रं शुभा काम्या कस्य पुण्यप्रभा इमाः ॥ १.२२०{१०} ॥
याभिर्वयं परिस्पृष्टा महत्सौख्यं लभामहे ।
इति विस्मितचित्तानां तेषां चित्तविनोदने ॥ १.२२१{११} ॥
तथा ता रश्मयश्चैनां गाथाभिः समचोदयन् ।
अनित्यं खलु संसारं दुःखं शून्यं ह्यनात्मकम् ॥ १.२२२{१२} ॥
अतः क्लेशगणांस्त्यक्त्वा भजध्वं सुगतं सदा ।
निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ १.२२३{१३} ॥
धुनीत मारसैन्यांश्च नडागारमिव द्विपः ।
(र्म् १८)
यो ह्यस्मिं धर्मवैनेयेऽत्यप्रमत्तश्चरेत्सुधीः ॥ १.२२४{१४} ॥
प्रहाय स भवे क्लेशान् दुःखस्यान्तं करिष्यति ।
इति ता रश्मयः सर्वा अवभास्य समन्ततः ॥ १.२२५{१५} ॥
प्रेरयित्वा शुभे सत्वान् पुनर्मुनेः पुरोगताः ।
ततो भगवतस्तस्य कृत्वा त्रयप्रदक्षिणाम् ॥ १.२२६{१६} ॥
तथा ता रश्मयः सर्वा उष्णीषेऽन्तर्हितं ययुः ।
अथानन्दः समुत्थाय कृताञ्जलिपुटो मुदा ॥ १.२२७{१७} ॥
भगवन्तं प्रणम्यैवं पप्रच्छ स्मितकारणम् ।
भगवंस्तव शुभा रश्मिः स्मितोद्भवा विनिर्गता ॥ १.२२८{१८} ॥
ययावभासिता लोकाः सूर्य्येणोदयता यथा ।
नाकस्माद्दर्शयन्त्येवं स्मितं बुद्धा जिनाः क्वचित् ॥ १.२२९{१९} ॥
तत्कस्माद्भगवान् स्मितं संदर्शयति सांप्रतम् ।
यस्यार्थे भवताप्येवं स्मितं संदर्शितं तथा ॥ १.२३०{२०} ॥
तं दृष्ट्वा विस्मिताः सर्वे श्रोतुमिछन्ति सज्जनाः ।
तदत्र भगवाञ्छास्ता ह्येसां धर्माभिकांक्षिणाम् ॥ १.२३१{२१} ॥
सर्वेषां तत्समादिश्य संदेहं छेत्तुमर्हति ।
इत्यानंदोदितं श्रुत्वा भगवांश्च तमब्रवीत् ॥ १.२३२{२२} ॥
एवमेतत्तथानंद यथा त्वं भाषसे किल ।
नाकारणे जिनं सर्वं स्मितं संदर्शितं क्वचित् ॥ १.२३३{२३} ॥
तदर्थं शृणु वक्ष्येऽहं यदर्थं संस्मितं मम ।
पश्यानन्द गृहस्थोऽयं दारको यः कुशीदितः ॥ १.२३४{२४} ॥
मम संदर्शनादेवं विर्य्योत्साहं समाप्नुवन् ।
इत्थं रत्नानि संसाध्य बुद्धिमांश्च समृद्धितः ॥ १.२३५{२५} ॥
एवं श्राद्धः प्रसन्नात्मा शासने मेऽनुमोदितः ।
सत्कृत्य शरणं कृत्वा भजति मां ससांघिकम् ॥ १.२३६{२६} ॥
यदयं सार्थभृन्नन्दो मम धर्माभिसंरतः ।
(र्म् १९)
अस्य पुण्यविपाकेन बोधिचित्तं समाप्नुयात् ॥ १.२३७{२७} ॥
ततः चिक्षाः समासाद्य पूर्य्य पारमिता दश ।
क्रमान्मारगणाञ्जित्वा संबोधिं समवाप्नुयात् ॥ १.२३८{२८} ॥
ततोऽर्हन्नभिवन्द्योऽतिबलवीर्य्यपराक्रमः ।
इति नाम्ना प्रसिद्धोऽयं संबुद्धः सुगतो जिनः ॥ १.२३९{२९} ॥
सर्वधर्माधिपः शास्ता सर्वविद्यागुणाकरः ।
सर्वज्ञस्त्रिजगद्भर्त्ता तथागतो भविष्यति ॥ १.२४०{३०} ॥
तस्मादेवं सदानंद कर्त्तव्यं बुद्धदर्शनम् ।
बुद्धदर्शनपुण्येन धर्मोत्साहं समापुण्यात् ॥ १.२४१{३१} ॥
ततो वीर्य्यसमारूढः सद्धर्मं साधयेन्मुदा ।
ततो धर्मबलैर्माराञ्जित्वा संबोधिमाप्नुयात् ॥ १.२४२{३२} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः ।
अनुमोद्य गुरुं नत्वा तथेति प्राभ्यनंदत ॥ १.२४३{३३} ॥
एवं मे गुरुणादिष्टं धर्मोत्साहप्रवृद्धये ।
तथा तव मया ख्यातं सत्यमेतत्प्रधार्य्यताम् ॥ १.२४४{३४} ॥
एवं राजंस्त्वयाप्येवं कृत्वानुमोदनां तथा ।
धर्मप्रोत्साहनां कृत्वा कर्त्तव्यं बुद्धदर्शनम् ॥ १.२४५{३५} ॥
सद्धर्मचरणोत्साहे चारणीयाः प्रजाः सदा ।
इत्येतद्गुरुणादिष्टं श्रुत्वाशोकः स भूमिपः ॥ १.२४६{३६} ॥
सत्यमेवं प्रतिश्रुत्य प्राभ्यनन्दत्सपार्षदः ॥ १.२४७{३७!} ॥
तत्कौशीद्यावदानं मुनिवरकथितं श्रद्धया यः शृणोति ।
श्रुत्वा यः श्रावयेद्यः प्रतिदिनमनिशं बुद्धसेवानुरक्तः ।
हित्वा क्लेशान् प्रदुष्टान् सकलकलिवलान्मारपक्षांश्च जित्वा ।
पारं गत्वा गुणाब्धेर्व्रजति स सुभगं श्रीघनस्य चरित्रम् ।
++ इति रत्नमालायां कौशीद्यवीर्य्योत्साहनावदानं ++
(र्म् २०)
इइ स्नातावदान
अथाशोको नृपेन्द्रोऽसौ सद्धर्मचरणोत्सवः ।
उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटोऽवदत् ॥ २.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा ते गुरुणा ख्यातं तथा मे ख्यातुमर्हसि ॥ २.२{२} ॥
इति तेन नृपेशेन प्रार्थ्यमानो जिनांशजः ।
उपगुप्तः समामंत्र्य तं क्षितीशं समब्रवीत् ॥ २.३{३} ॥
साधु सुष्ठु महारज शृणु धर्मं समाहितः ।
यथा मे गुरुणादिष्टं तथात्र ते प्रचक्ष्यते ॥ २.४{५!} ॥
पुरैकसमये योऽभूच्छाक्यसिंहो दयाकरः ।
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ २.५{६} ॥
सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः ।
समन्तभद्रकृन्नाथो विनायकस्तथागतः ॥ २.६{७} ॥
स श्रावस्त्यां महोद्याने जेतारामे मनोहरे ।
अनाथपिण्डदस्यैव विहारे मणिमण्डिते ॥ २.७{८} ॥
श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वैरुपासकैः ।
देवासुरमहाराजैर्मनुजेन्द्रं सपार्षदैः ॥ २.८{९} ॥
सर्वलोकाधिपैश्चापि त्रैधातुकनिवासितैः ।
चतुर्वर्णैश्च पौरैश्च तथान्यैश्च शुभार्थिभिः ॥ २.९{१०} ॥
सत्कृतो मानितश्चाभिवन्दितः संस्तुतोऽर्चितः ।
गुरुकृतः पुरस्कृत्य परिवृतोऽवलोकितः ॥ २.१०{११} ॥
आदिमध्यान्तकल्याणं धर्मं लोके प्रकाशयन् ।
सर्वसत्वहितार्थेन विजहार समाहितः ॥ २.११{१२} ॥
तस्मिंश्च समये तत्र श्रावस्त्यां ये वणिग्जनाः ।
ते पंचशतमात्राणि रत्नाकरं समागताः ॥ २.१२{१३} ॥
ततः प्रत्यागताः सर्वे कान्तारं समुपाविशन् ।
तत्र ते भ्रमिता मार्गात्परिभ्रष्टा विचेरिरे ॥ २.१३{१४} ॥
विमार्गेण चरन्तस्ते वालुकास्थलमुपाविशन् ।
तत्र प्रप्ताश्च ते सर्वे मध्याह्ने द्योतितातपे ॥ २.१४{१५} ॥
भानोस्तीक्ष्णकरैस्तप्ता घर्मतापाभिखेदिताः ।
(र्म् २१)
क्षीणपथ्यादनाश्चापि क्षुत्तृष्णा परिपीडिताः ॥ २.१५{१६} ॥
तीव्रदुःखाभिसंतप्ताः पर्यावर्त्तन्त तत्र च ।
स्थलप्राप्ता यथा मीना मृत्युभयविकंपिताः ॥ २.१६{१७} ॥
तदा सर्वेऽपि ते सार्थाः श्रद्धया शरणं गताः ।
स्वस्वकुलेशस्वस्वेष्टदेवताः संययाचिरे ॥ २.१७{१८} ॥
केचित्स्वयंभुवं स्मृत्वा केचिन्नारायणं तथा ।
केचिच्छिवं महारौद्रं केचित्सूर्य्यग्रहाधिपम् ॥ २.१८{१९} ॥
केचिच्चंद्रं च तारेशं केचिदिंद्रं सुराधिपम् ।
केचिदग्निं यमं चैव नैऋत्यं च तथापरे ॥ २.१९{२०} ॥
वारुणं च तथा वायुकुवेरं च महेश्वरैः ।
भैरवं मातृकाश्चैवं केचित्स्कन्धं विनायकम् ॥ २.२०{२१} ॥
महाकालं तथा चैवं केचिदृषीन् यतीश्वरान् ।
केचिद्दैत्याधिपान् वीरान् केचिन्नागाधिपांस्तथा ॥ २.२१{२२} ॥
केचिच्चातुर्महाराजान् केचिद्यक्षाधिपान् तथा ।
एवमन्यांस्त्रिधातुस्थांस्सर्वान् स्मृत्वा ययाचिरे ॥ २.२२{२३} ॥
तैरेवं याच्यमानानां देवतानं न कश्चन ।
एकोऽप्यासीत्तदा त्राता वाणिजां दुःखभागिनाम् ॥ २.२३{२४} ॥
ततस्ते वणिजः सर्वे मृत्युभयविकंपिताः ।
निराशया विषीदन्तस्तस्थुर्निश्चेष्टमानसाः ॥ २.२४{२५} ॥
तत्र यः सुगतोपासी दृष्टसत्यः स धीरवान् ।
तान् सार्थान् विपन्नाशां दृष्ट्वामंत्र्यैवमब्रवीत् ॥ २.२५{२६} ॥
भवन्तो मा विषीदध्वं किं विषादेन सेत्स्यते ।
तस्मात्त्यक्त्वा विषादत्वं धीर्य्यमालम्ब्य तिष्ठत ॥ २.२६{२७} ॥
धैर्य्येण तारयेद्दुःखं महाकृच्छ्रं विपत्स्वपि ।
तस्माद्धैर्य्यं समाधाय स्मरध्वं च जिनं द्रुतम् ॥ २.२७{२८} ॥
जिन एव जगन्नाथस्त्राता सर्वानुकंपकः ।
तदस्मद्वचनं श्रुत्वा संबुद्धं स्मरतादरात् ॥ २.२८{२९} ॥
(र्म् २२)
तत्राप्येवं भयेऽस्माकं त्राता कोऽन्यो भविष्यति ।
बुद्ध एव जगद्बंधुस्तद्व्रजध्वं जिनं द्रुतम् ॥ २.२९{३०} ॥
सर्वथा नो जिनेन्द्रोऽसौ सर्वसत्वानुकनिपकः ।
डृष्ट्वास्मान् करुणादृष्ट्या संरक्षेत्सहसा खलु ॥ २.३०{३१} ॥
इति तेनोदितं श्रुत्व सर्वे ते वणिजस्तथा ।
संबुद्धं शरणं कृत्वा स्मृत्वाभयं ययाचिरे ॥ २.३१{३२} ॥
नमस्ते भगवन्नाथ सर्वज्ञोऽसि जगत्प्रभुः ।
भवतैव जगत्सर्वं पालितं पुत्रवत्सदा ॥ २.३२{३३} ॥
अद्याग्रेण वयं सर्वे यावज्जीवं सदापि हि ।
भवतां शरणं यामस्तद्रक्षास्माञ्जगद्गुरो ॥ २.३३{३४} ॥
भवानेव जगद्धर्मं संसारे पालितं सदा ।
भगवन् सर्वविन्नाथ त्रातुमर्हसि सर्वथा ॥ २.३४{३५} ॥
पंचशतसर्वाणि वाणिजाश्च समागताः ।
विमार्गेण चरन्तस्ते मध्याह्ने द्योतितातपे ॥ २.३५{३६} ॥
तत्र प्राप्ताश्च ते सर्वे वालुकास्थले संस्थिताः ।
भानो तीक्ष्णकरे तप्ता क्षुत्तृषार्त्ता परिपीडिताः ॥ २.३६{३७} ॥
तीव्रातिवेदनाक्रान्ता मृत्युभयं समागताः ।
नमो बुद्धाय धर्माय संघायेति नमो नमः ॥ २.३७{३८} ॥
दृष्ट्वास्मान् करुणा सर्वान् पंचशतानि वाणिजान् ।
भवानेव जगत्स्वामिं तथा बुद्धानुभावताम् ॥ २.३८{३९} ॥
तदा स भगवान् तेभ्य माहेन्द्रवृष्टिमाचरन् ।
शीतला वायवो याति तेन शीतत्वमागताः ॥ २.३९{४०} ॥
तद्दृष्ट्वा सार्थपतिना सर्वान् सार्थान् समब्रवीत् ।
भवन्तः श्रूयतां सर्वे यन्मया प्रोच्यते हितम् ॥ २.४०{४१} ॥
तद्भवद्भिः समाधृत्वा कर्त्तव्यं कृतवेदिभिः ।
यद्वयं मृत्युसंप्राप्ता परलोकादिवागताः ॥ २.४१{४२} ॥
तद्ज्ञेयं जिनेन्द्रस्य कृपादृष्टिप्रसादतः ।
तस्मात्सर्वे वयं तस्य बुद्धस्य शरणं गताः ॥ २.४२{४३} ॥
सद्धर्म्मं समुपाश्रित्य चरेमहि सदापि हि ।
अनित्यं खलु संसारमनित्यं जीवितं सुखम् ॥ २.४३{४४} ॥
क्षणध्वंसि शरीरं च भवे नित्यं न किं चन ।
धर्म एव महासारं येनैवं रक्ष्यते जगत् ॥ २.४४{४५} ॥
तस्माद्धर्मं समाधर्तुं गन्तव्यं शरणं मुनेः ।
इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा ॥ २.४५{४६} ॥
तथेत्यभ्यनुमोदन्तस्ततो गंतुमुपाक्रमत् ।
अथ सार्थपतिश्चैवं कृत्वा तं सह संमतम् ॥ २.४६{४७} ॥
(र्म् २३)
विहारे सुगतं द्रष्टुं धर्मं चाप्तुमगान्मुदा ।
तत्रोपेत्य प्रविष्टोऽसौ सर्वसार्थगणान्वितः ॥ २.४७{४८} ॥
दृष्ट्वा तं सुगतं नत्वा विषसाद पुरो मुनेः ।
अथासौ भगवांस्तेषां दृष्ट्वाशयविशुद्धताम् ।
आर्य्यसत्यार्य्यमार्गाङ्गं दिदेश धर्ममुत्तमम् ॥ २.४८{४९} ॥
तदा सर्वेऽपि ते सत्वाः श्रुत्वा तं धर्ममादरात् ।
सत्कायदृष्टिनिर्मुक्ता बोधिचित्तं प्रलेभिरे ॥ २.४९{५०} ॥
तत्र केचिन्महाश्राद्धा धर्मानुसारिणोऽभवन् ।
श्रोतापन्नास्तथा केचित्सकृदागामिनो परे ॥ २.५०{५१} ॥
तथानागामिनः केचित्केचिद्भवपराङ्मुखाः ।
संसारक्लेशसंघांश्च हित्वा सुविमलाशयाः ॥ २.५१{५२} ॥
साक्षात्सद्धर्म्ममासाद्य बभूवुर्धर्मचारिणः ।
केचिच्छ्रावकबोधौ च प्रत्येकायां तथापरे ॥ २.५२{५३} ॥
केचिदनुत्तरायां च संबोधौ प्रणिधिं दधुः ।
एवं ताः पर्षदः सर्वाः संबुद्धशरणे स्थिताः ॥ २.५३{५४} ॥
सद्धर्म्माचरणे रक्ताः संघभक्ता बभूविरे ।
अथ ते भिक्षवो दृष्ट्वा तान् सर्वान् बोधिचारिणः ॥ २.५४{५५} ॥
संबुद्धं प्रयता नत्वा पप्रछुर्विस्मयान्विताः ।
आश्चर्य्यं भगवन् यावद्यदिमे वणिजस्तथा ॥ २.५५{५६} ॥
कांतारपतिताः सर्वे भवता परिपालिताः ।
भवच्चिन्तितमात्रेऽपि माहेन्द्रवृष्टिमाचरन् ॥ २.५६{५७} ॥
शीतला वायवो वातास्तत्कथं वक्तुमर्हसि ।
इति तैर्भिक्षुभिः पृष्टो भगवांस्तानभाषत ॥ २.५७{५८} ॥
शृणुध्वं भिक्षवः कर्म्म यन्मया कृत कृतं कथ्यते ।
यन्मया प्रकृतं कर्म कोऽन्यो भुंज्याद्धि तत्फलम् ॥ २.५८{५९} ॥
येन यत्प्रकृतं कर्म स एवाद्याद्धि तत्फलम् ।
अभुक्तं क्षीयते कर्म नैव क्वापि कथं चन ॥ २.५९{६०} ॥
(र्म् २४)
अग्निभिर्दह्यते नैव वायुभिर्नापि शुष्यते ।
उदकैः क्लिद्यते नापि भूमिषु ॥ २.६०{६१} ॥
अपि तु पच्यते स्कन्धषड्धात्वायतनेषु हि ।
अन्यथा चापि कर्माणि न ददन्ति फलानि च ॥ २.६१{६२} ॥
यथैव यत्कृतं कर्म तथैव तत्फलं मतम् ।
शुभकर्म शुभं दद्यात्पापकर्माशुभं खलु ॥ २.६२{६३} ॥
मिश्रितमुभयं दद्यादिति मत्वा शुभे चरेत् ।
न प्रणश्यंति कर्माणि कल्पकोटिशतैरपि ॥ २.६३{६४} ॥
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ।
यन्मया प्रकृतं पूर्वं तत्फलं प्राप्यतेऽधुना ॥ २.६४{६५} ॥
कथ्यते तत्पुरावृत्तं साधु शृणुत सादरम् ।
पुरैकसमये बुद्धश्चंदनो नाम धर्मराट् ॥ २.६५{६६} ॥
सर्वज्ञोऽर्हञ्जगन्नाथः शास्ता लोकाधिपेश्वरः ।
विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥ २.६६{६७} ॥
तथागतो महाभिज्ञः संबुद्धोऽभूद्विनायकः ।
तदैकसमये तत्र चंदनः स मुनीश्वरः ॥ २.६७{३८!} ॥
भिक्षुभिः सह सद्धर्म्मं प्रकाशयन् समंततः ।
हिताय सर्वसत्वानां जानपदेषु संचरन् ॥ २.६८{६९} ॥
अन्यतमां पुरीं रम्यां राजधानीमुपाश्रयत् ।
तत्र सत्वहितार्थेन बोधिचर्यां प्रकाशयन् ॥ २.६९{७०} ॥
श्रावकैर्भिक्षुभिः सार्द्धं विजहार जिनाश्रमे ।
अथ तदाधिपो राजा श्रुत्वा तं बुद्धमागतम् ॥ २.७०{७१} ॥
स मंत्रिजनपौरैश्च सह प्रत्युद्ययौ मुदा ।
तत्रासौ सहसोपेत्य दृष्ट्वा तं सुगतं मुनिम् ॥ २.७१{७२} ॥
कृतांजलिपुटो नत्वा तस्थावेकांतिके मुदा ।
अथासौ भगवान् दृष्ट्वा तं नृपं समुपस्थितम् ॥ २.७२{७३} ॥
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ।
शृणु राजन् भवे सारं धर्मं नित्यमतंद्रितम् ॥ २.७३{७४} ॥
धर्मेण जायते लोको धर्मेण स्वर्गमारुहेत् ।
तस्माद्धर्मं पुरस्कृत्य संपालयन् प्रजा सदा ॥ २.७४{७५} ॥
प्रजारक्षाव्रतं धर्मं मूलं राज्ञां विदुर्बुधाः ।
प्रजारक्षाव्रतं त्यक्त्वा किमन्यैर्बहुभिर्व्रतैः ॥ २.७५{७६} ॥
(र्म् २५)
तेन राजन् त्वया धर्मे पालनीयाः प्रजाः शुभे ।
तद्दशाकुशलेभ्यश्च विनिवार्य त्वया सदा ॥ २.७६{७७} ॥
योजनीयाः प्रजा धर्मे तत्पुण्यैस्त्वं प्रमोक्ष्यसे ।
आदौ दाने प्रजान् योज्याः संबोधिपदकारणे ॥ २.७७{७८} ॥
तत्पुण्यैः प्रचरिष्यन्ति प्रजाः संवर्द्धिताः शुभे ।
शुभकर्मरते लोके तत्पुण्यैः वर्द्ध्यते नृपः ॥ २.७८{७९} ॥
तस्माद्दानं स्वयं दत्वा प्रजा शीले नियोजय ।
शीलेन शुद्ध्यते कायः शुद्धकायो भवेत्सुधीः ॥ २.७९{८०} ॥
सुबुद्धिः क्षमया सर्वाच्छत्रूं जित्वा विराजते ।
ततो वीर्य्यबलैः सर्वान् सत्वान् सौख्ये नियोजयेत् ॥ २.८०{८१} ॥
ततः क्लेशान् विनिर्जित्य ध्यात्वा बोधिं प्रसाधयेत् ।
बोधिप्रणिधिचित्तेन कृती प्रज्ञां प्रसाधयेत् ॥ २.८१{८२} ॥
ततः प्राज्ञ उपायैश्च जगद्बोधौ नियोजयेत् ।
ततो मारान् विनिर्जित्य संबोधिज्ञानमाप्नुयात् ॥ २.८२{८३} ॥
तत्र प्राप्य रसाभिज्ञा दशभूमीश्वरो भवेत् ।
ततः कृत्वा वशे सर्वांस्त्रैधातुकनिवाशिनः ॥ २.८३{८४} ॥
संस्थाप्य सौगते धर्मे स्वयं निर्वृतिमाचरेत् ॥ २.८४{८५} ॥
एवं ज्ञात्वा महाराज निर्वाणगतिसाधनम् ।
यदि ते निर्वृतौ वांछा तदैतासु समाचर ॥ २.८५{८६} ॥
ततस्ते मंगलं नित्यं संवृत्तिसुखमाप्नुयाः ।
क्रमात्पारमिताः पूर्य्य निर्वृतिं समवाप्नुयाः ॥ २.८६{८७} ॥
निर्वाणं परमं ज्ञानं निर्वाणं परमं सुखम् ।
निर्वाणं परमं पुण्यं निर्वाणं परमां गतिम् ॥ २.८७{८८} ॥
एवं हि सुकृतं सर्वं ज्ञात्वा निर्वाणकारणम् ।
तथा धर्मे स्वयं स्थित्वा प्रेरणीयाः प्रजा अपि ॥ २.८८{८९} ॥
एवं स चंदनो बुद्धो बोधयित्वा च तं नृपम् ।
बोधिमार्गे प्रतिस्थाप्य विरराम क्षणं ततः ॥ २.८९{९०} ॥
अथ स नृपती राजा श्रुत्वा तद्धर्ममादरात् ।
प्रमोदितः समुत्थाय उत्तरासंगमुद्वहन् ॥ २.९०{९१} ॥
जानुभ्यां भुवि संस्थित्वा कृतांजलिपुटो नतः ।
(र्म् २६)
सुप्रसन्नमुखः पादौ नत्वा तं प्रार्थयन्मुनिम् ॥ २.९१{९२} ॥
नमस्ते भगवन्नाथ भवतां शरणं व्रजे ।
सद्धर्ममादिशन्नत्र विजयस्व गणैः सह ॥ २.९२{९३} ॥
इति तेन नृपेन्द्रेण प्रार्थिते स मुनीश्वरः ।
तथेति प्रतिसंश्रुत्य त्रैमास्यमध्यवासयत् ॥ २.९३{९४} ॥
ततः सान्तःपुरा राजा तं मुनीन्द्रं ससांघिकम् ।
सदा सत्कारपूजाङ्गैर्भोज्यैः प्रारागयन्मुदा ॥ २.९४{९५} ॥
तस्मिंश्च समये तत्र लोकानाचरकोपिताः ।
वर्षाधिदेवता मेघावृष्टिं न मुमुचुर्भुवि ॥ २.९५{९६} ॥
ततस्तस्यामनावृष्ट्यां तडागादि जलाश्रयाः ।
दिने दिने प्रहीनांभः पंकशेषविशोषिताः ॥ २.९६{९७} ॥
निःपुष्पा निष्फला वृक्षाः शाखापत्त्रविशीर्ण्णिताः ॥ २.९७{९७!} ॥
स्थाणुकल्पा निराभोग्याः पक्षिसंपातवर्जिताः ।
महीशस्यविपन्नाश्च बीजांकुलविशोषिताः ॥ २.९८{९८} ॥
निस्तृणा प्रखलीभूता मरुकल्पाभवत्तदा ।
अन्नपानवियोगेन मृता अनेकजन्तवः ॥ २.९९{९९} ॥
क्षुत्पिपासहताः केचिन्न्यषीदन्त मृता इव ।
केचिद्गेहे विषण्णास्या मृत्युशंकाविषादिताः ॥ २.१००{१००} ॥
परस्परं मुखं दृष्ट्वा निःश्वसन्तो निषेदिरे ।
केचिन्मेघं च खे दृष्ट्वा प्रायाचन्त दिवानिशम् ॥ २.१०१{१} ॥
हा हतास्म इति प्रोक्त्वा केचित्तस्थुर्निराशिताः ।
एवं नानाप्रकारेण विलपन्तो विखेदिताः ॥ २.१०२{२} ॥
सर्वेऽपि पौरिकास्तत्र चिखेदुर्मृत्युशंकिताः ।
तद्दृष्ट्वा नृपतिश्चापि मृत्युत्रस्तानुकंपितः ॥ २.१०३{३} ॥
मंत्रिणः सचिवान् सर्वान् समामंत्र्याब्रवीदिति ।
हा कष्टं कथमत्रैवं दुर्भिक्षं वर्त्ततेऽधुना ।
किं करोमि न मन्येऽहं वदध्वं तत्प्रतिक्रियाम् ॥ २.१०४{४} ॥
येन तदा महापापदुर्भिक्षं शाम्यते द्रुतम् ।
तदुपायं प्रकुर्याम तत्कुरुध्वं यथाविधिम् ॥ २.१०५{५} ॥
(र्म् २७)
इति श्रुत्वा नृपाज्ञां ते समंत्रिजनपौरिकाः ।
देवता विधिनाराध्य तच्छान्तिं संययाचिरे ॥ २.१०६{६} ॥
भो देवताः प्रसीदध्वं नमो वः प्रणता वयम् ।
अपराधं यदस्मासु क्षन्तव्यं सर्वथापि तत् ॥ २.१०७{७} ॥
इमं दुर्भिक्षनिर्वृष्टिं प्राप्तं शमयत द्रुतम् ।
सुवृष्टिं कारयित्वात्र सुभिक्षं कुरुत ध्रुवम् ॥ २.१०८{८} ॥
एवं केचिद्विधातारं केचिद्विष्णुं जनार्दनम् ।
केचिच्छिवं महेशानमिंद्रं केचित्सुराधिपम् ॥ २.१०९{९} ॥
केचिद्ग्रहाधिपं केचिल्लोकपालान्महर्द्धिकान् ।
केचिच्च मातृकादेवीं स्कंदविघ्नेशभैरवान् ॥ २.११०{१०} ॥
महाकालगणांश्चापि केचिन्नागाञ्जलाधिपान् ।
केचिन्मेघान् समालोक्य नत्वा वृष्टिं ययाचिरे ॥ २.१११{११} ॥
एवं सर्वेऽपि लोकाश्च स्वस्वेष्टकुलदेवताः ।
विधिनाराध्य संप्रार्थ्य सुवृष्टिं प्रययाचिरे ॥ २.११२{१२} ॥
एवं तैः प्रार्थ्यमानास्ताः सर्वाश्च देवता अपि ।
तत्र वृष्टिं समुत्स्रष्टुं नैव शेकुर्विघातिताः ॥ २.११३{१३} ॥
ततः सर्वे च ते लोका दृष्ट्वा तद्वृष्टिघातिताम् ।
हाहाकारविरावन्तो विचिखेदुर्निराशिताः ॥ २.११४{१४} ॥
अथ राजा स तान् दृष्ट्वा दुर्भिक्षाक्षोभिताशायान् ।
तथा च ग्रहामालोक्य विसण्णास्यो व्यचिन्तयत् ॥ २.११५{१५} ॥
अहो कष्टं महोत्पातं मम राज्ये भविष्यति ।
कथमत्र प्रतीकारं तत्प्रशान्त्यै करिष्यते ॥ २.११६{१६} ॥
किं मया नृपभूतेन यशोधर्मविघातिना ।
न शक्यंते प्रजा येन रक्षितुमीतिपीडिते ।
धिग्मां नृपाधमीभूतं किं पापं प्रकृतं मया ।
येन यस्य प्रजा एव क्षुत्पिपासहता मृताः ।
किमेव मम राज्ये न भोग्यैश्चापि धनैरपि ।
किं तेन जीवितेनापि यशोधर्मविनाशिना ॥ २.११७{१८} ॥
येन राज्ञा न रक्ष्यन्ते प्रजाः स्वविषयाश्रिताः ।
स किं राजा बलिष्ठोऽपि कृतान्त इव मन्यते ॥ २.११८{१९} ॥
(र्म् २८)
यश्च राजा स्वभोग्यार्थं केवलं दण्डमाहरन् ।
न विपत्सु प्रजाः पाति स किं राजापि चौरवत् ॥ २.११९{२०} ॥
येषामेव हितार्थाय यश्च राजाभिषिच्यते ।
स तेषां न हितं कुर्य्यात्स किं राजा कृतार्थहा ॥ २.१२०{२१} ॥
धिक्प्रवादहतः सोऽत्र यशोधर्मसुखार्थहा ।
स्वयं नष्टः परान् हत्वा नरकेषु व्रजेद्ध्रुवम् ॥ २.१२१{२१!} ॥
किं चाहमपि मानुष्यः समान इंद्रियैरपि ।
यतो मे क्रियते सर्वैः सेवो नित्यं समाहितैः ॥ २.१२२{२२} ॥
यदि न क्रियते रक्षा मयाप्येषां विपत्स्वपि ।
कथमेतदृशैर्मुक्तः कदा यास्यामि सद्गतिम् ॥ २.१२३{२३} ॥
सर्वदैतदृणैर्बद्धः सर्वथा प्रतिबंधितः ।
कर्मभिः प्रेर्य्यमाणोऽहं यास्यामि नरकान् ध्रुवम् ॥ २.१२४{२४} ॥
तदाहं किं करिष्यामि यमदूतैरधिष्ठिते ।
दृष्ट्वा तां भीषणां क्रूरान् पतिष्यामि विमोहितः ॥ २.१२५{२५} ॥
तदा तत्र न विद्येत कश्चित्त्राता दयान्वितः ।
धर्म एव तदा रक्षेत्तद्धर्मं साधयेच्छुभम् ॥ २.१२६{२६} ॥
धर्माश्च बहुधा प्रोक्तास्तेषां प्राहुर्मुनीश्वराः ।
आदिमध्यान्तकल्याणं सौगतं धर्ममुत्तमम् ॥ २.१२७{२७} ॥
येनैव शुभतां कृत्वा सर्वत्र भुवनेष्वपि ।
सर्वसत्वाश्च पाल्यन्ते सर्वदेह परत्र च ॥ २.१२८{२८} ॥
तथात्रापि शुभं कर्तुं संबुद्धं शरणं व्रजन् ।
सद्धर्मं समवाप्तुं च सेवितव्यं ससांघिके ॥ २.१२९{२९} ॥
तेनात्र सहसा कृत्वा पुष्करणीमनोरमाम् ।
संबुद्धसुगतं तत्र स्नापयित्वा ससांघिकम् ॥ २.१३०{३०} ॥
महत्सत्कारपूजाभिर्भोजनैश्च प्रतोषयन् ।
ततस्तं सुगतं नत्वा तद्दुर्भिक्षं प्रशांतये ॥ २.१३१{३१} ॥
सुवृष्टिचारणे लोके प्रार्थयिष्यामि सादरम् ।
तदा स भगवानत्र सुवृष्टिं चारयेद्ध्रुवम् ॥ २.१३२{३२} ॥
सर्वत्र शुभतां कृत्वा सुभिक्षं कारयेत्सदा ।
ततोऽत्र सर्वदाप्येवं दुर्भिक्षं न कदा चन ॥ २.१३३{३३} ॥
सुभिक्षं सर्वतो भद्रं भवेन्नूनं समंततः ।
(र्म् २९)
इति ध्यात्वा विनिश्चित्य मनसा स नराधिपः ॥ २.१३४{३४} ॥
सहसा सचिवान् सर्वान् समामंत्र्याब्रवीत्तथा ।
शृणुध्वं मंत्रिणो यन्मे मनसा संविचिंतितम् ॥ २.१३५{३५} ॥
तदनुमोद्य युष्माभिः प्रकर्त्तव्यं समाहितैः ।
यदद्य जायतेऽवृष्टिं दुर्भिक्षं चोपवर्त्तते ॥ २.१३६{३६} ॥
तदस्मत्पापतो नूनं तत्पापपरिहाणये ।
संबुद्धशरणं कृत्वा सद्धर्मसमवाप्तये ॥ २.१३७{३७} ॥
ससंघं सेवितुं नित्यमिछे तदनुमोद्यताम् ।
स एव भगवान्नाथः कृत्वात्र शुभतां सदा ॥ २.१३८{३८} ॥
सुवृष्टिं चारयित्वा च सुभिक्षं कारयेद्ध्रुवम् ।
ततोऽस्माकं तदाप्यत्र मंगलं स्यात्समंततः ॥ २.१३९{३९} ॥
सदा सद्धर्ममाधाय सौख्यं भुक्त्वा भजेमहि ।
धर्मेण शुभता नित्यं धर्मेण जीयते विपत् ॥ २.१४०{४०} ॥
धर्मेण पाल्यते सर्वं धर्मेण सद्गतिं व्रजेत् ।
धर्मं तु सौगतं भद्रं सर्वे प्राहुर्मुनीश्वराः ॥ २.१४१{४१} ॥
सद्धर्मं समवाप्तुं तं संबुद्धं भजतादरात् ।
बुद्ध एव जगद्बंधुः सर्वसत्वहितंकरः ॥ २.१४२{४२} ॥
बुद्ध एव जगन्मित्रं सर्वसत्वसुखप्रदः ।
बुद्ध एव जगत्त्राता सर्वसत्वानुकंपकः ॥ २.१४३{४३} ॥
बुद्ध एव जगद्भर्ता धर्मार्थसुखसंप्रदः ।
बुद्ध एव जगच्छास्ता सर्वसत्त्वानुबोधकः ।
बुद्ध एव जगन्नाथो बोधिसंभारपूरकः ।
बुद्ध एव जगत्स्वामी संबोधिमार्गदेशकः ।
बुद्ध एव महावीरः सर्वमारप्रभंजकः ॥ २.१४४{४४} ॥
बुद्ध एव महासत्वः षडभिज्ञो जगत्प्रभुः ।
बुद्ध एव त्रिलोकेषु धर्मरूजा मुनीश्वरः ।
येनैव त्रिजगल्लोकं पालितं पुत्रवत्सदा ॥ २.१४५{४७!} ॥
स एव भगवान् बुद्धः सेवनीयः शुभार्थिभिः ।
येनैवं त्रिषु लोकेषु सर्वलोकाधिपेश्वरः ॥ २.१४६{४८} ॥
राजते जयते तेन सिद्धोऽयं धर्म्मराज्जिनः ।
यथा च त्रिषु लोकेषु बोधिचर्याः प्रकाशयन् ।
(र्म् ३०)
करोति भद्रतां नित्यं तथात्रापि करिष्यति ॥ २.१४७{१९} ॥
संस्थापयति सद्धर्मे यथा त्रैधातुवासिनः ।
सत्वान् प्रबोधयन्नस्मान्निवेशयेत्तथा खलु ॥ २.१४८{२०} ॥
ततः सर्वे वयं धृत्वा सद्धर्मं शुभदं शिवम् ।
यशोपुण्यसुखं भुक्त्वा यास्यामोऽन्ते सुखावतीम् ॥ २.१४९{२१} ॥
इति मत्वा तथास्माभिश्चन्दनोऽयं जिनेश्वरः ।
महत्सत्कारपूजाभिः सेवितव्यो मुदा सदा ॥ २.१५०{२२} ॥
इति संभाष्य तैः सर्वैस्तथेत्यभ्यनुमोदितैः ।
मंत्रिभिः सह राजा स प्रययौ तज्जिनाश्रमम् ॥ २.१५१{२३} ॥
तत्र प्राप्तः प्रविष्टश्च दृष्ट्वा तं चंदनं मुनिम् ।
कृतांजलिपुटो नत्वा चकार प्रार्थनामिति ॥ २.१५२{२४} ॥
नमस्ते भगवच्छास्तः वयं ते शरणं गताः ।
तत्प्रसन्नो भवास्माकं क्षन्तव्या चापराधता ॥ २.१५३{२४} ॥
यदवृष्टिः प्रवृत्तात्र तदस्मत्पापतः खलु ।
तत्पापपरिहाणाय सद्धर्मं देष्टुमर्हसि ॥ २.१५४{२६} ॥
तद्भवन्तं वयं सर्वे स्नापयित्वा ससांघिकान् ।
यथाशक्त्युपचारैश्च समिछामोऽर्चितुं पुरे ॥ २.१५५{२७} ॥
तत्प्रसीद मुनीन्द्रोऽसि यथास्माकं हितं भवेत् ।
तथास्मत्पुरमागत्वा शुभं कर्तुं समर्हसि ॥ २.१५६{२८} ॥
इति तेनार्थितं राज्ञा श्रुत्वा स चंदनो मुनिः ।
तूष्णीभूत्वा तथेत्येवमध्युवास स सांघिकः ॥ २.१५७{२९} ॥
ततः स नृपतिर्ज्ञात्वा तदधिवासितं मुनेः ।
पादौ नत्वा पुनर्दृष्ट्वा सहसा स्वं पुरं ययौ ॥ २.१५८{६०!} ॥
ततः पुरे च मार्गेषु शोधयित्वा समंततः ।
सुगंधिजलसंसिक्तमकारयन्महीतलम् ॥ २.१५९{६१} ॥
ततः पुष्पावकीर्ण्णं च कारयित्वा समंततः ।
ध्वजच्छत्रवितानैश्च तत्पुरं पर्य्यभूषयत् ॥ २.१६०{६२} ॥
ततस्तन्नगरे मध्ये कारयित्वा सरो वरम् ।
तद्गंधोदकसंपूर्णमकारयत्प्रशोभितम् ॥ २.१६१{६३} ॥
तत्र पुष्पाभिः संयुक्तं कृत्वा तीरे समंततः ।
छत्रध्वजपताकानि वितत्य पर्य्यमण्डयत् ॥ २.१६२{६४} ॥
(र्म् ३१)
आसनानि च प्रज्ञप्य ससंघस्य क्रमान्मुनेः ।
स्वर्णकुंभांश्च संस्थाप्य शुचिगंधाम्बुपूरितान् ॥ २.१६३{६५} ॥
ततो पूजोपचारां भोज्योपकरणानि च ।
साधयित्वोपसंस्थाप्य संगीतिसहितानि च ॥ २.१६४{६६} ॥
ततो राजा स सामात्यैः पौरिकैश्च समन्वितः ।
तं बुद्धं पुरमानेतुं जिनाश्रममगान्मुदा ॥ २.१६५{६७} ॥
तत्र स सहसा प्राप्तो दृष्ट्वा तं चन्दनं मुनिम् ।
कृतांजलिपुटो नत्वा गमनं प्रार्थयदिति ॥ २.१६६{६८} ॥
सर्वज्ञ भगवं गन्तुं समयो वर्त्ततेऽधुना ।
सर्वं च साधितं सिद्धं तदाश्वागन्तुमर्हसि ॥ २.१६७{६९} ॥
एवं तेनार्थिते राज्ञा स संबुद्धः ससांघिकः ।
पात्रचीवरमादाय प्रागात्तत्पुरसंमुखः ॥ २.१६८{७०} ॥
यदासौ भगवान् बुद्धाः प्रातिहार्य्यं प्रदर्शयन् ।
लोकान् भासावसंभास्य प्राचरन् प्राप्तगोपुरम् ॥ २.१६९{७१} ॥
तदाकम्पद्रसा साब्धिर्ववौ वायुः सुमंगलम् ।
क्षुत्पिपासा हता ये च ते सर्वे परितृप्तिताः ॥ २.१७०{७२} ॥
ये च हीनेन्द्रियाः सत्वास्ते च पूर्णेन्द्रिया बभुः ।
निर्धना धनिनाश्चासन् रोगिनो निरुजोऽभवन् ॥ २.१७१{७३} ॥
बंधनस्था विमुक्ताश्च दुःखिताः सुखिनोऽभवन् ।
उन्मत्ताः सुस्मृतिं प्राप्ता नग्ना आसन् सुवस्त्रिकाः ॥ २.१७२{७४} ॥
गुर्विण्या याश्च ताः सर्वाः प्रमदाः सुखसूतिकाः ।
चिरवैरानुसंबद्धा मैत्रीभूताः समाचरन् ॥ २.१७३{७५} ॥
ये च पापरताः सत्वा दशाकुशलचारिकाः ।
ते सर्वे परिसंतृप्ताः पुण्यकामाः प्रचेरिरे ॥ २.१७४{७६} ॥
एवमन्ये च ये तत्र पापका उपसर्गिकाः ।
ते सर्वे विलयं याताः ते सर्वे संशुभाङ्किताः ॥ २.१७५{७७} ॥
एवं सर्वप्रकारेण हत्वा सर्वममङ्गलम् ।
कृत्वा भद्रं च सर्वत्र ससंघः स पुरेऽविशत् ॥ २.१७६{७८} ॥
क्रमात्प्रदक्षिणेनैवं प्रचरित्वा महोत्सवैः ॥ २.१७७{७९} ॥
(र्म् ३२)
वंद्यमानस्तु तैः सर्वैः सदेवासुरमानवैः ॥ २.१७८{८०} ॥
तं नृपं पुरतः कृत्वा राजमार्गमुपासरन् ।
तत्सरोवरसंप्राप्तो दृष्ट्वा तीरे समाश्रयत् ॥ २.१७९{८१} ॥
ततः स भगवान् बुद्धो यथा प्रज्ञप्त आसने ।
एकचीवरकस्तस्थौ स्नातुं तत्र सरोवरे ॥ २.१८०{८२} ॥
ततो नृपादयः सर्वे लोकास्तं चंदनं मुनिम् ।
ससंघं स्नापयामासुः स्वर्णकुम्भाम्बुभिः क्रमात् ॥ २.१८१{८३} ॥
कृत्वा स्नानं ततोऽन्यत्र यथाप्रज्ञप्त आसने ।
ससंघो भगवान् तस्थौ स्वप्रभावं प्रदर्शयन् ॥ २.१८२{८४} ॥
अथ राजा स तं बुद्धं समासीनं ससांघिकम् ।
चीवरप्रावृतं कृत्वा पूजाङ्गैः समपूजयत् ॥ २.१८३{८५} ॥
ततश्च भोजनैः शुद्धैः प्रणीतैर्व्यञ्जनैरपि ।
पंचामृतैश्च पानैश्च सुतृप्तिं समतोषयत् ॥ २.१८४{८६} ॥
ततश्च भोजनांते संशोधयित्वा मुखादिकम् ।
नीचासने समासीनः कृतांजलिपुटो नृपः ॥ २.१८५{८७} ॥
सुप्रसन्नमुखाम्भोजः स मंत्रीजनपौरिकैः ।
नत्वा क्षमापयित्वा तं ससंघं प्रार्थयत्तथा ॥ २.१८६{८८} ॥
सर्वज्ञ भगवन्नाथ क्षमस्व नोऽपराधताम् ।
प्रसीद सर्वथा रक्ष दृष्ट्वास्मान् पापचारिणः ॥ २.१८७{८९} ॥
तद्दुर्भिक्षविनाशाय सुवृष्टिं चारय द्रुतम् ।
सर्वसत्वहितार्थाय सद्धर्मं च समादिश ॥ २.१८८{९०} ॥
इत्येवं प्रार्थिते तेन राज्ञा लोकहितार्थिना ।
संबुद्धो भगवांश्चैवं स्वाशीर्वचनमब्रवीत् ॥ २.१८९{९१} ॥
आरोग्यमस्तु ते राजन् सर्वत्रापि च मंगलम् ।
सुभिक्षं सर्वदाप्यत्र निर्विघ्नं बोधिमाप्नुहि ॥ २.१९०{९२} ॥
इति स्वाशीर्वचो दत्वा संबुद्धः स ससांघिकः ।
ततश्च स्वाश्रमं प्रागात्स नृपजनमन्वितः ॥ २.१९१{९३} ॥
एवमस्य मुनीन्द्रस्य त्रैमास्यं च निरंतरम् ।
तेनाकारि नृपेन्द्रेण सेवा सत्कारपूजनैः ॥ २.१९२{९४} ॥
ततः शक्रो महेन्द्रोऽसौ दृष्ट्वा तत्सुगतार्चिताम् ।
तद्दुर्भिक्षप्रशांत्यर्थं सुवृष्टिं समचारयत् ॥ २.१९३{९५} ॥
(र्म् ३३)
ततो जलाश्रयान्यम्बुपूरितानि समंततः ।
पद्मोत्पलादिपुष्पैश्च छन्नानि रुरुचुस्तदा ॥ २.१९४{९६} ॥
तृणैर्नवाङ्कुरोद्भूतं साद्वलैश्च प्ररूढितैः ।
प्रतिछन्ना हरिद्वस्त्रैः प्रावृतैव रराज भूः ॥ २.१९५{९७} ॥
वृक्षाश्चापि हरित्पत्रैः समाछन्नाः प्रशोभिताः ।
पुष्पैः प्रस्फुल्लितैरम्यैः फलैश्च संचकासिरे ॥ २.१९६{९८} ॥
क्रमाच्चैवं प्ररूढानि शस्यानि वर्द्धितानि च ।
परिनिष्पन्नसिद्धानि प्रविपेचुः समंततः ।
ततः सर्वे जनाश्चैवं संप्रयातां सुभिक्षताम् ।
दृष्ट्वानंदं समुच्चार्य्य प्रचेरिरे प्रहर्षिताः ॥ २.१९७{९९} ॥
अथ राजा स तान् सर्वान्महाहर्षप्रमोदितान् ।
दृष्ट्वा भूयः समामंत्र्य वभाष संप्रबोधयन् ॥ २.१९८{१००} ॥
भवन्तो दृश्यतामस्य संबुद्धस्यानुभावता ।
यस्य पुण्यानुभावेन प्रजातैव सुभिक्षता ॥ २.१९९{१} ॥
तस्मान्नित्यं तथैवास्य संबुद्धस्य जगत्प्रभोः ।
महत्सत्कारपूजाभिः कर्त्तव्यं भजनं सदा ॥ २.२००{२} ॥
एवं यदि सदा चास्य संबुद्धस्य जगत्प्रभोः ।
पूजाभिः सत्करिष्यन्ति सदात्र मंगलं भवेत् ॥ २.२०१{३} ॥
तस्मादस्य मुनीन्द्रस्य नखकेशविदर्भितः ।
गन्धस्तूपः प्रतिस्थाप्य सेवितव्यः सदार्चनैः ॥ २.२०२{४} ॥
इति संभाष्य राजासौ तैस्तथेत्यनुमोदितैः ।
सह बौद्धाश्रमं गत्वा नत्वा तं प्रार्थयन्मुनिम् ॥ २.२०३{५} ॥
नमस्ते भगवं छास्तर्वयं ते शरणस्थिताः ।
सदा चैवं करिष्यामो भवत्सेवामुपास्थिताः ॥ २.२०४{६} ॥
तत्प्रसीद सदा पात्र विहृत्य धर्ममादिशन् ।
विजयस्व न चान्यत्र मा व्रज नोऽनुकंपया ॥ २.२०५{७} ॥
तेनैवं प्रार्थिते राज्ञा भगवांश्च स चंदनः ।
(र्म् ३४)
तं नृपं सजनं दृष्ट्वा प्रसन्नास्योऽब्रवीत्तथा ॥ २.२०६{८} ॥
नैव राजन्मया बोधिरेकस्यार्थे प्रसाधिता ।
अपि च सर्वसत्वानां हितार्थे ह्यनुकंपिना ॥ २.२०७{९} ॥
तस्मादत्र सदा नैव स्थास्याम्यहं ससांघिकः ।
सर्वत्रापि चरेयाहं सद्धर्मं संप्रकाशितुम् ॥ २.२०८{१०} ॥
यदि मे श्रद्धया नित्यं सेवां कर्तुं समिछथ ।
केशस्तूपं प्रतिस्थाप्य सेव्यत सर्वदार्चनैः ॥ २.२०९{११} ॥
ततस्तेऽत्र सदा राज्ये सुभिक्षं मंगलं भवेत् ।
दुर्भिक्षता च कुत्रापि नाक्रमिष्यति कदा चन ॥ २.२१०{१२} ॥
इति मत्वा त्वया गत्वा त्रिरत्नशरणं स्वयम् ।
सर्वसत्वाश्च सद्धर्मे प्रेरणीयाः प्रयत्नतः ॥ २.२११{१३} ॥
इत्यादिश्य मुनींद्रोऽसौ छित्वा स्वान्नखरांस्तथा ।
केशांश्चाप्यवतार्य्यैवं तस्मै राज्ञे स्वयं ददौ ॥ २.२१२{१४} ॥
ततो राजा स तं बुद्धं नत्वा केशां नखांश्च तान् ।
समादाय प्रहर्षेण प्रत्याययौ स्वमालयम् ॥ २.२१३{१५} ॥
तत्र प्राप्तः पुरे मध्ये पुष्करिण्यास्तटान्तिके ।
तत्केशनखरान् रोप्य गंधस्तूपमकारयत् ॥ २.२१४{१६} ॥
तस्मिं सिद्धे प्रतिस्थाप्य विधिना च महोत्सवैः ।
नित्यं सत्कारपूजाभिः सेवां चक्रे प्रसन्नधीः ॥ २.२१५{१७} ॥
एतत्पुण्यानुभावेन लोकेऽंधेऽपरिणायके ।
जगल्लोके हितं कर्तुं भवेयं सुगतस्तथा ॥ २.२१६{१८} ॥
इति धृत्वा प्रचित्तेऽसौ प्रणिधानं नराधिपः ।
गंधजलैश्च तं स्तूपं स्नापयित्वा सदार्चयत् ॥ २.२१७{१९} ॥
प्रतिस्थाप्य महं चापि गत्वा च शरणे मुदा ।
अष्टांगैश्च प्रणत्वैवं महोत्साहैरसेवयत् ॥ २.२१८{२०} ॥
तथा सर्वे जनाश्चापि श्रद्धया तं प्रभेजिरे ।
ये गताः शरणं तत्र ते सर्वे निर्वृतिं ययुः ॥ २.२१९{२१} ॥
अहमेवावसिष्टः स तेषां योऽभून्नराधिपः ।
संबोधिप्रणिधिं धृत्वा नैवं निर्वाणमाययौ ॥ २.२२०{२२} ॥
(र्म् ३५)
एतत्पुण्यानुभावैश्च सुवृष्टिः संप्रचारिता ।
सर्वदाप्यभवत्तत्र सुभिक्षं निरुपद्रवम् ॥ २.२२१{२३} ॥
एतद्धर्मानुभावैश्च सर्वत्र सांप्रतं लभे ।
पूजासत्कारमान्यानि यशोधर्मसुखानि च ॥ २.२२२{२४} ॥
यत्र यत्र प्रगछामि तत्र तत्र समंततः ।
इत्थं सत्कारपूजाभिर्मानितोऽहं ससांघिकः ॥ २.२२३{२५} ॥
तच्छास्तारं समाराध्य यशोधर्मसुखेप्सुभिः ।
शुभेषु सर्वदा नित्यं चरितव्यं प्रयत्नतः ॥ २.२२४{२६} ॥
शुभेन सुखता नित्यं भवेल्लोके समंततः ।
पापेन दुःखता चैवं मिश्रितेनापि मिश्रिता ॥ २.२२५{२७} ॥
तस्मात्पापं विरम्यैवं मिश्रितानि विहाय च ।
शुभेष्वेव प्रयत्नेन चरितव्यं सुखार्थिभिः ॥ २.२२६{२८} ॥
इत्यादिष्टं मुनीन्द्रेण सर्वे ते सांघिकास्तथा ।
श्रुत्वा प्रमेनिरे सत्यं कर्मभावं भवालये ॥ २.२२७{२९} ॥
पापेभ्यो विरता नित्यं मिश्रितेभ्योऽपि ते सदा ।
सदा शुभेषु निरताः सर्वे संचेरिरे समाहिताः ॥ २.२२८{३०} ॥
एवं राजंस्त्वया नित्यं पापाच्च मिश्रितादपि ।
विरम्य सर्वथा धर्मे चरितव्यं सुखाप्तये ॥ २.२२९{३१} ॥
प्रजाश्चापि विनिर्वार्य्य सर्वथा पापचारणात् ।
श्रावयित्वा च सद्धर्मं योजनीयाः शुभे सदा ॥ २.२३०{३२} ॥
तथा ते सर्वदा नित्यं सर्वत्र विषयेष्वपि ।
सुवृष्टिः प्रचरेच्चैवं मंगलं निरुपद्रवम् ॥ २.२३१{२३!} ॥
इति तेन समादिष्टमुपगुप्तेन शासिना ।
श्रुत्वाशोको नृपोऽस्त्वेवमित्यनन्दत्सपार्षदः ॥ २.२३२{२४} ॥
स्नातावदानं तदिदं निशम्य ये श्रावयन्ति प्रतिबोध्य लोकान् ।
ते पापनिर्मुक्तविशुद्धदेहाः प्रयान्ति नूनं सुगतालयेषु ॥ २.२३३{२५} ॥
++ इति रत्नावदानमालायां स्नातावदानं समाप्तम् ++
(र्म् ३६)
इइइ चक्रावदान
अथाशोको नरेन्द्रोऽसौ भूयो नत्वा कृतांजलिः ।
उपगुप्तं गुरुं प्राह श्रोतुमन्यत्सुभाषितम् ॥ ३.१{१} ॥
भदन्त श्रोतुमिछामि भूयोऽप्यन्यत्सुभाषितम् ।
यथा ते गुरुणा ख्यातं तथा मे वक्तुमर्हसि ॥ ३.२{२} ॥
इति तेनार्थिते राज्ञा भूयोऽप्यसौ जिनांशजः ।
उपगुप्तो यतिर्भिक्षुस्तं नृपमेवमब्रवीत् ॥ ३.३{३} ॥
यथा मे गुरुणादिष्टं वक्ष्येऽहं ते सुभाषितम् ।
साधु चित्तं समाधाय शृणु राजन् समाहितः ॥ ३.४{४} ॥
यः पुरासीन्महाबुद्धः सर्वज्ञः श्रीघनो जिनः ।
सर्वविद्याकलाभिज्ञो धर्मराजस्तथागतः ॥ ३.५{५} ॥
शास्तार्हन् सुगतो नाथस्त्रैधातुकविनायकः ।
स शाक्याधिपतिर्लोके हिताय च समंततः ॥ ३.६{६} ॥
सद्धर्मदेशनां कृत्वा बोधिमार्गं प्रकाशयन् ।
भिक्षुश्रावकसंघैश्च बोधिसत्वैश्च सांघिकैः ॥ ३.७{७} ॥
उपासिकागणैश्चैवमुपासकगणं सह ।
राजगृहमुपाश्रित्य वेणुवने जिनाश्रमे ॥ ३.८{८} ॥
कलंदके निवापाख्ये महोद्याने समाश्रितः ।
आदिमध्यांतकत्याणं दिदेश धर्ममुत्तमम् ॥ ३.९{९} ॥
तद्धर्मदेशनां श्रोतुं देवासुरमनुष्यकाः ।
यक्षकिन्नरगंधर्वाः सिद्धविद्याधरादयः ॥ ३.१०{१०} ॥
गरुडा नागराजाश्च महाहर्षसमन्विताः ।
ब्राह्मणा क्षत्रियाश्चैव राजानो राजपुत्रकाः ॥ ३.११{११} ॥
वैश्याश्च श्रेष्ठिनः शूद्रा मंत्रिणो मातृकाजनाः ।
सार्थवाहाश्च पौराश्च धनिनश्च वणिग्जनाः ॥ ३.१२{१२} ॥
एवमन्येऽपि लोकाश्च सर्वे ते संप्रहर्षिताः ।
महत्सत्कारपूजाभिः सर्वोपकरणैस्तथा ॥ ३.१३{१३} ॥
(र्म् ३७)
पूजयित्वा प्रवंदित्वा संबुद्धं सुगतं मुनिम् ।
परिवृत्य पुरस्कृत्य तस्थौ सर्वान्य तस्थिरे ॥ ३.१४{१४} ॥
सद्धर्मवांछिताः सर्वे श्रोतुं तत्र समागताः ॥ ३.१५{१५} ॥
तस्मिंश्च समये पूर्य्यां श्रावस्त्यां सुभगो वणिक् ।
अन्यत्तमः सार्थवाह आसीन्महाधनः सुधीः ॥ ३.१६{१६} ॥
तेन भार्य्या सुभद्रांगी जातिधर्मसमानिका ।
परिणीता कुलस्थित्यै कुलधर्मानुसारतः ॥ ३.१७{१७} ॥
ततस्तौ दंपती रक्तौ स्नेहानुबन्धितौ मुदा ।
यथाकामं प्रभुंजानौ सन्रमाते यथेछया ॥ ३.१८{१८} ॥
ततस्तस्य गृहस्थस्य भोग्येष्वेवाभिरागिणः ।
स्वकुलवृत्तिधर्मेषु प्रमादादनपेक्षिणः ॥ ३.१९{१९} ॥
व्यवहारे विरक्तस्य प्रोद्यमरहितस्य च ।
अर्जनोपायमंदस्य केवलं व्ययकुर्वतः ॥ ३.२०{२०} ॥
दिने दिने क्रंान्नित्यमतिव्ययान्निरागमत् ।
संपदः क्षीणतां याता ग्रिष्मकाल इव ह्रदाः ॥ ३.२१{२१} ॥
ततस्तस्य गृहस्थस्य भार्या या कुलधर्मिका ।
संपदः क्षीनतां दृष्ट्वा गृहे चैवं व्यचिन्तयत् ॥ ३.२२{२२} ॥
अयं मे पुरुषो भर्त्ता सार्थवाहो वणिक्धनी ।
भाग्यमेव गृहे भुक्त्वा निवसति निरुद्यमः ॥ ३.२३{२३} ॥
अत्यर्थव्ययता यत्र विद्यते न तथागमः ।
सा च संपत्कियत्कालं तिष्ठेत्क्षीणं व्रजेत्क्रमात् ॥ ३.२४{२४} ॥
तदयं पुरुषश्चापि कथं सुस्थो भविष्यति ।
केन संधार्य्यते लोकैर्विहीने भोग्यसंचये ॥ ३.२५{२५} ॥
वृद्धोऽप्ययं भवेन्नूनं दरिद्रोऽपि भवेत्तथा ।
तदा किं परिभुक्त्वैवं गृहे तिस्थेत्कथं सुखी ॥ ३.२६{२६} ॥
यस्य संपद्गृहे नास्ति कथं स पुरुषः सुखी ।
(र्म् ३८)
स्वयं भोक्तुं न शक्तः स्यात्किं पुनर्दानमाचरेत् ॥ ३.२७{२७} ॥
दानं विना न संसारे किं सारसुखमाप्स्यते ।
दानेनैव हि लभ्यन्ते यशोधर्मसुखानि च ॥ ३.२८{२८} ॥
दानेन शुद्ध्यते चित्तं शुद्धचित्तो भवेत्सुधिः ।
सुधिया साध्यते शीलं शीलवान् स्याच्छुभंकरी ॥ ३.२९{२९} ॥
शुभकर्मा च सद्धर्मं कृत्वा यास्यति सद्गतिम् ।
तस्मादहमिमं नाथं भर्त्तारं पुरुषं प्रभुम् ॥ ३.३०{३०} ॥
सद्धर्मसुखसंप्राप्त्यै प्रेरयेयं धनार्जने ।
धनवान् पुरुषो लोके सर्वार्थसाधने कृती ॥ ३.३१{३१} ॥
धर्मार्थकाममोक्षाणां मूलं प्राहुर्धनं बुधाः ।
भर्तुर्हि पुरुषस्यापि त्रिवर्गकार्य्यसाधने ॥ ३.३२{३२} ॥
सहायः कथ्यते प्राज्ञैः सती भार्य्यानुचारिणी ।
अस्य भर्तुर्ह्यहं भर्य्या सती धर्मार्थसाधने ॥ ३.३३{३३} ॥
मनः प्रोत्साहितं कृत्वा प्रेरयेयं धनार्जने ॥ ३.३४{३४!} ॥
इति निश्चित्य सा साध्वी दृष्ट्वा भर्त्तारमादरात् ।
धर्मार्थसाधने चैवं प्रोत्साहयितुमब्रवीत् ॥ ३.३५{३४!} ॥
स्वामि भर्त्तासि मे नाथो देवतापि त्वमेव हि ।
तन्मया वक्ष्यते तथ्यं परत्रेह सुखाय ते ॥ ३.३६{३५} ॥
तथ्यं च तच्छृणुष्वैवमन्यथा चेत्तु मा कुरु ॥ ३.३७{३६} ॥
यद्भवान् पुरुसः प्राढ्यः सार्थवाहो वणिक्प्रभुः ।
सदा भोग्यानि भुक्त्वैव स्थित्वा नैवं प्रशोभति ॥ ३.३८{३७} ॥
तत्प्रमादं परित्यक्त्वा यशोधर्मसुखाप्तये ।
सत्यधर्मानुसारेण कुरुष्व धनसाधनम् ॥ ३.३९{३८} ॥
धनेन साधयेद्भोग्यं भोग्येन पालयेत्तनुम् ।
देहेन साधयेद्धर्मं धर्मेण सत्सुखं लभेत् ॥ ३.४०{३९} ॥
किं च यत्र गृहे स्वामी व्यवहारनिरुद्यमः ।
तत्र सर्वे जनाश्चापि निषत्स्यंत्यवसादिनः ॥ ३.४१{४०} ॥
अपि यत्र गृहे स्वामी व्यवहारसमुद्यतः ।
तत्र सर्वे जनाश्चैव प्रचरेयुः समुद्यमाः ॥ ३.४२{४१} ॥
यच्च दानमहोत्साहं यत्र गेहे न विद्यते ।
स किं गेहो न रम्यः स्याच्छून्यारण्ये श्मशानवत् ॥ ३.४३{४१!} ॥
(र्म् ३९)
यस्मिन् गृहे सदा नित्यं दानपुण्यमहोत्सवम् ।
स एव मन्दिरो रम्यस्वर्गवत्प्रतिभास्यते ॥ ३.४४{४२} ॥
यस्मिंश्चापि गृहस्थो हि दानपुण्यनिरुत्सहः ।
स्वयमेव प्रभुक्त्वैवं वसते पशुवत्स किम् ॥ ३.४५{४३} ॥
धन्यास्ते पुरुषा वीरा यशोधर्मसुखान्विताः ।
कृत्वा दानवृषोत्साहं सुखं भुक्त्वा वसंति ये ॥ ३.४६{४४} ॥
तेषामेव हि संसारे सुसारं जीवितं खलु ।
ये कृत्वा दानपुण्यानि स्वयं सौख्यं च भुंजते ॥ ३.४७{४५} ॥
दानेनैव हि लोभ्यंते यशोधर्मसुखानि च ।
अन्यथा नैव लप्स्यन्ते ततः संपन्निरर्थिता ॥ ३.४८{४६} ॥
कियत्कालं च जीवेयुर्ये भुक्त्वैव सुखं स्थिताः ।
अवश्यं सर्वशो हित्वा मृता यायुर्यमालयम् ॥ ३.४९{४७} ॥
तत्र कर्मसहायांस्तान् दृष्ट्वा धर्माधिपो यमः ।
निर्णयित्वा च तत्कर्म प्रेरयेत्कर्मभुक्तये ॥ ३.५०{४८} ॥
ये च पापकरा दुष्टा प्रेरयेत्तान् तु दुर्गतौ ।
ये तु पुण्यकरा भद्राः प्रेरयेत्तांश्च सद्गतौ ॥ ३.५१{४९} ॥
तत्र कर्मफलान्येवं दुःखानि च ।
सुखानि च सर्वथेह परत्रापि भुंजते सर्वजांतवः ॥ ३.५२{५०} ॥
शुभेन सद्गतिं ययाद्यशोधर्मसुखान्विताः ।
पापेन दुर्गतिं यायाद्धिक्प्रवादासुखान्विताः ॥ ३.५३{५१} ॥
एवं मत्वा प्रभो स्वामिन् यशोधर्मसुखाप्तये ।
स्वकुलवृत्तिमाधाय प्रोद्यमस्व धनार्जने ॥ ३.५४{५२} ॥
सदा दानमहोत्साहं कृत्वा सद्गतिलब्धये ।
यथेछया सुखं भुक्त्वा पालयस्व सदा जनान् ॥ ३.५५{५३} ॥
ततस्ते मंगलं नित्यं भवेदिह परत्र च ।
सफलं मानुषं जन्म नूनं सद्गतिमाप्नुयात् ॥ ३.५६{५४} ॥
इति भार्यावचः श्रुत्वा स गृहस्थो वणिक्सुधीः ।
भार्यां तां वल्लभां कान्तां दृष्ट्वा चैवं समब्रवीत् ॥ ३.५७{५५} ॥
अयि प्रिये सुभद्रासि मम भार्यानुचारिणी ।
यत्त्वया भाषितं सत्यं तत्करिष्यामि सर्वथा ॥ ३.५८{५६} ॥
किं तु त्वं मे प्रिया भार्या वल्लभातिमनोहरा ।
तत्कथं त्वां प्रियां त्यक्त्वा कुत्र यास्ये धनार्थतः ॥ ३.५९{५७} ॥
(र्म् ४०)
सार्थवाहो ह्यहं चापि तत्कथं नीचवृत्तिभिः ।
रत्नार्जनं करिष्यामि ततो रत्नाकरं व्रजे ॥ ३.६०{५८} ॥
तस्मात्प्रिये सुभद्रांगी सति धर्मानुचारिणी ।
गृहकार्य्यं समाधार्य्य वस भुक्त्वा यथासुखम् ॥ ३.६१{५९} ॥
यावन्नाहं गृहे प्राप्तस्तावद्धैर्य्यं समाश्रय ।
शीघ्रमेवागमिष्यामि मं स्मृत्वा मान्वतप्यथाः ॥ ३.६२{६०} ॥
इति भर्त्तोदितं श्रुत्वा सा च भार्यानुतापिता ।
गलदश्रुमुखी नत्वा स्वामिनं तमभाषत ॥ ३.६३{६१} ॥
हे नाथ सुप्रिय स्वामिन्मां विहाय कथं व्रजेः ।
त्वया विना कथं गेहे तिष्ठेयाहं यथा वने ॥ ३.६४{६२} ॥
दर्शने श्रवणे वापि गंधतैलानुलेपने ।
स्पर्शने भोजने पाने सुवस्त्रपरिभूषणे ॥ ३.६५{६३} ॥
सौरभ्याऽङ्गने चापि भाषने गमने क्वचित् ।
निद्राभोगे तथा नैव विद्येत मेऽभिलाषता ॥ ३.६६{६४} ॥
तवैव स्मरणं कृत्वा निःश्वसन्ती मुहुर्मुहुः ।
विरहानलसंतप्ता व्रजेयं मरणं ध्रुवम् ॥ ३.६७{६५} ॥
मृतायां मयि ते गेहे कोऽनुरक्षेन्नु संपदः ।
श्रुत्वा मे मरणं नूनं धक्ष्यसे विरहानलैः ॥ ३.६८{६६} ॥
तदैताभिश्च संपत्तिरत्नैश्च किं करिष्यसि ।
अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्यति ॥ ३.६९{६७} ॥
तदात्मना विखिद्यैवं दूरं मा गा विहायताम् ।
गृहे स्थित्वा मया सार्द्धां सुखं भुक्त्वोद्यमं कुरु ॥ ३.७०{६८} ॥
अत्रापि बहवः सन्ति वणिक्संघा महाजनाः ।
पण्यं प्रसार्य्य तं सार्द्धं साधयस्व धनं सुखम् ॥ ३.७१{६९} ॥
कियत्कालं च जीवेव सन्ततिश्च न विद्यते ।
तत्किं नौ बहुभी रत्नैर्मा गा रत्नाकरं ह्यतः ॥ ३.७२{७०} ॥
यावज्जीवं सुखं भुक्त्वा दानं कृत्वा सदार्थिने ।
संवृत्या प्रार्जय द्रव्यं स्वगेहे संस्थितो रम ॥ ३.७३{७१} ॥
मा धाव प्रिय कुत्रापि किं वा रत्नाकरे लभेत् ।
स्वगृहेऽपि लभेज्जन्तुः स्वकर्मनिर्मितं धनम् ॥ ३.७४{७२} ॥
स्वकृतं कर्म तद्भावि निर्माणसदृशं फलम् ।
(र्म् ४१)
सर्वत्रापि लभन्त्येव महान्तः क्षुद्रिका अपि ॥ ३.७५{७३} ॥
तथा ये सुजना लोके सधना सद्गुणाश्रयाः ।
तेऽपि क्षणाद्भवन्त्येव निर्धना भिक्षुताश्रिताः ॥ ३.७६{७४} ॥
ये चापि दुर्जना लोके निर्धना निर्गुणाश्च ये ।
तेऽपि लभन्ति मान्यार्हं सेव्यन्ते चापि सज्जनैः ॥ ३.७७{७५} ॥
तथा ये वणिजो धीराः सार्थवाहा मणीछया ।
रत्नाकरं गतास्तेषां के चित्स्वस्तिसमागताः ॥ ३.७८{७६} ॥
के चित्तत्र समुद्रे वा भग्ननौका धनैः सह ।
पतिताः सन्निमज्जन्ता मृताश्च विलयं गताः ॥ ३.७९{७७} ॥
के चिद्वीर्यबलेनैवैः समुत्तीर्य प्रयत्नतः ।
अकिंचन्याः परिभ्रष्टा रिक्तहस्ता गृहागताः ।
एवं सर्वेऽपि सत्वाश्च स्वकृतकर्मनिर्मितम् ।
फलं भुक्त्वा भ्रमन्त्येवं संसारे षड्गतिष्वपि ॥ ३.८०{७८} ॥
इति कर्मप्रमाणत्वं ज्ञात्वा संपद्विपत्तिता ।
मा खेदय स्वमात्मानं धर्मं कृत्वा सुखं वस ॥ ३.८१{७९} ॥
तथा नौ मंगलं नित्यं सर्वत्रापि भवेत्खलु ।
यावज्जीवं सुखं भुक्त्वा सद्गतिं च व्रजेमहि ॥ ३.८२{८०} ॥
इति भार्योदितं श्रुत्वा सार्थवाहात्मजः स च ।
तं प्रियां रमणीं भार्य्यां दृष्ट्वैवं समभाषत ॥ ३.८३{८१} ॥
भद्रे सत्यं त्वं या प्रोक्तं यत्स्वकर्मप्रमानता ।
इति मत्वाहमिछामि गन्तुं रत्नाकरेऽपि हि ॥ ३.८४{८२} ॥
यदभावि न तद्भावि भावि चेन्न तदन्यथा ।
सर्वत्रापि भवेन्नूनं तेनाब्धिं गन्तुमीह्यते ॥ ३.८५{८३} ॥
यदि भाग्यं ममास्त्येवं स्वस्ति स्याद्गमने खलु ।
रत्नानि बहुशो लब्धा प्रत्यागछेय सिद्धिताः ॥ ३.८६{८४} ॥
अथ मे भाग्यता नैव नूनं तत्र विपत्तिता ।
महत्तीर्थे निमग्नोऽहं मृतो यास्ये सुरालयम् ॥ ३.८७{८५} ॥
यथा भट्टा महावीरा यशोधर्मसुखाप्तये ।
शत्रुं जेतुं महोत्साहैर्विशन्ति रणमण्डले ॥ ३.८८{८६} ॥
तत्र के चिद्धता वीरा यशोधर्मान्विता मृताः ।
सहसा ते प्रयान्त्येवं स्वर्गसौख्यानुभोगिनः ॥ ३.८९{८७} ॥
अहमपि वणिक्पुत्रः सार्थवाहात्मजो ह्यहम् ।
(र्म् ४२)
तत्तथाहं गंिष्यामि रत्नाकरं न चान्यतः ॥ ३.९०{८८} ॥
यदि स्वस्ति गृहं प्राप्स्ये यशोरत्नसुखान्वितः ।
मृतोऽथ निर्मलीभूत्वा स्वर्गे सौख्यमवाप्नुयाम् ॥ ३.९१{८९} ॥
इति मत्वा प्रिये भद्रे मा विषीद सुखां वस ।
यावन्नाहं गृहं प्राप्तस्तावद्भजेष्टदेवताम् ॥ ३.९२{९०} ॥
सर्वथाहं गमिष्यामि स्वकुलकीर्तिलब्धये ।
अनिवर्त्ती ह्यहं कार्य्ये तन्मां त्वं मा निवारय ॥ ३.९३{९१} ॥
इति भर्त्तुर्वचः श्रुत्वा निर्बन्धं गमनं प्रति ।
सा सती तं स्वभर्त्तारं नत्वा प्राह कृतांजलिः ॥ ३.९४{९२} ॥
स्वामिंस्त्वं सर्वथा गन्तुं यदीछसि महाम्बुधिम् ।
धैर्य्यमालम्व्य संपश्यन्मार्गे व्रज समाहितः ॥ ३.९५{९३} ॥
स्वस्ति ते व्रजतो मार्गे सर्वत्रापि दिवानिशम् ।
स्वस्ति प्रत्यागते चैवं भूयान्नित्यं शुभं सदा ॥ ३.९६{९४} ॥
यात्रासिद्धिमहासंपद्यशोधर्मसुखान्वितः ।
स्वस्ति शीघ्रं समागछ व्रजा तेऽस्तु सदा शिवम् ॥ ३.९७{९५} ॥
इति भार्योदितं श्रुत्वा सार्थवाहस्तथेति सः ।
प्रतिज्ञाय वंक्संघान् सर्वानाहूय चाब्रवीत् ॥ ३.९८{९६} ॥
भवन्तोऽहं समिछामि योशोधर्मसुखाप्तये ।
स्वकुलवृत्तिमाधाय गन्तुं रत्नाकरांबुधौ ॥ ३.९९{९७} ॥
तत्र गन्तुं मया सार्द्धं यदि यूयं समिछथ ।
तत्पण्यं सहसादाय समायात चरेमहि ॥ ३.१००{९८} ॥
इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा ।
सहसा पण्यमादाय तत्र गन्तुमुपाक्रमन् ॥ ३.१०१{९९} ॥
अथ सार्थपतिः शीघ्रं तैश्च पंचशतैः सह ।
स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ ३.१०२{१००} ॥
ततः क्रमादतिक्रम्य ग्रामजनपदानि ते ।
विलंघ्यारण्यदेशांश्च तीरं प्रापुर्महोदधेः ॥ ३.१०३{१} ॥
ततो नावं समारुह्य तानि पंचशतानि च ।
प्रवितत्य ध्वजं शुभ्रं जगाहिरेऽम्बुधौ क्रमात् ॥ ३.१०४{२} ॥
तथा ते वहनारूढा वातानुकूलतो ध्रुवम् ।
क्रमाद्द्वीपांश्च लंघित्वा रत्नाकरं समाययुः ॥ ३.१०५{३} ॥
तत्र रत्नाकरं प्राप्ता देवता सुप्रमोदतः ।
ते मिथः कलहं कृत्वा प्रत्यागंतुं न शेकिरे ॥ ३.१०६{४} ॥
(र्म् ४३)
चिरमेवं विरोधित्वाद्रत्नानि च न लेभिरे ।
बांधवांश्च मुहुः स्मृत्वा तस्थुः सर्वे विलंविताः ॥ ३.१०७{५} ॥
अत्रांतरे च सा नारी सार्थवाहप्रिया सती ।
भर्त्त्रा विना गृहं शून्यममन्यत निरुत्सवात् ॥ ३.१०८{६} ॥
यद्दिने प्रस्थितो भर्ता सार्थवाहः पुराद्वहिः ।
तद्दिनारभ्य सा नारी गणयन्ती दिनं प्रति ॥ ३.१०९{७} ॥
भर्त्तुरेव मुहुः स्मृत्वा विरहवेदनातुरा ।
निःश्वसन्ती मुहुश्चैवमधैर्य्या परितापिनी ॥ ३.११०{८} ॥
कृशाङ्गा पाण्डुवर्णा च विरुक्षाकीर्णकेशिनी ।
प्रसाधनानभीछन्ती मलिनवसनावृता ॥ ३.१११{९} ॥
दर्शनश्रवणे चापि गंधान्वाहरणेऽपि च ।
भोजनेष्वपि पाने च स्पर्शने गमनेष्वपि ॥ ३.११२{१०} ॥
कुतूहरे तथान्यत्र मनोरमेऽपि चाद्भुते ।
सर्वत्र विषयेष्वेवं न प्रोत्सहे यथातुरा ॥ ३.११३{११} ॥
भर्त्तुर्वियोगदुःखार्त्ता रोगिनीव विषादिनी ।
असह्यमदनाक्रान्ता धैर्य्योपायविचेतना ॥ ३.११४{१२} ॥
भर्तुरागतिमालम्ब्य क्षणं धैर्य्यसमाश्रिता ।
भर्तारमेव संस्मृत्वा गृह एव न्यषीदत ॥ ३.११५{१३} ॥
न निद्रां शयने भेजे नान्यस्मृतौ मनोऽनुदत् ।
प्रभुमेवं समाध्यात्वा तस्थौ ध्यायीव योगवित् ॥ ३.११६{१४} ॥
अथैवं विकलीभूतां यौवनीं तां पतिव्रताम् ।
काचिदेका सखी भद्रा संनिरीक्ष्याब्रवीद्रहः ॥ ३.११७{१५} ॥
भद्रे किन् ते विषाद त्वं विभासि त्वैः यथातुरा ।
मा विषीद यदर्थन् ते तद्वदस्व मयि प्रिये ॥ ३.११८{१६} ॥
कथं नोत्सहसे भद्रे स्वकुलधर्मचारिणि ।
कौतुके चाद्भुते चापि सर्वत्र विषयेष्वपि ॥ ३.११९{१७} ॥
भोजने भूषणे चापि द्रष्टुं श्रोतुं न वांछसि ।
किं विषादेन सिद्धं ते तत्प्रभुक्ष्व यथासुखम् ॥ ३.१२०{१८} ॥
(र्म् ४४)
इति तयोदिते सख्या सार्थवाहप्रियापि स ।
तां सखीं प्रमदां कान्तां दृष्ट्वा चैवमभाषत ॥ ३.१२१{१९} ॥
नाहं भोगार्थिनी भद्रे नापि कामातिरागिणी ।
किं तु धर्मानुरक्तास्मि तत्कथं स्वामिनं विना ॥ ३.१२२{२०} ॥
तेनाहं विषयां त्यक्त्वा स्मृत्वा भर्त्तारमेव तम् ।
स्वागार एव तिष्ठामि भोग्येष्वपि च निस्पृहा ॥ ३.१२३{२१} ॥
कदा स मे प्रियो भर्त्ता गृहे प्रत्यासरिष्यति ।
इति चिंतां समाधाय तिष्ठामि योगिनी यथा ॥ ३.१२४{२२} ॥
यावच्च स प्रियः स्वामी नायाति स्वगृहं प्रति ।
तावदेवं न भोक्ष्येऽहं भोग्यानि सुरसान्यपि ॥ ३.१२५{२३} ॥
विषयेष्वपि सर्वेषु न मे वांछा प्रियं विना ।
नान्यच्चिंता च मे चित्ते तस्मादेवं स्थिता सदा ॥ ३.१२६{२४} ॥
यावत्स्वामी न मे दृष्टस्तावत्स्थास्याम्यहं तथा ।
अपि मे जिवितं यातु न च यायां गृहाद्बहिः ॥ ३.१२७{२५} ॥
स्त्रीणां हि देवता स्वामी धर्मोऽपि भर्तृसेवया ।
तस्मात्स्मृत्वैव भर्त्तारं भाजाम्यहं पतिव्रता ॥ ३.१२८{२६} ॥
कुत्र धर्मं चरिष्यामि यस्या नास्ति गृहे पुमान् ।
तत्मनसैव भर्त्तारं ध्यात्वा भजे दिवानिशम् ॥ ३.१२९{२७} ॥
धिग्मे जन्म निरर्थं स्याद्यस्या न यौवने पतिः ।
वृद्धत्वे किं करिष्यामि स्वामिना च धनैरपि ॥ ३.१३०{२८} ॥
वरमेवाद्य मे मृत्युर्न मिथ्या चिरजीवितम् ।
यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव हि ॥ ३.१३१{२९} ॥
यमेवालंव्य जीवामि स यदि नागमिष्यति ।
किमेव जीवितेनापि केवलदुःखभाविना ॥ ३.१३२{३०} ॥
धन्यास्ता हि स्त्रियो भद्राः स्वस्वामिसहचारिकाः ।
कृत्वा धर्मं सदा गेहे सौख्यं भुक्त्वा वसन्ति याः ॥ ३.१३३{३१} ॥
मा भूत्तु मादृशि काचिदभद्रा दुःखभागिनी ।
सम्यग्भोग्यैश्च किं तस्या यस्या भर्त्ता न यौवने ॥ ३.१३४{३२} ॥
तथापि किं करिष्यामि नार्य्यहं हि पतिव्रता ।
तस्मात्तमेव भर्त्तारं स्मृत्वा स्थास्यामि सर्वदा ॥ ३.१३५{३३} ॥
(र्म् ४५)
इति तयोदितं श्रुत्वा सा सखी हितकारिणी ।
तदुपायहितं कर्तुं तां सखीं च समब्रवीत् ॥ ३.१३६{३४} ॥
भद्रे सत्यं त्वया प्रोक्तं स्त्रीणां हि देवता पतिः ।
तथापि वक्ष्यते भद्रे तव प्रीत्या च तच्छृणु ॥ ३.१३७{३५} ॥
यावन्निवसते गेहे भर्ता कामरसारतः ।
तावत्स्त्री सेवयेन्नित्यं धर्मं भर्तुरनुज्ञया ॥ ३.१३८{३६} ॥
यदा भर्त्ता गृहे न स्याद्दूरदेशं गतस्तथा ।
यावद्गृहं न चायातस्तावद्देवं भजेत्पतिः ॥ ३.१३९{३७} ॥
पतेस्ते देवतास्माकं विष्णुर्नारायणो हरिः ।
तस्मादेनं प्रभोर्नाम्ना स्मृत्वा नित्यं भजार्चय ॥ ३.१४०{३८} ॥
स एव कामदो देवः कामधात्वीश्वराधिपः ।
संसारस्थितिधर्मस्थो रतिभोग्यसुखप्रदः ॥ ३.१४१{३९} ॥
तस्यैव ह्यनुभावेन प्रेर्य्यमानो मनो भुवाः ।
भर्त्ता ते सहसा प्रायात्स्वस्ति रत्नैश्च संयुतः ॥ ३.१४२{४०} ॥
ततस्ते सफलं जन्म संसारे प्रभुना सह ।
दानं कृत्वा सुखं भुक्त्वा यावज्जीवं सुखं वस ॥ ३.१४३{४१} ॥
एवं सख्योदितं श्रुत्वा रमणी सा पतिव्रता ।
तथेति प्रतिसंश्रुत्य पुनस्तामवदत्सखीम् ॥ ३.१४४{४२} ॥
सत्यं भद्रे यथा प्रोक्तं त्वया मे हितकारणम् ।
तथाहं संभजिष्यामि स्मृत्वा नाम्ना प्रभोर्हरिम् ॥ ३.१४५{४३} ॥
यथा स्वस्ति समायातः स्वामी रत्नसमृद्धिभृत् ।
तदा ह्येकं सुवर्णस्य चक्रं दास्यामि विष्णवे ॥ ३.१४६{४४} ॥
इत्येवं सा प्रतिज्ञाय विष्णुमेवं समस्मरत् ॥ ३.१४७{४५} ॥
नमस्ते भगवन् विष्णो हरे नारायण प्रभो ।
प्रसीद पश्य मां नारीं प्रभुं च प्रापयाशु मे ॥ ३.१४८{४६} ॥
यदा मे पुरुषो भर्त्ता स्वस्ति गेहसमागतः ।
तदोपढौकयिष्यामि स्वर्णचक्रं हरे तव ॥ ३.१४९{४७} ॥
इति सख्याः पुरः प्रोक्त्वा स्मृत्वा नित्यं हरिं मुदा ।
स्वर्णचक्रं च संकल्प्य तस्थौ भर्तुः स्मरन्ति स ॥ ३.१५०{४८} ॥
तदैव सार्थवाहोऽसौ सर्वसार्थगणैः सह ।
बहुरत्नानि संगृह्य प्रतस्थे सहसा ततः ॥ ३.१५१{४९} ॥
ततः स्वस्ति समुत्तीर्य्य महोदधेस्तदागतः ।
सर्वसार्थगणैः सार्द्धं सहसा गृहमाययौ ॥ ३.१५२{५०} ॥
(र्म् ४६)
ततस्तं गृहसंप्राप्तं दृष्ट्वा सा नंदिता सती ।
पादौ नत्वा पुरः स्थित्वा स्वं प्रवृत्तमभाषत ॥ ३.१५३{५१} ॥
स्वामिन् यदा भवान् गेहात्प्रस्थितो मां विहाय च ।
तदारभ्य सदा स्मृत्वा त्वामेवास्मि स्थिता गृहे ॥ ३.१५४{५२} ॥
तदाहमनया सख्या दृष्ट्वा त्वद्विरहातुरा ।
तद्दुःखं मे विनोदार्थं प्रेरिता स्मरणे हरेः ॥ ३.१५५{५३} ॥
तदारभ्य सदा नित्यं स्मृत्वा तवेष्टदेवताम् ।
भजामि सततं भक्त्या तवाशु गमनार्थिनी ॥ ३.१५६{५४} ॥
चक्रमेकं सुवर्णस्य संकल्प्य श्रद्धया मया ।
प्रार्थनापि कृता नित्यं तव यात्राप्रसिद्धये ॥ ३.१५७{५५} ॥
यथा मे प्रार्थितं सर्वं तथा सिद्धं हि सांप्रतम् ।
तन्मे संकल्पितं देव पूरयेयं तथा प्रभो ॥ ३.१५८{५६} ॥
तत्पूजांगं समादाय शक्रं समुपढोकितुम् ।
देवकुलं गमिष्यामि तदनुज्ञां प्रदेहि मे ॥ ३.१५९{५७} ॥
इति भार्योदितं श्रुत्वा सार्थवाहोऽनुमोदितः ।
पूरय त्वं प्रिये सत्यं गच्छेत्येवमभाषत ॥ ३.१६०{५८} ॥
ततः सानुज्ञया भर्तुः सती सार्द्धं सखीजनैः ।
पूजांगानि च तं चक्रं धृत्वा देवकुलं ययौ ॥ ३.१६१{५९} ॥
तस्मिं क्षणे स संबुद्धो भगवान् करुणामयः ।
लोके सत्वान् समुद्धर्तुमपश्यद्बुद्धचक्षुषा ॥ ३.१६२{६०} ॥
तामेवं प्रस्थितां दृष्ट्वा भद्रां सद्धर्मचारिणीम् ।
प्रैक्षच्च भगवानेनां प्रत्येकबोधिलाभिनीम् ॥ ३.१६३{६१} ॥
ततोऽसौ भगवान् बुद्धः संनिरीक्ष्य च तां सतीम् ।
सर्वान् भिक्षुगणां छिष्यान् समामंत्र्याब्रवीत्तथा ॥ ३.१६४{६२} ॥
पश्यध्वं भिक्षवो यूयं दारिकं तां सुभद्रिकाम् ।
नूनं मद्दर्शनादेषा बोधिचित्तमवाप्नुयात् ॥ ३.१६५{६३} ॥
सम्यक्कुशलमूलानि समवरोपयिष्यति ।
ध्रुवं प्रत्येकबोधौ च प्रणिधानं करिष्यति ॥ ३.१६६{६४} ॥
तस्मात्संदर्शनं दत्वा दारिकां तां सुभाविनीम् ।
प्रत्येकबोधिचर्यायां सुप्रतिस्थापयाम्यहम् ॥ ३.१६७{६५} ॥
तत्र च गन्तुमिछन्ति ये मया सह भिक्षवः ।
(र्म् ४७)
पात्रचीवरमादाय ते प्रायातं चरेमहि ॥ ३.१६८{६६} ॥
इत्यादिष्टं जिनेन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः ।
पात्रचीवरसंयुक्तास्तत्र गंतुमुपाचरन् ॥ ३.१६९{६७} ॥
ततोऽसौ भगवान् बुद्धः स्वप्रभावं प्रदर्शयन् ।
सर्वैश्च सांघिकैः सार्द्धं राजगृहमुपासरत् ॥ ३.१७०{६८} ॥
तत्र मार्गे समायाता दारिका ससखीवृता ।
तं बुद्धं श्रीघनं दूराद्ददर्श संप्रभास्वरम् ॥ ३.१७१{६९} ॥
द्वात्रिंशल्लक्षणोपेतमशीतिव्यंजनान्वितम् ।
दिव्यातिक्रान्तसौन्दर्य्यं समन्तभद्ररूपकम् ॥ ३.१७२{७०} ॥
सहस्रेणातिरिक्ताभं सौम्यं कान्तं मनोहरम् ।
पुण्डरीकमिवोद्भासं रत्नाङ्गमिव जंगमम् ॥ ३.१७३{७१} ॥
साक्षात्पुण्यावतारं च दृष्ट्वा चात्यनुमोदिता ।
सहसोपेत्य तच्चक्रमुपढौकितुमैछत ॥ ३.१७४{७२} ॥
एवं तां चक्रमादाय संबुद्धमुपढौकितुम् ।
प्रयातं तां सखी दृष्ट्वा निवारयितुमब्रवीत् ॥ ३.१७५{७३} ॥
नायं नारायणो भद्रे सुगतोऽयं जितेन्द्रियः ।
तदस्मै मा प्रदेहीदं चक्रं संकल्पितं हरेः ॥ ३.१७६{७४} ॥
एवं निवार्य्यमानापि सखीभिः सा च भद्रिका ।
सद्धर्मगुणवांछन्ती ताः सखीः पुनरब्रवीत् ॥ ३.१७७{१७५} ॥
सख्यो भाग्यान्मयाप्येवं संबुद्धो दृश्यतेऽधुना ।
तदद्य सफलं जन्म संसारे जीवितं च मे ॥ ३.१७८{७६} ॥
यदाभास्पर्शिता चापि सत्वाः क्लेशविमोचिताः ।
संवृत्तिसुखसंप्राप्ता निर्वृत्तिमपि चाप्नुयुः ॥ ३.१७९{७७} ॥
यन्नामोच्चारणाद्वापि संभाव्यस्मरणादपि ।
मारपाशविनिर्मुक्ताः संबोधिपदमाप्नुयुः ॥ ३.१८०{७८} ॥
यद्धर्मश्रवणादेवं नित्यानुमोदनादपि ।
सर्वपापविनिर्मुक्ताः सद्गतिं समवाप्नुयुः ॥ ३.१८१{७९} ॥
यत्संघेषु सुपात्रेषु किंचिन्मात्रार्प्पनादपि ।
संसारेऽनन्तसौख्यानि भुक्त्वा यायुः सुखावतीम् ॥ ३.१८२{८०} ॥
येनैवं पालिताः सत्वाः षड्गतिचरिता अपि ।
(र्म् ४८)
बोधयित्वा च सद्धर्मे स्थापिता निर्वृतावपि ॥ ३.१८३{८१} ॥
यस्य धर्मानुभावाच्च मंगलं भुवनत्रये ।
सर्वे सत्वा सुखाढ्याश्च संबोधिपदचारिणः ॥ ३.१८४{८२} ॥
सोऽप्ययं भगवान्नाथः शास्ता त्रैलोक्याधिपः ।
नूनं मे पुण्यभाग्येन दृश्यतेऽयत्नतोऽधुना ॥ ३.१८५{८३} ॥
तदहं कुशलिनी स्यां हि संबुद्धेन दर्शिता ।
महाभाग्यवती चास्मि यदयं सद्गुरुः सुधीः ॥ ३.१८६{८४} ॥
अमृग्यमान एवेत्थं लभ्यते पुरतो मया ।
तदहं पूजयित्वेमं चक्रं च समुपढौकितुम् ॥ ३.१८७{८५} ॥
इछाम्यस्मै मुनींद्राय निर्वृतिपदलब्धये ।
अपि चात्र सदा नैव संबुद्धो लप्स्यते तथा ॥ ३.१८८{८६} ॥
कदा चिद्धि जिनोत्पत्तिः पुष्पमौदुन्वरं यथा ।
मानुष्येऽपि सदा नैव जन्म भवानुचारिणाम् ।
पुण्यैरेव हि मानुष्यं लप्ष्यते जन्म दुल्लभम् ॥ ३.१८९{८७} ॥
मानुष्येऽलभ्यमाने तु कथं बुद्धानुसेवना ।
बुद्धसेवां विना केन बोधिचित्तमवाप्नुयात् ॥ ३.१९०{८८} ॥
बोधिचित्तं विना कस्य सद्धर्मेषु मतिश्चरेत् ।
विना धर्ममतिं को हि बोधिचर्य्यां समाचरेत् ॥ ३.१९१{८९} ॥
बोधिचर्यां विना लोके हितं कर्तुं कथं चरेत् ।
लोके हितमकृत्वैव कुतः पुण्यमवाप्नुयात् ॥ ३.१९२{९०} ॥
अपुण्येन कथं क्लेशान् हित्वा निर्वृतिमाप्नुयात् ।
तस्मात्क्लेशविमुक्त्यर्थं निर्वृत्तिपदलब्धये ॥ ३.१९३{९१} ॥
इमं बुद्धं जगन्नाथमिछाम्यभ्यर्चितुं मुदा ।
बुद्ध एव जगन्नाथः सर्वसत्वहितार्थदः ॥ ३.१९४{९२} ॥
सद्धर्मदेशकः शास्ता संबोधिज्ञाननायकः ।
तस्मादेनं समुत्सृज्य नान्यमिछामि चार्चितुम् ॥ ३.१९५{९३} ॥
अस्यैव शरणं गत्वा भजिष्यामि सदाप्यहम् ॥ ३.१९६{९४} ॥
इति सा दारिका प्रोक्त्वा चक्रमादाय मोदिता ।
संबुद्धं चार्प्पितुं तस्मै पूजां कर्तुमुपाययौ ॥ ३.१९७{९५} ॥
अथ सा तं मुनिं नत्वा पूजाभिश्च समर्चयत् ।
तं चक्रं समुपस्थाप्य नत्वैवं प्रणिधिं व्यधात् ॥ ३.१९८{९६} ॥
(र्म् ४९)
यथायं सुगतो बुद्धो निःक्लेशो विजितेन्द्रियः ।
तथाहमपि शुद्धात्मा निर्वृतिपदमाप्नुयाम् ॥ ३.१९९{९७} ॥
तथासौ भगवान् बुद्धो दृष्ट्वा तत्प्रणिधिं ततः ।
सुप्रसन्नमुखाम्भोजाद्व्यसृजत्संस्मितामृतम् ॥ ३.२००{९८} ॥
तत्स्मितसहोच्चार्यमाणा पंचविधांशवः ।
के चिदूर्द्ध्वं गताः के चिदधो याताश्च तेऽंशवः ॥ ३.२०१{९९} ॥
ये च याता अधोलोके ते संजीवनरके गताः ।
कालसूत्रे च संघाते तथा च रौरवे ततः ॥ ३.२०२{१००} ॥
महारौरवके चापि तपने च प्रतापने ।
अवीचौ चार्बुदे चापि निरर्बुदे तथाटटे ॥ ३.२०३{१} ॥
हहवे हुहुवे चैवमुत्पले पद्मके तथा ।
महापद्मेऽपि चैतेषु षोडशेषु समंततः ॥ ३.२०४{२} ॥
तथोपनारकेष्वेवं सर्वेष्वपि च तेऽंशवः ।
प्रसृता भासयित्वैवं प्राकाशयन् समंततः ॥ ३.२०५{३} ॥
ये शीतनरकास्तेषु तूष्णीभूता निपातिताः ।
ये उष्णनरकास्तेषु शीतीभूता व्यभासयन् ॥ ३.२०६{४} ॥
तेषु ये पापिनः सत्वा दुःखातिवेदनातुराः ।
ते सर्वे तद्द्युतिस्पृष्टास्तद्दुःखवेदनोज्झिताः ॥ ३.२०७{५} ॥
शांतसौख्यानुभूताश्च विस्मयोद्धतमानसाः ।
दृष्ट्वैव सह संमील्य मिथश्चैवमभाषत ॥ ३.२०८{६} ॥
अहो चित्रं भवन्तोऽद्य किं नु वयमितश्च्युताः ।
