सामग्री पर जाएँ

जातकमाला (हरिभट्टः)

विकिस्रोतः तः
जातकमाला (हरिभट्टः)
[[लेखकः :|]]


हरिभट्ट: जातकमाला

प्रभासजातक

विविधक्लेशभुजङ्गाज्जगदुद्धर्तुं भवौघपातालात् ।
बुद्धत्वाय विशालो न भवत्यमहात्मनां प्रणिधिः ॥ १.१ ॥

तद्यथानुश्रूयतेऽतीतेऽध्वनिसदाकुसुमितोपवनरमणीयपर्यन्तापर्यन्तजनसमूहसंबाधवीथीचत्वरापणमणिकनकस्तम्भपङ्क्तिमनोहरभवनान्तराला शरदधिकविमलतारापतितारकागणाभ्यलंकृता द्यौरिव प्रभावती प्रभावती नाम राजधानी बभूव ।
तस्यां च सकलवसुधावधूहारयष्टिभूतायां मणिरिवामलप्रभासः प्रभासो नाम राजा बभूव ।


यस्यामलस्फटिकभित्तिषु मन्दिरान्तः कर्णावतंसतिलकप्रविलोकिनीनाम् ।
हस्ताः प्रसाधनविधौ मृदवोऽङ्गनानां नादर्शधारणपरिश्रमदुःखमूहुः ॥ १.२ ॥
विश्राणनाम्बुपरिवर्धितपुण्यबीजं यं बान्धवा ददृशुरम्बुधरायमाणम् ।
यस्यासहन्त बलिनोऽप्यरयो न कोपमह्नाय वैद्युतमिव ज्वलनं पतन्तम् ॥ १.३ ॥

तस्यैवंविधविभूतिपराक्रमोदयस्य कदाचिदुदयभूधरशिखरमिव सवितुरमलमणिसहस्रविच्छुरितोभयपार्श्वं सिंहासनमधितस्थुषः क्षितिपतेर्यथास्थापनमुपविष्टब्राह्मणराजसामन्तामात्यदूतवर्गां दौवारिकनिषिध्यमानपरिशङ्कितेतरजनां बहिर्निबद्धहस्त्यश्वरथवरामास्थानीमालोकयतः समुत्पत्यानुज्ञातप्रवेशैर्वनचरकैरवनितलविनिहितजानुभिः प्रकृतिलघुमानसत्वादागतसाध्वसगद्गदस्खलितवचनैर्निवेदितम् ।


अस्माभिरद्रिगहने करिणां समूहे दृष्टः करी कुमुदराशिरिवावदातः ।
मूले नवाम्बुधरवृन्दतिरस्कृतस्य प्रालेयशैलशिखरस्य सरूपमूर्तिः ॥ १.४ ॥

इदानीं तु ग्रहणे देवः प्रमाणमित्यथ स राजा संप्राप्तायां शरदि करिग्रहणाभिवृद्धकुतूहलो हलयोत्रोन्मूल्यमानमुस्तदर्भमूलसंभूततटतटाशब्दां क्वचित्क्षेत्रगोपिकाहस्ततालध्वनिविमिश्रच्छोट्कारशब्दसंत्राससमुत्पतितशुकपक्षाक्षेपविचलितपरिणतकपिशकलमशुङ्कजालां भक्तहारीपरिवेष्यमाणकृषीवलान्तिकनिलीनचकितवायसां कलुषपल्वलजलावस्थितरोमन्थायमानमहिषीयूथसवदनावघूर्णनविनिवारितदंशपातां श्रूयमाणप्रविचरितगोगणचलितकिङ्किणीविक्वणां केदारतामरसनालस्खलितशरारिकादम्बचक्रवाकमिथुनां नगरग्रामसंबद्धां क्षेत्रभुवमतिक्रम्य सैन्यसंत्रासविभिद्यमानहरिणकुलाकुलमश्वक्षुरच्छिद्यमानशष्पाङ्कुरं रथवराधिरोही सितातपत्रविनिवारितदिवसकरकिरणसंतापस्तदचलवनान्तरं प्रविवेश ॥