अन्यत्र चरिताः स्मः किं वताहोस्विन्न मन्यते ॥ ३.२०९{७} ॥
इति संदिग्धचित्तानां तेषां चित्तप्रबोधने ।
भगवान्निर्मितं तत्र प्रैषयच्च समंततः ॥ ३.२१०{८} ॥
अथ तं निर्मितं सौम्यं दृष्ट्वा ते संप्रसादिताः ।
भूयो दृष्ट्वाभिमोदन्तो मिथश्चैवं वभाषिरे ॥ ३.२११{९} ॥
भवन्तो नु वयं सर्वे नान्यत्र चरिता इतः ।
अपि त्वयमिहायातः सत्वो ह्यपूर्वदर्शनः ॥ ३.२१२{१०} ॥
(र्म् ५०)
नूनमस्यानुभावेन निर्दुःखा सुसुखा वयम् ।
इति ते निर्मिते तस्मिन् बौद्धे चित्तं प्रसाद्य च ॥ ३.२१३{११} ॥
नमो बुद्धाय ते तायिन्नित्युक्त्वा शरणं ययुः ।
ततः सर्वे च ते सत्वास्तद्बुद्धस्मृतिधारिणः ॥ ३.२१४{१२} ॥
निःपापाः कुशलाध्याश्च सद्गतिं सहसा ययुः ।
ये तथोर्द्धं गतास्ते च बुद्धस्मितोत्सृताः कराः ॥ ३.२१५{१३} ॥
गत्वा चातुर्महाराजभुवनेषु ततो गताः ।
त्रयस्त्रिंशाश्च यामाश्च तथा च तुषितां गताः ॥ ३.२१६{१४} ॥
निर्माणरतिकां चान्यनिर्मितवशवर्त्तिनः ।
ब्रह्मकायिकलोकं च तथा ब्रह्मप्रोहितम् ॥ ३.२१७{१५} ॥
महाब्राह्मणलोकांश्च परीत्ताभं तथा गताः ।
अप्रमाणं ततो याता आभास्वरां तथा गताः ॥ ३.२१८{१६} ॥
परीत्तशुभमेवं च ह्यप्रमाणशुभं तथा ।
शुभकृत्स्नमनभ्रं च पुण्यप्रसवसंज्ञिकम् ॥ ३.२१९{१७} ॥
बृहत्फलं तथा चैवमबृहमतपं तथा ।
सुदृशं भुवनं चैव सुदर्शनं तथा गताः ॥ ३.२२०{१८} ॥
अकनिष्ठं तथा गत्वा प्रोच्चैरेवमघोषयन् ॥ ३.२२१{१९} ॥
अनित्यं खलु संसारं दुःखं शून्यं ह्यनात्मकम् ।
इति मत्वा त्रिरत्नानि संभजध्वं समाहिताः ॥ ३.२२२{२०} ॥
निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्याश्च नडागारं यथा करी ॥ ३.२२३{२१} ॥
योऽप्यस्मिन् धर्मवैनेये ह्यप्रमत्तश्चरिष्यति ।
स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ ३.२२४{२२} ॥
एवं ता अर्चिषः सर्वांल्लोकधातून् समंततः ।
अवभास्य शुभे सत्वान् विनीय पुनरागताः ॥ ३.२२५{२३} ॥
भगवतोऽग्रतः स्थित्वा कृत्वा प्रदक्षिणत्रयम् ।
ऊर्णायां च मुनीन्द्रस्य सर्वा अन्तर्दधुस्त्विषः ॥ ३.२२६{२४} ॥
तदानन्दः समुत्थाय कृतांजलिपुटो नतः ।
(र्म् ५१)
जानुभ्यां भुवि संस्थित्वा भगवन्तं समब्रवीत् ॥ ३.२२७{२५} ॥
नानारङ्गकलापस्ते वक्त्रान्निष्कसितो मुनेः ।
येनावभासिताः सर्वा सूर्येणोदयता यथा ॥ ३.२२८{२६} ॥
विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः ।
नाकारणं शंखमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः ॥ ३.२२९{२७} ॥
तत्कालं स्वयमधिगम्य धीरबुद्ध्या श्रोतॄणां श्रमणजिनेन्द्र कांक्षितानाम् ।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः ॥ ३.२३०{२८} ॥
नाकस्माल्लवणजलाद्रिराजधैर्य्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति जनौघाः ॥ ३.२३१{२९} ॥
इत्यानंदवचः श्रुत्वा संबुद्धो भगवानसौ ।
तत्स्मितहेतुमादेष्टुं तमानन्दं समब्रवीत् ॥ ३.२३२{३०} ॥
एवमेतत्तथानन्द नाहेत्वप्रत्ययं स्मितम् ।
प्राविष्कुर्वन्ति संबुद्धा अर्हन्तः सुगता जिनाः ॥ ३.२३३{३१} ॥
पश्यानन्दानया नार्य्या चक्रं मे समुपार्प्पितम् ।
पूजयित्वा प्रणत्वा च बोधौ च प्रणिधिः कृता ॥ ३.२३४{३२} ॥
अनेन दानधर्मेण कुशलैश्च समन्विताः ।
दारिकेयं सुभद्रांशा दिव्यभोग्यं समाप्नुयात् ॥ ३.२३५{३३} ॥
न पंचदशकल्पानि विनिपातं गमिष्यति ।
ततश्चक्रान्तरो नाम प्रत्येकसुगतो सुधीः ॥ ३.२३६{३४} ॥
अर्हं क्लेशविमुक्तात्मा पंचाभिज्ञो जितेन्द्रियः ।
सर्वसत्वानुकंपी च ब्रह्मचारी भविष्यति ॥ ३.२३७{३५} ॥
यन्मयि सुगते बुद्धे चित्तमस्याः प्रसीदति ।
तेन पुण्यबलेनेयं प्रत्येकबोधिमाप्स्यति ॥ ३.२३८{३६} ॥
सुगतेषु कृतं पुण्यं न क्षिणोति कदा चन ।
क्रमात्तेन विशुद्धात्मा संबोधिमपि चाप्नुयात् ॥ ३.२३९{३७} ॥
इति मत्वा त्रिरत्नेषु चित्तमेवं प्रसाद्य च ।
श्रद्धया संप्रकर्त्तव्यं सत्कारं बोधिवांछिभिः ॥ ३.२४०{३८} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे जनाश्च ते ।
(र्म् ५२)
तथेत्यभ्यनुमोदन्तस्त्रिरत्नसेविनोऽभवन् ॥ ३.२४१{३९} ॥
ततो बुद्धानुभावेन तच्चक्रं खे समुद्गतम् ।
क्षणं बुद्धोपरि स्थित्वा छत्रमिवोज्ज्वलन् बभौ ॥ ३.२४२{४०} ॥
ततश्च वियतो गत्वा हरिहर्म्योपरि स्थितम् ।
सुदर्शनमिवोद्दीप्तं बभौ रस्मिसमुत्किरन् ॥ ३.२४३{४१} ॥
ततोऽसौ भगवान् बुद्धो दृष्ट्वा तां दारिकां स्वयम् ।
शिरसि पाणिना स्पृष्ट्वा स्वाशीर्वचनमादिशत् ॥ ३.२४४{४२} ॥
भद्रे ते मंगलं भूया विनिपातं न चाप्नुहि ।
क्रमात्पारमिताः पूर्य्य प्रत्येकं बोधिमाप्नुहि ॥ ३.२४५{४३} ॥
इत्याशीर्वचनं दत्वा संबुद्धोऽसौ मुनीश्वरः ।
ततो राजगृहं गंतुमुपाचरत्ससांघिकः ॥ ३.२४६{४४} ॥
ततोऽसौ दारिका चापि नत्वा तं सुगतं पुनः ।
दृष्ट्वैवं मुहुः स्मृत्वा स्वगेहं समुपाययौ ॥ ३.२४७{४५} ॥
तत्र गेहे प्रविष्ट्वासौ दारिका संप्रमोदिता ।
भर्त्तुरग्रे च तद्वृत्तमाचख्ये सर्वमादरात् ॥ ३.२४८{४६} ॥
भर्त्ताप्यसौ तथा श्रुत्वा बुद्धधर्मानुमोदितः ।
तयैवं भार्यया सार्द्धं भेजे रत्नत्रयं सदा ॥ ३.२४९{४७} ॥
एवं मे गुरुणा ख्यातं तथा ते कथ्यते मया ।
त्वमप्येवं महाराज त्रिरत्नानि सदा भज ॥ ३.२५०{४८} ॥
प्रजाश्चापि त्रिरत्नानां भजने प्रेरय प्रभो ।
तथा ते मंगलं नित्यं बोधिं चापि समाप्नुयाः ॥ ३.२५१{४९} ॥
इति तेनोपगुप्तेन भाषितं तत्सुभाषितम् ।
श्रुत्वाशोको नरेन्द्रोऽसौ मुमोद सह पार्षदैः ॥ ३.२५२{५०} ॥
एतच्चक्रावदानं मुनिवरगुणदं यः शृणोति प्रसाद्य ।
श्रुत्वा यश्चानुमोद्य प्रमुदितमनसा श्रावयत्येवमन्यान् ।
स जित्वा क्लेशसंघान् विगतकलिमलो बुद्धधर्मानुचारी ।
पूतात्मा सद्गुणाढ्यः मुनिवरनिलयैः संप्रयाति प्रमोदात् ॥ ३.२५३{५१} ॥
++ इति रत्नावदानमालायं चक्रावदानो नाम समाप्तम् ++
(र्म् ५३)
इव्प्रेतिकावदान
अथाशोको महीपालः सद्धर्मचरणोत्सवः ।
उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटोऽवदत् ॥ ४.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा मे गुरुणा प्रोक्तं तथा वक्तुं समर्हसि ॥ ४.२{२} ॥
इति तेन नरेन्द्रेण प्रार्थितेऽसौ जिनांशजः ।
उपगुप्तो महाभिज्ञस्तं नरेशमभाषत ॥ ४.३{३} ॥
यथा मे गुरुणादिष्टं तथा वक्ष्यामि तेऽधुना ।
तथापि श्रूयतां राजन् तव धर्मप्रवृद्धये ॥ ४.४{४} ॥
पुरैकसमये चासौ संबुद्धो भगवाञ्जिनः ।
चैलकैश्च तथान्यैस्तत्सद्धर्मगुणवांछिभिः ॥ ४.५{५} ॥
राजगृहमुपाश्रित्य वेणुवने जिनाश्रमे ।
करण्डकनिवापाख्ये तस्थौ धर्मं समादिशत् ॥ ४.६{६} ॥
तद्धर्म्मदेशनां श्रोतुं सदेवासुरमानुषाः ।
सिद्धविद्याधराश्चापि यक्षगंधर्वकिन्नराः ॥ ४.७{७} ॥
गरुडा नागराजाश्च राक्षसाश्च महोरगाः ।
सर्वे लोकाधिपाश्चापि ससैन्यपरिवारकाः ॥ ४.८{८} ॥
राजानो राजमात्राश्च ब्राह्मणाश्च महाजनाः ।
मंत्रिणो श्रेष्ठिनश्चापि सार्थवाहाश्च पौरिकाः ॥ ४.९{९} ॥
ऋषयो योगिनश्चापि यतयो ब्रह्मचारिणः ।
एवमन्येऽपि लोकाश्च परिवृत्य समंततः ॥ ४.१०{१०} ॥
सत्कृत्य स्वर्य्य पूजाङ्गैः सर्वोपकरणैरपि ।
मानयित्वा च तं नाथं दृष्ट्वा तस्थुः समाहिताः ॥ ४.११{११} ॥
तस्मिंश्च समये तत्र मौद्गल्यायन आत्मवित् ।
स प्रेतभुवने गत्वा चरन् प्रेतीमपश्यत ॥ ४.१२{१२} ॥
स्वकेशरोमसंछन्नां दग्धस्थूनामहाकृतिम् ।
सूचीमुखीं महत्कायीं पर्वतसंनिभोदराम् ॥ ४.१३{१३} ॥
पिङ्गलकेशिनीं रौद्रीं प्रदीप्ताग्निशिखामिव ।
(र्म् ५४)
तीव्रातिवेदनाक्रान्तां तृषार्त्तं परिमूर्छिताम् ॥ ४.१४{१४} ॥
तत्रायुष्मान् स मौद्गल्यो दृष्ट्वा तां प्रेतिकां चिरम् ।
कैषेति सहसोपेत्य पप्रछ समुपागताम् ॥ ४.१५{१५} ॥
किं त्वया प्रकृतं पापं येनैवं दुःखभागिनी ।
तृषार्त्ता जलमार्गन्ती भ्रमित्वा चरसेऽधुना ॥ ४.१६{१६} ॥
इति तेन यतीशेन पृष्ट्वा सा प्रेतिका ततः ।
तं यतिं सौगतं नत्वा प्ररुदित्वावदत्तथा ॥ ४.१७{१७} ॥
भदन्त तद्विजानीयाः पापकारिण्यहं यतः ।
एवं तृष्णाप्रतप्ताङ्गा भ्रमामि जललालसा ॥ ४.१८{१८} ॥
यत्राहमुदकं पातुं गछामि तृष्णयान्विता ।
अत्र पश्यामि नद्यादिजलाधारान् विशोषितान् ॥ ४.१९{१९} ॥
यदा वर्षति देवे च दृष्ट्वा तदम्बुपातितम् ।
पातुमिछन्त्ल्तृष्णार्त्ता सहसाहं प्रधाविता ॥ ४.२०{२०} ॥
तदा पश्यामि तद्विन्दुविस्फुलिङ्गनिभोज्वलान् ।
दृष्ट्वैवं निराशान्धा भ्रमामि दिक्षु सर्वतः ॥ ४.२१{२१} ॥
किं मया प्रकृतं पापं येनास्म्येवं सुपापिनी ।
तन्मे पापं जगच्छास्ता पृछ्यतां भवतादरात् ॥ ४.२२{२२} ॥
नूनं सो भगवाञ्छास्ता यन्मे कर्मपुराकृतम् ।
व्याकरिष्यति तत्सर्वं तथा लोकप्रबोधने ॥ ४.२३{२३} ॥
यच्छ्रुत्वान्येऽपि सत्वाश्च संविग्नमनसो द्रुतम् ।
विरम्य पापमार्गेभ्यश्चरिष्यन्ति शुभे सदा ॥ ४.२४{२४} ॥
तस्माद्भदन्त सर्वज्ञस्तव शास्ता स पृछ्यताम् ।
व्याकुर्यान्मम सर्वत्र यत्कर्म प्रकृतं पुरा ॥ ४.२५{२५} ॥
अस्मन्नाम्ना स संबुद्धो वंद्यतां भवता यथा ।
इत्युक्त्वा सा तमात्मजं नत्वा प्रेता गृहं ययौ ॥ ४.२६{२६} ॥
स मौद्गल्यस्तथेत्युक्त्वा तत्संदेशमनुस्मरन् ।
सहसैतत्परिप्रष्टुं वेणुवनमुपाययौ ॥ ४.२७{२७} ॥
तदादौ भगवान् दृष्ट्वा तन्मौद्गल्यमुपागतम् ।
प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतदब्रवीत् ।
कंचित्ते कुशलं वत्स कुतोऽत्रासि समागतः ।
लोकेषु किं प्रवृत्तांतं तत्प्रचक्ष्व महामते ।
(र्म् ५५)
इति पृष्टे जिनेन्द्रेण स मौद्गल्यः पुरोगतः ॥ ४.२८{२८} ॥
आदौ तस्य मुनेर्नत्वा तत्प्रवृत्तमुदाहरत् ।
आगतोऽस्मि भदन्तोऽहं चरित्वा प्रेतभूमिषु ॥ ४.२९{२९} ॥
तत्र स्थितोऽहमीक्षन् तां प्रेतीमेकां भयानकीम् ।
दग्धस्थूणानिभां नग्नां पर्वतसन्निभोदराम् ॥ ४.३०{३०} ॥
सूचीछिद्रमुखच्छिद्रां कंकारयन्त्रिकामिव ।
स्वकेशरोमसंछन्नां ज्वलिताग्निशिखामिव ॥ ४.३१{३१} ॥
तिव्रातिवेदनाक्रान्तामार्त्तस्वरानुरोदिनाम् ।
दुर्गन्धामशुचिव्याप्तां स्वकेशपरितापिताम् ॥ ४.३२{३२} ॥
विण्मूत्रानुभोक्तुं च साक्षात्पापावतारिकाम् ।
भगवन् सा मया दृष्ट्वा तृष्णार्त्ता जललालसा ॥ ४.३३{३३} ॥
भ्रमन्ती जलमार्गन्ती जलाश्रयेषु सर्वतः ।
नदीकूपतडागादिनुदपानजलाश्रयान् ॥ ४.३४{३४} ॥
स्वेछाम्बुपूरितान् दृष्ट्वा प्राधावत्सहसा यदा ।
तस्या दर्शणमात्रेण ते सर्वेऽपि जलाश्रयाः ॥ ४.३५{३५} ॥
निर्जलाः पंकशेषेण शुशुषुश्च समंततः ।
तथा विशोषितां दृष्ट्वा नद्यादींस्ताञ्जलाश्रयान् ॥ ४.३६{३६} ॥
निराशा परितप्ताङ्गा सा प्रेती पर्यमूर्छत ।
ततश्च पुनरुत्थाय क्षुत्तृष्णोन्मादचारिणी ॥ ४.३७{३७} ॥
जलं चान्नं समन्वेष्टुं बभ्राम दिक्षु सर्वतः ।
तथापि सा जलं नासादयत्कुहापि वा ॥ ४.३८{३८} ॥
ततोऽतितृष्णया तप्ता विण्मूत्रभोक्तुमैछत ।
तदपि कृच्छ्रतोऽन्विष्य भुक्त्वा तृप्तिं न सा ययौ ॥ ४.३९{३८} ॥
तथामेध्यानि भुक्त्वापि कदाचिन्नैव तृप्तिता ।
क्षुत्तृष्णाहताक्लान्ता पतिता खेदितावसत् ॥ ४.४०{४०} ॥
मां दृष्ट्वा सहसोत्थाय शनैर्मन्दस्वरावदत् ।
स्वागतं भो भवानैतु रक्ष मां पापिनीं लघु ॥ ४.४१{४१} ॥
पानीयं देहि मे भद्र पानीयं दातुमर्हसि ।
इति प्रोक्ताभिधावन्ति पानीयं मामयाचत ॥ ४.४२{४२} ॥
ततोऽहमवदं चैनां पानीयं नात्र विद्यते ।
कात्वमेवं नु दुःखानि भुक्त्वात्र वससे कथम् ॥ ४.४३{४३} ॥
किं त्वया हि कृतं पापं येनैवं दुःखताधुना ।
(र्म् ५६)
वक्तव्यं चेच्च तत्पापं सर्वं मे वक्तुमर्हसि ॥ ४.४४{४४} ॥
इति मे गदितं श्रुत्वा स प्रेती पुनरब्रवीत् ।
किं मया वक्ष्यते पापं यत्पुरा कुधिया कृतम् ॥ ४.४५{४५} ॥
सर्वज्ञो हि भवच्छास्ता स एवं परिपृछ्यताम् ।
तत्सर्वाणि च मे पापं स व्याकुर्यात्स सर्ववित् ॥ ४.४६{४६} ॥
अस्मन्नाम्ना च संबुद्धो वंद्यतां भवतादरात् ।
इति तयोदितं श्रुत्वा प्रतिज्ञाय तथेति च ॥ ४.४७{४७} ॥
भवन्तं प्रष्टुमायामि तत्समादेष्टुमर्हसि ।
आर्त्तस्वरा रुदन्ती सा प्रेती विन्दति वेदनाम् ॥ ४.४८{४८} ॥
येन विण्मूत्रधानानि तेन धावति दुःखिता ।
तदपि कृच्छ्रतो लब्ध्वा भुंक्ते किं चित्कदा चन ॥ ४.४९{४९} ॥
एवं सा पापिनी प्रेती दृष्टातिदुःखिता मया ।
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम् ॥ ४.५०{५०} ॥
येनैवंविधदुःखं सा ह्यनुभवति सांप्रतम् ।
कदा सा पापतो मुक्ता कथं च सुगतिं व्रजेत् ॥ ४.५१{५१} ॥
तत्सर्वं वदतां शास्त सर्वसत्वप्रबोधने ।
इति तेनार्थिते चासौ भगवान् पुनरब्रवीत् ॥ ४.५२{५२} ॥
मौद्गल्यायन सा प्रेती पापिनी मत्सरी कुधीः ।
तया यत्प्रकृतं पापं येन सा दुःखभागिनी ॥ ४.५३{५३} ॥
तत्सर्वं ते प्रवक्ष्यामि शृणु श्रोतुं यदीछसि ॥ ४.५४{५४} ॥
पुरासीद्भगवान् बुद्धः काश्यपो नाम सर्ववित् ।
सर्वविद्याधिपो नाथो धर्मराजस्तथागतः ॥ ४.५५{५५} ॥
समन्तभद्रकृच्छास्ता त्रैधातुकविनायकः ।
जिनोऽर्हन् सुगतस्त्रायी संबोधिमार्गदेशकः ॥ ४.५६{५६} ॥
स सत्वानां हितार्थेन बोधिचर्याः प्रकाशयन् ।
वाराणसीमुपाश्रित्य मृगदावे जिनाश्रमे ॥ ४.५७{५७} ॥
श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वगणैरपि ।
तस्मिन्नेव पर्षत्मध्ये तस्थौ धर्मं समादिशत् ॥ ४.५८{५८} ॥
तस्मिंश्च समये तस्य भिक्षुरन्यतमो यतिः ।
अन्यत्रनगरे गत्वा प्रत्यागछत्स्वमाश्रमम् ॥ ४.५९{५९} ॥
(र्म् ५७)
तत्र मार्गे तृषार्त्तोऽसौ दूरात्कूपं विलोकयन् ।
सहसा समुपागत्य कूपान्तिकमुपाययौ ॥ ४.६०{६०} ॥
तदैका दारिका तत्र पूरयित्वा घटं जलैः ।
सहसा शिरसोहित्वा गृहं गन्तुमुपाचरत् ॥ ४.६१{६१} ॥
स तृषार्त्तो यतिर्दृष्ट्वा तामम्बुघटवाहिकाम् ।
समुपेत्य जलं पातुं प्रार्थयन् समुपाचरत् ॥ ४.६२{६२} ॥
भगिन्योऽहं तृषार्त्तोऽस्मि दूरदेशादुपागतः ।
त्वां दृष्ट्वा सहसोपेत्य जलं पातुमिहागतः ॥ ४.६३{६३} ॥
तद्भगिनी जलं देहि जीवय मां तृषातुरम् ।
दत्वा मे जीवनं त्वं तच्चिरं जीव्या निरोगिनी ॥ ४.६४{६४} ॥
इति तेनार्थितं दृष्ट्वा दारिकासौ दुराशया ।
मात्सर्य्यप्रहतत्वाता तं भिक्षुं पर्य्यभाषत ॥ ४.६५{६५} ॥
अरे भिक्षोऽत्र मायाहि म्रियसे यदि वा खलु ।
न ते ददामि पानीयं घटो पूर्णो भवेन्मम ॥ ४.६६{६६} ॥
कूपे यत्नात्समुद्धृत्य पूरयित्वाम्बुना घटे ।
प्रोहित्वायं मयानीतस्त्वदर्थे किं न मन्यते ॥ ४.६७{६७} ॥
निर्लज्ज क्व नु ते लज्जा परकीयाम्बुमिछसि ।
राजा किं त्वं धनी वासि गुरुर्वा किं न मन्यते ॥ ४.६८{६८} ॥
इत्याक्षेपं प्रतिक्षिप्य तं भिक्षुं सौगतं यतिम् ।
अदत्वैवामृतं किं चित्सत्वरा सा गृहं ययौ ॥ ४.६९{६९} ॥
ततो भिक्षुस्तृषार्त्तोऽपि लज्जयासौ न्यवर्त्तते ।
अन्यत्रैवं समायाच्य पीत्वा ययौ स्वमाश्रमम् ॥ ४.७०{७०} ॥
तत्राश्रमे तरोर्मूले पर्यण्कमुपभुज्य सः ।
अनुशोचय तां नारीं मनसैवं व्यचिंतयत् ॥ ४.७१{७१} ॥
अहो सा दुर्मती नारी मात्सर्य्यप्रहताशया ।
कथं न मन्यते ह्येवं मानुष्यजन्म दुर्ल्लभम् ॥ ४.७२{७२} ॥
मानुष्यं पुण्यतो लब्ध्वा निस्फलं क्रियते तया ।
धिक्तां दुराशयां मूढां यस्या जन्म निरर्थकम् ॥ ४.७३{७३} ॥
कदैषा पापतो मुक्त्वा सद्गतिं समवाप्स्यति ।
मा गात्सा नरके दुःखं भूयाद्धर्मानुमोदिनी ॥ ४.७४{७४} ॥
शीघ्रं लोकेश्वरस्मार्त्तं लब्ध्वा व्रजतु सन्मतिम् ।
(र्म् ५८)
इत्येवंमनसा भाष्य स भिक्षुर्विजितेन्द्रियः ॥ ४.७५{७५} ॥
त्रिरत्नस्मरणं कृत्वा तस्थौ ध्यानसमाहितः ।
ततोऽसौ दारिका गेहे प्राप्ता भर्तुः पुरोगता ॥ ४.७६{७६} ॥
एतत्सर्वं प्रवृत्तांतं विस्तरेणाब्रवीन्मुदा ।
स्वामिन्नद्याम्बुसंपूर्णं घटं धृत्वागता पथि ॥ ४.७७{७७} ॥
ततो भिक्षुरुपागत्य पानीयं मां प्रयाचति ।
अदत्वैवं जलं तस्मै भिक्षवे सत्वरागता ॥ ४.७८{७१} ॥
वहुशो याच्यमानापि किं चिन्नैव ददाम्यहम् ।
इति तयोक्तमात्रेऽसौ भर्त्ता साधुरपि क्रुधा ।
तां भार्यां रुक्षणेत्रेण दृष्ट्वा चैवमभाषत ॥ ४.७९{७२} ॥
अरे पापिनि दुर्बुद्धे कथं न दीयते त्वया ।
कियद्व्येति जलं दत्वा भिक्षवे तृषिताय ते ॥ ४.८०{७१!} ॥
जलमात्रप्रदानेऽपि यस्याः श्रद्धा न विद्यते ।
सा किमन्नं धनं रत्नं कथां दातुं समुत्सहेत् ॥ ४.८१{७२} ॥
धिक्त्वां पापिनीं दुष्टां यस्या नास्ति दयार्थिने ।
किं त्वया मम सत्यापि यशोधर्मप्रघातया ॥ ४.८२{७३} ॥
यद्येवं न प्रदद्यास्त्वं कस्मै चिदर्थिने जलम् ।
प्रेयसीमपि भार्ये त्वां परित्यक्ष्याम्यहं खलु ॥ ४.८३{७४} ॥
यदि मे प्रियतां कर्तुमिछसि स्नेहचेतसा ।
अर्थिनो मानयित्वा तद्दानं कर्तुं समुत्सहेः ॥ ४.८४{७५} ॥
नो चेदेवं मया त्यक्ता व्रज मा तिष्ठ मे गृहे ।
अवश्यं नौ वियोगः स्यादेकान्ते मरणं ध्रुवम् ॥ ४.८५{७६} ॥
किं त्वादृश्या स्त्रिया पुंसः केवलं धर्महानये ।
धर्मं विना न मे कार्य्यं दाक्षिण्यापि च भार्यया ॥ ४.८६{७७} ॥
किं त्वया कांतयाप्येवं मात्सर्य्यकुलदुर्धिया ।
धर्म एव विनश्येत तद्व्रज मा गृहे वस ॥ ४.८७{७८} ॥
धर्मेण रक्ष्यते लोकः कान्तया किं हि रक्ष्यते ।
तत्कान्तापि परित्याज्या यदि पापनुरगिनी ॥ ४.८८{७९} ॥
(र्म् ५९)
भार्या हि पालनीया सा यदि धर्मार्थिनी सती ।
किं त्वं पापार्थिनी दुष्टा यशोधर्मविनाशिनी ॥ ४.८९{८०} ॥
नैवाहं च त्वया सार्द्धं भोक्तुं रन्तुं समुत्सहे ।
क्रियते चेत्त्वया धर्मस्तथा वस मया सह ॥ ४.९०{८१} ॥
नो चेदेवं मया त्यक्ता त्वं मा तिष्ठ गृहे व्रज ।
एवं भर्त्त्रोच्यमानापि प्रमदा सा न बोधिता ॥ ४.९१{८२} ॥
मात्सर्य्यालीढचित्तत्वाद्रोषिता चैवमब्रवीत् ।
नैव स्थास्याम्यहं यास्ये किं स्थित्वैवं विनिन्दिता ॥ ४.९२{८३} ॥
कियत्त्वय्यपराधं मे यत्तथाहं विमोचिता ।
किं स भिक्षुर्गुरुर्राजा मित्रं वा ते पिता सुहृत् ॥ ४.९३{८४} ॥
ज्ञातिर्वा स सखा वन्धुः किं च भ्राता प्रभुर्धनी ।
प्रदत्तं किमदत्तं च कियन्नष्टं भवेत्यतः ॥ ४.९४{८५} ॥
नैव किंचिच्च दास्यामि कस्मै चिद्भिक्षवेऽर्थितम् ।
अदत्वा मे भवेत्किं हि दास्याम्यहं यथेछया ॥ ४.९५{८६} ॥
दास्यामि वा न दास्यामि का चर्चात्र तथा तव ।
पापश्चेन्मयि पच्येत धर्मो वापि तथा मम ॥ ४.९६{८७} ॥
त्वमत्र मा कृथाश्चिन्तां किं त्वयात्र विचार्य्यते ।
शुभं वाप्यशुभं वा मे तव किं तद्विचारता ॥ ४.९७{८८} ॥
तथापि मम दोषं चेद्यास्यामि न वसाम्यहम् ।
वरं प्राणपरित्याज्यं न तु दानं ददाम्यहम् ॥ ४.९८{८९} ॥
इत्यसौ प्रमदाक्रुष्य भर्तुराक्षिप्य गर्विता ।
क्वचित्किंचिच्च कस्मैचिद्ददौ नैव कदाचन ॥ ४.९९{९०} ॥
गृहे तिथीनुपायातान् दृष्ट्वैवातिप्ररोषिता ।
वहुधा क्रुष्य तान् गेहान्न्यकासयद्बलादपि ॥ ४.१००{९१} ॥
तदाशीर्वचनान्येवं श्रुत्वापि परिकोपिता ।
हसति निन्दयित्वैनां परिभाष्य न्यकासयत् ॥ ४.१०१{९२} ॥
सदा बध्वा गृहद्वारं याचकागतिशंकया ।
कोष्ठ एव समासीना कदाचिन्न विनिर्ययौ ॥ ४.१०२{९३} ॥
(र्म् ६०)
सर्वदा स्वामिना सार्द्धं कृत्वैवं कलहं मुहुः ।
स्वयमेव प्रभुक्त्वासौ कालमेवमयापयत् ॥ ४.१०३{९४} ॥
ततः काल उपायाते प्रमदा सा रुजान्विता ।
तदाप्येवं न चोत्सेहे किंचिद्दातुं समर्थिने ॥ ४.१०४{९५} ॥
ततः प्रवृद्धरोगार्त्ता तृष्णार्त्ता परिशोषिता ।
मृता सा नरके याता प्रेती भवति सांप्रतम् ॥ ४.१०५{९६} ॥
या चाभूद्दारिका दुष्टा मात्सर्य्यप्रहताशया ।
सैवैषा हि त्वया दृष्टा प्रेती नरकवासिनी ॥ ४.१०६{९७} ॥
इति मौद्गल्य दृष्ट्वैवं प्रत्यक्षं पापदुःखिनीम् ।
सर्वादा श्रद्धयार्थिभ्यो दातव्यं जलमादरात् ॥ ४.१०७{९८} ॥
सर्ववस्तुप्रदानानां जलदानं महत्तरम् ।
सर्वेषां जीवनं यस्मादमृतं संवरं जलम् ॥ ४.१०८{९९} ॥
जलपानं विना सर्वे न जीवन्ति हि जन्तवः ।
तदमृतं जलं शुद्धं दातव्यमर्थिने सदा ॥ ४.१०९{१००} ॥
जलमेव हि पीत्वा ते निराहारास्तपस्विनः ।
योगिनोऽनेकवर्षानि जीवन्ति प्राणिनो यथा ॥ ४.११०{१} ॥
सर्वाहाराभिसंत्यक्ता जिवंति प्राणिनो जलैः ।
सर्वान्न परिभुक्त्वापि न जीवन्ति जलैर्विना ॥ ४.१११{२} ॥
तदमृतप्रदानं तज्जीवदानं प्रचक्ष्यते ।
सर्ववस्तुप्रदानेभ्यो जलदानं प्रशस्यते ॥ ४.११२{३} ॥
विशेषाद्ग्रीष्मकाले तु तृषार्त्ताय च रोगिने ।
बालवृद्धातुरेभ्यश्च दातव्यं जलमादितः ॥ ४.११३{४} ॥
जलदानं महादानं जलदानसमं न हि ।
येनाभिधार्य्यते प्राणं तत्फलं संप्रशस्यते ॥ ४.११४{५} ॥
सर्वधातुप्रदानेभ्यः सर्वरत्नप्रदानतः ।
सर्वान्नभोग्यदानेभ्यो जलदानं महीयते ॥ ४.११५{६} ॥
कन्याकोटिप्रदानाच्च गजकोटिप्रदानतः ।
गवां कोटिप्रदानाच्च जलदानं महीयते ॥ ४.११६{७} ॥
सप्तरत्नमयीभूमिप्रदानाच्च महीयते ।
एवं सर्वप्रदानेभ्यो जलदानं महत्तरम् ॥ ४.११७{८} ॥
तृप्यन्ते देवताः सर्वे पितृलोकास्तथापरे ।
सर्वे भूताश्च सत्वाश्च जलेनैव सदापि हि ॥ ४.११८{९} ॥
तथा द्रव्यानि सर्वाणि भूतानि ह्यशुचिन्यपि ।
जलाभिषिक्तमात्रेण शुद्ध्यन्ते सर्वदा खलु ॥ ४.११९{१०} ॥
जलं विना न तृप्यन्ते भुक्त्वापि दिव्यभोजनम् ।
(र्म् ६१)
तस्मात्सर्वप्रदानानां जलदानं महीयते ॥ ४.१२०{११} ॥
तथा ये च सुधां पीत्वा दिव्यकान्ता समर्पिता ।
रमन्ति त्रिदशाः स्वर्गे ते हि सर्वे जलप्रदाः ॥ ४.१२१{१२} ॥
चक्रवर्त्ती नृपेन्द्रो यो रमणीभिः सहामृतम् ।
भुक्त्वा रमति संमोदी सोऽपि चाम्बुप्रदानतः ॥ ४.१२२{१३} ॥
एवं चान्येऽपि ये लोका यथेछा सुखभोगिनः ।
निःक्लेशा निरुजा भद्रास्ते हि सर्वे जलप्रदाः ॥ ४.१२३{१४} ॥
ये तु नीचाशयादीनाः क्षुत्पिपासातुराः कृशाः ।
याचकाः प्रेष्यकाश्चापि सर्वे तेऽम्भोऽप्रदानिकाः ॥ ४.१२४{१५} ॥
जलदानोद्भवं पुण्यं संख्यातुं नैव शक्यते ।
सर्वैरपि मुनींद्रैश्च किमन्यैर्विबुद्धैर्जनैः ॥ ४.१२५{१६} ॥
मत्वेति श्रद्धया नित्यं दिव्यामृताभिवांछिभिः ।
अर्थिभ्यः सर्वसत्वेभ्यो दातव्यं जलमादरात् ॥ ४.१२६{१७} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च भिक्षवः ।
सर्वेभ्यः सर्वदा कर्तुं जलदानं समैछन् ॥ ४.१२७{१८} ॥
अथानन्दः समुत्थाय नत्वा तं श्रीघनं गुरुम् ।
कृतांजलिपुटो पृछन् तत्पापपरिमोचनम् ॥ ४.१२८{१९} ॥
कदा सा भगवन् प्रेती तत्पापात्परिमोक्ष्यते ।
सर्वसत्वाभिबोधार्थं तत्समादेष्टुमर्हसि ॥ ४.१२९{२०} ॥
इत्यानन्देन पृष्टेऽसौ सर्वज्ञो भगवांस्तदा ।
तमानंदं समारभ्य प्राह पापविमोचनम् ॥ ४.१३०{२१} ॥
शृण्वानंद समाधाय येन सा परिमोक्ष्यते ।
सर्वसत्वप्रबोधाय तदुपायैः प्रचक्ष्यते ॥ ४.१३१{२२} ॥
सा प्रेती नरकेष्वेवं सर्वेषु भ्रमिता सदा ।
दुःखाभिवेदनाखिन्ना परितप्तानुतापिता ॥ ४.१३२{२३} ॥
ततः कालान्तरे सैवं स्मृत्वा रत्नत्रयं यदि ।
(र्म् ६२)
नमो बुद्धाय धर्माय संघायेति वदेद्यदा ॥ ४.१३३{२४} ॥
तदा लोकेश्वरो सर्वलोकनाथो जिनात्मजः ।
दृष्ट्वा तां सहसोपेत्य स्वप्रभाभिः परिस्पृशेत् ॥ ४.१३४{२५} ॥
यदा लोकेश्वराभाभिः स्पर्शिता सा सुधी सती ।
तदातिसौख्यतां लब्ध्वा विस्मितैवं व्यचिन्तयेत् ॥ ४.१३५{२६} ॥
अहो सौख्यं मया लब्धं कस्यानुभावतोऽधुना ।
किमाहोस्विदितश्च्युत्वागतोऽन्यत्र वसाम्यहम् ॥ ४.१३६{२७} ॥
इति चिन्तारि तिष्ठन्ती विस्मयोद्धतमानसीम् ।
दृष्ट्वा लोकेश्वरश्चैनां बोधयितुमुपाचरेत् ॥ ४.१३७{२८} ॥
उपेत्य तर्पयित्वा च स्वतनुनिःसृतैर्जलैः ।
विविधैर्भोजनैश्चापि प्रतर्प्पयेत्स बोधिराट् ॥ ४.१३८{२९} ॥
ततोऽसौ पापिनी प्रेती पीत्वा तत्तनुजामृतम् ।
परितृप्ता विशुद्धाङ्गा नत्वा तं प्रार्थयेत्तथा ॥ ४.१३९{३०} ॥
नमस्ते भगवन्नाथ कृपया मां समुद्धर ।
दर्शय धर्ममार्गं मे सदा ते शरणं व्रजे ॥ ४.१४०{३१} ॥
तयैवं प्रार्थिते चासौ लोकनाथो दयानिधिः ।
दर्शयित्वार्यमार्गं च श्रावयेद्धर्मदेशनाम् ॥ ४.१४१{३२} ॥
यां श्रुत्वैव च सा प्रेती सर्वपापविमोचिता ।
ततश्च्युत्वा विशुद्धात्मा जन्म बोधिकुले लभेत् ॥ ४.१४२{३३} ॥
तत्र बोधिचरीः प्राप्तुं चरेद्व्रतमुपोषधम् ।
तद्व्रतपुण्यभावैश्च बोधिचर्य्याः समाचरेत् ॥ ४.१४३{३४} ॥
क्रमाद्बोधिचरीः पूर्य्य बोधिप्रणिधिमानसः ।
बोधिसत्वो महासत्वो भविष्यति न संशयः ॥ ४.१४४{३५} ॥
ततो लोकहितं कृत्वा संबोधिपदमाश्रयन् ।
सर्वदा च सुखं भुक्त्वा सुखावतीं गमिष्यति ।
तत्रामिताभसंबुद्धं सेवित्वा समुपाश्रयन् ।
संबोधिज्ञानमासाद्य निर्वृतिं चाप्यवाप्स्यति ॥ ४.१४५{३६} ॥
यद्यसौ स्मरते प्रेती त्रिरत्नानां समाहिता ।
तदा चैवं ततश्च्युत्वा सौखावतीं गमिष्यति ॥ ४.१४६{३७} ॥
नो चेदेवं हि सा प्रेती सदापि नरके वसेत् ।
यावन्न स्मरते बुद्धं तावन्न मोक्ष्यते ततः ॥ ४.१४७{३८} ॥
(र्म् ६३)
एवं सर्वेऽपि ये सत्वा यावन्तो नरकास्थिताः ।
तावन्तस्तेऽपि सर्वे च दुष्टाः पापानुचारिकाः ॥ ४.१४८{३९} ॥
यदैषां ये त्रिरत्नानां स्मरन्त्यनुतापिताः ।
नमो बुद्धाय धर्माय संघायेति वदंति च ॥ ४.१४९{४०} ॥
तदा तत्पापनिर्मुक्ता विशुद्धाङ्गाः शुभाशयाः ।
सद्धर्माचरणं कर्तुमुत्सहेयुः समाहिताः ॥ ४.१५०{४१} ॥
ततो लोकेश्वरो दृष्ट्वा तान् सत्वान् धर्मभाजनान् ।
बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजयेत् ॥ ४.१५१{४१!} ॥
ततः सर्वे च ते सत्वा बोधिप्रणिधिमानसाः ।
सर्वसत्वहितार्थेन समिछेयुः शिवां चरीम् ॥ ४.१५२{४२} ॥
ततस्ते नरकाच्च्युत्वा संप्रयायुः सुखावतीम् ।
तत्रामिताभनाथस्य धर्मं श्रुत्वानुमोदिताः ॥ ४.१५३{३३!} ॥
बोधिचर्य्याः समाश्रित्य कुर्युर्लोकहितानि ते ।
क्रमाद्बोधिचरीः पूर्य्य सर्वक्लेशविमुक्तिगाः ॥ ४.१५४{३४} ॥
संबोधिज्ञानमासाद्य निर्वृतिं समवाप्नुयुः ।
एवमन्येऽपि ये सत्वा लोकेशसरणं गताः ॥ ४.१५५{३५} ॥
ते आशु पापनिर्मुक्ताः सुखावतीं व्रजन्ति हि ।
ये ये लोकेश्वरं स्मृत्वा भजन्ति सततं मुदा ।
ते ते सर्वे च निःपापा भवन्ति बोधिभागिनः ॥ ४.१५६{३६} ॥
तस्माल्लोकेश्वरं स्मृत्वा गत्वा च शरणं सदा ।
त्रिमण्डलविशुद्धेन चरितव्यं व्रतोत्तमम् ॥ ४.१५७{३७} ॥
व्रतोत्तमं समाख्यातमार्याष्टांगिकपोषाधम् ।
सर्वेषामपि पुण्यानां तद्व्रतपुण्यमुत्तमम् ॥ ४.१५८{३८} ॥
येनैवाशु विशुद्ध्यंते घोरपातकिनापि च ।
तस्मादेतत्महत्पुण्यं व्रतराजं विदुर्जिनाः ॥ ४.१५९{३९} ॥
यस्य पुण्यानुभावेन पूर्य्य पारमितागणाः ।
सर्वक्लेशान् विनिर्जित्य शीघ्रं बोधिमवाप्नुयुः ॥ ४.१६०{४०} ॥
येऽप्यतीताश्च संबुद्धाः सर्वज्ञाः सुगता जिनाः ।
तेऽपि तद्व्रतपुण्यैस्तु शीघ्रं बोधिमवाप्नुवन् ॥ ४.१६१{४१} ॥
येऽप्येतर्हि च संबुद्धाः संबोधिधर्मदेशकाः ।
(र्म् ६४)
तेऽप्येतद्व्रतपुण्यैश्च भवन्ति बोधिपारगाः ॥ ४.१६२{४२} ॥
ये चाप्यनागता बुद्धा भविष्यन्ति तथागताः ।
तेऽप्येतद्व्रतपुण्यैस्तु लप्स्यन्ते बोधिसंपदम् ॥ ४.१६३{४३} ॥
एवमन्येऽपि ये प्राज्ञाः संबोधिपदवांछिताः ।
तेऽप्येतद्व्रतमाधाय लभन्ति बोधिसंपदम् ॥ ४.१६४{४४} ॥
तस्मादेतद्व्रतं धृत्वा दातव्यं दानमदरात् ।
एतत्फलं सदाक्षीणं सूते कल्पतरुर्यथा ॥ ४.१६५{४५} ॥
एतद्व्रतधराः सत्वाः सद्धर्माचरणोद्यताः ।
सर्वथा न व्रजंत्येव दुर्गतिषु कदाचन ॥ ४.१६६{४६} ॥
सदैव सुगतिं प्राप्ताः सर्वसत्वानुकंपिनः ।
सद्धर्माचरणं धृत्वा बोधिसत्वा भवन्ति ते ॥ ४.१६७{४७} ॥
ये च लोकेश्वरं स्मृत्वा चरन्त्येतद्व्रतं सदा ।
ते पश्यन्ति सदाप्येनं लोकनाथं जगत्प्रभुम् ॥ ४.१६८{४८} ॥
तेन लोकेश्वरेणापि दृश्यंते तेऽपि सर्वदा ।
ये च लोकेशसंदृष्टास्ते सर्वे बोधिभागिनः ॥ ४.१६९{४९} ॥
बोधिसत्वा महासत्वाः संबोधिं समवाप्नुयुः ।
ये स्मरन्ति सदा नित्यं लोकेशं करुणामयम् ।
सहसा दुर्गतिं त्यक्त्वा मुक्त्वा यायुः सुखावतीम् ॥ ४.१७०{५०} ॥
ये च तच्छरणं गत्वा भजंति तं जिनात्मजम् ।
सर्वपापविनिर्मुक्तास्तेऽपि यायुः सुखावतिम् ॥ ४.१७१{५१} ॥
ये सुगन्धैर्जलैः शुद्धैः स्नापयन्ति जगद्गुरुम् ।
मन्दाकिन्यां च ते स्नात्वा शुद्धा यांति सुखावतिम् ॥ ४.१७२{५२} ॥
पंचगंधादिसौरभ्यैर्लोकेशं लेपयंति ये ।
चक्रवर्त्तिपदं भुक्त्वा तेऽपि यांति सुखावतीम् ॥ ४.१७३{५३} ॥
चीवरं ये ददंत्यस्मै ते दिव्यवस्त्रसंयुताः ।
सर्वधर्माधिनाथाश्च यांति चांते सुखावतीम् ॥ ४.१७४{५३*} ॥
सत्कृत्य श्रद्धया येऽपि पुष्पैस्तमर्चयन्ति ये ।
(र्म् ६५)
ते सुरेन्द्रपदं प्राप्य यान्ति चान्ते सुखावतीम् ॥ ४.१७५{५४} ॥
सौरभ्ययोजितैर्धूपैर्ये भजन्ति तमीश्वरम् ।
ते नरेन्द्रपदं भुक्त्वा यांति चान्ते सुखावतिम् ॥ ४.१७६{५५} ॥
ये ददन्ति च भैषज्यं तस्मै लोकाधिपाय च ।
चक्रवर्त्तिपदं प्राप्य यांति ते च सुखावतीम् ॥ ४.१७७{५६} ॥
ये ददन्ति प्रदीपानि तस्मै लोकेश्वराय च ।
ते महेन्द्रपदं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ ४.१७८{५७} ॥
नैवेद्यं ये ददन्त्यस्मै ते भवन्ति नरेश्वराः ।
दिव्यभोग्यानि भुक्त्वा च यान्ति चान्ते सुखावतीम् ॥ ४.१७९{५८} ॥
ये च पानं ददन्त्यस्मै ते पीत्वा सततं सुधाम् ।
स्वर्गे रमन्ति देवेन्द्रा यान्ति चान्ते सुखावतीम् ॥ ४.१८०{५९} ॥
फलमूलादिकं दत्तं यैश्च तस्मै सुतायिने ।
यथेप्सितसुखं भुक्त्वांतेऽपि यांति सुखावतीम् ॥ ४.१८१{६०} ॥
ताम्बूलं पूगसंयुक्तं लोकेशाय ददन्ति ये ।
सुरूपाः सत्सुखं भुक्त्वांतेऽपि यान्ति सुखावतीम् ॥ ४.१८२{६१} ॥
शय्यासनं प्रदत्तं यैस्तस्मै सत्वानुकंपिने ।
ते क्षितीशश्रियं भुक्त्वा यान्त्यंते च सुखावतीम् ॥ ४.१८३{६२} ॥
सिंहासनं प्रदत्तं यैस्तस्मै धर्मानुशासिने ।
ते वंद्याः सर्वलोकैश्च यान्त्यन्ते च सुखावतीम् ॥ ४.१८४{६३} ॥
छत्रं तस्मै प्रदत्तं यैस्ते नृपाश्चक्रवर्त्तिनः ।
यशोधर्मसुखं भुक्त्वा संप्रयान्ति सुखावतीम् ॥ ४.१८५{६४} ॥
पताकां ये प्रयछन्ति तस्मै लोकाधिपाय चा ।
तेऽपि सर्वां महीं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ ४.१८६{६५} ॥
तस्मै ये च प्रयछन्ति धातुरत्नगणानि च ।
ते नरेन्द्राश्चतुर्द्वीपां भुक्त्वा यान्ति सुखावतीम् ॥ ४.१८७{६६} ॥
ये वितानं वितन्वंति गेहे तस्य कृपानिधेः ।
ते नरेन्द्राः सुरेन्द्राश्च भूत्वा यांति सुखावतीम् ॥ ४.१८८{६७} ॥
त्रैलोक्याधिपतेस्तस्य ये कुर्वन्ति प्रदक्षिणाम् ।
ते नरेन्द्रश्रियं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ ४.१८९{६८} ॥
संगीतैर्ये प्रकुर्वन्ति पूजां तस्य जगत्प्रभोः ।
सदा सुभाषितान्येव शृण्वन्ति ते गुणाकराः ॥ ४.१९०{६९} ॥
चामरैर्व्यजनैर्वापि तं नाथं वीजयन्ति ये ।
(र्म् ६६)
ते नृपाः सुरलक्ष्मीं च भुक्त्वा यांति जिनालये ॥ ४.१९१{७०} ॥
शोधयन्ति च ये नित्यं विहारे कारुणानिधेः ।
दिव्यनेत्राश्च ते सौख्यं भुक्त्वा यांति सुरालयम् ॥ ४.१९२{७१} ॥
कृत्वा रम्यं विहारं च लोकेशाय ददन्ति ये ।
ते महेन्द्रश्रियं भुक्त्वा संप्रयान्ति सुखावतीम् ॥ ४.१९३{७२} ॥
विहारे तत्र संसिद्धे यष्टिमारोप्य ये नराः ।
सुवर्णकलशांश्छत्रध्वजघण्टावलीयुतान् ॥ ४.१९४{७३} ॥
पंचवर्णपताकाभिः पुष्पस्रग्भिश्च संयुतान् ।
संप्रतिस्थां प्रकुर्वति महोत्साहैर्विधानतः ॥ ४.१९५{७४} ॥
ते नरेन्द्राः सुरेन्द्राश्च यशोधर्मसुखान्विताः ।
माहेश्वर्य्यश्रियं भुक्त्व यान्ति चान्ते सुखावतीम् ॥ ४.१९६{७५} ॥
पद्यगद्यमयैः स्तोत्रैर्ये स्तुवंति तमीश्वरम् ।
निःपापाः सुखिनः प्राज्ञास्ते प्रयान्ति सुखावतीम् ॥ ४.१९७{७६} ॥
ये चाष्टांगप्रणामानि अस्मै शास्त्रे प्रकुर्वंते ।
चक्रवर्तीपदं भुक्त्वा ते प्रयान्ति जिनालयम् ॥ ४.१९८{७७} ॥
ये स्मरन्ति सदा नित्यं तमीशं सुगतात्मजम् ।
ते सद्यः पापनिर्मुक्ता अन्ते यान्ति सुखावतीम् ॥ ४.१९९{७८} ॥
ये ये सत्वाश्च तं नाथं स्मृत्वा भजन्ति सर्वदा ।
ते ते सर्वे न यान्त्येव दुर्गतिषु कदाचन ॥ ४.२००{८०} ॥
सदापि सद्गतिष्वेव याताः सौख्यसमन्विताः ।
सद्धर्माचरणं कृत्वा संप्रयान्ति सुखावतीम् ॥ ४.२०१{८१} ॥
एवं ये पापिनश्चापि लोकेशं शरणं गताः ।
तेऽपि पापविनिर्मुक्ताः शुद्धा यांति जिनालयम् ॥ ४.२०२{८२} ॥
एवं लोकेश्वरो नाथः पुण्यक्षेत्रं शुभप्रदः ।
चिंतामणिः कल्पवृक्षो यथेप्सितफलप्रदः ॥ ४.२०३{८३} ॥
(र्म् ६७)
न हि तेन समः कश्चिन्महत्पुण्यफलप्रदः ।
कुतोऽधिकस्तु विद्येत त्रैधातुभुवनेष्वपि ॥ ४.२०४{८४} ॥
तेनैव सकलाः सत्वा बोधयित्वा प्रयत्नतः ।
आर्य्यमार्गे प्रतिष्ठाप्य प्रेरिता निर्वृतावपि ॥ ४.२०५{८५} ॥
पापिष्ठो अपि सत्वाश्च तेनोपेत्य स्वयं तथा ।
नरकेभ्यः समुद्धृत्य संप्रेरिताः सुखावतीम् ॥ ४.२०६{८६} ॥
एवं सर्वेऽपि सत्वाश्च नानोपायविधानतः ।
दर्शयित्वार्य्यमार्गाणि तेन बोधौ निवेशिताः ॥ ४.२०७{८७} ॥
तस्मात्सर्वाधिकेशः स लोकेश्वरो महेश्वरः ।
सर्वधर्मानुभर्ता स लोकनाथः प्रतीयते ।
केनापि गंतुं तस्य पुण्यस्कंधं न शक्यते ।
मयापि शक्यते नैवं सर्वैश्चापि मुनीश्वरैः ।
एवं मत्वा त्वमानंदः लोकनथं दयोदधिम् ॥ ४.२०८{८८} ॥
सर्वदेवाधिदेवेशं स्मृत्वैव सततं भज ।
ततस्ते मंगलं नित्यं सर्वदापि समंततः ॥ ४.२०९{८९} ॥
कुतश्चिन्नैव विद्येरन् भयानि विविधान्यपि ।
यत्र लोकेश्वरस्मृतिस्तत्रोत्पातभयं न हि ॥ ४.२१०{९०} ॥
अग्नेरपि भयं नैव नाप्युत्पातमरुद्भयम् ।
न चोदकभयं तत्र न च भूमिभयं खलु ॥ ४.२११{९१} ॥
विद्युत्पातभयं नापि न चाशनिभयं सदा ।
न च शत्रुभयं क्वापि नापि राजभयं तथा ॥ ४.२१२{९२} ॥
न च चौरभयान्येवं न च रोगभयानि च ।
सर्वभयः प्रशाम्यन्ते लोकेशस्मृतिभावतः ॥ ४.२१३{९३} ॥
सर्वेऽप्युपद्रवाश्चैवं प्रयांति विलयं ततः ।
एवं लोकेश्वरो नाथो महत्पुण्यानुभाववान् ॥ ४.२१४{९४} ॥
येनैवं त्रिजगल्लोकं पालितं पुत्रवत्सदा ।
तस्माल्लोकेश्वरो नित्यं सेवितव्यः शुभार्थिभिः ॥ ४.२१५{९५} ॥
यस्य धर्मानुभावेन सर्वत्रापि शिवं सदा ।
इति मत्वा त्वयानंद तद्धर्माञ्छ्रावयन् सदा ॥ ४.२१६{९७} ॥
प्रेरयित्वा च तद्भक्तौ संबोधौ संप्रवेशय ।
(र्म् ६८)
एतत्पुण्यानुभावैस्त्वमप्येवं कुशली भवन् ॥ ४.२१७{९८} ॥
बोधिसत्वो महासत्वो भवेन्नूनं जिनात्मजः ॥ ४.२१८{९९} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः ।
तथेति प्रतिमोदित्वा सदा लोकेशमस्मरत् ॥ ४.२१९{१००} ॥
एवं राजंस्त्वया चापि स्मृत्वा लोकेश्वरः सदा ।
सेवितव्यः प्रयत्नेन बोधिप्रणिधिचेतसा ॥ ४.२२०{१} ॥
ततस्त्वं सहसा सर्वपापेभ्यः परिमोचितः ।
बोधिसत्वो विशुद्धात्मा प्रयास्यसि सुखावतीम् ॥ ४.२२१{२} ॥
इत्येवं गुरुणादिष्टमुपगुप्तेन धीमता ।
श्रुत्वा राजानुमोदित्वा सोऽभ्यनन्दत्सपार्षदः ॥ ४.२२२{३} ॥
इदं श्रुत्वावदानं ये श्रावयित्वा परानपि ।
भजंति लोकनाथं ते संप्रयायुः सुखावतीम् ॥ ४.२२३{४} ॥
++ इति रत्नावदानमालायं प्रेतिकावदानं समाप्तम् ++
(र्म् ६९)
व्शालपुष्पावदान
अथाशोको महीपालो भूयः श्रोतुं सुभासितैः ।
उपगुप्तं गुरुं नत्वा कृतांजलिरवोचत् ॥ ५.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तदर्हसि समादेष्टुं लोकानां पुण्यवृद्धये ॥ ५.२{२} ॥
इति विज्ञापिते तेन नृपेन्द्रेण प्रसादिना ।
उपगुप्तो यतिश्चापि तं नृपं प्रत्यभाषत ॥ ५.३{३} ॥
शृणु राजन्महाभाग सर्वलोकहितार्थभृत् ।
यथा मे गुरुणादिष्टं वक्ष्येऽहं ते तथा खलु ॥ ५.४{४} ॥
पुरैकसमये बुद्धो भगवाञ्छ्रीघनो जिनः ।
श्रावस्त्यां जेतकारण्ये विहारे मणिमण्डिते ॥ ५.५{५} ॥
श्रावकैर्भिक्षुभिः संघैर्बोधिसत्वगणैः सह ।
सद्धर्मदेशनां कर्तुं व्यहरल्लोकशासितुम् ॥ ५.६{६} ॥
तद्धर्मदेशनां श्रोतुं सर्वे सत्वाः समागताः ।
ब्राह्मणाः क्षत्रियाश्चापि राजानो राजमात्रिकाः ॥ ५.७{७} ॥
वैश्याः शूद्रा अमात्याश्च मंत्रिणः साधवो जनाः ।
श्रेष्ठिनः सार्थवाहाश्च धनिनश्च वणिग्गणाः ॥ ५.८{८} ॥
पौराजानपदाश्चापि नानादेशसमागताः ।
देवा दैत्याश्च गन्धर्वा यक्षकिन्नरराक्षसाः ॥ ५.९{९} ॥
सिद्धाविद्याधराः साध्या वसवश्च ग्रहाधिपाः ।
नागेंद्रा गरुडाश्चैवमृषयो ब्रह्मचारिणाः ॥ ५.१०{१०} ॥
योगिनो यतयश्चापि लोकपालाः ससैन्यकाः ।
सर्वे तं सुगतं नत्वा धर्मं श्रोतुमुपागताः ॥ ५.११{११} ॥
सत्कृत्य पूजयित्वा च कृतांजलिपुटो मुदा ।
परिवृत्य पुरस्कृत्य दृष्ट्वा तस्थुः समाहिताः ॥ ५.१२{१२} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मवांछिनः ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ५.१३{१३} ॥
तत्र देवादयः सर्वे तत्सद्धर्मामृतं मुदा ।
पीत्वा चाभ्यनुमोदन्तः प्रापुर्ज्ञानविशेषताम् ॥ ५.१४{१४} ॥
(र्म् ७०)
श्रावस्तेयात्तदानेके दारिका दारकाश्च ते ।
कुसुमान् याचितं शालभंजिकाख्यं गिरिं ययुः ॥ ५.१५{१५} ॥
तत्र ते सहसा गत्वा दृष्ट्वा पुष्पाण्यनेकशः ।
प्रादाय समुपागत्वा श्रावस्त्यामचरन्मुदा ॥ ५.१६{१६} ॥
तत्रैका दारिका वाला श्रेष्ठिपुत्री प्रमोदिता ।
शनैः सा शालपुष्पाणि प्रादाय पृष्ठतोऽचरत् ॥ ५.१७{१७} ॥
तदा च भगावान् बुद्धो भिक्षुसंघसमन्वितः ।
श्रावस्त्यां भोजनं भुक्त्वा ततो बहिर्विनिर्ययौ ॥ ५.१८{१८} ॥
तत्र सा दारिकाद्राक्षीद्भगवन्तं तमागतम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनं समलंकृतम् ॥ ५.१९{१९} ॥
व्यामप्रभाविराजन्तं सहस्रेणाधिकप्रभम् ।
जंगममिव रत्नाङ्गं समन्तभद्ररूपिकम् ॥ ५.२०{२०} ॥
दृष्ट्वैवं श्रीघनं नाथं दारिका सा प्रमोदिता ।
श्रद्धयार्चयितुं पुष्पैर्मनसैवं व्यचिंतयत् ॥ ५.२१{२१} ॥
अहो पुण्यं मया लब्धं यत्संबुद्धो दृश्यतेऽधुना ।
एवं कदा कथं कुत्र द्रक्ष्यतेऽयं मुनीश्वरः ॥ ५.२२{२२} ॥
भाग्येनैवं मया लब्धं संबुद्धदर्शनं तथा ।
नूनं भाग्यवती चास्मि यत्पुण्यनिधिराप्यते ॥ ५.२३{२३} ॥
तस्मात्पुण्यं महारत्नं प्राप्तुमुपेत्य सादरम् ।
एतैश्च कुसुमैः सर्वैरर्हाम्येतं समर्चितुम् ॥ ५.२४{२४} ॥
कदायं लप्स्यते भूयः परवश्या स्त्रिया मया ।
तदहं सहसोपेत्य पुष्पाण्यस्मायुपाकिरे ॥ ५.२५{२५} ॥
सदा नोत्पद्यते नात्र संबुद्धो हि कदा चन ।
अतिसुदुर्ल्लभं ह्यस्य दर्शनं च सदा न हि ॥ ५.२६{२६} ॥
मानुष्यं दुर्ल्लभं जन्म विना पुण्यैर्न लभ्यते ।
मानुष्येऽलभ्यमानेऽपि संबुद्धे सेव्यते कथम् ॥ ५.२७{२७} ॥
मानुष्ये लभ्यमानेऽपि क्षणं संपत्सुदुर्ल्लभा ।
नरैरप्यक्षणप्राप्तैः कथं बुद्धेऽनुसेव्यते ॥ ५.२८{२८} ॥
तदद्य मानुषी भूत्वा प्राप्यैवं सुकृतौ क्षणम् ।
यद्यत्र कुसुमैरेभिः संबुद्धं नार्चयाम्यहम् ॥ ५.२९{२९} ॥
(र्म् ७१)
ततो मे निष्फलं जन्म मानुष्ये व्यर्थमेव हि ।
किं ममानेन देहेन सर्वथैकान्तनाशिना ॥ ५.३०{३०} ॥
किमनेनापि जीवेन मृत्यौ नित्यं पुरःस्थिते ।
कियत्कालं च जीवेयं गछेयं मरणं ध्रुवम् ॥ ५.३१{३१} ॥
चिरं स्थित्वापि किं सारं संबुद्धभजनं विना ।
वरं प्राणपरित्यागं कृत्वा संबुद्धदर्शनम् ॥ ५.३२{३२} ॥
अनित्यं खलु संसारं सर्वदेहादिकं धनम् ।
एतदेव तु सत्सारं यद्बुद्धे भजनं सदा ॥ ५.३३{३३} ॥
तदैतैः कुसुमैः सर्वैः पूजयामि मुनीश्वरम् ।
कथं न पूजयिस्यामि संबुद्धं त्रिजगद्गुरुम् ॥ ५.३४{३४} ॥
इति निश्चित्य सा वाला दृष्ट्वा तं सुगतं मुदा ।
सहसोपेत्य तैः सर्वैः सालपुष्पैरवाकिरन् ॥ ५.३५{३५} ॥
ततः प्रदक्षिणीकृत्य प्रणम्य तं प्रहर्षिता ।
किं चिद्दूरे परावृत्य तस्थौ दृष्ट्वा मुनिं मुदा ॥ ५.३६{३६} ॥
ततोऽसौ भगवान् बुद्धस्तस्या आयुर्विहीनताम् ।
मत्वा तां संन्रीक्स्यैवं स्वं विहारं समाययौ ॥ ५.३७{३७} ॥
अथ सा दारिका भूयस्तथान्यत्कुसुमानि च ।
गृहस्यार्थे समादातुं ततः शालवनं ययौ ॥ ५.३८{३८} ॥
तत्र शालतरुं दृष्ट्वा प्रफुल्लकुसुमान्वितम् ।
तत्पुष्पाणि समाचेतुं सहसा सा रुरोह तम् ॥ ५.३९{३९} ॥
तत्रावरुह्य पुष्पाणि चिन्वन्ती सा प्रमोदतः ।
अग्रशाखासमारूढा पपात सहसा ततः ॥ ५.४०{४०} ॥
पतिता सा विरुग्नाङ्गा तीव्रातिवेदनातुरा ।
हा हतास्मीति निश्चित्य संबुद्धस्मरणं व्यधात् ॥ ५.४१{४१} ॥
नमो बुद्धाय धर्माय संघाय सुगताय च ।
इति प्रोक्त्वैव संबुद्धं स्मरन्ति मरणं ययौ ॥ ५.४२{४२} ॥
ततः स्वर्गोपपन्ना सा विस्मितैवं व्यचिन्तयत् ।
कुतश्च्युत्वा कुहोत्पन्ना केन वा कुशलेन च ॥ ५.४३{४३} ॥
इति चिन्तापरीता सा सहसैवं व्यबुद्ध्यत ।
मर्त्याच्च्युत्वागता स्वर्गे बुद्धे पुष्पप्रदानतः ॥ ५.४४{४४} ॥
इति बुद्ध्वा च सा भद्रा सुप्रसादितमानसी ।
तमेव सुगतं नाथं स्मृत्वा नत्वाभ्यनन्दत ॥ ५.४५{४५} ॥
(र्म् ७२)
ततो देवैरुपनीतं दिव्यपुष्पस्वलंकृतम् ।
विमानं सा समारुह्य देवसभामुपाययौ ॥ ५.४६{४६} ॥
तस्मिंश्च समये शक्रः सुधर्मायां सुरैः सह ।
संबुद्धवर्णनां कृत्वा तस्थौ देवान् प्रमोदयन् ॥ ५.४७{४७} ॥
तथा तां समुपायातां शालपुष्पाभ्यलंकृताम् ।
दृष्ट्वा दिव्यातिवर्णाभां पप्रछ विस्मितो हरिः ॥ ५.४८{४८} ॥
गात्रं केन विमृष्टकांचननिभं पद्मोत्पलाभं तव ।
दिव्यश्रीरतुलाकृतेयमिह ते केन प्रभा निःसृता ।
वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ।
कस्य त्वं वरदेवते फलमिदं यत्कर्मजं भुज्यते ॥ ५.४९{४९} ॥
इति प्रोक्ते सुरेन्द्रेण सा भद्रा देवकन्यका ।
तं देवाधिपतिं नत्वा कृतांजलिपुटोऽब्रवीत् ॥ ५.५०{५०} ॥
सश्रावका नरादित्य आकीर्णशालपुष्पकैः ।
तत्कर्मकुशलं कृत्वा राजते मेऽधिकं तनुः ॥ ५.५१{५१} ॥
जलजेन्दुविशुद्धाभं वदनं मेऽभिरोचते ।
एतत्कर्मानुभावेन विजानीयाः सुरेश्वर ॥ ५.५२{५२} ॥
तयेति प्रोदितं श्रुत्वा देवेन्द्रोऽसौ सुविस्मितः ।
दृष्ट्वा चैनां सुभद्राङ्गीं प्रहर्षयन्नभाषत ॥ ५.५३{५३} ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्र न्यस्तं त्वया वीजमित्थं स्वर्गोपपत्तये ॥ ५.५४{५४} ॥
को नार्चयेत्प्रवरकांचनराशिगौरं बुद्धं विबुद्धकमलायतपत्रनेत्रम् ।
यत्राधिकारजनितानि विशोभितानि कांतामुखानि कमलायतलोचनानि ॥ ५.५५{५५} ॥
धन्योऽसि त्वं सुभद्रांगि संबुद्धगुणभाविनि ।
सर्वथा हि स संबुद्धः सेवितव्यः सदापि च ॥ ५.५६{५६} ॥
यस्य पुण्यप्रसादात्त्वं सद्यः स्वर्गे समागता ।
स एव भगवान्नाथः संस्मृत्वा सेव्यतां सदा ॥ ५.५७{५७} ॥
ततस्ते सर्वदा नित्यं मंगलं स्यात्समंततः ।
चिरं दिव्यसुखं भुक्त्वा यायाश्चान्ते सुखावतीम् ॥ ५.५८{१५८} ॥
इत्यादिष्टं सुरेन्द्रेण सा देवकन्यका सुधीः ।
अनुमोद्य च तं शक्रं नत्वा स्वमालयं ययौ ॥ ५.५९{५९} ॥
(र्म् ७३)
ततः सा संस्थिता देवीप्रासादे दिव्यमण्डिते ।
दिव्यभोग्यसुखप्राप्ता मोदित्वैवं व्यचिन्तयेत् ॥ ५.६०{६०} ॥
यच्च्युत्वाहं मनुष्येभ्योऽधुना स्वर्गसमागता ।
तत्संबुद्धप्रसादेन जानामि नान्यथा खलु ॥ ५.६१{६१} ॥
यन्मया पूजितो बुद्धः शालपुष्पैर्वनोद्भावैः ।
तत्पुण्यफलभोग्यार्थे आगताहं सुरालयम् ॥ ५.६२{६२} ॥
यद्दिव्यसुखसंप्राप्तं तत्संबुद्धप्रसादतः ।
तेन तमेवं संबुद्धं पुनर्गछेय वंदितुम् ॥ ५.६३{६३} ॥
न युक्तं सौगते गन्तुं पर्य्युषितेन वाससा ।
युक्तं तु सौगते गंतुमपर्युषितवाससा ॥ ५.६४{६४} ॥
इति सा मनसा मत्वा देवकन्या सुभद्रिका ।
स्नात्वा सौरभ्यलिप्तांगा दिव्यशुद्धाम्वरावृता ॥ ५.६५{६५} ॥
दिव्यालंकारमालादिमौलीकुण्डलमंडिता ।
अनेकदेवकन्याभिरप्सरोभिः समन्विता ॥ ५.६६{६६} ॥
दिव्यपूजोपचाराणि गृहीत्वा सहसा ययौ ।
तस्यामेव निशि स्वर्द्ध्या भासयन्ती समंततः ॥ ५.६७{६७} ॥
जेतवनमुपेत्यासौ प्रविवेश जिनालयम् ।
ततः प्रदक्षिणं कृत्वा प्रणम्य चरणौ मुनेः ॥ ५.६८{६८} ॥
पंचोपहारपूजाभिः पूजयित्वा कृतांजलिः ।
नत्वा च पुरतः तस्थौ सद्धर्मश्रवणोत्सुका ॥ ५.६९{६९} ॥
अथासौ भगवांस्तस्या ज्ञात्वाशयविशुद्धताम् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ५.७०{७०} ॥
चत्वारि चार्य्यसत्यानि निःक्लेशपुण्यलब्धये ।
दशकुशलमूलानि सम्यक्सत्वविशुद्धये ॥ ५.७१{७१} ॥
आर्य्याष्टाङ्गिकमार्गांश्च संबोधिमार्गलब्धये ।
बोधिपाक्षिकधर्मांश्च संबुद्धगुणलब्धये ॥ ५.७२{७२} ॥
अथासौ देवकन्या तां सद्धर्मदेशणं मुनेः ।
श्रुत्वानुमोदिता चापि प्राप्य धर्मविशेषताम् ॥ ५.७३{७३} ॥
ज्ञानवज्रेण सत्कायदृष्टिशैलं विभेद सा ।
श्रोतापत्तिफलं प्राप्ता दृष्टसत्याभवत्तदा ॥ ५.७४{७४} ॥
ततो भूयः प्रणम्यैवं भगवन्तं कृतांजलिः ।
सुप्रसन्नमुखाम्भोजो त्रिरुदानमुदाहरत् ॥ ५.७५{७५} ॥
(र्म् ७४)
भगवन्निदमस्माकं महापुण्यसुखोदयम् ।
जनन्यापि कृतं नापि न पित्रा न च वंधुभिः ॥ ५.७६{७६} ॥
न ज्ञातिभिर्न मित्रैश्च न सहायसुहृज्जनैः ।
नापि सालोहितैश्चापि पितृलोकैर्न चापरैः ॥ ५.७७{७७} ॥
न राज्ञा न चामात्यैर्न मंत्रिभिर्न च पौरिकैः ।
न गुरुभिर्न विप्रैश्च न यतिभिर्न तापसैः ॥ ५.७८{७८} ॥
न देवैर्नापि दैत्यैश्च नापि लोकाधिपैरपि ।
तथान्यैश्च कृतं नैव यदिदं भवता कृतम् ॥ ५.७९{७९} ॥
उछोषितो यदस्माकं रुधिराश्रुसरित्पतिः ।
अस्थिमयो महाछैलो यदस्माभिश्च लंघितः ॥ ५.८०{८०} ॥
तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः ॥ ५.८१{८१} ॥
भवत्प्रसादान्निरुपेतदोषं मयाद्य लब्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदमार्य्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि ॥ ५.८२{८२} ॥
नरवरेन्द्रसुरासुरपूजिते विगतजन्मजरामरणादयः ।
भवसहस्रसुदुल्लभदर्शने सफलमद्य मुने तव दर्शनम् ॥ ५.८३{८३} ॥
ततः प्रणत्वा चरणारविंदौ मुनेः प्रकृत्वा तृप्रदक्षिणां च ।
प्रजातहर्षा सुगतं जिनेंद्रं स्मृत्वा च भूयो दिवमाययौ सा ॥ ५.८४{८४} ॥
तथा स्वर्गसमायाता देवकन्या मुमोद सा ।
यथा वणिग्लब्धलाभो रोगमुक्तो यथातुरः ॥ ५.८५{८५} ॥
सम्यग्निष्पन्नशस्याप्तो यथा च कृषिकार्मिकः ।
सिद्धयात्राप्रलब्धार्थः सार्थवाहो वणिग्यथा ॥ ५.८६{८६} ॥
अथ ते भिक्षवः सर्वे दृष्ट्वैवमवभासितम् ।
संदिग्धविस्मिताश्चैवं पप्रछुस्तं मुनीश्वराम् ॥ ५.८७{८७} ॥
भगवन्नद्य रात्रौ को भवतोऽन्तिकमागतः ।
ब्रह्मा वा सुरराजो वा लोकपालगणा अपि ॥ ५.८८{८८} ॥
अस्माभिर्ज्ञायते नायं योऽद्य रात्राविहागतः ।
(र्म् ७५)
तदस्मान् विस्मितान् सर्वान् बोधयितुं समर्हसि ॥ ५.८९{८९} ॥
इति तैर्भिक्षुभिः पृष्टो भगवान् स मुनीश्वरः ।
तांश्च भिक्षुगणान् सर्वान् समामंत्र्याब्रवीत्तथा ॥ ५.९०{९०} ॥
न हि स भिक्षवो ब्रह्मा नापि वासौ सुराधिपः ।
नैव लोकाधिपालाश्च याद्य रात्राविहागता ॥ ५.९१{९१} ॥
अपि तु दारिका दृष्टा युष्माभिः सगता पथि ।
ययाहं सालपुष्पैश्च प्रावकीर्य्याभितोषितः ॥ ५.९२{९२} ॥
सा मां पुष्पैरवाकीर्य्य गृहस्यार्थे पुनर्वनम् ।
गता पुष्पाण्युपाहर्तुं वृक्षारूढापतत्तरोः ॥ ५.९३{९३} ॥
ततोऽसौ पतनोद्विग्ना वेदनाक्रांतचेतसा ।
त्रिरत्नानि स्मरन्त्येव देहं त्यक्त्वा दिवं ययौ ॥ ५.९४{९४} ॥
तत्र स्वर्गे समासाद्य स्मृत्व मां सुगतं पुनः ।
द्रष्टुं धर्मं च मे श्रोतुमिहासौ समुपागता ॥ ५.९५{९५} ॥
तन्मया देशितं तस्यै संबोधिधर्ममुत्तमम् ।
श्रुत्वा सा चानुमोद्यैवं संहर्षिता दिवं ययौ ॥ ५.९६{९६} ॥
इत्येवं भिक्षवो मत्वा त्रिरत्नानि शुभार्थिभिः ।
सेवितव्यानि संस्मृत्वा गत्वा च शरणं सदा ॥ ५.९७{९७} ॥
ये भजन्ति त्रिरत्नानि संस्मृत्वा शरणं गताः ।
दुर्गतिं ते न गछंति व्रजन्ति सद्गतिं सदा ॥ ५.९८{९८} ॥
ये निन्दन्ति त्रिरत्नानि प्रतिक्षिप्य प्रमादतः ।
सद्गतिं ते न गछन्ति वसन्ति नरके सदा ॥ ५.९९{९९} ॥
तस्मान्नित्यां त्रिरत्नानि संस्मृत्वा शरणं गताः ।
सत्कृत्य भावयित्वा च भजध्वं बोधिवांछया ॥ ५.१००{१००} ॥
तथा वो मङ्गलं नित्यं सर्वत्र सर्वदा भवेत् ।
क्रमाद्बोधिचरीं पूर्य संबोधिमपि लप्स्यथ ॥ ५.१०१{१} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा ।
तथेत्यभ्यनुमोदन्तस्त्रिरत्नानि सदाभजन् ॥ ५.१०२{२} ॥
इत्येवं गुरुणादिष्टं मयैवं ते प्रचक्ष्यते ।
श्रुत्वैतच्छ्रावयित्वा च त्रिरत्नानि सदा भज ॥ ५.१०३{३} ॥
ततस्त्वं क्रमशश्चैव बोधिचर्यां समाचरन् ।
सर्वपापविनिर्मुक्तः सुखावतीं समाव्रजेः ॥ ५.१०४{३*} ॥
इत्येतद्गुरुणादिष्टमुपगुप्तेन भिक्षुणा ।
(र्म् ७६)
श्रुत्वा राजा तथेत्येवमभ्यनन्दत्सपार्षदः ॥ ५.१०५{४} ॥
तत्संबुद्धानुभावं मुनिवरकथितं शालपुष्पावदानम् ।
ये श्रुत्वा श्रावयन्ति प्रमुदितमनसः श्रद्धया बोधिकामाः ।
ते सर्वक्लेशमुक्ताः सकलगुणधरा बोधिचर्य्यानुरक्ताः ।
कृत्वा लोके हितार्थं जिनवरवसतिं संप्रयंति प्रहर्षैः ॥ ५.१०६{५} ॥
++ इति शालपुष्पावदानं समाप्तं ++
(र्म् ७७)
वि सूकर्यवदान
पुनरेवं यतीशोऽसावुपगुप्तो जिनांशजः ।
त्रिरत्नस्मृतिजं पुण्यं ख्यातुं नृपमब्रवीत् ॥ ६.१{१} ॥
महत्पुण्यानुभावत्वं त्रिरत्नस्मृतिसंभवम् ।
तदहं ते प्रवक्ष्यामि शृणु राजन् समाहितः ॥ ६.२{२} ॥
धर्मता खलु देवानां स्वर्गच्यवनधर्म्मिणाम् ।
पंचपूर्वनिमित्तानि प्रादुर्भवेयुरात्मनि ॥ ६.३{३} ॥
अक्लिष्टानि हि वासांसि क्लिश्येयुश्च्यवनान्तिके ।
अम्लानानि च माल्यानि म्लायेरन् सहसा खलु ॥ ६.४{४} ॥
दौर्गन्धं निःसरेद्देहात्कक्षाभ्यां स्वेद उद्भवेत् ।
प्रच्युतिसमये प्राप्ते स्वासने न धृतिं लभेत् ॥ ६.५{५} ॥
एतत्पंचनिमित्तानि स्वर्गाच्च्यवनधर्मिणाम् ।
सर्वेषां प्रोद्भवेयुश्च प्रच्युतिसमयागमे ॥ ६.६{६} ॥
पुरैकदेवपुत्रस्य तथा च्यवनधर्मिणः ।
एतत्पंचनिमित्तानि प्रादुरासंश्च्युतेः पुरः ॥ ६.७{७} ॥
अथ च्यवनधर्मासौ देवपुत्रो विषादितः ।
अवश्यं च्यवनं स्वर्गान्मत्वा रौत्सीदधीरितः ॥ ६.८{८} ॥
आवर्त्य स्वविमानस्थः परिवर्त्त्य विमूर्छितः ।
पुनश्चैतन्यमासाद्य विलपं पर्य्यदेवतः ॥ ६.९{९} ॥
हा मन्दाकिनि हेमाव्जव्याप्ते पुण्याम्बुवाहिनि ।
त्वयि स्नात्वप्यहं च्युत्वा यास्यामि दुर्गतिं कथम् ॥ ६.१०{१०} ॥
हा चैत्ररथमुत्सृज्य क्व क्रीडेयं यथेछया ।
हा नन्दनवनं रम्यं त्यक्त्वाहं क्व रमेय च ॥ ६.११{११} ॥
हा मिश्रिकावनं दिव्यं त्यक्त्वा रम्ये कुहाधुना ।
हा पारुष्यवनं त्यक्त्वा क्व रम्याम्यप्सरोगणैः ॥ ६.१२{१२} ॥
क्व सुखं लप्स्यते पाण्डुकंवलकशिलां विना ।
(र्म् ७८)
हा देवसमितिं त्यक्त्वा क्व श्रोष्यामि सुभाषिताम् ॥ ६.१३{१३} ॥
हा हा सुदर्शनं रम्यं पुरं त्यक्त्वा व्रजे च्युतः ।
प्रासादं वैजयंतञ्च कदा द्रक्ष्याम्यहं पुनः ॥ ६.१४{१४} ॥
हा शक्रप्रमुखैर्देवैः सार्द्धं कृदाप्रमोदितः ।
अधुना मे क्व तत्सौख्यं श्रोतुं चापि न लप्स्यते ॥ ६.१५{१५} ॥
हा देव्यममृतं त्यक्त्वा किं प्रभोक्ष्यामि सांप्रतम् ।
दिव्यकामसुखं भुक्त्वा पुनर्दुर्गतिमाश्रयन् ॥ ६.१६{१६} ॥
कियद्दुःखं च संभोक्तुं यास्यामि नरकेष्वहम् ।
एतद्दिव्यमहोत्साहाद्भ्रष्टोऽहं नरके गतः ॥ ६.१७{१७} ॥
महद्दुःखाभिसंतप्तः सहिष्यामि कथं तदा ।
हा हतोऽस्मि स्वपापेन किं पापं प्रकृतं मया ॥ ६.१८{१८} ॥
येनेतः स्वर्गतश्च्युत्वा पुनर्यास्यामि नारकान् किम् ।
उपायं करिष्यामि न यायां येन दुर्गतिम् ॥ ६.१९{१९} ॥
को मे शास्तात्र विद्येत यो मां धर्मे नियोजयेत् ।
धर्मेण रक्ष्यते प्राणी नरके संस्थितोऽपि च ॥ ६.२०{२०} ॥
धर्मं विनात्र देवोऽपि स्वर्गात्प्रभ्रन्स्यते पुनः ।
किं करोमि क्व यास्यामि नात्रोपायं तु मन्यते ॥ ६.२१{२१} ॥
सर्वथाहमितश्च्युत्वा गछेयं दुर्गतिं खलु ।
इतश्च्युतस्य मे जन्म लब्धव्यं भुवने कुह ॥ ६.२२{२२} ॥
इति धैर्यं समाधाय मनसैवं व्यलोकयत् ।
च्युत्वेतः सौकरं जन्म प्राप्तव्यं सप्तमे दिने ॥ ६.२३{२३} ॥
एवं स्वाप्तगतिं दृष्ट्वा पपात सविमूर्छितः ।
अथाद्राक्षीन्महेन्द्रस्तं पतितं भुवि मूर्छितम् ॥ ६.२४{२४} ॥
दृष्ट्वा च सहसोपेत्य सुधासेकैरसिंचयत् ।
ततोऽसौ चेतनां लब्ध्वा शनैरुत्थाय तं प्रभुम् ॥ ६.२५{२५} ॥
दृष्ट्वा पादौ परिष्वज्य नत्वैवं प्रार्थयद्रुदन् ।
हा हा नाथ महेन्द्रोऽसि सर्वलोकाधिपः प्रभुः ॥ ६.२६{२६} ॥
मामधः पतितं दृष्ट्वा नोपेक्षां कर्तुमर्हसि ।
(र्म् ७९)
भवान् हि जगतां राजा स्वामी भर्त्ता पतिः प्रभुः ॥ ६.२७{२७} ॥
नाथो धर्मानुशास्ता च तन्मां रक्षतुमर्हसि ।
त्वदृतेऽन्यो न मे कश्चिद्रक्षको विद्यतेऽत्र हि ॥ ६.२८{२८} ॥
तदनुकंपया दृष्ट्या धृत्वा मामुद्धर प्रभो ।
यदि मां रक्षितुं नाथ न शक्नोति भवानपि ॥ ६.२९{२९} ॥
को मां समुद्धरेदन्यो हा हतो नरके व्रजे ।
मंडाकिन्यां त्वया सार्द्धं स्नात्वा पूतात्मकोऽप्यहम् ॥ ६.३०{३०} ॥
कथं च नरके गत्वा वसेयमशुचिं चरन् ।
सहाप्सरोगणैर्नित्यं चरित्वा नंदने वने ॥ ६.३१{३१} ॥
दिव्यसंगीतिवाद्यैश्च रमामि संप्रमोदितः ।
अद्येतः पतितो पृथ्व्यां राजगृहोपजांगले ॥ ६.३२{३२} ॥
सौकरं जन्म लप्स्यामि सप्तमे दिवसे खलु ।
तत्र मूत्रपुरिषादीनमेध्यानपि कृच्छ्रतः ॥ ६.३३{३३} ॥
लब्ध्वा भुक्त्वा चरिष्यामि व्याधसंघैरुपद्रुतः ।
बहुवर्षसहस्राणि भूत्वैवं सूकरात्मजः ॥ ६.३४{३४} ॥
अमेध्यकर्दमे नित्यं वत्स्याम्यावर्त्य संचरन् ।
एवं दिव्यामृतं भुक्त्वा रमित्वा भवता सह ॥ ६.३५{३५} ॥
कथं हि नारके गत्वा भोक्ष्येऽमेध्यानि संचरः ।
इमं कल्पतरुं त्यक्त्वा यथेप्सितफलप्रदम् ॥ ६.३६{३६} ॥
जांगलं वृक्षमाश्रित्य स्थितो भोक्ष्यामि किं तदा ।
सर्वथाहं च्युतोऽस्मीतः प्रेरितो हि स्वकर्मणा ॥ ६.३७{३७} ॥
विविधानि च दुःखानि भोक्तुं यास्यामि नारके ।
तदुपायं प्रदातव्यं भवता मेऽनुकंपिना ॥ ६.३८{३८} ॥
येनाशु दुर्गतेर्मुक्तः प्रागछेयं च स्वर्गतिम् ।
सर्वथा रक्ष मां नाथ यद्यस्ति ते कृपा मयि ॥ ६.३९{३९} ॥
भवान्मां पतितं दृष्ट्वा नोपेक्षां कर्तुमर्हति ।
भवानेव जगच्छास्ता सर्वलोकाधिपः प्रभुः ॥ ६.४०{४०} ॥
तदाशु मां प्रयत्नेन समुद्धर्तुं समर्हति ।
इदं ते दर्शनं नाथ पश्चिमं मे भवेत्खलु ॥ ६.४१{४१} ॥
(र्म् ८०)
जन्मशतसहस्रैश्च दुर्लभं स्याद्धि संगमम् ।
इत्येवं विलपं देवपुत्रस्स तं सुराधिपम् ॥ ६.४२{४२} ॥
नत्वा पादौ निरीक्ष्यैव तस्थावश्रुगलन्मुखः ।
अथ शक्रः सुरेन्द्रोऽसौ दृष्ट्वैवं प्रविलापितम् ॥ ६.४३{४३} ॥
कारुण्या क्रान्तचित्तस्तमाश्वासयन्नभाषत ।
मा कृथा रोदनं भद्र समाश्वसि हि धीरय ॥ ६.४४{४४} ॥
क्रियन्ते किं प्रयत्नानि सर्वथा मरणं ध्रुवम् ।
मृत्युर्महावलिष्ठो हि सर्वसत्वान्तकारकः ॥ ६.४५{४५} ॥
ह्रीयन्ते मृत्युना सर्वे मृत्युः केन निहन्यते ।
अनिर्वायो हि सर्वत्र सर्वत्रैधातुकेष्वपि ॥ ६.४६{४६} ॥
सर्वेषामपि जन्तूनामेकान्ते मरणं ध्रुवम् ।
तस्मान्मा भेस्तथा मृत्योः किं विषादेन सिध्यते ॥ ६.४७{४७} ॥
तद्धैर्य्यतैः समालंव्य त्रिरत्नं शरणं व्रज ।
गत्वा च शरणं तेषां स्मर नित्यं समाहितः ॥ ६.४८{४८} ॥
ततस्त्वं दुर्गतिं मुक्त्वा सद्गतिं समवाप्नुयाः ।
एतदेव हि संसारे महोपायं शुभाप्तये ॥ ६.४९{४९} ॥
नान्यद्धि विद्यते किंचिन्मृत्यौ साधारणे ध्रुवे ।
तदन्यच्चेतनां हित्वा त्रिरत्नान्यभिसंस्मरन् ॥ ६.५०{५०} ॥
नमो बुद्धाय धर्माय संघायेति वदन् भज ।
ये त्रिरत्नस्मृतिं धृत्वा मृतास्ते पुण्यभागिनः ॥ ६.५१{५१} ॥
क्रमाद्बोधिचरीं प्राप्य यायुश्चान्ते सुखवतीम् ।
त्वं चापि त्रिरत्नानं स्मृत्वा मृतः सुपुण्यधृक् ॥ ६.५२{५२} ॥
क्रमाद्बोधिचरीं प्राप्य संप्रयायाः सुखावतीम् ।
इतीन्द्रेण समादिष्टं श्रुत्वा देवसुतोऽथ सः ॥ ६.५३{५३} ॥
तथेत्यनुसंमोद्य पुनर्नत्वैवमब्रवीत् ।
अद्यारभ्य महेन्द्राहं त्रिरत्नानं सदा स्मरन् ॥ ६.५४{५४} ॥
गत्वा च शरणं तेषामुपासको भवे खलु ।
इत्युक्त्वा स महेन्द्रस्य पुरः स्थित्वा कृताञ्जलिः ॥ ६.५५{५५} ॥
अनुस्मृत्य त्रिरत्नानां नमस्कृतिमुदाहरत् ।
नमो बुद्धाय भद्राय नमो धर्माय तायिने ॥ ६.५६{५६} ॥
(र्म् ८१)
नमः संघाय नाथाय सर्वदापि नमे भजे ।
अद्यारभ्य त्रिरत्नानां सदाहं शरणं व्रजे ॥ ६.५७{५७} ॥
उपासको भवेन्नित्यं नमामि सततं स्मरेत् ।
इत्युक्त्वा देवपुत्रोऽसौ कालधर्मयुतश्च्युतः ॥ ६.५८{५८} ॥
तुषिते देवलोकेऽभूदुपपन्नः सुपुण्यतः ।
धर्मता खलु देवानां ये देवाः स्वर्गतश्च्युताः ॥ ६.५९{५९} ॥
तेऽधोलोकेषु गछेयुर्न तूर्द्ध्वभुवनेषु हि ।
अथ शक्रो नरेन्द्रोऽसौ दृष्ट्वा तं स्वर्गतश्च्युतम् ॥ ६.६०{६०} ॥
कुत्रासौ लभते जन्म इत्यधस्ताद्व्यलोकयत् ।
किमसौ सूकरीगर्भ उत्पन्नो वा न वेति च ॥ ६.६१{६१} ॥
अपश्यत्सर्वतश्चैनं न ददर्श कुहापि स ।
ततोऽसौ विस्मितः शक्रो दिव्येन चक्षुषा पुनः ॥ ६.६२{६२} ॥
कुत्रासौ लभते जन्म इत्येवं समलोकयत् ।
वत तिर्य्यक्षु जातोऽसौ प्रेतेषु च प्रजायते ॥ ६.६३{६३} ॥
अथ नरकेषु वा जात इत्येवं समलोकयत् ।
तेषु त्रिष्वप्यपायेषु नाद्राक्षीत्तं समंततः ॥ ६.६४{६४} ॥
ततो मनुष्यलोकेषु जातो वेति ददर्श च ।
तत्रापि च स सर्वत्र नाद्राक्षीत्तं सुरेश्वरः ॥ ६.६५{६५} ॥
ततश्चतुर्महाराजभुवनेषु प्रजायते ।
इति तेषु च सर्वत्र विलोकयन् ददर्श न ॥ ६.६६{६६} ॥
ततश्च विस्मितः शक्रस्त्रयस्त्रिंशे व्यलोकयन् ।
तत्रापि तं न चाद्राक्षीत्कुत्रापि च समंततः ।
एवं सर्वत्र लोकेषु विलोकयंस्तदुद्भवम् ।
अदृष्ट्वा विस्मितः शक्रः पुनरेवं व्यचिंतयत् ।
अहो वत महाश्चर्य्यं यन्मयापि न दृश्यते ॥ ६.६७{६७} ॥
कुत्रासौ जायते नूनं न मन्ये तत्प्रवृत्तिताम् ।
को नु ज्ञास्यति तद्वृत्तिं बुद्धादन्यो न कश्चन ॥ ६.६८{६८} ॥
बुद्ध एव जगद्दर्शी षडभिज्ञस्त्रिकालवित् ।
तस्मादहमितो गत्वा संबुद्धे समुपाचरन् ॥ ६.६९{६९} ॥
(र्म् ८२)
विज्ञप्यैवं च तद्वृत्तिं प्रष्टुमर्हामि सांप्रातम् ।
इत्येवं मनसा ध्यात्वा देवेन्द्रोऽसौ सविस्मयः ॥ ६.७०{७०} ॥
सहसा जेतकारण्ये जिनाश्रममवातरत् ।
तत्रासौ सुगतं दृष्ट्वा सहर्षविस्मयान्वितः ॥ ६.७१{७१} ॥
प्रणम्य पुरतः स्थित्वा कृतांजलिपुटोऽवदत् ।
भगवंस्तद्विजानीया यदिहाहमुपागतः ॥ ६.७२{७२} ॥
तथापि प्रष्टुमिछामि तत्समादेष्टुमर्हसि ।
एकः कालगतो देवपुत्रः स्वर्गाच्च्युतो गतः ॥ ६.७३{७३} ॥
षट्सु लोकेषु सर्वत्र दृश्यते न मया ह्यसौ ।
कुत्रासौ जायते शास्तर्मया न दृश्यते क्वचित् ॥ ६.७४{७४} ॥
तस्योत्पत्तिः कुह स्थाने तत्समादेष्टुमर्हसि ।
इतीन्द्रवचनैः श्रुत्वा स संबुद्धो मुनीश्वरः ॥ ६.७५{७५} ॥
तस्य पुण्यात्मनः स्थानमिंद्राय समचक्षतच् ।
कौशिक तुषितो नाम लोकधातुः प्रसिद्धितः ॥ ६.७६{७६} ॥
तत्रासौ मोदते देवो गत्वा त्रिशरणं च्युतः ।
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स त्रिदशाधिपः ॥ ६.७७{७७} ॥
विस्मितः सुप्रसन्नात्मा प्रणत्वैवंमुदानयत् ।
अहो बुद्धमहो धर्ममहो संघं शुभंकरम् ॥ ६.७८{७८} ॥
यत्संशरणमात्रेऽपि सत्वा यान्ति शुभालयम् ।
ये बुद्धं शरणं यान्ति न ते गछंति दुर्गतिम् ॥ ६.७९{७९} ॥
प्रहाय पातकान् सर्वान् दिव्यलोकमुपासते ।
ये धर्मं शरणं यान्ति न ते गछंति दुर्गतिम् ।
प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते ॥ ६.८०{८०} ॥
ये संघं शरणं यान्ति न ते गछन्ति दुर्गतिम् ।
प्रहाय सर्वदुःखानि दिव्यसौख्यान्युपासते ॥ ६.८१{८१} ॥
धन्यास्ते पुरुषा भद्राः संबोधिपदगामिनः ।
ये संस्मृत्वा त्रिरत्नानि व्रजन्ति मरणं ध्रुवम् ॥ ६.८२{८२} ॥
अथासौ भगवाञ्छ्रुत्वा शक्रेणैवं सुभाषितम् ।
तथानुवर्णयन् प्राह कौशिकं तं सुराधिपम् ॥ ६.८३{८३} ॥
एवमेतद्धि देवेन्द्र यथैवं त्वं प्रभाषसे ।
(र्म् ८३)
धन्यास्ते पुरुषा भद्रा त्रिरत्नं भजंति ये ॥ ६.८४{८४} ॥
ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिम् ।
क्लेशवैरीं विनिर्जित्य संबोधिं समवाप्नुयुः ॥ ६.८५{८५} ॥
ये धर्मं शरणं यान्ति न ते गछन्ति दुर्गतिम् ।
मारधर्मविनिर्मुक्ता बोधिधर्मानवाप्नुयुः ।
ये संघं शरणं यांति न ते गछंति दुर्गतिम् ।
पातकेभ्यो विनिर्मुक्ताः संप्रयान्ति सुखावतीम् ॥ ६.८६{८६} ॥
न भजन्ति मुनीन्द्रं ये ते भ्रमंति भवार्णवे ।
संबोधिमार्गतो भ्रष्टा नष्टा गछन्ति दुर्गतिम् ॥ ६.८७{८७} ॥
ये शृण्वंति न सद्धर्मं ते क्लेशपरिदाहिताः ।
मारधर्मरता दुष्टाः प्रणष्टा यांति दुर्गतिम् ।
न मानयंति ये संघं न ते जानंति सद्गतिम् ।
सदा दुःखाभिसंतप्ता भ्रष्टा गछंति दुर्गतिम् ।
निन्दन्ति ये त्रिरत्नानि ते दुष्टा मारपाक्षिकाः ।
नैव चरंति सन्मार्गे विनष्टा यंति दुर्गतिम् ।
तस्माद्ये मानवाः सन्तो वांछन्ति सद्गतिं सदा ।
तैः संस्मृत्वा त्रिरत्नानां कर्त्तव्यं शरणं मुदा ॥ ६.८८{८८} ॥
ये स्मरन्ति त्रिरत्नानां न ते गछंति दुर्गतिम् ।
प्रहाय पातकान् सर्वाञ्शीघ्रं यान्ति सुखावतीम् ॥ ६.८९{८९} ॥
सुखावत्यां जिनेन्द्रस्य धर्मं श्रुत्वानुमोदिताः ।
बोधिचित्तं समासाद्य चरन्ति बोधिचारिकाम् ॥ ६.९०{९०} ॥
ततस्ताः क्रमतः पूर्य्य संवृत्तिपारमागताः ।
परमार्थचरीं प्राप्य निर्वृत्तिं समवाप्नुयुः ॥ ६.९१{९१} ॥
इदं हि बोधिमार्गानां वीजं विज्ञाय कौशिक ।
त्रिरत्नस्मरणं नित्यं कर्त्तव्यं बोधिवांछिभिः ॥ ६.९२{९२} ॥
कदापि नैव मोक्तव्यं त्रिरत्नस्मरणं सदा ।
गत्वा च शरणं तेषां त्रिरत्नानां समाचर ॥ ६.९३{९३} ॥
एवं तेन मुनीन्द्रेण समादिष्टं स कौशिकः ।
श्रुत्वैवमित्यनुज्ञाय प्राभ्यनन्दत्प्रसादितः ॥ ६.९४{९४} ॥
ततोऽसौ भगवन्तं तं नत्वा स रचितांजलिः ।
त्रिधा प्रदक्षिणीकृत्य पुनर्नत्वा दिवं ययौ ॥ ६.९५{९५} ॥
(र्म् ८४)
ततो देवपुरे गत्वा सुधर्ममंदिरे स्थितः ।
देवलोकान् समामंत्र्य तत्प्रवृत्तं समब्रवीत् ॥ ६.९६{९६} ॥
भो भो देवगणाः सर्वे शृणुध्वं तत्समाहितः ।
यदद्भुतं महापुण्यं संबोधिहेतुमुच्यते ॥ ६.९७{९७} ॥
धर्मता खलु देवानां ये ये देवा हि नाकतः ।
च्युतास्ते ते प्रयान्त्यधो न तूर्द्ध्वं यान्ति के चन ॥ ६.९८{९८} ॥
इदानीं तु व्रजेयुस्ते ये देवाः स्वर्गतश्च्युताः ।
त्रिरत्नशरणं कृत्वोर्द्ध्वगतिं न त्वधोगतिम् ॥ ६.९९{९९} ॥
दृश्यताममुको देवपुत्रस्त्रिशरणं गतः ।
स्वर्गाच्च्युत्वा समुत्पन्नस्तुषितेऽसौ प्रमोदते ॥ ६.१००{१००} ॥
यूयमपि च तद्दृष्ट्वा त्रिरत्नानां समाहिताः ।
गत्वा च शरणं नित्यं स्मृत्वा भजध्वमादरात् ॥ ६.१०१{१} ॥
ततो यूयं न यायात दुर्गतिषु कदा चन ।
सदा दिव्यसुखं भुक्त्वा प्रयास्यथ सुखावतीम् ॥ ६.१०२{२} ॥
ये बुद्धे शरणं यांति न ते गछन्ति दुर्गतिम् ।
क्लेशवैरान् विनिर्जित्य संबोधिपदमाप्नुयुः ॥ ६.१०३{३} ॥
ये धर्मे शरणं यान्ति न ते गछन्ति दुर्गतिम् ।
मारधर्मविनिर्मुक्ता बुद्धधर्माण्यवाप्नुइयुः ॥ ६.१०४{४} ॥
ये संघे शरणं गत्वा न ते गछन्ति दुर्गतिम् ।
सर्वपातकनिर्मुक्ता प्रयास्यंति सुखावतीम् ॥ ६.१०५{५} ॥
न भजन्ति त्रिरत्नं ये ते भ्रमन्ति भवार्णवे ।
सद्धर्मनिन्दका भ्रष्टा नष्टा गछन्ति दुर्गतिम् ॥ ६.१०६{६} ॥
दुर्गतिषु भ्रमंतस्ते दुःखानि विविधानि च ।
भुक्त्वा चरन्ति दुष्टांशा नैव गछंति सद्गतिम् ॥ ६.१०७{७} ॥
तद्दुःखं हातुमिछंति सुखं प्राप्तुं च ये सदा ।
ते त्रिरत्नं सदा स्मृत्वा भजंतां शरणं गताः ॥ ६.१०८{८} ॥
ततो वो मंगलं नित्यं नैव यायात दुर्गतिम् ।
सद्गतिमेव यायात संबोधिमपि लप्स्यथ ॥ ६.१०९{९} ॥
इति तेन सुरेन्द्रेण समादिष्टं हितार्थिना ।
श्रु<वा सर्वेऽपि ते देवास्तथेत्युक्त्वा ननन्दिरे ॥ ६.११०{१०} ॥
तदा सर्वेऽपि देवाश्च त्रिरत्नं शरणं गताः ।
(र्म् ८५)
सर्वदानुस्मरन्तश्च सत्कृत्यैवं प्रभेजिरे ॥ ६.१११{११} ॥
एवं देवास्तदा ये ये त्रिरत्नशरणं गताः ।
ते ते स्वर्गादपि च्युत्वा नैवागछन्नधोगतिम् ॥ ६.११२{१२} ॥
तत ऊर्द्ध्वं समुद्गम्य प्रागछंस्तुषितालये ।
त्रिरत्नशरणं याता मैत्रेयं समुपाश्रयन् ॥ ६.११३{१३} ॥
तथा शक्रश्च तान् सर्वान्मैत्रेयसमुपाश्रितान् ।
दृष्ट्वानुमोदनां कुर्वन् प्राभ्यनन्दत्सुरैः सह ॥ ६.११४{१४} ॥
इति मे गुरुणा ख्यातं तथा ते वक्ष्यते मया ।
एवं मत्वा महाराज त्रिरत्नशरणं व्रज ॥ ६.११५{१५} ॥
ततस्ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिचरीः प्राप्य संबोधिपदमाप्नुयाः ॥ ६.११६{१६} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
त्रिरत्नशरणे स्थाप्य त्वया धर्मप्रवृद्धये ॥ ६.११७{१७} ॥
इत्येवमुपगुप्तेन समादिष्टं सुभाषितम् ।
श्रुत्वा राजा तथेत्येवं प्रान्वमोदत्सपार्षदः ॥ ६.११८{१८} ॥
ये पुण्यप्राप्तुकामास्तदिदमविरतं सूकरीकावदानम् ।
शृण्वन्ति श्रवयन्ति प्रमुदितमनसा दुर्गतिं ते न यान्ति ।
निर्जित्य क्लेशसंघांस्त्रिगुणहितकरा बोधिचर्य्यानुरक्ता ।
मैत्रेयं बोधिसत्वं तुषितभुवनागाः संभजन्ति प्रकामम् ॥ ६.११९{१९} ॥
++ इति रत्नावदानमालायां सूकर्य्यवदानं समाप्तं ++
(र्म् ८६)
विइ वपुष्मत्कुमारावदान
अथशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ ७.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
सर्वसत्वहितार्थाय तत्समादेष्टुमर्हसि ॥ ७.२{२} ॥
इति संप्रार्थिते तेन राज्ञाशोकेन भूभुजा ।
उपगुप्तो यतिश्चासौ दृष्ट्वा तं नृपमब्रवीत् ॥ ७.३{३} ॥
साधु राजन् समाधाय श्रूयतां पुण्यवृद्धये ।
यथा मे गुरुणा ख्यातं तथा ते वक्ष्यते मया ॥ ७.४{४} ॥
पुरासीद्भगवान् बुद्धः श्रीघनः शक्यकेशरी ।
सर्वविद्यागुणाचार्य्यस्त्रैधातुकविनायकः ॥ ७.५{५} ॥
सुगतोऽर्हन्महाभिज्ञो धर्मराजस्तथागतः ।
जिनः समन्तभद्रांशश्चतुर्ब्रह्मविहारकः ॥ ७.६{६} ॥
स एकसमये तत्र कपिलाख्ये पुरोत्तमे ।
न्यग्रोधारमके रम्ये व्यहरच्छ्रावकैः सह ॥ ७.७{७} ॥
तस्मिंश्च समये तत्र धर्म्मं श्रोतुं समागताः ।
देवासुरमहाराजा यक्षगंधर्वकिन्नराः ॥ ७.८{८} ॥
गरुडा नागराजाश्च सिद्धविद्याधरा ग्रहाः ।
योगिनो यतयश्चापि मुनयो ब्रह्मचारिणः ॥ ७.९{९} ॥
राजानः क्षत्रियाश्चापि वैश्यामात्याश्च मंत्रिणः ।
श्रेष्ठिनः सार्थवाहाश्च पौरा जानपदा अपि ॥ ७.१०{१०} ॥
एवमन्येऽपि सत्वाश्च ये सद्धर्मगुणवांछिनः ।
ते सर्वे समुपागत्य वंदित्वा तं मुनीश्वरम् ॥ ७.११{११} ॥
पूजयित्वा पुरस्कृत्य परिवृत्य समन्ततः ।
कृतांजलिपुटो धर्मं श्रोतुं समुपतस्थिरे ॥ ७.१२{१२} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मकांक्षिणः ।
आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ ७.१३{१३} ॥
तं च धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः ।
(र्म् ८७)
सत्कृत्य श्रद्धया नित्यं भजन्त उपतस्थिरे ॥ ७.१४{१४} ॥
भगवांश्च तथा नित्यं सर्वसत्वहितार्थतः ।
सद्धर्मदेशनां कृत्वा व्यहरत्सांघिकैः सह ॥ ७.१५{१५} ॥
तस्मिंश्च समये तत्र पुरे कपिलवस्तुनि ।
आसीच्छाक्यो महासाधुर्महाभोगो महाधनः ॥ ७.१६{१६} ॥
तेन कलत्रमानीतं स्वकुलसदृशात्कुलात् ।
तया स कान्तया सार्द्धं रराम परिचारयन् ॥ ७.१७{१७} ॥
तस्यैवं रममाणस्य सा भार्यासीत्सुगर्भिणी ।
ततोऽसौ समयेऽसूत दारकं दिव्यसुंदरम् ॥ ७.१८{१८} ॥
मर्त्यातिक्रान्तवर्णाभं दिव्यकल्पसुवर्णितम् ।
सूक्ष्मछविं सुभद्रांगं गौरवर्णं मनोहरम् ॥ ७.१९{१९} ॥
महेशाख्यं मनापं च दर्शनीयं प्रसादिकम् ।
अभिरूपं सुपुष्टांगं सर्वलक्षणमण्डितम् ॥ ७.२०{२०} ॥
तत्रासौ जनको दृष्ट्वा दारकं तं सुभद्रिकम् ।
मोदितः सहसा ज्ञातिं समाहूयाब्रवीत्तथा ॥ ७.२१{२१} ॥
भवन्तः पश्यतां पुत्रो ममायं दिव्यसुंदरः ।
अस्य जातिमहं कृत्वा नामधेयं प्रचक्ष्यताम् ॥ ७.२२{२२} ॥
इति तेनोदितं श्रुत्वा ज्ञातयस्ते ससंमताः ।
दृष्ट्वा तं वालकं दिव्यं कल्यवर्णं सुसुंदरम् ॥ ७.२३{२३} ॥
संमील्य संमतं कृत्वा दृष्ट्वा तस्याङ्गलक्षणम् ।
कृत्वा जातिमहं नाम स्थापितुं संवभाषिरे ।
यदयं दारको दिव्यवपुः कल्यातिसुंदरः ।
तस्माद्भवतु नाम्नायं वपुस्मानिति विश्रुतः ।
इति संभाषणां कृत्वा सर्वे ते ज्ञातिवर्गिकाः ॥ ७.२४{२४} ॥
पुरस्तात्तस्य शाक्यस्य गत्वा चैवं वभाषिरे ।
यदयं भवतः पुत्रो दिव्यवपुर्गुणान्वितः ॥ ७.२५{२५} ॥
तस्माद्भवतु नाम्नायं वपुष्मानिति विश्रुतः ।
तथेति समभिख्याय पित्रा स सुत आत्मजः ॥ ७.२६{२६} ॥
अष्टाभ्य उपमातृभ्य उपन्यस्तोऽभिपालने ।
ततोऽसौ दारकस्ताभिर्धात्रीभिरुपचारणैः ॥ ७.२७{२७} ॥
(र्म् ८८)
पालितो वर्द्धितः पुष्ट आसीत्पद्मं यथा ह्रदे ।
क्रमात्प्रवर्द्धितश्चासौ कुमारोऽभूद्यदा ततः ॥ ७.२८{२८} ॥
तदा सुहृत्सहायैश्च सार्द्धं क्रीडितुमाचरत् ।
यत्र यत्र वपुष्मान् स चक्राम भुवि संचरम् ॥ ७.२९{२९} ॥
तत्र तत्राभवन्मेध्या भूप्रदेशाः समंततः ।
एवंविधमहापुण्यमहेशाख्यः शिवाशयः ॥ ७.३०{३०} ॥
कारुणिको महाश्राद्धः स्वपरात्महितार्थभृत् ।
धर्मकामः सुभद्रात्मा पूज्यो मान्यो जितेन्द्रियः ॥ ७.३१{३१} ॥
अभिवाद्यः कुमारोऽपि वपुष्मान् स व्यराजत ।
ततः कर्मविपाकेन प्रेर्य्यमानः कुमारकः ॥ ७.३२{३२} ॥
स वपुष्मान् सुहृत्संघैः सार्द्धं पुरो विनिर्ययौ ।
ततोऽसौ जेतकारण्यं दूराद्दृष्ट्वा प्रमोदितः ॥ ७.३३{३३} ॥
रमितुं तत्र महोद्याने सहसा समुपाचरत् ।
ततः समुपविष्टोऽसौ दृष्ट्वोद्यानं प्रमोदितः ॥ ७.३४{३४} ॥
शान्तरूपान् यतीन् पश्यन् विहारे हर्षितोऽविशत् ।
तत्रासौ भगवन्तं तं ददर्श समितिस्थितम् ॥ ७.३५{३५} ॥
द्वात्रिंशल्लक्षणाशीतिव्यञ्जनपरिमण्डितम् ।
व्यामाभालंकृतं काम्यं शतसूर्य्याधिकप्रभम् ॥ ७.३६{३६} ॥
समंतभद्ररूपं च रत्नांगमिव जंगमम् ।
दृष्ट्वासौ सुप्रसन्नात्मा समुपेत्य पुरोगतः ॥ ७.३७{३७} ॥
पादौ तस्य मुनेर्नत्वा धर्मं श्रोतुमुपाविशत् ।
अथासौ भगवान् दृष्ट्वा तस्य चित्तं विशोधितम् ॥ ७.३८{३८} ॥
अर्य्यसत्यानि मार्गं च दिदेश बोधिसाधनम् ।
तच्छ्रुत्वा सुगतोदितं वपुष्मान् स प्रहर्षितः ॥ ७.३९{३९} ॥
भवाभिसरणोद्विग्नः सद्धर्मगुणमैछत ।
भित्वा स ज्ञानवज्रेण सत्कायदृष्टिपर्वतम् ॥ ७.४०{४०} ॥
श्रोतापत्तिफलं लब्ध्वा दृष्टसत्योऽभवत्सुधीः ।
संसारं चास्थिरं मत्वा भवभोग्यसुनिस्पृहः ॥ ७.४१{४१} ॥
प्रव्रज्यां चरितुमैछत्स्वाख्याते सुगताश्रमे ।
ततोऽसौ पुरतो गत्वा मुनीन्द्रस्य कृतांजलिः ॥ ७.४२{४२} ॥
पादौ नत्वा प्रसन्नास्यः प्रव्रज्यां समयाचत ॥ ७.४३{४३} ॥
नमस्ते भगवञ्छास्तः शरणं भवतां व्रजे ।
(र्म् ८९)
तत्प्रव्रज्याव्रतं देहि चरिष्ये ब्रह्मचारिकाम् ॥ ७.४४{४४} ॥
इति तेनार्थितं दृष्ट्वा भगवांस्तं कुमारकम् ।
प्रव्रज्याचरणारक्तं मत्वा चैवं समब्रवीत् ॥ ७.४५{४५} ॥
कुमार यदि ते वांछा प्रव्रज्याचरणेऽस्ति हि ।
पित्रोरादेशमासाद्य प्रागछ दास्यते तदा ॥ ७.४६{४६} ॥
इति श्रुत्वा मुनीन्द्रस्य निर्देशं तत्तथेति सः ।
नंदितश्चरणौ नत्वा स्वगृहं सहसागतः ॥ ७.४७{४७} ॥
ततो गृहे समासाद्य पित्रोश्च पुरतः स्थितः ।
कृतांजलिपुटो नत्वा वृत्तांतं समभाषत ॥ ७.४८{४८} ॥
अद्याम्ब तात संबुद्धो दृश्यतेऽपूर्वदर्शनः ।
सर्वलक्षणसंपूर्णो दिव्यातिकान्तसुंदरः ॥ ७.४९{४९} ॥
संस्थितः पर्षदां मध्ये भाषति धर्ममुत्तमम् ।
अपूर्वं श्रूयते तस्य सुभाषितवचोऽमृतम् ॥ ७.५०{५०} ॥
तत्सुभाषितसुधां पीत्वा चित्तं मे तृप्यते न हि ।
भूयस्तदमृतं पातुं व्रतमिछामि सांप्रतम् ॥ ७.५१{५१} ॥
अन्येऽपि बहवो दृष्ट्वा भिक्षवो ब्रह्मचारिणः ॥ ७.५२{५२} ॥
शान्तशीलाः शुभात्मानो दयाकारुण्यमानसाः ।
तत्सभागव्रतं चर्तुमिछामि खलु सांप्रतम् ॥ ७.५३{५३} ॥
तदनुज्ञां प्रदत्तं मे कृपास्ति यदि वां मयि ।
एवं तस्य स्वपुत्रस्य वचनं वज्रसन्निभम् ॥ ७.५४{५४} ॥
तौ मातापितरौ श्रुत्वा मूर्छितौ पेततुर्भुवि ।
ततः पुत्रप्रयत्नेन चेतनां प्राप्य तौ पुनः ॥ ७.५५{५५} ॥
परिष्वज्य स्वकं पुत्रं तमेवं पर्य्यदेवताम् ।
हा पुत्र कथमज्ञोऽसि हात्मज वल्लभोऽसि नः ॥ ७.५६{५६} ॥
हा सुत वंच्यसे केन हा तात किं नु वांछसि ।
हा जीव कथमेकान्ते त्यक्त्वास्मान् क्व नु यास्यसे ॥ ७.५७{५७} ॥
नन्दनः सुप्रियाश्चासि केन दुःखेन यास्यसे ।
किंचिद्दुःखं न ते दत्तमस्माभिर्वा कदा चन ॥ ७.५८{५८} ॥
कुतः किं जायते दुःखं तद्वदस्व यदीहसि ।
इत्येवं परिदेवित्वा पितासौ चेतसात्मजम् ॥ ७.५९{५९} ॥
(र्म् ९०)
निवारयन् प्रवंधेन बोधयितुं समब्रवीत् ।
त्वं कुमार वयस्थोऽसि सुकोमलः सुखैधितः ॥ ७.६०{६०} ॥
शीततापासहिष्णुश्च यथेछाभोग्यसंरतः ।
किंचिद्दुःखानभिज्ञस्त्वं तत्कथं प्रव्रजेः सुत ॥ ७.६१{६१} ॥
प्रव्रजितो गृहं त्यक्त्वा बहिर्देशे वसेस्सदा ।
चीवरप्रावृतः पिण्डं याचित्वा स्वयमाहरेः ॥ ७.६२{६२} ॥
अनेकजन्तुसंचारे वनेऽरण्ये कथं वसेः ।
जंगले दुर्गमे नैकचौराकीर्णे कथं चरेः ॥ ७.६३{६३} ॥
एकाकी च कथं तिष्ठेर्वृक्षमूले च निर्जने ।
श्मशाने संस्थितः पश्यन्मृतकान्तो त्रसेः कथम् ॥ ७.६४{६४} ॥
शयिथाश्च कथं शून्ये गृहे भूतनिवासिते ।
एवं सुदुष्करीं चर्य्यां चरितुं कथमिछसि ॥ ७.६५{६५} ॥
तत्प्रव्रज्याव्रते चित्तं मा कृथास्त्वं निवर्त्तय ।
इति मद्वचनं श्रुत्वा गृहे स्थित्वा सुखं रम ॥ ७.६६{६६} ॥
नित्यं प्रव्रजतां दुःखं किं सिद्धं दुःखचर्य्यया ।
धर्मे वंछास्ति चेत्पुत्र गृहे स्थित्वा चर व्रतम् ॥ ७.६७{६७} ॥
शृण्वंश्च धर्मशास्त्राणि श्रावयंश्च बहूञ्जनान् ।
दानं कृत्वा विशुद्धात्मा त्रिरत्नं सततं भज ॥ ७.६८{६८} ॥
यस्य किंचिद्गृहे नास्ति ज्ञातिर्वंधुश्च कश्चन ।
नापि मित्रगतिश्चापि प्रव्रज्या तस्य युज्यते ।
किं तव सेत्स्यते पुत्र प्रव्रज्यां पाकुनिष्ठया ।
सर्वथा त्यज तद्वांछा गृहे धर्मं सुखं चर ।
इति पित्रोदितं श्रुत्वा वपुष्मान् स विशंकितः ॥ ७.६९{६९} ॥
पित्रोः पादान् पुनर्नत्वा प्रत्युवाच प्रबोधयन् ।
सत्यं तात गृहे सौख्यं धर्माणां चरमुत्तमम् ॥ ७.७०{७०} ॥
संपदोऽपि समृद्धास्ते कामभोग्यं महत्सुखम् ।
गृहे परिग्रहाः पोष्यास्तदर्थं धनमर्जयेत् ॥ ७.७१{७१} ॥
(र्म् ९१)
अर्जने हि महत्कष्टं रक्षणेऽपि प्रयत्नता ।
अनेके संपदोऽपाया राजाग्न्युदकतस्कराः ॥ ७.७२{७२} ॥
क्षणाद्धरेयुराकृष्य तद्दुःखं सहितुं कथम् ।
संपदोऽन्ते विपत्तिः स्यात्कस्य संपद्विनिश्चला ॥ ७.७३{७३} ॥
विपत्तौ हीयते धैर्य्यमधैर्य्यात्क्लेशितो भवेत् ।
क्लेशितो दोषमाप्नोति तदा पुण्ये मतिः कुतः ॥ ७.७४{७४} ॥
अपुण्ये कुपिता लक्ष्मिर्नैवाश्रये गमिष्यति ।
लक्ष्मीविरहिते गेहे कुतो धर्मस्य गोचरम् ॥ ७.७५{७५} ॥
संपत्तौ तु लभेन्मानं मानाद्धि जायते मदः ।
मदाद्प्रमादितो धर्मे तदा धर्मो गृहे कुतः ॥ ७.७६{७६} ॥
अधर्मात्कामभोग्यं तु केवलं पापसाधनम् ।
कामार्थे क्लेशिता लोकाः कामार्थे दुःखभागिनः ॥ ७.७७{७७} ॥
कामार्थे प्रतिहन्यन्ते तेन कामे सुखं कथम् ।
संत्येवं तात सर्वत्र भयानि विविधानि हि ॥ ७.७८{७८} ॥
त्रैधातुकभवस्थानां कस्य नास्ति भयं कुह ।
दैवात्सर्वत्र जायन्ते दुःखानि च सुखानि च ॥ ७.७९{७९} ॥
क्लेशचित्तसमुत्थानि दुःखानि च भयानि च ।
यत्र यत्रापि संयाति क्लेशितात्मा सुखेछया ॥ ७.८०{८०} ॥
तत्र तत्रापि कर्मोत्थैर्दुःखैर्भयैश्च हन्यते ।
यत्र यत्रापि संयाति धर्मचित्तो हितेछया ।
तत्र तत्रापि सर्वत्र निर्भयश्चरते सुखम् ।
यल्लोकानां भयस्थानं तत्रैव रमते यतिः ।
विविक्ते निर्जनेऽरण्ये वृक्षमूले गुहासु च ॥ ७.८१{८१} ॥
शून्यगेहे श्मशानेऽपि सुखं ध्यात्वा यतिर्वसेत् ।
स्वधर्मै रक्षितो योगी संयतात्मा कुतो भयः ॥ ७.८२{८२} ॥
किमेव वहुवादेन निर्वाणार्थिमनो मम ।
तन्निर्वातुं स्वदेहेऽपि निरपेक्षः परिव्रजे ॥ ७.८३{८३} ॥
तदनुज्ञां प्रदत्तं मे प्रव्रज्याव्रतसाधने ।
यदि न दीयतेऽनुज्ञा मरिष्येऽहं न संशयः ॥ ७.८४{८४} ॥
इति तस्यात्मजस्यैवं निर्वन्धवचनं पिता ।
(र्म् ९२)
श्रुत्वा वियोगदुःखार्त्तः पुनस्तं सुतमब्रवीत् ॥ ७.८५{८५} ॥
मा पुत्र सहसा कार्षी मरणाभिलाषितं मनः ।
सर्वथाप्यनिवर्त्ती त्वमवश्यं चेद्गमिष्यसि ॥ ७.८६{८६} ॥
यदिछसि व्रतं कर्तुं सद्धर्मार्थिमनस्तव ।
प्रव्रज श्रद्धया पुत्र स्वाख्याते बुद्धशासने ॥ ७.८७{८७} ॥
एवं भर्त्त्रोदितं श्रुत्वा तन्माता मूर्छितापतत् ।
चिरात्सा चेतनां प्राप्ता रुदन्ती चावदत्सुतम् ॥ ७.८८{८८} ॥
हा पुत्र कथमेकान्ते मां विहाय क्व यास्यसि ।
हा मे जीवोऽसि किं पश्यं प्रव्रजितुं समीहसि ॥ ७.८९{८९} ॥
किंचिद्दुःखं न ते दत्तं मयाम्वाया कदा चन ।
केन दुःखेन ते चित्तं प्रव्रजितुं समिछति ॥ ७.९०{९०} ॥
प्रव्रज्या शोभते पुत्र वृद्धत्वे वा दरिद्रिते ।
त्वं तु दहर इत्यश्च तत्प्रव्रज्यां चरेः कथम् ॥ ७.९१{९१} ॥
यावच्च जिवितं मेऽस्ति तावन्मा गाः सुत क्वचित् ।
यावच्चास्ति गृहे संपत्तावद्भुक्त्वा सुखं वस ॥ ७.९२{९२} ॥
यदाहं मरणं याता यदा चापत्तिता गृहे ।
ज्ञातिमित्रपरित्यक्तस्तदा व्रजस्व वांछया ॥ ७.९३{९३} ॥
इत्युक्तेऽपि तयोः पित्रोरुदतोर्विघ्नशंकितः ।
पादां नत्वा वपुष्मान् स सहसा निर्ययौ गृहात् ॥ ७.९४{९४} ॥
ततो वेणुवनं गत्वा प्रणम्य मुनिमादरात् ।
कृतांजलिपुटो भूत्वा प्रव्रज्यां समयाचत ॥ ७.९५{९५} ॥
पितृप्राप्ताभ्यनुज्ञोऽहं नाथ सांप्रतमागतः ।
तत्प्रव्रज्यां व्रतं देहि पंचशिक्षापदानि च ॥ ७.९६{९६} ॥
उपसम्पच्छुभाचारमनुशिक्षापदं च मे ।
ब्रह्मचर्य्यं चरिष्यामि संबोधौ कृतनिश्चयः ॥ ७.९७{९७} ॥
अद्याग्रेण महाबुद्ध भवतां शरणं व्रजे ।
सधर्मसांघिकानां च्ं कायवाक्चित्तभक्तितः ॥ ७.९८{९८} ॥
इत्युक्ते भगवान् दृष्ट्वा पृष्ट्वा हस्तेन तच्छिरः ।
एहि भिक्षो कुमारेति संवदंस्तं समग्रहीत् ॥ ७.९९{९९} ॥
एहीति प्रोक्ते सुगतेन मुण्डः पात्री वपुष्मान् सकषायवासाः ।
(र्म् ९३)
सद्यप्रशान्तेन्द्रिय एव तस्थौ स्वर्ण्णप्रभो बुद्धमनोरथेन ॥ ७.१००{१००} ॥
सच्चित्तलब्धः स मुनेः प्रसादात्प्रयुज्यमानो व्यहरत्समाधौ ।
व्यायछमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एवम् ॥ ७.१०१{१} ॥
सर्वं च संसारमनित्यताहतं मत्वा च त्रैधातुगतिं विघातिनीम् ।
क्लेशांश्च सर्वान् प्रविहाय संयतः साक्षाद्वरोऽर्हं स बभूव सांघिकः ॥ ७.१०२{२} ॥
सुवीतरागः समलोष्टहेम आकाशचित्तशुभगंधिवासी ।
भिन्दन्नविद्यांगमिवाण्डकोशं प्राप्तादभिज्ञाः प्रतिसंविदश्च ॥ ७.१०३{३} ॥
सत्कारलोभेषु परांमुखत्वात्स शक्रदेवासुरमानुषाणाम् ।
पूज्यश्च मान्योऽप्यभिवन्दनीयो बभूव स ब्रह्मविहारचारी ॥ ७.१०४{४} ॥
अथ ते भिक्षवः सर्वे तं दृष्ट्वा विस्मयान्विताः ।
भगवन्तं प्रणम्यैवं पप्रछुस्तस्य कर्मताम् ॥ ७.१०५{५} ॥
केनायं कर्मणा नाथ वपुष्मानतिसुंदरः ।
प्रव्रज्य सहसार्हत्वं प्राप्तो भवति चात्मवित् ॥ ७.१०६{६} ॥
इति पृष्टे च तैर्नाथो भगवांस्तान् समब्रवीत् ।
भिक्षवः श्रूयतां वक्ष्ये तस्य च कर्म यत्कृतम् ॥ ७.१०७{७} ॥
एतेन यत्कृतं कर्म तत्केनान्येन भोक्ष्यते ।
येनैव यत्कृतं कर्म तेनैव तद्धि भुज्यते ॥ ७.१०८{८} ॥
पुरैकनवते कल्पे विपश्वी नाम सर्ववित् ।
समुदपादि लोकेऽर्हन् धर्मराजस्तथागतः ॥ ७.१०९{९} ॥
विद्याचरणसंपन्नः सुगतो भद्रकृज्जिनः ।
सर्वज्ञोऽनुत्तरो नाथः पुरुषदम्यसारथिः ॥ ७.११०{१०} ॥
शास्ता त्रैधातुकस्थानां विनायको गुणाकरः ।
सद्धर्मरत्नदात स भगवान् पुण्यभास्करः ॥ ७.१११{११} ॥
पुरीं वंधुमतो राज्ञो राजधानीमुपाश्रयन् ।
सार्द्धं भिक्षुगणैः शिष्यै बोधिसत्वगणैरपि ॥ ७.११२{१२} ॥
हिताय सर्वसत्वानां दिदेश धर्ममुत्तमम् ।
आदिमध्यांतकल्याणं बोधिचर्य्यानुसारिकम् ॥ ७.११३{१३} ॥
ततः स बुद्धकार्य्याणि कृत्वा सर्वाण्यशेषतः ।
निर्वाणमाययौ शान्तो वह्निरिवेन्धनक्षयात् ॥ ७.११४{१४} ॥
ततो वन्धुमता राज्ञा तत्तनुः संस्कृतोऽग्निना ।
(र्म् ९४)
तद्धातूश्च समारोप्य स्तूप उच्चैर्महान् कृतः ॥ ७.११५{१५} ॥
तत्र रत्नमये स्तूपे सद्विधाने प्रतिष्ठिते ।
नित्यसत्कारपूजाभिः कारितं च महोत्सवम् ॥ ७.११६{१६} ॥
संगीतिवाद्यनृत्यैश्च महानंदप्रचारिभिः ।
कारयित्वा महोत्साहं स्थापितं सुमहन्महः ॥ ७.११७{१७} ॥
एकस्मिन् दिवसे तत्र पुमानेको दरिद्रितः ।
तन्महांते दिनेऽन्यस्मिं स्तापांगणमुपाविशत् ॥ ७.११८{१८} ॥
तत्र स्तूपाङ्गणे चासौ प्रविष्टः समलोकयत् ।
म्लानीभूतानि पुष्पाणि प्रकीर्ण्णानि समंततः ॥ ७.११९{१९} ॥
तानि निर्माल्यपुष्पाणि विकीर्ण्णानि समंततः ।
ग्लानीभूतान्यशुद्धानि दृष्ट्वा चैवं व्यचिन्तयत् ।
अयं चैत्यो मुनीन्द्रस्य विपश्चिनो गुणांबुधेः ॥ ७.१२०{२०} ॥
धातुरत्नमयस्तूपः सर्वलोकाभिः पूजितः ।
एतन्निर्माल्यपुष्पैस्तु म्लानितैः पवनेरितैः ॥ ७.१२१{२१} ॥
आकीर्णो मलिनीभूतो ह्यशुद्धेः स्यादशोभितः ।
तस्मादेतानि पुष्पाणि निर्माल्यानि समंततः ॥ ७.१२२{२२} ॥
अपनीय विशुद्धाय मार्जयेयमिह द्रुतम् ॥ ७.१२३{२३} ॥
इति ध्यात्वा दरिद्रोऽसौ निर्माल्यान्यपनीय वै ॥ ७.१२४{२५} ॥
संमार्ज न्यासममार्क्षी स्तूपांगणं समंततः ।
ततः स्तूपांगणं सर्वं विरजं परिशोधितम् ।
दृष्ट्वा प्रसन्नचित्तोऽसौ नत्वैवं प्रणिधिं दधे ।
यन्मयात्र जिनस्तूपे निर्माल्यान्यपनीय वै ।
संमृज्य शोभनं कृत्वा कुशलं समुपार्जितम् ।
अनेन कुशलेनाहं सदा दुर्गतिमोचितः ॥ ७.१२५{२६} ॥
एवंविधगुणज्ञानलाभि भूयासमात्मवित् ।
एवंविधं च शास्तारं संबुद्धं ज्ञानभास्करम् ॥ ७.१२६{२७} ॥
आरागयं समाश्रित्य लभेयं सौगतिं गतिम् ।
प्रणिधानं तथा धृत्वा नित्यमेवमुपाश्रयन् ॥ ७.१२७{२८} ॥
तत्स्तूपे शरणं गत्वा भजे रत्नत्रयं सदा ।
भिक्षवः किं नु मन्यध्वे यो पुरुषः दरिद्रिकः ॥ ७.१२८{२९} ॥
(र्म् ९५)
अयमेव वपुष्मान् स ज्ञेयो हि नान्यथा खलु ।
यत्स्तूपांगणं तेन संबुद्धगुणभाविना ॥ ७.१२९{३०} ॥
समन्ततः सुसंमृज्य परिशुद्धीकृतं तदा ।
तेन पुण्यविपाकेन जात आढ्यकुलेऽधुना ॥ ७.१३०{३१} ॥
दिव्याभिसुन्दरः कान्तः स वपुष्मान् भवत्ययम् ।
यत्प्रणिधिः कृतः स्तूपे नत्वा तेन सुचेतसा ॥ ७.१३१{३२} ॥
तेन मे शासनेऽप्यद्य प्रव्रज्यार्हन् भवत्ययम् ।
आरागितस्तथार्हञ्च संबुद्धः सुगतो जिनः ॥ ७.१३२{३३} ॥
अनेन भिक्षुणा बोधिप्राप्तेन ब्रह्मचारिणा ।
इत्येवं कर्म जानीत सुकृतं दुष्कृतं भवे ॥ ७.१३३{३४} ॥
येनैव यत्कृतं कर्म तेनैव तत्फलं गतम् ।
न नश्यन्ति हि कर्माणि कल्पकोटिशतैरपि ॥ ७.१३४{३५} ॥
सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम् ।
अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ ७.१३५{३६} ॥
नाग्निभिर्दह्यते कर्म वायुभिश्च न शुष्यते ।
जलैश्च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ ७.१३६{३७} ॥
अन्यथापि भवेन्नैव कर्मणां गतिराभवम् ।
शुक्लानां शुभतैव स्यात्कृष्णानां दुर्गतिस्सदा ॥ ७.१३७{३८} ॥
मिश्रिता मिश्रितानं तु भुज्यंते सर्वजन्तुभिः ।
तस्मादपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ ७.१३८{३९} ॥
चरणीयां शुभेष्वेव कर्मसु सुखवांछिभिः ।
तथेति भिक्षवः सर्वे ते च लोकाः सभाश्रिताः ॥ ७.१३९{४०} ॥
बुद्धवाचोऽमृतं पीत्वा ननन्दुः शुभकामिनः ।
एवमेतन्महाराज श्रुतं मे गुरुभाषितम् ॥ ७.१४०{४१} ॥
एवं श्रुत्वा त्वयाप्येवं कर्त्तव्यं पुण्यमेव हि ।
पुण्यमेव भवेत्त्राता सुहृन्मित्रं हितंकरः ॥ ७.१४१{४२} ॥
नान्यः कश्चिदिहामुत्र विद्यते भवचारिणाम् ।
तस्मात्पुण्यं स्वयं श्रुत्वा कर्त्तव्यमादरात्सदा ॥ ७.१४२{४३} ॥
प्रजाश्च श्रावयित्वैवं पुण्ये संस्थापय सदा ।
इत्येवं गुरुणादिष्टमुपगुप्तेन भिक्षुणा ॥ ७.१४३{४४} ॥
श्रुत्वा राजा जनैः सार्द्धं तथेति प्राभ्यनंदत ।
(र्म् ९६)
शृण्वन्ति ये श्रावयन्तीह यश्च वपुष्मतोऽदः प्रथितावदानम् ।
ते क्लेशनिर्मुक्तविशुद्धचित्ताः प्रयान्ति नूनं सुगतालयेषु ॥ ७.१४४{४५} ॥
++ इति रत्नावदानमालायां वपुष्मतावदानं नाम समाप्तम् ++
(र्म् ९७)
विइइ प्रश्नोत्तरावदान
अथाशोको महीपालः संबुद्धगुणलालसः ।
उपगुप्तं गुरुं नत्वा प्रांजलिश्चैवमब्रवीत् ॥ ८.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा ते गुरुणादिष्टं तथा मे ख्यातुमर्हसि ॥ ८.२{१२} ॥
इति तेन नरेन्द्रेण पृष्टेऽसौ च जिनांशजः ।
उपगुप्तो यतिर्भूयस्तं नृपेशमभाषत ॥ ८.३{३१} ॥
शृणु राजंस्तथा वक्ष्ये यथा मे गुरुणोदितम् ।
श्रुत्वा च भवताप्येवं कर्त्तव्यं धर्मसाधनम् ॥ ८.४{४१} ॥
पुरैकसमये चासौ शाक्यसिंहोस्दयाकरः ।
सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ ८.५{५} ॥
सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः ।
मारजिष्णुर्विनेतार्हं धर्मराजस्तथागतः ॥ ८.६{६} ॥
सर्वसत्वहितार्थाय श्रावस्त्यां वहिराश्रमे ।
जेतवने विहारस्थे व्यहरच्छ्रावकैः सह ॥ ८.७{७} ॥
बोधिसत्वगणैश्चापि सूपासकैश्च चैलकैः ।
देवासुरगणैश्चापि चतुर्वर्ण्णादिमानवैः ॥ ८.८{८} ॥
चतुर्भिश्च महाराजैः ससैन्यपरिवारकैः ।
सर्वसत्वैश्च पौरैश्च सद्धर्मगुणवांछिभिः ॥ ८.९{९} ॥
सत्कृत्य पूजयित्वा च परिवृत्य पुरस्कृतः ।
स भगवान् सभामध्ये सिंहासने स्थितो वभौ ॥ ८.१०{१०} ॥
तदा स भगवान् दृष्ट्वा तां सभां समुपस्थिताम् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ८.११{११} ॥
ते तद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः ।
भगवन्तं पुनर्नत्वा स्वस्वस्थानं प्रतीयिरे ॥ ८.१२{१२} ॥
ततोऽसौ भगवान् रात्रौ ध्यानागारे समाविशन् ।
पर्य्यङ्कं समुपाश्रित्य तस्थौ ध्यानसमाहितः ॥ ८.१३{१३} ॥
तदैका देवता तस्यां रात्रौ स्वर्गात्समागता ।
स्वकान्त्या भासयंत्येवं जेतवनमुपाविशत् ॥ ८.१४{१४} ॥
(र्म् ९८)
ततस्तां भगवान् दृष्ट्वा देवतां समुपागताम् ।
संनिरीक्ष्य समामंत्र्य तथैनां समबोधयत् ॥ ८.१५{१५} ॥
देवते स्वागतं कच्चि कुशलं ते समेहि भो ।
प्रायातासि यदर्थेन तद्वदस्व प्रपूरये ॥ ८.१६{१६} ॥
इत्यादिष्टे मुनीन्द्रेण तेनासौ देवता मुदा ।
संपृछावसरं लब्ध्वा हर्षिता समुपाक्रमत् ॥ ८.१७{१७} ॥
तत्रासौ पुरतो गत्वा नत्वा पादौ कृतांजलिः ।
प्रदक्षिणत्रयं कृत्वा तस्थावेकान्तिके मुनेः ॥ ८.१८{१८} ॥
सर्वजेतवनं तस्या देवतायाः प्रभावतः ।
उदारेणावभासेन प्रविस्फुटं वभौ तदा ॥ ८.१९{१९} ॥
तथावभाषितं दृष्ट्वा सर्वे ते भिक्षुसांघिकाः ।
विस्मिताः सहसोत्थाय दृष्ट्वा तमुपतस्थिरे ॥ ८.२०{२०} ॥
अथ सा देवतोत्थाय कृतांजलिपुटोऽग्रगा ।
भगवन्तं मुनीन्द्रं तं प्रणत्वैवमपृछत ॥ ८.२१{२१} ॥
सर्वज्ञ भगवं छास्तः येनाहं समुपागता ।
तदर्थं त्वं समादिश्य चित्तं मे परिबोधय ॥ ८.२२{२२} ॥
के नराः सुगतिं यान्ति के नराः स्वर्गगामिनः ।
केषां चापि दिवारात्रौ सदा पुण्यं प्रवर्द्धते ॥ ८.२३{२३} ॥
के चापि दुर्गतिं यांति के चाधः पतिता नराः ।
केषां चापि दिवारात्रौ सदा पापं प्रवर्द्धते ॥ ८.२४{२४} ॥
किंददो वलवां स्याच्च किंददश्च प्रशोभितः ।
किंददः सुखितो लोकः चक्षुष्मानपि किंप्रदः ॥ ८.२५{२५} ॥
किं नु वा निशितं शस्त्रं किं वा हालाहलं विषम् ।
किं च प्रज्वलितो वह्निः किं महद्दारुणं तमः ॥ ८.२६{२६} ॥
गृहीतं किं नु मर्त्येन किन् तेनेह समुज्झितम् ।
अभेद्यं कवचं किं च किं वा तीक्ष्णमिहायुधम् ॥ ८.२७{२७} ॥
को न्वसौ प्रोच्यते चौरो धनं किं वा सतां मतम् ।
के वा त्रैधातुके लोके प्रोच्यन्ते मुषितैति ॥ ८.२८{२८} ॥
कश्चेह सत्सुखी लोके को वा च परमेश्वरः ।
को विभूषितो नित्यं कश्चाप्यत्र विदंवितः ॥ ८.२९{२९} ॥
वत्सलो वांधवो को नु को वा दुष्टाशयो रिपुः ।
किं महद्दारुणं दुःखं किं महत्परमं सुखम् ॥ ८.३०{३०} ॥
(र्म् ९९)
किं च लोके प्रियो पथ्यः किं वापथ्यं न चाप्रियम् ।
को नु पीडाकरो व्याधिः को नु वै को भिषग्वरः ॥ ८.३१{३१} ॥
केनायमावृतो लोकः केन लोको वशीकृतः ।
केन त्यजति मित्राणि केन स्वर्गं न गछति ॥ ८.३२{३२} ॥
केन मित्राणि वर्द्ध्यंते केन शाम्यंति शत्रवः ।
केन स्वर्गमवाप्नोति केन मोक्षं च गछति ॥ ८.३३{३३} ॥
केनायं बध्यते लोकः केन लोको विमुच्यते ।
कस्येह विप्रहाणेन निर्वाणमिति कथ्यते ॥ ८.३४{३४} ॥
किं नु राजा च चौराश्च स्यंदमानाः समुद्यताः ।
नो शक्नुवन्त्यपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ ८.३५{३५} ॥
किं न दहति सप्तार्चिः किं न भिनत्ति मारुतः ।
किं वा न क्लेदयंत्यापः किं न क्षीणं च भूमिषु ॥ ८.३६{३६} ॥
इमं संशयमद्यापि मम तच्छेतुमर्हसि ।
अस्माल्लोकात्परं लोकं को गतोऽत्यंतवंचितः ॥ ८.३७{३७} ॥
किं नु हत्वा सुखं शेते किं च हत्वा न शोचति ।
कस्य चैकस्य धर्मस्य वधं संशसि गौतम ॥ ८.३८{३८} ॥
मयैतद्भगवन् पृष्टः सर्वज्ञोऽसि यतो सुधीः ।
तन्मम संशयं छेतुं सम्यगादेष्टुमर्हसि ॥ ८.३९{३९} ॥
तयैवं पृछ्यमानोऽसौ भगवान् सर्वविज्जिनः ।
देवतां तां समालोक्य तत्प्रश्नोत्तरमब्रवीत् ॥ ८.४०{४०} ॥
शृणु त्वं देवते सम्यक्कृत्वा चित्तं समाहितम् ।
तवैतत्परिपृछायाः प्रत्युत्तरमुदाहरे ॥ ८.४१{४१} ॥
आरामारोपका येऽत्र ये च वा सेतुकारकाः ।
प्रपातोदकयानं च प्रददन्ति प्रतिश्रयम् ॥ ८.४२{४२} ॥
श्रद्धाशीलेन सत्येन क्षमया वीतमत्सराः ।
ते नराः सुगतिं यान्ति ते नराः स्वर्गगामिनः ॥ ८.४३{४३} ॥
तेषामेव हि मर्त्यानां दिवारात्रौ निरंतरम् ।
अविछिन्नाः पुण्यधाराः प्रवर्द्ध्यन्ते सदा खलु ॥ ८.४४{४४} ॥
दशाकुशलकर्त्तारो येन सद्धर्मनिंदकाः ।
ते नरा दुर्गतिं यान्ति भ्रमन्ति पापचारिणः ॥ ८.४५{४५} ॥
ये चाततायिनो मर्त्याः स्वकुलधर्मनष्टकाः ।
ते नराः पतिता यन्ति नरके दुःखभागिनः ॥ ८.४६{४६} ॥
(र्म् १००)
तेषां पापिष्ठसत्वानां दिवारात्रौ निरंतरम् ।
अविछिन्नाः पापधाराः प्रवहन्ते सदा खलु ॥ ८.४७{४७} ॥
अन्नदो वलवान् भोगी वस्त्रदः शोभितो भवेत् ।
पानदः सुखितः तृप्तश्चक्षुष्मान् भवति दीपदः ॥ ८.४८{४८} ॥
दुष्टवाग्निशितं शस्त्रं रागो हालहलं विषम् ।
द्वेषः प्रज्वलितो वह्निरविद्या दारुणं तमः ॥ ८.४९{४९} ॥
गृहीतं यत्स्वयं दत्तं यद्गृहे तदिहोज्झितम् ।
अभेद्यं कवचं क्षान्तिः प्रज्ञा तीक्ष्णं महायुधम् ॥ ८.५०{५०} ॥
वितर्कोऽकुशलश्चौरः शिलं धनं सतां मतम् ।
ते एव मुषिता लोके यैः शीलं विनिपातितम् ॥ ८.५१{५१} ॥
अल्पेछः सत्सुखी लोके संतुष्टः परमेश्वरः ।
शीलवान् भूषितो नित्यं नष्टशीलो विदंवितः ॥ ८.५२{५२} ॥
वत्सलो वान्धवः पुण्यं पापं दुष्टाशयो रिपुः ।
नारकं दारुणं दुःखं स्कंधाभावपरं सुखम् ॥ ८.५३{५३} ॥
कामाः प्रिया अपथ्या हि मोक्षः पथ्यो प्रियः सताम् ।
द्वेषः पीडाकरो व्याधिः बुद्ध एको भिषग्वरः ॥ ८.५४{५४} ॥
अज्ञानेनावृतो लोको मोहनः प्रवशीकृतः ।
लोभात्त्यजति मित्राणि संगात्स्वर्गं न गछति ॥ ८.५५{५५} ॥
त्यागान्मित्राणि वर्द्धन्ते मैत्र्या शाम्यन्ति शत्रवः ।
शीलात्स्वर्गमवाप्नोति ज्ञानान्मोक्षं सु गछति ॥ ८.५६{५६} ॥
इछया बध्यते लोको नीछया च विमुच्यते ।
तृष्णाया विप्रहाणेन निर्वाणमिति कथ्यते ॥ ८.५७{५७} ॥
पुण्यं राजा च चौराश्च स्यंदमानाः समुद्यताः ।
न शक्नुवंत्यपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ ८.५८{५८} ॥
पुण्यं न दहते वह्निर्भिनत्ति च न मारुतः ।
पुण्यं न क्लेदयंत्यापो नैव क्षीण्वंति भूमयः ॥ ८.५९{५९} ॥
विद्यमानेषु भोग्येषु पुण्यं येन न संचितम् ।
अस्माल्लोकात्परं लोकं स गतोऽत्यंतवंचितः ॥ ८.६०{६०} ॥
क्रोधं हत्वा सुखं शेते क्रोधं हत्वा न शोचति ।
(र्म् १०१)
क्रोधस्यैकस्य धर्मस्य वधं संशामि सर्वदा ॥ ८.६१{६१} ॥
एतत्प्रश्नोत्तरं श्रुत्वा देवतासौ प्रमोदिता ।
भगवंतं पुनर्नत्वा प्रसंश्यैवमवोचत ॥ ८.६२{६२} ॥
धन्योऽसि भगवन् बुद्ध सर्वप्रश्नोत्तरप्रदः ।
सर्वज्ञो जगतां शास्ता षडभिज्ञो मुनीश्वरः ॥ ८.६३{६३} ॥
वीरस्य च न पश्यामि ब्राह्मण्यं परिनिर्वृतिम् ।
सर्ववीरो भयातीतस्त्रातुं लोकेऽभिशक्तिभाग् ॥ ८.६४{६४} ॥
इत्युक्त्वा देवता भूयः कृत्वा प्रदक्षिणत्रयम् ।
नत्वा पादौ मुनीन्द्रस्य तत एव दिवं ययौ ॥ ८.६५{६} ॥
अथ ते भिक्षवः सर्वे श्रुत्वा शास्त्रानुदेशितम् ।
सत्यमेवं परिज्ञाय सम्यक्कर्मसु चेरिरे ॥ ८.६६{६६} ॥
एवमेतन्महाराज गुरुणा मे प्रभाषितम् ।
श्रुत्वा चैवं परिज्ञाय सद्धर्मे निरतो भव ॥ ८.६७{६७} ॥
धर्मेण सुगतिं यायात्पापेन दुर्गतिं व्रजेत् ।
तस्माद्धर्मं पुरस्कृत्य प्रजाः सम्यक्प्रपालय ॥ ८.६८{६८} ॥
दशाकुशलकर्माणि त्यक्त्वा संवृतिमाचर ।
सर्वोपकरणं दानं दातव्यं स्वर्गवांछिना ॥ ८.६९{६९} ॥
दुष्टसंगं परित्यज्य हत्वा रागविषं मुहुः ।
द्वेषाग्निशमनं कृत्वा ह्यविद्या संप्रघात्यताम् ॥ ८.७०{७०} ॥
कामवितर्कतां त्यक्त्वा बोधिप्रणिधिचेतसा ।
त्रिकायशोधनं कृत्वा शीलधनमुपार्ज्यताम् ॥ ८.७१{७१} ॥
स्कंधाभावं परिज्ञाय मत्वा दुष्टाशयं रिपुम् ।
क्षमास्वावरणं धृत्वा दुष्टसंघान् विजीयताम् ॥ ८.७२{७२} ॥
मारधर्मान् विनिर्जित्य संबोधिधर्मसाधने ।
धैर्यवीर्यमहोत्साहैरुद्यमं क्रियतां सदा ॥ ८.७३{(७३)} ॥
क्लेशमानमदाञ्जित्वा कृत्वा चित्तं समाहितम् ।
सर्वसत्वहितार्थेषु ध्यातां बोधिसाधनम् ॥ ८.७४{(७४)} ॥
लोकं मायासमुद्भूतमज्ञानतमसावृतम् ।
दृष्ट्वा प्रज्ञाप्रदीपेन प्रेर्यतां सुगतेः पथि ॥ ८.७५{(७५)} ॥
एवं राजन् भवान्मत्वा दुष्टसंगान् विवर्जयेत् ।
(र्म् १०२)
सत्संगं निरतो नित्यं त्रिरत्नसेवको भव ॥ ८.७६{(७६)} ॥
सर्वा अपि प्रजाश्चैवं परिबोध्य प्रयत्नतः ।
प्रेरणीया त्वया राजन् संवृत्तिचरणे सदा ॥ ८.७७{(७७)} ॥
एवं मत्वा भवां राजा संसारसारमाप्नुवन् ।
क्रमाद्बोधिचरी पूर्य संबुद्धपदमाप्नुयात् ॥ ८.७८{(७८)} ॥
इत्येतद्गुरुणादिष्टमुपगुप्तेन भिक्षुणा ।
श्रुत्वा तथेति राजासावभ्यनंदत्सपर्षिकाः ॥ ८.७९{(७९)} ॥
देवतापरिपृछाख्यसूत्रं शृण्वंति ये मुदा ।
श्रावयंति च ते सौख्यं भुक्त्वा यांति सुखावतीम् ॥ ८.८०{(८०)} ॥
++ इति देवतापरिपृछासूत्रं समाप्तं ++
(र्म् १०३)
इx शुक्लावदान
अथाशोको नरेंद्रश्च कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनः श्रोतुं समर्थयत् ॥ ९.१{(१)} ॥
भदंत श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा ते गुरुणादिष्टं तन्ममाख्यातुमर्हसि ॥ ९.२{(२)} ॥
इति पृष्टे नृपेणासौवुपगुप्तो जिनांशजः ।
तमशोकं महीनाथं संनिरीक्ष्य समब्रवीत् ॥ ९.३{(३)} ॥
शृणु वक्ष्यामि ते राजं यथा मे गुरुणोदितम् ।
श्रुत्वैतद्भवताप्येवं कर्त्तव्यं धर्ममादरात् ॥ ९.४{(४)} ॥
पुरैकसमये राजं शाक्यसिंहो दयांबुधिः ।
सर्वज्ञो धर्मराण्नाथः शास्ता त्रैधातुकाधिपः ॥ ९.५{(५)} ॥
सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः ।
जिनोऽर्हन् सुगतो बुद्धस्तथागतो विनायकः ॥ ९.६{(६)} ॥
भगवान् सत्वहितार्थेन पुरे कपिलवस्तुनि ।
न्यग्रोधमण्डितोद्याने करण्डकनिवापके ॥ ९.७{(७)} ॥
श्रावकभिक्षुसंघैश्च बोधिसत्वगणैः सह ।
सद्धर्मदेशनां कर्तुं विजहार जिनाश्रमे ॥ ९.८{(८)} ॥
तद्धर्मं श्रोतुमायातैरुपासकैश्च चैलकैः ।
देवासुरगणैश्चापि चतुर्भि लोकपालकैः ॥ ९.९{(९)} ॥
चातुर्वर्ण्ण्यैर्मनुष्यैश्च पौरजानपदादिभिः ।
संबोधिचरणोत्साहैः सद्धर्मगुणलालसैः ॥ ९.१०{(१०)} ॥
सत्कृतो पूजितश्चैवं परिवृत्य पुरस्कृतः ।
भगवान् स सभामध्ये सिंहासनस्थितो वभौ ॥ ९.११{(११)} ॥
तत्र स भगवान् दृष्ट्वा सभां तां समुपस्थिताम् ।
आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ ९.१२{(१२)} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे सत्वाश्च मोदिताः ।
तथैनं श्रीघनं नित्यं भेजिरे धर्मलालसाः ॥ ९.१३{(१३)} ॥
तस्मिंश्च समये तत्र पुरे कपिलवस्तुनि ।
रोहिणाख्यो महाछाक्यो धनाढ्यो धनदोपमः ॥ ९.१४{(१४)} ॥
महाभोगो महाश्राद्धः सुविशालपरिग्रहः ।
दाता साधुर्महा धीरः प्रत्युवास सुखान्वितः ॥ ९.१५{१५} ॥
समये तेन शाक्येन स्वकुलसदृशात्कुलात् ।
भार्या नीता सुभद्राङ्गी स्वकुलधर्मचारिणी ॥ ९.१६{१६} ॥
ततोऽसौ रोहिणः शाक्यस्तयैव कान्तया सह ।
(र्म् १०४)
महारगानुरागेण रराम परिचारयन् ॥ ९.१७{१७} ॥
तस्यैवं रममाणस्य कृईडतोऽप्यनुरागतः ।
न पुत्रो न सुता वापि सुचिरेणाप्यजायत ॥ ९.१८{१८} ॥
ततोऽसौ रोहिणः पुत्रीपुत्रलाभे समुत्सुकः ।
पुत्रचिन्तापरः कोष्ठे स्थित्वैवं च व्यचिन्तयत् ॥ ९.१९{१९} ॥
ईयत्संपद्गृहे मेऽस्ति न च पुत्रसुतापि न ।
एता मे संपदो राजा ममात्ययाद्ग्रहीष्यति ॥ ९.२०{२०} ॥
हा मे संपद्विनष्टा स्यात्परत्रापि गतिर्न हि ।
व्यर्थस्मज्जन्म संसारे यतो मे सन्ततिर्न हि ॥ ९.२१{२१} ॥
को मे कुर्याच्च संस्कारं कश्च पिण्डं प्रदास्यति ।
कुत्राहं शरणं यायां हा दैवनिहतोऽस्म्यहम् ॥ ९.२२{२२} ॥
इति चिन्ताविषण्णोऽसौ शोकागारे व्यवस्थितः ॥ ९.२३{२३} ॥
कपोलं स्वकरे धृत्वा तस्थौ भोग्यनिरुत्सुकः ।
एवं चिन्तासमाक्रान्तं रोहिणं तं निरुत्सुकम् ॥ ९.२४{२४} ॥
दृष्ट्वा सर्वे सुहृन्मित्रा वान्धवाश्च व्यबोधयन् ।
किमेवं तिष्ठसे भद्र किं च दुःखं प्रजायते ॥ ९.२५{२५} ॥
वक्तव्यं चेत्तथास्माकं वक्तुमर्हसि सर्वथा ।
इति पृष्टे च तैः सर्वैर्वन्धुमित्रसुहृज्जनैः ॥ ९.२६{२६} ॥
रोहिणोऽसौ पुरस्तेषां सर्वमेवमभाषत ।
भवन्तः शृणुत सर्वे कथ्यते दुःखता मया ॥ ९.२७{२७} ॥
महती मे गृहे संपदस्या भोक्ता न विद्यते ।
कथं मे विद्यते वंशस्तत्प्रकारं न मन्यते ॥ ९.२८{२८} ॥
यदि वोऽस्ति मयि स्नेहस्तदुपायं प्रचक्ष्यताम् ।
एवं तेनार्थितं श्रुत्वा सर्वे ते स्नेहवंधिताः ॥ ९.२९{२९} ॥
तस्य वंशसमुत्पत्तेरुपायं समुपादिशन् ।
मा कार्षीः शोकतां भद्र तदुपायं नु विद्यते ॥ ९.३०{३०} ॥
देवताराधनां कृत्वा याचस्व पुत्रमात्मना ।
अवश्यं देवतानां ते प्रसन्नानां प्रसादतः ॥ ९.३१{३१} ॥
पुत्रो वा दुहिता वापि भविष्यति न संशयः ।
इत्येतत्तैः समादिष्टं श्रुत्वासौ रोहिणो मुदा ॥ ९.३२{३२} ॥
देवताराधनां कर्तुं प्रयतात्मा समारभत् ।
पूजाङ्गैः पूजायित्वा च ब्राह्मणं हरिमीश्वरम् ॥ ९.३३{३३} ॥
(र्म् १०५)
इंद्रादिलोकपालाञ्च संततिं समयाचत ।
एवं पुत्राभिनन्दी स सदारः वंशकाम्यया ॥ ९.३४{३४} ॥
देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः ।
तथापि तस्य शाक्यस्य स्वदैवपरिमाणतः ॥ ९.३५{३५} ॥
न पुत्रो न च पुत्री वा सुचिरमप्यजायत ।
ततोऽसौ रोहिणः शाक्यो देवतासु निराशया ॥ ९.३६{३६} ॥
पुत्रवांछाविरक्तात्मा तस्थौ गेहे निरुत्सवः ।
अस्ति चैष महाराज प्रवादो लौकिकोद्भवः ॥ ९.३७{३७} ॥
यद्देवताप्रसादेन जायते संततिः खलु ।
एवं चेद्वा तथा राजन्नेकैकस्य भवेत्खलु ॥ ९.३८{३८} ॥
यथा पुत्रसहस्रं वा नृपस्य चक्रवर्त्तिनः ।
अपि तु संमुखीभावात्त्रिस्थानानां नृपेश्वर ॥ ९.३९{३९} ॥
पुत्रा वापि सुताश्चापि जायंते प्राणिनां खलु ।
तद्यथा पितरौ रक्तौ कल्या चर्तुमती प्रसूः ।
गंधर्वः प्रस्थितः काले तदा गर्भे समुद्भवेत् ॥ ९.४०{४०} ॥
ततश्च समये तस्य रोहिणस्यानुरागिणः ।
भार्य्या कल्यावतीभूता स्नात्वा रतिं समारभत् ॥ ९.४१{४१} ॥
तदैका देवता स्वर्गाच्च्युत्वा कर्मानुभोगिनी ।
तस्य शाक्यस्य भार्य्याया गर्भे सा समुपाविशत् ॥ ९.४२{४२} ॥
ततः स्वापन्नसत्वा सा मत्वा गर्भसमुद्भवम् ।
स्वामिनोऽग्रे रहः स्थित्वा हर्षितैवं न्यवेदयत् ॥ ९.४३{४३} ॥
स्वामिन्नापन्नसत्वास्मि वंश आवां समुद्भवेत् ।
तद्भवान् सर्वकृयानि कारयत्वनुमोदितः ॥ ९.४४{४४} ॥
इति भार्योदितं श्रुत्वा रोहिणोऽसौ प्रमोदितः ।
भार्यां तां गर्भिणीं दृष्ट्वा संस्मितः प्रत्यभाषत ॥ ९.४५{४५} ॥
सत्यं मे भाषितं भद्रे मत्वा भव समाहिता ॥ ९.४६{४५!} ॥
प्रमादमत्र मा कार्षी यदि स्नेहास्ति ते मयि ।
एवं ते कुशलं भद्रे यदि पुत्रं जनिष्यसि ॥ ९.४७{४६} ॥
तदा निष्काशयामि त्वां यदि पुत्रीं जनिष्यसि ।
इति भर्तुर्वचः श्रुत्वा सा स्त्री विवृद्धदोहदा ।
(र्म् १०६)
भर्तुर्वियोगशंकार्त्ता बभूव परिखेटिता ॥ ९.४८{४७} ॥
यावत्सा समये सूत दारिकां दिव्यसुंदरीम् ।
शुक्लवस्त्रपरीताङ्गां गर्भमलाविलिप्तिताम् ॥ ९.४९{४८} ॥
ततस्तां दारिकां जातां श्रुत्वासौ रोहिणो रुषा ।
प्रत्याख्यातुं स्वयं भार्यां विवेश सूतिकागृहे ॥ ९.५०{४९} ॥
प्रजापत्या तया भर्तुरुपनीता पुरः सुता ।
शुक्लवस्त्रपरीताङ्गा भद्राङ्गी दिव्यसुंदरी ॥ ९.५१{५०} ॥
ततः स रोहिणो दृष्ट्वा तां सुतां दिव्यसुंदरीम् ।
शुक्लवस्त्रपरीताङ्गां परविस्मयमाययौ ॥ ९.५२{५१} ॥
अहो भाग्यान्मया लब्धा सुतेयं भद्ररूपिणी ।
यदेषा सहजैः शुक्लवस्त्रैः प्रावृत्य जायते ॥ ९.५३{५२} ॥
तस्मान्नूनमियं साक्षाद्देवकन्यावतारिता ।
सद्धर्मचारिणी भद्रा भविष्यति न संशयः ॥ ९.५४{५३} ॥
इत्युक्त्वासौ पिता शाक्यः पश्यंस्तां दारिकां चिरात् ।
अतृप्तो निश्चलाक्षश्च तस्थौ संमूर्छितो यथा ॥ ९.५५{५४} ॥
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा ।
तन्नामकरणं तस्यास्तान् पुनः स समब्रवीत् ॥ ९.५६{५५} ॥
भवन्तोऽस्याः सुताया मे भद्राङ्ग्या अनुरूपतः ।
नामधेयं प्रसिद्धेन कर्त्तव्यं क्रियतां शुभम् ॥ ९.५७{५६} ॥
इति तेनार्थिते तस्याः सर्वे ते जातयस्तथा ।
सहजशुक्लवस्त्राङ्गं दृष्ट्वैवं संवभाषिरे ॥ ९.५८{५७} ॥
यदियं दारिका सौम्या भद्रांगी दिव्यसुंदरी ।
शुक्लवस्त्रावृता जाता तच्छुक्लेति प्रसिध्यतु ॥ ९.५९{५८} ॥
इति संभाषणां कृत्वा सर्वे ते ज्ञातयस्तथा ।
रोहिणं तं समामंत्र्य तथैवं समुदाहरत् ॥ ९.६०{५९} ॥
यदियं ते सुता भद्र भद्राङ्गी दिव्यसुंदरी ।
शुक्लवस्त्रावृता जाता तच्छुक्लेति प्रचक्ष्यताम् ॥ ९.६१{६०} ॥
तथेत्यनुमतं कृत्वा तेन पित्रा प्रसादिता ।
शुक्ला सा दुहिताष्टासु धात्रीषु समुपार्पिता ॥ ९.६२{६१} ॥
ततस्तासां च धात्रीणामुपचारप्रचारतः ।
वर्द्धिताभूत्सुरम्याङ्गी ह्रदस्थमिव पंकजम् ॥ ९.६३{६२} ॥
यथा यथा च सा शुक्ला परिवृद्धाभवत्क्रमात् ।
(र्म् १०७)
तथा तथा च तद्वस्त्रं ववृद्धे निर्मलीऽभवत् ॥ ९.६४{६३} ॥
न च कायोऽप्यभूत्तस्मात्मलाभिलिप्तदुर्भगः ।
वभौ तु निर्मलः शुद्धः सुगंधिपरिवाहकः ॥ ९.६५{६४} ॥
यदा सा दारिका शुक्ला परिवृद्धा क्रमादभूत् ।
कुमारी सर्वलोकानां मनोनेत्राभिहारिणी ॥ ९.६६{६५} ॥
ततः सा शिक्षितुं विद्या गुरुणां समुपाश्रिता ।
शिक्षित्वा क्रमशो विद्यां पारमाशु ययौ सुधीः ॥ ९.६७{६६} ॥
तदा ये ये च तां शुक्लामपश्यद्दिव्यसुंदरीम् ।
ते ते सर्वेऽपि पश्यन्तो विस्मिता मोहमाययुः ॥ ९.६८{६७} ॥
ततस्ते ब्राह्मणाद्याश्च तद्गुणाकृष्टमानसाः ।
स्वस्वदूतेन तां शुक्लां रोहिणं प्रार्थयन्मुहुः ॥ ९.६९{६८} ॥
जातिश्रेष्ठो ह्यहं विप्रस्तच्छुक्लां मे दातुमर्हसि ।
इति तां ब्राह्मणपुत्रा रोहिणं प्रत्ययाचयन् ॥ ९.७०{[६९]} ॥
राजपुत्रोऽस्म्यहं वीरस्तत्सुता मे प्रदीयताम् ।
इति राजकुमारास्तं रोहिणं तां समर्थयन् ॥ ९.७१{[७०]} ॥
अहं वैश्यः प्रजाभर्ता तच्छुक्लां मे दातुमर्हसि ।
इति वैश्यकुमारास्तां रोहिणं प्रार्थयरि मुहुः ॥ ९.७२{[७१]} ॥
अहं मंत्रिसुतो विज्ञस्तच्छुक्ला मे प्रदीयताम् ।
इति मंत्रिसुताः सर्वे रोहिणं प्रत्ययाचयन् ॥ ९.७३{७१!} ॥
महामात्यसुतोऽहं हि तच्छुक्लां मे प्रयछताम् ।
इत्यामात्यकुमारास्तां रोहिणं प्रत्ययाचयन् ॥ ९.७४{७२} ॥
एवमन्येऽपि लोकाश्च रूपद्रव्याभिमानिनः ।
स्वस्वदूतेन तां शुक्लां रोहिणं प्रत्ययाचयन् ॥ ९.७५{७३} ॥
एवं सर्वैश्च तैर्नित्यैः प्रार्थ्यमानो महाजनैः ।
रोहिणः स विषण्णात्मा स्थित्वैवं च व्यचिन्तयत् ॥ ९.७६{७४} ॥
हा मे दुःखानि जातानि कथमत्र प्रतिक्रिया ।
सर्वथाहं प्रणष्टः स्यां सुतयाः कारणेऽधुना ॥ ९.७७{७५} ॥
यद्येकस्मै प्रदास्यामि सुतामेतां मनोहराम् ।
अन्ये सर्वेऽपि मे वैरा भविष्यंति तदा खलु ॥ ९.७८{७६} ॥
अवश्यं मे सुता हीयं वैरिणी मां हनिष्यति ।
एवं दुःखानुदायिन्या पुत्र्यापि किं ममैतया ॥ ९.७९{७७} ॥
इति चिन्ताविषण्णोऽसौ तच्चिन्ताकुलमानसः ।
(र्म् १०८)
कपोलं स्वकरे स्थाप्य तस्थौ कोष्ठे निरुत्सवः ॥ ९.८०{७८} ॥
एवं चिन्ताविभिन्नास्यं पितरं तं विषादिनम् ।
सा शुक्ला दुहिता दृष्ट्वा प्रणत्वैवमभाषत ॥ ९.८१{७९} ॥
किमेवं तिष्ठसे तात किं ते दुःखं नु जायते ।
कथ्यतां तद्यदि स्नेहो मयि ते वर्त्तते पितः ॥ ९.८२{८०} ॥
इति पुत्र्या वचः श्रुत्वा पिता स रुषिताशयः ।
निःस्नेहस्तां सुतां शुक्लां दृष्ट्वैवं पर्य्यभाषत ॥ ९.८३{८१} ॥
त्वन्निमित्ते महद्दुःखं जायते मे कुपुत्रिके ।
किं तवाग्रे कथित्वैतं यतो नैव प्रतिक्रिया ॥ ९.८४{८२} ॥
अवश्यं त्वं सुता शत्रुः सर्वथा मां हनिष्यसि ।
एवं दुःखाभिदायिन्या पुत्र्यापि किं मम त्वया ॥ ९.८५{८३} ॥
इति पित्रोदितं श्रुत्वा सा शुक्ला प्रहताशया ।
सहसा पितरं नत्वा रुदंत्यैवमभाषत ।
तात किं मे निमित्तेन दुःखं ते जायते कथम् ।
सर्वथैतत्प्रवक्तव्यं यदि तेऽहं सुतात्मजा ।
तदुपायं करिष्यामि येन दुःखं निहन्यते ॥ ९.८६{८४} ॥
तदेतत्सर्वथा तात ममाग्रे वक्तुमर्हसि ।
इति पुत्र्योदिते भूयः पितासौ रोहिणोऽवदत् ॥ ९.८७{८५} ॥
तत्किन् ते कथ्यते पुत्रि यतो नास्ति प्रतिक्रिया ।
बहवः प्रार्थयितारस्तव राजसुतादयः ॥ ९.८८{८६} ॥
कुमारा ब्राह्मणा वैश्याः शूद्राश्च मंत्रिनंदनाः ।
अमात्यनंदनाश्चापि सार्थवाहसुतादयः ॥ ९.८९{८७} ॥
एवमन्येऽपि ये चान्या गुणद्रव्याभिमानिताः ।
पौरिका ग्रामिकाश्चापि कुलरूपाभिमानिकाः ॥ ९.९०{८८} ॥
एतैः सर्वैरहं नित्यं सुमुद्रितस्त्वदर्थिभिः ।
कथमत्र करिष्यामि चेतना मे न विद्यते ॥ ९.९१{८९} ॥
त्वमेवैका हि मे पुत्री बहवो याचकाश्च ते ।
एकस्मै यदि दास्यामि सर्वेऽन्ये स्युर्ममाहिताः ॥ ९.९२{९०} ॥
अतस्त्वां खण्डशः कृत्वा सर्वेभ्योऽप्यर्पये च वै ।
एवं तु क्रियमाणे मे कुशलत्वं भविष्यति ॥ ९.९३{९१} ॥
अन्यथा चेद्भवेन्नैव कुशलं मे सदापि हि ।
(र्म् १०९)
इति पित्रोदितं श्रुत्वा शुक्ला सा मृत्युशंकित ॥ ९.९४{९२} ॥
मोदितेव पितुः पादौ प्रणत्वैवमभाषत ।
प्रसीद मा कृथाः खेदं ममैतत्कारणे पितः ॥ ९.९५{९३} ॥
तथाहं ते करिष्यामि यथा दोषो न विद्यते ।
नाहं कामार्थिनी तात तदनुज्ञां प्रदेहि मे ॥ ९.९६{९४} ॥
प्रव्रजित्वा चरिष्यामि भगवच्छासने व्रतम् ।
इत्येतद्भाषितं पुत्र्या श्रुत्वासौ रोहिणः पिता ॥ ९.९७{९५} ॥
पुत्रीवियोगमाशंक्य पुनरेवमभाषत ।
मा कृथाः सर्वथा पुत्रि प्रव्रज्याचरणे मनः ॥ ९.९८{९६} ॥
त्वं स्त्री वाला न शक्नुयाः प्रव्रज्यां चरितुं सुते ।
प्रव्रज्यायां व्रतं कष्टं पुरुषैरपि दुष्करम् ॥ ९.९९{९७} ॥
त्वं तु वाला सुभद्रांगी कोमला दिव्यसुंदरी ।
कथं तद्दुष्करस्थाने व्रतं कर्तुं सहेः सुते ॥ ९.१००{९८} ॥
तन्मा कृथास्तथा वाले प्रव्रज्यायां मनस्त्यज ।
यदि कामार्थिनी नासि कस्मै चिद्दास्यते न हि ॥ ९.१०१{९९} ॥
तत्पुत्रि स्वगृहे स्थित्वा व्रतं धृत्वा सुखं वस ।
यदि कामार्थिनी वासि पुत्रि तेषां त्वदर्थिनाम् ॥ ९.१०२{१००} ॥
स्वयंवरविधिं कृत्वा स्वयं वर यमिछसि ।
तदा मे दूषणं नास्ति तवापि दूषणं न हि ॥ ९.१०३{१} ॥
सर्वत्रापि हि लोकेषु विधिरेष प्रवर्त्तते ।
तस्मात्तेषां कुमाराणां पतिं भद्रं स्वयं वर ॥ ९.१०४{२} ॥
तेनैव पतिना सार्द्धं व्रतं कृत्वा सुखं चर ।
तदा सन्ततिमुत्पाद्य भुक्त्वा भोग्यं यथा सुखम् ॥ ९.१०५{३} ॥
संवृत्तिचरणं कृत्वा तथान्ते स्वर्गमाप्नुयाः ।
तेनैवं मा कृथाः पुत्रि प्रव्रज्याचरणे मनः ॥ ९.१०६{४} ॥
किं ते प्रव्रज्यया सिद्ध्येन्महद्दुष्करचर्य्यया ।
इत्युक्ते जनकेनासौ शुक्ला कामपराङ्मुखा ॥ ९.१०७{५} ॥
सद्धर्मचरणप्रेप्सुः पितरमेवमब्रवीत् ।
नाहं कामार्थिनी तात संबोधिपदवांछिनी ॥ ९.१०८{६} ॥
तस्माद्भोग्यान्यपि त्यक्त्वा चरितुमिछामि सद्व्रतम् ।
सभयाः सरणाः कामाः सक्लेशाश्च विषोपमाः ॥ ९.१०९{७} ॥
तस्मात्कामे न मे वांछा निर्वाणे एव मे मनः ।
(र्म् ११०)
सदेवासुरमानुष्या ये सत्वाः कामरागिणः ॥ ९.११०{८} ॥
सर्वे ते क्लेशिताश्चान्धाश्चरन्ति पातकेष्वपि ।
कृत्वा ते पातकान्येवं गछन्ति दुर्गतिष्वपि ॥ ९.१११{९} ॥
विविधानि च दुःखानि भुंजते नरकास्थिताः ।
ब्राह्मणा अपि धीराश्च वैदिका ब्रह्मचारिणः ॥ ९.११२{१०} ॥
तेऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिम् ।
तपस्विनो महाभिज्ञाः शुद्धात्माना जितेन्द्रियाः ।
तेऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिम् ।
यतयो योगिनश्चापि निर्ग्रंथाश्च दिगंवराः ॥ ९.११३{११} ॥
तेऽपि कामानुरागेन भ्रष्टा गच्छन्ति दुर्गतिम् ।
राजानः क्षत्रियाश्चापि कृत्वा युद्धं परस्परम् ॥ ९.११४{१२} ॥
आहवे निधनं यान्ति तदपि कामकारणे ।
अमात्या मंत्रिणश्चापि मारयन्ति परार्धिनः ॥ ९.११५{१३} ॥
तत्पापैर्दुर्गतिं यान्ति तदपि कामहेतुना ।
योधारश्च महावीरा युद्धं कृत्वा परस्परम् ॥ ९.११६{१४} ॥
संग्रामे निधनं यान्ति तदपि कामकारणे ।
वणिजः सार्थवाहाश्च रत्नद्रव्यातिलालसाः ॥ ९.११७{१५} ॥
समुद्रे पतिताः केचिन्मृताः केचिच्च जंगले ।
केचिन्मृता महारण्ये चौरैः केचिदुपद्रुताः ॥ ९.११८{१६} ॥
क्षुत्पिपासाहताः केचिन्मृता मार्गे रुजान्विताः ।
शीतवातातपाक्रान्ता मृता केचिच्छ्रमातुराः ॥ ९.११९{१७} ॥
केचिद्गृहगता एव मृताः केचिच्च रोगिनः ।
केचिद्भारं वहन्तश्च मृताः केचिद्भयान्विताः ॥ ९.१२०{१८} ॥
जन्तुभिः खादिताः केचित्तत्सर्वं कामहेतुना ।
कृषिणश्च दिनं यावत्क्षत्रकर्मसमुद्यताः ॥ ९.१२१{१९} ॥
दिनान्ते गृहमगत्य शेरते ते मृता इव ।
एवमन्येऽपि लोकाश्च शिल्पिप्रेष्यजनादयः ॥ ९.१२२{२०} ॥
दासदासीजनाश्चापि स्वस्वकर्मसमुद्यताः ।
एवं नित्यमविश्रान्तं कुटुंवधनसाधने ॥ ९.१२३{२१} ॥
वहंति खेदिताः क्लेशं तत्सर्वं कामहेतुना ।
एवं चौरादिदुष्टाश्च परद्रव्यापहारिणः ॥ ९.१२४{२२} ॥
पातकान्यपि कुर्वन्ति तदपि कामकारणे ।
केचिच्च परद्रव्याणि हरन्ति हारयन्ति च ॥ ९.१२५{२३} ॥
केचिद्धत्वापि सर्वं हरन्ति क्रूरमानसाः ।
धनार्थे किं न कुर्वन्ति दुष्टा लुब्धाश्च निर्दयाः ॥ ९.१२६{२४} ॥
(र्म् १११)
प्रघ्नन्ति पितरौ केचित्तेऽपि घ्नन्ति गुरूनपि ।
केचिद्विघ्नन्ति मित्राणि ज्ञातिवन्धुजनानपि ॥ ९.१२७{[१२५]} ॥
पत्नीपुत्रदुहितॄश्च भ्रात्रींश्च भागिनीरपि ।
केचिद्घ्नन्ति सहायांश्च दासदासीजनान्यपि ॥ ९.१२८{२६} ॥
बालान् वृद्धांश्च नारींश्च तत्सर्वं कामकारणे ।
केचिच्च प्राणिनः पक्षिमृगमत्स्यादिजन्तुकान् ॥ ९.१२९{२७} ॥
हत्वा खादन्ति पापिष्ठास्तदपि कामकारणे ।
एवं तिर्य्यग्गणाश्चापि पक्षिसिंहादिजन्तवः ॥ ९.१३०{२८} ॥
परस्परं निहत्यैवं खादन्ति कामहेतुना ।
एवं शथावंचयन्तस्त्रासयन्तोऽपि वालकान् ॥ ९.१३१{२९} ॥
अदत्तं प्रतिगृह्नन्ति तदपि कामकारणात् ।
मिथ्याकामरताः केचित्परदारांश्च कामिनीः ॥ ९.१३२{३०} ॥
हरन्ति छद्मना चापि तदपि कामकारणे ।
यच्च मृषावदंतोऽपि परकार्य्याभिघाटकाः ॥ ९.१३३{३१} ॥
साधयन्ति स्वकार्याणि तदपि कामहेतुना ।
यच्च पिशुनवादेन सुहृन्मित्रानुचारिणाम् ।
विरोधं कारयन्त्येवं तदपि कामहेतुना ॥ ९.१३४{[१३२]} ॥
यच्च पारुष्यवादेन गुरुसाधुजनानपि ।
परिभाष्य विनिन्दन्ति तदपि कामकारणे ॥ ९.१३५{[१३३]} ॥
यत्संभिन्नप्रलापेन सुहृन्मित्रानुयायिनाम् ।
चित्तानि भेदयन्त्येवं तदपि कामकारणे ॥ ९.१३६{[१३४]} ॥
यच्च मायानुरागेण साधूनां धर्मचारिणाम् ।
प्रभेदयन्ति चित्तानि तदपि कामहेतुना ॥ ९.१३७{[१३५]} ॥
यदीर्ष्यामत्सरालीढा दृष्ट्वा परगुणर्द्धिताम् ।
व्यापादं चिन्तयन्त्येवं तदपि कामकारणे ॥ ९.१३८{[१३६]} ॥
यन्मिथ्यादृष्टिका लोके सर्वधर्मप्रहासिकाः ।
भोग्यानि भुंजते हृत्वा तदपि कामकारणे ॥ ९.१३९{[१३७]} ॥
केचिज्जातिपरिभ्रष्टा नीचजातिप्रसंगताः ।
स्वकुलधर्मभ्रष्टाश्च तदपि कामकारणे ॥ ९.१४०{[१३८]} ॥
एवं सर्वेऽपि सत्वाश्च सद्गतिपरिवर्तिनः ।
कामर्थे क्लेशितात्मानो भ्रमन्ति दुर्गतौ सदा ॥ ९.१४१{[१३९]} ॥
(र्म् ११२)
एवं यावन्ति दुःखानि संसारे षड्गतिष्वपि ।
तानि सर्वाणि सत्वानां जायन्ते कामहेतुना ॥ ९.१४२{[१३०]} ॥
एवं मत्वा तु ये विज्ञाः कामं त्यक्त्वा विरागिणः ।
प्रव्रजित्वा सुनिःक्लेशा ब्रह्मचर्य्यं चरन्ति ते ॥ ९.१४३{[१३१]} ॥
ततो मे सभये कामे सरणे च विषोपमे ।
विद्वद्भिर्गर्हिते तात मनोवांछा न वर्त्तते ॥ ९.१४४{३२} ॥
तत्प्रव्रज्यां समाश्रित्य भगवच्छरणं गता ।
ब्रह्मचर्य्यं चरित्वाहं प्राप्तुमिछामि निर्वृतिम् ॥ ९.१४५{३३} ॥
बुद्धो हि जगतां शास्ता धर्मराजो विनायकः ।
तत्तस्य शरणे गत्वा चरितुमिछामि सच्चरीम् ॥ ९.१४६{३४} ॥
यद्यस्ति ते मयि स्नेहः सद्धर्मे चानुरागता ।
तदनुमोदनां कृत्वानुज्ञां मे दातुमर्हसि ॥ ९.१४७{३५} ॥
यदि तु सौगते धर्मेऽप्यनुज्ञां मे ददासि न ।
तीर्थयात्रां भ्रमिष्यामि सर्वदाहं विरागिनी ॥ ९.१४८{३६} ॥
इति पुत्रीवचः श्रुत्य शाक्योऽसौ रोहिणः पिता ।
सुताधर्मवियोगत्वं विज्ञायैवमचिन्तयत् ॥ ९.१४९{३७} ॥
यदियं मे सुता भद्रा निराश्रवा विरागिनी ।
अवश्यं स्वगृहं त्यक्त्वा प्रव्रजेत्सर्वथा खलु ॥ ९.१५०{३८} ॥
अवश्यं मेऽनया पुत्र्या वियोगं सर्वथा भवेत् ।
सर्वथा ह्यनिवार्य्येयं व्रजतु सौगताश्रमे ॥ ९.१५१{३९} ॥
यदायं सौगते धर्मे प्रव्रजित्वा निराश्रवा ।
ब्रह्मचर्य्यं चरत्येवं ततो निर्वृतिमाप्नुयात् ॥ ९.१५२{४०} ॥
यदियं मे सुता कान्ता सुभद्रा दिव्यसुंदरी ।
यदि गेहं परित्यक्त्वा तीर्थयात्रां करिष्यति ॥ ९.१५३{४१} ॥
तदा नूनमियं भ्रांता तीर्थिकधर्मसंरता ।
कुलधर्मपरिभ्रष्टा विनष्टा स्यान्न संशयः ॥ ९.१५४{४२} ॥
ततोऽस्माकं यशोधर्मविनष्टोऽपि भवेत्खलु ।
तस्याश्च दूरगामिन्या दर्शनं स्यात्सुदुल्लभम् ॥ ९.१५५{४३} ॥
(र्म् ११३)
तस्मादस्या न कर्त्तव्या वारणा धर्मसाधने ।
चरतु सौगतीं चर्य्यामियं हि निर्वृतये ॥ ९.१५६{४४} ॥
तथा चेत्सफलं जन्म मानुष्ये स्यान्ममापि च ।
तेनेयं जगतां भर्तुः शासने चरतु व्रतम् ॥ ९.१५७{४५} ॥
इत्येवं मनसा ध्यात्वा शाक्योऽसौ रोहिणः पिता ।
शुक्लां तां स्वात्मजां भद्रां संनिरीक्ष्यैवमब्रवीत् ॥ ९.१५८{४६} ॥
सत्यमेवं सुते भद्रे यथोद्दिष्टं त्वया खलु ।
किं तु त्वं दारिका नारी प्रव्रज्यां तत्कथं चरेः ॥ ९.१५९{४७} ॥
प्रव्रज्या दुष्करस्थानं नारीणां तु विशेषतः ।
तत्प्रव्रज्याव्रते स्थित्वा मा पश्चात्परितप्यथाः ॥ ९.१६०{४८} ॥
यदि त्वं निश्चयेनैव प्रव्रज्याव्रतमिछसि ।
तच्चरस्व मुनीन्द्रस्य शासने व्रतमादरात् ॥ ९.१६१{४९} ॥
यथा च गुरुणादिष्टं श्रुत्वा तथा समाहितः ।
सम्यक्छिक्षाः समाधाय चर नित्यमतन्द्रिता ॥ ९.१६२{५०} ॥
संबुद्धशासनं धृत्वा श्रद्धाभक्तिसमन्विता ।
त्रिरत्नशरणं गत्वा बोधिव्रतं समाचर ॥ ९.१६३{५१} ॥
इति पित्रा समादिष्टे शुक्ला सा प्रतिमोदिता ।
नत्वा पादौ पितुश्चैवं जनन्याश्चरणेऽनमत् ॥ ९.१६४{५२} ॥
ततः सा जननी दृष्ट्वा तां शुक्लां स्वात्मजां प्रियाम् ।
परिष्वज्य रुदन्त्येवं प्रव्रज्यायां न्यवारयत् ॥ ९.१६५{५३} ॥
हा पुत्रि कथमेकान्ते मां त्यक्त्वा क्व व्रजिष्यसे ।
हा जीव किं नु पश्यन्ती प्रव्रजितुं त्वमीहसे ॥ ९.१६६{५४} ॥
किं चिद्दुःखं न ते दत्तं मयाम्वया कदा चन ।
केनैवं हेतुना पुत्री प्रव्रजितुं त्वमिछसि ॥ ९.१६७{५५} ॥
त्वं तु नारी सुभाद्राङ्गी कुमारी दिव्यसुंदरी ।
किंचिद्दुःखानभिज्ञा च तत्प्रव्रज्यां कथं चरे ॥ ९.१६८{५६} ॥
यावज्जीवाम्यहं चैव तावत्मा गाः कुहापि हि ।
यावच्चास्ति गृहे संपत्तावद्भुक्त्वा सुखं वस ॥ ९.१६९{५७} ॥
यदाहं मरणं याता यदा चापि गृहे विपत् ।
ज्ञातिमित्रजनैस्त्यक्त्वा तदा व्रजस्व वांछया ॥ ९.१७०{५८} ॥
इति मात्रा निषिद्धेऽपि शुक्ला सा विघ्नशंकितास्।
मातुः पादौ प्रणत्वैव सहसा निर्ययौ गृहात् ॥ ९.१७१{५९} ॥
(र्म् ११४)
ततः सा सत्वरा गत्वा न्यग्रोधारम आश्रमे ।
ददर्श भिक्षुणीभिक्षून् शन्तशीलाञ्जितेंद्रियान् ॥ ९.१७२{६०} ॥
तान् सर्वान् क्रमतो नत्वा विहारे समुपाविशत् ।
तत्रस्थं सुगतं नाथमपश्यच्छ्रिघनं जिनम् ॥ ९.१७३{६१} ॥
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितम् ।
सहस्रेणाधिकाभासं व्यामाभपरिरोचितम् ॥ ९.१७४{६२} ॥
शान्तात्मानं सुभद्रांशं समन्तभद्ररूपिणम् ।
रत्नराशिमिवोज्ज्वालं सुमेरुमिव जंगमम् ॥ ९.१७५{६३} ॥
दृष्ट्वैव निश्चला तस्थौ हर्षोत्फुल्लतनूरुहा ।
दृष्ट्वैवं सुचिरात्तस्य श्रीघनस्यान्तिके ययौ ॥ ९.१७६{६४} ॥
तथैवं समुपायातां दृष्ट्वा तां भगवान्मुनिः ।
स्वागतं दारिके भद्रे एहीत्युक्त्वा समग्रहीत् ॥ ९.१७७{६५} ॥
ततोऽसौ दारिका शुक्ला स्वागतास्मि मुनीश्वर ।
इत्युक्त्वा प्रांजलिं कृत्वा ननाम चरणौ मुनेः ॥ ९.१७८{६६} ॥
ततो भगवता तेन प्रेषिता मातुरन्तिके ।
सा शुक्ला सहसा गत्वा गौतम्याच्चरणेऽनमत् ॥ ९.१७९{६७} ॥
तथा तां समुपायातां शुक्लां सद्व्रतवांछिनीम् ।
दृष्ट्वा सा गौतमी स्पृष्ट्वा हस्तेनैव समग्रहीत् ॥ ९.१८०{६८} ॥
ततः प्रव्राजयित्वा सा गौतम्या भिक्षुणी कृता ।
खिक्खिरीपात्रहस्ताङ्का संगताभूज्जितेन्द्रिया ॥ ९.१८१{६९} ॥
येनैव शुक्लवस्त्रेण प्रावृता समजायत ।
ततः पंचसुरक्तं जातानि चीवराण्यपि ॥ ९.१८२{७०} ॥
तैरेव चिवरै रक्तैः प्रावृता परिशोभिता ।
सा शुक्ला सुप्रसन्नास्या मुण्डिताप्यभ्यरोचत ॥ ९.१८३{७१} ॥
ततो बुद्धानुभावेन सुप्रशान्तसुभाविनी ।
जित्वा क्लेशारिवर्गांश्च शिक्षापारं समाययौ ॥ ९.१८४{७२} ॥
मत्वानित्यं च संसारं भवगतिं विघातिनीम् ।
निहत्य सर्वसंस्कारगतीसतनधर्मिणी ॥ ९.१८५{७३} ॥
मारचर्य्याविनिर्मुक्ता साक्षादर्हत्वमाययौ ।
अविद्याङ्गं विनिर्भिद्य प्राप्तविद्या शुभाशया ॥ ९.१८६{७४} ॥
अभिज्ञा गुणसंपन्ना प्रतिसंविद्वती सुधीः ।
सुवीतरागिणी धीरा लोष्ठहेमसमानिका ॥ ९.१८७{७५} ॥
(र्म् ११५)
आकाशसमचित्ता च पाणीतलसमाशया ।
निरंजनाविकल्पा च श्रीखण्डतुल्यवासिनी ॥ ९.१८८{७६} ॥
स्वात्मसत्कारलाभेषु पराण्मुखी सुनिस्पृहा ।
सर्वसत्वहिताधानि संबुद्धधर्मचारिणी ॥ ९.१८९{७७} ॥
सदेवासुरलोकानां पूज्या मान्या समन्ततः ।
वंदनीया चाभितोष्या च वभूव ब्रह्मचारिणी ॥ ९.१९०{७८} ॥
अथ ते भिक्षवः सर्वे दृष्ट्वा तां ब्रह्मचारिणीम् ।
विस्मिताः सुगतं नत्वा पप्रछुरिति सादरम् ॥ ९.१९१{७९} ॥
भगवन् किमियं शुक्ला पुरा कर्माकरोच्छुभम् ।
येन वस्त्रावृता जाता भवत्येवं च भिक्षुणी ॥ ९.१९२{८०} ॥
तत्सर्वं नः समादेष्टुमर्हसि सर्वविद्गुरो ।
यदनया कृतं कर्म भिक्षुण्या शुक्लया पुरा ॥ ९.१९३{८१} ॥
इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् भिक्षुसांघिकान् सर्वान् संनिरीक्ष्यैवमब्रवीत् ॥ ९.१९४{८२} ॥
शृणुध्वं भिक्षवः सर्वे यदनया कृतं पुरा ।
तत्सर्वं कथयिष्यामि सर्वलोकाभिबोधने ॥ ९.१९५{८३} ॥
पुरास्मिन्नेव भद्राख्ये कल्पेऽभूत्काश्यपो जिनः ।
संबुद्धः सुगतो नाथो धर्मराजस्तथागतः ॥ ९.१९६{८४} ॥
सर्वविद्याधिपः शास्ता त्रैधातुकविनायकः ।
सर्वज्ञो भगवानर्हन् ब्रह्मचारी हितंकरः ॥ ९.१९७{८५} ॥
स मुनीन्द्रो जगन्नाथो वाराणसीमुपाश्रयन् ।
मृगदावे वने रम्ये व्यहरच्छ्रावकैः सह ॥ ९.१९८{८६} ॥
भिक्षुभिर्बोधिसत्वैश्च भिक्षुणीभिरुपासकैः ।
सार्द्धमुपासिकाभिश्च यतिभिश्च महर्षिभिः ॥ ९.१९९{८७} ॥
तत्रस्थो भगवान् बुद्धो सर्वसत्वहिताय सः ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ९.२००{८८} ॥
तदैकान्यतरा काचिच्छ्रेष्ठिभार्या शुभाशया ।
सुकल्याणार्थिनी श्राद्धा सद्धर्ममानसी सुधीः ॥ ९.२०१{८९} ॥
केन चित्करणियेन मृगदावमुपाचरत् ।
तत्र भिक्षून् क्रमाद्दृष्ट्वा संबुद्धान्तिकमुपाययौ ॥ ९.२०२{९०} ॥
तत्र सा समुपागत्य ददर्श तं मुनीश्वरम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैरुपलक्षितम् ॥ ९.२०३{९१} ॥
व्यामाभालंकृतं सौम्यं शतसूर्य्याधिकप्रभम् ।
सुप्रशान्तेन्द्रियां काम्यं समंतभद्ररूपकम् ॥ ९.२०४{९२} ॥
(र्म् ११६)
रत्नराशिमिवोज्ज्वालं सुमेरुमिव जंगमम् ।
तथा दृष्ट्वैव प्रामोदात्सांजलिं समुपागता ॥ ९.२०५{९३} ॥
नत्वा पादौ मुनेस्तस्थावेकान्तिके कृतांजलिः ।
ततः स भगवान् दृष्ट्वा तस्याश्चित्तं विशोधितम् ॥ ९.२०६{९४} ॥
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ।
तत्सद्धर्मामृतं पीत्वा सा शूद्री परिहर्षिता ॥ ९.२०७{९५} ॥
ससंघं सुगतं नाथं भोजयितुं समैछत ।
ततः सा स्वगृहे गत्वा साधयित्वा सुभोजनम् ॥ ९.२०८{९६} ॥
संबुद्धप्रमुखं संघं स्वांतर्गेहे न्यमंत्रयत् ।
तत्र स्वस्वासनासीनं संबुद्धं तं ससांघिकम् ॥ ९.२०९{९७} ॥
पूजयित्वा तदर्हैश्च भोजनैः समतोषयत् ।
ततः सा श्रद्धया तेभ्यः सर्वेभ्योऽपि प्रसन्निता ॥ ९.२१०{९८} ॥
बुद्धप्रमुखसंघेभ्यः प्रत्येकं चीवरं ददौ ।
ततो नित्यं च सा भक्त्या चक्रे संबुद्धसेवनाम् ॥ ९.२११{९९} ॥
तत्पुण्यैश्चापि सद्धर्मे प्रव्रजितुं समैछत ।
ततोऽसौ पितरौ नत्वाभ्यनुज्ञाप्य प्रसादिनी ॥ ९.२१२{१००} ॥
भगवच्छासने गत्वा प्रव्रज्याव्रतमाचरत् ।
तस्मात्किं भिक्षवो यूयं मन्यध्वे याभवत्तदा ॥ ९.२१३{१} ॥
श्रेष्ठिभार्या न चान्या सा शुक्लैवैषेति मन्यत ।
यदनया प्रसादिन्या बुद्धप्रमुखसांघिके ॥ ९.२१४{२} ॥
प्रत्येकं चीवरं दत्तं प्रव्रज्या चापि साधिता ।
एतत्पुण्यविपाकेन प्रावृत्य शुक्लवाससा ॥ ९.२१५{३} ॥
जाता प्रव्रजिता चैषा भवति ब्रह्मचारिणी ।
इत्येवं कर्मजं भोग्यं प्राणिनो भुंजते भवे ॥ ९.२१६{४} ॥
येनैव यत्कृतं कर्म तेनैव भुज्यते फलम् ।
न नश्यंति हि कर्माणि कल्पकोटिशतैरपि ॥ ९.२१७{५} ॥
सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम् ।
अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ ९.२१८{६} ॥
नाग्निभिर्दह्यते कर्म वायुभिश्च न शुष्यते ।
जलैश्च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ ९.२१९{७} ॥
अन्यथा च भवेन्नैव कर्मगतिः कथं चन ।
शुक्लानां शुभता नित्यं कृष्णानां दुःखता सदा ॥ ९.२२०{८} ॥
मिश्रिता मिश्रितानां च जंतुभिर्भुज्यते गतिः ।
तस्मादपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ ९.२२१{९} ॥
चरितव्यं शुभेष्वेव कर्मसु सुखवांछिभिः ।
(र्म् ११७)
तथेति भिक्षवः सर्वे ते च लोकः सभास्थिताः ॥ ९.२२२{१०} ॥
श्रुत्वा तत्सुगतादिष्टमभ्यनन्दन् प्रसादिताः ।
एवमेतन्महाराज गुरुणा मे प्रभाषितम् ॥ ९.२२३{११} ॥
एवं राजंस्त्वयाप्येवं कर्त्तव्यं पुण्यमादरात् ।
पुण्यमेव भवे वन्धुभ्राता मित्रं सुहृत्सखा ॥ ९.२२४{१२} ॥
नान्यः पुण्यात्परः कश्चिद्विद्यते भवचारिणाम् ।
तस्मात्पुण्यं स्वयं कृत्वा लोकेष्वपि प्रचारय ॥ ९.२२५{१३} ॥
प्रजाश्च बोधयित्वैवं पुण्यमार्गे प्रचारय ।
इत्येवं गुरुणादिष्टमुपगुप्तेन भिक्षुणा ॥ ९.२२६{१४} ॥
श्रुत्वा तथेति राजासौ प्राभ्यनन्दज्जनैः सह ॥ ९.२२७{१५} ॥
य इदं शुक्लावदानं जिनवरकथितं पुण्यहेतोर्नराणां
शृण्वन्ति श्रवयन्ति प्रमुदितमनसः सद्गुणप्राप्तुकामाः ।
ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिचर्या चरन्तः
सत्सौख्यान्येव भुक्त्वा मुनिवरनिलये संप्रयाता वसन्ति ॥ ९.२२८{१६} ॥
++ इति रत्नमालायां शुक्लावदानं नाम समाप्तम् ++
(र्म् ११८)
x हिरण्यपाण्यवदान
अथाशोको महीपाल उपगुप्तं जिनांशजम् ।
कृतांजलिपुटो नत्वा पुनरेवमभाषत ॥ १०.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा ते गुरुणा ख्यातं तथा वक्तुं समर्हसि ॥ १०.२{२} ॥
एवं तेन नृपेन्द्रेण प्रार्थिते स जिनात्मजः ।
उपगुप्तो महाभिज्ञस्तं नृपं चैवमब्रवीत् ॥ १०.३{३} ॥
शृणु राजंस्तथा वक्ष्ये यथा मे गुरुणोदितम् ।
श्रुत्वा चैवं सदा बोधिचर्यां चर समाहितः ॥ १०.४{४} ॥
पुरैकसमयेऽसौ च शाक्यमुनिस्तथागतः ।
सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ १०.५{५} ॥
सर्वविद्याधिपस्तायी षडभिज्ञो मुनीश्वरः ।
जिनोऽर्हं भगवान् बुद्धो धर्मराजो विनायकः ॥ १०.६{६} ॥
श्रावस्त्यां वहिरुद्याने जेतवने जिनाश्रमे ।
अनाथपिण्डदारामे विहारे मणिमण्डिते ॥ १०.७{७} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिरुपासकैः ।
त्रिरत्नोपासिकाभिश्च चैलकैश्च शुभाशयैः ॥ १०.८{८} ॥
बोधिसत्वगणैश्चापि सहान्यैश्च महर्षिभिः ।
ओसद्धर्मदेशनां दत्वा तस्थौ लोकहितार्थतः ॥ १०.९{९} ॥
तत्सद्धर्मामृतं पातुं प्राजग्मुः सद्गुणार्थिनः ।
देवा दैत्याश्च नागाश्च यक्षगंधर्वकिन्नराः ॥ १०.१०{१०} ॥
सिद्धविद्याधराद्याश्च लोकपालगणादयः ।
ब्राह्मणाः क्षत्रियाश्चापि वैश्याः शूद्राश्च मंत्रिणः ॥ १०.११{११} ॥
अमात्याः श्रेष्ठिनश्चापि धनिनश्च महाजनाः ।
वणिजः सार्थवाहाश्च तदन्येऽपि च सज्जनाः ॥ १०.१२{१२} ॥
पौरा जानपदाश्चापि सर्वे ते समुपागताः ।
तं बुद्धं सुगतं नत्वा पूजयित्वा समंततः ॥ १०.१३{१३} ॥
परिवृत्य परस्कृत्य तस्थुः सांजलयो मुदा ।
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपास्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १०.१४{१४} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे सत्वाः सुरादयः ।
हर्षिता अनुमोदन्तो वभूवुर्बोधिचारिणः ॥ १०.१५{१५} ॥
(र्म् ११९)
एवं नित्यं च ते सत्वाः पीत्वा धर्मामृतं मुनेः ।
त्रिरत्नशरणं गत्वा भेजिरे समुपाश्रिताः ॥ १०.१६{१६} ॥
तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः ।
आसीद्गृहपतिः प्राढ्यो महाभोग्यसमृद्धिमान् ॥ १०.१७{१७} ॥
कुवेलवन्महाश्रीमान् सुविस्तीर्णपरिग्रहः ॥ १०.१८{१८} ॥
श्राद्धो दाता महाभोगी सर्वलोकहितार्थभृत् ।
एवं महर्द्धिकस्यापि तस्य गृहपतेश्चिरम् ।
न पुत्रो न च पुत्री वा समुदपादि दैवतः ॥ १०.१९{१९} ॥
ततोऽपुत्रो गृहस्थोऽसौ वंशविछिन्नखेटितः ।
कपोलं स्वकरे स्थाप्य विषाद्यैवं व्यचिन्तयत् ॥ १०.२०{२०} ॥
अनेकधनरत्नाद्याः संपदो मे महर्द्धिकाः ।
विशालपरिवाराश्च विद्यन्ते सुपरिग्रहाः ॥ १०.२१{२१} ॥
पुत्रो मे दुहिता वापि विद्यते न कथं चन ।
संपदोऽपि निरर्थाः स्युर्यतो भोक्ता न विद्यते ॥ १०.२२{२२} ॥
हा हा सर्वं विनष्टं स्याद्यतो मे सन्ततिर्न हि ।
किं मेऽनया समृद्ध्यापि यत्र वंशो न विद्यते ॥ १०.२३{२३} ॥
व्यर्थमेव मया द्रव्यं कष्टेन समुपार्जितम् ।
किं करिष्यामि तद्द्रव्यं सर्वथा मरणे सति ॥ १०.२४{२४} ॥
के हि ग्रस्ता न संसारे मृत्युसर्प्पेण जंतवः ।
मयि मृत्युप्रयातेऽत्र संस्कारं कः करिष्यति ॥ १०.२५{२५} ॥
दुर्गतिशोधनं कश्च पिण्डमेकं प्रदास्यति ।
नूनं मदत्ययाद्राजा सर्वस्वमाहरिष्यति ॥ १०.२६{२६} ॥
तदा नामापि मे लोके न कश्चन ग्रहीष्यति ।
यदर्थमेव संपत्तीः साधयामि प्रयत्नतः ॥ १०.२७{२७} ॥
तदेव यदि नास्त्येवं तत्किं मे स्यात्सुजीविते ॥ १०.२८{२८!} ॥
वरमेवाद्य मृत्युर्न मिथ्याचिरजीवनम् ।
यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव हि ॥ १०.२९{२९} ॥
तन्मे भोग्येऽपि वांछा न भुक्त्वापि किं सुखं विना ।
अपुत्रस्य सुखं नैव परत्रेह निरन्वयात् ॥ १०.३०{३०} ॥
तन्मे जन्मापि व्यर्थं स्याद्ध्यपुत्रोऽस्मि निरन्वयात् ।
हा हतोऽहं स्वदैवेन किं मयात्र करिष्यते ॥ १०.३१{३१} ॥
कस्याग्रे संवदिष्यामि को मे बुद्धिं प्रदास्यति ।
(र्म् १२०)
कस्याहं शरणं यास्ये को मां समुद्धरिष्यति ॥ १०.३२{३२} ॥
इति चिन्ताविषण्नोऽसौ तस्थौ कोष्ठे यथातुरः ।
निरुत्साही गृहान्नैव निरपायात्कदाचन ॥ १०.३३{३३} ॥
एतच्चिन्ताविषण्णाभं तं गृहस्थं सुहृज्जनाः ।
दृष्ट्वैव सहसोपेत्य बोधयितुं समब्रुवन् ॥ १०.३४{३४} ॥
किं ते दुःखं समुत्पन्नं केनैवं तिष्ठसे सखे ।
वक्तव्यं चेत्तदा आशु सर्वथा वक्तुमर्हसि ॥ १०.३५{३१} ॥
इति पृष्टे सुहृद्भिस्तैर्गृहस्थः स विनिश्वसन् ।
तान् सर्वान् सुहृदो दृष्ट्वा तद्दुःखं समुदाहरत् ॥ १०.३६{३६} ॥
सुहृदो मे भवन्तो हि तन्मयात्र प्रचक्ष्यते ।
संपत्तिर्महती मेऽस्ति पुत्रो नैव सुतापि नः ॥ १०.३७{३७} ॥
तेन मे संपदः सर्वा विनक्ष्यन्ति निरर्थिताः ।
एतच्चिन्ताविषार्त्ताहं तिष्ठामि पुत्रवांछितः ॥ १०.३८{३८} ॥
अपुत्रस्य सुखं नास्ति परत्रेह समंततः ।
तन्मे जन्मापि व्यर्थं स्यादपुत्रस्य निरन्वयात् ॥ १०.३९{३९} ॥
तथा हतोऽहं स्वदैवेन किं मयात्र चरिष्यते ।
इति तेनोदिते सर्वे ज्ञातिवंधुसुहृज्जनाः ॥ १०.४०{४०} ॥
तस्य ग्रीहपतेश्चैवां तदुपायं समादिशत् ।
किं भद्रात्र विषादेन यत्र देवाधिकारता ॥ १०.४१{४१} ॥
तथापि क्रियतां यत्नं क्लैब्यं त्यक्त्वा त्वयाधुना ।
यदशक्यं वलैर्द्रव्यैस्तदुपायेन शक्यते ॥ १०.४२{४२} ॥
तस्मात्क्लैब्यमिह त्यक्त्वा कुरु यत्नं समाहितः ।
देवताराधनां कृत्वा सर्वकार्य्यं हि साधयेत् ॥ १०.४३{४३} ॥
तदादौ देवताः पूज्य याचस्व पुत्रमात्मना ।
ततो देवप्रसादेन तवधर्मानुभावतः ।
पुत्रो वा दुहिता वापि समुपपत्स्यते ध्रुवम् ॥ १०.४४{४४} ॥
ततस्ते संततिश्चैवं वर्द्धिष्यति क्रमात्तथा ।
तदापि भृशतो मुक्तः सद्गतिं समवाप्नुयात् ॥ १०.४५{४५} ॥
इति तैः समुपादिष्टं श्रुत्वासावनुमोदिताः ।
देवताराधनं कर्तुं प्रयतात्मा समारभत् ॥ १०.४६{४६} ॥
पूजांगैः पूजयित्वैवं ब्रह्माणं हरिमीश्वरम् ।
इंद्रादिलोकपालानां संततिं समयाचत ॥ १०.४७{४७} ॥
(र्म् १२१)
एवं पुत्राभिलासी स सदा च सन्ततीछया ।
देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः ॥ १०.४८{४८} ॥
नित्यमेवं कृतस्यापि तस्य दैवप्रणामतः ।
न पुत्रो दुहिता वापि नोदपादि चिरादपि ॥ १०.४९{४९} ॥
तथा चापि गृहस्थोऽसौ देवतासु निराशया ।
सन्तत्युच्छिन्नचिन्तार्त्तस्तस्थौ भूयो विषादितः ॥ १०.५०{५०} ॥
ततः कश्चित्सुहृत्साधुः संबुद्धोपासकः सुधीः ।
तं गृहस्थमुपागत्य तथैवं पर्य्यबोधयत् ॥ १०.५१{५१} ॥
साधो किन् ते विषादेन तद्धीरं समुपाश्रय ।
यदि ते सन्ततौ वांछा तन्मे श्रुत्वा ततश्चर ॥ १०.५२{५२} ॥
किमेवं देवताः पूज्य याचसे पुत्रमादरात् ।
यत्र दैवाधिकारत्वं तत्र किं देवता वलम् ॥ १०.५३{५३} ॥
वंशार्थे यदि ते भक्तिरस्त्येवं देवतासु तत् ।
संबुद्धशरणं गत्वा सद्धर्मं समुपाश्रय ॥ १०.५४{५४} ॥
ततो धर्मानुभावेन बुद्धस्यापि प्रसादतः ।
नूनं ते सत्सुतः शीघ्रमुत्पत्स्यति न संशयः ॥ १०.५५{५५} ॥
यदि नोत्पत्स्यते पुत्रस्तव देवविरोधतः ।
पुण्यमुत्पत्स्यते नूनं तेन सद्गतिमाप्नुयात् ॥ १०.५६{५६} ॥
ये बुद्धशरणं यान्ति ते लभन्ति शुभाशयम् ।
ये विशुद्धाशया लोके सद्धर्मं ते शृण्वन्ति हि ॥ १०.५७{५७} ॥
ये सद्धर्मानुशृण्वन् तो बोधिचित्तं लभन्ति ते ।
प्रलब्धबोधिचित्ता ये ते चरन्ति गुणार्थिनः ॥ १०.५८{५८} ॥
गुणकामाश्च ये लोके ते भजन्ति जिनात्मजान् ।
बोधिसत्वानुभावेन बोधिचर्यां समाप्नुयुः ॥ १०.५९{५९} ॥
बोधिचर्यारता ये च न ते गछंति दुर्गतिम् ।
सर्वक्लेशगणाञ्जित्वा सौख्यावतीमवाप्नुयुः ॥ १०.६०{६०} ॥
एवं मत्वा जिनं स्मृत्वा सद्धर्मं समुपाश्रयेः ।
ततस्ते संभवेद्भद्रमिहामुत्रापि सर्वतः ॥ १०.६१{६१} ॥
इति तेनोदितं श्रुत्वा गृहस्थोऽसौऽनुमोदितः ।
तथेति प्रतिसंश्रुत्य संबुद्धं स्मर्तुमैछत ॥ १०.६२{६२} ॥
ततो गृहपतिर्नित्यं सदारः श्रद्धयान्वितः ।
संबुद्धं सुगतं स्मृत्वा वंशमेवमयाचत ॥ १०.६३{६३} ॥
नमस्ते भगवन्नाथ भवतां शरणं व्रजे ।
(र्म् १२२)
तन्मां करुणाय दृष्ट्या द्रष्टुमर्हसि सर्वथा ॥ १०.६४{६४} ॥
भवानेव हि जगन्नाथः सर्वसत्वहितार्थदः ।
त्वया मह्यं हितार्थाय सत्पुत्रं दातुमर्हसि ॥ १०.६५{६५} ॥
इत्येवं स गृही साधुः पुत्राभिलषितः सदा ।
सभार्य्यः सुगतं स्मृत्वा तथा नित्यं समुत्सुकः ॥ १०.६६{६६} ॥
तदैव समये कश्चिद्देवपुत्रो दिवश्च्युतः ।
स संबुद्धानुभावेन तद्भार्यागर्भमाविशत् ॥ १०.६७{६७} ॥
ततः स्वापन्नसत्वाभूत्सा भार्या गृहिणः सती ।
दोहदलक्षणोपेता कृशाङ्गी भाविनी क्रमात् ॥ १०.६८{६८} ॥
प्रवृद्धगर्भा सा दृष्ट्वा स्वयं च गर्भमादरात् ।
दक्षपार्श्वगतं सत्वं मत्वा चैवं व्यचिंतयत् ॥ १०.६९{६९} ॥
नूनं मे जायते गर्भे सत्वो बुद्धानुभावतः ।
यदयं दक्षिणे वर्त्ति तेन पुत्रो भवेत्खलु ॥ १०.७०{७०} ॥
इति निश्चित्य सा नारी पुत्रोत्पत्याशया मुदा ।
स्वस्वामिनो पुरे स्थित्वा रहस्यैवं न्यवेदयत् ॥ १०.७१{७१} ॥
दृष्ट्यार्य्यपुत्र वर्द्धस्व यदहं गर्भिणी भवे ।
नूनमयं भवेत्पुत्रो यत्स्थितो दक्षिणोदरे ॥ १०.७२{७२} ॥
इति भार्योदितं श्रुत्वा स गृहस्थः प्रमोदितः ।
दक्सिणं वाहुमुन्नम्य नन्दन्नेवमुदानयत् ॥ १०.७३{७३} ॥
चिराभिलषितं पुत्रमुखं पश्येयं सांप्रतम् ।
जातः स्यान्नामजाता मे कुलवंशस्थितिर्भवेत् ॥ १०.७४{७४} ॥
कृत्यानि च प्रकुर्वीत बिभृयाद्भरणं प्रति ।
नूनं बुद्धानुभावेन सत्पुत्रोऽपि भविष्यति ॥ १०.७५{७५} ॥
यदस्माकं कृतं पूर्वं कर्म दानादिकं शुभम् ।
एतत्पुण्यानुभावेन भवेत्कुशलमेतयोः ॥ १०.७६{७६} ॥
ततस्तेन सदा भर्त्ता सह संमोदचारिणी ।
पथ्याहारोपचारैश्च वर्द्धितो सुखचारिणी ॥ १०.७७{७७} ॥
ततः सा समये सूत पुत्रं दिव्यातिसुंदरम् ।
दर्शनीयं सुसौम्याङ्गं प्रासादिकं मनोहरम् ॥ १०.७८{७८} ॥
सर्वाङ्गलक्षणोपेतं सदीनारकरद्वयम् ।
सर्वसत्वमनापीशमभिरूपं सुभद्रिकम् ॥ १०.७९{७९} ॥
ततः सा जननी तस्य वालकस्य करद्वयम् ।
(र्म् १२३)
दीनारांकितमालोक्य सहर्षं विस्मिताभवत् ॥ १०.८०{८०} ॥
ततोऽसौ जनकश्चापि जातं पुत्रमहाद्भुतम् ।
सखीभिर्वेदितं श्रुत्वा विस्मितो द्रष्टुमाययौ ॥ १०.८१{८१} ॥
ततः प्रजापतिः सापि विस्मितो स्वामिनोऽग्रतः ।
दर्शयित्वा सुतं पुत्रं शंकितैवं न्यवेदयत् ॥ १०.८२{८२} ॥
स्वामिं पश्य महाश्चर्य्यमस्य हेमान्वितौ करौ ।
तच्छुभं वाप्यशुभं वा दर्शयित्वा विचारय ॥ १०.८३{८३} ॥
इति भार्य्योदितं श्रुत्वा दृष्ट्वा तं वालकं चिरम् ।
दीनारं भुजयोः पश्यं तस्थौ सविस्मयान्वितः ॥ १०.८४{८४} ॥
ततस्तस्य गृहस्थोऽसौ निमित्तं ज्ञातुमादरात् ।
नैमित्तिकं समाहूय दारकं तमदर्शयत् ॥ १०.८५{८६} ॥
भवन्तो दृश्यतामस्य दारकस्य करद्वयम् ।
तन्निमित्तं परिज्ञाय तत्फलं वक्तुमर्हथ ॥ १०.८६{८६} ॥
इत्युक्ते तेन ते सर्वे दृष्ट्वा तं दारकं शुभम् ।
दीनारे भुजयोश्चापि परिज्ञायैवमब्रवीत् ॥ १०.८७{८७} ॥
साधो गृहपते ह्यस्य दारकस्य करद्वयम् ।
सुवर्णलक्षणोपेतं तत्ते भद्रं भवेत्खलु ॥ १०.८८{८८} ॥
तवायं दारको दाता महेशाख्यो भवेत्किल ।
स्वहस्तं संप्रसार्य्यैव हेमवृष्टिं करिष्यति ॥ १०.८९{८९} ॥
अपनीय स्वयं हस्तादिदं दीनारमर्पयेत् ।
अपनीते पुनरन्यत्प्रादुर्भवेत्ततोऽधिकम् ॥ १०.९०{९०} ॥
इत्येवं तैः समादिष्टं श्रुत्वा संहर्षितो गृही ।
ततो जातिमहं कृत्वा ज्ञातीनेवमभाषत ॥ १०.९१{९१} ॥
भवन्तो दारकस्यास्य शुभाक्षरसमन्वितम् ।
नामधेयं यथायोग्यं क्रियतां संप्रसिद्धितम् ॥ १०.९२{९२} ॥
इति तेनार्थितं श्रुत्वा सर्वे ते ज्ञातयस्तथा ।
दृष्ट्वा तस्य निमित्तानि संमतेनैवमब्रुवन् ॥ १०.९३{९३} ॥
यस्माद्धस्तद्वयोऽप्यस्य हिरण्येनोपलक्षितम् ।
तन्नाम्ना प्रसिद्धोऽस्तु हिरण्यपाणिरित्ययम् ॥ १०.९४{९४} ॥
एवं ज्ञातिसमुदिष्टं श्रुत्वासौ स गृहाधिपः ।
तथेति तस्य पुत्रस्य चक्रे नामव्यवस्थितम् ॥ १०.९५{९५} ॥
ततो हिरण्यपाणिः स दारकः प्रतिपालने ।
अष्टासु योऽपि धात्रीषु तेन पित्रा समर्पितः ॥ १०.९६{९६} ॥
ताभिः प्रपाल्यमानोऽसौ पथ्यपुष्टोपचारणैः ।
वर्द्धितोऽभूत्क्रमादाशु ह्रदस्थमिव पंकजम् ॥ १०.९७{९७} ॥
(र्म् १२४)
तथा क्रमात्प्रवृद्धोऽसौ हिरण्यपाणिरात्मवित् ।
श्राद्धो भद्राशयो धीमान् स्वपरार्थहितार्थिकः ॥ १०.९८{९८} ॥
ततः स शिक्षितुं विद्याः सद्गुरुं समुपाश्रयत् ।
क्रमात्तेषां प्रसादाच्च विद्यापारं ययौ लघुः ॥ १०.९९{९९} ॥
ततोऽसौ दारको विद्वान् दाता श्रद्धासमन्वितः ।
स्वहस्तं संप्रसार्य्यैव ददौ दानं यथेप्सितम् ॥ १०.१००{१००} ॥
गुरुभ्यो ब्राह्मणेभ्यश्च याचकेभ्यः स दारकः ।
स्वहस्तं संप्रसार्य्यैव ददौ हेमं यथेप्सितम् ॥ १०.१०१{१} ॥
तथा तद्दानमाकर्ण्य श्रवणब्राह्मणादयः ।
अर्थिनो धनलुब्धाश्च संप्रतीयुः समंततः ॥ १०.१०२{२} ॥
तथा तं समुपेत्यैवं सर्वदिग्भ्यः समागताः ।
वालावृद्धादयो दीना ययाचिरे यथेप्सितम् ॥ १०.१०३{३} ॥
तदा हिरण्यपाणिः स दृष्ट्वैतानर्थिनो मुदा ।
सर्वोपकरणैश्चापि सर्वांस्तान् समतोषयत् ॥ १०.१०४{४} ॥
ततस्ते याचकाः सर्वे तेनैव परितर्पिताः ।
यथेछया सुखं भुक्त्वा प्रचेरुर्धर्ममानसा ॥ १०.१०५{५} ॥
तथा वीथिगतश्चैवं हस्तद्वयं प्रसार्य सः ।
हेमराशिं समुत्थाप्य सर्वेभ्यः प्रददौ मुदा ॥ १०.१०६{६} ॥
तथा सर्वेऽपि ते लोका धनाढ्याः सुखिनोऽभवन् ।
नैकोऽभूत्कृपनो दुःखी नोऽपि कश्चिद्दरिद्रितः ॥ १०.१०७{७} ॥
सर्वेऽपि धनिनः प्राढ्या दातारो भोगिनोऽभवन् ।
सत्यधर्मानुरक्ताश्च सद्धर्मश्रवणार्थिनः ॥ १०.१०८{८} ॥
तदा तस्यैव तत्कीर्त्तिः सर्वत्र भुवनेष्वपि ।
लोकैरुद्गीर्यमानोऽसौ प्रससार समंततः ॥ १०.१०९{९} ॥
तद्दृष्ट्वा ब्राह्मणो लोभी मात्सर्य्यप्रहताशयः ।
तद्यशः प्रतिलब्धं स मनसैवं व्यचिन्तयत् ॥ १०.११०{१०} ॥
यदस्य भुजयोर्हेम चिन्तामणिसमं खलु ।
तेनायं भवते श्रीमान् प्रार्थितार्थाधिकप्रदः ॥ १०.१११{११} ॥
यच्चायं दारकः श्राद्धः प्रार्थनासंप्रदायकः ।
तदहं प्रार्थनां कृत्वा प्रतिगृह्णीय तत्मणिम् ॥ १०.११२{१२} ॥
इत्यसौ मनसा ध्यत्वा लोभाकृष्टो त्वरान्वितः ।
(र्म् १२५)
तं हिरण्यभुजं प्रेत्य तद्दीनारं समयाचत ॥ १०.११३{१३} ॥
जयोऽस्तु ते सदा साधो दीर्घायुश्च सुमंगलम् ।
तथैव त्वं सदा भूया अर्थिनां कल्पपादपः ॥ १०.११४{१४} ॥
त्वत्कीर्त्त्या समाहूतः प्रागतोऽस्मि यदाशया ।
तदर्थं पूरयित्वा मे चित्तं हर्षय सर्वतः ॥ १०.११५{१५} ॥
इत्येवं प्रार्थिते तेन विप्रेणाभिप्रगल्भिना ।
दृष्ट्वा हिरण्यपाणिः स तं विप्रं प्रत्यभाषत ॥ १०.११६{१६} ॥
साधु विप्र प्रसीद त्वं यदर्थं समुपागतः ।
तदर्थं संप्रदत्वाद्य हर्षयिष्यामि ते मनः ॥ १०.११७{१७} ॥
तच्छंका मा कृथा ह्यत्र यद्यत्ते हृदि रोचते ।
तत्तन्नूनं प्रदास्ये ते तद्वदस्व यदीहितम् ॥ १०.११८{१८} ॥
इति तेनोदितं श्रुत्वा विप्रोऽसौ संप्रहर्षितः ।
स्वस्तीत्याशीर्वचो दत्वा तद्दीनारमयाचत ॥ १०.११९{१९} ॥
साधो हिरण्यपाणे यत्तव हस्तसमुद्भवम् ।
तद्दीनारं प्रदत्वा मे चित्तं संहर्षयार्थदः ॥ १०.१२०{२०} ॥
इति तेनोदितं श्रुत्वा तत्पितासौ सुविस्मितः ।
सवन्धुज्ञातिमित्रस्तं पुत्रमेवमभाषत ॥ १०.१२१{२१} ॥
शृणु पुत्र मया प्रोक्तं तवैव हितकारणम् ।
यदि ते स्वामिनी प्रीतिस्तत्कर्त्तव्यं हि सर्वथा ॥ १०.१२२{२२} ॥
त्वं हि पुत्र मया लब्धः संबुद्धस्यानुभावतः ।
तत्संबुद्धशासने कार्य्यमेव दातु समर्हसि ॥ १०.१२३{२३} ॥
यच्चेदन् भुजयोर्जातं दीनारं मणिसंनिभम् ।
तदपि सुगतस्यैव प्रभावान्मन्यतां खलु ॥ १०.१२४{२४} ॥
यच्चेदं ते करोद्भूतं जीवितं सहजेन्द्रियम् ।
तत्स्वकरात्समुद्धृत्य कथं दद्या द्विजातये ॥ १०.१२५{२५} ॥
यदीदं दास्यते हस्तात्समुद्धृत्य वलादपि ।
तदा ते जीवितं वापि सहानेन व्रजं खलु ॥ १०.१२६{२६} ॥
तस्मादेवं परिज्ञाय यदि ते जीवित प्रियम् ।
तदेवं सहजं हेम मा प्रदाहि द्विजातये ॥ १०.१२७{२७} ॥
तदन्यद्दीयतां तस्मै यद्यद्वस्तु समीछितम् ।
इदं तु सर्वथान्यस्मै दातव्यं नैव यत्नतः ॥ १०.१२८{२८} ॥
येनैव त्वं महेशाख्यो सर्वार्थिप्रार्थितार्थदः ।
तेन यदा परिभ्रष्टस्तदा किं तेन मन्यसे ॥ १०.१२९{२९} ॥
येनापि च त्वया सर्वे याचकाः संप्रतर्पिताः ।
(र्म् १२६)
तच्चिन्तामणिसामान्यं कथं दातुं समिछसि ॥ १०.१३०{३०} ॥
यत्त्वया सुकृतं कर्म प्रकृत्वा पुण्यमाचितम् ।
नूनं तस्य विपाकत्वं भुंजयोस्ते प्रतिष्ठितम् ॥ १०.१३१{३१} ॥
तस्मादिदं महारत्नं कस्मिञ्चिन्मा प्रदीयताम् ।
दत्वा त्विदं महारत्नं किमन्यल्लब्धमिछसि ॥ १०.१३२{३२} ॥
यदि त्विदं महारत्नं दातुमेवं प्रतिष्ठितम् ।
संप्रदेहि जिनेन्द्राय तत्पुण्यमक्षयं वहुम् ॥ १०.१३३{३३} ॥
पुण्येन लभ्यते जन्म शुद्धवम्षे महत्कुले ।
पुण्येन दीयते कीर्त्तिं निर्वृतिं च समाप्नुयात् ॥ १०.१३४{३४} ॥
यदि पुण्येऽस्ति ते वांछा तद्बुद्धशरणं गतः ।
देहि बुद्धानुशासिन्या तद्दानं हि महत्फलम् ॥ १०.१३५{३५} ॥
ततो नित्यं सुखं भुक्त्वा कृत्वा संबोधिसाधनम् ।
क्रमाद्बोधिचरिं प्राप्ते निर्वृतिं वा समाप्नुयाः ॥ १०.१३६{३६} ॥
इति पित्रा समादिष्टं श्रुत्वासौ हेमभृत्सुधीः ।
तथेति निश्चयं कृत्वा पुनरेवमभाषत ॥ १०.१३७{३७} ॥
सत्यं तात त्वयादिष्टं तत्सर्वं हितमेव मे ।
तस्मात्तथा चरिष्यामि त्वदाज्ञां शिरसा वहन् ॥ १०.१३८{३८} ॥
किं तु सत्यं मया प्रोक्तामिदं दातुं द्विजातये ।
तत्कथमन्यथा कृत्वा पुण्यमेव समाप्नुयात् ॥ १०.१३९{३९} ॥
तत्सत्यं पूरणे तात प्रदद्यामि ममात्मनः ।
अथ न दास्यते ह्यत्र कियत्कालं हि जीवितम् ॥ १०.१४०{४०} ॥
यदिदं भुजयोर्हेमं ममात्मसहसंभवम् ।
तथैवं सहजीवेन विनक्ष्यति न संशयः ॥ १०.१४१{४१} ॥
यथेदं तु महारत्नं मम देवसमुद्भवम् ।
तथैवं संप्रदत्वास्मै पुनः प्राप्स्यामि तेऽधिकम् ॥ १०.१४२{४२} ॥
यथा बुद्धानुभायेन संजातं करयोरिदम् ।
तथा सत्यानुभावेन पुनरन्यज्जनिष्यते ॥ १०.१४३{४३} ॥
धर्मेण तुष्यते बुद्धो मूलं धर्मस्य सत्यवाक् ।
तत्सत्यपारणार्थेन दास्याम्यहमिदं मणिम् ॥ १०.१४४{४४} ॥
सत्यं विना न फुल्लन्ते पुण्यानि प्रकृतान्यपि ।
म्लानिभूतानि नश्यन्ते शस्यानीवामृतं विना ॥ १०.१४५{४५} ॥
सत्येन वर्द्धते धर्मं धर्मेण पाल्यते नरः ।
धर्मिष्ठः सद्गतिं याति तस्मात्सत्यं महद्वली ॥ १०.१४६{४६} ॥
तस्मात्सत्यवलेनात्र यशोधर्मार्थलब्धये ।
सर्वथास्मै प्रदास्यामि मा कृथास्तं निवारणम् ॥ १०.१४७{४७} ॥
(र्म् १२७)
इति पुत्रवचः श्रुत्वा पिता स विस्मयान्वितः ।
तथेत्यभ्यनुमोदित्वा तस्थौ तूष्णी विलोकयन् ॥ १०.१४८{४८} ॥
ततो हिरण्यपाणिः स मत्वा पित्राधिवासितम् ।
तद्दीनारं सहसोत्कृत्य विप्राय प्रददौ मुदा ॥ १०.१४९{४९} ॥
तत्प्रदत्तमसौ विप्रः प्रतिगृह्य प्रमोदितः ।
दत्वाशीर्वचनं तस्मै स्वगृहं सहसा ययौ ॥ १०.१५०{५०} ॥
ततश्चानन्तरं तस्य भुजेऽन्यत्तद्गुणाधिकम् ।
दीनारं दिव्यरत्नाभैः प्रादुरासीन्महाद्भुतम् ॥ १०.१५१{५१} ॥
तद्दत्तानंतरोद्भूतं दीनारं तद्गुणाधिकम् ।
दृष्ट्वा श्रुत्वा च सर्वे ते लोका आशु सुविस्मिताः ॥ १०.१५२{५२} ॥
ततो हिरण्यपाणिः स एवं लोकान् प्रहर्षयन् ।
संबुद्धशासने दातुं जेतवनमुपाचरत् ॥ १०.१५३{५३} ॥
तत्र भिक्षून् यतीन् दृष्ट्वा सद्धर्मचरणोत्सुकः ।
संबुद्धं सुगतं द्रष्टुं विहारं समुपाविशत् ॥ १०.१५४{५४} ॥
तत्रासौ भगवन्तं तमद्राक्षीत्समितिस्थितम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितम् ॥ १०.१५५{५५} ॥
व्यामप्रभासमुज्वालं सहस्रेणाधिकप्रभम् ।
शान्तेंद्रियं सुभद्रांगं सौम्यरूपं मनोहरम् ॥ १०.१५६{५६} ॥
दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः ।
नत्वा पादौ मुनेस्तस्य पुरस्तात्समुपाश्रयन् ॥ १०.१५७{५७} ॥
तत्रासौ भगवान् तस्य दृष्ट्वाशयविशुद्धताम् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १०.१५८{५८} ॥
तं धर्मं सुगतादिष्टं श्रुत्वासौ संप्रमोदितः ।
आनंदं समुपाश्रित्य प्रणम्यैवं व्यजिज्ञपत् ॥ १०.१५९{५९} ॥
भदन्त दातुमिछामि संघेभ्यो भोजनं खलु ।
तदाज्ञां देहि मे शास्त यदि तेऽस्ति कृपा मयि ॥ १०.१६०{६०} ॥
इति विज्ञापिते तेन हिरण्यपाणिना मुदा ।
स आनंदः समालोक्य दारकं तं समादिशत् ॥ १०.१६१{६१} ॥
साधु वत्स महाभाग्याद्भद्रमालोचितं त्वया ।
यद्यत्र दास्यते भोज्यं कार्षापणं प्रदीयताम् ॥ १०.१६२{६२} ॥
एवंकृते तु ते वत्स मंगलं सर्वदा भवेत् ।
अतश्च दुर्गतिं हित्वा सद्गतिं समवाप्नुयाः ॥ १०.१६३{६३} ॥
इत्यानंदसमादिष्टे दारकोऽसौ प्रमोदितः ।
स्वयं हस्तौ प्रसार्य्यैव हेमराशिं व्यधात्पुनः ॥ १०.१६४{६४} ॥
तां दृष्ट्वा भिक्षवः सर्वे विस्मिताः संप्रहर्षिताः ।
(र्म् १२८)
तद्द्रव्यैः साधयामास भोज्यानि सुरसानि च ॥ १०.१६५{६५} ॥
ततः स दारको भोज्यैस्तैः प्रणीतसुसाधितैः ।
संबुद्धप्रमुखं सर्वसांघिकं समतोषयत् ॥ १०.१६६{६६} ॥
ततोऽसौ भोजनान्ते च संबुद्धप्रमुखं क्रमात् ।
सर्वसंघं प्रणम्यैवं पुनस्तस्थौ कृतांजलिः ॥ १०.१६७{६७} ॥
ततः श्रीभगवान् दृष्ट्वा तस्याशयविशुद्धताम् ।
आर्य्यसत्यं समायुक्तं दिदेश धर्ममुत्तमम् ॥ १०.१६८{६८} ॥
तच्छ्रुत्वा हेमपाणिः स सत्कायदृष्टिपर्वतम् ।
प्रभित्वा ज्ञानवज्रेण विंशतिशिखरोद्गतम् ॥ १०.१६९{६९} ॥
श्रोतापत्तिफलं प्राप्तो दृष्टसत्योऽभवत्ततः ।
संबुद्धसगणं नत्वा स्वगेहं हर्षितो ययौ ॥ १०.१७०{७०} ॥
तत्र सर्वं स तद्वृत्तं पित्रोराख्याय हर्षितः ।
प्रव्रज्याचरणानुज्ञां पितरौ प्रत्ययाचत ॥ १०.१७१{७१} ॥
चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने ।
तदनुज्ञां प्रदत्तं मे हितं मयि यदीच्छथ ॥ १०.१७२{७२} ॥
इति पुत्रोदितं श्रुत्वा स्वात्मजं स पितावदत् ।
मा कृथा सहसा पुत्र प्रव्रज्याचरणे मनः ॥ १०.१७३{७३} ॥
प्रव्रज्याचरणे भैक्ष्यं दुःखिनामेव तद्व्रतम् ।
त्वं वृद्धिमान्महादाता तत्प्रव्रज्यां कुतश्चरेः ॥ १०.१७४{७४} ॥
किं वाप्यते विवाहस्त्वं दहरश्च कुमारिकः ।
प्रव्रज्या दुष्करं स्थानं तत्कथं प्रचरेत्सुतः ॥ १०.१७५{७५} ॥
तत्तावत्त्वं युवा पुत्र विवाहित्वा कुलस्त्रियम् ।
भुक्त्वा सौख्यं यथाकामं गृहे धर्मं समाचर ॥ १०.१७६{७६} ॥
ततो वंशं समुत्पाद्य कुलस्थितिप्रसिद्धये ।
कुलधर्मं प्रतिस्थाप्य ततः प्रव्रज वार्द्धिकः ॥ १०.१७७{७७} ॥
यदा वृद्धो दरिद्रश्च प्रव्रज्यां हि तदा चरेत् ।
यावद्युवा समृद्धश्च तावत्त्वं प्रव्रज कथम् ॥ १०.१७८{७८} ॥
संपत्तिः क्षणयौवन्यमेतन्मारवलध्रुवम् ।
तदेतदा कथं पुत्र प्रव्रज्याव्रतमाचरेः ॥ १०.१७९{७९} ॥
इत्येतद्दुष्करं मत्वा प्रव्रज्याचरणे मनः ।
सर्वथा त्वं विनिर्वार्य कुलधर्मं समाचर ॥ १०.१८०{८०} ॥
ततस्ते मंगलं नित्यमिमु पुत्र भवेद्ध्रुवम् ।
(र्म् १२९)
यशोधर्मसुखान्वेत्य सद्गतिं चाप्यवाप्नुयाः ॥ १०.१८१{८१} ॥
इति पित्रोदितं श्रुत्वा दारकोऽसौ विशंकितः ।
बोधयन् पितरं धर्मे पुनरेवमभाषत ॥ १०.१८२{८२} ॥
सत्यमेव तथा तात यदेतद्भाष्यते त्वया ।
तथापि श्रूयतां तात यदभिप्रायकं मम ॥ १०.१८३{८३} ॥
अनित्यं खलु संसारं जीवितं चापि भंगुरम् ।
क्षणध्वंसि शरीरं च क्षणसंपद्घनोपमम् ॥ १०.१८४{८४} ॥
एवं पश्यनहं तात संसारभोगनिस्पृहः ।
प्रव्रज्याव्रतमाश्रित्य प्राप्तुमिछामि निर्वृतिम् ॥ १०.१८५{८५} ॥
अपि च दुल्लभं जन्म मानुषं भवचारिणाम् ।
सर्वेषामपि जन्तूनां मरणं सर्वथा ध्रुवम् ॥ १०.१८६{८६} ॥
मानुष्ये लभ्यमाने तु कुतो धर्मानुभावना ।
विना धर्मानुभावेन कथं सद्गतिमाप्नुयात् ॥ १०.१८७{८७} ॥
संबुद्धोऽपि ससंघोऽयं स्थास्यति न सदेह च ।
अन्यत्रापि व्रजेन्नूनं निर्वृतिं वा गमिष्यति ॥ १०.१८८{८८} ॥
संबुद्धे निर्वृतिं याते सद्धर्मोऽपि विनक्ष्यते ।
सद्धर्मान्तर्गते लोके म्लेछधर्मवली भवेत् ॥ १०.१८९{८९} ॥
म्लेछधर्मवलीक्रान्ते सर्वत्र भूमिमंडले ।
सर्वलोकाश्च कामांधा भवेयुः क्लेशमानिनः ॥ १०.१९०{९०} ॥
तद धर्मानुसंवृत्तौ मतिः कस्यापि नो चरेत् ।
प्रव्रज्यासंवरं धर्तुं कः समर्थो भविष्यति ॥ १०.१९१{९१} ॥
नैव संयुज्यते चित्तं प्रव्रज्यासंवरं विना ।
अविशोधितचित्तात्मा न यायात्परमां गतिम् ॥ १०.१९२{९२} ॥
तच्चित्तये विशुद्ध्यर्थं निर्वाणपदलब्धये ।
प्रव्रज्यासंवरं धर्त्तुमिछामि तात सांप्रतम् ॥ १०.१९३{९३} ॥
तद्यदि मे हितं द्रष्टुमिछसि तात सर्वदा ।
तदनुज्ञां समादातुमर्हसि मात्र चारये ॥ १०.१९४{९४} ॥
इति पुरोदितं श्रुत्वा पिता स परिबोधितः ।
तथेत्यनुमतं कृत्वाभवत्तूष्णीव्यवस्थितः ॥ १०.१९५{९५} ॥
तदा तज्जननी चासौ दृष्ट्वा तं सुतमात्मजम् ।
स्नेहादश्रु विमोचन्ती निवारयितुमब्रवीत् ॥ १०.१९६{९६} ॥
हा पुत्र कथमेकान्ते मां विहाय क्व यास्यसे ।
मा पुत्र सहसा गछ किंचित्कालं विनोदय ॥ १०.१९७{९७} ॥
यावज्जीवाम्यहं तात तावन्मा गाः कुहापि च ।
(र्म् १३०)
मृतायां मयि भो पुत्र तदा व्रजस्व वांछिते ॥ १०.१९८{९८} ॥
अचिरेणैव मां मृत्युर्ग्रहीष्यति न संशयः ।
तावदेव गृहे स्थित्वा दानं कुर्वन् सुखं वस ॥ १०.१९९{९९} ॥
इति मात्रोदितं श्रुत्वा पुत्रोऽसौ परिमोदितः ।
नत्वा तां जननीमेवं बोधयितुमभाषत ॥ १०.२००{१००} ॥
यत्त्वयाम्वे रुदन्त्येवं मृत्युनाम प्रकीर्तितम् ।
तेन मे चोदितं चित्तं प्रव्रज्याव्रतसाधने ॥ १०.२०१{१} ॥
ध्रुवं जन्मवतां मृत्युर्मृतानां जन्म च ध्रुवम् ।
परिवर्त्तिनि संसारे मृतः को हि न जायते ॥ १०.२०२{२} ॥
धर्मिष्ठो वीर्यावांश्चापि मरणं याति सर्वतः ।
पापिष्ठो निघ्नितश्चापि मरणं याति सर्वतः ॥ १०.२०३{३} ॥
धर्मिष्ठः सत्सुखं भुक्त्वा मृतो यात्येव सद्गतिम् ।
पापिष्ठो दुःखतां भुक्त्वा मृतो गछति दुर्गतिम् ॥ १०.२०४{४} ॥
यदा संत्यजते जन्तुः संसारप्राणवायुना ।
तदा संत्यज्यते सर्वैर्वंधुमित्रजनैरपि ॥ १०.२०५{५} ॥
तदा न विद्यते कोऽपि हितकारी सहानुगः ।
धर्म एकः सहायः स्यात्सर्वत्रापि हितार्थकृत् ॥ १०.२०६{६} ॥
तस्मात्मातः प्रयत्नेन कर्त्तव्यं धर्ममादरात् ।
धर्मेण रक्ष्यते सर्व इहामुत्र सहापि हि ॥ १०.२०७{७} ॥
धर्मेणैवाभिपाल्यन्ते वालवृद्धातुरादयः ।
धर्मेण सुधृताः सत्वा निमग्ना दुःखसागरे ॥ १०.२०८{८} ॥
धर्मेण जीयते दुष्टो धर्मेण जीयते कलिः ।
धर्मेण जीयते रागो मृत्युर्धर्मेण जीयते ॥ १०.२०९{९} ॥
धर्मेण सुकुले जन्म लक्ष्मी धर्मेण स्थीयते ।
विद्यायशोऽर्थमोक्साश्च प्राप्यन्ते धर्मतः खलु ॥ १०.२१०{१०} ॥
धर्मं तु सौगतं कार्यं सर्वलोकहितंकरम् ।
सुगतस्यापि धर्मेषु प्रव्रज्याधर्ममुत्तमम् ॥ १०.२११{११} ॥
यमाश्रित्य महासत्वा जित्वा क्लेशगणान् लघुः ।
साक्षादर्हत्पदं प्राप्य व्रजन्ति निर्वृतिं पराम् ॥ १०.२१२{१२} ॥
इति मत्वा हि ते सर्वे भिक्षवो भवनिस्पृहाः ।
प्रव्रज्याव्रतमाश्रित्य भवन्ति ब्रह्मचारिणः ॥ १०.२१३{१३} ॥
तथात्राहं समिछामि प्रव्रज्याव्रतमुत्तमम् ।
तदनुज्ञां प्रदत्वा मे नात्र कार्यो विषादितः ॥ १०.२१४{१४} ॥
(र्म् १३१)
यदि न दीयतेऽनुज्ञा तदपि नो वियोगतः ।
अकस्मान्मृत्युना घ्राय ग्रसिष्यति पुरो हि नः ॥ १०.२१५{१५} ॥
तदा किं ते करिष्यामि ममापि किं करिष्यसि ।
कृत्वानुशोचनां चैव यास्यामो मरणं ध्रुवम् ॥ १०.२१६{१६} ॥
इति मातः परिज्ञाय तदनुज्ञां प्रदेहि मे ।
विषादं मा कृथा अत्र प्रसादीनी भवेत्प्रभु ॥ १०.२१७{१७} ॥
तथा ते मंगलं नित्यमिहामुत्रापि संभवेत् ।
अहं च सौगतं धर्मं धृत्वा निर्वृतिमाप्नुयाम् ॥ १०.२१८{१८} ॥
इति पुत्रोदितं श्रुत्वा मातासौ परिबोधिता ।
तथानुमोदनां कृत्वा तस्थौ तूष्णीव्यवस्थितान् ॥ १०.२१९{१९} ॥
अथ हिरण्यपाणिः सः पित्रोर्मत्वाभिसंमतम् ।
तयोश्च चरणे नत्वा सहसा निर्ययौ गृहात् ॥ १०.२२०{२०} ॥
तत्र ज्ञातिगणांश्चासौ वन्धुमित्रसुहृज्जनान् ।
कृपणातिथिसंघादिं वांछितार्थैरतोषयत् ॥ १०.२२१{२१} ॥
ततोऽसौ वांधवान् सर्वान् संतर्प्य परिबोधयन् ।
आशु जेतवनं गत्वा विहारं समुपाविशत् ॥ १०.२२२{२२} ॥
तत्रासौ सुगतं दृष्ट्वा कृतांजलिपुटो मुदा ।
भगवंतं तमानम्य प्रव्रज्यां समयाचत ॥ १०.२२३{२३} ॥
नमस्ते भगवच्छास्त भवतां चरणं व्रजे ।
तत्प्रव्रज्याव्रतं दत्वा ब्रह्मचर्यं प्रदेहि मे ॥ १०.२२४{२४} ॥
इति तेनार्थितेऽसौ श्रीभगवान् तमभाषत ।
एहि भिक्षो कुमार त्वं ब्रह्मचर्यं चरेहि स ॥ १०.२२५{२५} ॥
इति प्रोक्तो मुनीन्द्रोऽसौ पाणिना तच्छिरः स्पृशन् ।
सम्यक्प्रवाजयित्वाशु स्वसंघे तं समग्रहीत् ॥ १०.२२६{२६} ॥
एहीति प्रोक्तमात्रेऽपि जिनेन्द्रेण स मुण्डितः ।
खिक्खिरीपात्रहस्ताभूच्ल्चीवरप्रावृतः सुधीः ॥ १०.२२७{२७} ॥
ततः शिक्षासु शिक्षित्वा प्राप्योपसंपदोऽपि च ।
व्यायच्छद्घटमानश्च समाधिषु समाहितः ॥ १०.२२८{२८} ॥
तदिदं पंचगंदं च भवचक्रं चलाचलम् ।
विदित्वा सर्वसंस्कारगतिश्चापि विघाटिनी ॥ १०.२२९{२९} ॥
भिंदन् सर्वमविद्याङ्गं प्राप्य विद्याः शुभंकराः ।
प्रतिसंविद्गुणप्राप्तो जितक्लेशगणो यतिः ॥ १०.२३०{३०} ॥
साक्षादर्हत्पदं प्राप्य वीतरागो जितेन्द्रियः ।
समलोष्टसुवर्णश्च वासीचंदनसंनिभः ॥ १०.२३१{३१} ॥
(र्म् १३२)
आकाशसमचित्तश्च निर्विकल्पो निरंजनः ।
संसारभोग्यसत्कारलाभलोभसुनिस्पृहः ॥ १०.२३२{३२} ॥
पंचाभिज्ञपदप्राप्तो चतुर्ब्रह्मविहारिकम् ।
सदेवासुरमर्त्यानां त्रैधातुकनिवासिनाम् ॥ १०.२३३{३३} ॥
पूज्यो मान्योऽभिवंद्यश्च बभूव स हिरण्यभृत् ।
ततस्ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिम् ॥ १०.२३४{३४} ॥
विस्मिताः श्रीघनं नत्वा पप्रछुस्तस्य कर्मताम् ।
भगवन् केन धर्मेण हिरण्यपाणिरयं सुधीः ॥ १०.२३५{३५} ॥
सर्वार्थिनो हि संतर्प्य साक्षादर्हन् भवत्यपि ।
इति तैर्भिक्षुभिः पृष्टे भगवान् तान् तथाब्रवीत् ॥ १०.२३६{३६} ॥
श्रूयतां भिक्षवः सर्वैर्युष्माभिर्विस्मिताशयैः ।
अनेन यत्कृतं कर्म तन्मया कथ्यतेऽधुना ॥ १०.२३७{३७} ॥
पुरासीद्भगवान् बुद्धः काश्यपोऽर्हन्मुनीश्वरः ।
सर्वविद्याधिपः शास्ता तथागतो विनायकः ॥ १०.२३८{३८} ॥
ससांघिको जिनेन्द्रोऽसौ वाराणसीमुपाश्रितः ।
बोधिचर्यां समादिश्य कृत्वा धर्ममयं जगत् ॥ १०.२३९{३९} ॥
सर्वाणि बुद्धकार्याणि समाप्य निर्वृतिं ययौ ।
तदा राजा कृकी नाम मत्वा तं निर्वृतिं गतम् ॥ १०.२४०{४०} ॥
विधिवदग्निसंस्कारं कारयित्वा महार्चनैः ।
ततस्तद्धातुरत्नानि गर्भ आरोप्य सादरात् ॥ १०.२४१{४१} ॥
हेमरत्नमयं स्तूपं कारयामास स प्रभुः ।
तत्सुसिद्धं प्रतिष्ठाप्य सद्विधानैर्महोत्सवैः ॥ १०.२४२{४२} ॥
महश्चापि तदा तत्र स्थापयित्वा भजन्नृपः ।
तस्मिन्नारोप्यमानायां यष्ट्यां पूजापरिग्रही ॥ १०.२४३{४३} ॥
किन्तवो कंदरो नाम निदधे रूपकद्वयम् ।
ततः स पादयोर्नत्वा प्रणिधानं व्यधात्तथा ॥ १०.२४४{४४} ॥
यन्मया श्रद्धया भक्त्यारोपितं रूपकद्वयम् ।
यत्पुण्यं च विपाकेन जायेयं सुकुले सदा ॥ १०.२४५{४५} ॥
करोद्भवसुवर्णैः संतर्पयित्वार्थिनो जनान् ।
एवंविधं च शास्तारमारोग्य समुपाश्रितः ॥ १०.२४६{४६} ॥
एतद्धर्मं समासाद्य प्राप्नुयां परमां गतिम् ।
तेन पुण्यविपाकेन प्रणिधानेन भूयसा ॥ १०.२४७{४७} ॥
हिरण्यपाणिरयं दाता भवत्यर्हं स सांप्रतम् ।
एवं सर्वेऽपि संसारे भुंजते कर्मजं फलम् ॥ १०.२४८{४८} ॥
(र्म् १३३)
येनैवं यत्कृतं कर्म तेनैव भुंज्यते फलम् ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ १०.२४९{४९} ॥
शुभं वाप्यशुभं वापि भुक्तं तु क्षीयते खलु ।
नाग्निभिर्दह्यते कर्म क्लिद्यते नोदकैरपि ॥ १०.२५०{५०} ॥
वायुभिः शुष्यते नापि भूमिषु क्षीयते न हि ।
अन्यथापि भवेन्नैव संसारे कर्मणो गतिः ॥ १०.२५१{५१} ॥
शुभस्य शुभतैव स्यात्कृष्णस्य कृष्णतैव हि ।
मिश्रस्य मिश्रितैव स्यादन्यथा न सदा भवेत् ॥ १०.२५२{५२} ॥
एवं मत्वाथ संसारे चरितव्यं सदा शुभम् ।
न प्रणस्यंति कर्माणि कल्पकोटिशतैरपि ॥ १०.२५३{५३} ॥
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ।
इत्यसौ भगवान् बुद्धः सत्कर्मदेशनामतैः ॥ १०.२५४{५४} ॥
तर्पयन् स कलांल्लोकान् ततो विश्रान्तमादधौ ।
इति शास्त्रोदितं श्रुत्वा सर्वे ते भिक्षुसांघिकाः ॥ १०.२५५{५५} ॥
शुभेष्वेव सदा नित्यं संप्रचेरुः समाहितः ।
महाराज त्वयाप्येवं चरितव्यं शुभे सदा ॥ १०.२५६{५६} ॥
बोधयित्वा प्रजाञ्चैवं स्थापनीयाः शुभे सदा ।
ततस्ते मंगलं नित्यं सर्वत्रापि भवेत्खलु ।
क्रमाद्बोधिचरीं प्राप्य संबोधिपदमापुण्याः ॥ १०.२५७{५७} ॥
इति तेन समादिष्टं श्रुत्वा स नृपतीश्वरः ।
तथेत्यभ्यनुमोदित्वा प्राभ्यनंदत्सपार्षदः ॥ १०.२५८{५८} ॥
शृण्वन्ति ये श्रावयन्तीह यश्च हिरण्यपाणेरवदानमेतत् ।
ते क्लेशमुक्ताः सुगतानुभक्ताः प्रयान्ति नूनं सुगतालयेषु ॥ १०.२५९{५९} ॥
++ इति श्रीरत्नमालयां हिरण्यपाण्यवदानं नाम समाप्तं ++
(र्म् १३४)
xइ हस्तकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा भूयोऽप्येवमभाषत ॥ ११.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा ते गुरुणाख्यातं तथा मे वक्तुमर्हसि ॥ ११.२{२} ॥
इति तेन नरेन्द्रेण पृष्टोऽसौ सुगतांशजः ।
उपगुप्तो महाभिज्ञस्तं नृपं प्रत्यभाषत ॥ ११.३{३} ॥
शृणु राजन्महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि तदनुमोदनां कुरु ॥ ११.४{४} ॥
पुरैकसमये चैवं श्रीघनोऽसौ तथागतः ।
संबुद्धः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ ११.५{५} ॥
श्रावस्त्यां वहिरुद्याने जेतवने मनोरमे ।
अनाथपिण्डदोद्याने विहारे सुगताश्रमे ॥ ११.६{६} ॥
भिक्षुभिः श्रावकैः सार्द्धमुपासकैश्च चैलकैः ।
बोधिसत्वैर्महासत्वैस्तदन्यैश्च महर्षिभिः ॥ ११.७{७} ॥
व्यहरत्सर्वहितार्थाय धर्मामृतं प्रवर्षयन् ।
तत्सद्धर्मामृतं पातुं प्रययुर्बोधिकामिनः ॥ ११.८{८} ॥
लोकपाला महाराजा स्वस्वसैन्यजनैः सह ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मंत्रिणो जनाः ॥ ११.९{९} ॥
अमात्याः साधवः पौरा धनिनश्च महाजनाः ।
वणिजः सार्थवाहाश्च तथान्ये सर्वजातिकाः ॥ ११.१०{१०} ॥
सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः ।
तं बुद्धं सुगतं नाथं पूजयित्वा समंततः ॥ ११.११{११} ॥
परिवृत्य पुरोधाय शख्याविगुणकामिताः ।
कृतांजलिपुटो तस्थुः सद्धर्मचरणोत्सुकाः ॥ ११.१२{१२} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ११.१३{१३} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः ।
हर्षितास्तेऽनुमोदन्तो वभूवुः परिबोधिताः ॥ ११.१४{१४} ॥
तदैव समये तस्यां श्रावस्त्यां पुरिसंभवः ।
आसीद्गृहपतिः प्राढ्यः कुवेरवत्समृद्धिमान् ॥ ११.१५{१५} ॥
श्राद्धो दाता महाभोगी सर्वहितार्थभृत् ।
(र्म् १३५)
त्रिरत्नसेवको धीमान् सुविशालपरिग्रहः ॥ ११.१६{१६} ॥
संगृही विधिवद्भार्यां स्वकुलधर्मचारिणी ।
परिणीता यथाकामं संरमे परिचारयन् ॥ ११.१७{१७} ॥
तस्यासौ रमणी भार्या संवृत्ता गर्भिणी सती ।
असूत समये पुत्रं प्रासादिकं मनोहरम् ॥ ११.१८{१८} ॥
स च जातिस्मरो वालो जातमात्रः स्वकौ भुजौ ।
संदृष्ट्वालिंग्य चुंवित्वा परिष्वज्यैवमब्रवीत् ॥ ११.१९{१९} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.२०{२०} ॥
तेनैवं जातमात्रेण दृष्टं कृतं प्रभाषितम् ।
दृष्ट्वा श्रुत्वा च सा माता त्रासिता विस्मिताभवत् ॥ ११.२१{२१} ॥
किमेतदिति संत्रस्ता दृष्ट्वा तं दारकं मुदा ।
भर्त्तारं सहसाहूय अग्रमेनमदर्शयत् ॥ ११.२२{२२} ॥
तदासौ दारकश्चापि दृष्ट्वा तं जनकं मुदा ।
हस्तौ दृष्ट्वा तथालिंग्य चुंवयित्वा चैवमब्रवीत् ॥ ११.२३{२३} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.२४{२४} ॥
इति संदर्शयं हस्तावेवं चाप्यवदच्छिशुः ।
दारकोऽसौ पुनः सुप्तो निद्रां भेजे यदिछया ॥ ११.२५{२५} ॥
ततोऽसौ जनकोऽप्येतद्दृष्ट्वा श्रुत्वा प्रविस्मितः ।
किमेतदिति साशंका ज्ञातिनाहूय चाब्रवीत् ।
भवन्तोऽद्य प्रजातं मे पुत्ररत्नं मनोहरम् ।
तन्निमित्तं निरीक्ष्यैतत्सत्यं मे वक्तुमर्हथ ।
इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयो मुदा ।
तत्पुत्रं दारकं द्रष्टुं तत्कोष्ठं समुपादिशत् ।
तथासौ दारकश्चैवं तान् दृष्ट्वा समुपस्थितान् ।
भुजौ पश्यन् परिष्वज्य चुंवित्वैवमभाषत ।
अहो वताद्य मे हस्तौ सुचिरेण मयाधुना ।
भवन्तोऽर्हत्सु मा चित्तं दूषयत कदा चन ।
खरां वाचं च मार्हत्सु निश्चारयत सर्वदा ।
एवं संदर्शयं हस्तौ वचनं संवदं शिशुः ।
दारकोऽसौ पुनः सुप्तो निद्रां भेजे यदिछया ।
एतत्ते ज्ञातयो दृष्ट्वा श्रुत्वा सर्वेऽपि विस्मिताः ।
किमेतदिति भाषन्तो वभूवुः परिसंकिताः ॥ ११.२६{२६} ॥
ततस्ते ज्ञातयः सर्वे विज्ञाय तस्य लक्षणम् ।
संमील्य तमुपामंत्र्य गृहस्थः प्रतिहर्षितः ॥ ११.२७{२७} ॥
तस्य जातिमहं कृत्वा पुनरेवमवोचत ।
भदन्तो दारकस्यास्य नामधेयं प्रमाणतः ॥ ११.२८{२८} ॥
(र्म् १३६)
यथायोग्यप्रसिद्धेन कर्त्तुमर्हथ सांप्रतम् ।
इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयस्ततः ॥ ११.२९{२९} ॥
संमील्य संमतं कृत्वा तं गृहस्थं समब्रुवन् ।
यदयं ते सुतो वालो जातमात्रः स्वकौ भुजौ ॥ ११.३०{३०} ॥
पश्यनालिंग्या चुंवित्व मुदा चैवं प्रभाषते ।
तदयं दारको नाम्ना हस्तक इति विश्रुतः ॥ ११.३१{३१} ॥
भवतु सर्वलोकेषु सुचिरं चापि जीवतु ।
तथेति प्रतिनंदित्वा गृहस्थोऽसौ प्रमोदितः ॥ ११.३२{३२} ॥
तेन नाम्ना प्रसिद्धेन प्रथयामास तं सुतम् ।
ततोऽसौ दारकस्तेन पित्रा पुत्राभिनंदितः ।
उपन्यस्तोपधात्रीषु धारणप्रतिपालने ॥ ११.३३{३३} ॥
ततस्तासां प्रयत्नैः स पथ्योपचारणैः क्रमात् ।
दिने दिने प्रवृद्धोऽभूध्रदस्थमिव पंकजम् ॥ ११.३४{३४} ॥
एवं स हस्तकस्ताभिः पाल्यमानः प्रवर्द्धितः ।
कुमारः सखिभिः सार्द्धं क्रीडास्थानं गतोऽरमत् ॥ ११.३५{३५} ॥
तत्र तेषां सखीनां च हस्तकोऽसौ पुरःस्थितः ।
हस्तावालिंग्य संरक्ष्य चुंवित्वैवमभाषत ॥ ११.३६{३६} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.३७{३७} ॥
भवन्तोऽर्हत्सु मा चित्तं दूषयत कदाचन ।
खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ ११.३८{३८} ॥
इति संरक्षितौ हस्तौ तेनैवं च प्रभाषितम् ।
दृष्ट्वा श्रुत्वाभवन् सर्वे सखायातीवविस्मिताः ॥ ११.३९{३९} ॥
ततश्च जनकेनासौ लिपिशालानिवेशितः ।
गुरुं सम्यगुपाश्रित्य विद्यापारं ययौ लघु ॥ ११.४०{४०} ॥
तत्र तेषां गुरुणां च हस्तकोऽसौ पुरःस्थितः ।
हस्तौ दृष्ट्वा समालिंग्य चुंवित्वा चैवमब्रवीत् ॥ ११.४१{४१} ॥
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धविमौ हस्तौ सुचिरेण मयाधुना ॥ ११.४२{४२} ॥
भवन्तोऽर्हत्सु मा चित्तं दूषयत कदा चन ।
खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ ११.४३{४३} ॥
इति दृष्ट्वा च संश्रुत्य सर्वे ते गुरवोऽपि च ।
सर्वे शिष्य गणाश्चापि वभूवुर्विस्मयान्विताः ।
यस्मिंश्च समये तत्र देशे भयौपक्रमे ।
(र्म् १३७)
जनकायः समुद्भ्रान्तोऽगोपायत्स्वस्वभाण्डकम् ।
तदासौ हस्तकोऽप्येवं समुद्भ्रान्तः स्वकौ भुजौ ।
संभुज्य गोपयित्वैवं जनकायमभाषत ।
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ ।
अहो लब्धाविमौ हस्तौ सुचिरेण मयाधुना ।
भवन्तोऽर्हत्सु मा चित्तं दूषयत कदा चन ।
खरां वाचैव मार्हत्सु निश्चारयत केषु चित् ।
एवं हस्तौ सुसंरक्ष्य तेनैवं च प्रभाषितम् ।
दृष्ट्वा श्रुत्वा च ते सर्वे लोका आसन् सुविस्मिताः ॥ ११.४४{४४} ॥
ततोऽसौ हस्तकोऽन्यस्मिं दिवसे सखिभिः सह ।
जेतवनं महोद्यानं जिनाश्रमे उपाययौ ॥ ११.४५{४५} ॥
तत्राद्राक्षीत्महाबुद्धं भगवन्तं सभास्थितम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितम् ॥ ११.४६{४६} ॥
व्यामप्रभासमुद्दीप्तं शतसूर्याधिकप्रभम् ।
शान्तेन्द्रियं सुभद्रांगं सौम्यकान्तं मनोहरम् ॥ ११.४७{४७} ॥
दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः ।
पादौ तस्य मुनेर्नत्वा धर्मं श्रोतुं पुरोऽविशत् ॥ ११.४८{४८} ॥
ततोऽसौ भगवान् तस्य दृष्ट्वाशयं विशोधितम् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ ११.४९{४९} ॥
तं सुगतोदितं धर्ममार्य्यसत्यसमन्वितम् ।
श्रुत्वासौ हस्तको विज्ञः सत्कायदृष्टिपर्वतम् ॥ ११.५०{५०} ॥
संभिद्य ज्ञानवज्रेण विंशतिशिखरोद्गतम् ।
श्रोतापत्तिफलं प्राप्तो दृष्टसत्योऽभवत्ततः ॥ ११.५१{५१} ॥
संबुद्धसुगतं नत्वा स्वगेहं सहसा ययौ ॥ ११.५२{५२} ॥
तत्रैतत्सर्ववृत्तांतं पित्रोराज्ञाय हर्षितः ।
प्रव्रज्यासाधनेऽनुज्ञां पितरौ प्रत्ययाचत ॥ ११.५३{५३} ॥
चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने ।
तदनुज्ञां प्रदत्तं मे हितं मयि यदीछथ ॥ ११.५४{५४} ॥
इति पुत्रोदितं श्रुत्वात्मजं तं पितावदत् ।
मा कृथाः सहसा पुत्र प्रव्रज्यासाधने मनः ॥ ११.५५{५५} ॥
प्रव्रज्या दुष्करं स्थानं तदन्यद्व्रतमाचर ।
प्रव्रज्याग्रहणं वृद्धे दरिद्रिते सुशोभिते ॥ ११.५६{५६} ॥
त्वं च पुत्र कुमारोऽसि दहरोऽतिसुकोमलः ।
किंचिद्दुःखेऽनभिज्ञाय तत्प्रव्रज्यां चरेः कथम् ॥ ११.५७{५७} ॥
तद्यावद्यौवनं देहं यावत्संपच्च ते गृहे ।
तावद्गेहे सुखं भुक्त्वा गृही धर्मं समाचर ॥ ११.५८{५८} ॥
यदा वृद्धो दरिद्रो च प्रव्रज्यायां तदा चर ।
(र्म् १३८)
यावद्युवा समृद्धश्च तावत्त्वं प्रव्रजेः कथम् ॥ ११.५९{५९} ॥
संपत्तिक्षणयौवन्यमेतन्मारस्य गोचरम् ।
तदेतस्मिं कथं पुत्र प्रव्रज्याव्रतमाचरेः ॥ ११.६०{६०} ॥
इत्येतद्दुष्करं मत्वा प्रव्रज्याचरणे मनः ।
यत्नेनापि विनिवार्य कुलधर्मे समाश्रय ॥ ११.६१{६१} ॥
ततस्ते मंगलं नित्यमिहामुत्रापि सर्वतः ।
यशोधर्मसुखान्येवं सद्गतिं समवाप्नुयाः ॥ ११.६२{६२} ॥
इति वाक्यं पितुः श्रुत्वा हस्तकोऽसौ विशंकितः ।
पितरौ बोधयन् धर्मे पुनरेवमभाषत ॥ ११.६३{६३} ॥
सत्यमेतत्तथा तात त्वयैवं सत्यमुच्यते ।
अत्रापि श्रूयतां तात ममाभिप्रायमुच्यताम् ॥ ११.६४{६४} ॥
अनित्यं खलु संसारं जीवितं चापि चंचरम् ।
क्षणध्वंसि शरीरं च संपच्चापि घनोपमा ॥ ११.६५{६५} ॥
एवं दृष्ट्वा ह ताताहं संसारसुखनिःस्पृहः ।
प्रव्रज्याव्रतमाधाय प्राप्तुमिछामि सद्गतिम् ॥ ११.६६{६६} ॥
अपि च जन्म मानुष्यं दुल्लभं भवचारिणाम् ।
तत्रापि मरणं नित्यं पुरतः सर्वसंमुखम् ॥ ११.६७{६७} ॥
मानुष्यं लभ्यमाने हि कुतो धर्मानुचारितम् ।
विना धर्मानुचारेण सद्गतिं कथमाप्नुयाम् ॥ ११.६८{६८} ॥
संबुद्धोऽपि सदा नात्र संस्थाप्यति ससांघिकः ।
अतोऽन्यत्रापि यायाद्वा निर्वृतिं चाव्रजेत्खलु ॥ ११.६९{६९} ॥
संबुद्धे निर्वृतिं याते सद्धर्म लप्स्यते कुतः ।
सद्धर्मान्तर्गते लोके मारचर्य्या समाचरेत् ॥ ११.७०{७०} ॥
मारचर्य्यासमाक्रान्ते सर्वत्र भुवनेष्वपि ।
सर्वे सत्वाश्च कामार्त्ता भवेयुः क्लेशभागिनः ॥ ११.७१{७१} ॥
तदा धर्मानुचारेषु बुद्धिः कस्य कथं चरेत् ।
प्रव्रज्यासंवरं स्थातुं कः समर्थो भवेत्तदा ॥ ११.७२{७२} ॥
न च संशुद्ध्यते चित्तं प्रव्रज्यासंवरं विना ।
अविशोधितचित्ते हि नैव यायाच्छिवां गतिम् ॥ ११.७३{७३} ॥
तच्चित्तपरिशुद्ध्यर्थं निर्वृते च यदाप्तये ।
प्रव्रज्याव्रतमादातुमिछामि तात सांप्रतम् ॥ ११.७४{७४} ॥
यदत्र यदि मे तात हितं कर्तुं समिछसि ।
प्रव्रज्यासाधनेऽनुज्ञां दातुं मे प्रार्हसि द्रुतम् ॥ ११.७५{७५} ॥
इति पुत्रवचः श्रुत्व स गृहस्थोऽनुबोधितः ।
(र्म् १३९)
तथेत्यभ्यनुमोदित्वा तदनुज्ञां व्यसृजत ॥ ११.७६{७६} ॥
तच्छ्रुत्वा जननी चासौ दृष्ट्वा तं पुत्रमात्मजम् ।
वियोगदुःखसंकार्ता रुन्दन्त्येवं न्यवारयत् ॥ ११.७७{७७} ॥
हा पुत्र कथमेकान्ते मां विहाय क्व यास्यसि ।
सहसा पुत्र मा कार्षी प्रव्रज्याचरितं मनः ॥ ११.७८{७८} ॥
यावज्जीवाम्यहं जीव तावन्मा प्रव्रजात्मजे ।
मृतायां मयि पुत्र त्वं प्रव्रजस्व यथेछया ॥ ११.७९{७९} ॥
अचिरेण हि मे मृत्युर्भविष्यति न संशयः ।
तावदेव गृहे धर्मं कुर्वन् भुक्त्वा सुखं वस ॥ ११.८०{८०} ॥
इति मातुर्वचः श्रुत्वा पुत्रोऽसौ परिचोदितः ।
मातरं तां प्रणत्वैवं बोधयितुमभाषत ॥ ११.८१{८१} ॥
यत्त्वयाम्वे रुदन्त्येवं मृत्युनामात्र कीर्त्त्यते ।
तेन मे प्रेरितं चित्तं प्रव्रज्याव्रतधारणे ॥ ११.८२{८२} ॥
ध्रुवं जन्मवतां मृत्युः संसारे परिवर्त्तिनः ।
जातो न म्रियते को हि मृतः कश्च न जायते ॥ ११.८३{८३} ॥
गृहस्थो धर्मकृच्चापि यात्येवं मरणं ध्रुवम् ।
ब्रह्मचारी वनस्थोऽपि यात्येवं मरणं खलु ॥ ११.८४{८४} ॥
गृहस्थो बहुभिर्यत्नैः प्रकृत्वा द्रव्यसाधनम् ।
कृच्छ्रेण साधयन् धर्मं मृतो याति सुरालयम् ॥ ११.८५{८५} ॥
यावद्धर्मफलं स्वर्गे तावद्भुक्त्वा सुखं वसेत् ।
ततो धर्मफले हीने स्वर्गाच्च्युतो यतेदधः ॥ ११.८६{८६} ॥
अधोलोकेष्ववीच्यादौ नरकेषु भ्रमेच्चिरम् ।
विविधानि च दुःखानि भुक्त्वा जीवं चिरं वसेत् ॥ ११.८७{८७} ॥
यावन्न जायते तस्य पुण्यानुमोदना मतौ ।
तावत्कर्मजदुःखानि प्रभुक्त्वा नरके चरेत् ॥ ११.८८{८८} ॥
यदा तु जायते तस्य त्रिरत्नस्मरणे मतिः ।
तदा तत्स्मृतिपुण्येन धर्मेऽनुमोद्यते मतिः ॥ ११.८९{८९} ॥
यदा पुण्यानुरागेण संबुद्धशरणं व्रजेत् ।
तदा तं सुगतं दृष्ट्वा धर्माकरैः परिस्पृशेत् ॥ ११.९०{९०} ॥
सुगते दृक्प्रभास्पृष्टे पापदुःखैर्विमोचितः ।
नरकेभ्यः समुत्तीर्य प्रयायात्सुगतालयम् ॥ ११.९१{९१} ॥
तत्रापि यदि धर्मेषु चरन्नित्यमतंद्रितः ।
क्रमाद्बोधिचरीं प्राप्य प्रयायात्परमां गतिम् ॥ ११.९२{९२} ॥
एवं मात गृहस्थो हि कृत्वापि धर्ममादरात् ।
(र्म् १४०)
सुखदुःखानि संभुक्त्वा संसारे चरते भ्रमन् ॥ ११.९३{९३} ॥
कथं चित्सुचिरेणैवं सुगतस्य प्रसादतः ।
भवचारकनिर्मुक्तं प्रयायात्परमां गतिम् ॥ ११.९४{९४} ॥
प्रव्रज्यार्हत्पदं प्राप्य प्राप्तुमिछामि निर्वृतिम् ।
तन्ममात्र त्वया मात नैव कार्या निवारणा ॥ ११.९५{९५} ॥
यदि पुण्येऽस्ति ते वांछा तदनुज्ञाशु दीयताम् ।
यदि न दीयतेऽनुज्ञा तदपि नौ वियोगता ॥ ११.९६{९६} ॥
अकस्मात्मृत्युरागत्य भविष्यति पुरापि नौ ।
तदा ते किं करिष्यामि किं ममापि करिष्यसि ॥ ११.९७{९७} ॥
सदानुशोचनामेव कृत्वा जीवं त्यजेवहि ।
इति मातर्विदित्वा त्वं तदनुज्ञां प्रदेहि मे ॥ ११.९८{९८} ॥
विघ्नतां मा कृथा ह्यत्र धर्मे भवानुमोदिनी ।
तथा चेच्छुभता नित्यमिहामुत्रापि ते भवेत् ॥ ११.९९{९९} ॥
अहं च सौगतिं चर्यां कृत्वा यास्यामि निर्वृतीम् ।
इति पुत्रोदितं श्रुत्वा मतासौ परिबोधिता ॥ ११.१००{१००} ॥
तथानुमोदनां कृत्वाभवत्तूष्णीव्यवस्थिता ॥ ११.१०१{१} ॥
अथासौ हस्तको विज्ञः पित्रोर्मत्वाभिसंमतम् ।
तयोः पादान् प्रणत्वैवं सहसा निर्ययौ गृहात् ॥ ११.१०२{२} ॥
ततो ज्ञातिगणान् सर्वान् वन्धुमित्रसुहृज्जनान् ।
सर्वानतिथिवर्गांश्च वांछितार्थैः प्रतोषयन् ॥ ११.१०३{३} ॥
सन्तर्प्य बोधयित्वा च सहसा संप्रहर्षितः ।
जेतवनं प्रगत्वा स विहारं समुपाविशत् ॥ ११.१०४{४} ॥
तत्रस्थं सुगतं दृष्ट्वा सहसा समुपायतः ।
कृतांजलिपुटो नत्वा प्रव्रज्यां समयाचत ॥ ११.१०५{५} ॥
नमस्ते भगवन्नाथ भवतां शरणं व्रजे ।
तत्प्रव्रज्यां व्रतं देहि चरिष्ये ब्रह्मसंवरम् ॥ ११.१०६{६} ॥
इति तेनार्थिते बुद्धो भगवान् तमभाषत ।
एहि भिक्षो कुमारात्र चर ब्रह्मव्रतं वरम् ॥ ११.१०७{७} ॥
इत्यादिश्य मुनीन्द्रोऽसौ पाणिना तच्छिरः स्पृशन् ।
सम्यक्प्रव्राजयित्वाशु स्वसंघे तं समग्रहीत् ॥ ११.१०८{८} ॥
एहीत्यादिष्टमात्रेऽपि मुनीन्द्रेण स हस्तकः ।
मुण्डितः खिष्खिरीपात्रहस्तोऽभूच्चीवरावृतः ॥ ११.१०९{९} ॥
क्रमाच्छिक्षा समासाद्य प्राप्योपसंपदोऽपि च ।
व्यायच्छ घटमानश्च समाधिषु समाहितः ॥ ११.११०{१०} ॥
तदिदं पंचगंडं च भवचक्रं चलाचलम् ।
विदित्वा सर्वसंस्कारगतिश्चापि विघातिनी ॥ ११.१११{११} ॥
भिन्दन् सर्वमविद्याङ्गं प्राप्य विद्यागणाः शिवाः ।
(र्म् १४१)
प्रतिसंविद्गुणाः प्राप्य जित्वा क्लेशगणां यतिः ॥ ११.११२{१२} ॥
साक्षादर्हत्पदं प्राप्तः वीतरागो जितेंद्रियः ।
समलोष्टहिरण्यश्च वासीचंदनसंनिभः ॥ ११.११३{१३} ॥
आकाशसमचित्तांगो निर्विकल्पो निरंजनः ।
संसारभोग्यसत्कारलाभलोभपराङ्मुखः ॥ ११.११४{१४} ॥
पंचाभिज्ञापदप्राप्तश्चतुर्ब्रह्मविहारकः ।
सदेवासुरमर्त्यानां त्रैधातुकनिवासिनाम् ॥ ११.११५{१५} ॥
पूज्यो मान्योऽभिवंद्योऽभूद्धस्तकोऽर्हं यतिः सुधीः ।
सहसा क्लेशगणाञ्जित्वा साक्षादर्हन् भवत्यपि ॥ ११.११६{१६} ॥
ततस्ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिम् ।
विस्मिताः श्रीघनं नत्वा पप्रछुस्तस्य कर्मताम् ॥ ११.११७{१७} ॥
तदद्य भगवच्छास्तः सर्वसत्वानुबोधये ।
यदनेन कृतं कर्म तत्समादेष्टुमर्हति ॥ ११.११८{१८} ॥
इति ते भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
तान् स्वशिष्यान् यतीन् भिक्षून् समामंत्र्याब्रवीत्तथा ॥ ११.११९{१९} ॥
शृणुध्वं भिक्षवः सर्वे यूयं हि विस्मयान्विताः ।
यदनेन कृतं कर्म तन्मया वः प्रचक्ष्यताम् ॥ ११.१२०{२०} ॥
पुरासीद्भगवान् बुद्धः काश्यपो नाम सर्ववित् ।
स्सर्वत्रैधातुकाधीशः सर्वविद्याधिपो जिनः ॥ ११.१२१{२१} ॥
धर्मराजो जगच्छास्ता तथागतो विनायकः ।
सर्वधर्मानुसंभर्त्ता संबोधिसंप्रकाशितः ॥ ११.१२२{२२} ॥
ससांघिको मुनीन्द्रोऽसौ वाराणसीमुपाश्रितः ।
सर्वसत्वहितार्थेन तस्थौ धर्मं समादिशत् ॥ ११.१२३{२३} ॥
तस्य सद्धर्मराजस्य काश्यपस्य जगद्गुरोः ।
शासने द्वौ यती भिक्षू संशीतिकौ वभूवतुः ॥ ११.१२४{२४} ॥
तयोरेको महाधीरो विनीतोऽर्हं वहुश्रुतः ।
द्वितीयोऽल्पश्रुतः भिक्षुः पृथग्जनसमानिकः ॥ ११.१२५{२५} ॥
योऽसावर्हन्महाविज्ञो वहुश्रुतो विचक्षणः ।
स ज्ञातोऽर्हन्महापुण्यः सर्वलोकैः प्रपूजितः ॥ ११.१२६{२६} ॥
योऽभूच्चाल्पश्रुतो भिक्षुः संशीतिकः पृथग्जनः ।
स केन चित्पूजितो नैवं यथा सोऽर्हं यतिः सुधीः ॥ ११.१२७{२७} ॥
यदा सोऽर्हन्महाभिज्ञो यत्र यत्र निमंत्रितः ।
(र्म् १४२)
तेनैव सर्वतः पश्चाच्छ्रमनेन सहाचरत् ॥ ११.१२८{२८} ॥
तथान्यस्मिन् दिने सोऽर्हं दात्रान्येन निमंत्रितः ।
गन्तुकामस्तदा तत्र पश्चाच्छ्रमणमैच्छत ॥ ११.१२९{२९} ॥
तदागमनमन्विष्य नैव प्रत्यलभत्क्वचित् ।
ततस्तद्दर्शनाभावादन्यमाहूय भिक्षुकम् ॥ ११.१३०{३०} ॥
तं पश्चाच्छ्रमणं कृत्वा दातुर्गृहमुपाचरत् ।
तदनन्तरमेवासौ तत्राश्रमे उपागतः ॥ ११.१३१{३१} ॥
तमर्हन्तमपश्यन् स तस्थौ तूष्णी निराशितः ।
तथैवं तं निषीदन्तं दृष्ट्वा ते भिक्षवो नराः ॥ ११.१३२{३२} ॥
तस्यौद्धत्यमनः कर्तुमेवमूचुः परस्परम् ।
भदन्त पश्यताद्यायं तेनाहतो न नीयते ॥ ११.१३३{३३} ॥
अन्योऽद्य नीयते पश्चाच्छ्रमणः केन हेतुना ।
इति तैर्भिक्षुभिः प्रोक्तं श्रुत्वासौ प्रतिभेदितः ।
तस्यार्हतोऽन्तिके चित्तं प्रदुष्याभ्यशपत्तथा ॥ ११.१३४{३४} ॥
यदद्य मां परित्यज्य समाहूयान्यतो हरात् ।
गछत भोजनं भोक्तुं तदहस्तो भवत्वसौ ॥ ११.१३५{३५} ॥
तदासौ भोजनं भुक्त्वा तेनैवं भिक्षुणा सह ।
स्वाश्रमं समुपायातस्तमद्राक्षीद्रुषाकुलम् ॥ ११.१३६{३६} ॥
इत्येवं शपितं वापि मत्वा सोऽर्हं महामतिः ।
दृष्ट्वा तं कृपया दृष्ट्या तूष्णीभूत्वा व्यचिंतयत् ॥ ११.१३७{३७} ॥
अहो अयं महामूढ ईदृग्मयि प्रभाषते ।
एतत्कर्मफलं घोरं कथं भोक्ष्यति नारके ॥ ११.१३८{३८} ॥
यदयं मम दोषेण क्रोधेनैवं खलीकृतः ।
तदेतत्कर्मवैपाक्यं मयैव परिपाच्यताम् ॥ ११.१३९{३९} ॥
इत्येवं मनसा ध्यात्वा स महार्हं कृपानिधिः ।
तत्पापपरिशुद्ध्यर्थं समाधिं विदधे चिरम् ॥ ११.१४०{४०} ॥
ततः सोऽप्ययतिर्भिक्षुर्दृष्ट्वा तं ध्यानसंस्थितम् ।
पश्चात्तापाग्निसंतप्तेस्तत्पादप्रणतोऽवदत् ॥ ११.१४१{४१} ॥
भदन्त यन्मया रौष्यात्क्रोधाभिभूतचेतसा ।
प्रोचितं पातकं घोरं तद्भवान् क्षन्तुमर्हति ॥ ११.१४२{४२} ॥
यन्मया दुष्टचित्तेन भवतोऽप्युपभाष्यते ।
(र्म् १४३)
तदत्ययं भवाञ्छास्तः प्रतिहर्तुं समर्हति ॥ ११.१४३{४३} ॥
अद्याग्रेण सदा चापि भवतां शरणं व्रजे ।
तन्मे यदपराधत्वं तत्सर्वं क्षन्तुमर्हति ॥ ११.१४४{४३!} ॥
पुनर्नैतत्करिष्येऽहमकर्त्तव्यं यद्यत्र हि ।
अवक्तव्यं च यत्किं चिन्न तद्वक्ष्यामि सर्वथा ॥ ११.१४५{४४} ॥
अभाव्यं चापि यत्किंचिद्भावयिष्ये न तत्पुनः ।
यदेव तं प्रकर्त्तव्यं तदेव हि करोम्यहम् ॥ ११.१४६{४५} ॥
वक्तव्यमेव वक्ष्येऽहं भाव्यमेव प्रभावये ।
एतत्सर्वं समासेन समादेष्टुं समर्हति ॥ ११.१४७{४६} ॥
भवदाज्ञां शिरोधृत्वा सत्यमेवं चरेत्सदा ॥ ११.१४८{४७!} ॥
इति तेनार्थितं श्रुत्वा स समाधेः समुत्थितः ।
तं भिक्षुं कृपया दृष्ट्वा पश्यन्नेवं समब्रवीत् ॥ ११.१४९{४८} ॥
शृणु वत्स समाधाय त्वामत्राहं प्रबोधये ।
यथा मे गदितं श्रुत्वा तथा कुरु समाहितः ॥ ११.१५०{४९} ॥
प्राणिहिंसा न कर्त्तव्या तथादत्तप्रतिग्रहम् ।
स्त्रीणां संगानुरागं च अकर्त्तव्यं कदा चन ॥ ११.१५१{५०} ॥
मृषावादं न वक्तव्यं पैशून्यवचनं तथा ।
संभिन्नप्रलापं च पारुष्यं च कदा चन ॥ ११.१५२{५१} ॥
मिथ्यादृष्टिरभिध्या च व्यापादं च तथा सदा ।
भिक्षुभिर्मनसा नैव चिंतनीया कदा चन ॥ ११.१५३{५२} ॥
एतानि दशपापानां मूलानि दुःखदानि हि ।
तस्मादेवं परिज्ञाय त्यक्तव्यानि सुखार्थिभिः ॥ ११.१५४{५३} ॥
पुनरन्यच्छृणुष्वात्र वक्ष्ये दारुणपातकम् ।
सद्धर्माणां प्रतिक्षेपं कर्तव्यं न कदा चन ॥ ११.१५५{५४} ॥
तथा वार्यापवादत्वं वक्तव्यं न कदा चन ।
पंचानंतर्यपापानि नैव कार्याणि केन चित् ॥ ११.१५६{५५} ॥
यानि श्रुत्वापि दृष्ट्वापि भावयित्वानुमोद्य च ।
पतन्तो नरकेष्वेव क्लेशान्धानि च सन्ति हि ॥ ११.१५७{५६} ॥
तस्मादेतानि कर्माणि मानसापि च मा कृथा ।
वर्जनीयानि यत्नेन सद्धर्मसुखवांछिभिः ॥ ११.१५८{५७} ॥
कर्त्तव्यं तु सदा नित्यमार्यसत्यानुभावितम् ।
आर्याष्टांगिकमार्गे च चरित्वा व्रतमादरात् ॥ ११.१५९{५८} ॥
व्रतानामपि सर्वेषामार्याष्टांगमुपोषधम् ।
(र्म् १४४)
प्रवरं व्रतमाख्यातं सर्वैरपि मुनीश्वरैः ॥ ११.१६०{५९} ॥
यस्य पुण्यानुभावेन परिशुद्धत्रिमंडलाः ।
निःशेषपापनिर्मुक्ताः प्रयान्त्यर्हत्पदं द्रुतम् ॥ ११.१६१{६०} ॥
एवमेतत्परिज्ञाय व्रतं कृत्वा समाचरन् ।
ततस्ते क्रमतः पापं निःशेषं क्षिणुयाद्द्रुतम् ॥ ११.१६२{६१} ॥
ततश्च क्रमशः शिक्षाः शिक्षित्वात्र समाहितः ।
त्रिरत्नशरणं कृत्वा ब्रह्मचर्य्यं समाचर ॥ ११.१६३{६२} ॥
ततस्त्वं क्रमशश्चैवं शोधयित्वा त्रिमंडलम् ।
सर्वक्लेशविनिर्मुक्तः साक्षादर्हन् भविष्यसि ॥ ११.१६४{६३} ॥
इति तेनार्हतादिष्टं श्रुत्वासौ परिबोधितः ।
तथेति च परिज्ञाय तद्व्रतं कर्तुमैछत ॥ ११.१६५{६४} ॥
तथा तस्यार्हतः शास्तुः सदैवं शरणं गतः ।
क्रमाच्छिक्षाश्च शिक्षित्वा तदुपोषधमाचरत् ॥ ११.१६६{६५} ॥
अधीत्य सकला विद्या त्रिरत्नसमुपाश्रयन् ।
सर्वक्लेशान् विनिर्जित्य ब्रह्मचर्यं समाचरत् ॥ ११.१६७{६६} ॥
भिक्षवो ज्ञायतामेष योऽसौ भिक्षुः पृथग्जनः ।
यदनेनार्हते शास्त्रे शपितं रुष्टचेतसा ॥ ११.१६८{६७} ॥
तेनाहस्तो वभूवायं पंचजन्मशतान्यपि ।
यच्चानेनार्हतः शस्तुर्गत्वा च शरणं सदा ॥ ११.१६९{६८} ॥
अधीत्य सकला विद्या ब्रह्मचर्यं समाश्रितम् ।
तेनायं शासनेनात्र प्रव्रज्यार्हं भवत्यपि ॥ ११.१७०{६९} ॥
इति हि भिक्षवो मत्वा चरितव्यं शुभे सदा ।
शुभेन सद्गतिं यांति कृष्णेन दुर्गतिं सदा ॥ ११.१७१{७०} ॥
मिश्रितेनापि मिश्रत्वं भुंजते सर्वजंतवः ।
येनैव यत्कृतं कर्म तस्यैव कर्मणः फलम् ॥ ११.१७२{७१} ॥
तेनैव भुज्यते लोके नान्येन स्पृश्यते क्वचित् ।
अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ ११.१७३{७२} ॥
भुक्तं तु क्षीयते कर्म शुभं वाप्यशुभं तथा ।
नाग्निभिर्दह्यते केन वायुभिश्च न शुष्यते ॥ ११.१७४{७३} ॥
क्लिद्यते नोदकैश्चापि क्षीयते नैव भूमिषु ।
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि ॥ ११.१७५{७४} ॥
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ।
एवमेतत्प्रभषित्वा जिनेन्द्रोऽसौ महामुनिः ॥ ११.१७६{७५} ॥
बोधयन् सकलांल्लोकान् समाधिं विदधे ततः ।
इति शास्त्रा समादिष्टं श्रुत्वा सर्वे च सांघिकाः ॥ ११.१७७{७६} ॥
शुभेष्वेव सदा रक्ताः प्रचेरिरे समाहिताः ॥ ११.१७८{७७} ॥
इत्येवं मे समाख्यातं गुरुणा शाणवासिना ।
(र्म् १४५)
तथैवं ते मया ख्यातं श्रुत्वा चैवं शुभे चर ॥ ११.१७९{७८} ॥
प्रजाश्च श्रावयित्वैवं बोधयित्वा प्रयत्नतः ।
सद्धर्माचरणेष्वेवं प्रेरणीया नराधिप ॥ ११.१८०{७९} ॥
ततस्ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमाद्बोधिपथः प्राप्य संबोधिमाप्नुयाः खलु ॥ ११.१८१{८०} ॥
इति तेनोपगुप्तेन भाषितं स नरेश्वरः ।
श्रुत्वा तथेति वंदित्वा प्राभ्यनन्दत्सपार्षदः ॥ ११.१८२{८१} ॥
ये शृण्वन्तीदमेवं प्रमुदितमनसो हस्तकाख्यावदानं
ये चापि श्रावयन्ति प्रतिदिनमनिशं बोधिचर्याभिरक्ताः ।
ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिसत्वा गुणाढ्या
भुक्त्वा सौख्यं प्रकामं मुनिवरनिलयं संप्रयांति प्रमोदाः ॥ ११.१८३{८२} ॥
++ इति श्रिरत्नमालायां हस्तकावदानं नाम समाप्तम् ++
(र्म् १४६)
xइइ सार्थवाहावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ १२.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
यथा ते गुरुणादिष्टं तथा मे ख्यातुमर्हसि ॥ १२.२{२} ॥
इति तेन नरेन्द्रेण पृष्टेऽसौ सुगतात्मजः ।
उपगुप्तो यतिश्चैवं तं नृपं प्रत्यभाषत ॥ १२.३{३} ॥
शृणु राजन् समाधाय यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि तच्छ्रुत्वा मुदितो भव ॥ १२.४{४} ॥
पुरैकसमये चैवं शाक्यसिंहो जगद्गुरुः ।
सर्वज्ञः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ १२.५{५} ॥
सर्वविद्याधिपो नाथस्त्रैधातुकविनायकः ।
धर्मराजो मुनीन्द्रोऽसौ सर्वसत्वहितंकरः ॥ १२.६{६} ॥
श्रावस्त्यां वहिरुद्याने जेताह्वये महावने ।
अनाथपिण्डदारामे विहारे सौगताश्रमे ॥ १२.७{७} ॥
श्रावकैर्भिक्षुभिः सार्द्धमुपासकैश्च चैलकैः ।
बोधिसत्वगणैश्चापि तथान्यैश्च महर्षिभिः ॥ १२.८{८} ॥
व्यहरत्सत्वहितार्थेन धर्मामृतैः प्रवर्षयन् ।
तत्सद्धर्मामृतं पातुं प्राययुर्बोधिवांछिनः ॥ १२.९{९} ॥
लोकपालगणाः सर्वे स्वस्वसैन्यगणैः सह ।
ब्राह्मणाः क्षत्रियाश्चापि वैश्याः शूद्राश्च मंत्रिणः ॥ १२.१०{१०} ॥
अमात्या धनिनः पौराः साधवश्च महाजनाः ।
वणिजः सार्थवाहाश्च तथान्ये सर्वजातिकाः ॥ १२.११{११} ॥
सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः ।
संबुद्धं श्रीघनं नत्वा पूजयित्वा समंततः ॥ १२.१२{१२} ॥
परिवृत्य पुरस्कृत्य सद्धर्मश्रवणार्थिनः ।
कृतांजलिपुटो दृष्ट्वा संतस्थुः संमुखानताः ॥ १२.१३{१३} ॥
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् ।
आदिमध्यांतकल्याणं दिदेश धर्ममुत्तमम् ॥ १२.१४{१४} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः ।
हर्षितास्तेऽनुमोदन्तो ननन्दुः परिबोधिताः ॥ १२.१५{१५} ॥
तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः ।
(र्म् १४७)
आसीत्सांयात्रिकोत्साही सार्थवाहो महोद्यमी ॥ १२.१६{१६} ॥
स्वकुलधर्मभृद्वीरः स्वकुलवृत्तिमानितः ।
यशोधर्मार्थकामाप्त्यै समुद्रं गन्तुमैछत ॥ १२.१७{१७} ॥
ततोऽसौ स्वां प्रियां भार्यां बोधयित्वा प्रयत्नतः ।
स्वसहायाश्च तां सर्वां समाहूय समब्रवीत् ॥ १२.१८{१८} ॥
भवंतो श्रूयतां सर्वे यदभिलषितं मम ।
अत्रास्ति यदि वो वांछा तन्मे स्वागन्तुमर्हथ ॥ १२.१९{१९} ॥
अहं रत्नाकरं गन्तुमिछे रत्नसमृद्धये ।
तत्प्रायात मया सार्द्धं यदि संपत्तिमिछथ ॥ १२.२०{२०} ॥
इति तेनोदितं श्रुत्वा सर्वे ते रत्नलोभिताः ।
सहसा गंतुमिछन्ते रत्नाकरे महोदधौ ॥ १२.२१{२१} ॥
ततोऽसौ सार्थभृच्छीघ्रं सर्वे सार्थगणैः सह ।
स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ १२.२२{२२} ॥
ततः क्रमाद्व्यतिक्रम्य ग्रामारण्यवनानि च ।
सर्वे ते प्रचरन्तो वै तीरं प्रापुर्महोदधेः ॥ १२.२३{२३} ॥
ततो भांडानि नौकायामारोप्यारुह्य च स्वयम् ।
कर्णधारप्रयत्नैस्ते जगाहिरेऽम्बुधिं क्रमात् ॥ १२.२४{२४} ॥
ततः क्रमात्समुल्लंघ्य बहुद्वीपान्तराणि ते ।
रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ १२.२५{२५} ॥
ततस्ते बहुरत्नानि समासाद्य प्रमोदिताः ।
ततः प्रत्यागता अब्धेस्तीरान्तिकं समाययुः ॥ १२.२६{२६} ॥
तत्र तत्कर्मदोषेण कालवातैर्विघट्टितम् ।
भिद्यते वहनं तेषां हृदयैः सा सहाशु तत् ॥ १२.२७{२७} ॥
तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया ।
सर्वभाण्डैः सहागाढे निपेतुर्दुष्करेऽम्बुधौ ॥ १२.२८{२८} ॥
केचित्फलकमालम्व्य समुत्तीर्णाः स्ववीर्यतः ।
केचिद्वाहुवलाधानं समुत्तीर्य स्थलं ययुः ॥ १२.२९{२९} ॥
केचिच्च विलयं प्राप्ता निरालम्व्यनिराश्रयाः ।
उत्प्रवन्तो निमज्जन्तः खेदिता निधनं ययुः ॥ १२.३०{३०} ॥
ततस्ते वणिजः सर्वे ये विशिष्टा विषादिताः ।
ते यशोधनविभ्रष्टाः शून्यहस्ता गृहं ययुः ॥ १२.३१{३१} ॥
तथासौ सार्थवाहोऽपि गृहं प्राप्तो विषादितः ।
एतद्वृत्तं स्वभार्यायाः कथित्वैवं व्यचिन्तयत् ॥ १२.३२{३२} ॥
हा हा मे मन्दभाग्यत्वाज्जायते मीदृशी विपत् ।
(र्म् १४८)
अत्राहं किं करिष्यामि यतो भाग्यं न विद्यते ॥ १२.३३{३३} ॥
भाग्यवान् पुरुषो धीरो भाग्यवान् कुशली सुधीः ।
भाग्येन लभ्यते संपद्यशः सौख्यगुणान्वितः ॥ १२.३४{३४} ॥
धीः श्रीलक्ष्मीयशोरत्नं वलं संपत्क्षणादयः ।
एतदाद्या गुणाः सर्वे शोभन्ति भाग्यमाश्रिताः ॥ १२.३५{३५} ॥
निहीनभाग्यवृत्तेस्तु पुरुषस्यापि संमते ।
एतदाद्यादिगुणाः सर्वे न प्रसिद्ध्यंति सर्वतः ॥ १२.३६{३६} ॥
तदत्र किं करिष्येऽहं क्व यास्यामि धनाप्तये ।
धनहीना न शोभन्ते गृहस्थाः साधवोऽपि हि ॥ १२.३७{३७} ॥
वरं प्राणपरित्यागं न तु द्रव्यैर्विना गृहे ।
पशुवन्निरसं भुक्त्वा स्थास्याम्येवं निरुत्सवम् ॥ १२.३८{३८} ॥
भाग्येन लभ्यते द्रव्यं भाग्यं धर्मेण लभ्यते ।
धर्मे हि जायते स्वेष्टदेवतायाः प्रसादतः ॥ १२.३९{३९} ॥
तद्धर्मभाग्यलब्धार्थं स्वकुलदेवतां प्रति ।
सम्यगाराधयित्वैवं यायां रत्नाकरं पुनः ॥ १२.४०{४०} ॥
मनसीति विनिश्चित्य स सार्थवाहकः पुनः ।
स्वकुलदेवतां सम्यगाराध्य समयाचत ॥ १२.४१{४१} ॥
नमस्ते देवते नित्यं भजेऽहं शरणं गतः ।
क्षंतव्यं मेऽपराधत्वं प्रसीद परमेश्वर ॥ १२.४२{४२} ॥
इत्थं सा देवता सम्यगाराध्य संप्रमोदिता ।
सर्वसार्थान् समाहूय पुनरेवमभाषत ॥ १२.४३{४३} ॥
भो भवन्तो विजानीध्वं वयं सर्वे वणिग्जनाः ।
तदत्र भवतामग्रे कथ्यते मे समीहितम् ॥ १२.४४{४४} ॥
यद्भवन्तो वयं सर्वे सार्थवाहकुलोद्भवाः ।
तत्तथैव गृहे स्थित्वा नैव शोभां व्रजेमहि ॥ १२.४५{४५} ॥
तस्मात्स्वकुलवृत्तिस्थैः सर्वैरस्माभिरुद्यतैः ।
यशोधर्मसुखाप्त्यर्थं कर्त्तव्यं धनसाधनम् ॥ १२.४६{४६} ॥
धनहीना न शोभन्ते गृहस्था हि कुटुंविनः ।
सार्थवाहोऽस्तु शोभन्ते वहुरत्नार्जनोद्यताः ॥ १२.४७{४७} ॥
तद्विषादं परित्यक्त्वा यशोरत्नसुखाप्तये ।
धैर्य्यमालम्व्य सर्वैश्च कर्त्तव्यं धनसाधनम् ॥ १२.४८{४८} ॥
धनवान् पुरुषो लोकैः सर्वत्रापि प्रमान्यते ।
धनेन साधयेद्धर्मं धर्मेण सद्गतिं व्रजेत् ॥ १२.४९{४९} ॥
तस्मान्नित्यं महोत्साहैस्ञ्ल्त्यक्त्वालस्यकुशीदता ।
अर्जनीयं प्रयत्नेन धनं दानाय भुक्तये ॥ १२.५०{५०} ॥
दानं विभूषणं लोके दानं दुर्गतिनिवारणम् ।
(र्म् १४९)
दानं स्वर्गस्य सोपानं दानं शान्तिकरं सदा ॥ १२.५१{५१} ॥
अस्माद्दानं सदा कर्तुं भोक्तुं सौख्यं यथेछया ।
भूयो रत्नाकरं गंतुमर्हामहे धनार्जने ॥ १२.५२{५२} ॥
तत्र रत्नानि संगृह्य स्वस्तिप्रत्यागता वयम् ।
यावज्जीवं सुखं भुक्त्वा दानं कृत्वा वसेमहि ॥ १२.५३{५३} ॥
यदि दैवो विपत्तिः स्यात्समुद्रे पतिता वयम् ।
तीर्थराजे मृताः सर्वे यास्यामः स्वर्गतिं ध्रुवम् ॥ १२.५४{५४} ॥
यदि भाग्यादथास्माकं देवानां च प्रसादतः ।
यात्रासिद्धिर्भवेन्नूनं यावज्जीवं सुखं तदा ॥ १२.५५{५५} ॥
अस्माद्रत्नाकरे गन्तुमिछे रत्नप्रलब्धये ।
तत्प्रायात मया सार्द्धं यदि संपत्तिमिछथ ॥ १२.५६{५६} ॥
इति तस्योदितं श्रुत्वा ते सर्वे वणिजो मुदा ।
तथा तेन सहैछान्त गन्तुं रत्नाकरैः पुनः ॥ १२.५७{५७} ॥
ततोऽसौ सार्थभृच्छीघ्रं धृत्वा स्वस्त्ययनं मुदा ।
सर्वे सार्थगणैः सार्द्धं प्रतस्थे स्वपुराद्वहि ॥ १२.५८{५८} ॥
ततः क्रमाद्व्यतिक्रम्य ग्रामारण्यवनानि च ।
प्रचरन्तश्च ते सर्वे तीरं प्रापुर्महोदधेः ॥ १२.५९{५९} ॥
तत्र सर्वेऽपि ते सार्था भाण्डानि वहने क्रमात् ।
आरोप्य सहसारूढा जगाहिरे महाम्बुधौ ॥ १२.६०{६०} ॥
ततः क्रमात्समुल्लंघ्य वहुद्वीपान्तराणि ते ।
रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ १२.६१{६१} ॥
तत्र ते वहुरत्नानि समागृह्य प्रहर्षिताः ।
ततः प्रत्यागताश्चाब्धेस्तीरान्तिकमुपाययुः ॥ १२.६२{६२} ॥
ततस्तद्दैवयोगेन कालिकावातघट्टिता ।
सा नौका भिद्यते चैवं तेषां वै हृदयैः सह ॥ १२.६३{६३} ॥
तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया ।
सर्वभाण्डैः सहागाढे न्यपतन् दुष्टरेऽम्बुधौ ॥ १२.६४{६४} ॥
तत्र ते विलयं प्राप्ता निरालंवा निराश्रयाः ।
उन्मज्जन्तो निमज्जन्तः प्रेरितास्तीरमूर्मिभिः ॥ १२.६५{६५} ॥
केचित्फलकमाश्रित्य समुत्तीर्य्य स्ववीर्य्यतः ।
केचिद्वाहुवलाधानैः समुत्तीर्य्य स्थलं ययुः ॥ १२.६६{६६} ॥
केचिन्निहीनवीर्य्याङ्गा हन्यमाना महोर्मिभिः ।
उत्प्लवन्ता निमज्जन्तः खेदिता निधनं ययुः ॥ १२.६७{६७} ॥
ततस्तेषां च सार्थानां येऽवशिष्टा सुजीविनः ।
(र्म् १५०)
यशोरत्नवियुक्तास्ते शून्यहस्ता गृहं ययुः ॥ १२.६८{६८} ॥
तथासौ सार्थवाहोऽपि गृहं गत्वा विषादितः ।
एतद्वृत्तं स्ववंधूनां कथित्वैवमभाषत ॥ १२.६९{६९} ॥
हा मया किं कृतं पापं येनेद्रिग्जायते विपत् ।
द्विधापि सिद्ध्यते नैव यतो भाग्यं न विद्यते ॥ १२.७०{७०} ॥
पापैर्न सिद्ध्यते कर्म अत्र यत्नस्य किं वलैः ।
धर्मेण सिद्ध्यते कर्म तस्माद्धर्मो वलोत्तमः ॥ १२.७१{७१} ॥
तस्माद्धर्मं पुरस्कृत्य कर्त्तव्यं द्रव्यसाधनम् ।
द्रव्येन साधयेत्कर्म सद्गतिं समवाप्नुयाः ॥ १२.७२{७२} ॥
कर्म तु सिद्ध्यते सम्यक्कुलवृत्तिं च चारिणाम् ।
कुलवृत्तिं परित्यज्य योऽन्यवृत्तौ चरेत्कुधीः ॥ १२.७३{७३} ॥
स इहापि परिभ्रष्टः परत्र दुर्गतिं व्रजेत् ।
येनैवं सद्गतिप्राप्तिस्तदैव कर्म्म साधयेत् ॥ १२.७४{७४} ॥
यतोऽपि दुर्गतिं प्राप्तिस्तत्कर्म तर्हितं बुधैः ।
तदत्र किं करिष्येऽहं क्व यास्याम्यर्थमर्जितुम् ।
अर्थं विना कथं धर्मं कर्त्तव्यं हि कुटुंविभिः ॥ १२.७५{७५} ॥
विना धर्मं हि संसारे जन्म जीवं च निस्फलम् ।
किं ते न पौरुषेणापि येन धर्मं न साध्यते ॥ १२.७६{७६} ॥
धिग्धिग्मे जन्म संसारे जीवितुं न तथोत्सहे ।
वरं प्राणपरित्यागं न त्वेवं चिरजीवितम् ॥ १२.७७{७७} ॥
अवश्यं जन्तुभिर्मृत्युर्गन्तव्यमेकधा ध्रुवम् ।
ततोऽत्र मर्तुमिछामि न त्वेवमुषितुं गृहे ॥ १२.७८{(७८)} ॥
एवंजीवो न शोभेऽहं धिग्प्रवादाग्निदग्धितः ।
कथं मे शाम्यते दुःखं येनाहं परिखेदितः ॥ १२.७९{(७८)} ॥
किं कर्त्तव्यं क्व गन्तव्यं यत्नं चात्र न विद्यते ।
सर्वथाहं विनष्टोऽस्मि को मेऽस्ति रक्षको जनः ॥ १२.८०{७९} ॥
यशोधर्मपरिभ्रष्टो व्रजेयं दुर्गतिं खलु ।
तदाहं किं करिष्यामि धर्मयशःसुखान्वितः ॥ १२.८१{८०} ॥
मानुष्ये लभ्यमाने हि कुतो धर्मानुसाधनम् ।
विना धर्म्मं यशोद्रव्यः किं सौख्यं गृहवासिनाम् ॥ १२.८२{८१} ॥
विना धर्मयशोद्रव्यैर्यो गृहस्थः पशुः खलु ।
धर्मेण साधयेद्द्रव्यं यशोभाग्यसुखाप्तये ॥ १२.८३{८२} ॥
धर्माद्धि जायते पुण्यं दानशीलक्षमादिभिः ।
पुण्येनैव प्रलभ्यन्ते चतुर्वर्गा अपि ध्रुवम् ॥ १२.८४{८३} ॥
(र्म् १५१)
तदेतेषां ममैकोऽपि न विद्यते कथं चन ।
हा हतोऽस्मि स्वदैवेन किं करोमि विखेदितः ॥ १२.८५{८४} ॥
सर्वथाहं विनष्टोऽस्मि नमो दैवाय कर्मणे ।
एवं तेषां स्ववंधूनां विलपीत्वा स सार्थपः ॥ १२.८६{८५} ॥
तस्थौ चिन्ताकुलीभूतो धनार्जननिराश्रया ।
एवं व्यवस्थितं दृष्ट्वा तं ते सर्वेऽपि वांधवाः ॥ १२.८७{८६} ॥
दत्वाश्वासं विनोदाय बोधयन्ते ध्रुवं तथा ।
साधो सार्थपते सत्यं तत्सर्वं यत्त्वयोच्यते ॥ १२.८८{८७} ॥
तदेवं धैर्य्यमालंव्य प्रोद्यमस्व गृहे वसन् ।
साधो कुत्रापि मा धाव निर्माणसदृशं फलम् ॥ १२.८९{८८} ॥
यावदेवाम्भसा कुम्भः सिंधावन्धौऽवपूर्यते ।
यदभावि न तद्भावि भावि नैव तदन्यथा ॥ १२.९०{८९} ॥
अवश्यं भाविनो भावा भवंति सर्वदेहिनाम् ।
अवश्यं भाविनो भावा न भवेयुस्तथा यदि ॥ १२.९१{९०} ॥
पित्रा त्यक्तः कथं रामो राज्यभ्रष्टो वनं ययौ ।
तत्रापि वसतस्तस्य भार्या शीता पतिव्रता ॥ १२.९२{९१} ॥
आहृत्य रक्षसा नीता कथं लंकापुरेऽवसत् ।
ततो रामेण वीर्येण हत्वासौ रावणस्ततः ॥ १२.९३{९२} ॥
प्रत्यानीय पुनः शीता त्यक्ता भर्त्त्रा स्वयं कथम् ।
पुनरृषेः समानीय सभामध्ये परिक्षिता ॥ १२.९४{९३} ॥
ततः पृथ्या स्वयं गृह्य सीतानीता रसातलम् ।
ततस्तद्विरहार्त्तासौ रामः संसारनिस्पृहः ॥ १२.९५{९४} ॥
नद्यां प्राणस्वयं त्यक्त्वा जनं सार्द्धं दिवं ययौ ।
एवमन्येऽपि राजानो युधिष्ठिरा नृपादयः ।
राज्यभ्रष्टा वने गत्वा विभ्रमुस्तेऽपि दैवतः ॥ १२.९६{९५} ॥
एवमन्येऽपि लोकाश्च सर्वत्रैधातुकभवाः ।
उत्तमा अधमा मध्या संति तेऽपि स्वदैवतः ॥ १२.९७{९६} ॥
केचिद्गृहे मृताः केचिज्जायमाना मृता अपि ।
केचिद्वाल्ये मृताः केचित्कौमारत्वे मृतास्तथा ॥ १२.९८{९७} ॥
यौवनेऽपि मृताः केचिन्मृता वृद्धे वदन्ति मे ।
सर्वेऽप्येवं मृता लोकाः स्वस्वदैवप्रमाणतः ॥ १२.९९{९८} ॥
एवं देवादयो लोकाः सुखदुःखानुयोगिनः ।
स्वस्वदैवानुभावेन षड्गतिषु चरन्ति ते ॥ १२.१००{९९} ॥
केचिद्वाल्ये सुखं भुक्त्वा यौवने दुःखभागिनः ।
केचिच्च यौवने सौख्यं भुक्त्वा वृद्धे सुदुःखिताः ॥ १२.१०१{१००} ॥
(र्म् १५२)
केचिच्च दुःखिता वाल्ये यौवने सौख्यभागिनः ।
वृद्धत्वस्य सुखीभूता भवंति तेऽपि हि दैवतः ॥ १२.१०२{१} ॥
सर्वेऽपि सुखमिछन्ति दुःखं नेछति कश्चन ।
तथा सुखानि संप्राप्तुं यत्नं कुर्वन्त्यनेकशः ॥ १२.१०३{२} ॥
केषां चित्सिद्ध्यते यत्नं केषां चिद्वा न सिद्ध्यति ।
केषां चिद्विघ्नतां याति तत्सर्वं दैवयोगतः ॥ १२.१०४{३} ॥
तथा च रोगिणां रोगा वैद्योपचारणैरपि ।
वर्द्ध्यन्ते नैव शाम्यन्ते तदपि दैवयोगतः ॥ १२.१०५{४} ॥
केषां चिद्रोगिणां रोगा विना वैद्योपचारणे ।
शाम्यंते यत्नतो चापि तदपि दैवयोगतः ॥ १२.१०६{५} ॥
तथा चल्द्मंत्रिणां मंत्राः सिद्ध्यन्ते यत्नतो लघुः ।
केषां चिद्विघ्नतां यान्ति तदपि दैवकारणात् ॥ १२.१०७{६} ॥
तथैवं वणिजां लाभोः सिद्ध्यन्ते यत्नतोऽपि च ।
केषां चिन्नैव यत्नेन तदपि दैवयोगतः ॥ १२.१०८{७} ॥
तथा वीरा रणे शत्रुं विना यत्नं जयंत्यपि ।
केचित्तु रिपुना युद्धे हन्यमाना मृताः परे ॥ १२.१०९{८} ॥
केचित्कृत्वा महायुद्धं हन्यमानाः परस्परम् ।
त्यक्त्वा देहं गताः स्वर्गं तदपि दैवयोगतः ॥ १२.११०{९} ॥
एवं सांयात्रिका रत्नं प्राप्तुं रत्नाकरं गताः ।
केचिद्रत्नानि संगृह्य स्वस्ति प्रत्यागता गृहम् ॥ १२.१११{१०} ॥
केचिद्रत्नमलब्धं वै शून्यहस्ता गृहागताः ।
केचिच्च निधनं यातास्तत्रैव मकरालये ॥ १२.११२{११} ॥
केचिद्यत्नात्समुत्तीर्य जीवन्तो गृहमागताः ।
केचिच्च जांगले चौरैर्निहता मरणं गताः ॥ १२.११३{१२} ॥
केचिच्च जंतुभिर्मार्गे हिंस्यमाने मृता वने ।
केषां चित्सिद्ध्यते यात्रा महल्लाभसमन्विताः ॥ १२.११४{१३} ॥
केषां चिद्विघ्नतां यान्ति तथापि दैवयोगतः ।
कैश्चिद्गृहे निधिः प्राप्तः कैश्चिद्देशान्तरे वने ॥ १२.११५{१४} ॥
कैश्चिद्दूरे भ्रमद्भिश्च नैव किं चित्क्व चिद्धनम् ।
केषां चिद्वर्द्धते संपद्यत्नायासं विना लघु ॥ १२.११६{१५} ॥
केषां चिद्धीयते संपद्रक्षितापि प्रयत्नतः ।
केषां चित्सुस्थिरा संपत्केषां चिद्वल अस्थिरा ॥ १२.११७{१६} ॥
केषां चिज्जायते नैव नानोपायार्जनैरपि ।
एवं नानाप्रकारैश्च सत्वास्त्रैधातुकोद्भवाः ॥ १२.११८{१७} ॥
(र्म् १५३)
भुंजते सुखदुःखानि स्वस्वदैवानुसारिणाः ।
सुखस्यान्ते हि दुःखानि दुःखस्यान्ते सुखानि च ॥ १२.११९{१८} ॥
भुंजन्ते जंतवः सर्वे भ्रमन्ते षड्गतिष्वपि ।
तथा भवन्ति मित्राणि द्विषोऽपि हितकारिणः ॥ १२.१२०{१९} ॥
मित्राण्यपि द्विषो दुष्टा भवंति दैवयोगतः ।
तथामृतं विषीभूतं विषं चाप्यमृती भवेत् ॥ १२.१२१{२०} ॥
तदपि दैवयोगेन तस्माद्दैवं महद्वरम् ॥ १२.१२२{२१} ॥
तथा च ब्रह्मणः शीर्षं निकृत्तं शूलपाणिना ।
तदपि दैवयोगेन तस्माद्दैवं महावली ॥ १२.१२३{२२} ॥
तथा चक्री सुवीरोऽपि व्याधेषु निहतो मृतः ।
तदपि दैवयोगेन तस्माद्दैवं महद्वलम् ॥ १२.१२४{२३} ॥
यश्च भूताधिपश्चेशः सोऽप्युमत्तो दिगंवरः ।
तदपि दैवयोगेन तस्माद्दैवं महेश्वरः ॥ १२.१२५{२४} ॥
चंद्रोऽपि च कलंकाङ्को मासे मासेऽपि हीयते ।
तदपि दैवयोगेन तस्माद्दैवं महद्वलम् ॥ १२.१२६{२५} ॥
एवं चन्द्रदिनेशौ च ग्रहेणापि निपीडितौ ।
तदपि दैवयोगेन तस्माद्दैवं महावली ॥ १२.१२७{२६} ॥
रामो रक्षोविजेतापि पुत्रेण निहतो रणे ।
तदपि दैवयोगेन तस्माद्दैवं महावली ॥ १२.१२८{२७} ॥
तथार्ज्जुनः सुधीरोऽपि पुत्रेणापि हतो रणे ।
तदपि दैवयोगेन तस्माद्दैवं महावलम् ॥ १२.१२९{२८} ॥
तथा च पर्शुरामेण मातापि निहता क्रुधा ।
तदपि दैवयोगेन तस्माद्दैवं महावलः ॥ १२.१३०{२९} ॥
बिंबिसारो नृपेन्द्रोऽपि पुत्रेणाजातशत्रुणा ।
वंधने मारितं चैवं तदपि दैवयोगतः ॥ १२.१३१{३०} ॥
तस्माच्च ब्रह्मदत्तेन धर्मपालो स नन्दनः ।
मारितः प्रमदातुष्ट्यै तदपि दैवयोगतः ॥ १२.१३२{३१} ॥
राज्ञी च दुर्पती माता स्वात्मजस्यापि रोहितम् ।
पीत्वैव निर्दया तुष्टा तदपि दैवयोगतः ॥ १२.१३३{३२} ॥
क्षान्तिवादी मुनिश्चापि राज्ञा निर्दयचेतसा ।
असिना घातितोऽरण्ये तदपि दैवयोगतः ॥ १२.१३४{३३} ॥
प्रसेनजिन्नृपेशोऽपि पुत्रेणापि स्वराज्यतः ।
निर्वासितो वने भ्रान्तस्तदपि दैवयोगतः ॥ १२.१३५{३४} ॥
एवमन्येऽपि राजानो हत्वा ज्ञाती स्ववांधवान् ।
भुंजते प्राप्य राज्यानि तदपि दैवयोगतः ॥ १२.१३६{३५} ॥
एवं पित्रा सुतास्त्यक्त्वा मात्रा च स्वात्मजा अपि ।
वंधुमित्रादिभिस्त्यक्त्वा केचिद्दैवानुयोगतः ॥ १२.१३७{३६} ॥
भार्यापि स्वामिना त्यक्त्वा भर्त्तापि भार्य्यया तथा ।
(र्म् १५४)
तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१३८{३७} ॥
पुत्रेणापि पिता त्यक्तं मातापि जननी तथा ।
धात्री चापि परित्यक्तास्तथा पौत्रपितामहः ॥ १२.१३९{३८} ॥
तथा पितामहस्त्यक्तः पुत्रैश्चाप्यतिनिर्दयैः ।
तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१४०{३९} ॥
तथा राज्ञा स्वभृत्याश्च सेवका अपि सज्जनाः ।
अपराधं विना त्यक्तास्तदपि दैवयोगतः ॥ १२.१४१{४०} ॥
तथा सखिसहायां च वंधुमित्रसुहृज्जनान् ।
परित्यक्त्वा निहंत्यन्ते तदपि दैवयोगतः ॥ १२.१४२{४०*} ॥
तथा शिष्यान् गुरुर्हन्ति शिष्यो हन्ति गुरुमपि ।
तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१४३{४१} ॥
तथापि घ्नन्ति भर्त्तारं स्वामिनं सेवकान्नपि ।
तदपि दैवयोगेन तस्माद्दैवं महत्तरम् ॥ १२.१४४{४२} ॥
तथा च स्वयमात्मानं घ्नन्ति केचिद्रुषान्विताः ।
तदपि दैवयोगेन तस्माद्दैवं महत्तमः ॥ १२.१४५{४३} ॥
केचिच्छस्त्रैः स्वयं हत्वा केचिद्भुक्त्वा विषादिकम् ।
केचिदग्नौ जले स्वभ्रे प्रपातात्पतिता मृताः ॥ १२.१४६{४४} ॥
केचित्पाशैः स्वयं बध्य मृताः केचिच्च वंधने ।
केचित्पानाशनादींश्च त्यक्त्वा यांति यमालयम् ॥ १२.१४७{४५} ॥
एवं कृत्वापि यान्त्येव केचिद्वापि सुरालयम् ।
केचिच्च नरके यान्ति तत्सर्वं दैवयोगतः ॥ १२.१४८{४६} ॥
तथा मृद्दारुपाषाणे नानाधातुप्रतिष्ठिताः ।
देवताश्च ददन्त्येवं फलं दैवनियोगतः ॥ १२.१४९{४७} ॥
परेऽपि स्वजना इष्टाः सहजा अपि च द्विषः ।
भवन्ति तत्क्षणादेव तदपि दैवयोगतः ॥ १२.१५०{४८} ॥
एवं त्रैधातुकोत्पन्नाः सर्वे सत्वाश्च जंतवः ।
षड्गतिषु भ्रमन्तस्ते चरन्ति दैवयोगतः ॥ १२.१५१{४९} ॥
केचिद्वीरा गुणाढ्याश्च सुंदरा भाग्यमानिनः ।
सर्वसंपत्समृद्धाश्च चक्रवर्त्तिनृपादयः ॥ १२.१५२{५०} ॥
केचिच्च निर्गुणाः प्राढ्याः केचिन्निर्गुणिनः शठाः ।
केचिच्च विकलांगाश्च गुणसंपत्तिभागिनः ॥ १२.१५३{५१} ॥
केचिच्च सुंदरा मूर्खा निर्धना निर्गुणाः शठाः ।
केचिच्च गुणिनः प्राढ्या नीचकर्मानुचारिणः ॥ १२.१५४{५२} ॥
केचिन्नीचकुलोत्पन्नाः गुणाढ्याः साधुवृत्तयः ।
(र्म् १५५)
दातारो धनिनो वीराः सर्वसत्वानुपालकाः ॥ १२.१५५{५३} ॥
केचिदुच्चकुलोत्पन्ना निर्गुणा दुष्टवृत्तयः ।
कृपणा विकलांगाश्च निर्दयाश्च दुराशयाः ॥ १२.१५६{५४} ॥
केचिद्वीरा ह्यलाभिज्ञाः कुलीनाः साधवोऽपि ये ।
तेऽपि जातिनिहीनेऽपि भजंति शरणं गताः ॥ १२.१५७{५५} ॥
केचिच्च गुणवन्तोऽपि कुचेलाः कृशगात्रिकाः ।
प्रेतवद्भुज्यमानाश्च चरंति भिक्षुका भुवि ॥ १२.१५८{५६} ॥
केचिच्च निर्गुणा वापि वंचका दुष्टमानसाः ।
मान्यन्ते साधुवल्लोके तदपि दैवयोगतः ॥ १२.१५९{५७} ॥
एवं नानाविधा लोकाः षड्गतिषु समुद्भवाः ।
सुखदुःखानि भुंजन्ते भ्रमंति दैवयोगतः ॥ १२.१६०{५८} ॥
तस्माद्दैवं महावीरं सर्वत्रैधातुकेष्वपि ।
केनापि शक्यते नैव वशे नेतुं कथं चन ॥ १२.१६१{५९} ॥
तेन दैवं महानाथः सर्वकर्माधिपः प्रभुः ।
स्रष्टा भर्त्ता च हर्त्ता च त्रैधातुवासिनामपि ॥ १२.१६२{६०} ॥
तस्याप्यधिपतिब्रह्मा सर्वलोकेश्वरो विधिः ।
तत्तस्य शरणं गत्वा भक्त्या नित्यं समर्चय ॥ १२.१६३{६१} ॥
तस्मिं तुष्टे विधौ देवैः परितुष्टं भवेद्ध्रुवम् ।
ततो दैवप्रसादेन सर्वत्र मंगलं भवेत् ॥ १२.१६४{६२} ॥
दैवे तुष्टे सुसिद्ध्यन्ते सर्वकर्माणि यत्नतः ।
विरुद्धे तु न सिद्ध्यन्ते यत्नैः संसाधितान्यपि ॥ १२.१६५{६३} ॥
तस्माद्दैवाधिपं देवं ब्रह्माणं चतुराननम् ।
भज दैवप्रसन्नाय सर्वकार्यप्रसिद्धये ॥ १२.१६६{६४} ॥
दैवं ब्रह्मप्रसादेन शुभदं संमुखी भवेत् ।
ततस्ते मंगलं नित्यं सर्वकार्य्येषु संभवेत् ॥ १२.१६७{६५} ॥
एवं सार्थपते नत्वा विधानं कार्य्यसाधनम् ।
विधिनाराध्य सद्भक्त्या कुरुष्व कर्मसाधनम् ॥ १२.१६८{६६} ॥
तथा चेत्सर्वथा नित्यं यात्रायं मंगलं भवेत् ।
अन्यद्वा चिन्तितं कार्यं सर्वाप्येवं प्रसत्स्यते ॥ १२.१६९{६७} ॥
यदि वांछास्ति ते भूयो गन्तुं रत्नाकरं प्रति ।
तथाभ्यर्च्य विधातारं गछेत्स्वस्ति भवेत्खलु ॥ १२.१७०{६८} ॥
इति तेनोदितं श्रुत्वा सार्थवाहस्तथेति सः ।
प्रतिज्ञाय समभ्यर्च्य ब्रह्माणं प्रार्थयत्तदा ॥ १२.१७१{६९} ॥
नमस्ते भगवन् ब्रह्मं यात्रासिद्धिं कुरुष्व मे ।
एवं विधिं समाराध्य स सार्थाधिपतिस्ततः ॥ १२.१७२{७०} ॥
रत्नं प्राप्त्यै पुनः सार्थान् समाहूयाब्रवीत्तथा ।
(र्म् १५६)
भवन्तः श्रूयतां वाक्यं यन्मया समुदीरितम् ॥ १२.१७३{७१} ॥
अत्रास्ति यदि वो वांछा तथा कर्तुं समुद्यताम् ।
अहं रत्नाकरं भूयो गन्तुमिछामि सांप्रतम् ॥ १२.१७४{७२} ॥
तद्यदीछथ रत्नानि तथा यात मया सह ।
किं चाप्यत्र वयं सर्वे सार्थवाहकुलोद्भवाः ॥ १२.१७५{७३} ॥
तद्गृहे पशुवद्भुक्त्वा कथं शोभी व्रजेमहि ।
संसारे सर्वजंतूनामेकधा मरणं ध्रुवम् ॥ १२.१७६{७४} ॥
तत्किं नो मरणे भीत्या मृत्युं केन निवार्य्यते ।
यदि दैवाद्विपत्तिः स्यादस्माकं कर्म्मदोषतः ॥ १२.१७७{७५} ॥
सर्वतीर्थजलाधारे मृताः स्वर्गं व्रजेमहि ।
यदि भाग्याच्च नो यात्रा सिद्धा स्वस्तिमती भवेत् ।
तदा जीवं सुखं दानं कृत्वा स्वर्गं व्रजेमहि ।
तद्विषादं परित्यज्य यशोधर्म्मसुखाप्तये ॥ १२.१७८{७६} ॥
वीर्योत्साहं समाधाय समायात मया सह ।
इति तस्य वचः श्रुत्वा सर्वे ते वणिजो मुदा ॥ १२.१७९{७७} ॥
तथेति च समुत्साहं कृत्वा गंतुं समुद्यताः ।
ततः सर्वेऽपि ते सार्था धृत्वा स्वस्त्ययनं विधिम् ॥ १२.१८०{७८} ॥
पण्यमादाय तेनैव सह सार्थभृता ययुः ।
ततस्ते प्रस्थिताः सर्वे ग्रामारण्यवनस्थलीः ॥ १२.१८१{७९} ॥
समुत्तीर्य्य क्रमाद्यातास्तीरं प्रापुर्महोदधेः ।
तत्र नावि समारूढा कर्णधारप्रयत्नतः ॥ १२.१८२{८०} ॥
मरुतांतेऽनुकूलेन जगाहिरे महोदधिम् ।
ततस्तेषां च सर्वेषां दैवयोगानुयोगतः ॥ १२.१८३{८१} ॥
सा नौका कालिकावातसंक्षुब्धाभूद्विभेदिता ।
तदा सर्वेऽपि ते सार्था दृष्ट्वा नौकां विभेदिताम् ॥ १२.१८४{८२} ॥
त्रसिताः सहसा तस्मात्प्रत्याययुः प्रयत्नतः ।
ततस्ते वणिजः सर्वे विपंनाशा विषादिताः ॥ १२.१८५{८३} ॥
रात्रौ स्वस्वगृहे गत्वा विभग्नासा विषेदिरे ।
तथासौ सार्थवाहोऽपि लज्जितः खण्डिताशयः ॥ १२.१८६{८४} ॥
खेदितात्मा गृहे तस्थौ मूकवद्धि नतोत्सवः ।
ततो भार्य्या सती भद्रा पतिखेदविभेदितम् ।
दृष्ट्वा तं विकलीभूतं समुपेत्याब्रवीत्पुनः ॥ १२.१८७{८५} ॥
मा विषादं कृथाः स्वामिन्नत्र धैर्य्यं समाश्रयः ।
धर्मिष्ठे शरणं गत्वा कुरुष्व धर्मसाधनम् ॥ १२.१८८{८६} ॥
(र्म् १५७)
धर्म्मेण जीयते पापं निष्पापो निर्मलाशयः ।
शुद्धचित्तो विशुद्धात्मा पुण्यात्मा भाग्यमाप्नुयात् ॥ १२.१८९{८७} ॥
ततो भाग्यवतः पुंसो यद्यत्कर्मणि साधितम् ।
तत्तत्सर्वं प्रसिद्ध्येत तस्माद्धर्मं चरोत्तमम् ॥ १२.१९०{८८} ॥
धर्ममेव सुहृद्मित्रमिहामुत्र सहानुगः ।
धर्म्मेण पाल्यते सर्वं तस्माद्धर्मो जगत्सुहृत् ॥ १२.१९१{८९} ॥
धर्मा नानाविधा लोके कुलचर्य्यानुसरतः ।
सर्वेषामपि धर्माणां दया धर्मे विशिष्यते ॥ १२.१९२{९०} ॥
दयालुः सुगतो बुद्धो धर्मराजस्तथागतः ।
समन्तभद्र आत्मज्ञः सर्वसत्वहितंकरः ॥ १२.१९३{९१} ॥
सर्वज्ञो मारजिच्छास्ता जगन्नाथः शुभार्थदः ।
षडभिज्ञो जगद्भर्त्ता सर्वलोकाधिपेश्वरः ॥ १२.१९४{९२} ॥
तस्मात्तस्य मुनीन्द्रस्य सद्भक्त्या शरणं व्रजन् ।
सद्धर्मशरणं कृत्वा भज नित्यमुपासकः ॥ १२.१९५{९३} ॥
ततस्ते नश्यते पापं मंगलं च भवेद्ध्रुवम् ।
तदैव सर्वकार्याणि समेत्स्यंते न संशयः ॥ १२.१९६{९४} ॥
इति भार्योदितं श्रुत्वा स सार्थाधिपतिर्मुदा ।
तथेति संप्रतिज्ञाय संबुद्धशरणं ययौ ॥ १२.१९७{९५} ॥
नमस्ते भगवन्नाथ पापिस्थोऽहं सुदुर्भगः ।
भवतां शरणं गछे तन्मां दृष्ट्वाशु रक्षताम् ॥ १२.१९८{९६} ॥
यन्मया प्रकृतं पापं कारितं वानुमोदितः ।
तत्सर्वं देशयिष्यामि तन्मे देहि शुभां गतिम् ॥ १२.१९९{९७} ॥
भवतां सर्वदा नाथ शरणं याम्युपासकः ।
अन्यो मे शरणं नास्ति तन्मां रक्ष सदा भजे ॥ १२.२००{९८} ॥
त्रिधापि मे जगन्नाथ यात्रा भग्ना स्वदैवतः ।
गृहस्थः सार्थवाहोऽहं तन्मे देहि सुसंपदः ॥ १२.२०१{९९} ॥
यन्वहं सांप्रतं नाथ भवतं शरणं व्रजन् ।
भूयो रत्नाकरं गन्तुमिछामि रत्नलब्धये ॥ १२.२०२{१००} ॥
यदि यात्रा भवेत्सिद्धि यावल्लाभं च लप्स्यते ।
तदुपायेन संबुद्धं पूजयेयं ससांघिकम् ॥ १२.२०३{१} ॥
इत्येवं निश्चयं कृत्वा संबुद्धं संस्मरन्मुहुः ।
तां भार्य्यां भद्रिकां दृष्ट्वा पुनरेवमभाषत ॥ १२.२०४{२} ॥
भद्रे त्वया यदादिष्टं तथा कर्तुं समुत्सहे ।
अद्याग्रेण जगन्नाथं शरणं यास्याम्युपासकः ॥ १२.२०५{३} ॥
(र्म् १५८)
भद्रे नाम्ना जिनेन्द्रस्य यास्ये रत्नाकरे पुनः ।
यदि यात्रा भवेत्सिद्धि यावल्लाभं च लप्स्यते ॥ १२.२०६{४} ॥
तदुपार्द्धेन रत्नेन ससंघं सुगतं तदा ।
यथार्हं पूजयिष्येऽहमिति संकल्पितं मया ॥ १२.२०७{५} ॥
यदि दैवाद्विपत्तिः स्यात्संबुद्धनाम संस्मरन् ।
सर्वतीर्थजलाधाने मृतो यायां सुखावतीम् ॥ १२.२०८{६} ॥
तदत्र यदि मे कार्य्यं शुभं कर्तुं समिछसि ।
तद्विषादं परित्यज्य धैर्य्यं कृत्वा सुखं वस ॥ १२.२०९{७} ॥
इति भर्त्त्रोदितं श्रुत्वा सा भार्य्या भद्रिका सती ।
तथेति प्रतिसंमोद्य स्वामिनं तं समब्रवीत् ॥ १२.२१०{८} ॥
यद्येवं ते समीहास्ति कृत्वेतं निश्चयं प्रभो ।
संबुद्धस्मरणं धृत्वा गछ स्वस्तिं समाचर ॥ १२.२११{९} ॥
यदि बुद्धकृपादृष्टिः सत्वेषु विद्यते किल ।
तथावश्यं स संबुद्धः पश्यन् त्वां चाप्यचेत्खलु ॥ १२.२१२{१०} ॥
तदा ते मङ्गलं नित्यं यात्रा स्वस्तिमती भवेत् ।
ततस्ते जन्म संसारे साफल्यं च भवेत्खलु ॥ १२.२१३{११} ॥
तेन स्वामिं जिनेंद्रस्य नामस्वस्त्ययनं दधत् ।
गछ यात्रा सुसिद्धास्तु स्वस्ति प्रत्यागताशु च ॥ १२.२१४{१२} ॥
इति भार्योदितं श्रुत्वा स सार्थाधिपतिर्मुदा ।
भूयः सार्थगणान् सर्वान् समाहूयाब्रवीत्तथा ॥ १२.२१५{१३} ॥
भवन्त श्रूयतां वाक्यं यन्मयात्र समीहितम् ।
अहं रत्नाकरं भूयो गन्तुमिछामि सांप्रतम् ॥ १२.२१६{१४} ॥
तदस्ति यदि वो वांछा यशःसंपत्सुखाप्तये ।
समायात मया सार्द्धं रत्नाकरं व्रजेमहि ॥ १२.२१७{१५} ॥
यदि भाग्याद्धि नो यात्रा सिद्धा स्वस्तिमतिर्भवेत् ।
यावजीवं सुखं धर्मं कृत्वा स्वर्गं व्रजेमहि ।
अथ वा स्याद्विपत्तिर्नः सर्वतीर्थजलाश्रये ।
मृताः स्वर्गं गमिष्यामो ह्यवश्यं मरणे सति ॥ १२.२१८{१६} ॥
पशुवत्किं गृहे स्थित्वा सुखं वा किं यशो विना ।
यशोन्विता मृता ये हि तत्पुमांसो नरोत्तमाः ॥ १२.२१९{१७} ॥
यदर्थमेव जीवामस्तदर्थं यन्न विद्यते ।
किं तेन जीवितेनापि केवलं दुःखभागिनः ॥ १२.२२०{१८} ॥
वरमेवाद्य मे मृत्युर्न व्यर्थं चिरजीवितम् ।
(र्म् १५९)
यस्माच्चिरमपि स्थित्वा मृत्युर्केन निवार्य्यते ॥ १२.२२१{१९} ॥
इति मृत्युभयं दृष्ट्वा सर्वत्राप्यनिवारणम् ।
त्यक्त्वा विषादकौशीद्यं प्रोद्यमह्यं यशोर्जने ॥ १२.२२२{२०} ॥
एवं नानाप्रकारेण तेन सार्थभृतापि ते ।
बोध्यमाना वणिक्संघाः किं चिन्नैव समूचिरे ॥ १२.२२३{२१} ॥
अभद्रोऽयं पुमां चापि यतो यात्रा न सिद्ध्यति ।
इति तेन महांभोधौ नैकोऽपि गन्तुमैछत ॥ १२.२२४{२२} ॥
अथ सार्थपतिर्दृष्ट्वा तान् सर्वान् विरतोत्सवान् ।
एकोऽपि वा स्वयं गन्तुमैछद्रत्नाकरं प्रति ॥ १२.२२५{२३} ॥
ततो भार्यां समामंत्र्य परिबोध्य प्रसन्नधीः ।
स्वस्त्ययनविधिं कृत्वा प्रतस्थे भारकैः सह ॥ १२.२२६{२४} ॥
ततः पण्यं समादाय भारवाहजनैः सह ।
पुराद्वहि विनिर्गत्य क्रमाद्देशांतरं ययौ ॥ १२.२२७{२५} ॥
क्रमाच्चंचूर्य्यमानोऽसौ ग्रामारण्यवनस्थलीः ।
परिक्रमन् समुल्लंघ्य प्रापुस्तीरं महोदधेः ॥ १२.२२८{२६} ॥
तत्रासौ सार्थभृद्दृष्ट्वा तं समुद्रं महाम्बुधिम् ।
कृतांजलिपुटो नत्वा प्रार्थयच्छरणं गतः ॥ १२.२२९{२७} ॥
नमस्ते जीवमाधार सर्वसत्वार्थसंपदे ।
त्वदासया समायामि तदाशां मे प्रपूरय ॥ १२.२३०{२८} ॥
ततोऽसौ कर्णधारं च तोषयित्वा प्रबोधयन् ।
कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ १२.२३१{२९} ॥
कर्णधार महावाहो तवाहं शरणं व्रजे ।
तत्स्वस्ति चारयन्नौकां यात्रासिद्धिं प्रसाधय ॥ १२.२३२{३०} ॥
तथासौ वहनं कृत्वा दृढीतं गाढवंधितम् ।
कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ १२.२३३{३१} ॥
यथा माता च गर्भस्थं वालकं संप्ररक्षते ।
तथा मामेव गर्भस्थे नौके मातः प्ररक्षताम् ॥ १२.२३४{३२} ॥
ततश्च सुगतं स्मृत्वा त्रिरत्नशरणं गतः ।
कृतांजलिपुटो भूत्वा प्रणम्यैवमयाचत ॥ १२.२३५{३३} ॥
नमस्ते भगवन्नाथ यथा त्रासि जगत्त्रयम् ।
तथा मां कृपया दृष्ट्वा पाहि व्रजे रत्नाकरे ॥ १२.२३६{३४} ॥
इत्येवं सार्थवाहोऽसौ प्रणत्वा सुगतं स्मरन् ।
(र्म् १६०)
भाण्डान्यारोप्य नौकायं समारोहज्जनं सह ॥ १२.२३७{३५} ॥
ततोऽसौ नौक्रमेणैव कर्णधारप्रयत्नतः ।
मरुतां चानुकूलेन संजगाह महाम्बुधौ ॥ १२.२३८{३६} ॥
यत्तत्र सार्थवाहोऽसौ संस्मरन् सुगतं मुहुः ।
तेन पुण्यबलेनैव सा नौका स्वस्तिमाचरन् ॥ १२.२३९{३७} ॥
तथा क्रमाच्चरन्त्येवं द्वीपलोकान्तराणि च ।
व्यतिक्रम्य सुशिघ्रेण रत्नाकरं समाययौ ॥ १२.२४०{३८} ॥
तत्र रत्नाकरे प्राप्य रत्नानि समसाधयन् ।
ततो रत्नानि संगृह्य प्रतस्थे वहनास्थितः ॥ १२.२४१{३९} ॥
ततः क्रमाद्व्यतिक्रम्य द्वीपलोकान्तराणि च ।
तीरं प्रापुः सुशीघ्रेण बुद्धदृष्टिप्रसादतः ॥ १२.२४२{४०} ॥
ततः स्थलं समासाद्य शैलारण्यवनस्थलीः ।
ग्रामां देशां परिक्रम्य श्रावस्त्यां पुरमाययौ ॥ १२.२४३{४१} ॥
ततो गृहे प्रविष्टोऽसौ भर्य्यया सह मोदितः ।
सुहृन्मित्रजनैश्चापि कृत्वालापं न्यषीदत ॥ १२.२४४{४२} ॥
ततः सद्यर्गृहस्थोऽसौ भार्य्यया सह नंदितः ।
भाण्डमुद्घाट्य रत्नानि प्रत्यवेक्षितुमारभत् ॥ १२.२४५{४३} ॥
तत्र दिव्यविचित्राणि रत्नानि विविधानि च ।
दृष्ट्वा हर्षं समासाद्य पुनरेवं वभाषते ॥ १२.२४६{४४} ॥
ममैतानि सुरत्नानि दिव्यान्येतादृशानि हि ।
तत्र दिव्यविचित्राणि नानारत्नकुलानि च ॥ १२.२४७{४५} ॥
लब्धानि तज्जिनेन्द्रस्य कृपादृष्टिप्रसादतः ।
तस्माद्यथाप्रतिज्ञातं श्रद्धया सांप्रतं मया ॥ १२.२४८{४६} ॥
यदुपार्द्धं प्रदातव्यैः श्रवणायार्हतेऽपि नः ।
तदुपार्द्धं कथं चानुदातव्यं मुनयेऽर्हते ॥ १२.२४९{४७} ॥
यदि राजा विजानीयादेतदर्द्धं हरे मम ।
रत्नलुब्धो नरेशो यं दण्डं वा प्रणयं मयि ॥ १२.२५०{४८} ॥
तदा मे स्याद्विपत्तिश्च तत्कथं क्रियते मया ।
अहो दैवाद्विपत्तिर्मामद्यापि च न मुंचति ।
तत्कथं वा प्रतिज्ञातं पूरयितुं न मन्यते ।
नमस्ते भगवन्नाथ सर्वज्ञोऽसि मुनीश्वरः ॥ १२.२५१{४९} ॥
रक्ष मां पापिनं मूढनिमग्नं दुःखसागरे ।
इत्यसौ सुगतं स्मृत्वा तच्चिन्ताव्यथिताशयः ॥ १२.२५२{५०} ॥
कपोलं स्वकरे धृत्वा तस्थौ कोष्ठे निरुत्सवः ।
(र्म् १६१)
तथैवं स्थितमालोक्य स्वामि नं तं विषादितम् ॥ १२.२५३{५१} ॥
सा भार्या भद्रिकोपेत्य पुरः स्थित्वाब्रवीत्तथा ।
स्वामिं भर्त्तः किमेव त्वं स्थितोऽसि दुःखितो यथा ॥ १२.२५४{५२} ॥
किं वा ते जायते दुःखं तद्वच चेत्प्रियास्मि ते ॥ १२.२५५{५३} ॥
इति भार्योदितं श्रुत्वा स सार्थाधिपतिः पुनः ।
तां भार्य्यां समुपामंत्र्य पुनश्चैवमभाषत ॥ १२.२५६{५४} ॥
भद्रे यज्जायते दुःखं तत्प्रवक्ष्ये शृणु प्रिये ।
यथा मया प्रतिज्ञातं पूरयितुं कथं तथा ॥ १२.२५७{५५} ॥
यद्युपार्द्धं प्रदास्यामि श्रवणायार्हतेऽपि नु ।
एतदर्द्धं हरेद्राजा लोभान्मे दण्डयेदपि ॥ १२.२५८{५६} ॥
इत्येवं तद्विषादेन व्यथितोऽहं निरुत्सवः ।
तन्मे नात्र प्रतीकारो कथं कर्तुं न मन्यते ॥ १२.२५९{५७} ॥
इति भर्त्त्रोदितं श्रुत्वा सा भार्या पुनरब्रवीत् ।
विषादं मा कृथाः स्वामिं शृणु यन्मे समीहितैः ॥ १२.२६०{५८} ॥
तावदिमानि संकल्पः पश्चात्तत्समयागते ।
पूजया सह भोजैश्च ससंघायार्हतेऽर्चयेत् ॥ १२.२६१{५९} ॥
एवं कृते तथा स्वामिन् प्रतिज्ञा तेन सेत्स्यते ।
भीतिश्चापि न विद्येत तस्मादेवं कुरु प्रभो ॥ १२.२६२{६०} ॥
इति भार्यावचः श्रुत्वा स सार्थाधिपतिर्मुदा ।
तथेति प्रतिसंश्रुत्य पुनरेवमभाषत ॥ १२.२६३{६१} ॥
तावदिमानि सर्वाणि रत्नानि ते समर्प्पये ।
पश्चात्काले ससंघं तं पूजयिष्ये मुनीश्वरम् ॥ १२.२६४{६२} ॥
इदानीं सुगंधधूपेन पूजयेयं मुनीश्वरम् ।
इत्युक्त्वा सर्वरत्नानि भार्यायां स न्यधापयेत् ॥ १२.२६५{६३} ॥
ततोऽसौ चागुरुं क्रीत्वा कार्षापणद्वयेन वा ।
गत्वा जेतवने विहारे तत्र द्वारे स्थितो गुरुमधूपयेत् ॥ १२.२६६{६४} ॥
तत्रापत्रमानोऽसौ संबुद्धशरणं गतः ।
कृतांजलिपुटो नत्वा संस्मरन् प्रार्थयत्तथा ॥ १२.२६७{६५} ॥
भगवच्छास्तासि सर्वज्ञो विजानीया ममाशयम् ।
तद्यथा मे प्रतिज्ञातैः पूरयितुं समर्हसि ॥ १२.२६८{६६} ॥
अथासौ भगवान् तस्य मत्वाशयविशुद्धताम् ।
(र्म् १६२)
महदृध्यभिसंस्कारं चकार तत्प्रसादतः ॥ १२.२६९{६७} ॥
येन स धूप आकाशे प्राभ्युद्गम्य पुरीं च ताम् ।
स्फुरित्वा खे पुनरभ्रकूटीभूत्वाभ्यशोभयत् ॥ १२.२७०{६८} ॥
तत्रासौ सार्थभृद्दृष्ट्वा प्रातिहार्यं तदद्भुतम् ।
महानंदप्रसंनात्मा पुनरेवं व्यचिंतयत् ॥ १२.२७१{६९} ॥
नैतन्मे प्रतिरूपं स्याद्यदयं सुगतो जिनः ।
मया नाभ्यर्चितो रत्नैर्धिग्मे चित्तभयाद्द्रुतम् ॥ १२.२७२{७०} ॥
यन्वहं सांप्रतं नाथं प्रार्थयित्वा ससांघिकम् ।
सरत्नैः पूजयिष्यामि भोजनैश्च स्वके गृहे ॥ १२.२७३{७१} ॥
इत्यसौ निश्चयं कृत्वा कृतांजलिपुटो मुदा ।
संबुद्धसंमुखं गत्वा प्रणत्वैवं व्यजिज्ञपत् ॥ १२.२७४{७२} ॥
भगवन्नाथ सर्वज्ञ क्षमस्व मेऽपराधताम् ।
भवतां पूजनां कर्तुमिछामि मे प्रसीदतु ॥ १२.२७५{७३} ॥
इत्येवं प्रार्थिते तेन स संबुद्धो मुनीश्वरः ।
तथेति प्रतिसंमोद्य तूष्णीभूत्वा व्यवस्थितः ॥ १२.२७६{७४} ॥
ततोऽसौ सार्थभृन्मत्वा सुगतेनाधिवासितम् ।
प्रणत्वा च मुनेः पादौ सहसा स्वगृहं ययौ ॥ १२.२७७{७५} ॥
तत्र स भार्य्यया सार्द्धं वंधुमित्र जनैरपि ।
प्रणीतं भोज्यपूजांगं साधयामास सत्वरम् ॥ १२.२७८{७६} ॥
ततो भोज्यार्चनांगानि सज्जीकृत्य प्रमोदितः ।
विहारे सहसा गत्वा नत्वा तं प्रार्थयन्मुनिम् ॥ १२.२७९{७७} ॥
भगवन्नाथ संबुद्ध समयोऽयं प्रवर्त्तते ।
तद्भवान् सांघिकैः सार्द्धं समागन्तुं समर्हति ॥ १२.२८०{७८} ॥
इत्येवं प्रार्थिते तेन स संबुद्धः ससांघिकः ।
प्रतस्थे सूर्य्यवन्मार्गे प्रातिहार्यं प्रदर्शयन् ॥ १२.२८१{७९} ॥
ततः क्रमात्पुरीं प्राप्य तद्गृहं समुपाविशत् ।
तद्दत्ते पाद्यमादाय शुद्धासने न्यषीदत ॥ १२.२८२{८०} ॥
ततस्तान् सांघिकान् सर्वान् संबुद्धप्रमुखान् क्रमात् ।
स्वस्वासनसमासीनान् दृष्ट्वा सम्यक्समर्चयत् ॥ १२.२८३{८१} ॥
यथार्हं भोजनैर्वापि वर्णगन्धरसान्वितैः ।
संबुद्धप्रमुखान् संघान् संतर्प्य पर्यतोषयत् ॥ १२.२८४{८२} ॥
ततश्च भोजनान्ते स शोधयित्वा भुजादिकम् ।
(र्म् १६३)
अपनीय च पात्राणि ताम्बूलादीनढौकयत् ॥ १२.२८५{८३} ॥
ततो यानि सुरत्नानि पूर्वसंकल्पतानि हि ।
एतैः सर्वं सुरत्नैस्तं संबुद्धैः समवाकिरन् ॥ १२.२८६{८४} ॥
तानि रत्नानि सर्वाणि संबुद्धस्यानुभावतः ।
मुनेरुपरि खे गत्वा छत्रीभूत्वा स्थिता वभौ ॥ १२.२८७{८५} ॥
ततस्तं स गृही दृष्ट्वा द्विगुणसंप्रमोदितः ।
पादौ तस्य मुनेर्नत्वा प्रणिधानं व्यधात्तथा ॥ १२.२८८{८६} ॥
अनेन दानधर्मेण पुण्येन कुशलेन च ।
भवेयं सुगतो बुद्धो लोकेऽन्धेऽपरिणायके ॥ १२.२८९{८७} ॥
अमुक्तो मोचयिष्यामि तारयिष्याम्यतारितान् ।
भीतानाश्वास्य संबोधौ स्थापयिष्यामि निर्वृतौ ॥ १२.२९०{८८} ॥
तथासौ भगवान् बुद्धस्तथाशयविशोधितम् ।
संबोधौ निहितं चित्तं ज्ञात्वा स्मितं व्यधात्तथा ॥ १२.२९१{८९} ॥
तदा तस्य मुनीन्द्रस्य मुखपद्माद्विनिर्गताः ।
पंचवर्णा विभासन्तो विनिश्चेरुः सुभानवः ॥ १२.२९२{९०} ॥
ततस्ते भास्वराः सर्वे प्रविसृताः समंततः ।
केचिदूर्द्धं गताः केचिन्मध्यं केचिद्रसातले ॥ १२.२९३{९१} ॥
केचिदधो गता यास्ते सर्वे ते नरकेषु च ।
निपतंतो विभासन्तो प्रविसस्रुः समंततः ॥ १२.२९४{९२} ॥
ये उष्णनरकास्तेषु शितीभूता विचेरिरे ।
ये शीतनरकास्तेषु न्यपतदुष्णिकाश्च ते ॥ १२.२९५{९३} ॥
ये ये तैः किरणैः स्पृष्टास्ते ते सर्वे सुखान्विताः ।
यदा ते सुखसंप्राप्तास्तदा ते विस्मयान्विताः ॥ १२.२९६{९४} ॥
अहो नः सुखमद्यैवं कथमेतद्व्यचिन्तयन् ।
किं नु वयमितश्च्युत्वा कुत्र यातास्म सांप्रतम् ॥ १२.२९७{९५} ॥
आहोस्विदुपपन्नाः स्युरन्यत्र भुवनेष्वपि ।
इति संदेहिनां तेषां सत्वानां परिबोधने ॥ १२.२९८{९६} ॥
भगवान्निर्मिते बुद्धं प्रेषयन्नरकान् प्रति ।
दृष्ट्वा तं निर्मितं मुनिं विस्मिता हर्षिताश्च वै ॥ १२.२९९{९७} ॥
ते सर्वे नरका लोकाः संमील्य संवभाषिरे ।
न भवन्त इतश्च्युत्वा गतास्मान्यत्र भूमिषु ॥ १२.३००{९८} ॥
किंस्त्वयं नु महासत्वः ह्यपूर्वदर्शनः पुमान् ।
(र्म् १६४)
नूनमस्यानुभावेन दुःखानि समितानि च ॥ १२.३०१{९९} ॥
तद्वयमेनमानम्य वंदे मया प्रमुक्तये ।
इति संभाष्य ते सर्वे नत्वा तच्छरणं गताः ॥ १२.३०२{१००} ॥
नमो बुद्धाय धर्माय संघायेति ववन्दिरे ।
इति ते निर्मिते तस्मिन् प्रसाद्य चित्तमारताः ॥ १२.३०३{१} ॥
सर्वपापविनिर्मुक्ता मर्त्यदेवालयं ययुः ।
एवं ते भानवः सर्वे सर्वत्र नरकेष्वपि ॥ १२.३०४{२} ॥
प्रोद्यन्ते नारकान् सर्वान् प्रत्याययुर्मुनेः पुरः ।
तथा तद्भानवश्चैवमुपरिष्टां गता अपि ॥ १२.३०५{३} ॥
तेऽपि सर्वे चतुर्लोकपालानां भुवनानि च ।
अवभास्य क्रमात्सर्वान् देवलोकानभासयन् ॥ १२.३०६{४} ॥
तथाकनिष्ठपर्यन्तं त्रैधातुकानभासयन् ।
एवं सर्वाश्च तान् सर्वानवभास्य समंततः ॥ १२.३०७{५} ॥
गाथाः प्रोद्घोषयन्तश्च प्रलयं सौगते वृषे ।
अनित्यं खलु संसारं दुःखशून्यं ह्यनात्मकम् ॥ १२.३०८{६} ॥
तस्मात्मारं परित्यज्य गछध्वं शरणं मुनेः ।
निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ १२.३०९{७} ॥
मृत्युसैन्यं धुनीताशु नडागारं करी यथा ।
योऽप्यस्मिन् धर्मविनये ह्यप्रमत्तश्चरिष्यति ॥ १२.३१०{८} ॥
त्यक्त्वा जातिससंसारे दुःखस्यान्तं करिष्यति ॥ १२.३११{९!} ॥
अथ ते भानवः सर्वे त्रैधातुभुवनेष्वपि ।
सर्वान् सत्वान् समुद्धृत्य पुनः प्रत्याययुर्मुनेः ॥ १२.३१२{१०} ॥
अथ ते भानवः सर्वे भगवन्तं मुनीश्वरम् ।
प्रदक्षिणत्रयं कृत्वा मूर्द्ध्नि चान्तर्दधुर्मुनेः ॥ १२.३१३{११} ॥
अथैतत्सभासीना लोकाः सर्वे ससांघिकाः ।
तत्तदद्भुतमालोक्य वभूवुर्विस्मयोद्धताः ॥ १२.३१४{१२} ॥
अथानंदः समुत्थाय कृतांजलिपुटो मुदा ।
भगवन्तं गुरुं नत्वा पप्रछ स्मितकारणम् ॥ १२.३१५{१२!} ॥
भगवन् भवतो वक्त्रात्पंचवर्णाः सुभांसवः ।
विनिर्गता दिशः सर्वानवभास्य शता पुनः ॥ १२.३१६{१३} ॥
भवान् हि सुगतो शास्ता संबुद्धो भगवञ्जिनः ।
(र्म् १६५)
निर्मदो निरहंकारः मानमात्सर्य्यवर्जितः ॥ १२.३१७{१४} ॥
तद्भव भगवं कस्मात्स्मितैः करोति सांप्रतम् ।
दृष्ट्वैवं तं स्मितं सर्वे इमे लोकाः प्रविस्मिताः ॥ १२.३१८{१५} ॥
नाहेतुः सुगता बुद्धा अर्हन्तो विगतोद्धवाः ।
दर्शयन्ति स्मितं केचित्तत्केन भवतः स्मृतम् ॥ १२.३१९{१६} ॥
तदेतद्धेतुमिछन्ति श्रोतुं सर्वे इमे जनाः ।
तदेतत्कारणं शास्तः समादेष्टुं समर्हति ॥ १२.३२०{१७} ॥
इत्येवं प्रार्थिते तेन शिष्येणानंदयोगिना ।
तथेति प्रतिसंमोद्य तमानंदं वभाषत ॥ १२.३२१{१८} ॥
एवमेतत्तथानंद यथैव भाषसि त्वया ।
तत्स्मितं यदर्थं मे तद्वक्ष्ये शृणुतादरात् ॥ १२.३२२{१९} ॥
पश्यानंद ममानेन सार्थवाहेन साधुना ।
एभी रत्नैश्च सत्कृत्य कृता पूजा स्वभक्तितः ॥ १२.३२३{२०} ॥
अनेन कुशलेनैव सार्थवाहो महासुधीः ।
क्रमाद्बोधिचरीं प्राप्य पूर्य्य पारमिता दश ॥ १२.३२४{२१} ॥
संबोधिपाक्षिकान् धर्मान् प्राप्य ब्रह्मविहारिकः ।
संबोधिं समवाप्यैवं जित्वा मारगणानपि ॥ १२.३२५{२२} ॥
बुद्धो रत्नोत्तमो नाम सर्वज्ञोऽर्हं तथागतः ।
धर्मराजो जगंनाथो लोके शास्ता भविष्यति ॥ १२.३२६{२३} ॥
तदनुमोदनां कृत्वा सद्धर्मं भजतादरात् ।
धर्मेणैव जगज्जित्वा मारचर्याविनिर्गतः ॥ १२.३२७{२४} ॥
भद्रचरी समासाद्य संबोधिपदमाप्नुयात् ।
धर्निओ हि जगतां मित्रमिहामुत्र समन्ततः ॥ १२.३२८{२५} ॥
हितकारी सुहृदिष्टः सर्वदापि सहानुगः ।
तस्माद्धर्मं समाधाय संचरध्वं समाहितः ॥ १२.३२९{२६} ॥
तेन वा मंगलं नित्यं सर्वभावी भवेद्ध्रुवम् ॥ १२.३३०{२७} ॥
इति शास्त्रा समादिष्टं श्रुत्वानंदः सपार्षदः ।
तथेति मोदितस्तं च गुरुं नत्वा स नंदतः ॥ १२.३३१{२८} ॥
सोऽपि सार्थपतिश्चैव स्वकं व्याकरणं किल ।
मुनीन्द्रेण समादिष्टं श्रुत्वातीवाभ्यनंदतत् ॥ १२.३३२{२९} ॥
ततश्चाभिप्रसन्नात्मा समुत्थाय कृतांजलिः ।
भगवंतं ससंघं तं प्रणत्वैवं व्यतिज्ञपत् ॥ १२.३३३{३०} ॥
नमस्ते भगवन्नाथ सर्वधर्माधिपेश्वरः ।
(र्म् १६६)
भवतां शरणं कृत्वा भवाम्यहमुपासकः ॥ १२.३३४{३१} ॥
यन्मया प्रकृतं पापं कारितं चानुमोदितम् ।
तत्सर्वं देशयिष्यामि तन्मे देहि शुभां चरिम् ॥ १२.३३५{३२} ॥
बोधौ चित्तं समाधाय त्रिरत्नं समुपाश्रये ।
क्षमस्व मेऽपराधत्वं तन्मां रक्ष मुदा तथा ॥ १२.३३६{३३} ॥
एवं तेनार्थितं श्रुत्वा स संबुद्धोऽभ्यधात्पुनः ।
यथा तेऽभिहितं साधो तथा संसेत्स्यते ध्रुवम् ॥ १२.३३७{३४} ॥
तस्माच्चित्तं समाधाय त्रिरत्नशरणं गतः ।
सर्वसत्वहितं कृत्वा बोधिचर्यां समाचर ॥ १२.३३८{३५} ॥
ततस्त्वं क्रमतो ह्येवं पूर्य पारमिता द्रुतम् ।
बोधिसत्वो महासत्वो भवेद्बोधिमवाप्नुयात् ॥ १२.३३९{३६} ॥
एतत्सत्यं परिज्ञाय सद्धर्मं संप्रसाधय ।
तेन ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ॥ १२.३४०{३७} ॥
जयोऽस्तु ते सदा बोधौ सिद्ध्यतु प्रणिहितं द्रुतम् ।
चिरं जीवं हितं लोके धर्मं धृत्वा सुखं वस ॥ १२.३४१{३८} ॥
इत्यसौ भगवान् बुद्धस्तस्मै दत्वाशिषं शुभाम् ।
संघैः सह समुत्थाय स्वं विहारं ययौ ततः ॥ १२.३४२{३९} ॥
अथ सार्थपतिश्चासौ सदारः संप्रमोदितः ।
त्रिरत्नशरणं कृत्वा सद्धर्मेषु सदाचरत् ॥ १२.३४३{४०} ॥
तथा सर्वेऽपि सत्वाश्च श्रुत्वा तस्य प्रवृत्तिताम् ।
बोधिचित्तं समाधाय त्रिरत्नशरणं ययुः ॥ १२.३४४{४१} ॥
एतत्मे गुरुणाख्यातं संश्रुतं यथा मया ।
तथात्रैवं तव प्रीत्या कथ्यते संप्रबुध्यताम् ॥ १२.३४५{४२} ॥
तथा राजन् त्वयाप्येवं स्वयं धृत्वा वृषं शुभे ।
बोधयित्वा प्रजाश्चापि स्थापनीयाः सदा शुभे ॥ १२.३४६{४३} ॥
एवं चेत्ते सदाप्येवं सर्वत्रापि सुमंगलम् ।
भवेन्नूनं महाराजन् सत्यमेतन्न संशयः ।
धर्मेण निर्जितं पापं धर्मेण जीयते कुधीः ।
धर्मेण निर्जिता मारा धर्मेण बोधिमाप्नुयात् ।
तस्माद्बोधिपदं प्राप्तुं यदीच्छथ नराधिपः ।
बोधिचित्तं समाधाय सदा रत्नत्रयं भज ।
तथा तं क्रमणो राज बोधिचर्य्याहिताय च ।
सर्वमारगणां जित्वा संबोधिमाप्नुया ध्रुवम् ।
एतत्तेनोपगुप्तेन गुरुणादिष्टं समादरात् ।
(र्म् १६७)
श्रुत्वा राजो तथेत्येवं प्रत्यनन्दन् सपार्षदः ।
ये शृण्वन्तीदमेवं प्रणिहितमनसः सार्थवाहावदानम् ।
ये चापि श्रावयन्ति प्रमुदितमनसः सर्वलोकहितार्थम् ।
ते सर्वे बोधिसत्वा विजितकलिमलो बुद्धधर्मानुरक्ताः ।
संभुक्त्वा सत्सुखानि प्रथितगुणयुता बुद्धक्षेत्रे प्रयान्ति ।
++ इति श्रीरत्नमालावदानकथायां सार्थवाहोऽवदानं नाम द्वादश ++
(र्म् १६८)
xइइइ वडिकावदान
ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ।
यः श्रीमाञ्छ्रीघनो लोके सद्धर्मैः समुपादिशत् ।
शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ १३.१{१} ॥
अवदानतत्वं वक्ष्यामि नत्वा तं श्रीघनं गुरुम् ।
पुराभूत्पाटलीपुत्रे नगरे स्वर्गसन्निभे ॥ १३.२{२} ॥
अशोको नृपराजेन्द्रस्त्रिरत्नसेवकः कृती ।
एकस्मिन् समये तत्र स राजा स्वजनैः सह ॥ १३.३{३} ॥
पौरिकैश्च सभां कृत्वा सद्धर्मं श्रोतुमैच्छत ।
तदा स सौगतो भिक्षुरुपगुप्तो जिनांशजः ॥ १३.४{४} ॥
लोकान् धर्मोत्सुकान् दृष्ट्वा समाधेः सहसोत्थितः ।
तत्सभायां समाक्रम्य सिंहासने शुभासने ॥ १३.५{५} ॥
भासयंस्तत्सभालोकांस्तस्थौ पूर्णसुधांशुवत् ।
अथाशोको महीपालः स मंत्रिपौरिकैः सह ॥ १३.६{६} ॥
पूजाङ्गैः पूजयित्वा तमुपगुप्तमवन्दत ।
स्थित्वा भूमौ स्वजानुभ्यामुत्तरासङ्गमुद्वहन् ॥ १३.७{७} ॥
कृताञ्जलिः पुटो नत्वा पुनरेवमभाषत ।
भदन्त श्रोतुमिच्छामि सद्धर्मं सुखसंप्रदम् ॥ १३.८{८} ॥
यथोक्तं श्रीमुनीन्द्रेण तथा देष्टुं च मेऽर्हति ।
एवं तेन महीन्द्रेण प्रार्थिते स यतीश्वरः ॥ १३.९{९} ॥
उपगुप्तो नरेन्द्रं तं समामन्त्र्यैवमब्रवीत् ।
साधु सुष्ठु महाराज शृणु सद्धर्ममादरात् ॥ १३.१०{१०} ॥
यथा मे गुरुणा ख्यातं तथा वक्ष्यामि ते हिते ।
पुरा स भगवान् बुद्धः शक्यसिंहो शुभाकरः ॥ १३.११{११} ॥
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ।
सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः ॥ १३.१२{१२} ॥
मारजिल्लोकविन्नाथो विनायकस्तथागतः ।
श्रावस्त्यां जेतकारण्ये महोद्याने मनोरमे ॥ १३.१३{१३} ॥
अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः ।
नानावृक्षसमाकीर्णे नानापुष्पप्रशोभितैः ॥ १३.१४{१४} ॥
नानाफलभरानम्रैः कल्पवृक्षसमानिकैः ।
अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पालादिभिः ॥ १३.१५{१५} ॥
सुपुष्पैः परिपूर्णाभिः पुष्करिणीभिराश्रिते ।
नानाजन्तुगुणैश्चापि मिथः स्नेहानुवन्धितैः ॥ १३.१६{१६} ॥
नानापक्षिगणैश्चापि संहर्षैरुपसेविते ।
तस्मिं दिव्यमनोरम्ये मुनिसंघनिषेविते ॥ १३.१७{१७} ॥
पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते ।
श्रावकैर्भिक्षुभिः सार्द्धं बोधिसत्वैरुपासकैः ॥ १३.१८{१८} ॥
सर्वसत्वहितार्थेन तस्थौ धर्म्मं प्रकाशितुम् ।
(र्म् १६९)
एवं तत्र सभासीनं संबुद्धं धर्मभाषिणम् ॥ १३.१९{१९} ॥
दृष्ट्वा धर्मामृतं पातुं सर्वलोकाः समाययुः ॥ १३.२०{१९!} ॥
दैवा दैत्याश्च सिद्धाश्च यक्षगंधर्वकिन्नराः ।
ग्रहा विद्याधराः साध्या नागेंद्रा गरुडा अपि ॥ १३.२१{२०} ॥
सर्वेऽपि लोकपालाश्च मुनयश्च महर्षयः ।
यतयो योगिनश्चापि तीर्थिकाश्च तपश्विनः ॥ १३.२२{२१} ॥
ब्राह्मणाः क्षत्रियाश्चापि वैश्याः शूद्राश्च मंत्रिणः ।
अमात्याः कोट्टवाराश्च सार्थवाहा महाजनाः ॥ १३.२३{२२} ॥
शिल्पिनो वणिजश्चापि गृहस्थाः पौरिका जनाः ।
तथा जानपदाश्चापि ग्राम्याः कार्पटिका अपि ॥ १३.२४{२३} ॥
एवमन्येऽपि सत्वाश्च सर्वजातिसमुद्भवाः ।
पूजापंचोपहाराणि गृहीत्वा भक्तिमानसा ॥ १३.२५{२४} ॥
सद्धर्मं श्रद्धया श्रोतुमनुमोद्य समाययुः ।
तत्र सर्वे प्रविष्टास्ते दृष्ट्वा तं सुगतं जिनम् ॥ १३.२६{२५} ॥
वन्दित्वानन्दिताः सर्वे पूजां चक्रुर्यथाक्रमम् ॥ १३.२७{२६!} ॥
ततो नत्वा समासीनाः परिवृत्य प्रमोदिताः ।
धर्म्मं श्रोतुं पुरस्कृत्य तस्थुः साञ्जलयो मुदा ॥ १३.२८{२७} ॥
अथ स भगवान् दृष्ट्वा तांल्लोकान् धर्मवाञ्छिनः ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १३.२९{२८} ॥
एवं स भगवान्नित्यं सर्वसत्वहितार्थिकः ।
धर्मं प्रकाशयं लोके तस्थौ दीप्तांशुमानिव ॥ १३.३०{२९} ॥
तस्मिन्नवसरे तत्र श्रावस्त्यां पुरिसंभवः ।
आढ्यः श्रेष्ठी महाभोगः सुविस्तीर्णपरिग्रहः ॥ १३.३१{३०} ॥
श्राद्धो भद्राशयो धीरः सर्वलोकसुहृत्प्रियः ।
तीर्थिकसेवको मानी वभूव श्रीमदान्वितः ॥ १३.३२{३१} ॥
तदा स सुन्दरीभार्यां कुलधर्मसमानिकाम् ।
आदाय रतिसंरक्तो रेमे नित्यं यथासुखम् ॥ १३.३३{३२} ॥
तस्यैवं रममाणस्य भार्या साभूत्सुगर्भिणी ।
ततः प्रवृद्धगर्भा सा पाण्डुवर्णा व्यराजत ॥ १३.३४{३३} ॥
ततः सा गर्भसंजातं पुत्रं तस्यामुपाश्रितम् ।
पुत्रं मत्वाभिनंदंती भर्त्तारमेवमब्रवीत् ॥ १३.३५{३४} ॥
स्वामिन् गर्भे प्रजातो मे यत्कुक्षौ दक्षिणाश्रितः ।
दारकोऽयं भवेत्पुत्रः नूनं तस्मात्प्रमोदय ॥ १३.३६{३५} ॥
इति भार्योदितं श्रुत्वा स गृहस्थः प्रहर्षितः ।
गर्भे स व्याश्रितं दृष्ट्वा मुदैवं समुदानयत् ॥ १३.३७{३६} ॥
वत मे जायते पुत्रस्तदहं भाग्यवान् भवे ।
पुत्रमुखं हि पश्येयं वंशस्थितिर्भवेदपि ॥ १३.३८{३७} ॥
यन्मम विद्यते पुण्यं दानशीलादिसंचितम् ।
तेनानयोर्द्वयोरस्तु जननीपुत्रयोः शिवम् ॥ १३.३९{३८} ॥
एवं प्रोक्त्वा गृहस्थः स श्रद्धया संप्रमोदितः ।
भिक्ष्वर्थिब्राह्मणेभ्यश्च ददौ दानं यथेप्सितम् ॥ १३.४०{३९} ॥
(र्म् १७०)
कुलेष्टदेवताश्चापि समभ्यर्च्य यथाविधि ।
तच्छुभं प्रार्थयन्नित्यं तस्थौ पुत्रसमुत्सुकः ॥ १३.४१{४०} ॥
ततः सा भद्रिका नारी पथ्योपचारभोगिनी ।
असूत समये पुत्रं सुंदरं लक्षणान्वितम् ॥ १३.४२{४१} ॥
ततः स जनकः श्रुत्वा संप्रजातं सुतं मुदा ।
सहसा समुपास्रित्य ददर्श तं ससुंदरम् ॥ १३.४३{४२} ॥
दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरम् ।
दृष्ट्वापि सुचिरं पश्यन्नेव तस्थावतृप्तितः ॥ १३.४४{४३} ॥
ततो जातिमहं कृत्वा तस्य पित्रा प्रसादिना ।
वडिक इति नाम्ना प्रख्यापितोऽभूत्स दारकः ॥ १३.४५{४५!} ॥
ततः स वालकोऽष्टाभ्यो धात्रीभ्यः प्रतिपालने ।
मानयित्वानुसंभाष्य पित्रा समर्पितोऽभवत् ॥ १३.४६{४६} ॥
तथा स वडिको वालोऽष्टाभिर्धात्रीभिरादरात् ।
पाल्यमानः प्रवृद्धोऽभूथ्रदस्थमिव पंकजम् ॥ १३.४७{४७} ॥
यदा स दारकः पंचवर्षितोऽभून्मदान्वितः ।
तदा विद्योपलब्धार्थी लिपिशालामुपाविशत् ॥ १३.४८{४८} ॥
तत्र स सद्गुरुं नत्वा क्रमाल्लिपीन्मुदाग्रहीत् ।
गुरुभक्तिप्रसादेन लिपिपारं ययौ लघु ॥ १३.४९{४९} ॥
ततः स गुरुभिः सम्यच्छिष्यमाणः सुबुद्धिमान् ।
अधीत्य सर्वशास्त्राणि विद्यापारं ययौ लघु ॥ १३.५०{५०} ॥
तदा तद्वडिकस्यापि पूर्वकर्मविपाकतः ।
देहे कस्मात्समुत्पन्नो महाव्याधिः पराक्रमत् ॥ १३.५१{५१} ॥
तदा स व्याधिना तेन पीड्यमानोऽभिमूर्छितः ।
असह्यवेदनाक्रान्तो विरुराव दिवानिशम् ॥ १३.५२{५२} ॥
तथा तं व्याधिनाघ्रातमसह्यवेदनातुरम् ।
क्रन्दन्तं स पिता दृष्ट्वा कृपयैवं व्यचिंतयत् ॥ १३.५३{५३} ॥
हा मे दैवविरुद्धेन पुत्रोऽयं व्याधिमूर्छितः ।
असह्यवेदनाक्रान्तो भोक्तुमपि न वाञ्छति ॥ १३.५४{५४} ॥
अवश्यं मरणं यायात्कथं जीवेदभुक्तवान् ।
मृते पुत्रे मरिष्येऽहं स्नेहदुःखं कथं सहे ॥ १३.५५{५५} ॥
इति चिन्ताव्यथाक्रान्तो भोग्येऽपि विरतोत्सवः ।
तमेव स्वात्मजं पश्यंस्तस्थौ स्नेहाभिवन्धितः ॥ १३.५६{५६} ॥
मातापि तं सुतं दृष्ट्वा स्नेहदुःखाग्नितापिता ।
(र्म् १७१)
मृत्युशंका परित्रस्ता रुदन्ती समुपाचरत् ॥ १३.५७{५७} ॥
तदा तस्य सुहृन्मित्रवांधवाः समुपागताः ।
सर्वे ते रोगिणं दृष्ट्वा स्नेहार्त्ता एवमब्रुवन् ॥ १३.५८{५८} ॥
किं भो स्वस्थं न ते देहे भोक्तुं किं वा न वाञ्छसि ।
भुंक्ष्व यथेप्सितं पथ्यं तिष्ठ धैर्यं समाश्रयन् ॥ १३.५९{५९} ॥
इति प्रोक्तेऽपि तैः सर्वैः स वडिको ज्वरान्वितः ।
दृष्ट्वैव तान्मुहुः पश्यन्नैव किञ्चिदभाषत ॥ १३.६०{६०} ॥
ततः सर्वेऽपि ते दृष्ट्वा तं वडिकं रुजातुरम् ।
मृत्युशंकाविषादिग्धं पितरं तं तथावदन् ॥ १३.६१{६१} ॥
साधोऽस्य वर्द्धते रोगस्तद्रोगव्युपाशान्तये ।
सहसा वैद्यमाहूय दर्शयस्व समाहितः ॥ १३.६२{६२} ॥
उपदिष्टं यथा तेन वैद्येन सुधिया तथा ।
परिचर्य्यां समाधाय कुरूपचारमादरात् ॥ १३.६३{६३} ॥
तथा पथ्योपचारेण सिद्धौषध्यसहैरपि ।
क्रमादस्य शरीरस्थो रोगः शान्तिं व्रजेद्ध्रुवम् ॥ १३.६४{६४} ॥
ततस्तेऽयं सुतो भद्रः परिपुष्टतनुःकृती ।
स्वकुलधर्ममाधाय सुखं जीवेच्छुभे चरन् ॥ १३.६५{६५} ॥
इति मत्वा महाभाग मा कृथास्तद्विषादनम् ।
धैर्यमालम्व्य देवांश्च स्मृत्वा भुक्त्वा सुखं वस ॥ १३.६६{६६} ॥
इत्येवं समुपादिश्य तद्गृहस्थात्समुत्थिताः ।
सर्वे ते स्नेहदुःखार्त्ताः स्वस्वगेहमुपाचरत् ॥ १३.६७{६७} ॥
ततः स गृहभृत्तस्य पुत्रस्य रोगशांतये ।
सद्वैद्यं समुपाहूय सादरं समदर्शयत् ॥ १३.६८{६८} ॥
तस्य रोगनिमित्तं स वैद्यो दृष्ट्वा समीक्ष्य च ।
पथ्यौषध्युपचारेण समाहित उपाचरत् ॥ १३.६९{६९} ॥
तथापि तस्य तद्रोगः परिवृद्धो दिने दिने ।
केनापि ह्युपचारेण नैव शान्तिमुपाययौ ॥ १३.७०{७०} ॥
तद्रोगं वर्द्धितं दृष्ट्वा जनकः स विषादितः ।
भूतिकं सहसाहूय रोगहेतुमपृच्छत ॥ १३.७१{७१} ॥
ततः स भूतिको दृष्ट्वा तस्य रोगप्रशान्तये ।
स भूतदेवताभ्यश्च वलिं प्रादाद्यथाविधि ॥ १३.७२{७२} ॥
तथापि वृंहितो रोगस्तस्य कर्मविपाकतः ।
किञ्चिदपि विशेषेण नैव शान्तिमुपाययौ ॥ १३.७३{७३} ॥
ततः स जनको दृष्ट्वा तद्रोगं परिवर्द्धितम् ।
आयुर्विदमुपामंत्र्य रोगहेतुमपृच्छत ॥ १३.७४{७४} ॥
(र्म् १७२)
स अयुर्विदको दृष्ट्वा तस्य ग्रहदशाफलम् ।
कुदशाव्युपशान्त्यर्थं ग्रहपूजामुपादिशत् ॥ १३.७५{७५} ॥
तथा स जनकस्तस्य रोगिणो ग्रहशान्तये ।
ब्राह्मणं समुपामन्त्र्य ग्रहपूजामकारयत् ॥ १३.७६{७६} ॥
तथापि तस्य तद्रोगो वर्द्धितो न शमं ययौ ।
दैवेन समुपाघ्राते तदुपाये न सिद्ध्यते ॥ १३.७७{७७} ॥
तथा स जनकस्तस्य पुत्रस्य रोगवृद्धितम् ।
दृष्ट्वा निराशया भिन्नचित्तो मूर्च्छामुपाययौ ॥ १३.७८{७८} ॥
तदा सा सुप्रिया भार्या भर्त्तारं तं विमोहितम् ।
दृष्ट्वैव समुपागृह्य समाश्वास्यैवमब्रवीत् ॥ १३.७९{७९} ॥
स्वामिन् धैर्य्यं समालम्ब्य त्यज चित्ते विमोहताम् ।
किमस्माकं प्रयत्नेन दैवस्यात्र प्रमाणिके ॥ १३.८०{८०} ॥
सर्वथा भाविनो भावाः फलंति सर्वजीविनाम् ।
यदभावि न तद्भावि भावि चेन्न तदन्यथा ॥ १३.८१{८१} ॥
तस्माद्दैवप्रसादाय स्वकुलेशेष्टदेवताः ।
अनुस्मृत्य समाराध्य याचस्व पुत्रजीवितम् ॥ १३.८२{८२} ॥
इति भार्योदितं श्रुत्वा स गृहस्थोऽनुमोदितः ।
कुलदेवं समभ्यर्च्य प्रार्थयदेवमादरात् ॥ १३.८३{८३} ॥
प्रसीद मे कुलेश त्वं क्षमस्व ह्यपराधताम् ।
तवैव शरणस्थोऽहं तन्मे पुत्रं प्ररक्षताम् ॥ १३.८४{८४} ॥
एवं तेन गृहस्थेन प्रार्थितेऽपि दिवानिशम् ।
तस्य रोगो विवृद्धोऽभून्नैव शाम्यमुपाक्रमत् ॥ १३.८५{८५} ॥
तथा ब्रह्मादिदेवांश्च सर्वान् लोकाधिपानपि ।
विहारमण्डपारामक्षेत्रारण्यसमाश्रितान् ॥ १३.८६{८६} ॥
नदीकूपतडागादिजलाश्रयप्रतिस्थितान् ।
बलिभोक्तॄन् कलंकस्थान्मार्गशृङ्गाटकाश्रितान् ॥ १३.८७{८७} ॥
एवमन्यत्र सर्वत्र प्रतिस्थितान् समर्चयन् ।
पुत्रस्यारोग्यकौशल्यं जीवितं स समर्थयन् ॥ १३.८८{८८} ॥
तथापि तस्य रोगो न शमितोऽभूत्प्रवर्द्धितः ।
ततस्तं जनको दृष्ट्वा निराशा मूर्छितोऽपतत् ॥ १३.८९{८९} ॥
तदा स वडिको रोगी पितरं तं विमूर्छितम् ।
पृथिव्यां पतितं दृष्ट्वा शनैर्नीचस्वरोऽवदत् ॥ १३.९०{९०} ॥
हा हा मे जावते पापं येनायं पतितः पिता ।
(र्म् १७३)
स्नेहदुःखाग्निसंतप्तः पुत्रतो मरणं व्रजेत् ॥ १३.९१{९१} ॥
हा तातोत्तिष्ठ मां पश्य मा त्यजात्मजमातुरम् ।
धैर्य्यमालम्व्य संधाय रक्ष मां समुपस्थितः ॥ १३.९२{९२} ॥
इत्यसौ विलपन् पुत्रः पितरं तं विमूर्छितम् ।
दृष्ट्वा भोजनकेत्यश्रु मुञ्चंस्तस्थौ निराश्रितः ॥ १३.९३{९३} ॥
तदा सा सुप्रिया भार्य्या भर्त्तारं तं विमूर्छितम् ।
दृष्ट्वैव सहसालिंग्य समुत्थाप्यैवमब्रवीत् ॥ १३.९४{९४} ॥
स्वामिन् धैर्यं समालंब्य पश्य मां ते प्रियं सतीम् ।
त्यक्त्वा दैन्यं समाधाय पश्यन् रक्षात्मकं प्रियम् ॥ १३.९५{९५} ॥
इति भार्योदितं श्रुत्वा स गृहस्थो समुत्थितः ।
दृष्ट्वा तां सुप्रियां भार्यां पुत्रं चैवमभाषत ॥ १३.९६{९६} ॥
हा दैव किं मया पापं प्रकृतं दारुणं पुरा ।
येनायं सुकृती पुत्रः त्यक्त्वा मां क्व प्रयास्यति ॥ १३.९७{९७} ॥
हा हा मे संपदश्चैताः समृद्धाः समुपार्जिताः ।
को नु भोक्ता भवेदासां व्यर्थं नक्ष्यन्ति सर्वशः ॥ १३.९८{९८} ॥
किमत्राहं करिष्यामि यास्यामि शरणं च कम् ।
को नु मां सहसा रक्षेद्दत्वा पुत्रस्य जीवितम् ॥ १३.९९{९९} ॥
किमत्रास्य रुजः शान्त्यै करिष्यामि प्रतिक्रियाम् ।
न जाने परिमूढोऽस्मि चेतना मे न विद्यते ॥ १३.१००{१००} ॥
इति चिन्तापरीतात्मा पुत्रस्नेहविमोहितः ।
कारुणाकुलचित्तोऽपि पुनरेवं व्यचिन्तयत् ॥ १३.१०१{१०१} ॥
यदिमे तीर्थिका विज्ञा भगवन्तो विचक्षणाः ।
सर्वज्ञाः सद्गुणाधाराः शास्तारो मे हितंकराः ॥ १३.१०२{१०२} ॥
तत्तान् सर्वान् समामंत्र्य गृहे भोक्ष्यैः समर्चयन् ।
इमं पुत्रं पुरः स्थाप्य दर्शयेयं शुभाप्तये ॥ १३.१०३{१०३} ॥
तत्सुदृष्टिप्रसादेन नूनमस्य भवेच्छुवम् ।
ततो हि क्रमशो रोगाः शाम्येयुः सर्वथा लघु ॥ १३.१०४{१०४} ॥
तदायमात्मजः पुष्टो न रोगी सुतनुः सुखी ।
कृती शुभरतो भोगी कुलधर्मे समाचरेत् ॥ १३.१०५{१०५} ॥
इति निश्चित्य स श्रेष्ठी तत्र तीर्थ्याश्रमे गतः ।
तान् सर्वांस्तीर्थिकान्नत्वा प्रार्थयेदेवमादरात् ॥ १३.१०६{१०६} ॥
नमो वो ब्रह्मविज्ञेभ्यो भवतां शरणं व्रजे ।
विज्ञप्यते यदर्थं तदनुग्रहीतुमर्हत ॥ १३.१०७{१०७} ॥
(र्म् १७४)
इति तेनोदितं श्रुत्वा तीर्थिकास्तेऽभिमानिकाः ।
सर्वे तं समुपामंत्र्य प्रमोदयितुमब्रुवन् ॥ १३.१०८{१०८} ॥
साधु वद महासाधो यत्ते कार्यं समीहितम् ।
तत्सर्वं सर्वथास्माभिः कृतमेवं करिष्यते ॥ १३.१०९{१०९} ॥
इति तैस्तीर्थिकैः प्रोक्ते स श्रेष्ठी संप्रसादितः ।
कृताञ्जलिपुटो नत्वा पुनरेवमभाषत ॥ १३.११०{११०} ॥
भगवन्तो महाविज्ञा भवन्तो गुरवो मम ।
तत्सर्वं प्रतिजानीत यदर्थं समुपाचरे ॥ १३.१११{१११} ॥
तथापि चार्थयिष्येऽत्र यन्मे कष्टं प्रवर्त्तते ।
तद्वो विज्ञापनं कर्तुं भवतः शरणं व्रजे ॥ १३.११२{११२} ॥
यन्मया प्रकृतं पापं तेन मे स्वात्मजाधुना ।
रोगैः संपीड्यतेऽतीवनिःस्वस्थो मरणं व्रजेत् ॥ १३.११३{११३} ॥
नानास्वस्तिविधानैर्हि तस्य रोगो न शाम्यति ।
भिषजां कृतयत्नानि न सिद्ध्यन्ति कथं चन ॥ १३.११४{११४} ॥
अनेका देवताश्चापि प्राभ्यर्च्य प्रार्थितो मया ।
तथापि शाम्यते नैव तस्य रोगो विवर्द्धितः ॥ १३.११५{११५} ॥
यथा यथा रुजाशान्तिस्वस्त्युपायकृतानि हि ।
तथा तथा न तद्रोगः प्रशाम्यति प्रवर्द्ध्यते ॥ १३.११६{११६} ॥
किमुपायं करिष्यामि केन शाम्येत तद्गदः ।
तदुपायं प्रदातव्यं येनाशु शाम्यते क्रमात् ॥ १३.११७{११७} ॥
इति विज्ञापनां कर्तुं भवतां शरणं व्रजे ।
तन्मेऽनुकम्पयासु नो रोगशान्तिर्विधीयताम् ॥ १३.११८{११८} ॥
भवन्तो मेऽनुशास्तारः सर्वज्ञा ब्रह्मचारिणः ।
तन्मे सुकृपया दृष्ट्या परित्रातुं समर्हत ॥ १३.११९{११९} ॥
इति तेनार्थितं श्रुत्वा सर्वे ते तीर्थिका अपि ।
श्रेष्ठिनं तं समामंत्र्य पुनरेवं समब्रुवन् ॥ १३.१२०{१२०} ॥
शृणु साधो यदस्माभिर्हितार्थं ते प्रचक्ष्यताम् ।
तत्सत्यं नः परिज्ञाय प्रमाणीक्रियतां किल ॥ १३.१२१{१२१} ॥
वयं हि सर्वलोकानां शास्तारो हितसाधकाः ।
तस्मादत्र विषादत्वं मा कृथा धैर्यमाश्रय ॥ १३.१२२{१२२} ॥
अद्यैव सहसा गत्वा वयं दृष्ट्वा तवात्मजम् ।
निःपापं नीरुजं स्वास्थ्यं करिष्यामः सुजीवितम् ॥ १३.१२३{१२३} ॥
अप्येतद्वचनं सत्यं श्रुत्वा दृष्ट्वा प्रमाणय ।
(र्म् १७५)
अन्यथा न भवेत्क्वापि ह्यस्माकं ब्रह्मचारिणाम् ॥ १३.१२४{१२४} ॥
इति तैस्तीर्थिकैः प्रोक्तं श्रुत्वा स गृहसत्तमः ।
तथेति प्रतिहर्षित्वा नत्वा तान् स्वगृहं ययौ ॥ १३.१२५{१२५} ॥
तत्र स गृह आसाद्य दासिदासजनैः सह ।
तदर्हभोज्यपूजाङ्गसामग्रीं समसाधयत् ॥ १३.१२६{१२६} ॥
तस्मिन्नेव क्षणे तत्र सर्वे ते तीर्थिका मुदा ।
सहसा समुपागत्य स्वस्वासने उपाविशत् ॥ १३.१२७{१२७} ॥
तथा तान् समुपासीनान् दृष्ट्वा श्रेष्ठी स मोदितः ।
पूजाङ्गैः क्रमतोऽभ्यर्च्य भोजनैः समतोषयत् ॥ १३.१२८{१२८} ॥
ततश्च भोजनान्ते स वडिकं तं प्रियात्मजम् ।
रोगिणं समुपाहृत्य तेषां पुरोऽभ्यदर्शयत् ॥ १३.१२९{१२९} ॥
ते सर्वे तीर्थिका दृष्ट्वा वडिकं तं रुजान्वितम् ।
तदामयनिमित्तं च निरीक्ष्यैवमुपादिशत् ॥ १३.१३०{१३०} ॥
अहो ह्यस्य महारोगं महापातकसंभवम् ।
तत्पातकविमुक्त्यै तु दातव्यं दानमादरात् ॥ १३.१३१{१३१} ॥
तद्यथा नवरत्नानि हेमलक्षपलानि च ।
श्रद्धया ब्रह्मचारिभ्यः संप्रदद्यात्समर्चयन् ॥ १३.१३२{१३२} ॥
यद्येतद्दीयते दानं त्वया गृहपते तथा ।
भग्नकुष्माण्डदरिनमहिषीशतदक्षिणा ॥ १३.१३३{१३३} ॥
पुरा दत्ता नंदराज्ञा अस्माकं ब्रह्मचारिणाम् ।
पादस्फोटामयस्तस्य शांतोऽभूत्तत्प्रभावतः ॥ १३.१३४{१३४} ॥
तथास्य सर्वपापानि विनक्ष्यन्ति न संशयः ।
ततः सर्वेऽपि रोगाश्च विनक्ष्यन्ति क्रमाद्द्रुतम् ॥ १३.१३५{१३५} ॥
ततो रोगैर्विमुक्तोऽयं कुशली स्वास्थ्यमाप्नुयात् ।
ततः पुष्टो विशुद्धाङ्गः सुशीलः सुकृती सुधीः ।
स्वकुलाचारधर्मिष्ठो वंशांश्चापि समुद्धरेत् ॥ १३.१३६{१३६} ॥
इति मत्वा त्वया साधो दातव्यं दानमादरात् ।
अन्यथा न भवेत्स्वस्ति तवास्य नंदनस्य च ॥ १३.१३७{१६७} ॥
इति तैर्गदितं श्रुत्वा स श्रेष्ठी परिबोधितः ।
तस्यात्मजस्य त्राणार्थं तथा दातुमुदाचरत् ॥ १३.१३८{[१३८]} ॥
ततः स पुनरभ्यर्च्य तान् सर्वान्स्तीर्थिकान् पतीन् ।
प्रददौ नवरत्नानि स्वर्णलक्षपलानि च ॥ १३.१३९{१३९} ॥
ततस्ते तीर्थिकाः सर्वे दृष्ट्वा तानि प्रमोदिताः ।
सर्वान्यपि प्रतिगृह्य तथाशीर्वचनं ददुः ॥ १३.१४०{१४०} ॥
स्वस्त्यस्तु ते सदा साधो कल्याणमस्तु सर्वथा ।
(र्म् १७६)
नीरोगी सुचिरं जीव्या जयोऽस्तु ते समन्ततः ॥ १३.१४१{१४१} ॥
एतदेव समादिश्य सर्वे ते तीर्थिकास्ततः ।
तानि सर्वाणि वस्तूनि प्रतिगृह्याश्रमं ययुः ॥ १३.१४२{१४२} ॥
तथापि तस्य रोगा न शमिता वर्द्धिताः क्रमात् ।
स्वदैवफलभोग्यानि भोक्तव्यानि हि सर्वथा ॥ १३.१४३{१४३} ॥
ततस्तज्जनको दृष्ट्वा स्वात्मजं तं रुजातुरम् ।
निराशामूर्छितो भूमौ निपतं व्यलपत्तथा ॥ १३.१४४{१४४} ॥
हा दैव किं मया पापं दारुणं प्रकृतं पुरा ।
यतोऽयं स्वात्मजः पुत्रः पुरो मे मरणं व्रजेत् ॥ १३.१४५{१४५} ॥
कृतान्युपाययत्नानि दानानि विविधानि च ।
सर्वाण्येतानि मत्पापैर्निस्फलानि भवन्ति हि ॥ १३.१४६{१४६} ॥
किं मयात्रापि कर्त्तव्यं कोऽत्र मे हितमादिशेत् ।
सर्वथाहं विनष्टोऽस्मि कोऽपि त्राता न विद्यते ॥ १३.१४७{१४७} ॥
कस्यात्र शरणं यास्ये को नो रक्षेद्दयादृशा ।
सर्वे वयं विनष्टास्म हा दैव शरणं व्रजे ॥ १३.१४८{१४८} ॥
इत्येवं विलपंतं तं जनकं वडिकोऽपि सः ।
दृष्ट्वा शनैः समाहूय पुर एवमभाषत ॥ १३.१४९{१४९} ॥
भो तात किं त्वयात्रापि कर्त्तव्यं हि मयापि च ।
सर्वेषामपि जन्तूनां दैवगतिः प्रमाणिका ॥ १३.१५०{१५०} ॥
इति मत्वा विषादत्वं हृदये मा कृथास्त्यज ।
संबुद्धशरणं कृत्वा भज नित्यमनुस्मरन् ॥ १३.१५१{१५१} ॥
बुद्ध एव जगच्छास्ता त्राता लोकहितंकरः ।
दुर्गतितारको नाथो भर्त्ता सद्गतिनायकः ॥ १३.१५२{१५२} ॥
तदेवं सुगतं स्मृत्वा सद्धर्मं समुपाश्रयन् ।
संघानां भजनं कृत्वा चिनु पुण्यं समाहितः ॥ १३.१५३{१५३} ॥
त्रिरत्ने साधितं पुण्यं न क्षिणुयात्कदा चन ।
यदि दैवाद्विपत्तिः स्यात्पुण्यं तु लभते वरम् ॥ १३.१५४{१५४} ॥
पुण्येन रक्ष्यते लोकः पुण्येन सद्गतिं व्रजेत् ।
तस्मात्पुण्यं महारत्नं चिनु धैर्यं समाश्रयन् ॥ १३.१५५{१५५} ॥
अवश्यमरणे लोके किं विषादेन सिद्ध्यते ।
इति मत्वापि तं बुद्धं स्मृत्वा भज समाहितः ॥ १३.१५६{१५६} ॥
तथाहं वा तमेवात्र संबुद्धं शरणं व्रजन् ।
संस्मृत्वा भजनं कुर्वन् व्रजेय मरणं ध्रुवम् ॥ १३.१५७{१५७} ॥
यदि तस्य जिनेन्द्रस्य कृपास्ति मयि पापिनि ।
(र्म् १७७)
तत्कृपादृक्प्रसादेन जीवेय नीरुजः पुनः ॥ १३.१५८{१५८} ॥
यदि दैवबलेनाहं मृते तत्स्मृतिपुण्यतः ।
सर्वथा दुर्गतिं त्यक्त्वा सद्गतिं पुनराप्नुयाम् ॥ १३.१५९{१५९} ॥
एवं ज्ञात्वा त्वया तात मा क्रियतां विषादता ।
संसारेऽवश्यं मर्त्तव्यं सर्वेषामपि जन्मिनाम् ॥ १३.१६०{१६०} ॥
इत्युक्त्वा स रुजार्त्तोऽपि वडिको धैर्य्यमाश्रयन् ।
संबुद्धं शरणं कृत्वा स्मृत्वा तस्थौ समाहितः ॥ १३.१६१{१६१} ॥
तथा स गृहभृच्छ्रेष्ठी श्रुत्वैतदात्मजोदितम् ।
सत्यमेतत्परिज्ञाय बुद्धं स्मृत्वा तथावदत् ॥ १३.१६२{१६२} ॥
नमो बुद्धाय धर्माय संघाय च सदा स्मरे ।
अद्यारभ्य सदा नित्यं भवतां शरणं व्रजे ॥ १३.१६३{१६३} ॥
यदि वोऽस्ति कृपा लोके रक्षन्तु नः सुदुःखिनः ।
सर्वथा कृपया दृष्ट्या दृष्ट्वाशु त्रातुमर्हति ॥ १३.१६४{१६४} ॥
यथान्ये त्रिभवे लोका भवद्भिः प्रतिपालिताः ।
तथास्मान् कृपया दृष्ट्वा त्रातुमर्हति सर्वथा ॥ १३.१६५{१६५} ॥
रक्षतु भगवन्नाथ जीवयेयं ममात्मजम् ।
कृपयानुग्रहं कृत्वा पुत्ररत्नं प्रयच्छ मे ॥ १३.१६६{१६६} ॥
यदि जीवेदयं पुत्रो भवद्दृष्टिप्रसादतः ।
भवतां शरणे स्थित्वा चरतु व्रतमादरात् ॥ १३.१६७{१६७} ॥
इत्येवं स्मरणं कृत्वा संबुद्धशरणं व्रजन् ।
स श्रेष्ठी तं सुतं दृष्ट्वा तस्थौ मोहविनोदितः ॥ १३.१६८{१६८} ॥
तस्मिन्नेव क्षणे लोकां त्रातुं स भगवान्मुनिः ।
संपश्यन् कृपया दृष्ट्या प्राद्राक्षीत्तान् सदुःखिनः ॥ १३.१६९{१६९} ॥
तथा तान् दुःखिनो दृष्ट्वा भगवान् स जिनेश्वरः ।
सहसा तान् परित्रातुं बुद्धरस्मिं व्यमुञ्चत ॥ १३.१७०{१७०} ॥
ताभिः कनकवर्णाभिः संबुद्धरश्मिभिस्तदा ।
समन्तात्समतिक्रम्य तद्गृहमवभासितम् ॥ १३.१७१{१७१} ॥
ततो मैत्र्यंशवश्चापि तेन भगवता पुनः ।
समुत्षृष्टास्तनौ तस्य पर्यस्पृशन् प्रसादिताः ॥ १३.१७२{१७२} ॥
ततस्तस्य तनुस्तैः संस्पृष्टमात्रे समंततः ।
प्रह्लादिता सुखप्राप्ता स्वास्थ्यतां समुपाययौ ॥ १३.१७३{१७३} ॥
ततः स वडिकः स्वास्थ्यं प्राप्य निर्मलमानसः ।
विस्मितः पितरं पश्यन् समामंत्र्यैवमब्रवीत् ॥ १३.१७४{१७४} ॥
अहो बुद्धस्य माहात्म्यमहो धर्मानुभावता ।
अहो संघप्रभावत्वं पश्य तात मुनेः प्रभाम् ॥ १३.१७५{१७५} ॥
(र्म् १७८)
यस्यानुस्मृतिमात्रेण कृपा लोके प्रसार्यते ।
धन्योऽयं भगवान् बुद्धो जयत्वेवं सदा स्थितः ॥ १३.१७६{१७६} ॥
यस्य दयानुभावेन जीवेम नीरुजः सुखी ।
पापैश्चापि विमुक्तोऽहमिति सत्यं प्रमन्यते ॥ १३.१७७{१७७} ॥
तस्मात्तमेव शास्तारं संबुद्धं शरणं व्रजे ।
यावद्भवमनुस्मृत्वा भजेय समुपाश्रितः ॥ १३.१७८{१७८} ॥
एवं बुद्धगुणान् स्मृत्वा वडिकः स प्रमोदितः ।
कृताञ्जलिः स्मरन् भूयः प्रणत्वैवमयाचत ॥ १३.१७९{१७९} ॥
नमस्ते भगवन्नाथ भवतां शरणं व्रजे ।
यावद्भवं त्रिरत्नानां भवेयं सेवकः सदा ॥ १३.१८०{१८०} ॥
इत्येवं सुगतं स्मृत्वा वडिकः सोऽभिबोधितः ।
भूयो भूयः स्मरन्नत्वा तस्थौ स्वास्थ्यत्वमागतः ॥ १३.१८१{१८१} ॥
तदा स भगवान् बुद्धो दृष्ट्वा तं शुद्धमानसम् ।
सद्धर्मं समुपादेष्टुं तद्द्वारे समुपासरत् ॥ १३.१८२{१८२} ॥
तद्द्वारसमुपासीनं तं मुनीन्द्रं रविप्रभम् ।
दृष्ट्वैव विस्मितो द्वास्थः सहसा गृहमाविशत् ॥ १३.१८३{१८३} ॥
तत्र गृहपतिं दृष्ट्वा वडिकं तं च सादरम् ।
पुरतः समुपेत्यैव व्यज्ञापयत्ससत्वरः ॥ १३.१८४{१८४} ॥
गृहपते मुनीन्द्रोऽत्र गृहद्वार उपस्थितः ।
तदत्र सहसोपेत्य समामंत्र्य प्रवेशय ॥ १३.१८५{१८५} ॥
इति तेनोदितं श्रुत्वा वडिकः स प्रसादितः ।
उत्थितः सहसोपेत्य तं मुनीन्द्रं मुदानमत् ॥ १३.१८६{१८६} ॥
नत्वा तं सुगतं गेहे प्रज्ञप्य स्वासनं मुदा ।
विज्ञप्य समुपामंत्र्य प्रवेशयंस्तथार्थयन् ॥ १३.१८७{१६७!} ॥
स्वागतं भगवन् वांछे भवतां शरणं मुने ।
प्रविशतु जगन्नाथ विजयस्वासने शुभे ॥ १३.१८८{१६८} ॥
इति तेनोदिते बुद्धो भगवान् स समाविशन् ।
स्वासने समुपासीनो वडिकं तं तथावदत् ॥ १३.१८९{१६९१} ॥
किं ते वडिक दुःखत्वं वाधकश्च कथं वद ।
इति भगवता पृष्टो वडिकः स तथावदत् ॥ १३.१९०{१९०} ॥
कायिकं जायते दुःखं चेतसिकं च मे मुने ।
तद्भवान् कृपया दृष्ट्या शमयेत्तत्प्रबाधनम् ॥ १३.१९१{१९१} ॥
इति तद्विज्ञापितं श्रुत्वा भगवान् स मुनीश्वरः ।
(र्म् १७९)
तच्चित्तदुःखशान्त्यर्थं मैत्रीधर्ममुपादिशत् ॥ १३.१९२{१९२} ॥
वडिकात्र सदा लोके मैत्रचित्तं समाचर ।
अनेन ते मनोदाहं प्रशाम्येत सदापि हि ॥ १३.१९३{१९३} ॥
इत्यादिश्य मुनीन्द्रः स पुनरेवं व्यचिंतयत् ।
वतेन्द्रक्षीरिकां नाम महौषधां समानयेत् ॥ १३.१९४{१९४} ॥
इति चित्तमतं शास्तुः परिज्ञाय सुराधिपः ।
आदाय क्षीरिकां नाम महौषधीमुपानयत् ॥ १३.१९५{१९५} ॥
तत्र सो सुरराजस्तं भगवन्तं प्रणम्य ताम् ।
महौषधीमुपस्थाप्य पुर एवं समब्रवीत् ॥ १३.१९६{१९६} ॥
भगवन् प्रतिगृह्णातु दिव्यौषधीमिमां भवान् ।
अनयात्र यथाकार्यं साधयतु सुखाप्तये ॥ १३.१९७{१९७} ॥
इत्युक्ते तेन शक्रेण दृष्ट्वा तां भगवान्मुनिः ।
गृहीत्वा वडिकायैवं प्रदत्वा चैवमादिशत् ॥ १३.१९८{१९८} ॥
गृहाण वडिकेमां ते कायिकदुःखशामिनीम् ।
अनया ते शरीरे संस्क्रियतामुपचारणैः ॥ १३.१९९{१९९} ॥
इत्यादिष्टे मुनीन्द्रेण वडिकः सोऽनुमोदितः ।
तथेति तां समादाय यथादिष्टमुपाचरत् ॥ १३.२००{२००} ॥
ततस्तस्य तनू रोगैर्विमुक्ता परिपुष्टिता ।
क्रमेण शाम्यसौन्दर्यं प्राप्याभिपर्यशोभत ॥ १३.२०१{२०१} ॥
ततः शास्त्रा यथादिष्टं वडिकेन तथा हृदि ।
मैत्री प्रभाविता लोके स्वात्मजे सुप्रिये यथा ॥ १३.२०२{२०२} ॥
तदा तस्य महद्दुःखं चेतसिकं शशाम तत् ।
महामैत्र्या परिषिक्ते हृदयेऽग्निरिवाम्बुभिः ॥ १३.२०३{१०३!} ॥
ततः स वडिकः स्वस्थः परिशुद्धेन्द्रियः सुधीः ।
भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥ १३.२०४{१०४} ॥
वन्देऽहं भवतां पादौ सर्वदा शरणं व्रजे ।
तथा च सर्वदा नाथ कृपया त्रातुमर्हति ॥ १३.२०५{१०५} ॥
यद्येवं भवतां शास्तः कृपादृष्टिर्न विद्यते ।
मृतोऽहं नरकेऽद्यापि गतो दुःखान्यवाप्नुयाम् ॥ १३.२०६{१०६} ॥
यदेवं स्वस्थितो जीवे तत्ते कृपाम्बुभावतः ।
तथा मेऽनुग्रहं कर्तुं नित्यमर्हति सर्वदा ॥ १३.२०७{१०७} ॥
इत्येवं प्रार्थनां कृत्वा भूयः स वडिको मुदा ।
साञ्जलिः प्रणतिं कृत्वा पश्यंस्तस्थौ मुनीश्वरम् ॥ १३.२०८{१०८} ॥
तथा तज्जनकः श्रेष्ठी सदारः संप्रमोदितः ।
त्रिरत्ने शरणं कृत्वा संबुद्धं तं समर्चयत् ॥ १३.२०९{१०९} ॥
(र्म् १८०)
ततः स गृहभृच्छ्रेष्ठी दृष्ट्वा तं सुगतं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ १३.२१०{२१०} ॥
वन्दे ते चरणौ शास्तः सर्वदा शरणं व्रजे ।
एवं नोऽनुग्रहं कर्तुंमर्हति कृपया सदा ॥ १३.२११{२११} ॥
ततः स भगवान् बुद्धस्तथास्त्विति समादिशत् ।
ऋद्ध्याकाशं समुत्प्लुत्य स्वमाश्रममुपाययौ ॥ १३.२१२{२१२} ॥
तत्र स भगवान् प्राप्तः सभामध्ये समाश्रितः ।
एतद्वृष्टि समाख्याय तस्थौ धर्मं समादिशत् ॥ १३.२१३{२१३} ॥
तदा स वडिको भूयो बुद्धगुणाननुस्मरन् ।
स संघं सुगतं भोज्यैः पूजयितुं समैछत ॥ १३.२१४{२१४} ॥
तदा स नृपते राज्ञः प्रसेनजित आनतः ।
एतत्सर्वं प्रवृत्तांतं निवेद्यैवमभाषत ॥ १३.२१५{२१५} ॥
राजन्नहं महारोगी त्रिरत्नशरणं व्रजे ।
तत्त्रिरत्नकृपादृष्टेर्जीवे रोगैर्विमोचितः ॥ १३.२१६{२१६} ॥
तन्मया स मुनीन्द्रोऽपि सर्वसंघैः सहाधुना ।
समामंत्र्य गृहे भोज्यैः पूजयितुं समिच्छ्यते ॥ १३.२१७{२१७} ॥
तन्मेऽनुग्रहणं कृत्वा लोकानां पुण्यवृद्धये ।
तदधिवासनां कृत्वा समनुज्ञापय प्रभो ॥ १३.२१८{२१८} ॥
इति तेनार्थितं श्रुत्वा स राजाभ्यनुमोदितः ।
वडिकं तैः समालोक्य प्रशंस्यैव समादिशत् ॥ १३.२१९{२१९} ॥
वडिक त्वं महासाधुस्तद्बुद्धशरणं गतः ।
तथानुश्रद्धया नित्यं भज रत्नत्रयं सदा ॥ १३.२२०{२२०} ॥
इति राज्ञाभ्यनुज्ञातं श्रुत्वा स वडिको मुदा ।
नृपतिं तं प्रणत्वैवं स्वगृहं समुपाययौ ॥ १३.२२१{२२१} ॥
तत्र गृहे समासाद्य कृत्वानुमतं पितुः ।
शास्तु निमंत्रणां कर्तुं विहारे समुदाचरन् ॥ १३.२२२{२२२} ॥
तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ १३.२२३{२२३} ॥
भगवंस्तद्विजानीयाद्यदर्थं समुपाव्रजे ।
तथाप्यत्र भवदग्रे प्रार्थयेऽनुग्रहं कुरु ॥ १३.२२४{२२४} ॥
यदहं रोगनिर्मुक्तः पुन जन्म इवाप्तवान् ।
तद्भवतां कृपादृष्टेः प्रसादादितिन्मन्यते ॥ १३.२२५{२२५} ॥
तदहं भवतां सर्वसंघानां भोजनैर्गृहे ।
पूजयितुं समिछे तदनुग्रहीतुमर्हति ॥ १३.२२६{२२६} ॥
(र्म् १८१)
इति संप्रार्थितं तेन श्रुत्वा स भगवान्मुनिः ।
तथेत्यभ्यनुमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ १३.२२७{२२७} ॥
ततः स वडिको मत्वा भगवताधिवासितम् ।
मुदा तस्य मुनेः पादौ नत्वाशु स्वगृहं ययौ ॥ १३.२२८{२२८} ॥
तत्र स सहसा गेहे वन्धुमित्रजनैः सह ।
संघार्हभोज्यपूजाङ्गं सामग्रीं समसाधयत् ॥ १३.२२९{२२९} ॥
ततः स सर्वसामग्रीं साधयित्वासनानि च ।
प्रज्ञप्य शुद्धिते भूमौ मंदयित्वा समन्ततः ॥ १३.२३०{२३०} ॥
ततस्तं श्रीघनं बुद्धं ससंघं स्वजनैः सह ।
आमंत्रितुं विहारे स सहसा समुपाचरत् ॥ १३.२३१{२३१} ॥
तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा ।
ससंघं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ १३.२३२{२३२} ॥
भगवन् साध्यते साध्यं समयो वर्त्ततेऽधुना ।
तद्भवां सांघिकैः सार्द्धं विजयितुं समर्हति ॥ १३.२३३{२३३} ॥
इति तेनार्थितं श्रुत्वा तथेति स मुनीश्वरः ।
पात्रचीवरमाधाय सर्वसंघैः सहाचरत् ॥ १३.२३४{२३४} ॥
तत्र मार्गेषु सर्वत्र नगरे च समन्ततः ।
प्रकाशयन् प्रातिहार्यं तद्गृहं समुपाविशत् ॥ १३.२३५{२३५} ॥
तत्र गृहे समासाद्य पादार्घं प्रतिगृह्य सः ।
स्वासने समुपाविश्य क्रमात्तस्थौ ससांघिकः ॥ १३.२३६{२३६} ॥
तदा स वडिको दृष्ट्वा तं बुद्धं स्वासने स्थितम् ।
ससंघं सर्वपूजाङ्गैः सर्वपुष्पैः समर्चयत् ॥ १३.२३७{२३७} ॥
ततश्च सुरसैर्भोज्यैः सुप्रणीतैः सुहाधितैः ।
वर्णगन्धरसोपेतैः सर्वैस्तां समतोषयत् ॥ १३.२३८{२६८!} ॥
ततश्च भोजनान्ते स पात्रादीन्यपनीय च ।
मुखादीं शोधयित्वा च पूगौषधीन् प्रढौकयत् ॥ १३.२३९{२६९} ॥
ततः स प्राञ्जलिर्नत्वा ससंघं सुगतं मुदा ।
पुरस्थो मनसा ह्येवं प्रणिधानं व्यधात्स्मरन् ॥ १३.२४०{२७०} ॥
अनेन कुशलेनाहं लोकेऽन्धेऽपरिणायके ।
यथायं भगवान् बुद्धस्तथा भूयासमात्मवित् ॥ १३.२४१{२७१} ॥
यथानेन मुनीन्द्रेण जगल्लोकोऽभिपालितः ।
तथाहं सर्वलोकानां पालयेयं समन्ततः ॥ १३.२४२{२७२} ॥
अतीर्णांस्तारयिष्यामि मोचयिष्याम्यमोचितान् ।
अनास्वस्तान् समाश्वास्य स्थापयिष्यामि निर्वृतौ ॥ १३.२४३{२७३} ॥
(र्म् १८२)
इत्येवं मनसा तेन प्रणिधानं कृतं मुदा ।
मत्वा स भगवान् बुद्धो स्मितं प्राविर्व्यधान्मुदा ॥ १३.२४४{२७४} ॥
तदा तस्य मुनीन्द्रस्य मुखात्पंच सुरस्मयः ।
निसृत्य त्रिषु लोकेषु भासयन्तः समासरन् ॥ १३.२४५{२७५} ॥
यापि काश्चिदधोलोके प्रसृता नरकेषु ताः ।
उष्णेषु शीतलीभूता शीतलेषु तथोष्णिकाः ॥ १३.२४६{२७६} ॥
तदा ताभिः परिस्पृष्टाः सर्वे नैरयिका जनाः ।
महत्सौख्यं समासाद्य विस्मिताश्चैवमालपत् ॥ १३.२४७{२७७} ॥
अहो सौख्यं कथं ह्येवमन्यत्र किं गता वयम् ।
कस्य पुण्यानुभावेन क्वास्माकं जायते सुखम् ॥ १३.२४८{२७८} ॥
इति चिन्ताभिदग्धानां तेषां चित्तप्रबोधने ।
भगवान्निर्मितं बुद्धं संप्रेष्य समदर्शयत् ॥ १३.२४९{२७९} ॥
तत्र तं निर्मितं बुद्धं दृष्ट्वा सर्वेऽपि ते मुदा ।
विस्मिताः सहसंमील्य पुनरेवं वभाषिरे ॥ १३.२५०{२८०} ॥
अहो समन्तभद्रोऽयं पुरुषो दृश्यतेऽधुना ।
नूनमस्यानुभावेन सौख्यं नो जायते खलु ॥ १३.२५१{२८१} ॥
इति संभाष्य ते सर्वे तस्मिन् बुद्धे प्रसादिताः ।
नमो बुद्धाय धर्माय संघाय चेति प्रावदन् ॥ १३.२५२{२८२} ॥
ततः सर्वेऽपि ते सत्वास्त्रिरत्नस्मृतिपुण्यतः ।
ते दुर्गतिविनिर्मुक्ताः सद्गतिं समुपाययुः ॥ १३.२५३{२८३} ॥
एवं ता रश्मयः सर्वा अवभास्य समंततः ।
सर्वसत्वान् समुद्धृत्य मुनेः प्रत्याययुः पुनः ॥ १३.२५४{२८४} ॥
तथा या रश्मयः काश्चिदुपरिष्टात्प्रसारिताः ।
ताः सर्वान् देवलोकानामवभास्य समन्ततः ॥ १३.२५५{२८५} ॥
यावद्भवाग्रपर्यंतं भासयन्तः प्रसारिताः ।
एवं चापि महाशब्दमुद्घुष्य समुदाचरन् ॥ १३.२५६{२८६} ॥
अनित्यं खलु संसारं दुःखं शून्यमनात्मकम् ।
तद्भवे सद्गतिं हित्वा सद्धर्मं भजतादरात् ॥ १३.२५७{२८७} ॥
निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यं च नडागारमिव द्विपः ॥ १३.२५८{२८८} ॥
योऽप्यस्मिन् धर्मवैनेये ह्यप्रमत्तश्चरेत्सदा ।
(र्म् १८३)
स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ १३.२५९{२८९} ॥
इत्येवं तन्महाशब्दं श्रुत्वा सर्वेऽपि ते सुराः ।
तथेत्यभ्यनुमोदन्तस्त्रिरत्नशरणं ययुः ॥ १३.२६०{२९०} ॥
तथा ता अर्चिषः सर्वा अवभास्य समंततः ।
पुनः प्रत्यागतास्तस्य मुनेरन्तिकमाययुः ॥ १३.२६१{२९१} ॥
ततस्ता अर्चिषः सर्वाः संमील्य समुपास्थिताः ।
कृत्वा प्रदक्षिणां त्रैधमुष्णीषेऽन्तर्दधौ मुनेः ॥ १३.२६२{२९२} ॥
अथानंदस्तमालोक्य विस्मितः सहसोत्थितः ।
कृताञ्जलिपुटो नत्वा पप्रछैवं मुनीश्वरम् ॥ १३.२६३{२९३} ॥
भगवन् भवतो वक्त्रात्पंचवर्णाः सुरश्मयः ।
विनिसृता दिशः सर्वा भाषयन्ति समन्ततः ॥ १३.२६४{२९४} ॥
नाकारणं जिना बुद्धा दर्शयन्ति स्मितं क्वचित् ।
भवत्स्मितं समालोक्य सर्वे भवन्ति विस्मिताः ॥ १३.२६५{२९५} ॥
तद्धेतु श्रोतुमिछंति सर्वेऽपीमे सभाश्रिताः ।
तदेषां संशयं छेतुं तद्धेतु समुपादिश ॥ १३.२६६{२९६} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
तां च सर्वां सभां दृष्ट्वा तथानन्दमभाषत ॥ १३.२६७{२९७} ॥
पश्यानंद ममानेन वडिकेनानुमोदिना ।
संघेषु श्रद्धया भक्त्या सत्कृत्य भजनं कृतम् ॥ १३.२६८{२९८} ॥
एतत्पुण्यविपाकेन वडिकोऽयं सुधीः कृती ।
क्रमाद्बोधिचरीः पूर्य दशभूमीश्वरो भवन् ॥ १३.२६९{२९९} ॥
सर्वमारगणां जित्वा संबोधिं समवाप्तवान् ।
श्लक्ष्णवाण्यभिधो बुद्धस्तथागतो भविष्यति ॥ १३.२७०{३००} ॥
यदनेन त्रिरत्नेषु शरणं संप्रसादिना ।
प्रणिधानं कृतं तेन संबुद्धोऽयं भवेद्ध्रुवम् ॥ १३.२७१{३०१} ॥
एवं मत्वा तथानंद त्रिरत्नशरणं गतः ।
सत्कृत्य समुपाश्रित्य भज नित्यं समाहितः ॥ १३.२७२{३०२} ॥
ये सत्वाः श्रद्धया स्मृत्वा त्रिरत्नशरणं गताः ।
दुर्गतिं ते न गछन्ति भवन्ति बोधिभागिनः ॥ १३.२७३{३०३} ॥
एवं मत्वा त्रिरत्नानां सत्कृत्य श्रद्धया मुदा ।
संस्मृत्य शरणं गत्वा भक्तव्यं बोधिवांछिभिः ॥ १३.२७४{३०४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वानंदः स मोदितः ।
सांघिकं सह लोकैश्च तथेति प्राभ्यनंदत ॥ १३.२७५{३०५} ॥
ततः स भगवांस्तस्मै वडिकाय सुभागिने ।
दत्वाशीर्वचनं भूयः समामंत्र्य तमब्रवीत् ॥ १३.२७६{३०६} ॥
(र्म् १८४)
वडिक त्वं महाभाग त्रिरत्नं शरणं गतः ।
बोधिचर्य्यां चरन्नित्यं संबोधिं समवाप्नुयाः ॥ १३.२७७{३०७} ॥
इति सत्यं परिज्ञाय सर्वसत्वहितार्थभृत् ।
तथा रत्नत्रयं स्मृत्वा भज नित्यं समाहितः ॥ १३.२७८{३०८} ॥
इत्यादिश्य मुनीन्द्रः स संघैः सार्द्धं समुत्थितः ।
वडिकं तं समामंत्र्य स्वविहारं ययौ तथा ॥ १३.२७९{३०९} ॥
तथा स वडिको नित्यं त्रिरत्नशरणं गतः ।
सदा लोकहितं कृत्वा बोधिचर्यां समाचरत् ॥ १३.२८०{३१०} ॥
एतन्मे गुरुणादिष्टं श्रुतं मया नराधिप ।
तथा ते कथ्यते राजं श्रुत्वा चैवं प्रकाशय ॥ १३.२८१{३११} ॥
तथा त्वयापि राजेन्द्र सत्वानां हितसाधने ।
त्रिरत्नशरणैः कृत्वा कर्त्तव्या बोधिचारिकाः ॥ १३.२८२{३१२} ॥
तथा ते सर्वदा नित्यं सर्वत्र मंगलं भवेत् ।
क्रमाद्बोधिचरीं पूर्य संबोधिमपि चाप्नुयाः ॥ १३.२८३{३१३} ॥
इति मत्वा महाराज प्रजाश्चापि प्रबोधयन् ।
सद्धर्मे संप्रतिस्थाप्य सर्वथा त्रातुमर्हसि ॥ १३.२८४{३१४} ॥
इति तेनोपगुप्तेन समादिष्टं निशम्य सः ।
राजा तथेति विज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ १३.२८५{३१५} ॥
श्रुत्वावदानं वडिकस्य साधोरिदं नरा येऽभ्यनुमोदयन्ति ।
सर्वेऽपि ते लोकहितानुरक्ता भवन्ति बोधिगुणलाभिका हि ॥ १३.२८६{३१६} ॥
++ इति रत्नावदानतत्वे वडिकावदानं समाप्तम् ++
(र्म् १८५)
xइव्गान्धर्विकावदान
अथाशोको महीपालः श्रोतुमन्यत्सुभाषितम् ।
उपगुप्तं यतिं नत्वा प्रार्थयदेवमादरात् ॥ १४.१{१} ॥
भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ १४.२{२} ॥
इति तेन नरेन्द्रेण प्रार्थितं स जिनात्मजः ।
श्रुत्वा तं नृपतिं दृष्ट्वा पुनरेवं समादिशत् ॥ १४.३{३} ॥
शृणु राजन्मयाख्यातं यथा मे गुरुणोदितम् ।
तथा श्रूत्वानुमोदित्वा शुभे चरितुमर्हसि ॥ १४.४{४} ॥
पुरा स भगवान् बुद्धः श्रावस्त्यां बहिराश्रमे ।
जेतारण्ये महोद्याने विहारे मणिमण्डिते ॥ १४.५{५} ॥
भिक्षुभिः श्रावकैः सार्द्धं चैलकैर्व्रतिभिस्तथा ।
भिक्षुणीभिस्तथान्यैश्चा महासात्वैरुपासकैः ॥ १४.६{६} ॥
विहृत्य सर्वसत्वानां समितिस्थितः ।
संबोधिसाधानं धर्ममुपादेष्टुं समारभत् ॥ १४.७{७} ॥
तदा तस्य मुनीन्द्रस्य वक्त्रपद्माद्विनिसृतम् ।
तत्सद्धर्मामृतं पातुं सर्वे सत्वा उपगताः ॥ १४.८{८} ॥
ब्रह्मशक्रादि देवेन्द्राः सर्वे लोकाधिपा अपि ।
दैत्येन्द्राः सगणा यक्षाः सिद्धगंधर्वराक्षसाः ॥ १४.९{९} ॥
विद्याधरगणाश्चपि नागेंद्राश्च महोरगाः ।
गरुडाः किन्नरेन्द्राश्च तथान्येऽपि समागताः ॥ १४.१०{१०} ॥
ब्राह्मणा ऋषयश्चापि तापसा ब्रह्मचारिणः ।
यतयो योगिनो विज्ञास्तथान्ये तीर्थिका अपि ॥ १४.११{११} ॥
रजानः क्षत्रियाश्चापि वीरा राजकुमारकाः ।
अमात्या मंत्रिणश्चापि वैश्याश्चापि प्रजाधिपाः ॥ १४.१२{१२} ॥
श्रेष्ठिनो वणिजश्चापि सार्थवाहा महाजनाः ।
पौरा जानपदा ग्राम्यास्तथा कार्पटिका अपि ॥ १४.१३{१३} ॥
एवमन्येऽपि सत्वाश्च सर्वे लोकाः समागताः ।
तत्सद्धर्मामृतं पातुं तद्विहारे उपाविशत् ॥ १४.१४{१४} ॥
तत्र तं श्रीघनं दृष्ट्वा समभ्यर्च्य प्रणम्य च ।
सत्कृत्य समुपाश्रित्य परिवृत्य सामान्ततः ॥ १४.१५{१५} ॥
तं मुणीन्द्रं समालोक्य श्रोतुं तद्धर्मदेशनाम् ।
साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः ॥ १४.१६{१६} ॥
तथा तान् समुपासीनान् दृष्ट्वा स भगवाञ्जिनः ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १४.१७{१७} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिताः ।
(र्म् १८६)
त्रिरत्नभजनं कृत्वा वभूवुर्बोधिचारिणः ॥ १४.१८{१८} ॥
तदापि पंचमात्राणि गांधर्विकशतानि च ।
श्रावस्त्यां पुरि जातानि समदानि प्रचेरिरे ॥ १४.१९{१९} ॥
तदा तां समदान् दृष्ट्वा गंधर्वाधिपतेः सुतः ।
सुप्रियो नाम तन्मादमीर्ष्यया हन्तुमुद्ययौ ॥ १४.२०{२०} ॥
ततः स सुप्रियः सर्वगान्धर्विकसुकौशलः ।
दिव्यवीणां समादाय तत्रैव समुपाचरत् ॥ १४.२१{२१} ॥
सप्तस्वरानेकतंत्र्यामेकविंशतिमूर्छनाः ।
समुद्घोषयमानः च स्वमतिं दर्शयन् ययौ ॥ १४.२२{२२} ॥
षण्महानगरेष्वेवं पट्टनेषु समन्ततः ।
समुद्घोषयमानश्च श्रावस्तीं स उपाविशत् ॥ १४.२३{२३} ॥
तत्र तं समुपाविष्टं दृष्ट्वा सर्वेऽपि पौरिकाः ।
श्रुत्वा तदद्भुतं नादं विस्मिताः समुपाचरन् ॥ १४.२४{२४} ॥
तानि च पंचमात्राणि गांधर्विकशतान्यपि ।
श्रुत्वा दृष्ट्वा च सर्वाणि विस्मयं समुपाययुः ॥ १४.२५{२५} ॥
तद तानि च सर्वाणि दृष्ट्वा पंचशतान्यपि ।
स्वस्वमदाभिमानत्वां प्रविहाय विषेदिरे ॥ १४.२६{२६} ॥
ततः सर्वेऽपि ते तेन सहवादे भयान्विताः ।
नृपतेरन्तिकं गत्वा तत्प्रवृत्तिं न्यवेदयन् ॥ १४.२७{२७} ॥
जय प्रभो विजानीयाद्यद्वयं समुपागताः ।
तदत्र नो भयत्रस्तां त्रातुमर्हति सर्वथा ॥ १४.२८{२८} ॥
अत्रासौ सुप्रियो नाम गन्धर्वाधिपतेः सुतः ।
नूनं नो मदघाताय विजेतुं समुपागतः ॥ १४.२९{२९} ॥
तत्तस्याप्यभिमानत्वां निहंतुं सत्प्रतिक्रियाम् ।
क्रियतां सहसास्माकमिति विज्ञापनां शृणु ॥ १४.३०{३०} ॥
इति विज्ञापितं सर्वैस्तैः श्रुत्वा स नराधिपः ।
सर्वान्स्तान् समुपामंत्र्य पुर एवं समादिशत् ॥ १४.३१{३१} ॥
अल्पोत्सुका भवन्तोऽत्र भवते मा विषीदत ।
भविष्यामोऽत्र कालज्ञाश्चरतु स यथेछया ॥ १४.३२{३२} ॥
इति राज्ञा समादिष्टं श्रुत्वा तेऽभ्यनुमोदिताः ।
तद्विवादभयातंकं त्यक्त्वा सर्वे प्रसेदिरे ॥ १४.३३{३३} ॥
तदा स सुप्रियस्तत्र दृष्ट्वा तानभिमानिकान् ।
तेषां मानविघातार्थं मनसैवं व्यचिन्तयत् ॥ १४.३४{३४} ॥
अयं राजपि गांधर्वविद्याभिमानिको भवेत् ।
तदनेन सहात्राहं वादं कुर्यां सभाश्रये ॥ १४.३५{३५} ॥
इत्येवं निश्चयं कृत्वा सुप्रियः सोऽभिमानिकः ।
नृपतिं तमुपालब्धुं तत्सभां समुपाचरत् ॥ १४.३६{३६} ॥
तत्र स नृपतिर्दृष्ट्वा सुप्रियं तमुपागतम् ।
प्रज्ञप्यासनमामंत्र्य प्रणत्वैवमभाषत ॥ १४.३७{३७} ॥
स्वागतं ते भवन्नत्र तिष्ठासने प्रसीद मे ।
किमर्थेऽत्र समायासि तदादेष्टुं हि मेऽर्हसि ॥ १४.३८{३८} ॥
(र्म् १८७)
इति तेनोदितं श्रुत्वा सुप्रियः स सभास्थितः ।
नृपतिं तं समालोक्य पुर एवमभाषत ॥ १४.३९{३९} ॥
शृणु राजन्मयाख्यातं श्रुतं यत्ते यशो महत् ।
तद्गुणान् भवतो द्रष्टुमिहाहं समुपाचरे ॥ १४.४०{४०} ॥
तन्मे दर्शय राजेन्द्र गान्धर्वगुणामात्मनः ।
कस्ते सास्ता गुरुर्वास्ति तं चापि मे प्रदर्शय ॥ १४.४१{४१} ॥
इति तेनोदितं श्रुत्वा स राजा प्रतिभाणवान् ।
सुप्रियं तं समालोक्य तथेत्येवमभाषत ॥ १४.४२{४२} ॥
साधु पश्य महाभाग दर्शयिस्यामि तं गुरुम् ।
यो मे शास्ता महाभिज्ञः सर्वविद्यागुणाधिपः ॥ १४.४३{४३} ॥
स मे शास्ताधुनेहैव सर्वसत्वहितार्थतः ।
जेतारण्ये महोद्याने निवशति वृषं दिशन् ॥ १४.४४{४४} ॥
साधु पश्य महाभाग तं गुरुं मे हितार्थदम् ।
तदेहि सह यास्याम शास्तारं दर्शयामि तम् ॥ १४.४५{४५} ॥
इति तेन नरेन्द्रेण समाख्यातं स सुप्रियः ।
श्रुत्वा तथेति प्रमोद्य गन्तुमभाषत ॥ १४.४६{४६} ॥
साधु राजन् समिछामि शास्तारं तत्प्रदर्शय ।
तेन सह विवादानि कुर्यां तत्र नयाशु माम् ॥ १४.४७{४७} ॥
इति तेनोदितं श्रुत्वा नृपतिः स तथेति हि ।
सुप्रियं तं समादाय विहारे गन्तुमैछत ॥ १४.४८{४८} ॥
ततः स नृपतिस्तेन सुप्रियेणाभिमानिना ।
तैश्च पंचशतैरन्यैर्गान्धर्विकैः सहाचरत् ॥ १४.४९{४९} ॥
तस्मिन्नवसरे बुद्धो भगवान् स मुनीश्वरः ।
लोके सत्वान् समुद्धर्तुं कृपया समपश्यत ॥ १४.५०{५०} ॥
तदा तेन नरेशेन सार्द्धमेवमुपागतम् ।
सुप्रियं तं स आलोक्य मनसैव व्यचिन्तयत् ॥ १४.५१{५१} ॥
अहो वत सुधीर्या सा गन्धर्वाधिपनन्दनः ।
पञ्चशिखोऽभिधो वीणामादायेहोपसंक्रमेत् ॥ १४.५२{५२} ॥
इति तेन मुनीन्द्रेण मनसा परिचिन्तितम् ।
मत्वा पञ्चशिखः सोऽपि तथागन्तुं समैछत ॥ १४.५३{५३} ॥
ततः स सप्तगंधर्वसहस्रेण सहान्वितः ।
वैडूर्यदण्डवीणां संप्रादाय सहसाचरन् ॥ १४.५४{५४} ॥
तथा स संक्रमंस्तत्र विहारे समुपाविशन् ।
दृष्ट्वा तं श्रीघनं नत्वा तां वीणां समुपानयत् ॥ १४.५५{५५} ॥
ततः स सुगतं भक्त्या समभ्यर्च्य प्रसन्नधीः ।
तत्सद्धर्मामृतं पातुं तत्सभायामुपाश्रयत् ॥ १४.५६{५६} ॥
तदा स सुप्रियोऽप्येनं दृष्ट्वा मानाभिगर्वितः ।
तां वीणां क्वनयन्नग्रेऽनुश्रावितुं समारभत् ॥ १४.५७{५७} ॥
तत्प्रक्वाणात्स्वरा सप्त एकै विंशति मूर्छनाः ।
समुत्थिताः सर्वलोकचेतान्सि पर्यमोहयन् ॥ १४.५८{५८} ॥
तदा सर्वेऽपि ते लोकाः श्रुत्वा तत्प्रक्वणान्मुदा ।
नृपतिप्रमुखाश्चापि परं विस्मयमायजुः ॥ १४.५९{५९} ॥
(र्म् १८८)
ततः स भगवांश्चापि तस्य मानाभिघातने ।
वैडूर्यदण्डवीणां तामनुश्रावितुमारभत् ॥ १४.६०{६०} ॥
एकैकस्यां हि तत्तंत्र्या नैकस्वरविशेषिताः ।
मूर्छनाश्च तथा नानाविधा निश्चारितास्तथा ॥ १४.६१{६१} ॥
ततः शब्दात्समुच्चेरुर्गाथा एवं प्रचोदिनाः ।
तद्यथेह भवे सर्वं दुःखं शून्यं ह्यनात्मकम् ॥ १४.६२{६२} ॥
इदं कायं च वीणावदिन्द्रियाणि स्वरानी च ।
मूर्छना इव चित्तानि ज्ञात्वा बोधौ समाचर ॥ १४.६३{६३} ॥
एतद्गाथामनुश्रुत्वा सर्वे लोका नृपादयः ।
सत्यमेतदिति ज्ञात्वा बोधिचित्तं प्रलेहिरे ॥ १४.६४{६४} ॥
तदा स सुप्रियोऽप्येवं श्रुत्वा मत्वानुमोदितः ।
परितत्याज गांधर्वविद्यामदाभिमानताम् ॥ १४.६५{६५} ॥
ततो निर्यात्य वीणां स गन्धकुट्यां विरागितः ।
भगवच्छासने तत्र प्रव्रजितुं समैछत ॥ १४.६६{६६} ॥
तदा तं श्रीघनं नत्वा सुप्रियः सोऽनुमोदितः ।
कृताञ्जलिः पुरः स्थित्वा प्रव्रज्यां समयाचत ॥ १४.६७{६७} ॥
वंदे ते चरणौ शास्त भवतां शरणं व्रजे ।
तन्मेऽत्रानुग्रहं कृत्वा प्रव्रज्यां दातुमर्हति ॥ १४.६८{६८} ॥
इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
दृष्ट्वा तदाशयं शुद्धं गंधर्वं तं तथावदत् ॥ १४.६९{६९} ॥
गंधर्व सौगते धर्मे प्रव्रजितुं यदीछसि ।
पित्रोराज्ञां समासाद्य प्रेहि दास्यामि ते व्रतम् ॥ १४.७०{७०} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुप्रियो मुदा ।
तथेति तं मुनिं नत्वा सहसर्द्ध्या गृहं ययौ ॥ १४.७१{७१} ॥
तत्र स सहसा प्राप्तो नत्वा तौ पितरौ मुदा ।
साञ्जलिः पुरतः स्थित्वा प्रार्थयदेवमादरात् ॥ १४.७२{७२} ॥
शृणु मे वाञ्छितं तात यदि ते कृपया मयि ।
तन्ममानुग्रहं कृत्वा सद्धर्मे मां नियोजय ॥ १४.७३{७३} ॥
अहं हि सौगतं धर्मं दृष्ट्वा वाञ्छामि तद्व्रतम् ।
तत्प्रव्रज्यां समासाद्य प्राप्तुमिछामि निर्वृतिम् ॥ १४.७४{७४} ॥
अनित्यं खलु संसारं तदत्रापि न मे रतिः ।
अवश्यं हि भवेन्मृत्युः सर्वेषां प्राणिनामपि ॥ १४.७५{७५} ॥
एवं दृष्ट्वात्र संसारे भोग्यं नेछामि निःस्पृहः ।
तत्प्रव्रज्याव्रतं धृत्वा प्राप्तुमिछे सुनिर्वृतिम् ॥ १४.७६{७६} ॥
अपि चासौ मुनीन्द्रो हि सदात्रैव न तिष्ठति ।
बुद्धकार्यं समाप्यैव निर्वृतिं सर्वथा व्रजेत् ॥ १४.७७{७७} ॥
किं चात्र सर्वदा नैवमुत्पत्स्यते मुनीश्वरः ।
कदा चिदेवमुत्पन्नो लोके बोधिं समादिशेत् ॥ १४.७८{७८} ॥
तथा च दुर्लभं जन्म सद्गतौ च क्षणं तथा ।
तत्क्षणेऽलभ्यमानेऽत्र कथं धर्मानुलप्स्यते ॥ १४.७९{७९} ॥
धर्मं विनात्र संसारे किं सारं सुखिनोऽपि हि ।
क्षणध्वन्सि शरीरं हि जीवितं च तृणाम्बुवत् ॥ १४.८०{८०} ॥
(र्म् १८९)
धर्मेण सद्गतिं यायात्संबोधिमपि प्राप्नुयात् ।
तत्प्रव्रज्याचरिं धृत्वा प्राप्तुमिछेऽत्र निर्वृतिम् ॥ १४.८१{८१} ॥
तदात्र यदि वां तात कृपास्ति स्वात्मजे मयि ।
सर्वथानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ १४.८२{८२} ॥
इति तेनार्थितं श्रुत्वा स गन्धर्वाधिपः सुधीः ।
सुचिरं तं सुतं दृष्ट्वा स्नेहादेवमभषत ॥ १४.८३{८३} ॥
सत्यमेवं सुताख्यातं तथापि मे वचः शृणु ।
प्रव्रज्या दुष्करीचर्य्या तत्कथं त्वं समाचरेः ॥ १४.८४{८४} ॥
त्वं हि युवा प्रमत्तोऽसि मदनाक्रांतमानसः ।
कामभोग्यसुखारक्तस्तत्कथं तद्व्रतं चरेः ॥ १४.८५{८५} ॥
प्रव्रजितो विरक्तात्मा संसारभोग्यनिस्पृहः ।
सर्वान् परिग्रहान्स्त्यक्त्वा सदैकान्ती वने वसे ॥ १४.८६{८६} ॥
सुकुले दुःकुले चापि याचित्वा विरशासनम् ।
भुंजीथास्तत्कथं भुक्त्वा समाधिं संप्रधास्यसि ॥ १४.८७{८७} ॥
इत्येवं दुष्करं ज्ञत्वा प्रव्रज्याव्रतसाधने ।
सहसा मा कृथाश्चित्तं निवारय समाहितः ॥ १४.८८{८८} ॥
यद्यतिवांछसे पुत्र प्रव्रज्याग्रहणे तथा ।
वृद्धत्वे समुपाश्रित्य त्रिरत्नं तद्व्रतं चर ॥ १४.८९{८९} ॥
तत्त्वं यावद्युवा गेहे सौख्यं भुक्त्वा यथेप्सितम् ।
वृद्धत्वे तद्व्रतं धृत्वा त्रिरत्नानि सदा भज ॥ १४.९०{९०} ॥
तथा चेत्ते भवेज्जन्म साफल्यं भवचारणे ।
सुखं भुक्त्वा व्रतं धृत्वा निर्वृतिं वा समाप्नुयाः ॥ १४.९१{९१} ॥
इति मे वचनं श्रुत्वा मत्वैवं तत्प्रबोधितः ।
तावद्गृहे सुखं भुक्त्वा स्मृत्वा रत्नत्रयं वस ॥ १४.९२{९२} ॥
इति पित्रोदितं श्रुत्वा सुप्रियः सोऽभिशंकितः ।
पुनस्तं पितरं दृष्ट्वा बोधयन्नेवमब्रवीत् ॥ १४.९३{९३} ॥
सत्यमेवं भवे तात तथापि वक्ष्यते मया ।
तच्छ्रुत्वापि त्वया परिज्ञाय विबुध्यताम् ॥ १४.९४{९४} ॥
सत्कुले दुर्लभं जन्म तत्रापि दुर्लभं क्षणम् ।
दुर्लभं सुगतोत्पादं दुर्लभं तद्व्रतं भवे ॥ १४.९५{९५} ॥
इति मत्वात्र संसारे क्लेशमानमदाकुले ।
अवश्यं मरणं दृष्ट्वा प्राप्तुमिछेऽत्र निर्वृतिम् ॥ १४.९६{९६} ॥
तदत्र कृपया मह्यमनुज्ञां दातुमर्हसि ।
यूयं चापि हि तद्धर्मभाणैः सद्गतिमाप्स्यथ ॥ १४.९७{९७} ॥
इति हेतोः पित तत्र विलम्बंम कृथा चिरम् ।
सहसानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ १४.९८{९८} ॥
इति तेनार्थितं श्रुत्वा स गंधर्वाधिपश्चिरात् ।
स्नेहदुःखाग्निसंतप्तो गलदश्रुमुखोऽवदत् ॥ १४.९९{९९} ॥
अयि सुप्रिय पुत्र त्वं स्नेहान्मया निवार्यस ।
यद्यतिवांछसे प्राप्तुं निर्वृतिं तन् समाचर ॥ १४.१००{१००} ॥
संबुद्धशरणं कृत्वा प्रव्रज्य संवरं दधत् ।
(र्म् १९०)
त्रिरत्नभजनं कृत्वा चर नित्यं समाहितः ॥ १४.१०१{१} ॥
इति पित्रोदितं श्रुत्वा सुप्रियः सोऽभिमोदितः ।
पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ १४.१०२{२} ॥
ततः स सहसा गत्वा विहारं समुपाचरत् ।
तत्र प्राप्तो मुनीन्द्रं तं दृष्ट्वैव समुपाविशत् ॥ १४.१०३{३} ॥
तत्र तं श्रीघनं नात्वा प्राञ्जलिः पुर आश्रयन् ।
सुप्रसन्नमुखांभोजः प्रार्थयदेवमादरात् ॥ १४.१०४{४} ॥
सर्वज्ञ भगवाञ्छास्तरादिष्टं भवतायथा ।
तथानुज्ञां पितुः प्राप्य प्रागताहमिहाधुना ॥ १४.१०५{५} ॥
तदत्र भवतां शास्तः शरणं समुपागतः ।
ब्रह्मचर्यं चरिष्यामि तत्प्रव्रज्यां प्रदेहि मे ॥ १४.१०६{६} ॥
इति तेनार्थितं श्रुत्वा भगवान् स जगद्गुरुः ।
दृष्ट्वा तस्याशयं शुद्धं पुनरेव समादिशत् ॥ १४.१०७{७} ॥
एहि सुप्रिय भिक्षोऽत्र चर ब्रह्मचरिं शिवाम् ।
त्रिरत्नं शरणं कृत्वा समाधिं समुपाश्रयत् ॥ १४.१०८{८} ॥
ततो दृष्ट्वा च संसारं क्लेशसंघसमाकुलम् ।
पंचगंडमयं देहं जीवितं च त्रिनाम्वुवत् ॥ १४.१०९{९} ॥
समाधिसंवरं धृत्वा संबोधिसाधनोद्यतः ।
सर्वक्लेशरिपुञ्जित्वा साक्षादर्हत्पदं ययौ ॥ १४.११०{१०} ॥
ततः सुप्रियो भिक्षुः प्राप्ताभिज्ञः कृती सुधीः ।
भिन्दन् सर्वमविद्याङ्गं निर्विकल्पोऽभवद्यतिः ॥ १४.१११{११} ॥
समलोष्टसुवर्णश्च परिशुद्धत्रिमंडलः ।
वासीचंदनकल्पोऽभूदाकाशसममानसः ॥ १४.११२{१२} ॥
संसारभोग्यसत्कारमान्यलाभपराङ्मुखः ।
निःक्लेशः परिषुद्धात्मा ब्रह्मचारी निरंजनः ॥ १४.११३{१३} ॥
सदेवासुरलोकानां सर्वभुवनवासिनाम् ।
वंद्यः पूज्योऽभिनंद्यश्च माननीयो भवन् बभौ ॥ १४.११४{१४} ॥
तदैवंभूतमर्हन्तं सुप्रियं तं शुभेन्द्रियम् ।
प्रालोक्य विस्मिताः सर्वे तत्सभास्थाः प्रसेदिरे ॥ १४.११५{१५} ॥
तदा सर्वेऽपि ते लोका देवा दैत्याश्च किन्नराः ।
यक्षाः सिद्धाश्च गंधर्वा नागाश्च राक्षसा अपि ॥ १४.११६{१६} ॥
गरुडाश्च तथान्येऽपि विद्याधराश्च साप्सराः ।
सर्वे लोकाधिपाश्चापि त्रिरत्नशरणं गताः ॥ १४.११७{१७} ॥
संबुद्धशासने तत्र सांघिकानां समन्ततः ।
रक्षावरणसंगुप्तिं कृत्वाभजन् समुद्यताः ॥ १४.११८{१८} ॥
तद्दृष्ट्वा तानि पञ्चापि गांधर्विकशतानि च ।
अनुमोद्य प्रसन्नानि संमील्यैवं वभाषिरे ॥ १४.११९{१९} ॥
एते सर्वे वयं नीचे कर्मणि परिवर्त्तिकाः ।
सुखानभिज्ञदुःखार्त्ताः क्लेशिनः कृछ्रवृत्तयः ॥ १४.१२०{२०} ॥
यदस्माभिः पुरा पुण्यं किं चिद्वापि न साधितम् ।
तेनास्यात्र वयं सर्वे दुःखिनो नीचवृत्तयः ॥ १४.१२१{२१} ॥
तदस्माभिरयं शास्ता मुनीश्वरः ससांघिकः ।
सत्कृत्य भोजनैर्वापि पूजनीयो यथाविधिः ॥ १४.१२२{२२} ॥
नूनमेतद्विपाकेन भवेमहि सुभागिनः ।
(र्म् १९१)
ततः पुण्यानुसारेण बोधिमार्गे चरेमहि ॥ १४.१२३{२३} ॥
ततः क्रमेण संप्राप्य बोधिचर्य्यां शुभां चरीम् ।
चरन्तस्तद्विपाकैश्च निर्वृतिं संलभेमहि ॥ १४.१२४{२४} ॥
इति मत्वा वयं सर्वे विज्ञप्य नृपतिं तथा ।
ससंघं सुगतं भोज्यैरर्हामहे समर्चितुम् ॥ १४.१२५{२५} ॥
तथेति संमतं कृत्वा सर्वे तेऽभ्यनुमोदिताः ।
नृपतेर्विज्ञापनां कर्तुं सहसा समुपाचरन् ॥ १४.१२६{२६} ॥
तत्र ते समुपासृत्य दृष्ट्वा तं नृपतिं मुदा ।
कृताञ्जलिपुटो नत्वा प्रार्थयन्नेवमादरात् ॥ १४.१२७{२७} ॥
जय देव महाराज लोकान् धर्मेण पालय ।
किञ्चिद्विज्ञापनां कर्त्तुं वयमुपागताः ॥ १४.१२८{२८} ॥
विजानीयाद्भवान् ह्येतत्तथापि प्रार्थयामहे ।
श्रुत्वा नोऽनुग्रहं कृत्वा कृपया तत्प्रसीदतु ॥ १४.१२९{२९} ॥
यद्वयं देव सर्वेऽत्र नीचकर्मानुचारिणः ।
तत्ससंघं मुनिं भोज्यैः समिछामः समर्चितुम् ॥ १४.१३०{३०} ॥
तदनुज्ञां प्रदत्वा नः कृपयोद्धर्तुमर्हसि ।
एतद्विज्ञापनां कुर्मस्तत्प्रसीद नृपाधिप ॥ १४.१३१{३१} ॥
इति तैः प्रार्थितं श्रुत्वा नृपतिः सोऽनुमोदितः ।
तान् सर्वान् समुपामंत्र्य पुनरेवं समादिशत् ॥ १४.१३२{३२} ॥
साधु भवतु सर्वेषां युष्माकं सत्समीहितम् ।
तत्तथा क्रियतां बुद्धे सत्कारं श्रद्धयादरात् ॥ १४.१३३{३३} ॥
संबुद्धे यत्कृतं कर्म तत्फलं क्षिणुयान्न हि ।
क्रमाद्बोधिचरिं पूर्य निर्वृतिं समवाप्नुयात् ॥ १४.१३४{३४} ॥
तदत्र सर्वथा यूयं ससंघं श्रीघनं मुनिम् ।
यथार्हभोजनं भक्त्या पूजयध्वं समादरात् ॥ १४.१३५{३५} ॥
इत्यादिष्टम् ः - न्द्रेण श्रुत्वा सर्वेऽपि ते मुदा ।
तथेति प्रतिनंदित्वा नृपं नत्वा ततोऽचरन् ॥ १४.१३६{३६} ॥
ततस्ते संमतं कृत्वा विहारे सहसा गताः ।
दृष्ट्वा तं श्रीघनं नत्वा प्रार्थयन्नेवमादरात् ॥ १४.१३७{३७} ॥
भगवंस्तद्विजानीयाद्यदर्थं समुपागताः ।
तथापि प्रार्थयेयैवमनुग्रहीतुमर्हति ॥ १४.१३८{३८} ॥
यद्वयं भवतां सर्वसांघिकानां यथाविधिम् ।
पूजयितुं समिछामो सत्कर्तुं भोजनैरपि ॥ १४.१३९{३९} ॥
तद्भवां कृपया दृष्ट्वा कृत्वास्माकमनुग्रहम् ।
पुरे श्वः सांघिकैः सार्द्धं विजयितुं समर्हसि ॥ १४.१४०{४०} ॥
इति तैः प्रार्थिते सर्वैर्भगवान् स मुनीश्वरः ।
तेषां धर्मप्रवृद्ध्यर्थं तूष्णीभूत्वाध्युवास तत् ॥ १४.१४१{४१} ॥
ततस्सर्वेऽपि ते मत्वा भगवताधिवासितम् ।
भूयस्तं श्रीघनं नत्वा स्वं पुरं सहसा ययुः ॥ १४.१४२{४२} ॥
तत्र सर्वेऽपि ते भूमिं शोधयित्वा समन्ततः ।
प्रज्ञप्य स्वासनान्येवं सामग्रिं समसाधयन् ॥ १४.१४३{४३} ॥
(र्म् १९२)
ततः पूजोपहाराणि भोज्याङ्गानि रसानि च ।
पेयानि सुप्रणीतानि साधयित्वा प्रमोदिताः ॥ १४.१४४{४४} ॥
तत्र तं सुगतं सर्वं संघं चामंत्रितुं ययुः ।
विहारे समुपसृत्य श्रीघनं संप्रणेमिरे ॥ १४.१४५{४५} ॥
कृताञ्जलिपुटो नत्वा सर्वे ते समुपस्थिताः ।
संबुद्धप्रमुखं संघं प्रार्थयन्नेवमादरात् ॥ १४.१४६{४६} ॥
सर्वज्ञ भगवं छास्तः समयो वर्त्ततेऽधुना ।
तद्भवान् संघिकैः सार्द्धं विजयितुं समर्हति ॥ १४.१४७{४७} ॥
इति तैः प्रार्थिते दृष्ट्वा भगवान् स ससांघिकः ।
पात्रचीवरमादय प्रतस्थे संप्रभासयन् ॥ १४.१४८{४८} ॥
तत्र मार्गेषु सर्वत्र प्रातिहार्यं प्रदर्शयन् ।
सर्वेषां शुभतां कृत्वा तत्पुरे समुपाविशत् ॥ १४.१४९{४९} ॥
प्रदक्षिणक्रमेणैवं चरंस्तत्र समंततः ।
भासयं भद्रतां कुर्वन् तत्प्रदेशे समाचरन् ॥ १४.१५०{५०} ॥
तत्र पाद्यार्घमादाय क्रमेण सह सांघिकम् ।
स्वासने समुपाविश्य तस्थौ भानुरिवोज्वलन् ॥ १४.१५१{५१} ॥
तदा तं श्रीघनं सर्वसंघं च स्वासने स्थितम् ।
दृष्ट्वा सर्वेऽपि ते हर्षात्पूजयितुं समारभन् ॥ १४.१५२{५२} ॥
तथा क्रमेण संपूज्य तं बुद्धप्रमुखं गणम् ।
यथार्हभोजनैः सर्वं संतृप्तं समतोषयन् ॥ १४.१५३{५३} ॥
ततस्ते भोजनांते तत्पात्राणि व्यपनीय च ।
करादीञ्छोधयित्वा तद्भूमिं च पर्यशोधयन् ॥ १४.१५४{५४} ॥
ततः पूगादिकं दत्वा पुनः सर्वेऽपि ते मुदा ।
कृताञ्जलिपुटा नत्वा समुपतस्थिरे पुनः ॥ १४.१५५{५५} ॥
ते च गांधर्विकाः सर्वे त्रिरत्नशरणं गताः ।
बोधिप्रणिधिमाधाय प्रभेजिरे समाहिताः ॥ १४.१५६{५६} ॥
वेणुवीणामृदंगादि तूर्यसंगीतिवादनैः ।
उपस्थित्य ससंघं तं श्रीघनं समतोषयत् ॥ १४.१५७{५७} ॥
तद स भगवां दृष्ट्वा तेषां भक्तिप्रसादिनीम् ।
सर्वेषां शुद्धचित्तानि व्यमुञ्चत्स्मितमुद्धवात् ॥ १४.१५८{५८} ॥
तत्संस्मितसहोत्पन्नाः पंचवर्णाः शुभांशवः ।
सर्वत्र भुवने गत्वा प्रचेरुरमृतांशुवत् ॥ १४.१५९{५९} ॥
तेषां के चिदधोगत्वा नरकेषु समन्ततः ।
अवभास्य परिस्पृष्ट्वा सर्वत्रापि सुखं ददुः ॥ १४.१६०{६०} ॥
तदा ते नारकीयास्तत्प्रभास्पृष्टाः सुखान्विताः ।
किमेतदिति संदिग्धाः संमील्यैवं वभाषिरे ॥ १४.१६१{६१} ॥
अहो नु जायते सौख्यमस्माकं सांप्रतं कथम् ।
वतान्यत्र गताः स्मोऽद्य कस्य पुण्यानुभावतः ॥ १४.१६२{६२} ॥
इति संदिग्धचित्तानां तेषां मनः प्रबोधने ।
भगवान्निर्मितं बुद्धं संप्रेषयन् समंततः ॥ १४.१६३{६३} ॥
तत्रा तं सौगतं दृष्ट्वा सर्वे ते नरकस्थिताः ।
विस्मिताः समुपासृत्य ववन्दिरे प्रसादिताः ॥ १४.१६४{६४} ॥
(र्म् १९३)
नमो बुद्धाय धर्माय संघाय च नमस्सदा ।
इति प्रोक्त्वा प्रणत्वा तच्छरणं समुपाययुः ॥ १४.१६५{६५} ॥
एतत्पुण्यानुभावेन सर्वे ते नरकोत्थिताः ।
सहसा स्वर्गतिं याताः सद्धर्मे समुदाचरन् ॥ १४.१६६{६६} ॥
एवं तान् सर्वसत्वांश्च समुद्धृत्य समन्ततः ।
सर्वे तेऽप्यंशवो भूयस्संबुद्धान्तिकमुपाचरन् ॥ १४.१६७{६७} ॥
के चिदूर्द्ध्वगता यावदकनिष्ठं समन्ततः ।
अवभास्य समुद्घुष्य तत्रैवं समचोदयन् ॥ १४.१६८{६८} ॥
अनित्यं खलु संसारं शून्यं ह्यनात्मकम् ।
इति सत्यं परिज्ञाय त्रिरत्नं भजतादरात् ॥ १४.१६९{६९} ॥
निष्क्रामतारभध्वं च यूज्यध्वं बुद्धशासने ।
धुनीत मारसैन्याश्च नडागारं यथा करी ॥ १४.१७०{७०} ॥
योऽप्यस्मिन् सौगते धर्मे ह्यप्रमत्तश्चरेत्सदा ।
स त्यक्त्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ १४.१७१{७१} ॥
इति संचोदयन्तस्तां सार्वान् देवांश्च सर्वतः ।
ते सर्वेऽप्यंशवो भायः सुगतान्तिकमाययुः ॥ १४.१७२{७२} ॥
ततस्तेऽप्यंशवः सर्वे संमील्य संगता मुनेः ।
प्रदक्षिणत्रयं कृत्वा तस्योर्णायां समाविशन् ॥ १४.१७३{७३} ॥
तद्दृष्ट्वा ते सभालोका विस्मयोद्धतमानसाः ।
किमेतदिति संचिन्त्य सर्वे तस्थुः शकौतुकाः ॥ १४.१७४{७४} ॥
अथानंदः समालोक्य तान् सर्वान् विस्मयोद्धवान् ।
उत्थाय साञ्जलिर्नत्वा शास्तारं तं समब्रवीत् ॥ १४.१७५{७५} ॥
भगवन्स्ते मुखाद्भासिः पंचवर्णा विनिर्गता ।
अवभास्य दिशः सर्वा ऊर्णायां च विशन्ति ताः ॥ १४.१७६{७६} ॥
एतद्दृष्ट्वा सभालोकाः सर्वेऽपीमे सविस्मयाः ।
तद्धेतुं श्रोतुमिछन्ति तदुपादेष्टुमर्हति ॥ १४.१७७{७७} ॥
नाहेतु हि स्मितं बुद्धा दर्शयन्ति कदा चन ।
यद्धेतौ भवता शास्तुर्हसितं तत्समादिश ॥ १४.१७८{७८} ॥
इति संप्रार्थितं शिष्येन स मुनीश्वरः ।
तमानंदैः सभां चापि समालोक्यैवमादिशत् ॥ १४.१७९{७९} ॥
पश्यानंद यदेतैर्हि सर्वै गान्धर्विकैरपि ।
मम ससांघिकस्यैवं सत्कारं प्रकृतं मुदा ॥ १४.१८०{८०} ॥
एतत्पुण्यविपाकेन सर्वेऽपीमे भवान्तरे ।
क्रमाद्बोधिचरीं प्राप्ता निःक्लेशा विमलाशयाः ॥ १४.१८१{८१} ॥
मारचर्याविनिर्मुक्ताः परिशुद्धास्त्रिमण्डलाः ।
वर्णस्वराभिधाः सर्वे प्रत्येकसुगता जिनाः ॥ १४.१८२{८२} ॥
प्रान्ताशय्यासानासीना हीनदीनानुकम्पकाः ।
दक्षिणीया महासत्वा भविष्यन्ति शुभंकराः ॥ १४.१८३{८३} ॥
एवमेतात्समालोक्य यूयं यदि समिछथ ।
तथात्र श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ १४.१८४{८४} ॥
ये त्रिरत्नं सदा भक्त्या सत्कृत्यैवं भजन्ति ते ।
विहाय दुर्गतिं नित्यं सद्गतिं समवाप्नुयुः ॥ १४.१८५{८५} ॥
(र्म् १९४)
इति मत्वात्र संसारे येषां वांछा सुखे शिवे ।
ते सत्कृत्य त्रिरत्नेषु श्रद्धया भजतानिशम् ॥ १४.१८६{८६} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च ते जनाः ।
सत्यमेवं प्रतिज्ञाय त्रिरत्नं सर्वदाभजन् ॥ १४.१८७{८७} ॥
तद्दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः ।
कृताञ्जलिपुटा नत्वा पप्रछुस्तं मुनीश्वरम् ॥ १४.१८८{८८} ॥
यदेवं भगवन्नेभिः सत्कारं प्रकृतं महत् ।
तत्ते केन सुपुण्येन सम्यगादेष्टुमर्हति ॥ १४.१८९{८९} ॥
एवं तैर्भिक्षुभिः सर्वैः प्रार्थिते स जिनेश्वरः ।
सर्वान्स्ताञ्छ्रावकान् भिक्षून् समालोक्यैवमादिशत् ॥ १४.१९०{९०} ॥
शृणुध्वं भिक्षवः पुण्यं यन्मया प्रकृतं पुरा ।
तदत्र कथितं श्रुत्वा श्रद्धयाभ्यनुमोदत ॥ १४.१९१{९१} ॥
पुरासीद्भगवान् बुद्धः प्रबोधनाभिधो जिनः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ १४.१९२{९२} ॥
सर्वविद्याधिपो नाथस्तथागतो विनायकः ।
मारजिल्लोकविद्भर्त्ता सुभद्रोऽर्हन् हितंकरः ॥ १४.१९३{९३} ॥
तदा स भगवान् बुद्धो जनपदेषु चारिकाम् ।
चरन्नन्यां राजधानीमनुप्राप्तः ससांघिकः ॥ १४.१९४{९४} ॥
तत्र तस्य नरेन्द्रस्य क्रीडोद्याने तरोरधः ।
प्रविश्य स्वासनासीनस्तस्थौ वह्निरिवोज्वलन् ॥ १४.१९५{९५} ॥
तदैकस्मिन् दिने तत्र राजा कान्ताप्रवादिनैः ।
संगीतैः सह संरक्तो रमितुं समुपाविशत् ॥ १४.१९६{९६} ॥
तत्रस्थं तं समासीनं सुगतं सुप्रभोज्वलम् ।
दृष्ट्वैव सहसोपेत्य नत्वा कृत्वा प्रदक्षिणाम् ॥ १४.१९७{९७} ॥
समाधिस्थं तमालोक्य तष्ठौ चिरमुपाश्रयन् ।
ततस्तन्मुखपद्मोत्थसद्धर्मामृतलिप्सया ॥ १४.१९८{९८} ॥
वाद्यमानैः सतैर्वाद्यैर्मुनिं प्राबोधयन्नृपः ।
ततः स सुगतो बुद्धो समाधेः शीघ्रमुत्थितः ॥ १४.१९९{९९} ॥
सान्तःपुरं नरेंद्रं तं प्राद्राक्षीत्समुपस्थितम् ।
तदा तं नृपतिं दृष्ट्वा स संबुद्धः प्रबोधनः ॥ १४.२००{१००} ॥
सद्धर्म्मं समुपादेष्टुं समामंत्र्यैवमब्रवीत् ।
एहि राजन्महावाहो स्वागतं ते महीपते ॥ १४.२०१{१} ॥
सद्धर्मं समुपाश्रित्य बोधिचर्यां समाचर ।
सदा दानं प्रदत्वात्र शीलं धृत्वा समाहितः ॥ १४.२०२{२} ॥
क्षान्त्या प्रसादयल्लोकान् धर्मवीर्यं प्रसाधय ।
बोधौ चित्तं समाधाय प्रज्ञारत्नमुपार्जय ॥ १४.२०३{३} ॥
तद्रत्नानुभावेन संबोधिमार्गमाप्नुयाः ।
ततस्ते मङ्गलं नित्यमिहामुत्रे सदा भवेत् ॥ १४.२०४{४} ॥
सर्वसत्वहितं कुर्वन् सद्गतिमेव प्राप्नुयाः ।
इति मत्वा महाराज सद्धर्मं समुपाश्रयन् ॥ १४.२०५{५} ॥
त्रिरत्नं शरणं कृत्वा सत्कृत्य भज सर्वदा ।
त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन ॥ १४.२०६{६} ॥
(र्म् १९५)
सर्वदा सत्फलान्येव सूते बोधिं समर्पयेत् ।
इति मत्वा महाराज त्रिरत्नशरणं गतः ॥ १४.२०७{७} ॥
बोधिचर्याव्रतं धृत्वा चर नित्यं समाहितः ।
तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ॥ १४.२०८{८} ॥
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ।
इति तेनार्हतादिष्टं मुनीन्द्रेण स भूपतिः ॥ १४.२०९{९} ॥
श्रुत्वा तथेति विज्ञप्य प्राभ्यनन्दत्प्रबोधितः ।
ततः स मुदितो राजा तं मुनीन्द्रं ससांघिकम् ॥ १४.२१०{१०} ॥
यथाविधि समभ्यर्च्य भोजनैः समतोषयत् ।
ततश्च भोजनान्ते स नृपतिः साञ्जलिर्मुदा ।
तं मुनीन्द्रं प्रणत्वैवं प्रणिधानं हृदो व्यधात् ॥ १४.२११{११} ॥
अनेन कुशलेनाहं लोकेऽन्धेऽपरिणायके ।
सम्यग्बोधिं समागम्य भवेयं सुगतो जिनः ॥ १४.२१२{१२} ॥
एतत्तेन नरेन्द्रेण प्रणिधानं कृतं मुदा ।
मत्वा स सुगतस्तस्य तथाशीर्वचनं ददौ ॥ १४.२१३{१३} ॥
जयोऽस्तु ते सदा राजं धर्मेण पालय प्रजाः ।
प्रणिधानं यथा बोधौ तथा ते सिद्ध्यतु ध्रुवम् ॥ १४.२१४{१४} ॥
इत्यादिष्टं मुनीन्द्रेण तेन श्रुत्वा स भूपतिः ।
मुदितः साञ्जलिर्नत्वा तं मुनीन्द्रं समब्रवीत् ॥ १४.२१५{१५} ॥
अद्यारभ्य सदा शास्तस्त्रिरत्नशरणं गतः ।
संबोधिसंवरं धृत्वा चरिष्यामि समाहितः ॥ १४.२१६{१६} ॥
तद्भवान् कृपया दृष्ट्या सदा मां द्रष्टुमर्हति ।
सर्वदा भवतामेव शरणेऽस्मि समास्थितः ॥ १४.२१७{१७} ॥
इति संप्रार्थनां कृत्वा राजा स सजनो मुदा ।
भगवंतं तमानम्य सानंदः स्वपुरं ययौ ॥ १४.२१८{१८} ॥
ततः स भगवाञ्छास्ता समुत्थाय ससांघिकः ।
सर्वत्र भद्रतां कृत्वा स्वाश्रमे समुपाययौ ॥ १४.२१९{१९} ॥
मन्यतां भिक्षवो योऽसौ राजा संबुद्धसेवकः ।
अहमेव तदाभूवन्नान्यो द्रष्टव्य एव सः ॥ १४.२२०{२०} ॥
यन्मया श्रद्धया तस्य प्रबोधनस्य तायिनः ।
पूजाकारि महोत्साहैस्तूर्यसंगीतिवादनैः ॥ १४.२२१{२१} ॥
तेन पुण्यविपाकेन ममात्रैव महोत्सवैः ।
एतैर्गान्धर्विकैरेवं सत्कारः प्रकृताधुना ॥ १४.२२२{२२} ॥
एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवम् ।
त्रिरत्नं शरणं कृत्वा भजनीयं शुभार्थिभिः ॥ १४.२२३{२३} ॥
यूयं चापि सदा नित्यं शास्तारं सद्गुरुं जिनम् ।
संबुद्धं समुपाश्रित्य विहरध्वं समाहिताः ॥ १४.२२४{२४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा ।
सर्वे तथेति विज्ञप्य त्रिरत्नानि सदाभजन् ॥ १४.२२५{२५} ॥
इति मे गुरुणादिष्टं श्रुतं मया नराधिप ।
तथाधुना समाख्यातं तव पुण्यप्रवृद्धये ॥ १४.२२६{२६} ॥
एवं राजंस्त्वयाप्येवं त्रिरत्नं शरणं गतः ।
संबुद्धशासनं धृत्वा चर धर्मं समाहितः ॥ १४.२२७{२७} ॥
(र्म् १९६)
प्रजाश्चापि तथा राजं बोधयित्वा प्रयत्नतः ।
संबोधिसाधने धर्मे योजनीयास्त्वयादरात् ॥ १४.२२८{२८} ॥
तथा चेत्ते सदा भद्रं भवेन्नूनं समन्ततः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ १४.२२९{२९} ॥
इति शास्त्रा समादेष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ १४.२३०{३०} ॥
गांधर्विकानामवदानमेतच्छ्रुत्वानुमोदन्ति नरा मुदा ये ।
ते सर्व एनःपरिमुक्तचित्ता भुक्त्वा सुखान्येव लभन्ति बोधिम् ।
++ इति रत्नावदानतत्वे गांधर्विकावादनं समाप्तम् ++
(र्म् १९७)
xव्सूक्ष्मत्वचोवदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ १५.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हसि ॥ १५.२{२} ॥
इति संप्रार्थिते राज्ञा स यतिः सुगतात्मजः ।
अशोकं तं नृपं दृष्ट्वा पुनरेवमुपादिशत् ॥ १५.३{३} ॥
शृणु राजन्महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वाप्येवं प्रमोदय ॥ १५.४{४} ॥
पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः ।
विहारे जेतकारण्ये विजहार ससांघिकः ॥ १५.५{५} ॥
तस्मिंश्च समये तत्र सर्वे भिक्षुगणा अपि ।
श्रावकाश्चैलकाश्चैव सर्व उपासका अपि ॥ १५.६{६} ॥
सर्वेऽपि भिक्षुणीसंघा उपासिकागणा अपि ।
बोधिसत्वगणाश्चापि सद्धर्मसाधनोद्यताः ॥ १५.७{७} ॥
सभामध्यासनासीनं श्रीघनं तं जगद्गुरुम् ।
उपतस्थुः पुरस्कृत्य परिवृत्य समंततः ॥ १५.८{८} ॥
तदा तस्य मुनीन्द्रस्य मुखाम्भोजविनिर्गतम् ।
भद्रधर्मामृतं पातुं सर्वे लोकाः समागताः ॥ १५.९{९} ॥
शक्रादयः सुरेन्द्राश्च ब्रह्मादयो महर्द्धिकाः ।
लोकपाला महावीराः ससैन्यपरिवारकाः ॥ १५.१०{१०} ॥
योगिनो यतयश्चापि महर्षयस्तपश्विनः ।
ब्राह्मणाश्च महाविज्ञाः सद्धर्मगुणवांछिनः ॥ १५.११{११} ॥
राजानो राजपुत्राश्च वैश्या मंत्रिजना अपि ।
अमात्याः श्रेष्ठिनो भट्टाः पौरिकाश्च गृहाधिपाः ॥ १५.१२{१२} ॥
सैन्याधिपाश्च योधारः सार्थवहा महाजनाः ।
वणिजः शिल्पिनश्चापि ग्राम्याः कार्पटिका अपि ॥ १५.१३{१३} ॥
एवमन्येऽपि लोकाश्च सद्धर्मगुणवाञ्छिनः ।
सर्वे धर्मामृतं पातुं विहारे समुपागताः ॥ १५.१४{१४} ॥
तत्र प्राप्ताः सभामध्ये समासीनं मुनीश्वरम् ।
श्रीघनं तं समालोक्य प्रणत्वा समुपाचरन् ॥ १५.१५{१५} ॥
तत्र ते समुपासृत्य सर्वे तं श्रीघनं मुनिम् ।
त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य प्रणेमिरे ॥ १५.१६{१६} ॥
ततः सर्वेऽपि ते लोकाः परिवृत्य समन्ततः ।
साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः ॥ १५.१७{१७} ॥
तदा स भगवान् दृष्ट्वा सर्वांस्तान् समुपस्थितान् ।
आदिमध्यान्तकल्याणमार्यधर्ममुपादिशत् ॥ १५.१८{१८} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः ।
(र्म् १९८)
लोका धर्मविशेषत्वं विज्ञाय प्राणनन्दिरे ॥ १५.१९{१९} ॥
तस्मिन्नवसरे तत्र श्रावस्त्यां पौरिको गृही ।
श्रेष्ठी महाजनः श्रिमाञ्छ्राद्धो भद्राशयाभवत् ॥ १५.२०{२०} ॥
स एकस्मिं दिने स्वस्मिन् भाण्डालकोष्ठके विशन् ।
स्वसंपन्निचयं दृष्ट्वा मनसैवं व्यचिन्तयत् ॥ १५.२१{२१} ॥
अहो मे जायते संपद्दीयती संप्रवर्द्धिता ।
तथापि वर्द्ध्यते तृष्णा यतः सौख्यं न किं चन ॥ १५.२२{२२} ॥
यदिमे चंचला भोगा जलचंद्रनिभा मम ।
अनित्या अस्थिराः पद्मपत्रस्थितजलोपमा ॥ १५.२३{२३} ॥
तदत्र किं मनोऽद्यापि तृष्णयाकृष्यते मम ।
येन चराम्यहं लोके दुःखी भविकलाशयः ॥ १५.२४{२४} ॥
तत्किं मे संपदा सारं यतः सौख्यं न विद्यते ।
धर्मार्थे गोचरं नैव केवलं मदवृद्धये ॥ १५.२५{२५} ॥
मदेन वर्द्धते मानं मानाल्लोके प्रमादता ।
प्रमादाद्दीप्यते चेर्ष्या कोपाग्निर्दीप्यते ततः ॥ १५.२६{२६} ॥
कोपात्क्रूराशयश्चण्डो निर्दयो दुरिताशयः ।
पापात्मा हिंसको दुष्टो दशाकुशलसाधकः ॥ १५.२७{२७} ॥
स्वयं नष्टः परांश्चापि नाशयति दुराशयः ।
ततोऽतिपापसंरक्तो दुराचरोऽतिदुर्मनाः ॥ १५.२८{२८} ॥
ततोऽतिदुर्मतिर्द्रोही संवृत्तिधर्मनिंदकः ।
त्रिरत्नानि प्रतिक्षिप्य महापातकमाचरेत् ॥ १५.२९{२९} ॥
ततोऽतिपापसंक्लिष्टाः प्रमूढो नरकं व्रजेत् ।
नरकेषु भ्रमन्नित्यं दुःखान्येव सदाश्नुयात् ॥ १५.३०{३०} ॥
यद्वात्रापि च संसारे जीवितमध्रुवं खलु ।
क्षणध्वंसि शरीरं च सार्वेषां मरणं ध्रुवम् ॥ १५.३१{३१} ॥
तदत्राहमसारेभ्यो भोगेभ्यः सारमुत्तमम् ।
सद्धर्मं समुपादातुं यत्नं कुर्यां समादरात् ॥ १५.३२{३२} ॥
सद्धर्मं सौगतं धर्ममित्याख्यातं पुराविदैः ।
तदत्र सौगते क्षेत्रे दानं कुर्वीय सांप्रतम् ॥ १५.३३{३३} ॥
बौद्धक्षेत्रे कृतं दानं बोधिवीजं भवेद्ध्रुवम् ।
एतदेवात्र संसारे साधनीयं शुभाप्तये ॥ १५.३४{३४} ॥
दानेन शुद्ध्यते चित्तं सुचित्तः सुमतिं लभेत् ।
सुबुद्धिः सद्गुणारक्तः संवृत्तिशीलभृत्कृती ॥ १५.३५{३५} ॥
सुशीलः क्षान्तिमान् धीरः परात्मसमभाविकः ।
सुधीरो वीर्यवान् सर्वसत्वार्थसाधनोद्यतः ॥ १५.३६{३६} ॥
अप्रधृष्यो महासत्वः क्लेशारिदमको भवेत् ।
ततः सुपरिशुद्धात्मा समाधिसुस्थितो भवेत् ॥ १५.३७{३७} ॥
तत्समाधिवलाधानैः प्रज्ञाब्धिपारमागतः ।
बोधिरत्नं समासाद्य बोधिसत्वोऽधिपो भवेत् ॥ १५.३८{३८} ॥
एतद्रत्नानुभावेन भद्रंकला समन्ततः ।
(र्म् १९९)
सर्वमारान् विनिर्जित्य संबुद्धपदमाप्नुयात् ॥ १५.३९{३९} ॥
इत्यर्हद्भिर्महाभिज्ञैः समाख्यातं मया श्रुतम् ।
तत्संबुद्धपदां प्रप्तुं बुद्धं भजेय सांप्रतम् ॥ १५.४०{४०} ॥
नूनं बुद्धानुभावेन भावितं सेत्स्यते ध्रुवम् ।
तद्बुद्धप्रमुखं सर्वसंघं पूजेय सादरम् ॥ १५.४१{४१} ॥
इति निश्चित्य स श्रीमान् गृहस्थः संप्रमोदितः ।
भगवंतं ससंघन् तं पूजयितुं समैछत ॥ १५.४२{४२} ॥
ततः स सजनः श्रेष्ठी त्रिरत्नभजनोत्सुकः ।
विहारे जेतकारण्ये प्रययौ संप्रहर्षितः ॥ १५.४३{४३} ॥
तत्र तं श्रीघनं दृष्ट्वा स गृहस्थः प्रमोदितः ।
नत्वा प्रदक्षिणीकृत्य समर्चयद्यथाविधिः ॥ १५.४४{४४} ॥
ततः स सजनो नत्वा साञ्जलिः संप्रमोदितः ।
मुनीन्द्रं तं समालोक्य पुरः स्थित्वैवमब्रवीत् ॥ १५.४५{४५} ॥
सर्वज्ञ भगवं छास्तर्भवतां शरणं व्रजे ।
ततोऽभिलषिते कार्ये प्रसीदतु जगद्गुरो ॥ १५.४६{४६} ॥
भगवं भवतः शास्तुः ससंघस्य जगद्गुरोः ।
पूजयितुं समिछामि तदनुज्ञां ददातु मे ॥ १५.४७{४७} ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
तथास्त्विति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ १५.४८{४८} ॥
ततः स गृहभृन्मत्वा भगवताध्युवास तम् ।
साञ्जलिस्तं मुनिं नत्वा मुदितः स्वगृहं ययौ ॥ १५.४९{४९} ॥
तत्र स स्वजनैः स्वस्मिं गृहे मर्गेषु सर्वतः ।
परिशोध्य सुगंधैश्च परिषिंच्याभ्यशोभयत् ॥ १५.५०{५०} ॥
तत्रासनानि प्रज्ञप्य वितानानि वितत्य च ।
मुक्तपुष्पैः समाकीर्य सुरभिं समधूपयत् ॥ १५.५१{५१} ॥
ततः स भोज्यसामग्रीं साधयित्वा स्ववंधुभिः ।
तथोपहारसामग्रीं परिशुद्धामसाधयत् ॥ १५.५२{५२} ॥
ततोऽन्ये द्युर्गृहस्थः स स्नात्वा शुद्धांवरावृतः ।
संबुद्धामंत्रणं कर्तुं विहारे सजनो ययौ ॥ १५.५३{५३} ॥
तत्र तं श्रीघनं दृष्ट्वा ससंघं स पुरोगतः ।
कृताञ्जलिपुटो नत्वा प्रार्थयदेवमादरात् ॥ १५.५४{५४} ॥
भगवन्नाथ सर्वज्ञ समयो वर्ततेऽधुना ।
तत्ससंघो ममावासे भावानागन्तुमर्हति ॥ १५.५५{५५} ॥
इति संप्रार्थिते तेन भगवान् स ससांघिकः ।
पात्रचीवरमादाय संप्रतस्थे प्रभासयन् ॥ १५.५६{५६} ॥
तत्र स भगवान्मार्गे कृत्वा भद्रं प्रभासयन् ।
भिक्षुसंघगणैः सार्द्धं श्रावस्तीं समुपाविशन् ॥ १५.५७{५७} ॥
तदाभून्नगरे तत्र सर्वत्रापि सुमङ्गलम् ।
उपद्रवाणि सर्वाणि सहसा विलयं ययुः ॥ १५.५८{५८} ॥
अन्धा रूपाणि पश्यन्तः शृण्वन्तो वधिरा रवान् ।
हीनेन्द्रियाश्च ये तेऽपि प्रतिलब्धेन्द्रिया ववुः ॥ १५.५९{५९} ॥
क्सुत्पिपासाहता ये च तेऽभवन् परितुष्टिताः ।
रोगिणो नीरुजा आसन् कुवेला रुचिराम्वराः ॥ १५.६०{६०} ॥
(र्म् २००)
मूका आसन् प्रवक्तारो जडाश्चापि सुवाग्मिनः ।
चिरवैराभिसंनद्धास्तेऽप्यासन्मैत्रभाविताः ॥ १५.६१{६१} ॥
ये च चण्डाशायाः क्रूरास्तेऽप्यभूवन् दयालवः ।
ये च दुष्टा दुराचारास्ते सन्तस्सम्यमोद्यताः ॥ १५.६२{६२} ॥
दरिद्रा धनिनः प्रोढ्या दूर्वला वलिनोऽभवन् ।
ये शठा वंचकाश्चौरस्ते आर्याः सत्यवादिनः ॥ १५.६३{६३} ॥
एवं ये दुःखिनः सत्वास्ते सर्वे सुखिनोऽभवन् ।
एवं स भगवांस्तत्र कृत्वा भद्रं समन्ततः ॥ १५.६४{६४} ॥
प्रदक्षिणक्रमेणैवं ससंघं तद्गृहे विशन् ।
तत्र तस्य मुनीन्द्रस्य स गृहस्थो यथाक्रमम् ।
पाद्यं ददौ ससंघस्य सदाराः शुचिनाम्बुना ॥ १५.६५{६५} ॥
ततः स सुप्रासन्नात्मा ससंघं तं मुनीश्वरम् ।
प्रज्ञप्ते स्वासने तत्र यथाक्रमं न्यवेशयत् ॥ १५.६६{६६} ॥
तत्र ते सांघिकाः सर्वे संबुद्धप्रमुखाः क्रमात् ।
स्वस्वासने समाविश्य समातस्थुः समाहिताः ॥ १५.६७{६७} ॥
ततः स्वस्वासनासीनान् संबुद्धप्रमुखान् यतीन् ।
तान् सर्वान् स गृही दृष्ट्वा यथाविधि समर्चयत् ॥ १५.६८{६८} ॥
ततः स सजनः श्रेष्ठी स्वहस्तेन ससांघिकम् ।
तं मुनीन्द्रं सुधाकल्पैर्भोजनैः समतर्पयेत् ॥ १५.६९{६९} ॥
ततः संतृप्तितं दृष्ट्वा ससंघं तं मुनीश्वरम् ।
अपनीय स पात्राणि तद्धस्तादीन् व्यशोधयत् ॥ १५.७०{७०} ॥
ततः स साञ्जलिर्नत्वा तान् बुद्धप्रमुखान् यतीन् ।
पुरो नीचासनासीनो धर्मं श्रोतुमुपाश्रयत् ॥ १५.७१{७१} ॥
ततः स भगवान् दृष्ट्वा तं गृहष्ठं सुभाविनम् ।
आदिमध्यान्तकल्याणं धर्मामादेष्टुमब्रवीत् ॥ १५.७२{७२} ॥
आरोग्यमस्तु ते नित्यं गृहपते सदा शिवम् ।
बोधौ चित्तं समाधाय चर धर्मं समाहितः ॥ १५.७३{७३} ॥
धर्मेण जीयते पापं निष्पापः सद्गतिं व्रजेत् ।
सद्गतौ सत्सुखान्येव भुक्त्वा संचरते सदा ॥ १५.७४{७४} ॥
धर्मेण पुरुषो विद्वान् सर्वविद्याकलाधिपः ।
सुधिरो गुणवान् विज्ञो भवेच्छ्रीमान्महर्द्धिकः ॥ १५.७५{७५} ॥
धर्मेण सुचिरं जीवेदारोग्यं च सदा तनौ ।
सर्वत्रापि भवेन्नित्यं मंगलं निरुपद्रवम् ॥ १५.७६{७६} ॥
धर्मो न नश्यते क्वपि ह्रियते नापि केन चित् ।
केनापि नश्यते नैव चालयितुं कदा चन ॥ १५.७७{७७} ॥
नाग्निभिर्दह्यते धर्मः क्लिद्यते नापि चोदकैः ।
वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ १५.७८{७८} ॥
धर्मेण भूः स्थिरीभूता धर्मेण दीप्यतेऽनलः ।
धर्मेण चलते वायुर्धर्मेण वहते जलः ॥ १५.७९{७९} ॥
धर्मेण दीप्यते भानुर्धर्मेणैवं सुधाकरः ।
(र्म् २०१)
मेघा धर्मेण वर्षाणा भूमिः शष्यौषधीभराः ॥ १५.८०{८०} ॥
धर्मेणैवं तथा सर्वे लोकपाला महर्द्धिकाः ।
सर्वदुष्टान् विनिर्जित्य पालयन्ति जगत्त्रये ॥ १५.८१{८१} ॥
धर्मो न शीयते क्वापि धर्मो न परिभूयते ।
सर्वत्र जयते धर्मो धर्मो हि शोभते सदा ॥ १५.८२{८२} ॥
धर्महीना न शोभन्ते श्रिमन्तो गुणिनोऽपि च ।
धर्म्मिष्ठा एव शोभन्ते दरिद्रा निर्गुणा अपि ॥ १५.८३{८३} ॥
धर्मेण रक्षिता वीराः संग्रामे विजितारयः ।
यशोमान्यमहत्संपत्सुखानि ते लभन्ति च ॥ १५.८४{८४} ॥
तथा वीरा वणिक्सार्था धर्मेणैवाभिरक्षिताः ।
महाम्बुधिं समुत्तीर्य रत्नान्यपि लभन्ति च ॥ १५.८५{८५} ॥
धर्मवन्तो नरा धीरा बुद्धिमन्तो विचक्षणाः ।
सर्वविद्याकलाविज्ञा जयन्ते परवादिनः ॥ १५.८६{८६} ॥
तथा धर्मानुभावेन शिल्पविद्याकलाविदः ।
यशोमान्यप्रसादश्रीसत्सुखानि लभन्ति च ॥ १५.८७{८७} ॥
तथा च मंत्रिणोऽमात्या धर्मवन्तो विचक्षणाः ।
राज्यकार्याणि सर्वाणि साधयन्तो जयन्त्यरीन् ॥ १५.८८{८८} ॥
राजानः क्षत्रियाश्चैवं धर्मनीतिविचक्षणाः ।
सर्वदुष्टान् विनिर्जित्य विराजन्ते नाराधिपाः ॥ १५.८९{८९} ॥
तथा धर्मेण राजेन्द्रश्चक्रवर्त्ती महीश्वरः ।
सप्तरत्नसमायुक्तः सर्वशास्ता विराजते ॥ १५.९०{९०} ॥
तथा धर्मधरा एव यतयो योगिनोऽपि च ।
सर्वक्लेशगणाञ्जित्वा लभन्ति परमं पदम् ॥ १५.९१{९१} ॥
तथर्षयो महाभिज्ञा धर्मभृतो महर्द्धिकाः ।
यथाभिलषितां सिद्धिं प्राप्य मोक्षं व्रजन्ति च ॥ १५.९२{९२} ॥
तथा धर्मानुसारेण मंत्रविद्यार्थसाधकाः ।
सिद्धिसमृद्धिसंप्राप्ताः साधयन्ति यथेहितम् ॥ १५.९३{९३} ॥
तथा च मानवाः सर्वे लोका धर्मानुसारतः ।
निहीनमध्यमोत्कृष्टाः प्रभवन्ति महीतले ॥ १५.९४{९४} ॥
तथा धर्मानुसारेण लोका दैत्यादयोऽपि च ।
निहीनमध्यमोत्कृष्टा प्रचरन्ति रसातले ॥ १५.९५{९५} ॥
तथा स्वर्गेषु देवाश्च स्वस्वधर्मानुभावतः ।
सुखानि सुचिरं भुक्त्वा प्रवसन्ति प्रमोदिताः ॥ १५.९६{९६} ॥
एवं सर्वत्र लोकेषु स्वस्वधर्मानुभावतः ।
सर्वे सत्वाः सुखप्राप्ताः प्रचरन्ति यथेछया ॥ १५.९७{९७} ॥
एवं त्रैधातुकोत्पन्नाः सत्वाः सर्वे सुरादयः ।
स्वस्वधर्मानुसारेण भ्रमन्ति षड्गतिष्वपि ॥ १५.९८{९८} ॥
किमत्र वहुनोक्तेन धर्म एव जगत्प्रभुः ।
धर्मेणैव सदा नित्यं रक्षितः प्रचरेच्छुभे ॥ १५.९९{९९} ॥
षुभेन सिद्ध्यते चित्तं शुद्धचित्तः सुधीर्भवेत् ।
सुबुद्धिः सद्गुणाधारं सद्गुरुं समुपाश्रयेत् ॥ १५.१००{१००} ॥
तद्गुरोरुपदेशेन चरन्नित्यं समाहितः ।
बोधिचित्तं समाधाय त्रिरत्नानि सदा भजेत् ॥ १५.१०१{१} ॥
एतत्पुण्यानुभावेन सद्धर्मसाधनोद्यतः ।
(र्म् २०२)
बोधिसत्वो महासत्वो बोधिचर्यां व्रतं चरेत् ॥ १५.१०२{२} ॥
ततो मारगणाञ्जित्वा पूर्य पारमिताः क्रमात् ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयात् ॥ १५.१०३{३} ॥
एवं धर्मवरं मत्वा त्रिरत्नशरणं गतः ।
सद्धर्मं समुपश्रित्य चर बोधिपदाप्तये ॥ १५.१०४{४} ॥
मृत्युकाले विपत्तौ च धर्म्म एवानुगस्सुहृत् ।
तदा सर्वे त्यजन्त्याशु कोऽपि नैव सहानुगः ॥ १५.१०५{५} ॥
धर्म एव तदा त्राता सर्वत्राप्यनुगः सुहृत् ।
तस्माद्धर्मो महारत्नं साधनीयं प्रयत्नतः ॥ १५.१०६{६} ॥
एवं स भगवाञ्छास्ता धर्मस्याभ्यनुभावताम् ।
समादिश्य क्षणं तस्थौ तूष्णीभूत्वा समाहितः ॥ १५.१०७{७} ॥
ततस्तस्य मुनीन्द्रस्य पादौ स मुदितो गृही ।
प्रणत्वा मनसा चैवं प्रणिधानं सामदधे ॥ १५.१०८{८} ॥
अनेन कुशलेनाहं सर्वक्लेशविवर्जितः ।
प्रत्येकां बोधिमासाद्य निर्वृतिं समवाप्नुयात् ॥ १५.१०९{९} ॥
ततः स सुप्रसन्नास्यो गृहस्थः सजनो मुदा ।
भगवतं तमालोक्य पुरस्तस्थौ समाहितः ॥ १५.११०{१०} ॥
तदा स भगवांस्तस्य श्रीमतो हृदये स्थितम् ।
प्रणिधानं परिज्ञाय सुसंस्मितं व्यमुञ्चत ॥ १५.१११{११} ॥
ततस्तस्य मुनीन्द्रस्य मुखपद्मात्सुरस्मयः ।
पंचवर्णा विनिर्गत्य सर्वत्र समुदाचरन् ॥ १५.११२{१२} ॥
तासां या रश्मयो याता अधोलोके समन्ततः ।
ताः सर्वनरकेष्वेवमवभ्यास्य समासरत् ॥ १५.११३{१३} ॥
तदा ताभिः परिस्पृष्टाः सर्वे ते नरकस्थिताः ।
महत्सौख्यं समासाद्य विस्मयं समुपाययुः ॥ १५.११४{१४} ॥
तत्र सर्वेऽपि ते सत्वाः परस्परसमागताः ।
सर्वदुःखविनिर्मुक्ताः संमील्यैवं समब्रुवन् ॥ १५.११५{१५} ॥
अहो चित्रं किमद्यैवं महत्सौख्यं प्रजायते ।
किं नु वयं भवन्तोऽस्माच्च्युता अन्यत्र चागताः ॥ १५.११६{१६} ॥
यदस्माकं महद्दुःखं तत्सर्वं शाम्यतेऽधुना ।
संजायते महासौख्यं तदद्भुतं न मन्यते ॥ १५.११७{१७} ॥
नूनमत्राधुना कोऽपि बोधिसत्वः समागतः ।
यस्मादियं महारश्मिरवभास्य प्रसर्यति ॥ १५.११८{१८} ॥
इति चिंताभिदग्धानं तेषां चित्तप्रबोधने ।
भगवान्निर्मितं बुद्धं सर्वत्र तत्र प्रेषयेत् ॥ १५.११९{१९} ॥
तदा तं सौगतिं मूर्त्तिं दृष्ट्वा सर्वेऽपि ते मुदा ।
अहो चित्रमिति प्रोक्त्वा विस्मिताश्चैवमब्रुवन् ॥ १५.१२०{२०} ॥
नेहैवेतश्च्युताः सर्वे नाप्यन्यत्र गता वयम् ।
इहैव संस्थिताः सर्वे नरके प्रवसामहे ॥ १५.१२१{२१} ॥
अपि त्वयं महान् सत्वोऽपूर्वदर्शन आगतः ।
नूनमस्यानुभावेन संजायन्ते सुखानि नः ॥ १५.१२२{२२} ॥
तदस्मिं सुगताकरे वयं सर्वे प्रसादिताः ।
उपेत्य प्रणतिं कृत्वा सर्वथा संभजेमहि ॥ १५.१२३{२३} ॥
इति संभाष्य सर्वे ते नारकीयाः प्रमोदिताः ।
(र्म् २०३)
उपेत्य तं महासत्वं साञ्जलयोऽभिनेमिरे ॥ १५.१२४{२४} ॥
नमो बुद्धाय धर्माय संघाये च नमः सदा ।
इत्युक्त्वा च त्रिरत्नानां संस्मृत्वा शरणं ययुः ॥ १५.१२५{२५} ॥
इति ते निर्मिते तस्मिं चित्तं प्रसाद्य निर्मलाः ।
सर्वनिर्मुक्तकर्माणः सहसा सद्गतिं ययुः ॥ १५.१२६{२६} ॥
तथा चोर्द्धगता यास्ताः क्रमाच्चातुर्महाधिपान् ।
समारभ्य त्रयस्त्रिंशान् सर्वांश्चापि सुरालयात् ॥ १५.१२७{२७} ॥
यावद्भवाग्रपर्यन्तमवभास्य प्रसारिताः ॥ १५.१२८{२७} ॥
तथा चापि समोद्घुष्य सर्वान् देवाननोदयन् ।
अनित्यं खलु संसारं दुःखं शून्यमनात्मकम् ।
इति मत्वा शुभे नित्यं चरितव्यं सदापि च ॥ १५.१२९{२८} ॥
निष्क्रामतारभध्वं तद्युज्यध्वं बुद्धशासने ।
धुनीत मृत्युसैन्यानि नडागारं करी यथा ॥ १५.१३०{२९} ॥
यो ह्यस्मिं धर्मविनये ह्यप्रमत्तश्चरिष्यति ।
त्यक्त्वा जन्मात्र संसारे दुःखस्यान्तं करिष्यति ॥ १५.१३१{३०} ॥
इति मत्वात्र संबोधिपदं यदि समिछथ ।
तच्छ्रद्धया त्रिरत्नानि भजध्वं सर्वदादरात् ॥ १५.१३२{३१} ॥
एतच्छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः ।
त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादृताः ॥ १५.१३३{३२} ॥
एवं ता रश्मयः सर्वाः सर्वांल्लोकांच्छुभे वृषे ।
बोधयित्वा प्रतिस्थाप्य प्रत्याययुर्मुनेः पुरः ॥ १५.१३४{३३} ॥
तत्र ता रश्मयः सर्वाः पिण्डितास्तस्य तायिनः ।
त्रिधा प्रदक्षिणीकृत्वा सूर्णायां न्यविशत्पुनः ॥ १५.१३५{३४} ॥
तद्दृष्ट्वा विस्मिताः सर्वे लोकास्ते समितिस्थिताः ।
किं धर्ममादिशेद्बुद्ध इति संचिंत्य तस्थिरे ॥ १५.१३६{३५} ॥
अथानन्दो महाभिज्ञः समुत्थाय कृताञ्जलिः ।
पुरः स्थितो मुनीन्द्रं तं प्रणत्वा प्रार्थयत्तथा ॥ १५.१३७{३६} ॥
भगवान्नानाविधा रश्मिर्भवन्मुखाब्जनिर्गताः ।
अवभास्य जगल्लोकं भवदूर्णां निवेशिता ॥ १५.१३८{३७} ॥
मारजिन्निर्मलस्वान्तो निर्विकल्पो निरंजनः ।
नाहेत्वप्रत्ययं बुद्धा निर्दैन्या निर्मदोद्धवाः ।
स्मितं चंद्रकराहासं दर्शयन्ति कदाचन ॥ १५.१३९{३८} ॥
तद्यदर्थं भवान् स्मितं दर्शयति मुनीश्वर ।
तदर्थं श्रोतुमिच्छंति सर्वे लोका इमेऽधुना ॥ १५.१४०{३९} ॥
तद्भवां यत्समादेष्टुमिछति सांप्रतं मुने ।
तद्धर्मं समुपादिश्य प्रसादयत्विमां सभाम् ॥ १५.१४१{४०} ॥
इति तेन वशिष्येण प्रार्थिते स मुनीश्वरः ।
तमायुष्मन्तमानन्दं समामंत्र्यैवमब्रवीत् ॥ १५.१४२{४१} ॥
एवमेतत्सदानंद नाहेत्वप्रत्ययं स्मितम् ।
संबुद्धा अपि ते सर्वे दर्शयन्ति कदा चन ॥ १५.१४३{४२} ॥
यदर्थे स्मितमानंद दर्शितं सांप्रतं मया ।
(र्म् २०४)
तदर्थं संप्रवक्ष्यामि तच्छृणुध्वं समाहिताः ॥ १५.१४४{४३} ॥
पश्यसि त्वं तदानंद श्रेष्ठिनानेन यन्मम ।
एवंविधं ससंघस्य सत्कारं श्रद्धया कृतम् ॥ १५.१४५{४४} ॥
एतत्पुण्यविपाकेन मयि चित्तप्रसादतः ।
अयं श्रीमान्महासत्वो बोधिसत्वो भवेत्सुधीः ॥ १५.१४६{४५} ॥
ततः क्लेशविमुक्तात्मा परिशुद्धत्रिमंडलः ।
सूक्ष्मत्वगिति विख्यातः प्रत्येकबुद्ध आत्मवित् ॥ १५.१४७{४६} ॥
भविष्यति महाभिज्ञः संवृतिपरमार्थवित् ॥ १५.१४८{४७!} ॥
एवमेतत्महत्पुण्यवीजमाराधितं मम ।
सासने श्रीमतानेन श्रद्धया बोधिचेतसा ॥ १५.१४९{४८} ॥
बुद्धक्षेत्रे कृतं पुण्यं न क्षिणोति कदा चन ।
संबोधिसत्फलं दद्यान्नान्यद्धर्मफलं खलु ॥ १५.१५०{४९} ॥
एवं महत्तरं पुण्यं बुद्धक्षेत्रेषु सत्कृतम् ।
मत्वा तच्छरणं कृत्वा त्रिरत्नं भजतादरात् ॥ १५.१५१{५०} ॥
ये बुद्दशरणं गत्वा भजन्ति सर्वदादरात् ।
ते सदा सद्गतिं याताश्चरंति बोधिसंवरम् ॥ १५.१५२{५१} ॥
ये धर्मं शरणं कृत्वा श्रुत्वा भजन्ति सादरम् ।
सर्वे तेऽक्लेशिनो भद्राः संप्रयान्ति जिनालयम् ॥ १५.१५३{५२} ॥
ये संघे शरणं गत्वा भजन्ति श्रद्धया सदा ।
न ते गच्छन्ति दुःखत्वं सदा यान्ति सुखावतीम् ॥ १५.१५४{५३} ॥
इति मत्वा तथा यूयं सदा नित्यं समाहिताः ।
त्रिरत्नशरणं कृत्वा भजध्वं श्रद्धयादरात् ॥ १५.१५५{५४} ॥
तेन पुण्यविपाकेन यूयं सर्वेऽपि सर्वथा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ १५.१५६{५५} ॥
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्यते ।
सर्वेऽपि सांघिकाः सर्वे लोकाश्च संप्रमोदिताः ॥ १५.१५७{५६} ॥
तथेति प्रतिसंश्रुत्य त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समाहिताः ॥ १५.१५८{५७} ॥
सोऽपि श्रेष्ठी तथा शास्त्रा समादिष्टं तदात्मनम् ।
व्याकरणं समाकर्ण्य प्राभ्यनन्दत्प्रबोधितः ॥ १५.१५९{५८} ॥
ततः प्रभृति स श्रीमांस्त्रिरत्नं शरणं गतः ।
सत्कृत्य श्रद्धया नित्यं सदा भेजे प्रमोदितः ॥ १५.१६०{५९} ॥
ततः स भगवाञ्छास्ता ससांघिकः समुत्थितः ।
तथा सर्वत्र भद्राणि प्रकुर्वन् स्वाश्रमं ययौ ॥ १५.१६१{६०} ॥
इत्येवं गुरुणाख्यातं तथा मयात्र कथ्यते ।
त्वमप्येवं महाराज श्रुत्वा धर्मं शुभे चर ॥ १५.१६२{६१} ॥
प्रजाश्चापि तथा धर्मं श्रावयित्वा प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य शुभेऽभ्यव सदादरात् ॥ १५.१६३{६२} ॥
तथा ते सर्वदा नित्यं मंगलं निरुपद्रवम् ।
भवेन्नूनं महाराज सत्यमेतत्प्रबुध्यताम् ॥ १५.१६४{६३} ॥
एतत्पुण्यविपाकेन दशपारमिता अपि ।
परिपूर्य्य क्रमेणैवं संबोधिमपि चाप्स्यै ॥ १५.१६५{६४} ॥
एवं सत्यं परिज्ञाय त्रिरत्नं शरणं गतः ।
सत्कृत्य श्रद्धया नित्यं भज बोधिं यदीछसि ॥ १५.१६६{६५} ॥
(र्म् २०५)
इति तेनार्हता शास्त्रा समादिष्टं निशम्य सः ।
नृपस्तथेति संश्रुत्य प्राभ्यनन्दत्सपार्षदः ॥ १५.१६७{६६} ॥
सूक्ष्मत्वचोऽवदानं यत्तदिदं ये नरा मुदा ।
सत्कृत्य श्रद्धया भक्त्या शृण्वन्ति श्रावयन्ति च ॥ १५.१६८{६७} ॥
ते सर्वे सद्गतिं याता भुक्त्वा सौख्यानि सर्वदा ।
सद्धर्मं समुपाश्रित्य संप्रयान्ति जिनालयम् ॥ १५.१६९{६८} ॥
++ इति रत्नावदानतत्वे सूक्ष्मत्वचोऽवदानं समाप्तः ++
(र्म् २०६)
xवि प्रेतिकावदान
अथाशोको महाराजः कृताञ्जलिपुटो मुदा ।
उपगुप्तं यतिं नत्वा पुनरेव समब्रवीत् ॥ १६.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हसि ॥ १६.२{२} ॥
इति संप्रार्थितं तेन राज्ञा स यतिरात्मवित् ।
तमशोकं महीपालं समालोक्यैवमादिशत् ॥ १६.३{३} ॥
शृणु राजन्महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ १६.४{४} ॥
पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः ।
सर्वज्ञः सुगतः शास्ता धर्मराजस्तथागतः ॥ १६.५{५} ॥
भिक्षुबिः श्रावकैः सार्द्धं चैलकैर्भिक्षुणीगणैः ।
उपासकैर्महाश्राद्धैस्तथा चोपासिकागणैः ॥ १६.६{६} ॥
बोधिसत्वगणैश्चापि सद्धर्मसाधनोद्यतैः ।
कृतकृत्यैर्महाभिज्ञैश्चतुर्ब्रह्मविहारकैः ॥ १६.७{७} ॥
राजगृहे पुरोपान्ते वेणुवने शुभाङ्किते ।
करण्डकनिवापाख्ये महोद्याने जिनाश्रमे ॥ १६.८{८} ॥
विहृत्य सर्वसत्वानां हितार्थेन सभाश्रितः ।
आदिमध्यान्ताकल्याणं धर्ममादेष्टुमारभत् ॥ १६.९{९} ॥
तदा सर्वेऽपि देवेन्द्राः सदेवाः कमलासनः ।
सर्वे लोकाधिपाश्चापि यक्षगंधर्वकिन्नराः ॥ १६.१०{१०} ॥
सिद्धा विद्याधराः साध्या राक्षसा दानवाधिपाः ।
नागेंद्रा गरुडाश्चापि सजनपरिवारकाः ॥ १६.११{११} ॥
ऋषयो ब्रह्मणाश्चापि यतयो योगिनोऽपि च ।
राजानो राजपुत्राश्च मंत्रिणोऽपि च ॥ १६.१२{१२} ॥
अमात्याः सैन्यलोकाश्च सार्थवाहा महाजनाः ।
वणिजः शिल्पिनश्चापि गृहस्थाः पौरिका जनाः ॥ १६.१३{१३} ॥
ग्राम्या जानपदाश्चापि कार्पटिकाश्च नैर्गमाः ।
तथान्येऽपि समायाताः सद्धर्मगुणवांछिनः ॥ १६.१४{१४} ॥
तत्र सर्वेऽपि ते लोका विहारे समुपागताः ।
तं मुनीन्द्रं समासीनं दृष्ट्वा नत्वा प्रमोदिताः ॥ १६.१५{१५} ॥
त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य यथाक्रमम् ।
नत्वा साञ्जलयः सर्वे परिवृत्य समंततः ॥ १६.१६{१६} ॥
तत्सद्धर्मामृतं पातुं सुप्रसन्नमुखाम्बुजम् ।
श्रीघनं तं समालोक्य समातस्थुः समाहिताः ॥ १६.१७{१७} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १६.१८{१८} ॥
तत्सद्धर्मामृतं पीत्वा लोकाः सर्वेऽपि ते मुदा ।
(र्म् २०७)
संबोधिसाधनोत्साहाः प्रचेरिरे प्रमोदिताः ॥ १६.१९{१९} ॥
तस्मिन्नवसरे तत्र राजगृहान्तिके वने ।
वेणुवनान्तिके पंचप्रेतशतानि चेरिरे ॥ १६.२०{२०} ॥
नग्नान्यतिकृताङ्गानि दग्धस्थूणाकृतीनि वै ।
रोमवस्त्राणि रुक्षाणि शैलोपमोदराणि च ॥ १६.२१{२१} ॥
सूचीछिद्रमुखान्यस्थियंत्रवदुच्छृतान्यपि ।
क्षुत्पिपासाभिदग्धानि हीनदीनस्वराण्यपि ॥ १६.२२{२२} ॥
तीव्रदुःखानि तप्तानि प्रलपन्ति विहायसि ।
विभ्रमन्ति सदा क्वापि किञ्चि स्थितिं न लेभिरे ॥ १६.२३{२३} ॥
तदैकस्मिन् दिने तत्र मौद्गल्यायन आत्मवित् ।
आयुष्मान् सौगतो भिक्षुर्महाभिज्ञो दयान्वितः ॥ १६.२४{२४} ॥
पूर्वाह्ने पात्रमादाय काषायचीवरावृतः ।
राजगृहे पुरे पिण्डं याचितुं समुपाचरन् ॥ १६.२५{२५} ॥
तत्र यतिः स तां प्रेतां सर्वान् विभ्रमतोऽम्वरे ।
दृष्ट्वेने क इति ध्यात्वा पश्यञ्जनैरुपाचरन् ॥ १६.२६{२६} ॥
ते सर्वे प्रेतकाश्चापि दृष्ट्वा तं भिक्षुमागतम् ।
सहसोपेत्य नत्वाग्रे रुदन्त एतदब्रुवन् ॥ १६.२७{२७} ॥
भदन्त भवतां पादौ वन्दामहे समानताः ।
तदस्माकं हितं कृत्वा कृपया त्रातुमर्हति ॥ १६.२८{२८} ॥
वयं राजगृहे जाताः पौराः पंचशतान्यपि ।
स्वकर्मपरिभुंजानः प्रेतीभूताश्चरामहे ॥ १६.२९{२९} ॥
तदा वयमिमे सर्वे गृहस्थाः श्रेष्ठिनो नराः ।
महाधना महाभोगास्तीर्थिका धर्मसेवकाः ॥ १६.३०{३०} ॥
यद्वयं मत्साराक्रान्तमानसाः कुटुकुञ्चकाः ।
आगृहीतपरिष्काराः केवलार्जनसाधकाः ॥ १६.३१{३१} ॥
नैव किञ्चित्तदा दानमदद्महि कदा चन ।
अर्थिनमागतं दृष्ट्वा प्राकुष्यामहि रोषिताः ॥ १६.३२{३२} ॥
परदत्तान्यपि श्रुत्वा दृष्ट्वा चापि प्ररोषिताः ।
दीयमानेषु विघ्नानि प्राकुर्महि प्रयत्नतः ॥ १६.३३{३३} ॥
सौगता अपि चार्हन्तः प्रेता इवेयमागताः ।
इत्यस्माभिः प्रमोहान्धैः परिभाष्याभिनिन्दिताः ॥ १६.३४{३४} ॥
तत एते वयं सर्वे कालं कृत्वा च सांप्रतम् ।
एवं प्रेतालयोत्पन्ना दुःखार्दिताश्चरामहे ॥ १६.३५{३५} ॥
इति भदन्त विज्ञाय गत्वा राजगृहे भवान् ।
कृपयास्मत्प्रवृत्तांतं ज्ञातीनां पुरतो वदन् ॥ १६.३६{३६} ॥
छन्दकभिक्षणं कृत्वा बुद्धादिं सर्वसांघिकम् ।
अस्मन्नाम्ना समभ्यर्च्य भोजयितुं समर्हति ॥ १६.३७{३७} ॥
संबुद्धप्रमुखेभ्यश्च संघेभ्यो भवतादरात् ।
अस्मन्नाम्ना प्रकर्त्तव्यं प्रणाममपि सद्गुरो ॥ १६.३८{३८} ॥
दक्षिणादेशनाप्यस्मन्नाम्ना बुद्धादिसांघिकैः ।
(र्म् २०८)
भवता कारयितव्या इत्यस्मासु कृपां कुरु ॥ १६.३९{३९} ॥
यथास्माकमितः प्रेतलोका मुक्तिर्भवेद्ध्रुवम् ।
तथास्मासु भवाम्च्छास्ता कृपया कर्तुमर्हाति ॥ १६.४०{४०} ॥
इति तैः प्रार्थितं सर्वैः स मौद्गल्यायनः सुधीः ।
श्रुत्वा तथेति संश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ १६.४१{४१} ॥
ततस्तान् प्रेतिकान् सर्वान् स मौद्गल्यायनो यतिः ।
समालोक्य समाश्वास्य पुनरेतत्समब्रवीत् ॥ १६.४२{४२} ॥
तत्र यूयं च सर्व श्वः प्रवृत्ते संघभोजने ।
ससंघं श्रीघनं द्रष्टुं समायात समादरात् ॥ १६.४३{४३} ॥
इति तेनार्हातादिष्टं श्रुत्वा ते प्रेतका अपि ।
तथेति हि प्रतिज्ञाय प्रणत्वा तं वने ययुः ॥ १६.४४{४४} ॥
ततः स सौगतो भिक्षुर्मौद्गल्यो यतिरात्मवित् ।
गत्वा राजगृहे तेषां ज्ञातीनां समुपाचरन् ॥ १६.४५{४५} ॥
तत्र सर्वत्र तेषां तत्ज्ञातीनां भवनेषु स ।
गत्वा तेषां प्रवृत्तांतं सर्वमेवं न्यवेदयत् ॥ १६.४६{४६} ॥
ततः स तत्र सर्वांस्तां ज्ञातीनाहूय सादरम् ।
तेषां प्रेतगतेर्मुक्तिहेतोरेवं समब्रवीत् ॥ १६.४७{ऽ४७} ॥
शृणुत भो महाभाग्य यूयं सर्वे समाहिताः ।
युष्माकं ज्ञातिवर्गाणां मुक्तिहेतुं प्रवक्ष्यते ॥ १६.४८{४८} ॥
यतो युष्मत्सगोत्रास्ते मत्सरिणो दुराशयाः ।
आगृहीतपरिष्कारा दशाकुशलसंचराः ॥ १६.४९{४९} ॥
नापि दानं प्रदत्तं तैः कस्मै चि क्वापि किं चन ।
परदत्तान्यपि श्रुत्वा दृष्ट्वा वा पर्यभाष्यत ॥ १६.५०{५०} ॥
अर्हन्तो भिक्षवो वा तैर्याचकाश्च गृहागताः ।
परिभाष्याभिसंतर्ज्य निष्कासिता गृहाद्वलात् ॥ १६.५१{५१} ॥
प्रेता इव सदा भिक्षां याचित्वेमेऽभिभुंजते ।
इत्यर्हतो यती चापि दृष्ट्वैव तेऽभ्यनिन्दयन् ॥ १६.५२{५२} ॥
एतत्कर्मविपाकैस्ते प्रेतीभूता वनेऽधुना ।
क्षुत्पिपासाहता नित्यं विभ्रम्यन्तेऽभिदुःखिताः ॥ १६.५३{५३} ॥
तत्तेसां तन्महत्पापमुक्तिहेतोरिहाधुना ।
संबुद्धशासने दानं कर्तुमिछाम्यहं खलु ॥ १६.५४{५४} ॥
मयैतद्दक्षिणादेशास्तन्नाम्ना कारयिष्यते ।
तदा तत्पापमुक्तास्ते सर्वे यायुर्दिवं ध्रुवम् ॥ १६.५५{५५} ॥
तदत्र श्रद्धया यूयं यथाशक्ति मयार्थिताः ।
संघभोजनसामग्रिं सर्वे प्रदातुमर्हय ॥ १६.५६{५६} ॥
संघभोज्ये प्रवृत्तेऽत्र सर्वे ते प्रेतिका अपि ।
द्रष्टुं समागमिष्यन्ति यूयं चागंतुमर्हथ ॥ १६.५७{५७} ॥
इत्युक्त्वा प्रार्थिते तेन मौद्गल्येन दयालुना ।
श्रुत्वा तज्जातयः सर्वे विस्मयां समुपाययुः ॥ १६.५८{५८} ॥
ततस्ते विस्मिताः सर्वे तत्प्रेतगतिमुक्तये ।
(र्म् २०९)
तत्भोज्यसामग्रीं श्रद्धया दातुमिच्छिरे ॥ १६.५९{५९} ॥
के चित्तस्मै सुवर्णानि के चिद्रत्नानि संददुः ।
के चिद्रोप्यादि धातूंश्च द्रव्यानि विविधानि चा ॥ १६.६०{६०} ॥
तण्डुलानि ददुः के चिद्ददुर्धान्यानि के चन ।
के चिद्ददुः कलायांश्च गोधूमांश्च यवानपि ॥ १६.६१{६१} ॥
कुल्माषान्मसुरांश्चापि माषचनकसर्षपान् ।
मुद्गांश्चापि तथान्यांश्च सर्वान् व्रीहिन् ददुः परे ॥ १६.६२{६२} ॥
तिलप्रियंगुसिद्धार्थान् भंगाश्च राजिका अपि ।
मूलशाककदम्वांश्च पत्रपुष्पांकुराणि च ॥ १६.६३{६३} ॥
शृङ्गवेरातिपक्वानि फलानि विविधानि च ।
सुरसानि सुपथ्यानि प्रददुश्चापरे मुदा ॥ १६.६४{६४} ॥
तिक्ताम्ललवणादीनि रसानि विविधानि च ।
शुन्ठीश्च पिप्पिरीश्चापि मरिचानि ददुर्मुदा ॥ १६.६५{६५} ॥
हिङ्गुं च जीरकांश्चान्ये विडर्कसैंधवादि च ।
अन्ये घृतानि तैलानि प्रददुः श्रद्धया मुदा ॥ १६.६६{६६} ॥
शक्तूंश्च पिष्टकांश्चान्यमोदकांश्च ददुर्मुदा ।
तथा दधीनि दुग्धानि मधुनि च गुडानि च ॥ १६.६७{६७} ॥
तथान्ये सर्कराश्चापि प्रददुः श्रद्धया मुदा ।
तथौषधानि पथ्यानि पाचकानि ददुः परे ॥ १६.६८{६८} ॥
लाङ्गलीपूगताम्बूलरवंगादीनि संददुः ।
सर्वपेयानि भोज्यानि विविधान्यपि ।
सर्वे ते ज्ञातयस्तेषां संघभोक्ष्याय संददुः ॥ १६.६९{६९} ॥
एवं ते सर्ववस्तूनि दत्वा सर्वे प्रमोदिताः ।
सांजलयः प्रणत्वा तं मौद्गल्यं यतिमूचिरे ॥ १६.७०{७०} ॥
भदन्तोऽनुग्रहं कृत्वा संबुद्धप्रमुखं भवान् ।
सर्वसंघं समभ्यर्च्य भोजयतु प्रतोषयन् ॥ १६.७१{७१} ॥
वयमप्यागमिष्यामः प्रवृत्ते संघभोजने ।
तान् प्रेतान् समुपायातान् सर्वान् द्रष्टुं सबान्धवाः ॥ १६.७२{७२} ॥
इति तैः प्रार्थितं श्रुत्वा तथेति स प्रबोधयन् ।
तानि द्रव्यानि सर्वाणि गृहीत्वा स्वाश्रमे ययौ ॥ १६.७३{७३} ॥
ततः स भिक्षुरायुष्मान् विहारे समुपाचरन् ।
दृष्ट्वा तं श्रीघनं नत्वा साञ्जलिः समुपाश्रयन् ॥ १६.७४{७३} ॥
तत्र स भगवान् दृष्ट्वा तं मौद्गल्यमुपस्थितम् ।
प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतदब्रवीत् ॥ १६.७५{७४} ॥
कं चित्ते कुशलं वत्स कुतोऽत्रासि समागतः ।
लोकेषु किं प्रवृत्तांतं तन् प्रचक्ष्व महामते ॥ १६.७६{७५} ॥
इत्यादिष्टे मुनीन्द्रेण स मौद्गल्यायनः सुधीः ।
भगवन्तं तमानत्वा साञ्जलिरेतदब्रवीत् ॥ १६.७७{७६} ॥
भगवन् कृपया शास्तः सर्वत्र कौशलं मम ।
राजगृहे पुरे पिंडं याचितुं समुपाचरन् ॥ १६.७८{७७} ॥
तत्र मार्गे वनोपान्ते पंच प्रेतशतान्यपि ।
दृष्ट्वा मां समुपसृत्य प्रणत्वैतद्वदन्ति वै ॥ १६.७९{७८} ॥
भदन्त तद्विजानीया यद्वयं प्रेतिका इमे ।
सर्वे राजगृहे जाता गृहस्थाः पौरिकाः खलु ॥ १६.८०{७९} ॥
(र्म् २१०)
तदा वयं स्वयं नष्टा दशाकुशलचारिणः ।
एते स्वदैवयोगेन प्रेतीभूताश्चरामहे ॥ १६.८१{८०} ॥
तद्भवान् कृपयास्माकं प्रेतगतिविमुक्तये ।
ज्ञातीनामपि सर्वेषां कर्मप्लोतिं निवेद्य हि ॥ १६.८२{८१} ॥
छन्दकभिक्षणं कृत्वाप्यस्मन्नाम्ना ससांघिकम् ।
भगवन्तं समभ्यर्च्य भोजयितुं समर्हति ॥ १६.८३{८२} ॥
अस्मन्नाम्नाय संबुद्धं ससंघं नमतां भवान् ।
दक्षिणादेशनाश्चास्मन्नाम्ना देशयतुमर्हसि ॥ १६.८४{८३} ॥
ततो नूनं वयं सर्वे प्रेतगतिविमोचिताः ।
निर्मुक्तपापकाः शुद्धाः प्राप्नुयाम सुरालयम् ॥ १६.८५{८४} ॥
इत्यस्मत्प्रार्थनां कृत्वा कृपयास्मान् समुद्धरन् ।
बोधिमार्गे प्रतिस्थाप्य पातुमर्हति सर्वदा ॥ १६.८६{८५} ॥
इति तेषां वचः श्रुत्वा तथा राजगृहे गतः ।
तद्ज्ञातीनां पुरस्तेषां प्रवृत्तांतं निवेद्य च ॥ १६.८७{८६} ॥
छन्दकभिक्षणं तेभ्यो याचित्वाहमिहाचरे ।
तथार्चयितुमिछामि भगवन्तं ससांघिकम् ॥ १६.८८{८७} ॥
इति मे प्रार्थनां कृत्वा भवां छास्ता जगद्गुरुः ।
तदधिवासनां कृत्वा कृपया तान् समुद्धर ॥ १६.८९{८८} ॥
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः ।
तथेति संप्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ १६.९०{८९} ॥
ततो मत्वा स मौद्गल्यो भगवतोऽधिवासितम् ।
सहसा भोज्यसामग्रीं सपौरैः समसाधयत् ॥ १६.९१{९०} ॥
ततोऽन्ये द्युः प्रभातायां सर्वसाधितसिद्धिते ।
साञ्जलिस्तं मुनीन्द्रं च प्रणत्वैतत्समब्रवीत् ॥ १६.९२{९१} ॥
भगवन् सर्वसामग्रीं संसाधितं सुसिद्ध्यते ।
तत्सर्वसांघिकैः सार्द्धं सहसागंतुमर्हति ॥ १६.९३{९२} ॥
इति संप्रार्थिते तेन भगवां स मुनीश्वरः ।
भिक्षुं प्राह समाहूय गण्डीमाकोट्यतामिति ॥ १६.९४{९३} ॥
तदादिष्टं मुनीन्द्रेण श्रुत्वा भिक्षुस्तथेति सः ।
आश्रुत्य सहसादाय गण्डीमाकोटयत्तदा ॥ १६.९५{९४} ॥
तद्गण्डीशब्दमाकर्ण्य सर्वे ते सांघिका अपि ।
विहारे सहसागत्य भगवन्तं प्रणेमिरे ॥ १६.९६{९५} ॥
ततः स भगवांस्तत्र स्वासने समुपाविशत् ।
सर्वे ते सांघिकाश्चापि क्रमात्स्वस्वासनेऽविशन् ॥ १६.९७{९६} ॥
ततस्तद्ज्ञातयः सर्वे तत्रान्ये पौरिका अपि ।
तान् प्रेतान् द्रष्टुमायाता उपतस्थुः सकौतुकाः ॥ १६.९८{९७} ॥
तदा ते प्रेतिकाः सर्वे प्रक्षिप्ताः कर्मवायुभिः ।
बहुलोकान्तरे दुरे यातास्तस्थुर्विमोहिताः ॥ १६.९९{९८} ॥
तदा स यतिरालोक्य सर्वसंघान् समास्थितान् ।
तद्ज्ञातिबन्धुवर्गांश्च प्रेतान् द्रष्टुं समाचरत् ॥ १६.१००{९९} ॥
तत्र प्रेतानदृष्ट्वा स मौद्गल्यो विस्मिताशयः ।
किं तेऽत्र नागता वेति समन्ततो व्यलोकयत् ॥ १६.१०१{१००} ॥
(र्म् २११)
विलोकयन् स सर्वत्र नाद्रक्षीत्तां समंततः ।
स संदिग्धः पुनस्तत्र सम्यग्दृष्ट्या व्यलोकयत् ॥ १६.१०२{१} ॥
सर्वत्रापि स तां प्रेतानदृष्ट्वा विस्मयान्वितः ।
सर्वत्र मगधेऽपश्यत्सम्यग्दृशा समाहितः ॥ १६.१०३{२} ॥
तत्रापि च स सर्वत्र नैव कं चिदपश्यते ।
ततोऽतिविस्मितोऽन्यत्र दिव्यदृशाभ्यलोकयत् ॥ १६.१०४{३} ॥
अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च ।
तत्रापि तानदृष्ट्वा स नरकेषु समन्ततः ।
दिव्येन चक्षुषा पश्यन्न च तत्राप्यपश्यत ॥ १६.१०५{४} ॥
ततश्चतुर्महाराजभुवनेषु समन्ततः ।
स दिव्यचक्षुषा पश्यंस्तत्रापि नाभ्यपश्यत ॥ १६.१०६{५} ॥
तत्रापि तानदृष्ट्वा स मौद्गल्यो विस्मयान्वितः ।
देवालयेषु सर्वत्र क्रमेण समलोकयत् ॥ १६.१०७{६} ॥
तत्रापि तां समन्तेषु स मौद्गल्योऽतिविस्मितः ।
तानदृष्ट्वातिसंदिग्धो भगवतान्तिकेऽचरत् ॥ १६.१०८{७} ॥
तत्र स पुरतो गत्वा शास्तारं तं मुनीश्वरम् ।
कृताञ्जलिपुटो नत्वा पप्रछैतत्प्रवृत्तिताम् ॥ १६.१०९{८} ॥
भगवन् सर्वलोकेषु पश्यता दिव्यचक्षुसा ।
मया न दृश्यते कश्चित्ते प्रेताः क्वाधुना गताः ॥ १६.११०{९} ॥
तेषां नाम्ना भवत्पूजां कर्त्तुमेतत्प्रसाधितम् ।
यदत्र नागताः केचित्तत्ते प्रेता गताः कुह ॥ १६.१११{१०} ॥
दृश्यन्ते न मया क्वापि सर्वत्रापि समीक्ष्यते ।
एकोऽपि नागतो ह्यत्र क्व गतास्तेऽधुना खलु ॥ १६.११२{११} ॥
तन्मे चित्तं प्रसंदिग्धं दृष्ट्वा शास्ता भवान् सुदृक् ।
तेषां गतिं समाख्याय संबोधयितुमर्हति ॥ १६.११३{१२} ॥
इति संप्रार्थिते तेन मौद्गल्येन स सर्ववित् ।
भगवांस्तं समालोक्य मौद्गल्यमेतदब्रवीत् ॥ १६.११४{१३} ॥
मौद्गल्य मा कृथा यत्नं खेदमेवाभिपत्स्यसे ।
गतास्ते प्रेतिकाः सर्वे सुदूरभुवनेऽधुना ॥ १६.११५{१४} ॥
सर्वे ते यतिदेवर्षिप्रत्येकसुगतैरपि ।
अदृश्ये विषये याताः प्रेरिताः कर्मवायुभिः ॥ १६.११६{१५} ॥
यदि सर्वां च तां द्रष्टुं वांछसि त्वमिहाश्रितः ।
सर्वांस्तां दर्शयिष्यामि पश्य बुद्धानुभावताम् ॥ १६.११७{१६} ॥
तदत्र त्वं समादाय गण्डीमाकोटय द्रुतम् ।
ओं नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यकम्बुद्धाय ॥ तद्यथा ॥
ओं पुण्ये पुण्ये महापुण्ये अपरिमितपुण्ये अपरिमितपुण्यज्ञानसंभारोपचिते ।
ओं सर्वसंस्कारपरिशुद्धे धर्मते गगणसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा ।
अष्टोत्तरशताक्षर्य्यानयासंलब्धचेतनाः ॥ १६.११८{१७} ॥
सर्वे तेऽत्रागमिष्यन्ति गण्डीशब्दाभिनादिताः ।
इति शास्त्रा समादिष्टं श्रुत्वा स प्रतिबोधितः ॥ १६.११९{१८} ॥
सहसा तत्सभामध्ये गण्डीमाकोटयत्तथा ।
तद्गण्डीशब्दमाकर्ण्य सर्वे ते प्रेतिका अपि ।
(र्म् २१२)
परिशुद्धाशया द्रष्टुं विहारे समुपाचरन् ॥ १६.१२०{१९} ॥
तत्र सर्वेऽपि ते प्रेता दृष्ट्वा तं श्रीघनं मुदा ।
त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे ॥ १६.१२१{२०} ॥
क्रमात्तां सर्वसंघांश्च प्रणत्वा ते प्रमोदिताः ।
सर्वेऽप्येकान्तमाश्रित्य पश्यन्त उपतस्थिरे ॥ १६.१२२{२१} ॥
तत्र तद्ज्ञातयः सर्वे पौरिकाश्चापरेऽपि च ।
तान् प्रेतान् समुपासीनान् दृष्ट्वा तस्थुः सकौतुकाः ॥ १६.१२३{२२} ॥
एवं सर्वेऽपि ते प्रेताः स्वस्वज्ञातीनुपस्थितान् ।
भात्रादीन् बन्धुवर्गांश्च दृष्ट्वैवमुपतस्थिरे ॥ १६.१२४{२३} ॥
ततः सोऽर्हन्महाभिज्ञो मौद्गल्यस्तानुपस्थितान् ।
प्रेतान् सर्वान् समालोक्य नत्वाहैवं मुनीश्वरम् ॥ १६.१२५{२४} ॥
भगवन्नाथ सर्वज्ञ ते प्रेताः सर्व आगताः ।
तदेषां भगवां च्छास्तानुग्रहं कर्त्तुमर्हति ॥ १६.१२६{२५} ॥
निवेद्येति स मौद्गल्यः संबुद्धप्रमुखं क्रमात् ।
सर्वं संघं समभ्यर्च्य भोजयन् समतोषयत् ॥ १६.१२७{२६} ॥
ततः स सर्वसंघं तं दृष्ट्वा संतृप्तिकं मुदा ।
अपनीयाशु पात्राणि हस्तादीन् समशोधयत् ॥ १६.१२८{२७} ॥
ततः खपुरसूक्ष्मैलाताम्बूलादि रसायनम् ।
दत्वा क्षमार्थनां कृत्वा प्रार्थयत्स मुनीश्वरम् ॥ १६.१२९{२८} ॥
भगवन्नाथ सर्वज्ञ भवां छास्ता ससांघिकः ।
दक्षिणादेशनामेभ्यः प्रेतेभ्यः कर्तुमर्हति ॥ १६.१३०{२९} ॥
इति संप्रार्थितं श्रुत्वा सर्वे ते प्रेतिका मुदा ।
ससंघं तं मुनिं नत्वा सादरमुपतस्थिरे ॥ १६.१३१{३०} ॥
ततः स भगवान् दृष्ट्वा ससंघस्तानुपस्थितान् ।
दक्षिणादेशनां तेभ्यः सर्वेभ्यो विदधे शुभाम् ॥ १६.१३२{३१} ॥
इतो दानाद्धि यत्पुण्यं तत्प्रेताननुगछतु ।
उत्तिष्ठन्तः प्रयान्त्येते सर्वे प्रेताः सुरालयम् ॥ १६.१३३{२१} ॥
इत्यादिश्य पुनस्तत्र भगवां स मुनीश्वरः ।
आर्य्यसत्यं समारभ्यापरिमितायुषस्तदा ॥ १६.१३४{२२} ॥
धारण्या गुणमाहात्म्यं सद्धर्मं समुपादिशत् ॥ १६.१३५{२३} ॥
संसारे मानुषे जन्म दुर्लभं भवचारिणाम् ।
मानुष्ये लभ्यमानेऽपि क्षणसंपत्सुदुर्लभा ॥ १६.१३६{२४} ॥
मानुष्येऽलभ्यमाने हि जन्तूनां सुखता कुतः ।
दुःखान्येव भवे नित्यं पुण्ये मतिः कथं चरेत् ॥ १६.१३७{२५} ॥
विना पुण्यमतिं जन्तुः सद्धर्मे कथमाचरेत् ।
विना सद्धर्मभावेन सद्गतिं कथमाप्नुयात् ॥ १६.१३८{२६} ॥
प्रेतेषु सर्वदा नित्यं क्षुत्पिपासाविदाहितः ।
तिर्यक्षु नरकेष्वेव भ्रमन् दुःखान्यवाप्नुयात् ॥ १६.१३९{२७} ॥
तदत्र मानुषे जन्मप्राप्तैर्यत्नेन मानवैः ।
सत्कृत्य श्रद्धया नित्यं श्रोतव्यं सद्वृषं मुदा ॥ १६.१४०{२८} ॥
सद्धर्मश्रुतमात्रेण महत्पुण्यमवाप्नुयात् ।
एतत्पुण्यविपाकेन सद्गुरौ सर्वदा भजेत् ॥ १६.१४१{२९} ॥
(र्म् २१३)
सद्गुरोरुपदेशेन सद्धर्मेष्वेव सदाचरेत् ।
एतत्पुण्यविपाकेन सद्गतिं सर्वदा व्रजेत् ॥ १६.१४२{३०} ॥
तत्र सुखानि संभुक्त्वा संचरेत शुभे सदा ॥ १६.१४३{३१} ॥
एतद्धर्मानुभावेन महत्समृद्धिमाप्नुयात् ।
महत्समृद्धिसंपत्सु कर्त्तव्यं दानमर्थिषु ॥ १६.१४४{३२} ॥
दानेन वर्द्ध्यते लक्ष्मीर्लक्ष्मीमां च्छोभते पुमान् ।
सद्बुद्धिः सद्गुणाधारो यशोभाग्यसुखान्वितः ॥ १६.१४५{३३} ॥
ततः सौगतधर्माणि श्रुत्वा नित्यं प्रबोधितः ।
त्रिरत्नशरणं कृत्वा भजेद्भक्त्या सदादरात् ॥ १६.१४६{३४} ॥
एतत्पुण्यानुभावेन बोधिचित्तं समाप्नुयात् ।
बोधिचित्ते हि लब्धे हि बोधिसत्वो भवेत्कृती ॥ १६.१४७{३५} ॥
ततः स बोधिचित्तेन दशपारमिताः क्रमात् ।
परिपूर्य महासत्वस्त्रिविधां बोधिमाप्नुयात् ॥ १६.१४८{३६} ॥
ततो मारगणां जित्वा परिशुद्धस्त्रिमण्डलः ।
ॠसाक्षादर्हत्पदं प्राप्य निर्वृतिपदमाप्नुयात् ॥ १६.१४९{३७} ॥
एवं विज्ञाय मर्त्येन कर्त्तव्यं दानमर्थिने ।
दानेन सद्गतिं यायाददाता दुर्गतिं व्रजेत् ॥ १६.१५०{३८} ॥
दुर्गतिषु सदा भुक्त्वा दुःखानि विविधां स ।
सर्वदा दुःखसंक्लिष्टः पापेष्वेवारतश्चरेत् ॥ १६.१५१{३९} ॥
एतत्पापविपाकेन दशस्वकुशलेष्वपि ।
निरतो ह्यविशंकेन संचरेत प्रमादतः ॥ १६.१५२{४०} ॥
ततः सो ह्यतिपापिष्ठः सद्धर्मनिन्दकः कुधीः ।
स्वयं नष्टः परांश्चापि नाशयेन्नास्तिकः शठः ॥ १६.१५३{४१} ॥
ततोऽतिपापसंक्लिष्टः प्रतिक्षिप्य जिनानपि ।
घोरेषु नरकेष्वेव गत्वा भ्रमन् सदा वसेत् ॥ १६.१५४{४२} ॥
सदापि नरकेष्वेवं भ्रमतस्तस्य दुःखिनः ।
कश्चिन्नैव समुद्धर्तुं शक्नुयात्सौगतादृते ॥ १६.१५५{४३} ॥
यावन्न स्मरते बुद्धं तावत्स नरके वसेत् ।
यदेव स्मरते बुद्धं तदा स्याच्छुद्धिताशयः ॥ १६.१५६{४४} ॥
तदा तं कृपया बुद्धो दृष्ट्वा बौद्धेन चक्षुषा ।
पुण्यकरेण संस्पृष्ट्वा समुद्धरेदरं ततः ॥ १६.१५७{४५} ॥
ततस्तं पापिनं बौद्धा धर्माम्बुभिर्विशोध्य च ।
क्रमेण बोधिमार्गेषु नियोजयेत्प्रबोधयन् ॥ १६.१५८{४६} ॥
ततः स परिशुद्धात्मा संबुद्धशासने रतः ।
त्रिरत्नशरणं कृत्वा सद्धर्म एव प्राचरेत् ॥ १६.१५९{४७} ॥
ततः सत्वहितार्थे स बोधिचर्यासमुद्यतः ।
क्रमात्पारमिताः सर्वा पूरयितुं समुद्यमेत् ॥ १६.१६०{४८} ॥
ततः पारमिताः सर्वाः पूरयित्वा समाहितः ।
बोधिसत्वो महासत्वो बुद्धात्मजो भवेदपि ॥ १६.१६१{४९} ॥
ततः क्लेशगणाञ्जित्वा परिशुद्धत्रिमंडलः ।
त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयात् ॥ १६.१६२{५०} ॥
एवं मत्वा सदा नित्यं त्रिरत्नशरणं गताः ।
सद्धर्मं समुपाश्रित्य चरध्वं मानवा मुदा ॥ १६.१६३{५१} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः ।
(र्म् २१४)
सर्वे लोका परिज्ञाय दृष्टसत्यास्तथाचरन् ॥ १६.१६४{५२} ॥
तथा सर्वेऽपि ते प्रेताः श्रुत्वा तद्धर्मदेशनाम् ।
मुदा तं श्रीघनं नत्वा शुद्धात्मानस्ततोऽचरन् ॥ १६.१६५{५३} ॥
ततस्तद्ज्ञातयः सर्वे दृष्ट्वा श्रुत्वा सकौतुकाः ।
ससंघं तं मुनिं नत्वा स्वस्वालयं ययुर्मुदा ॥ १६.१६६{५४} ॥
ततः स भगवान् बुद्धः समुत्थाय सषांघिकः ।
ध्यानालयं समाश्रित्य तस्थौ ध्यानसमाहितः ॥ १६.१६७{५५} ॥
स मौद्गल्यायनश्चापि कृतकृत्यः प्रमोदितः ।
शास्तारं तं प्रणत्वैवं स्वमाश्रमं समाश्रयत् ॥ १६.१६८{५६} ॥
तदा सर्वेऽपि ते प्रेताः संबुद्धेऽभिप्रसादिताः ।
त्रिरत्नस्मरणं कृत्वा ततश्च्युता दिवं ययुः ॥ १६.१६९{५७} ॥
तत्रोत्पन्ना हि ते सर्वे महत्सौख्यसमन्विताः ।
परिशुद्धसुभद्राङ्गा विस्मिता एतदब्रुवन् ॥ १६.१७०{५८} ॥
अहोऽस्माकं महत्सौख्यं किमेवं जायतेऽधुना ।
कुतश्च्युताः कुहायामः कर्मणा केन वा वयम् ॥ १६.१७१{५९} ॥
अथ बुद्धानुभावेन सर्वे ते प्रेतपूर्वकाः ।
देवपुत्रा अनुस्मृत्वा प्रबोधिताः समब्रुवन् ॥ १६.१७२{६०} ॥
भवन्तो यद्वयं सर्वे प्रेता बुद्धानुभावतः ।
मौद्गल्यस्यार्हतो भिक्षोः कृपादृष्टिप्रयत्नतः ॥ १६.१७३{६१} ॥
संबुद्धदर्शनप्राप्तास्त्रिरत्नशरणं गताः ।
एतत्पुण्यपरिस्पृष्टाः परिशुद्धत्रिकायिकाः ॥ १६.१७४{६२} ॥
ततः प्रेतगतेश्च्युत्वा स्वर्गलोके समागताः ।
महद्दिव्यसुखान्येवमत्र लभामहेऽधुना ॥ १६.१७५{६३} ॥
एतत्सत्यं परिज्ञाय तस्य शास्तुर्जगद्गुरोः ।
पुनः सर्वे वयं गत्वा सत्कृत्य प्रभजेमहि ॥ १६.१७६{६४} ॥
इति संभाषणं कृत्वा सर्वे ते प्रेतपूर्वकाः ।
देवपुत्राः शुभाम्भोभिः स्नात्वा दिव्याम्वरावृताः ॥ १६.१७७{६५} ॥
दिव्यसुगंधलिप्ताङ्गा दिव्यालंकारभूषिताः ।
दिव्यपूजोपचाराणि गृहीत्वा महदुत्सवैः ।
सर्वं वेणुवनं भाभिरवभास्य समन्ततः ॥ १६.१७८{६६} ॥
विहारे समुपासृत्य दृष्ट्वा तं श्रीघनं मुदा ।
नत्वा प्रदक्षिणीकृत्वा प्रहर्षिता उपाचरन् ॥ १६.१७९{६७} ॥
तत्र दिव्योपचारैस्तैः पूजांगैस्तं मुनीश्वरम् ।
सर्वेऽपि ते समभ्यर्च्य सत्कृत्य श्रद्धयाभजन् ॥ १६.१८०{६८} ॥
तत्र चैकान्तमाश्रित्य सद्धर्म्मश्रवणोत्सुकाः ।
कृताञ्जलिपुटाः सर्वे उपतस्थुः समाहिताः ॥ १६.१८१{६९} ॥
अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आर्यसत्यं समारभः सद्धर्मं समुपादिशत् ॥ १६.१८२{७०} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे ते प्रेतपूर्वकाः ।
देवपुत्राश्च धर्माणां विशेषत्वं प्रलेभिरे ॥ १६.१८३{७१} ॥
ततस्ते मुदिताः सर्वे संबोधिपदवांछिनः ।
शास्तारं तं पुनर्नत्वा समालोक्यैतदब्रुवन् ॥ १६.१८४{७२} ॥
भगवन् यद्वयं सर्वे विमुक्तकर्मबंधनाः ।
(र्म् २१५)
प्रेतलोकात्परिच्युत्वा स्वर्गे याताः स्म सांप्रतम् ॥ १६.१८५{७३} ॥
दिव्यसुखानि साम्भुक्त्वा देवैः सह प्रमोदिताः ।
सद्धर्मगुणमाकर्ण्य चरामहे सदाधुना ॥ १६.१८६{७४} ॥
तत्कृपालो यतस्तस्य मौद्गल्यस्य महामतेः ।
कृपदृष्टिप्रसादेन नूनं मन्यामहे वयम् ॥ १६.१८७{७५} ॥
तद्भवद्दर्शनं प्राप्य पीत्वा धर्मामृतान्यपि ।
मुदिताः श्रद्धया भक्त्या त्रिरत्नं संभजामहे ॥ १६.१८८{७६} ॥
एतत्पुण्यैः परीताङ्गाः परिशुद्धाशया मुदा ।
भवतां दर्शनं कर्तुं भूयः प्रायामहे वयम् ॥ १६.१८९{७७} ॥
तथा च भवतां शास्तः कृपादृष्टिप्रसादतः ।
आर्यधर्मामृतं पीत्वा संतुष्टिं न लभामहे ॥ १६.१९०{७८} ॥
तद्वयं भवतामेवं सर्वदा शरणं गताः ।
सत्कृत्य समुपासृत्य भक्तुमिछामहे पुनः ॥ १६.१९१{७९} ॥
तद्भवान् कृपयास्मा कं कृत्वानुग्रहमाभवम् ।
सद्धर्मं समुपादिश्य सर्वदा त्रातुमर्हति ॥ १६.१९२{८०} ॥
भवतां कृपयास्माभि दुःखाब्धिः परिलंघितः ।
सत्कायदृष्टिशैलं च ज्ञानवज्रेण भिद्यते ॥ १६.१९३{८१} ॥
ज्ञानचक्षुश्च संप्राप्तं दृष्टं मायामयं भवम् ।
आर्यमार्गश्च संप्राप्तः प्राप्ता च निर्वृतिश्रुतिः ॥ १६.१९४{८२} ॥
धन्या इमे वयं सर्वे यद्भवच्छरणं गताः ।
आर्यधर्मामृतं पीत्वा महानन्दं लभामहे ॥ १६.१९५{८३} ॥
धन्यास्ते पुरुषाः सर्वे ये बुद्धशरणं गताः ।
सदा धर्मामृतं पीत्वा कारां कुर्वन्ति शासने ॥ १६.१९६{८४} ॥
एवं भवां जगच्छास्ता सर्वसत्वानुकम्पया ।
सद्धर्मं समुपादिश्य तिष्ठतु सर्वदा सुखम् ॥ १६.१९७{८५} ॥
इति प्रभाख्य सर्वे ते देवपुत्राः प्रमोदिताः ।
तं मुनीन्द्रं प्रणत्वा च सुप्रसन्ना दिवं ययुः ॥ १६.१९८{८६} ॥
तत्र सर्वेऽपि ते देवास्त्रिरत्नशरणं गताः ।
प्रभेजिरे सदा स्मृत्वा संबोधिपदवांछिनः ॥ १६.१९९{८७} ॥
ततः प्रातः समुत्थाय भगवान् सोऽनुमोदितः ।
तं मौद्गल्यायनं शिष्यं समामंत्र्यैवमब्रवीत् ॥ १६.२००{८८} ॥
साधु मौद्गल्य संवृत्तं सफलं ते कृपामते ।
यत्त्वया प्रकृतं कायं वैयावृत्तं सुशोभितम् ॥ १६.२०१{८९} ॥
यन्नाम्ना भिक्षणं कृत्वा बुद्धपूजा कृता त्वया ।
ते सर्वे देवलोकेषु समुत्पन्नाः प्रतिस्थिताः ॥ १६.२०२{९०} ॥
ते सर्वेऽद्य निशायां मत्सकाशं समुपगताः ।
तेषां भद्राशयं दृष्ट्वा सद्धर्मो देशितो मया ॥ १६.२०३{९१} ॥
तत्सद्धर्मामृतं पीत्वा ते सर्वेऽपि प्रमोदिताः ।
दृष्टसत्याः प्रक्रान्ताश्च गछन्ति त्रिदशालये ॥ १६.२०४{९२} ॥
तत्र स्वर्गेऽपि ते सर्वे त्रिरत्नशरणं गताः ।
प्रभजन्ति सदा नित्यं संबोधिगुणवांछिनः ॥ १६.२०५{९३} ॥
यन्नाम्ना यत्कृतं कर्म तत्फलं ते प्रभुंजते ।
(र्म् २१६)
एवं लोकहितं कर्तुं कर्त्तव्यं पुण्यसाधनम् ॥ १६.२०६{९४} ॥
एवं लोकहितं कृत्वा प्रकुर्वन्ति शुभानि ये ।
ते पुमांसो महासत्वा बोधिसत्वा जिनात्मजाः ॥ १६.२०७{९५} ॥
एवं विज्ञाय लोकानां हितं कर्तुं समुद्यतः ।
सद्धर्मसाधनेष्वेव चरितव्यं समाहितः ॥ १६.२०८{९६} ॥
इति शास्त्रा समादिष्टं श्रुत्वा सोऽर्हं महामतिः ।
सत्यमिति प्रतिज्ञाय प्राभ्यनन्दत्प्रबोधितः ॥ १६.२०९{९७} ॥
ततः सोऽर्हन्महाभिज्ञस्तच्छास्त्रादिष्टमादरात् ।
तद्ज्ञातीनां पुरोगत्वा सर्वमेवं न्यवेदयत् ॥ १६.२१०{९८} ॥
तेऽपि च ज्ञातयः सर्वे तेनार्हता निवेदितम् ।
श्रुत्वा सत्यमिति ज्ञात्वा प्रामोद्यं प्रतिलेभिरे ॥ १६.२११{९९} ॥
ततस्ते ज्ञातयः सर्वे त्रिरत्नशरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समादरात् ॥ १६.२१२{१००} ॥
इति मे गुरुणादिष्टं श्रुतं मया नराधिप ।
लोकप्रबोधनार्थेन तव प्रीत्या प्रकथ्यते ॥ १६.२१३{१} ॥
एवं विज्ञाय राजेन्द्र प्रेतानां शुभसाधनम् ।
त्रिरत्नभजनं लोकैः कारयितुं त्वमर्हसि ॥ १६.२१४{२} ॥
तथा ते मंगलं नित्यं भवेन्नूनं समंततः ।
सर्वसत्वहितोद्भुतं महत्पुण्यं हि सत्फलम् ॥ १६.२१५{३} ॥
इति मत्वा महाराज लोकान् सर्वान् प्रबोधयन् ।
प्रतिष्ठाप्य शुभे धर्मे पालयस्व समाहितः ॥ १६.२१६{४} ॥
इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिमोदित्वा प्राभ्यनन्दत्सपार्षदः ॥ १६.२१७{५} ॥
प्रेतावदानं मनुजा इदं ये शृण्वन्ति ये चापि निशामयन्ति ।
ते सर्व एवं प्रतिलब्धपुण्या भुक्त्वा सुखानि प्रचरन्ति लोके ॥ १६.२१८{६} ॥
++ इति रत्नाव दानतत्वे प्रेतिकावदानं समाप्तम् ++
(र्म् २१७)
xविइ कचंगलावदान
अथाशोको महाराजः प्रमोदितः ।
उपगुप्तं यतिं नत्वा पुनरेवमभाषत ॥ १७.१{१} ॥
भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ १७.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः ।
उपगुप्तो नरेंद्रां तं समलोक्यैवमादिशत् ॥ १७.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्यनुमोदय ॥ १७.४{४} ॥
पुरैकसमये बुद्धः साक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः सास्ता धर्मराजो विनायकः ॥ १७.५{५} ॥
श्रावस्त्या निकटेऽरण्ये जेताश्रमे शुभालये ।
विहारे श्रावकैः सार्द्धं भिक्षुभिश्चैलकैरपि ॥ १७.६{६} ॥
भिक्षुणीभिः सुशिलाभिरुपासिकागणैरपि ।
उपासकैस्तथान्यैश्च त्रिरत्नशरणागतैः ॥ १७.७{७} ॥
बोधिसत्वगणैश्चापि सत्वोद्धरणतत्परैः ।
विजहार जगल्लोकं धर्मांशुभिः प्रभासयन् ॥ १७.८{८} ॥
तत्सद्धर्मामृतं पातुं सर्वे लोकाः समागताः ।
शक्रादयः सुपर्वाणब्रह्मादि लोकपालकाः ॥ १७.९{९} ॥
दैत्या नागाश्च गंधर्वा यक्षकिन्नरराक्षसाः ।
गरुडा विद्याधराश्चापि सर्वे ते संप्रचेरिरे ॥ १७.१०{१०} ॥
ततः सर्वेऽपि ते तत्र पुरस्कृत्य समन्ततः ।
परिवृत्य ससंघं तमुपतस्थुः समाहिताः ॥ १७.११{११} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यान्तकल्याणं दिदेश धर्ममुत्तमम् ॥ १७.१२{१२} ॥
तत्सद्धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः ।
धर्मविशेषमाज्ञाय प्राभ्यनन्दञ्छूभाशयाः ॥ १७.१३{१३} ॥
तस्मिन्नवसरे तत्र वृद्धारामोदकार्थिनी ।
कचङ्गलाभिधा कुम्भं धृत्वा कूपान्तिकेऽचरत् ॥ १७.१४{१४} ॥
तत्र तां भगवान् दृष्ट्वा मत्वा जन्मान्तरप्रसूम् ।
आनंदं समुपामंत्र्य पुर एवमभाषत ॥ १७.१५{१५} ॥
गछानंद त्वमेतस्यां वृद्धायां प्रार्थयामृतम् ।
भगवांस्तृषितो मातस्तदम्बु दीयतामिति ॥ १७.१६{१६} ॥
एतद्भगवतादिष्टं श्रुत्वानंदस्तथेति सः ।
सहसा समुपाश्रित्य तां वृद्धामेवमब्रवीत् ॥ १७.१७{१७} ॥
मातर्मे भगवाञ्छास्ता तृषितोऽयमिहाधुना ।
तत्पानीयं प्रदत्वा मे महद्धर्ममवाप्नुहि ॥ १७.१८{१८} ॥
(र्म् २१८)
इति संप्रार्थितं तेन श्रुत्वा सा स्थविरा सती ।
तमानन्दं समालोक्य मुदितैवमभाषत ॥ १७.१९{१९} ॥
भदन्त साधु तत्राहममृतपूरितं घटम् ।
स्वयमेव समानीय दास्यामि व्रजतां भवान् ॥ १७.२०{२०} ॥
इति तयोदितं श्रुत्वा स आनंदः प्रबोधितः ।
उपेत्यैवं समाख्याय शास्तुः पुर उपाश्रयत् ॥ १७.२१{२१} ॥
तदा सा सहसा कृत्वा घटं शुद्धाम्बुपूरितम् ।
स्वयमेव समादाय तत्राभिसंमुखाचरत् ॥ १७.२२{२२} ॥
तत्र सा समुपाश्रित्य प्राद्राक्षीत्तं मुनीश्वरम् ।
द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितम् ॥ १७.२३{२३} ॥
व्यामप्रभाभिभास्वंतं शतसूर्याधिकप्रभम् ।
जंगममिव रत्नाभं सौम्यं समन्तभद्रकम् ॥ १७.२४{२४} ॥
सह तद्दर्शणात्तत्र पुत्रस्नेहसमुद्भवाः ।
स्तनाभ्यां प्रश्रुतास्तस्याः क्षीरधारा निरंतरम् ॥ १७.२५{२५} ॥
ततो धर्मानुभावेन स्मृत्वा पूर्वभवात्मजम् ।
पुत्र पुत्रेति सोक्त्वा तं परिष्वेक्तुमुपाचरत् ॥ १७.२६{२६} ॥
तदा ते भिक्षवः सर्वे एवं तां समुपद्रुताम् ।
दृष्ट्वैव सहसोत्थाय प्रधारयितुमारभन् ॥ १७.२७{२७} ॥
तद्दृष्ट्वा भगवां छस्ता सर्वांस्तां सांघिकानपि ।
सहसा समुपामंत्र्य पुनरेवं समादिशत् ॥ १७.२८{२८} ॥
मा भिक्षव इमां वृद्धां धारायतात्र मुञ्चत ।
पंचजन्मशतान्येषा माता मे भूयतः पुरा ॥ १७.२९{२९} ॥
तत्पूर्वजन्ममातेयं पुत्रस्नेहानुभाविनी ।
समालिंगतुमीछन्ती मम गात्रे प्रधावति ॥ १७.३०{३०} ॥
यद्यत्रैषा निवार्य्येते गात्र मे श्लेष्मणादपि ।
इदानीं रुधिरं ह्युष्णं कम्ठादस्याः क्षरेत्क्षणात् ॥ १७.३१{३१} ॥
कृतज्ञतामनुस्मृत्वा दृष्ट्वेमां पुत्रलालसाम् ।
कारुण्याद्गात्रसंश्लेषं ददाम्यत्रानुकंपया ॥ १७.३२{३२} ॥
इति शास्त्रा समादिष्टं श्रुत्वा ते सर्वसांघिकाः ।
तां शास्तुः पूर्वप्रसूं मत्वा व्यवतस्थुः सविस्मयाः ॥ १७.३३{३३} ॥
तत्क्षणादुर्द्धवाहुः सा समीक्ष्य तं मुनीश्वरम् ।
सहसा संप्रधावित्वा समालिंग्य नमच्चिरम् ॥ १७.३४{३४} ॥
ततश्चिरात्समुत्थाय सा वृद्धा साञ्जलिर्मुदा ।
श्रीघनं तं समालोक्य पुरस्तस्थौ समाहिता ॥ १७.३५{३५} ॥
तदा स भगवान् दृष्ट्वा तां पुरः समुपास्थिताम् ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १७.३६{३६} ॥
तत्सद्धर्मामृतं पीत्वा स वृद्धापि कचंगला ।
परिशुद्धाशया भद्रा बोधिचर्या प्रबोधिता ॥ १७.३७{३७} ॥
सत्कायदृष्टिभूमीध्रं विंशतिशिखरोद्गतम् ।
निर्भिद्य ज्ञानवज्रेण दृष्टसत्यप्रबोधिता ॥ १७.३८{३८} ॥
संप्राप्य श्रोतआपत्तिफलं साक्षत्कृतोद्यमा ।
सांजलिस्तं मुनिं नत्वा गाथा इमा अभाषत ॥ १७.३९{३९} ॥
(र्म् २१९)
यत्कर्त्तव्यं स्वपुत्रेण मातुर्दुष्करकारिणा ।
तत्कृतं भवता मेऽत्र चित्तं मोक्षपरायणम् ॥ १७.४०{४०} ॥
दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षं च सांप्रतम् ।
स्थापितोऽहं प्रयत्नेन विशेषसंप्रबोधने ॥ १७.४१{४१} ॥
तथा मेऽनुग्रहं कृत्वा संबोधिपदसाधनम् ।
प्रव्रज्यासंवरं दातुमर्हति सांप्रतं भवान् ॥ १७.४२{४२} ॥
भवतां शरणं कृत्वा त्रिरत्नभजनोद्यता ।
प्रव्रज्यासंवरं धृत्वा चरिष्ये ब्रह्मचारिकाम् ॥ १७.४३{४३} ॥
इत्यर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः ।
तस्याश्चित्तविशुद्धत्वं मत्वैवं समुपादिशत् ॥ १७.४४{४३!} ॥
यदि श्रद्धास्ति ते मातः प्रव्रज्यासधने खलु ।
भर्त्तुरनुज्ञां समासाद्य प्रागछ चर संवरम् ॥ १७.४५{४४} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा संप्रमोदिता ।
तथा हीति प्रतिज्ञाय मुनिं नत्वा ततोऽचरत् ॥ १७.४६{४५} ॥
तत्र सा सहसा गेहे गत्वा तं स्वामिनं मुदा ।
कृतांजलिपुटो नत्वा पुरः स्थित्वैवमब्रवीत् ॥ १७.४७{४६} ॥
स्वामि च्छृण्वद्भुतं वक्ष्ये यदद्याहं जलार्थिनी ।
घटं धृत्वा वहिर्देशे कूपान्तिकमुपाचरे ॥ १७.४८{४७} ॥
तत्र मां समुपायातां दृष्ट्वानन्दो महायतिः ।
सहसा समुपाश्रित्य भगवतेऽम्बु याचते ॥ १७.४९{४८} ॥
ततोऽहं सहसा शुद्धैः पूरयित्वा जलैर्घटम् ।
धृत्वा स्वयं प्रदातुं तत्सभायामुपसंचरे ॥ १७.५०{४९} ॥
तत्र तं श्रीघनं दृष्ट्वा चित्तं मे स्नेहमोहितम् ।
क्षारधारा स्तनाभ्यां च संप्रश्रुता निरंतरम् ॥ १७.५१{५०} ॥
तत्राहं स्नेहरागांधा स्वात्मजमिव तं मुनिम् ।
ऊर्द्धवाहुः परिष्वक्तुं प्रधावामि भवान्तरे ॥ १७.५२{५१} ॥
एवं मामभिधावन्तीं दृष्ट्वा ते सांघिका अपि ।
सर्वे प्रधातुमिछन्तः प्रधावन्ति समुत्थिताः ॥ १७.५३{५२} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वानेवमुत्थितान् ।
सहसा समुपामंत्र्य पुर एवं समादिशत् ॥ १७.५४{५३} ॥
मा इमां सर्वथा यूयं निवारयितुमर्हथ ।
यन्ममेयं पुण्यं च शतजन्मप्रसू किल ॥ १७.५५{५४} ॥
तदत्र मां समालोक्य स्वात्मजस्नेहरागिणी ।
परिष्वक्तुं समीछन्ती प्रधावतीयमुन्मुखी ॥ १७.५६{५५} ॥
यद्यत्रेषात्र धार्य्येत पुरतो मे विमूर्छिता ।
उष्णं रुधिरमुत्सृज्य मृत्युं यायान्न संशयः ॥ १७.५७{५६} ॥
एतच्छास्त्रा समादिष्टं श्रुत्वा ते सांघिकास्तथा ।
प्रबोधिताः प्रणत्वा मां स्वस्वासने समाश्रिताः ॥ १७.५८{५७} ॥
एवं तेन मुनीन्द्रेण समाख्यातं निशम्य तत् ।
सर्वं प्रबुध्यमानाहं पुरावृत्तं स्मरामि हि ॥ १७.५९{५८} ॥
ततोऽहं विस्मयाक्रांतहृदयात्यभिनंदिता ।
(र्म् २२०)
तत्सद्धर्मामृतं पातुमुपतिष्ठामि सादरम् ॥ १७.६०{५९} ॥
तत्र स भगवान् दृष्ट्वा मामेवं समुपस्थिताम् ।
आर्यसत्यं समारभ्य समादिशति सद्वृषम् ॥ १७.६१{६०} ॥
तत्सद्धर्मामृतं पीत्वा मनो मेऽतिप्रमोदिते ।
भूयोऽपि तद्रसास्वादतृषितं पातुमिछते ॥ १७.६२{६१} ॥
सर्वे ते सांघिकास्तत्र सद्धर्मामृततृप्तिताः ।
शुद्धात्मानः सुभद्रांगाः परिशुद्धास्त्रिमंडलाः ॥ १७.६३{६२} ॥
शुद्धशीलाः शुभाचारा दयाकारुण्यभाविनः ।
सर्वसत्त्वहिताधानाः संसारलाभनिस्पृहाः ॥ १७.६४{६३} ॥
समाधिधारणीविद्या घटमानाः समाहिताः ।
साक्षादर्हत्पदप्राप्ता निर्विकल्पा निरंजनाः ॥ १७.६५{६४} ॥
संबुद्धशरणं कृत्वा संबोधिसाधनोद्यताः ।
विहारे समुपासीनाः प्रदृश्यन्ते मया प्रभो ॥ १७.६६{६५} ॥
तत्सभागं चरिं प्राप्तुं प्रव्रज्याव्रतमिछ्यते ।
तदत्र कृपया भर्त्तस्तदनुज्ञां प्रदेहि मे ॥ १७.६७{६६} ॥
इति भार्यासमाख्यातं श्रुत्वा सोऽतिदरिद्रितः ।
साश्चर्यस्तम्भितस्तस्थौ पश्यंस्तामेव निश्चलः ॥ १७.६८{६७} ॥
ततः स सुचिरं भार्यां तामेवमभिलोकयन् ।
वियोगशंकया त्रस्तः शनैरेवमभाषत ॥ १७.६९{६८} ॥
अरे नारि प्रमूधासि किमेवं त्वं प्रभाषसे ।
कथमेवं त्वयाख्यातं कोऽत्र सत्यं प्रतीष्यति ॥ १७.७०{६९} ॥
यदसौ भगवान् बुद्धश्चक्रवर्त्तिनृपात्मजः ।
सर्वत्रैधातुकाधीशो धर्मराजो विनायकः ॥ १७.७१{७०} ॥
जगच्छास्ता जगन्नाथः सर्वज्ञः सुगतो जिनः ।
मुनीन्द्रो मारजिदर्हन् षडभिज्ञस्तथागतः ॥ १७.७२{७१} ॥
बोधिसत्वो महासत्वः समंतभद्ररूपकः ।
दशबलो महेशाख्यो ब्रह्मचारी जितेन्द्रियः ॥ १७.७३{७२} ॥
सुब्रह्मामरदैत्यादिलोकानां सर्वदेहिनाम् ।
शरण्यो माननीयो हि वन्द्यः पूज्यो भवत्यपि ॥ १७.७४{७३} ॥
त्वमेवं दुर्भगा नारी दरिद्रतातिदुःखिनी ।
दासी परवती प्रेष्या कृपणा दुःकृताकृतिः ॥ १७.७५{७४} ॥
कथमेवंविधायास्ते गर्भे जातोऽप्यसौ महान् ।
बोधिचित्तं समासाद्य प्राचरद्बोधिचारिकाम् ॥ १७.७६{७५} ॥
यतः पुण्यविपाकेन पूर्य पारमिताः क्रमात् ।
अधुना बोधिमासाद्य संबुद्धोऽयं भवत्यपि ॥ १७.७७{७६} ॥
एतत्पुण्यविभागेन कथं ते ईदृशी गतिः ।
अद्यापीदृगवस्था हि किं चित्सौख्यं न विद्यते ॥ १७.७८{७७} ॥
तदत्र मा वदैवं च तथोक्त्वा नैव शोभसे ।
कस्तवैतद्वचः श्रुत्वा सुप्रतीतः प्रमाणयेत् ॥ १७.७९{७८} ॥
धिक्प्रवादाग्निदग्धाङ्गा महत्कष्टाभिखेदीता ।
वमित्वा रुधिरं ह्युष्णं त्वं नूनं मरणं व्रजेः ॥ १७.८०{७९} ॥
मिथ्यावादाभिसंकल्पादपि हि नरके व्रजेत् ।
त्वमपि च तथा नूनं नरके न व्रजेः कथम् ॥ १७.८१{८०} ॥
(र्म् २२१)
नरकेषु सदा नित्यं दुःखानि विविधानि वै ।
भुक्त्वातिवेदनाक्रान्ता सुचिरं स्थास्यसे ध्रुवम् ॥ १७.८२{८१} ॥
इति भर्त्त्रोदितं श्रुत्वा सा वृद्धा स्त्री कचंगला ।
विभिन्नहृदया तस्थौ तन्निराशाभिमोहिता ॥ १७.८३{८२} ॥
तदा सा सुचिरेणैव संप्राप्य चेतनां ततः ।
भर्त्तारं तं पुनर्दृष्ट्वा बोधयितुमभाषत ॥ १७.८४{८३} ॥
स्वामिन्नत्र प्रसीद त्वं मामेवं वद सर्वथा ।
सत्यमेतन्मया प्रोक्तं न मिथ्येति प्रकल्पय ॥ १७.८५{८४} ॥
यदि मिथ्यावचः स्यान्मे तेनाहं नरके व्रजे ।
अथ मे वचनं सत्यमत्राहं सद्गतिं व्रजे ॥ १७.८६{८५} ॥
तेनात्रोभयथाप्येव वियोगं नौ भवेत्खलु ।
सर्वेषामपि जंतूनामवश्यं मरणं भवे ॥ १७.८७{८६} ॥
किमेवं जीवितेनापि केवलं दुःखभागिना ।
यत्र न विद्यते धर्म्मं तत्र किं सुखतापि च ॥ १७.८८{८७} ॥
धर्मार्थमेव संसारे जन्मदेहार्थसाधनम् ।
धर्मं विना किमेतैर्नः केवलं दुःखताप्तये ॥ १७.८९{८८} ॥
इति मत्वा महान्तोऽपि श्रीमन्तोऽपि विचक्षणाः ।
सर्वान् परिग्रहान् त्यक्त्वा प्रव्रजन्ति जिनाश्रमे ॥ १७.९०{८९} ॥
तथात्राहं परिज्ञाय संबुद्धशरणं गता ।
सद्धर्मसाधनं कर्त्तुमिछामि सांप्रतं प्रभो ॥ १७.९१{९०} ॥
तत्प्रव्रज्याव्रतानुज्ञां प्रदातुं मे समर्हसि ।
एतत्पुण्यविभागेन त्वं चापि सद्गतिं व्रजेः ॥ १७.९२{९१} ॥
यदि न दीयतेऽनुज्ञा प्रव्रज्याव्रतसाधने ।
अकस्मात्मृत्युनाघ्राते तदा कथं निवारये ॥ १७.९३{९२} ॥
कियत्कालं च जीवेयं वृद्धाहं जिर्णितेन्द्रिया ।
इति मत्वात्र मां नैवं निवारयितुमर्हसि ॥ १७.९४{९३} ॥
किं चाहं जरती वृद्धा तत्ते किं स्नेहता मयि ।
वृद्धया दुर्बलाङ्गात्र कार्ये किं नु प्रयोजनम् ॥ १७.९५{९४} ॥
त्वं चापि जरयाक्रान्तो वृद्धोऽसि दुर्बलेन्द्रियः ।
तत्किं ते स्नेहरागेण वृद्धाया मयि सांप्रतम् ॥ १७.९६{९५} ॥
अद्यापि किं सुखाशा नौ जराक्रान्तशरीरयोः ।
अवश्यं मृत्युरत्रावां समाक्रम्य ग्रसिष्यति ॥ १७.९७{९६} ॥
तदाहं किं करिष्यामि त्वं चापि किं करिष्यसि ।
शोचित्वेव निषत्स्यामि त्वमप्येवं निषत्स्यसि ॥ १७.९८{९७} ॥
अवश्यमत्र संसारे भावि भावा फलन्त्यपि ।
कस्यापि भूयते नात्र भावि भावान्यथा क्वचित् ॥ १७.९९{९८} ॥
स्वकृतकर्म एवात्र गृहीत्वा सर्वजंतवः ।
याता यान्ति च यास्यंति देहं त्यक्त्वा यमालयम् ॥ १७.१००{९९} ॥
तत्र यमाज्ञया सर्वे स्वकृतकर्मभागिनः ।
धर्मिणः सद्गतिं याताः पापिनो दुर्गतिं गताः ॥ १७.१०१{१००} ॥
एवं सर्वे इमे सत्वाः स्वदैवफलभोगिनः ।
ससुखानि च दुःखानि भुक्त्वा भ्रमन्ति सर्वदा ॥ १७.१०२{१} ॥
(र्म् २२२)
एवं स्वामिन् परिज्ञाय सर्वदा सुखवांछिभिः ।
धर्ममेवात्र संसारे कर्त्तव्यं यत्नतः सदा ॥ १७.१०३{२} ॥
धर्मन् तु प्रवरं श्रेष्ठं सौगतसंवरोद्भवम् ।
इति बुद्धैः समाख्यातं त्वयाप्येतच्छ्रुतं न किम् ॥ १७.१०४{३} ॥
तस्मादहं मुनीन्द्रस्य शासने शरणं गतः ।
प्रव्रज्यासंवरं धर्त्तुमिछामि सांप्रतं प्रभो ॥ १७.१०५{४} ॥
एतत्पुण्यविपाकेन परिशुद्धास्त्रिमण्डलाः ।
साक्षादर्हत्पदं प्राप्य निर्वृतिपदमाप्नुयाम् ॥ १७.१०६{५} ॥
एतद्धर्मविभागेन त्वं चापि सद्गतिं व्रजेः ।
इति मत्वा तथा स्वामिंस्तदनुज्ञां ददातु मे ॥ १७.१०७{६} ॥
त्वमत्र स्वगृहे स्थित्वा त्रिरत्नशरणं गतः ।
यावज्जीवं सुखं भुक्त्वा शुभे चर सदादरात् ॥ १७.१०८{७} ॥
एतत्पुण्यविपाकेन त्वं चाप्येवं सुधीर्भवेः ।
ततस्ते सौगते धर्मे वांछा जायेत चेतसि ॥ १७.१०९{८} ॥
ततस्त्वं श्रद्धया गत्वा संबुद्धशासने स्वयम् ।
प्रव्रज्यासंवरं प्राप्य साक्षादर्हत्वमाप्नुयाः ॥ १७.११०{९} ॥
इति मत्वा भवान् स्वामिन् सद्धर्मं यदि वाञ्छति ।
तत्प्रव्रज्याव्रतानुज्ञां मह्यं प्रदातुमर्हति ॥ १७.१११{१०} ॥
इति तयोदितं श्रुत्वा स दरिद्रः प्रबोधितः ।
तां भार्यां सुचिरं दृष्ट्वा शनैरेवमभाषत ॥ १७.११२{११} ॥
हा प्रिये कथमेव त्वं मां विहातुं समिछसि ।
किमत्राहं वदिष्यामि त्वयैवं प्रतिभाषते ॥ १७.११३{१२} ॥
यदि तेऽस्ति मनो धैर्य्यं कृत्वा श्रद्धान्विताश्रया ।
प्रव्रज संवरं धृत्वा चर सत्यसमाहिता ॥ १७.११४{१३} ॥
इति भर्त्रोदितं श्रुत्वा सा वृद्धापि कचंगला ।
भर्त्तारं तं प्रणत्वैवं ततोऽचरत्प्रमोदिता ॥ १७.११५{१४} ॥
ततः सा सहसा गत्वा तत्राश्रमे उपागता ।
श्रीघनं तं समालोक्य पुरतः समुपाचरत् ॥ १७.११६{१५} ॥
तत्र तत्पुरतो गत्वा साञ्जलिः सा प्रमोदिता ।
मुनीन्द्रं तं प्रणत्वैवं प्रव्रज्यां समयाचत ॥ १७.११७{१६} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं व्रजे ।
तद्भवां कृत्वा कृपया मह्यं प्रव्रज्यां दातुमर्हति ॥ १७.११८{१७} ॥
तयेति प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
सव्येन पाणिना तस्या वृद्धायाः शिरसि स्पृशन् ॥ १७.११९{१८} ॥
एहि मतश्चर ब्रह्मचारिकां त्वं समाहिता ।
इत्युक्त्वा तां समागृह्य सांघिके पुनरब्रवीत् ॥ १७.१२०{१९} ॥
गछ मात प्रजापत्या गौतम्याः शरणं व्रज ।
सार्हन्ती भिक्षुणीमाता प्रव्रज्यां ते प्रदास्यति ॥ १७.१२१{२०} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सा प्रतिनंदिता ।
तथेत्याश्रुत्य शास्तारं तं प्रणत्वा ततोऽचरत् ॥ १७.१२२{२१} ॥
तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा ।
(र्म् २२३)
उपेत्य सांजलिर्नत्वा प्रव्रज्यां समयाचत ॥ १७.१२३{२२} ॥
मातरत्र समायामि भवत्याः शरणं मुदा ।
तद्भवन्ती जगन्माता प्रव्रज्यां प्रददातु मे ॥ १७.१२४{२३} ॥
तयेति प्रार्थितं श्रुत्वा गौतमी सानुमोदिता ।
हस्तेन शिरसि स्पृष्ट्वा सांघिकतां समग्रहीत् ॥ १७.१२५{२४} ॥
तत्र साशु प्रजापत्यां प्रव्रजिता यथाविधिः ।
मुण्डिता खिक्खिरीपात्रहस्ता काखायचीवरा ॥ १७.१२६{२५} ॥
सौम्येन्द्रिया सुभद्रंगा वृद्धापि सा कचंगला ।
भिक्षुणीगणमध्यस्था शान्तरूपात्यशोभत ॥ १७.१२७{२६} ॥
ततः सा भिक्षुणी शास्तु गौतम्याश्च प्रसादतः ।
समाधिधारणीविद्याध्ययनाभिसमुद्यता ॥ १७.१२८{२७} ॥
हित्वाविद्यागणं प्राप्तविद्याभिज्ञाविशारदा ।
प्रतिसंविद्गुणाद्यागु परिशुद्धाकृतिर्वभौ ॥ १७.१२९{३०!} ॥
अथ सा परिविज्ञाय भवचक्रं चलाचलम् ।
विदित्वा संस्कारगतीश्चाभिविघातिनीस्ततः ॥ १७.१३०{३१} ॥
सर्वक्लेशगणां जित्वा परिशुद्धस्त्रिमण्डला ।
साक्षादर्हत्पदं प्राप्य वभूव ब्रह्मचारिणी ॥ १७.१३१{३२} ॥
तदा सा निर्जितक्लेशा निर्विकल्पा निरंजना ।
चंदनकल्पसौरभ्या समलोष्ठसुवर्णिका ॥ १७.१३२{३३} ॥
संसारभोगसत्कारनिष्पृहाकाशसन्निभा ।
सर्वसत्वहिताधाना सर्वसूत्रांतपारगा ॥ १७.१३३{३४} ॥
सदेवासुरलोकानां त्रिधातुकनिवासिनाम् ।
वंद्या पूज्याभिमान्या च वभूव सा सुभाषिणी ॥ १७.१३४{३५} ॥
यदा स भगवञ्छास्ता भिक्षुणीनां सुभाषितम् ।
संक्षेपेण समुद्दिश्य ध्यानागारे समाश्रयत् ॥ १७.१३५{३६} ॥
तदा सा भिक्षुणी तत्र कचंगला सुभाषिणी ।
भिक्षुणीनां सभामध्ये सुत्रान्तं समुपादिशत् ॥ १७.१३६{३७} ॥
तच्छ्रुत्वा भगवांस्तत्र तया सूत्रांतदेशिते ।
सर्वान्स्तान् सांघिकान् भिक्षून् समामंत्र्यैवमादिशत् ॥ १७.१३७{३८} ॥
एषोऽग्रा भिक्षवो माता भिक्षुणीनां ममाश्रमे ।
सूत्रान्तभागकर्तॄणां यदुतेयं कचंगला ॥ १७.१३८{३९} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः ।
सविस्मया मुनीन्द्रं तं पप्रछुस्तत्पुराकृतम् ॥ १७.१३९{४०} ॥
भगवन्ननया कर्मं किं प्रकृतं पुराकृतम् ।
इमान् सर्वान् सभासीनान् प्रबोधयितुमर्हति ॥ १७.१४०{४१} ॥
येनेयं शासने बौद्धे वृद्धा प्रव्रजिताधुना ।
साक्षादर्हत्वमासाद्य भवति ब्रह्मचारिणी ॥ १७.१४१{४२} ॥
किं वानया पुराकर्म कृतं कुत्र कदा कथम् ।
सूत्रान्तभागकर्तॄणां येनाग्रेयं भवत्यपि ॥ १७.१४२{४३} ॥
किंचापि प्रकृतं कर्मं पुरानया कदा कथम् ।
येनात्र पश्चिमे गर्भावासे न धारितो भवान् ॥ १७.१४३{४४} ॥
एतत्सर्वैः परिज्ञाय भगवान्नस्याः पुराकृतम् ।
इमान् सर्वान् सभासीनान् प्रबोधयितुमर्हति ॥ १७.१४४{४५} ॥
(र्म् २२४)
इति तैर्भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः ।
सर्वांस्तान् सांघिकान् दृष्ट्वा समामंत्र्यैवमादिशत् ॥ १७.१४५{४६} ॥
शृणुत भिक्षवः सर्वे यद्यत्कृतं पुरानया ।
तत्तत्सर्वं प्रवक्ष्यामि युष्माकं चित्तबोधने ॥ १७.१४६{४७} ॥
पुरा मे बोधिसत्वस्य बोधिचर्यानुचारिणः ।
पंचजन्मशतान्येषा जनन्यासीन्निरंतरम् ॥ १७.१४७{४८} ॥
तदा मे ददतो दानमन्तरायः कृतोऽनया ।
तेनाद्यापि दरिद्रेयं दुर्भगा च भवत्यपि ॥ १७.१४८{४९} ॥
प्रव्रज्यायै तदै चैषा वहुधा प्रार्थिता मया ।
नैवानुज्ञां ददौ मह्यं विघ्नमेव व्यधाद्धठात् ॥ १७.१४९{५०} ॥
एतत्कर्मविपाकेन वृद्धैषा दुःखिनी सती ।
प्रव्रज्यासंवरं प्राप्ता चरति मम शासने ॥ १७.१५०{५१} ॥
यदि नैषा तदा दानं विघ्ना ममाकरिष्यति ।
नैषाधुना दरिद्रात्र भवति हि कदा चन ॥ १७.१५१{५२} ॥
प्रव्रज्यायां च मे विघ्नं यदि नैषाकरिष्यत ।
अचरिष्यद्व्रतं वाल्ये न तु वृद्धात्र सांप्रतम् ॥ १७.१५२{५३} ॥
यन्ममैवं कृतं विघ्नं दाने व्रते तदानया ।
तेनाधुना दरिद्रैषा वृद्धा व्रतं चरत्यपि ॥ १७.१५३{५४} ॥
यत्तदा सुकृतं किं चित्प्रकृतं नानया पुरा ।
तेनाहं पश्चिमे गर्भावासेऽधुना न धारितः ॥ १७.१५४{५५} ॥
यत्सा माया महादेवी महापुण्यार्थसाधिनी ।
तेनाहं पश्चिमे गर्भावासे तयात्र धारितः ॥ १७.१५५{५६} ॥
भूयोऽप्येषा पुरा तत्र वारणस्यां द्विजात्मजाः ।
क्लेशाग्निपरिदग्धांगा दरिद्रा कृपणाभवत् ॥ १७.१५६{५७} ॥
तदा तत्र मुनीन्द्रस्य काश्यपस्य जगद्गुरोः ।
शासने शरणं गत्वा प्रव्रजिताचरद्व्रतम् ॥ १७.१५७{५८} ॥
तत्र स सर्वशास्त्रार्थकोविदातिविचक्षणा ।
सर्वसूत्रान्तसद्धर्मं भिक्षुणीनामुपादिशत् ॥ १७.१५८{५९} ॥
तदा सा भिक्षुणी तत्र किञ्चित्कार्यार्थरोषिताः ।
सर्वास्ता भिक्षुणीर्दासीवादेन पर्यभाषत ॥ १७.१५९{६०} ॥
एतत्कर्मविपाकेन सैषाधुनातिदुःखिता ।
परसेवाकरा दासी भवति दुर्भगाकृतिः ॥ १७.१६०{६१} ॥
यच्चानया तदा तत्र विद्याभ्यासीकृतं मुदा ।
तेनैषा सहसार्हन्ती भवति ब्रह्मचारिणी ॥ १७.१६१{६२} ॥
यच्चाप्येसा तदा तत्र सूत्रान्तं समुपादिशत् ।
तेन सूत्रान्तवक्तानामग्रा भवति सांप्रतम् ॥ १७.१६२{६३} ॥
एवं हि भिक्षवः सर्वे मन्यध्वं कर्मसंभवम् ।
सुखं दुःखं च संसारे भ्रमतां सर्वदेहिनाम् ॥ १७.१६३{६४} ॥
येनैव यत्कृतं कर्मं तेनैवं भुज्यते फलम् ।
अभुक्तं क्षीयते नैव कर्मं क्वापि कदा चन ॥ १७.१६४{६५} ॥
नाग्निभिर्दह्यते कर्मं क्लिद्यते नोदकैरपि ।
वायुभिः शुष्यते नैव क्षीयते न च भूमिषु ॥ १७.१६५{६६} ॥
(र्म् २२५)
अह्यथापि भवेन्नैव विपाके कर्मणः फलम् ।
यदुप्तं भूतले बीजं तदेव सूयते फलम् ॥ १७.१६६{६७} ॥
अन्यथा न भवेत्क्वापि कृतं कर्मं फलं भवे ।
शुभस्य कर्मणः पाके शुभतैव सदा भवे ॥ १७.१६७{६८} ॥
कृष्णस्य कृष्णतैव स्या मिश्रितस्यापि मिश्रितम् ।
एवं विज्ञाय कृष्णानि विहाय मिश्रितानि च ॥ १७.१६८{६९} ॥
शुभ एव सदाप्यत्र चरितव्यं शुभार्थिभिः ।
शुभेन सद्गतिं यायात्कृष्णेन दुर्गतिं सदा ॥ १७.१६९{७०} ॥
मिश्रितेन तथोहे च गतीर्यायाद्भवेद्ध्रुवम् ।
इति मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः ।
त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ १७.१७०{७१} ॥
ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् ।
सर्वदा सद्गतौ भद्रं कृत्वा यान्ति जिनालयम् ॥ १७.१७१{७२} ॥
ये शृण्वन्ति सदा धर्म्मं न यान्ति तेऽपि दुर्गतिम् ।
सर्वदा भद्रसौख्यानि भुक्त्वा यान्ति सुखावतीम् ॥ १७.१७२{७३} ॥
दानं ददन्ति ये संघे तेऽपि न यान्ति दुर्गतिम् ।
सर्वदा शुभसौख्यानि भुक्त्वा यान्ति जिनाश्रयम् ॥ १७.१७३{७४} ॥
एवं मत्वात्र संसारे त्रिरत्नं शरणं गताः ।
सत्कृत्य श्रद्धया नित्यं भजध्वं समुपास्थिताः ॥ १७.१७४{७५} ॥
त्रिरत्नेषु कृतं कर्मं तद्विपाके महत्फलम् ।
अप्रमेयमसंख्येयं संबोधिपदसाधनम् ॥ १७.१७५{७६} ॥
एतत्पुण्यानुभावेन बोधिसत्वाः सदा भवे ।
सर्वसत्वहितं कृत्वा प्रचरन्ति यथेछया ॥ १७.१७६{७७} ॥
नानारूपधराः सर्वे सत्वार्थसाधनोद्यताः ।
सद्धर्मं समुपादिश्य पालयन्ति जगत्त्रयम् ॥ १७.१७७{७८} ॥
क्रमात्पारमिताः सर्वाः परिपूर्य शुभान्विताः ।
सर्वक्लेशगणाञ्जित्वा परिशुद्धास्त्रिमण्डलाः ॥ १७.१७८{७९} ॥
जित्वा मारगणाञ्चापि प्राप्य संबोधिमुत्तमाम् ।
सर्वत्र धर्मसोत्कृत्वा ततो निर्वृतिमाययुः ॥ १७.१७९{८०} ॥
येऽतीता जिनास्तेऽपि त्रिरत्नभजनोद्यमात् ।
क्रमाद्बोधिं समासाद्य निर्वृतिपदमागताः ॥ १७.१८०{८१} ॥
वर्त्तमाना जिनास्तेऽपि त्रिरत्नभजनोद्भवैः ।
पुण्यैर्बोधिं समासाद्य गछेयुर्निर्वृतिं तथा ॥ १७.१८१{८२} ॥
अनागता जिनास्तेऽपि त्रिरत्नभजनोद्भवैः ।
पुण्यैरेवं क्रमाद्बोधिं प्राप्य यास्यन्ति निर्वृतिम् ॥ १७.१८२{८३} ॥
अहं चापि तथा नूनं त्रिरत्नभजनोद्यमी ।
एतत्पुण्यानुभावेन बोधिं प्राप्नोमि सांप्रतम् ॥ १७.१८३{८४} ॥
तथाहमपि सर्वत्र कृत्वा धर्ममयं जगत् ।
सर्वान् बोधौ नियोज्यैवं यास्यामि निर्वृतिं ध्रुवम् ॥ १७.१८४{८५} ॥
एवं ये ये भजन्त्यत्र त्रिरत्नशरणं गताः ।
ते ते सर्वेऽपि संबोधिं प्राप्य निर्वृतिमाययुः ॥ १७.१८५{८६} ॥
(र्म् २२६)
इति मत्वात्र संसारे निर्वृतिपदवांछिनः ।
त्रिरत्नभजनं कृत्वा प्रचरध्वं शुभे सदा ॥ १७.१८६{८७} ॥
तथा कृत्वात्र सद्धर्मंभुक्त्वैव सत्सुखान्यपि ।
क्रमाद्बोधिं समासाद्य निर्वृतिं समवाप्स्यथ ॥ १७.१८७{८८} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि ते जनाः ।
सांघिकाश्च तथेत्युक्त्वा प्राभ्यनंदत्प्रबोधिताः ॥ १७.१८८{८९} ॥
तदा तत्र जनाः सर्वे त्रिरत्नशरणं गताः ।
सत्कृत्य श्रद्धया नित्यं प्रभेजिरेऽनुमोदिताः ॥ १७.१८९{९०} ॥
एतत्पुण्यानुभावैस्तु तदा समंततः ।
सर्वदा मंगलोत्साहं बभुव निरुपद्रवम् ॥ १७.१९०{९१} ॥
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
श्रुत्वा राजन्स्त्वमप्येवं त्रिरत्नं भज सर्वदा ॥ १७.१९१{९२} ॥
प्रजाश्चापि तथा धर्मं श्रावयित्वा प्रबोधयन् ।
त्रिरत्नभजनं नित्यं कारयितुं सदार्हसि ॥ १७.१९२{९३} ॥
तथा ते मंगलं नित्यं सर्वत्रापि भवेद्ध्रुवम् ।
क्रमात्पारमिता पूर्य बोधिं चापि समाप्स्यसि ॥ १७.१९३{९४} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दन् सपार्षदः ॥ १७.१९४{९५} ॥
कचंगलाया अवदानमेतच्छृण्वन्ति ये श्रावयतीह यश्च ।
विहाय पापं खलु तेऽपि सर्वे भुक्त्वा सुखान्येव सुगतिं व्रजन्ति ॥ १७.१९५{९६} ॥
++ इति रत्नमालायामवदानतत्वे कचंगलावदानं समाप्तम् ++
(र्म् २२७)
xविइइ धनिकावदान
अथाशोको महीपालः कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवं समब्रवीत् ॥ १८.१{१} ॥
भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ १८.२{२} ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् सुधीर्यतिः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमब्रवीत् ॥ १८.३{३} ॥
शृणु राजन् समाधाय यथा मे गुरुणोदितम् ।
तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये ॥ १८.४{४} ॥
पुरैकसमये स श्रीशाक्यसिंहो मुनीश्वरः ।
सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ १८.५{५} ॥
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश्च चैलकैः ।
उपासकै महाश्राद्धैरुपासिकागणैरपि ॥ १८.६{६} ॥
बोधिसत्वगणैश्चापि महासत्वैः शुभार्थिभिः ।
सर्वसत्वहितार्थाय बोधिचर्यां प्रकाशिभिः ॥ १८.७{७} ॥
वृजिषु पुरि वैशाल्यां मर्कटाख्यह्रदान्तिके ।
कूटागारगुहावासे विजहार प्रभासयन् ॥ १८.८{८} ॥
तत्सद्धर्मामृतं पातुं तत्र सर्वे समागताः ।
ब्रह्मशक्रादिदेवेन्द्रा लोकपाला दिगास्थिताः ॥ १८.९{९} ॥
ग्रहाः सिद्धगणाः साध्या यक्षगंधर्वकिन्नराः ।
गरुडा नागराजाश्च विद्याधराश्च दानवाः ॥ १८.१०{१०} ॥
राक्षसाः सगणाश्चैव ऋषयो ब्रह्मचारिणः ।
ब्रह्मणाः क्षत्रिया भूपा राजानोऽपि नराधिपाः ॥ १८.११{११} ॥
तथा राजकुमाराश्च वैश्या मंत्रिजना अपि ।
गृहस्थाः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥ १८.१२{१२} ॥
वणिजः शिल्पिनश्चापि तथान्येऽपि शुभार्थिनः ।
ग्राम्या जानपदाश्चापि तथा कार्पटिका अपि ॥ १८.१३{१३} ॥
एवमन्येऽपि लोकाश्च सद्धर्मामृतवांछिनः ।
सर्वे ते समुपायातास्तत्राद्राक्षुस्तमीश्वरम् ॥ १८.१४{१४} ॥
सभामध्यासनासीनं सर्वसंघपुरस्कृतम् ।
श्रीघनं तं समालोक्य सर्वे ते समुपाश्रिताः ॥ १८.१५{१५} ॥
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमम् ।
पुनः साञ्जलयो नत्वा परिवृत्य समंततः ।
तत्सद्धर्मामृतं पातुमुपतस्थुः समाहिताः ॥ १८.१६{१६} ॥
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् ।
आदिमध्यान्तकल्याणीं बोधिचर्यां समादिशत् ॥ १८.१७{१७} ॥
(र्म् २२८)
तदार्यधर्ममाकर्ण्य सर्वे लोकाः प्रमोदिताः ।
तदा ते धर्मवैशेष्यं मत्वा प्रतिननंदिरे ॥ १८.१८{१८} ॥
तदा तत्र महापूर्य्यां वैशाल्यां पौरिको महान् ।
गृहस्थो धनिको नाम श्रीमान् सर्वगुणी सुधीः ॥ १८.१९{१९} ॥
श्राद्धो भद्राशयो दाता शुद्धशीलो विचक्षणः ।
सर्वसत्वहिताधानादासीत्सत्पुरुषोत्तमः ॥ १८.२०{२०} ॥
पत्नी धर्मसखी तस्य शीलवत्यभिधाभवत् ।
तनयश्च वंदान्याख्यः सत्यवत्यभिधा स्नुषा ॥ १८.२१{२१} ॥
तदा तत्र द्विजा सर्वे भक्तिमन्तो जगद्गुरोः ।
पूजानिमंत्रणे चक्रुः समयं संमतास्तथा ॥ १८.२२{२२} ॥
भवन्तो यन्मुनीन्द्रोऽयमत्रास्माकं हितेछया ।
सद्धर्मं समुपादेष्टुं ससंघः समुपागतः ॥ १८.२३{२३} ॥
तदस्माभिर्मुनीन्द्रोऽयं पूजनीयं समादरात् ।
अतो निमंत्रणीयोऽत्र सर्वैः संभूय नान्यथा ॥ १८.२४{२४} ॥
एकश्चेत्कुरुते द्रव्यमदादस्य निमंत्रणम् ।
सर्वैर्निर्वासनीयोऽसौ यतोऽन्यधर्मविघ्नकृत् ॥ १८.२५{२५} ॥
तदा स धनिकोऽज्ञात्वा समयं तैस्तथा कृतम् ।
स्वयमेव मुनीन्द्रं तं पूजयितुं समिछत ॥ १८.२६{२६} ॥
ततः स धनिकः श्रीमान् दिव्यसंपत्समृद्धिमान् ।
स्वयं निमंत्रणं कर्त्तुं ससंघस्य मुनेर्ययौ ॥ १८.२७{२७} ॥
तत्र स समुपासृत्य नत्वा तं श्रीघनं मुदा ।
ससंघं तत्पुरः स्थित्वा प्रार्थयदेव सांजलिः ॥ १८.२८{२८} ॥
भगवन्नाथ सर्वज्ञ भगवंतं ससांघिकम् ।
पूजयितुं समिछामि पश्यन्मेऽनुग्रहं कुरु ॥ १८.२९{२९} ॥
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः ।
तथा हीति प्रतिश्रुत्वा तूष्णीभूत्वाध्युवास तत् ॥ १८.३०{३०} ॥
तदा ते ब्राह्मणाः सर्वे संभूय समुपागताः ।
भगवतश्चरणौ नत्वा चक्रुर्भोज्यनिमंत्रणम् ॥ १८.३१{३१} ॥
तच्छ्रुत्वा भगवान् प्राह तान् दृष्ट्वा भक्तिमानसान् ।
पूर्वमेव ससंघाहमनेनोद्य निमंत्रितः ॥ १८.३२{३२} ॥
एतदाकर्ण्य सर्वे ते ब्राह्मणा भेदिताशयाः ।
परं प्रतीक्ष्यमानाश्च शनैः स्वस्वगृहं ययुः ॥ १८.३३{३३} ॥
ततः स धनिको मत्वा मुनीन्द्रेणाध्युवासितम् ।
मुदितस्तं मुनिं नत्वा सहसा स्वगृहं ययौ ॥ १८.३४{३४} ॥
तत्र स स्वगृहे गत्वा वांधवेष्टजनैस्सह ।
तदर्हभोज्यसामग्रीं सहसा समसाध्ययत् ॥ १८.३५{३५} ॥
ततो भोज्यस्थलं तत्र शोधयित्वा समन्ततः ।
रत्नध्वजैर्वितानैश्च स पताकैरमण्डयत् ॥ १८.३६{३६} ॥
ततो यथाक्रमं तत्र दिव्यरत्नमयानि च ।
स्वासनानि समास्तीर्य्य सुगंधीः समधूपयत् ॥ १८.३७{३७} ॥
(र्म् २२९)
ततः स प्रातरुत्थाय स्नात्वा शुद्धाम्वरावृतः ।
पूजापाद्यार्घसामग्रीं प्रतिष्ठाप्य प्रमोदितः ॥ १८.३८{३८} ॥
सवांधवेष्टजनस्तत्र कूटागारे समाचरत् ।
साञ्जलिस्तं मुनिं नत्वा प्रार्थयदेवमादरात् ॥ १८.३९{३९} ॥
भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना ।
तत्ससंघो ममावासे विजयितुं समर्हसि ॥ १८.४०{४०} ॥
इति संप्रार्थिते तेन भगवान् स ससांघिकः ।
खिक्खिरीपात्रमादाय प्रतस्थे चीवरावृतः ॥ १८.४१{४१} ॥
तत्र स भगवान्मार्गे कृत्वा भद्रं समन्ततः ।
प्रभासयन् क्रमेणैवं वैशाल्यां समुपविशत् ॥ १८.४२{४२} ॥
तथायातं मुनीन्द्रं तं श्रीघनं सांघिकान्वितम् ।
दृष्ट्वा वैशालिकाः लोकाः सर्वेऽपि समपूजयन् ॥ १८.४३{४३} ॥
एवमभ्यर्च्यमानोऽभिवंद्यमानोऽभिनंदितः ।
भासयन् भद्रतां कृत्वा संघैः सह समाचरत् ॥ १८.४४{४४} ॥
तत्र तस्य गृहे गत्वा ससंघः स मुनीश्वरः ।
तद्दत्तं पाद्यमादाय स्वासने समुपाश्रयत् ॥ १८.४५{४५} ॥
ततस्ते सांघिकाश्चापि सर्वे तत्र यथाक्रमम् ।
तद्दत्तं पाद्यमादाय स्वस्वासने समाश्रयन् ॥ १८.४६{४६} ॥
ततः स धनिको दृष्ट्वा ससंघं तं मुनीश्वरम् ।
स्वस्वासने समासीनं पूजाङ्गैः समपूजयत् ॥ १८.४७{४७} ॥
ततो दिव्योपचारैस्तं भगवन्तं ससांघिकम् ।
सुप्रणीतै रसोपेतैर्भोजनैः समतोषयत् ॥ १८.४८{४८} ॥
तद्भोज्यं सुरसं भुक्त्वा भगवान् स ससांघिकः ।
अमृतैरिव संतुष्टस्तृप्तिं ययौ प्रमोदितः ॥ १८.४९{४९} ॥
असंघैः तं मुनिं तृप्तं दृष्ट्वा स धनिको मुदा ।
ततोऽपनीय पात्राणि तद्धस्तादीन्यशोधयत् ॥ १८.५०{५०} ॥
ततः शुद्धौषधीपूगताम्वूलादि रसायनम् ।
बुद्धप्रमुखसंघेभ्यो मुदितः स स्वयं ददौ ॥ १८.५१{५१} ॥
ततः स हर्षितो नत्वा तं मुनीन्द्रं ससांघिकम् ।
पुरतः साञ्जलिः स्थित्वा प्रार्थयदेवमादरात् ॥ १८.५२{५२} ॥
भगवन्नाथ सर्वज्ञ भवतां शरणं गतः ।
भक्त्यैव भजनं कुर्वे तत्क्षमस्वापराधताम् ॥ १८.५३{५३} ॥
सदैवं कृपया दृष्ट्य पश्यन् भवान् ससांघिकः ।
ममानुग्रहमाधाय त्रातुमर्हति सर्वथा ॥ १८.५४{५४} ॥
ततः स भगवाञ्छास्ता ससांघिकोऽनुमोदितः ।
धनिकं तं समालोक्य नंदयन्नेवमादिशत् ॥ १८.५५{५५} ॥
गृहपते सदा नित्यमारोग्यमस्तु वो ध्रुवम् ।
बोधिप्रणिधिसिद्धिश्च भूयाद्भद्रं च सर्वदा ॥ १८.५६{५६} ॥
ततस्तस्य प्रिया भार्या शीलवत्यनुमोदिता ।
साञ्जलिः प्रणतिं कृत्वा प्रार्थयत्तं मुनीश्वरम् ॥ १८.५७{५७} ॥
भगवन्नाथ सर्वज्ञ श्वश्चात्र भवतामहम् ।
(र्म् २३०)
पूजां कर्तुं समिच्छे तदनुग्रहीतुमर्हति ॥ १८.५८{५८} ॥
तयेति प्रार्थिते दृष्ट्वा भगवान् स तदाशयम् ।
श्रद्धान्वितं प्रतिज्ञाय तुष्णीभूत्वाध्युवास तत् ॥ १८.५९{५९} ॥
ततः स भगवाञ्छास्ता समुत्थाय ससांघिकः ।
भासयं भद्रतां कृत्वा स्वाश्रमे च समाश्रयत् ॥ १८.६०{६०} ॥
ततः परदिने प्रातः स्नात्वा शुद्धांवरावृता ।
साधित्वा सर्वसामग्रीं सा दूतं प्रेषयन्मुनौ ॥ १८.६१{६१} ॥
स दूतः सहसा गत्वा विहरे तं मुनीश्वरम् ।
ससंघं सांजलिर्नत्वा पुनरेवं न्यवेदयत् ॥ १८.६२{६२} ॥
भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना ।
तत्ससंघो भवांस्तत्र सहसागन्तुमर्हति ॥ १८.६३{६३} ॥
ततः स भगवान्नेवं भद्रं कृत्वा ससांघिकः ।
धनिकस्य गृहे गत्वा पाद्यं गृह्यासनेऽविशत् ॥ १८.६४{६४} ॥
तत्रासने समासीनं ससंघं तं मुनीश्वरम् ।
दृष्ट्वा शीलवती साथ यथाविधि समर्चयत् ॥ १८.६५{६५} ॥
ततश्च सा मुदिता सर्वं संघं बुद्धादिकं तथा ।
दिव्योपचारसंयुक्तैर्भोजनैः समतोषयत् ॥ १८.६६{६६} ॥
ततः संतर्प्पितं दृष्ट्वा शोधयित्वा करादिकम् ।
दत्वा ताम्वुरपूगादिं नत्वा सा समुपाश्रयत् ॥ १८.६७{६७} ॥
ततः स भगवान् तस्मै दत्वाशिषं ससांघिकः ।
समुत्थाय ततश्चैवं स्वविहारे समाश्रयत् ॥ १८.६८{६८} ॥
तथा सर्वे तदान्योऽपि धनिकस्यात्मजः सुधीः ।
तत्परेद्यु विहारं तं गत्वा नत्वा न्यमंत्रयत् ॥ १८.६९{६९} ॥
भगवान्नपि तस्यैवं दृष्ट्वा श्रद्धान्वितं मनः ।
तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास च ॥ १८.७०{७०} ॥
ततः सस्तं मुनिं नत्वा स्वगृहं सहसागतः ।
बांधवैः सर्वसामग्रीं मुदितः समसाधयत् ॥ १८.७१{७१} ॥
ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वारावृतः ।
विहारे समुपासृत्य नत्वैवं मुनिमब्रवीत् ॥ १८.७२{७२} ॥
भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना ।
तत्संघो भवान् गेहे ममागन्तुं समर्हति ॥ १८.७३{७३} ॥
ततः ससंघ उत्थाय भगवान् स तथाचरत् ।
तद्गृहे पाद्यमादाय तत्रासने समाश्रयत् ॥ १८.७४{७४} ॥
ततः स मुदितो बुद्धप्रमुक्बं सर्वसांघिकम् ।
समभ्यर्च्य तथा दिव्यभोजनैः समतोषयत् ॥ १८.७५{७५} ॥
ततोऽपनीय पात्राणि शोधयित्वा करादिकम् ।
दत्वा पूगादिकं नत्वा पुरतः समुपाश्रयत् ॥ १८.७६{७६} ॥
पुनः स सांजलिर्नत्वा प्रकृत्वा च क्षमार्थनाम् ।
ससंघं तं मुनीन्द्रं तं संदृष्ट्वैवं समुपाश्रयत् ॥ १८.७७{७७} ॥
तदा तस्य स्नुषा चापि सत्यवती प्रमोदिता ।
भगवंतं ससंघं तं प्रणत्वैवं न्यमंत्रयत् ॥ १८.७८{७८} ॥
(र्म् २३१)
भगवान्नपि तस्याश्च दृष्ट्व श्रद्धान्वितं मनः ।
तथेति प्रतिमोदित्वा तुष्णीभूत्वा रधां व्यधात् ॥ १८.७९{७९} ॥
ततः स भगवांस्तस्मै दत्वाशिषं ससांघिकः ।
तथा कृत्वा शुभं लोके गत्वाश्रमे समाश्रयत् ॥ १८.८०{८०} ॥
ततः सापि तथा प्रातः स्नात्वा शुद्धाम्वरावृता ।
दूतेनापि मुनीन्द्रं तं ससंघं समचोदयत् ॥ १८.८१{८१} ॥
तथा स भगवांश्चापि ससांघिकः समुत्थितः ।
प्रचरन् भद्रतां कृत्वा तस्या गेहे समाविशत् ॥ १८.८२{८२} ॥
तत्र पाद्यार्घमादाय भगवान् स ससांघिकः ।
शुभासने समासीनस्तस्थौ तत्र प्रभासयन् ॥ १८.८३{८३} ॥
तथास्थितं मुनीन्द्रं तं दृष्ट्वा संप्रमोदिता ।
यथाविधि समभ्यर्च्य तथा भोज्यैरतोषयत् ॥ १८.८४{८४} ॥
तातस्तं सुगतं तृप्तं ससांघिकं समीक्ष्य सा ।
तत्रापनीय पात्राणि हस्तादीं पर्यशोधयत् ॥ १८.८५{८५} ॥
ततः पूगादिकं दत्वा प्रार्थयित्वा क्षमां तथा ।
ससंघं तं मुनिं नत्वा सा साञ्जलिरुपाश्रयत् ॥ १८.८६{८६} ॥
तथा स भगवांस्तस्यै दत्वाशीषं ससांघिकः ।
ततो विहायसा गत्वा स्वाश्रमे च समाश्रयत् ॥ १८.८७{८७} ॥
तथा स धनिको भक्त्या भगवन्तं ससांघिकम् ।
दिव्याद्भुतर्द्धिसंभारैः पुनरेवं न्यमंत्रयत् ॥ १८.८८{८९!} ॥
तत्पुत्रेण तृतीयेऽह्नि चतुर्थे स्नुषया तथा ।
ससंघो भगवान्नेवं दिव्यभोगैर्निमंत्रितः ॥ १८.८९{९०} ॥
तच्छ्रुत्वा तद्द्विजाः सर्वे वैशालिकाः प्रजा अपि ।
अलब्धावसराः शास्तुः पूजायां प्रतिचुक्रुशुः ॥ १८.९०{९१} ॥
ततस्ते संमतं कृत्वा सर्वे विप्राः सपौरिकाः ।
धनिकाय पुरं क्रुद्धाश्चक्रुर्निकासनोद्यमम् ॥ १८.९१{९२} ॥
एवं तत्समतं ज्ञात्वा भगवान् स मुनीश्वरः ।
धनिकं तं समाहूय पुर एवमुपादिशत् ॥ १८.९२{९३} ॥
साधो गृहपते सर्वे इमे वैशालिका द्विजाः ।
क्रुद्धास्ते संघभोज्येऽत्र ह्यलब्धावसरा मम ॥ १८.९३{९४} ॥
तदत्र त्वं क्षमां कृत्वा द्विजान् सर्वान् प्रबोधय ।
कृत्वात्र विनयं धर्मे प्रसादयितुमर्हसि ॥ १८.९४{९५} ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स धनिकस्तथा ।
इत्याश्रुत्य द्विजान् सर्वान् समुपेत्यैवमब्रवीत् ॥ १८.९५{९६} ॥
भवन्तो न मया ज्ञातं भवतां कोपकारणम् ।
तदत्र मे समाख्यात यदर्थे कुप्यतेऽधुना ॥ १८.९६{९७} ॥
इति तेनोदितं श्रुत्वा सर्वे ते ब्राह्मणा ।
कोपाग्निपरिदग्धास्या धनिकं तं निनिन्दिरे ॥ १८.९७{९८} ॥
तत्रैको ब्राह्मणः साधुर्दयालुः सुकृतार्थवित् ।
धनिकं तं समामंत्र्य बोधयितुं समब्रवीत् ॥ १८.९८{९९} ॥
साधो गृहपतेऽस्माभिर्यथात्र समतं कृतम् ।
(र्म् २३२)
तथा तत्ते प्रवक्ष्यामि श्रुत्वा तत्प्रतिबुध्यताम् ॥ १८.९९{१००} ॥
भवन्तो यन्मुनीन्द्रोऽयमत्रास्माकं हितेछया ।
सद्धर्मं समुपादेष्टुं ससांघिकः समागतः ॥ १८.१००{१} ॥
तदस्माभिर्मुनीन्द्रोऽयं पूजनीयः समादरैः ।
अतो निमंत्रणीयोऽत्र सर्वैः संभूय नान्यथा ॥ १८.१०१{२} ॥
एकश्चेत्कुरुते वित्तमदादस्य निमंत्रणम् ।
सर्वैर्निर्वासनीयोऽसौ यतोऽन्यधर्मविघ्नकृत् ॥ १८.१०२{३} ॥
इत्यस्माभिः कृतं साधो समयं सर्वसंमतम् ।
तद्विलंघ्य त्वयैकेन शास्तुः पूजा कृता सदा ॥ १८.१०३{४} ॥
एतद्धेतो इमे सार्वे ब्राह्मणा रुषितास्तथा ।
निष्कासयितुमिछन्ति त्वामन्यधर्मवाधकम् ॥ १८.१०४{५} ॥
किं चापि भगवानत्र सर्वदा स्थास्यते न हि ।
तत्सर्वे भगवत्पूजां कर्तुं वांछन्ति सांप्रतम् ॥ १८.१०५{६} ॥
यच्चायं भगवाञ्छास्ता धर्मराजो मुनीश्वरः ।
सर्वसत्वहितार्थाय समुत्पन्न इहाऽधुना ॥ १८.१०६{७} ॥
तथात्र सर्वसत्वानं हितं कर्तुमुपाचरन् ।
सद्धर्मं समुपादिश्य चरत्ययं समंततः ॥ १८.१०७{८} ॥
तथात्रापि हितं कर्तुमस्माकं समुपागतः ।
सद्धर्मं समुपादिश्य विजयते ससांघिकः ॥ १८.१०८{९} ॥
तदत्र सर्वलोकानां त्रिरत्नभजनोत्सवम् ।
दातुमर्हसि सर्वेषामपि पुण्यप्रवृद्धये ॥ १८.१०९{१०} ॥
एक एव त्वमेवं तु मा कृथा भजनं सदा ।
सर्वैः संभूय ते सास्तुः कर्त्तव्यं भजनं सदा ॥ १८.११०{११} ॥
इति तेनोदितं श्रुत्वा धनिकः स विवोधितः ।
ब्राह्मणं तं समालोक्य प्रणत्वैवमभाषत ॥ १८.१११{१२} ॥
मया न ज्ञायते ह्येवं भवद्भिः समयं कृतम् ।
तदत्र मेऽपराधत्वं क्षन्तुमर्हन्ति सर्वथा ॥ १८.११२{१३} ॥
यदि वो विद्यते श्रद्धा त्रिरत्नभजने सदा ।
कुरुध्वं सर्वदाप्यत्र संबुद्धभजनं खलु ॥ १८.११३{१४} ॥
यदा न विद्यते पूजा संबुद्धेऽस्मिन् ससांघिके ।
तदैवाहं करिष्यामि संबुद्धभजनं खलु ॥ १८.११४{१५} ॥
इति तेन समाख्यातं श्रुत्वा सर्वेऽपि ते द्विजाः ।
सत्यमिति परिज्ञाय वभूवुस्तत्प्रसादिताः ॥ १८.११५{१६} ॥
ततस्ते ब्राह्मणाः सर्वे संभूय सह पौरिकैः ।
भगवतः ससंघस्य निमंत्रितुमुपासरन् ॥ १८.११६{१७} ॥
तत्र ते ब्राह्मणाः सर्वे समेत्य सह पौरिकैः ।
साञ्जलयो मुनीन्द्रं तं नत्वैवं प्रार्थयन्मुदा ॥ १८.११७{१८} ॥
भगवन्नाथ सर्वज्ञ त्रिमास्यं भवतां सदा ।
सत्कारं कर्तुमिछाम त्वदनुज्ञां ददातु नः ॥ १८.११८{१९} ॥
इति तैः प्रार्थिते सर्वैर्दृष्ट्वा स भगवान्मुनिः ।
तेषामाशयशुद्धत्वं तूष्णीभूत्वाध्युवास तत् ॥ १८.११९{२०} ॥
(र्म् २३३)
ततस्ते ब्राह्मणाः सर्वे भगवताधिवासितम् ।
मत्वा सपौरिका नत्वा तं मुणिं स्वपुरेऽचरन् ॥ १८.१२०{२१} ॥
तत्र ते पौरिका विप्राः शोधयित्वा समम्टतः ।
भोज्यक्षत्रे ध्वजैरुच्चैर्वितानैः पर्यशोभयन् ॥ १८.१२१{२२} ॥
तत्रासनानि प्रज्ञप्य सर्वसामग्रसाधनम् ।
कृत्वा सर्वेऽपि ते लोका महोत्साहं प्रचक्रिरे ॥ १८.१२२{२३} ॥
ततस्ते ब्राह्मणाः प्रातः स्नात्वा शुद्धाम्वरावृताः ।
तत्राश्रमे समेत्यैवं नत्वा तं प्रार्थयन्मुनिम् ॥ १८.१२३{२४} ॥
भगवन्नाथ सर्वज्ञ समयो वर्त्ततेऽधुना ।
तत्ससंघो भवांस्तत्र पुरे आगन्तुमर्हति ॥ १८.१२४{२५} ॥
ततः स भगवान् बुद्धः ससंघश्चीवरावृतः ।
खिक्खिरिपात्रमादाय संप्रतस्थे प्रभासयन् ॥ १८.१२५{२६} ॥
तत्र मार्गेषु सर्वत्र भगवान् स ससांघिकः ।
भासयं भद्रतां कृत्वा प्रचरंस्तत्पुरेऽविशत् ॥ १८.१२६{२७} ॥
तत्र स भगवान् क्षेत्रे सुशोधिते ससांघिकः ।
तद्दत्तं पाद्यमादाय स्वासने समुपाश्रयत् ॥ १८.१२७{२८} ॥
संबुद्धप्रमुखं सर्वं संघं ते समतोषयत् ।
ततस्तं सुगतं तृप्तं संघं चापि विलोक्यते ॥ १८.१२८{२९} ॥
तत्पात्राण्युपनीत्वा तद्धस्तादीकं व्यशोधयत् ।
ततः स पूगताम्बूरमहौषध्यरसाय नम् ॥ १८.१२९{३०} ॥
दत्वा क्षमार्थनं कृत्वा तं ससंघं प्रणेमिरे ।
ततस्ते ब्राह्मणाः सर्वे पौराश्चापि प्रमोदिताः ।
तत्सद्धर्मामृतं पातिमुपातस्थुः समाहिताः ॥ १८.१३०{३१} ॥
तत्र स भगवान् दृष्ट्वा सर्वांस्तान् समुपस्थितान् ।
आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ १८.१३१{३२} ॥
ततो भद्राशिषं दत्वा भगवान् सह संघिकैः ।
भासयं भद्रतां कुर्वन् गत्वा स्वाश्रममाश्रयत् ॥ १८.१३२{३३} ॥
एवं वैशालिका लोकास्ते त्रैमास्यं निरंतरम् ।
यथार्हभोजनैः शास्तुः ससंघस्य प्रभेजिरे ॥ १८.१३३{३४} ॥
ततोऽन्ते धनिकश्चापि पत्नी पुत्रः स्नुषापि च ।
संबुद्धप्रमुखं संघं दिव्यभोग्यैः समार्चयत् ॥ १८.१३४{३५} ॥
भगवान्नपि तथा तेभ्यो दत्वा शुभाशिषं ततः ।
समुत्थाय ससंघश्च गत्वाश्रमे समाश्रयत् ॥ १८.१३५{३६} ॥
ततः स धनिकः पत्नीपुत्रस्नुषासमन्वितः ।
दृष्टसत्यः सदा रत्नत्रयसेवारतोऽभवत् ॥ १८.१३६{३७} ॥
एतत्पुण्यानुभावेन भूयोऽतिश्रीसमृद्धिमान् ।
सर्वलोकहितं कृत्वा प्रचचार शुभे सदा ॥ १८.१३७{३८} ॥
तद्दृष्ट्वा विस्मिताः सर्वे भिक्षवः समुपाश्रिताः ।
भगवन्तं प्रणत्वैवं पप्रछुस्तत्पुराकृतम् ॥ १८.१३८{३९} ॥
भगवन् किं पुरानेन धनिकेन वृषं कृतम् ।
कुत्र कथं कदैतन्नः सर्वमाख्यातुमर्हति ॥ १८.१३९{४०} ॥
(र्म् २३४)
इति तैर्भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः ।
सर्वान्स्तां संघिकान् दृष्ट्वा तदैवं समुपादिशत् ॥ १८.१४०{४१} ॥
शृणुत भिक्षवः सर्वे यदनेन वृषं कृतम् ।
तत्पत्न्या च पुत्रेण स्नुषया च तदुच्यते ॥ १८.१४१{४२} ॥
वराणस्यामभूत्पूर्वं मालिकः कमलाभिधः ।
दुर्भिक्षक्षपिते काले परां दुर्गतिमागतः ॥ १८.१४२{४३} ॥
पत्नी पत्नविका नाम पुत्रः कुवलियाभिधः ।
पाटलोख्या स्नुषा चेति वभूवुस्तस्य संमताः ॥ १८.१४३{४४} ॥
तदैकस्मिन् दिने तस्य गृहान्तिके प्रपुष्पिते ।
उद्याने सायमागत्य प्रत्येकबुद्ध आश्रयेत् ॥ १८.१४४{४५} ॥
ते सर्वे एकवस्त्रा हि पर्य्यायेन नृपालये ।
दत्वा पुष्पाणि प्रायाताः स्वभवने निषीदिरे ॥ १८.१४५{४६} ॥
तदा स च गृहस्थास्ते तत्रोदाने ज्वलत्प्रभाम् ।
दृष्ट्वा किं महोज्वालमुद्याने इति विस्मिताः ॥ १८.१४६{४७} ॥
सहसा ते समुत्थाय तत्रोद्याने निरीक्षितुम् ।
सर्वगताः समीक्षन्तः ददृशुस्तं प्रभासयम् ॥ १८.१४७{४८} ॥
तत्र ते समुपाश्रित्य दृष्ट्वा तं ध्यानसंस्थितम् ।
साञ्जलयः प्रणत्वैव मुदिता स्वगृहं ययुः ॥ १८.१४८{४९} ॥
तत्र ते स्वगृहासीनाः प्रातस्तत्पूजनोत्सुकाः ।
निर्द्धनास्तद्व्यथां प्रापु लूनपक्षाः खगा इव ॥ १८.१४९{५०} ॥
तदा स मालिकस्तस्मै पूजां कर्तुं समुत्सुकः ।
तद्द्रव्यं स्वगृहे सम्यगन्विष्य समलोकयत् ॥ १८.१५०{५१} ॥
तत्र गृहे स सर्वत्र समन्विष्य समंततः ।
कञ्चि मात्रमपि द्रव्यमलब्धैवं व्यचिंतयत् ॥ १८.१५१{५२} ॥
अहो मया पुरा पापं प्रकृतं किं यतोऽधुना ।
अकिंचन्यो दरिद्रोऽस्मि किमत्र जीवितेन मे ॥ १८.१५२{५३} ॥
यतो न विद्यते द्रव्यं किं चिदपि गृहे मम ।
तत्केन करिष्यामि पूजामस्य महात्मनः ॥ १८.१५३{५४} ॥
अत्रायं स्वयमागत्य ममोद्याने समाश्रितः ।
प्रत्येकबुद्ध आत्मजो ध्यात्वा तिष्ठति भासयन् ॥ १८.१५४{५५} ॥
तदस्य सुगतस्यात्र कर्त्तव्या सत्कृतिर्मया ।
कदायं पुरि रम्यत्र समागछेत्स्वयं पुनः ॥ १८.१५५{५६} ॥
तत्प्रातः शून्यपात्रेण गछेदितो ममात्मवित् ।
तन्ममात्र भवे शून्यमिव जन्मापि निस्फलम् ॥ १८.१५६{५७} ॥
यतो मान्योऽभिपूज्यो यं पूज्यते न कथं चन ।
तत्र किं जायते भद्रं पुण्यं वास्य कथं कुतः ॥ १८.१५७{५८} ॥
पुण्यं विनात्र संसारे किं सारं जन्म निस्फलम् ।
भुक्त्वापि किं सुखान्यत्र सुचिरं जीविते ननु ॥ १८.१५८{५९} ॥
पुण्यार्थे जीवितं जन्म तदत्र यदि नश्यति ।
किमेव जीवितेनापि जन्मना पापसाधिना ॥ १८.१५९{६०} ॥
तन्मृत्युर्मे वरं ह्यत्र न मिथ्याचिरजीवितम् ।
अवश्यमेव संसारे सर्वत्र मरणं ध्रुवम् ॥ १८.१६०{६१} ॥
किमेवं देहपुष्टेन भुक्त्वा दुःखां सर्वदा ।
तत्केनापि प्रदानेन पूजयेयमिमं जिनम् ॥ १८.१६१{६२} ॥
(र्म् २३५)
पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा ।
तत्पापं परित्यक्तुं पुण्यं प्राप्तु यतेय हि ॥ १८.१६२{६३} ॥
यद्यत्र पूज्यते नायं द्रक्ष्यते च कदा कुह ।
बुद्धपूजां विना भद्रे पुण्यं च लप्स्यते कुतः ॥ १८.१६३{६४} ॥
यावन्न प्राप्यते पुण्यं तावद्दुर्गतिचारणम् ।
तस्मात्पुण्यं प्रयत्नेन कर्त्तव्यं सुखताप्तये ॥ १८.१६४{६५} ॥
तदत्र श्रद्धया किंचिन्मात्रेणापि स्ववस्तुना ।
सत्कृत्यैनं महाभिज्ञं भजेयं समुपस्थितः ॥ १८.१६५{६६} ॥
इति ध्यात्वा विनिश्चित्य मालिकः संप्रमोदितः ।
भार्यां पुत्रं स्नुषां चापि समामंत्र्यैवमब्रवीत् ॥ १८.१६६{६७} ॥
अये प्रिये स्नुषे पुत्र यूयं शृणुत मद्वचः ।
यदत्र कर्तुमिछामि तत्र यूयं प्रसादतः ॥ १८.१६७{६८} ॥
यदत्रायं महाभिज्ञः स्वयमेव समागतः ।
अस्माकं गृहे द्रव्यं किञ्चित्मात्रं न विद्यते ॥ १८.१६८{६९} ॥
तत्केनात्र करिष्यामः पूजामस्य महात्मनः ॥ १८.१६९{६९!} ॥
यदि न पूज्यतेऽस्माभिः सुगतोऽयं मुनिर्यतिः ।
तदा पुण्यं वयं कुत्र लप्स्यामहे कदा कथम् ॥ १८.१७०{७०} ॥
पुण्यं विनात्र संसारे निस्फलं जन्म जीवितम् ।
तद्वयं पुण्यतो प्राप्तुं यतेम सर्वथा वयम् ॥ १८.१७१{७१} ॥
पुण्येन सद्गतिं प्राप्य पापेन दुर्गतिं सदा ।
तत्सद्गतिसुखप्राप्त्यै पुण्यं कुर्वीमहि ध्रुवम् ॥ १८.१७२{७२} ॥
चतुर्णां विद्यतेऽस्माकमेकं सर्वस्वमम्वरम् ।
अनेनाप्येनमाछाद्य प्रभजमहि सांप्रतम् ॥ १८.१७३{७३} ॥
नाद्यराजकुले नग्ना गछामः किं भविष्यति ।
एतत्मे वचनं श्रुत्वाभ्यनुमोदितुमर्हथ ॥ १८.१७४{७४} ॥
इति तेनोदितं श्रुत्वा पत्नी पुत्रः स्नुषापि ते ।
सर्वेऽप्यभ्यनुमोदित्वा तथा कुर्विति प्रोचिरे ॥ १८.१७५{७६!} ॥
इत्येतत्समयं कृत्वा सर्वे ते श्रद्धयान्विताः ।
गत्वा तेनैकवस्त्रेण तं प्राछाद्य समार्चयन् ॥ १८.१७६{७७} ॥
ततस्ते मुदिताः सर्वे कृताञ्जलिपुटा मुनेः ।
तस्य पादौ प्रणत्वैवं प्रणिधानं प्रचक्रिरे ॥ १८.१७७{७८} ॥
अनेन वस्त्रदानेन वयं सर्वे शुभाशयाः ।
भवेयं सद्गतिं याता दिव्यसंपत्तिहानिनः ॥ १८.१७८{७९} ॥
शास्तारं सुगतं बुद्धं समाराध्य सदा भवे ।
त्रिरत्नभजनं कृत्वा भवेम बोधिचारिणः ॥ १८.१७९{८०} ॥
इति तैर्मुदितैः सर्वैः प्रणिधानं कृतं तथा ।
विदित्वा स महाविज्ञस्तथास्त्विति समादिशत् ॥ १८.१८०{८१} ॥
ततस्तेसां मनोहर्षं कृत्वा स सुगतो मुनिः ।
तत उड्डीय पक्षीव भासयन् स्वाश्रमे ययौ ॥ १८.१८१{८२} ॥
तद्दृष्ट्वा ते नन्दिताः सर्वे बुद्धधर्मानुशंसिनः ।
त्रिरत्नस्मरणं कृत्वा प्रचेरिरे सुखं सदा ॥ १८.१८२{८३} ॥
तत्पुण्यप्रणिधानेन धनिकोऽयं स मालिकः ।
(र्म् २३६)
जातो दिव्यप्रभावर्द्धिः पत्नीपुत्रस्नुषान्वितः ॥ १८.१८३{८४} ॥
मनःशुद्धिविधानेन दानेनातिग्लघीयसा ।
भवन्त्यलघ्व्याः संकल्पैः संपदः सत्वशालिनाम् ॥ १८.१८४{८५} ॥
बुद्धक्षेत्रेषु यत्कर्म सुकृतं दुःकृतं तथा ।
महत्तरत्वमासाद्य फलत्येव सदा भवे ॥ १८.१८५{८६} ॥
इति मत्वात्र संसारे कर्त्तव्यं सुकृतं सदा ।
बौद्धे सत्कृतपुण्येन लभन्ति बोधिसंपदः ॥ १८.१८६{८७} ॥
इति शास्त्रा समादिष्टं श्रुत्वा सर्वेऽपि सांघिकाः ।
मेनिरे चित्तवैमल्यमूलं दानफलश्रियम् ॥ १८.१८७{८८} ॥
तच्छ्रुत्वा ब्राह्मणास्तेऽपि तत्पुण्यविस्मिता मुदा ।
भगवंतं सदा स्मृत्वा प्रभेजिरेऽनुमोदिताः ॥ १८.१८८{८९} ॥
तथा ते ब्राह्मणाश्चापि सर्वेऽपि पौरिकास्तथा ।
तत्पुण्यपरिशुद्धांशा वभुवुः कुशलोद्यताः ॥ १८.१८९{९०} ॥
हेलार्पितं रत्नधनं तृणाग्रं श्रद्धावतीर्णं तृणमप्यनर्घम् ।
अनेकशोभानुभवं हि चित्तं चित्तं निमित्तं शुभसंभवानाम् ॥ १८.१९०{९१} ॥
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ।
श्रुत्वाप्येवं महाराज कर्त्तव्यं सुकृतं सदा ॥ १८.१९१{९२} ॥
प्रजाश्चापि महाराज बोधयित्वा प्रयत्नतः ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ १८.१९२{९४} ॥
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञाय प्राभ्यनन्दत्सपार्षदः ॥ १८.१९३{९५} ॥
इदं नरा ये धनिकावदानं शृण्वन्ति ये चापि निशामयन्ति ।
सुखानि भुक्त्वा स शुभे सदा ते सर्वेऽपि शम्यान्ति जिनालयन् ते ।
++ इति रत्नावदानतत्वे धनिकावदानं समाप्तम् ++
(र्म् २३७)
xइx रैवतावदान
अथाशोको नरेन्द्रः स कृतांजलिपुटो मुदा ।
उपगुप्तं गुरुं नत्वा पुनरेवमभाषत ॥ १९.१{१} ॥
भदन्त श्रोतुमिछामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणाख्यातं तथादेष्टुं च मेऽर्हति ॥ १९.२{२} ॥
इति सांप्रार्थितं राज्ञा श्रुत्वा सोऽर्हं महामतिः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ १९.३{३} ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वैवं परिबुध्यताम् ॥ १९.४{४} ॥
क्रौर्येण द्विरसनाः शुचिवेष्टितानां मिथ्यापवादविषमं विषमुत्सृजन्ति ।
ते पापशापपरितापपरंपरार्त्तास्तीव्रव्यलीकतिमिरविवरं विशन्ति ॥ १९.५{५} ॥
तद्यथाभूत्पुरा भिक्षुः कास्मीरे पतिताश्रमे ।
रैवतकाभिधो बौद्धः सर्वभूतदयाश्रयः ॥ १९.६{६} ॥
स कदाचिद्धनोद्देशे विविक्ते सुघटान्तरे ।
तरुत्वचः कषायेन चक्रे चीवररंजनम् ॥ १९.७{७} ॥
तस्मिन्नवसरे तत्र पिशुनाख्यद्विजन्मनः ।
धेनुवत्सा वने नष्टा वभूवुर्यूथनिर्गताः ॥ १९.८{८} ॥
तदा स ब्राह्मणो दृष्ट्वा तं दुष्टाशितशंकितः ।
सर्वत्रापि समन्विष्टा तत्राप्यन्वेषितुं ययौ ॥ १९.९{९} ॥
तत्र तच्चीवरक्वाथवाके वह्निसमुद्गतम् ।
धूमं स द्विज आलोक्य वत्सपाकममन्यत ॥ १९.१०{१०} ॥
ततः स ब्राह्मणः सार्द्धं स्वजनैः शस्त्रपाणिभिः ।
तद्द्रष्टुं शैलमारुह्य सहसागात्तदन्तिके ॥ १९.११{११} ॥
तत्र तं रैवतं भिक्षुं दृष्ट्वा स द्विज आदरात् ।
उपेत्य चूडिकेड्याहतं कुम्भमपश्यत् ॥ १९.१२{१२} ॥
तद्दृष्ट्वा शंकितश्चासौ विनयान् समुपासरन् ।
किमेतत्क्रियते भिक्षोरिति तं पर्यपृछत ॥ १९.१३{१३} ॥
इति पृष्टे द्विजेनासौ रैवतो भिक्षुरादरात् ।
तत्र चीवररागोऽयमिति तं द्विजमब्रवीत् ॥ १९.१४{१४} ॥
अस्मिन्नवसरे तस्या पूर्वकर्मविपाकतः ।
गोमांसरक्तपाणीयः सपाकः समपद्यत ॥ १९.१५{१५} ॥
सुखं दुःखत्वमानाति शुक्लमप्येति कालताम् ।
विधौ विधुरतां याते धर्मोऽप्यायात्यधर्मताम् ॥ १९.१६{१६} ॥
मिथ्यापापप्रकटता जनकोपः पदच्युतिः ।
(र्म् २३८)
अपुण्यपरिपाकानामेतत्प्रत्यक्षलक्षणम् ॥ १९.१७{१७} ॥
दोषः समुन्मिषति यात्यगुणः प्रकाशं कार्यं विपर्ययमुपेति विशीर्यते धीः ॥ १९.१८{१८} ॥
पुंसां पुराविहितः दुःकृतपाककाले के के न नाम निपतन्ति महाभिघाताः ॥ १९.१९{१९} ॥
ततः स ब्राह्मणोऽप्यत्र कुम्भे किमिति शंकितः ।
पश्यामीति विनिश्चित्य निरीक्षितुमुपाचरत् ॥ १९.२०{२०} ॥
विरुद्धामिषगंधेन रुधिरेण च शंकितः ।
अपश्यन् स द्विजः कुम्भे मांसपिण्डं सुपक्वितैः ॥ १९.२१{२१} ॥
प्रत्यक्षदोषमालोक्य द्विजः क्रोधितो रुषा ।
तमभाषत निर्भत्स्य तीव्रवैशशकंपितः ॥ १९.२२{२२} ॥
अहो वत सदाचारः स्थितोऽयं विजने वने ।
यस्येदृशानि कर्माणि न कस्यचिदिह पश्यति ॥ १९.२३{२३} ॥
प्रव्रज्यारंजितः कायः क्रिया म्लेछजनोचिता ।
जानाति छन्नपापानां कः कूटव्रतशान्तिताम् ॥ १९.२४{२४} ॥
इत्युक्ते तेन साक्षेपं स रैवतोऽप्यचिंतयत् ।
दोषे प्रत्यक्षलक्ष्यस्मिन् किं ब्रवीमि निरुत्तरः ॥ १९.२५{२५} ॥
मम दैवाय घातोऽयमित्युक्ते कोऽनुमन्यते ।
हास्यायतनतामेति प्रत्यक्ष्यापह्नवी जनः ॥ १९.२६{२६} ॥
उपस्थितं सहे सर्वं मौनमालम्ब्य केवलम् ।
अयं मे निःप्रतीकारः सलिलादग्निदुत्थितः ॥ १९.२७{२७} ॥
दोषे गुणातिशयमाशु गुणेऽपि दोषं पैयूषधाम्नि विषमप्यमृतं विषे च ॥
संदर्शयत्यनिशमद्भुतरूपमेव कालेन्द्रजालिकावधूर्भवितव्येयम् ॥ १९.२८{२८} ॥
इत्येवं मनसा ध्यात्वा रैवतः स महामतिः ।
स्वदैवस्मरणं कृत्वा तस्थौ योगसमाहितः ॥ १९.२९{२९} ॥
इति ध्यानं समालम्ब्य स्थितं तं रैवतं मुनिम् ।
दृष्ट्वातिरुषितश्चासौ संतर्य्य पर्यभाषत ॥ १९.३०{३०} ॥
अरे रे दुर्मते भिक्षो किमत्र दुर्जने वने ।
स्थित्वेवं दारुणं पापं साधयित्वा निषीदसि ॥ १९.३१{३१} ॥
अरे पापिष्ठ भाषस्व यदर्थे वालकां वृषम् ।
हत्वात्र पच्यते मांस त्वयात्मनो परेण वा ॥ १९.३२{३२} ॥
परेणापि हतं दृष्ट्वा तत्पापैः परिलिप्यसे ।
तत्त्वया वृषभी हत्वा कथं पापैर्न दह्यसे ॥ १९.३३{३३} ॥
धिग्धिक्त्वामत्र रेभिक्षो संबुद्धशासने यतः ।
प्रव्रज्यासंवरं धृत्वा निर्जने वन आश्रयन् ॥ १९.३४{३४} ॥
महद्दुःकरकर्माणि कृत्वैवं तपसेऽधुना ।
अरे रे श्रूयते किं न त्वया संबुद्धभाषितम् ॥ १९.३५{३५} ॥
अथ श्रुत्वापि ते तत्र श्रद्धा न विद्यते खलु ।
किमेवं पातकं कृत्वा प्रव्रज्यासंवरं चरन् ॥ १९.३६{३६} ॥
केवलं पापकान्येव साधयित्वात्र तिष्ठसे ।
प्रव्रजितो विरक्तात्मा परिशुद्धत्रिमंडलः ॥ १९.३७{३७} ॥
सर्वसत्वदयादृष्टिश्चरेन्नित्यं समाहितः ॥ १९.३८{३७!} ॥
अदत्तं कस्य चिद्द्रव्यं गृहीयान्न कथं चन ।
(र्म् २३९)
दयाकरुण्ययुक्तात्मा न कुर्यात्प्राणिपीडिनम् ॥ १९.३९{३८} ॥
कामभोगमधर्मेण नैव भुंज्यात्कदा चन ।
मृषावादं कदाप्यत्र नैव ब्रूयात्कथं चन ॥ १९.४०{३९} ॥
पारुष्यवचनं चापि नैव ब्रूयात्कथं चन ।
पैशुन्यवचनं वापि वदेन्न कस्य चित्पुरः ॥ १९.४१{४०} ॥
संभिन्नप्रलापं च न प्रवदेत्कस्य चिदपि ।
व्यापादं कस्य चिच्चापि भावयेन्न कथं चन ॥ १९.४२{४१} ॥
अभिध्यां च तथा नैव चिंतयेत्कस्य चिदपि ॥ १९.४३{४२} ॥
मिथ्यादृष्टिं सदा क्वापि भावयेन्न कदा चन ।
एतानि दशपापानां मूलानि सर्वथा त्यजेत् ॥ १९.४४{४३} ॥
एतानि ये समालभ्य प्रचरन्ति प्रमादतः ।
ते सर्वे क्लेशसंतप्ता भ्रमन्ति दुःखिनो भवे ॥ १९.४५{४४} ॥
ततः क्लेशाग्निसंतप्ताः पापेष्वेव समाहिताः ।
दुःखान्येव सदा भुक्त्वा नरकेषु भ्रमन्ति ते ॥ १९.४६{४५} ॥
इति मत्वात्र संसारे त्यक्त्वैतानि दशापि हि ।
सन्तो नित्यं शुभेष्वेव प्रचरन्ति समाहिताः ॥ १९.४७{४६} ॥
शुभेन सद्गतिं यान्ति पपिन दुर्गतिं सदा ।
इत्याख्यातं जिनैः सर्वैः किं नैतच्छ्रूयते त्वया ॥ १९.४८{४७} ॥
कथमेतदवज्ञाय प्रव्रजितस्त्वमाचरेः ।
धिक्ते चित्तं यदेवं मे गोवत्सं भोक्तुमिछति ॥ १९.४९{४८} ॥
प्रव्रजितो हि शुद्धात्मा परिशुद्धस्त्रिमण्डलः ।
सर्वसत्वदयाचित्तश्चरेन्नित्यं समाहितः ॥ १९.५०{४९} ॥
सर्वसत्वहितं कृत्वा ब्रह्मचर्यं समाहितः ।
भिक्षान्नमात्रसंकृष्टः सुनिःस्पृहश्चरेच्छुभे ॥ १९.५१{५०} ॥
समाधिनिरतो योगी धारणीपरमार्थभृत् ।
सर्वक्लेशान् विनिर्जित्वा सर्वमारगाणानपि ॥ १९.५२{५१} ॥
सर्वान् परिग्रहान् त्यक्त्वा निर्विकल्पो निरंजनः ।
साक्षादर्हत्वमासाद्य ब्रह्मचर्यं समाचरेत् ॥ १९.५३{५२} ॥
एवं प्रव्रजितो भिक्षुश्चरन्नित्यं सुशीलभृत् ।
शिवां बोधिं समासाद्य निर्वृतिपदमाप्नुयात् ॥ १९.५४{५३} ॥
त्वं तु प्रव्रजितोऽप्येवं महद्दारुणपातकम् ।
कृत्वात्र निर्जने भुक्त्वा चरसे म्लेछचारिकाम् ॥ १९.५५{५४} ॥
हा वतात्र विनष्टोऽसि यदेतत्पातकान्वितः ।
सहसा नरके गत्वा चिरं दुःखानि भोक्ष्यसि ॥ १९.५६{५५} ॥
किं त्वया प्रकृतं पापं पुरा जन्मान्तरे कथम् ।
यदत्र सौगते धर्मं प्राप्तोऽप्येवं दुराशयः ॥ १९.५७{५६} ॥
तच्चरस्व समाधाय प्रायश्चित्तव्रतं पुनः ।
एतत्पापाभिसंशुद्ध्यै पुनर्व्रतसमाप्तये ॥ १९.५८{५७} ॥
तथा ते शुद्धिते काये मंगलं च भवेत्क्रमात् ।
परिशुद्धस्त्रिकायश्च प्रव्रज्यासंवरं चर ॥ १९.५९{५८} ॥
तदा त्वं सर्वथा जित्वा क्लेशान्मारगणान्नपि ।
साक्षादर्हत्वमासाद्य ब्रह्मचारी भविष्यति ॥ १९.६०{५९} ॥
(र्म् २४०)
तदा त्वं परिशुद्धात्मा निर्विकल्पो निरंजनः ।
शिवां बोधिं समासाद्य निर्वृतिपदमाप्नुयाः ॥ १९.६१{६०} ॥
इति तेनोदितं श्रुत्वा रैवतः स प्रबोधितः ।
तथापि मौनमाधाय तथौ दैवाभ्यनुस्मरन् ॥ १९.६२{६१} ॥
एवं स्थितं तमालोक्य ब्राह्मणः स रुषान्वितः ।
एवं द्विधा त्रिधाप्येनं परिभाष्याभ्यनिन्दयत् ॥ १९.६३{६२} ॥
एवं द्विधा त्रिधाप्युक्ते ब्राह्मणेन स रैवतः ।
स्वदैवमभ्यनुस्मृत्वा मौनेनैव न्यषीदत ॥ १९.६४{६३} ॥
स्वदैवचिन्तयस्तस्य मौनात्स ब्राह्मणो रुषा ।
रैवतं तां कताक्षेण दृष्ट्वैनं पर्यभाषत ॥ १९.६५{६४} ॥
अरे रे दुर्मते भिक्षो किमेवं तिष्ठसेऽधुना ।
उत्तिष्ठात्र प्रवंधित्व नयामि त्वां नृपान्तिके ॥ १९.६६{६५} ॥
एवं तेनोदितेऽप्येव स्थितः स रैवतो यतिः ।
किं चिन्नैवावदेन्मौनमेवालम्ब्य न्यषीदत ॥ १९.६७{६६} ॥
ततः स ब्राह्मणस्तस्य मौनादतिप्रकोपितः ।
मुर्द्ध्नि पापमिव स्थूलं लगुडं मर्पयातयत् ॥ १९.६८{६७} ॥
तथाभिघात्यमानोऽपि रैवतः स समाहितः ।
दैवमेवाभ्यनुस्मृत्वा तस्थौ निःकंपिताशयः ॥ १९.६९{६८} ॥
तथास्थितं तं मुनिमात्मविद्यं दैवं स्मरंतं ह्यकृतापराधम् ।
निनाय पश्चात्कृतवाहुदंडं सदस्तदा नंदनभूमिभर्तुः ॥ १९.७०{६९} ॥
तथास्थितं तमालोक्य स द्विजः प्रतिरोषितः ।
रक्ताक्षं रैवतं वद्ध्वा सहसानयन्नृपान्तिके ॥ १९.७१{७०} ॥
तत्र स ब्राह्मणो नीत्वा तं राज्ञः स्थितः ।
तद्वत्सपिशितं पक्वमुपस्थाप्यऽभ्यदर्शयत् ॥ १९.७२{७१} ॥
ततः स ब्राह्मणः क्रूरस्तस्य भिक्षो सविस्तरम् ।
सर्ववृत्तांतमाख्याय तं नृपं पर्यकोपयत् ॥ १९.७३{७२} ॥
तद्वत्समांसमालोक्य नृपतिः स प्रकोपितः ।
रैवतं तं यतिं वद्ध्वा चक्रे कारागृहातिथिम् ॥ १९.७४{७३} ॥
निर्दोषः क्लेशमाश्नाति तम्भते गुप्तपातकः ।
जानाति कस्य कः शुद्धिं चित्राकारेष्वसाक्षिषु ॥ १९.७५{७४} ॥
तत्र स वंधनागारे वंधितोऽपि स सन्मतिः ।
त्रिरत्नस्मरणं कृत्वा तस्थौ दैवानुचिन्तयन् ॥ १९.७६{७५} ॥
तत्रैवं वंधनागारे तस्मिन् भिक्षौ निवन्धिते ।
काले न विस्नितो राजा तद्विचारेऽपि नास्मरत् ॥ १९.७७{७६} ॥
तदान्यस्मिन् दिने तत्र ते वत्साः सर्व आगताः ।
मातृभिः सह संसक्तास्तृणं भुक्त्वा निषेदिरे ॥ १९.७८{७७!} ॥
तान् वत्सान्मातृसंसक्तान् सर्वानालोक्य स द्विजः ।
विस्मितः पुनरालोक्य पश्यन्नेवं व्यचिंतयत् ॥ १९.७९{७८} ॥
अहो वत्सा इमे सर्वे कुत्र गत्वाधुनागताः ।
(र्म् २४१)
सर्वत्रान्विष्यमाना हि कुत्रापि नाभ्यदृश्यते ॥ १९.८०{७९} ॥
हा ममात्र महत्पापो जायते सांप्रतं कथम् ।
यन्मया सहसा भिक्षोरसमीक्ष्यापराध्यते ॥ १९.८१{८०} ॥
यथा भिक्षोर्घटे मान्सं दृष्ट्वैषामिति चिन्तयत् ।
चौरायमिति तं भिक्षुं पर्यभाषं रुषाभृतम् ॥ १९.८२{८१} ॥
अपराधं विनार्हंतमपि भिक्षुं प्रताडयत् ।
वद्ध्वा तं सहसा राज्ञः पुरोऽत्र समुपानयम् ॥ १९.८३{८२} ॥
राजापि मम वाक्येन सहसैव निमंत्रयन् ।
वद्ध्वाशु वंधनागारे प्रस्थापयति सांप्रतम् ॥ १९.८४{८३} ॥
तदत्र किं करिष्यामि वत्साः सर्वे इहागताः ।
अपराधा यतेर्नेति वदेय सांप्रतं कथम् ॥ १९.८५{८४} ॥
यद्यवक्ष्यं तथा राजा तदा मे कुपितो नृपः ।
सर्वस्वमपहृत्वापि प्राहरिष्यते मामिह ॥ १९.८६{८५} ॥
अथ यदि भयाद्राज्ञो नावदिष्यंस्तथा क्वचित् ।
नूनं तं यतिमर्हन्तमपि राजा हनिष्यते ॥ १९.८७{८६} ॥
तदाहं किं करिष्यामि तद्घोरपातकानलैः ।
पच्यमानस्सदावीचौ तिष्ठेयमतिदुःखितः ॥ १९.८८{८७} ॥
तदत्र किं करिष्यामि यत्रोपायं न विद्यते ।
सर्वथाहं विनष्टोऽस्मि व्रजेय शरणं कुह ॥ १९.८९{८८} ॥
यदिमं सौगतं भिक्षुमर्हन्तं ब्रह्मचारिणम् ।
अनपराधिनं हत्वा कथं पापैर्न लेप्स्यते ॥ १९.९०{८९} ॥
एतैर्हि पातकैर्घोरैरहं राजा जना इमे ।
सर्वे वत्स्यामहेऽवीचौ भुक्त्वा दुःखानि सर्वदा ॥ १९.९१{९०} ॥
हा मे दैवाद्यतेश्चापि निर्जने वसतोऽपि यत् ।
घटेऽभिदृश्यते वत्समान्सीभूतं हि चीवरम् ॥ १९.९२{९१} ॥
अवश्यं भाविनो भावा भवन्त्येव न चान्यथा ।
तदत्र किं करिष्यामि भिक्षुर्वा किं करिष्यति ॥ १९.९३{९२} ॥
तस्यैव कर्मदोषेण मांसीभूतं हि चीवरम् ।
अथ ममैव दैवेन तदिति मन्यते न हि ॥ १९.९४{९३} ॥
तदत्र किं वदेयाहं दैवं हि सर्वकर्मकृति ।
इति ममार्होऽप्यस्य दूषणं नात्र विद्यते ॥ १९.९५{९४} ॥
तथप्येतत्प्रवृत्तिर्न वक्तव्यं कस्य चिदपि ।
न गंतव्यं वहिः क्वापि स्थातव्यं स्वगृहे सदा ॥ १९.९६{९५} ॥
कदा चित्स्खलिता बुद्धिर्वाणी च विस्मृतस्य मे ।
एतद्धि पातकं घोरं समाचक्षत कुत्र चित् ॥ १९.९७{९६} ॥
तदाहं निंद्यमानोऽत्र सर्वलोकैरितस्ततः ।
भ्रत्स्यमानः कथं लोके चरिष्ये दुष्टजंतुवत् ॥ १९.९८{९७} ॥
इति ध्यात्वा विनिश्चित्य ब्राह्मणः स विषादितः ।
कस्याप्येतत्प्रवृत्तांतं नोचे दौर्जन्यलज्जया ॥ १९.९९{९८} ॥
तत्पातकाग्निसंतप्तः स्मृत्वार्हन्तं तमेव सः ।
प्रायश्चित्तव्रतं कुर्वन्निव तस्थौ गृहाश्रितः ॥ १९.१००{९९} ॥
एवं द्वादशवर्षाणि नृपेणापि स विस्मृतः ।
(र्म् २४२)
रैवतो वंधनागारे तस्थौ ध्यानसमाहितः ॥ १९.१०१{१००} ॥
अथ द्वादशवर्षान्ते तच्छिष्याः सर्व आगताः ।
तत्प्रवृत्तिं समाकर्ण्य विस्मितास्तेऽभवंस्तदा ॥ १९.१०२{१} ॥
ततः सर्वेऽपि ते शिष्याः संमील्य नृपतेः पुरः ।
उपेत्यैतत्प्रवृत्तांतं समाख्याय न्यवेदयन् ॥ १९.१०३{२} ॥
आरोग्यमस्तु ते राजन् लोकान् धर्मेण पालय ।
यदर्थे वयमायामस्तत्र भवान् प्रसीदतु ॥ १९.१०४{३} ॥
यदस्माकं गुरुर्भिक्षुरपराधं विना कथम् ।
भवता वंधनागारे स्थापितस्तद्विचारय ॥ १९.१०५{४} ॥
इति तैर्भिक्षुभिः सर्वैस्तच्छिष्यैः प्रार्थिते तदा ।
व्योमवाणी तथाख्याय नरेन्द्रं तं व्यबोधयत् ॥ १९.१०६{५} ॥
तत्खवाणिं समाकर्ण्य नृपः स परिबोधितः ।
तच्छिष्यैः सारितो भिक्षुं तं मुमोचाशु वंधनात् ॥ १९.१०७{६} ॥
अहो ग्रावाग्रलिखिता निश्चला कर्मसंततिः ।
प्राप्तभिज्ञोऽपि यत्प्राप क्रूरक्लेशदशां तथा ॥ १९.१०८{७} ॥
तं यतिं निर्गतं दृष्ट्वा स राजाभ्यानुतापितः ।
निनिन्दा मन्दपुण्यत्वं प्रमादाद्धतमात्मनः ॥ १९.१०९{८} ॥
तदा स नृपति राजा सहसा तस्य पादयोः ।
सांजलिः प्रणतिं कृत्वा समुत्थायैवमब्रवीत् ॥ १९.११०{९} ॥
भदन्तो विचार्यैव प्रमदा यद्भवान्मया ।
स्थापितो वंधने तन्मेऽपराधं क्षंतुमर्हति ॥ १९.१११{१०} ॥
विस्मृता मे सहायां च परिज्ञाता न केन चित् ।
दण्डः पतति शुद्धेषु प्राप्तः पापे महीपतौ ॥ १९.११२{११} ॥
इत्युक्तः क्षितिपालेन क्षान्तिप्रक्षालिताशयः ।
रैवतः स नरेंद्रं तं समालोक्यैवमब्रवीत् ॥ १९.११३{१२} ॥
राजन्न तेऽपराधत्वं ममैतत्कर्मजं फलम् ।
तदत्र मा कृथाः खेटं सौगत आत्मविद्युतम् ॥ १९.११४{१३} ॥
ततस्तं यतिमर्हन्तं स राजा सहसादरात् ।
चीवरेण समाछाद्य पिंडकेन समार्चयत् ॥ १९.११५{१४} ॥
तदैतद्वृत्तिमाकर्ण्य ब्राह्मणः स त्वरान्वितः ।
आगत्य तत्सभामध्ये दत्ताशीः समुपाचरत् ॥ १९.११६{१५} ॥
तत्र स समुपासृत्य राज्ञे दत्वा जयाशिषाम् ।
तं यतिं साञ्जलिर्नत्वा प्रार्थयन् विनयात्क्षमाम् ॥ १९.११७{१६} ॥
भदन्त भवतामेवमपराधमकारयन् ।
तन्मेऽपराधतां क्षंतुमर्हति सर्वथा भवान् ॥ १९.११८{१७} ॥
इत्युक्ते तेन विप्रेण रैवतः स विशुद्धधीः ।
ब्राह्मणं तं विषण्णास्यं समालोक्यैवमब्रवीत् ॥ १९.११९{१८} ॥
न मन्युर्विद्यते विप्र न त्वयापकृतं मयि ।
ममैव दैवया केन मांसीभूतं हि चीवरम् ॥ १९.१२०{१९} ॥
तत्राहं मौनमालम्ब्य स्थितो दैवाभ्यनुस्मरन् ।
तेनात्र किं वदिष्यामि दैवा हि वलवान् भवे ॥ १९.१२१{२०} ॥
न त्वयापाकृतं किञ्चिद्विपुलक्लेशपातितः ।
(र्म् २४३)
तन्ममोपनतं पाके स्वकर्मसदृशं फलम् ॥ १९.१२२{२१} ॥
यत्सौत्कण्ठतयैव सर्वविपदः कुर्वन्ति कण्ठग्रहं सर्वाङ्गप्रसभोपभोगसुभगाः क्लिश्यन्ति यत्संपदः ।
यत्स्वाछंद्यसुखास्पदं विहरणं दीर्घं च यद्वंधनं तत्पुंसां निजकर्मपाकशवलं संसारवल्लीफलम् ॥ १९.१२३{२२} ॥
इति तेनार्हताख्यातं श्रुत्वा नंदः स भूपतिः ।
विस्मितः कौतुकाच्चैवं दृष्ट्वा तं यतिमब्रवीत् ॥ १९.१२४{२३} ॥
तवापि सुमते कस्य फलमेतत्कुकर्मणः ।
किं पुरा प्रकृतं कर्मन् तत्समाख्यातुमर्हति ॥ १९.१२५{२४} ॥
इति पृष्टे नरेन्द्रेण रैवतः स सुधिर्यतिः ।
तं नरेंद्रं समालोक्य बोधयितुं तथावदत् ॥ १९.१२६{२५} ॥
साधु शृणु महाराज यन्मया प्रकृतं पुरा ।
तदत्राहं प्रवक्ष्यामि सर्वलोकप्रबोधने ॥ १९.१२७{२६} ॥
वाराणस्यां पुरा क्रूरचरितोऽभूत्कुथाभिधः ।
गोचौरः कुत्सिकाचारो गोमांसविहिताशनः ॥ १९.१२८{२७} ॥
कदा चित्स वने गत्वा हत्वा गोवत्समात्मना ।
तद्वत्समांसमादाय सहसा ततो विनिर्ययौ ॥ १९.१२९{२८} ॥
तत्र गोरक्षिणो वत्सनष्टमन्विष्य सर्वतः ।
दृष्ट्वा तं मांसभारार्त्तं कोपात्समभिदुद्रुवुः ॥ १९.१३०{२९} ॥
तत्र स कुथ आलोक्य तान् सर्वान् समुपद्रुतान् ।
सहसोपद्रुतोऽरण्ये प्रदुद्राव वनांतरे ॥ १९.१३१{३०} ॥
तत्र प्रत्येकबुद्धस्य ध्यानलीनस्य सोऽग्रतः ।
उपनिक्षिप्य तन्मांसं तत्रैकान्ते न्यलीयत ॥ १९.१३२{३१} ॥
तेऽपि गोरक्षिणः सर्वे सानुचरामभिद्रुताः ।
तत्र प्रत्येकबुद्धं तमालोक्य समुपाचरन् ॥ १९.१३३{३२} ॥
तत्र स कुथ आगत्य तेषां गोरक्षिणां पुरः ।
गोमांसं दर्शयित्वा तं चौरायमित्यदर्शयत् ॥ १९.१३४{३३} ॥
तत्र ते गोभृतः सर्वे गोमांसं तन्मुनेः पुरः ।
दृष्ट्वैव सहसा कोपात्तं मुनिमभ्यघातयत् ॥ १९.१३५{३४} ॥
वध्योऽयमिति तं वध्वा गोपालास्ते प्रकोपिताः ।
आक्रुश्य सहसानीत्वा कारागारे न्यवंधयत् ॥ १९.१३६{३५} ॥
ततः स कुथ आकर्ण्य तं यतिं वंधने धृतम् ।
पश्चात्तापाग्निसंतप्तस्तहीत्येवं व्यचिंतयत् ॥ १९.१३७{३६} ॥
हा मया पापिनाप्येवं साध्यते पातकानि च ।
अवश्यं वह्निनावीचौ कुंह्भ्यां पक्ष्ये रतंश्चिरम् ॥ १९.१३८{३७} ॥
यदयं निर्जने ध्यातो प्रत्येकबुद्ध आत्मवित् ।
चौरायमिति संदर्श्य वंधने स्थापितोमया ॥ १९.१३९{३८} ॥
एतत्पापविपाके हि सर्वदा नरके स्थितः ।
तीव्रदुःखाग्निसंतप्त अन्ते मां स्वकृते फलम् ॥ १९.१४०{३९} ॥
हा मयैवं महाघोरं पातकं दुर्धिया कृतम् ।
कदा तत्पातकान्मुक्तो व्रजेयं सद्गतिं कथम् ॥ १९.१४१{४०} ॥
(र्म् २४४)
हा सर्वज्ञ नमस्तुभ्यं पश्य मामतिपापिनम् ।
भवान्नेव जगत्त्राता तन्मेऽपि त्रातुमर्हति ॥ १९.१४२{४१} ॥
मया मूढेन दुष्टेन महापातकमाचितम् ।
तद्विमुक्त्यामुपायं मे कृपया दातुमर्हति ॥ १९.१४३{४२} ॥
इति कुथः स चाण्डालः स्मृत्वा संबुद्धमादरात् ।
पश्चात्तापाभिसंतप्तस्तस्थौ गेहे प्रमोहितः ॥ १९.१४४{४३} ॥
ततः स चेतनं प्राप्य संबुद्धस्यानुभावतः ।
सहसा तत उत्थाय तदन्तिके उपाचरत् ॥ १९.१४५{४४} ॥
तत्र स समुपासृत्य तेसां गोरक्षिणं पुरः ।
कृतांजलिपुटो नत्वा याचित्वाभयमब्रवीत् ॥ १९.१४६{४५} ॥
भवन्तोऽत्र मया पापं कृतं तत्प्रतिदेक्ष्यते ।
तद्भवंतः समाकर्ण्य क्षंतुमर्हंति सर्वथा ॥ १९.१४७{४६} ॥
अस्य प्रत्येकबुद्धस्य ह्यपराधो न विद्यते ।
तत्र मयातिदुष्टेन चौरोऽयमिति दर्शितः ॥ १९.१४८{४७} ॥
तदत्र मुच्यतामेष प्रत्येकसुगतो मुनिः ।
सत्कृत्याभ्यर्च्य पिंडेन माननीयो हि सर्वदा ॥ १९.१४९{४८} ॥
अत्रैतत्पातकं नास्य ममैव मस्तके पचेत् ।
तदहमेव वध्योऽत्र तदयं मुच्यतां यतिः ॥ १९.१५०{४९} ॥
इति तेनोदितं श्रुत्वा सर्वे गोरक्षिणोऽपि ते ।
रुष्टास्तं सहसा वद्ध्वा पर्य्याख्यायात्यताडयत् ॥ १९.१५१{५०} ॥
तत्ताडनरवं श्रुत्वा स प्रत्येकजिनः सुधीः ।
गोपालांस्तान् समामंत्र्य पुनरेवं समादिशत् ॥ १९.१५२{५१} ॥
भवन्तो मुच्यतामेष मापराधेऽपि हन्यताम् ।
क्षमा हि परमं धर्मं तत्कुर्वन्तु क्षमामिह ॥ १९.१५३{५२} ॥
तन्तासाद्यागनो योगं कर्तुमर्हन्ति सर्वथा ।
किं दैवं निहतं हत्वा युष्माकं सेत्स्यते फलम् ॥ १९.१५४{५३} ॥
मयैतद्वंधनं प्राप्तं ममैव दैवयोगतः ।
तदस्याप्यपराधोऽत्र नास्तीत्येष विमुच्यताम् ॥ १९.१५५{५४} ॥
इति प्रत्येकबुद्धेन तेनादिष्टं निशम्यते ।
तथेति प्रतिबुद्धित्वा तत्कोपं मुमुचुस्तदा ॥ १९.१५६{५५} ॥
अथ ते गोभृतः सर्वे श्रुत्वा तस्य मुनेर्वचः ।
सहसा विनतिं कृत्वा वंधनात्तं व्यमुंचयत् ॥ १९.१५७{५६} ॥
ततस्ते गोभृतः सर्वे तं प्रत्येकमुनिं मुदा ।
चीवरेण समाछाद्य समभ्यर्च्यात्यतोषयन् ॥ १९.१५८{५७} ॥
तत्र तं समुपाश्रित्य कृतांजलिपुटो नताः ।
तदपराधसंतप्ताः प्रार्थयन्नेवमादरात् ॥ १९.१५९{५८} ॥
भगवञ्ज्ञायतेऽस्माभिर्भवतो नापराधता ।
तेनास्माकं क्षमां कर्तुमर्हत्यत्र भवानपि ॥ १९.१६०{५९} ॥
इति तैः प्रार्थितं श्रुत्वा स प्रत्येकजिनः ।
तान् सर्वान् गोभृतो दृष्ट्वा समाश्वास्यैवमब्रवीत् ॥ १९.१६१{६०} ॥
भवन्तो मा विषीदन्तु दूषणं वा न विद्यते ।
एतद्वृत्तिं विजानामि सौगता हि भवार्थवित् ॥ १९.१६२{६१} ॥
(र्म् २४५)
इत्यादिश्य स सर्वज्ञः प्रत्येकबुद्ध उत्थितः ।
तत आकाश उत्प्लुत्य स्वाश्रमं गते आश्रयन् ॥ १९.१६३{६२} ॥
तद्दृष्ट्वा ते जनाः सर्वे गोपालाः प्रतिविस्मिताः ।
तमेव सुगतं स्मृत्वा सद्धर्मे सर्वदाचरन् ॥ १९.१६४{६३} ॥
योऽसौ कुथाभिधो गोघ्नः प्रदुष्टोऽहं तदाभवत् ।
तत्पापैर्नरकेष्वेवं चिरं दुःखानि भुक्तवान् ॥ १९.१६५{६४} ॥
अस्मिञ्जन्मन्यपि प्राप्तक्लेशद्वादशवार्षिकम् ।
तदस्यात्रापराधं न ममैतद्दैवयोगतः ॥ १९.१६६{६५} ॥
इति महाराज शुभाशुभं स्वदैवतः ।
संसारेऽत्र सदा पुण्यं कर्त्तव्यं सत्सुखार्थिभिः ॥ १९.१६७{६६} ॥
पुण्यमेवात्र संसारे सारसर्वार्थसिद्धिदम् ।
पुण्यं विना न सिद्ध्यन्ते कृतकर्माणि सर्वथा ॥ १९.१६८{६७} ॥
पुण्येन जायते स्वर्गे पुण्येन यान्ति सद्गतिम् ।
पुण्येन सर्वदा भद्रं कृत्वा यांति जिनालयम् ॥ १९.१६९{६८} ॥
दंडेन मुच्यते वध्यः पुण्यस्यैवानुभावतः ।
दंडार्होऽपि प्रहारेण प्रहारार्होऽपि रोषतः ॥ १९.१७०{६९} ॥
रोषार्हा रोमहर्षनेन मुच्यते पुण्यतो नृप ।
यावन्तः सूखिनः सर्वसंपत्समन्विताः ॥ १९.१७१{७०} ॥
सर्वे ते पुण्यकर्त्तार इति ज्ञेया नराधिप ।
पुण्येन शुद्ध्यते चित्तं शुद्धाशयो भवेत्सुधीः ॥ १९.१७२{७१} ॥
सुबुद्धिः सर्वदा नित्यं शुभेष्वेव समाचरेत् ।
शुभाचारो विशुद्धांगः सत्यवादी जितेन्द्रियः ॥ १९.१७३{७२} ॥
परिशुद्धाशयो धीरो भवेत्सत्वहितार्थभृत् ।
तथैतत्पुण्ययुक्तात्मा सर्वविद्याकलार्थवित् ॥ १९.१७४{७३} ॥
भवेद्धर्मार्थविज्ञश्च सुगुणश्रीसमन्वितः ।
ततो माहेश्वरीसंपत्प्राप्तो लोकहितोद्यतः ॥ १९.१७५{७४} ॥
दानं कृत्वा सदा सौख्यं भुक्त्या नित्यं शुभे चरेत् ।
एतत्पुण्यविपाकेन परिशुद्धस्त्रिमण्डलः ॥ १९.१७६{७५} ॥
शुभ्रशीलो विशुद्धात्मा सदार्यव्रतमाचरेत् ।
एतत्पुण्यानुभावेन क्षन्तिधर्मार्थसाधकः ॥ १९.१७७{७६} ॥
स्वपरात्मसमाभावी चरेत्मैत्रीसुखान्वितः ।
एतत्पुण्यविपाकेन धर्मोत्साहगुणान्वितः ॥ १९.१७८{७७} ॥
सर्वदुष्टगणाञ्जित्वा चरेत्सत्वहिते कृती ।
एतत्पुण्यप्रभावैश्च सर्वक्लेशान् विनिर्जयन् ।
समाधिधारणीविज्ञश्चरेद्ध्यानं समाहितः ॥ १९.१७९{७८} ॥
एतत्पुण्यविपाकैश्च सर्वशास्त्राब्धिपारगः ।
प्रज्ञारत्नं समासाद्य महाभिज्ञपदं लभेत् ॥ १९.१८०{७९} ॥
एतत्पुण्यानुभावैश्चिअ सर्वोपायविधानवित् ।
सर्वसत्वहितं कृत्वा शुभे नित्यं समाचरेत् ॥ १९.१८१{८०} ॥
एतत्पुण्यानुभावैश्च बोधिप्रणिधिमानसः ।
सर्वेषां मंगलं कृत्वा भद्रचर्यां समाचरेत् ॥ १९.१८२{८१} ॥
एतत्पुण्यप्रभावैश्च दशबलसमन्वितः ।
सर्वमारान् विनिर्जित्य चरेद्बोधिव्रतं सदा ॥ १९.१८३{८२} ॥
एतत्पुण्यबलेनैव संबोधिज्ञानमुत्तमम् ।
(र्म् २४६)
महारत्नं समासाद्य भवेत्सर्वविनायकः ॥ १९.१८४{८३} ॥
ततः सर्वत्र लोकेषु कृत्वा भद्राणि सर्वदा ।
बोधिसत्वो महासत्वः संबुद्धपदमाप्नुयात् ॥ १९.१८५{८४} ॥
एतत्पुण्यानुभावैश्च सर्वांस्त्रैधातुकास्थितान् ।
सत्वान् बोधौ प्रतिस्थाप्य कृत्वा धर्ममयं जगत् ॥ १९.१८६{८५} ॥
एतत्पुण्यविपाकेन धर्मराजस्तथागतः ।
निर्वृत आलयलीनो महाबुद्धो भवेद्ध्रुवम् ॥ १९.१८७{८६} ॥
एवं मत्वा महाराज निर्वृतिपदलब्धये ।
यदीछसि तथा पुण्यमेव कर्त्तव्यमाभवैः ॥ १९.१८८{८७} ॥
पुण्यमेव महारत्नं सर्वत्रापि महानुगम् ।
सर्वार्थसिद्धिदं भद्रं संबुद्धपदसाधनम् ॥ १९.१८९{८८} ॥
इति विज्ञाय राजेन्द्र हित्वा पापानुरागताम् ।
पुण्यान्येवात्र संसारे कर्त्तव्यानि हि सर्वदा ॥ १९.१९०{८९} ॥
पापेन सर्वदाप्येवं दुर्गतीष्वेव संगताः ।
मूढा क्लेशाग्निसंतप्ता भ्रमन्ति भवचारके ॥ १९.१९१{९०} ॥
यावंतो दुःखितो दुष्टा संसारे क्लेशतापिताः ।
सर्वे ते पापकर्त्तार इति बुद्धैः प्रकथ्यते ॥ १९.१९२{९१} ॥
इति मत्वा महाराज सदा भद्रं यदीछसि ।
हित्वा पापानुरागत्वं सद्धर्मं चिनु सादरम् ॥ १९.१९३{९२} ॥
सद्धर्मं सौगतं धर्मं यल्लोकं हितसाधनम् ।
तेनात्र सर्वधर्माणां प्रवरमग्रमुच्यते ॥ १९.१९४{९३} ॥
तदेतद्धर्मसंप्राप्त्यै त्रिरत्नशरणं गतः ।
सत्कृत्य श्रद्धया नित्यं भजस्व समुपस्थितः ॥ १९.१९५{९४} ॥
त्रिरत्ने यत्कृतं कर्मं शुभं वाप्यशुभं तथा ।
तत्फलमप्रमेयमसंख्येय महत्तरम् ॥ १९.१९६{९५} ॥
एतत्पुण्यानुभावेन सर्वे बुद्धा मुनीश्वराः ।
जगद्धर्ममयं कृत्वा निःक्लेशा परिनिर्वृताः ॥ १९.१९७{९६} ॥
एवं विज्ञाय भूमीन्द्र हित्वा पापरतिं सदा ।
त्रिरत्नभजनं कृत्वा चर नित्यं सदा शुभे ॥ १९.१९८{९७} ॥
अभुक्तं क्षीयते नैव क्वापि कर्म शुभाशुभम् ।
येनैव यत्कृतं कर्मं तेनैव भुज्यते फलम् ॥ १९.१९९{९८} ॥
नाग्निभिर्दह्यते कर्मं दह्यते देह एव हि ।
नोदकैः क्लिद्यते कर्मं क्लिद्यते तनुरेव च ॥ १९.२००{९९} ॥
नानिलैः शुष्यते कर्मं काय एवाभिशुष्यते ।
न क्षीतौ क्षीयते कर्मं क्षीयते तनुरेव हि ॥ १९.२०१{१००} ॥
अन्यथापि भवेन्नैव विपाके कर्मणः फलम् ।
यथैव यत्कृतं येन तेनैव भुज्यते तथा ॥ १९.२०२{१} ॥
कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे ।
शुभस्य सुखता नित्यं मिश्रितस्योभयं तथा ॥ १९.२०३{२} ॥
एवं कर्मविपाकोत्थं शुभाशुभफलं सदा ।
भुक्त्वा सर्वत्र संसारे भ्रमन्ति सर्वजंतवः ॥ १९.२०४{३} ॥
एवं मत्वा महाराज कृष्णानि मिश्रितानि च ।
विहायात्र शोभेष्वेव चरितव्यं सदा भवे ॥ १९.२०५{४} ॥
इति तेनार्हतादिष्टं श्रुत्वानंदः स भूपतिः ।
(र्म् २४७)
तथेति प्रतिविज्ञप्य सजनः प्राभ्य नंदतः ॥ १९.२०६{५} ॥
ततः स नृपतिर्भूयो रैवतं तं महामतिम् ।
सुचीवरैः समाछाद्य सांजलिः प्रणतिं व्यधात् ॥ १९.२०७{६} ॥
पुनरुत्थाय भूपालस्तमर्हन्तं कृतांजलिः ।
प्रणत्वा विनयं कुर्वन् क्रमाच्च प्रार्थयत्तथा ॥ १९.२०८{७} ॥
भदन्तात्र प्रसीदस्व क्षमस्व मेऽपराधताम् ।
सर्वदा दर्शनं दत्वानुग्रहं कर्तुमर्हसि ॥ १९.२०९{८} ॥
इत्युक्तेऽनेन भूपेन रैवतः स प्रसादितः ।
हंसराज इवाप्लुत्य भासयन् खे समाययौ ॥ १९.२१०{९} ॥
तत्राकाशे समासीनः प्रातिहार्यं प्रदर्शयन् ।
लोकैः संदृश्यमानोऽसौ ध्यात्वा तस्थौ समुज्वलन् ॥ १९.२११{१०} ॥
ततस्तैर्भिक्षुभिः शिष्यैः समन्वितः प्रभासयन् ।
तथाकाशाश्चरं गत्वा स्वाश्रमे समुपाश्रयन् ॥ १९.२१२{११} ॥
तद्दृष्ट्वा स नृपो लोकैः सहातिविस्मयान्वितः ।
त्रिरत्नभजनं कुर्वन् प्रचचार सदा मुदा ॥ १९.२१३{१२} ॥
एवं ह्यदोषेन विशेषयुक्त्या प्रत्यक्षणक्ष्यीकृतलक्षणेन ।
अलंकृतः साधुजनः खलेन निघ्नीकृतोऽपि न विकारमेति ॥ १९.२१४{१३} ॥
एवं स्वदैवयोगेन जायते ह्यपराधता ।
तन्नान्यस्यापराधत्वं वक्तव्यं केन चित्क्व चित् ॥ १९.२१५{१४} ॥
इति मे गुरुणाख्यातं तथात्र कथ्यते मया ।
इति मत्वा महाराज सदा धर्मे समाचर ॥ १९.२१६{१५} ॥
प्रजाश्चापि तथा राजन् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदादरात् ॥ १९.२१७{१६} ॥
तथा ते मंगलं नित्यं सर्वं चापि भवेत्सदा ।
क्रमाद्बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ १९.२१८{१७} ॥
इति सत्यं परिज्ञाय त्रिरत्नशरणं गतः ।
सत्कृत्य श्रद्धया नित्यं भजस्वात्र समाहितः ॥ १९.२१९{१८} ॥
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ १९.२२०{१९} ॥
सत्कृत्येदं नरा ये कलिमतिदरणं रैवतस्यावदनं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो भक्तिश्रद्धाप्रसन्नाः ।
ते सर्वेऽप्येवमत्र विमलसुमनसः सर्वदा सत्सुखानि भुक्त्वा कृत्वा सुभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाम् ॥ १९.२२१{२०} ॥
++ इति रत्नावदानतत्वे रैवतावदानं समाप्तम् ++