अथ गजपतिमारात्तं स्थितं यूथमध्ये सुरभिविशदगन्धां शल्लकीं खण्डयन्तम् ।
अवनिपतिरपश्यद्दानलेखोपकण्ठभ्रमदलिकुलमीषत्कर्णतालैः क्षिपन्तम् ॥ १.५ ॥

पश्यामस्तावदस्य गजपतेरस्य चास्मन्मत्तहस्तिनो युद्धमिति विचिन्त्य प्रभासः संयातं नाम हस्त्यारोहमुवाच ।
प्रोत्क्षिप्तमुख पटमिमं कृत्वा कुञ्जरवरं संचोदयैतेन वनदन्तिना सह युद्धायेति ।
यद्देव आज्ञापयतीति हस्तास्फालनजनितयुद्धोत्साहं तदभिमुखं तमाधोरणः परसैन्यनिवारणं वारणमकरोत् ।
अथ परस्परालोकनक्रोधादधिकतरसमभिवृद्धमदकणपङ्क्तिसंसिक्तसुरभीकृतभूरजसोः परिघगुरुविषाणसंघट्टध्वनिभीषणमयं भग्नोऽयं भग्न इति सेनाजनेनावलोक्यमानयोश्चिरमभवद्युद्धम् ॥


अन्योन्यप्रतिघातभिन्नमुखयोरुद्वृत्तपिङ्गाक्षयोराक्षेपेण विकल्पितश्रवणयोः श्वेतासिताभ्रत्विषोः ।
क्रोधादुत्क्षिपतोः करौ द्विरदयोः स्थूलौ चलत्पुष्करौ किं चित्पल्लवपाटले गतवती व्यक्तिं तयोस्तालुनी ॥ १.६ ॥
श्वेतद्विपाधिपविषाणविघट्टनेन संभूतवह्निकणिकाशबलीकृतानि ।
तस्याथ राजकरिणो रदनाश्रयाणि जातानि लोहवलयानि परिश्लथानि ॥ १.७ ॥
भग्ने च क्षितिपगजे गजेन तेन व्रीडावानभवदधोमुखः स यन्ता ।
तद्यूथं पुनरधिगम्य कुञ्जरेन्द्रो गम्भीरोऽप्यवनिपतिः सविस्मयोऽभूत् ॥ १.८ ॥

ततः प्रभासं महामात्राः समुपगम्योचुः ।
देव दुःसाध्योऽयमेभिः समस्तैरपि करिभिर्मन्त्रपरिजप्तैरोषधिबलैरयमनेकपो वशीकर्तव्य इति ।
तथेति च स राजाभिधाय पुनस्तां राजधानीमाजगाम ।
तेऽपि तेनोपायेन तं गन्धहस्तिनं करिणीभिः परिवृतमानीय हस्तिशालां प्रवेश्यालाने निबध्य राज्ञो निवेदयामासुरानीतः स गज इति ।
ततो राजा संयातं हस्तिदमकमुवाच ।
भद्र तथायमिभराजो दमयितव्यो यथा मद्वाहनयोग्यो भवतीति ।
स च सशिरःप्रणामं गृहीतराजाववादस्तं दन्तिनं दमयामास ॥

स हस्तिदमको यां यां शिक्षां समुपदिष्टवान् ।
स्वशिष्य इव मेधावी तां तां जग्राह कुञ्जरः ॥ १.९ ॥
ततः समानीय महामतङ्गजं मतङ्गजानां मददर्पहारिणम् ।
विनम्रमूर्धा विनयात्कृताञ्जलिः क्षितीशमाधोरण ऊचिवानिदम् ॥ १.१० ॥
अयं स दान्तः क्षितिपाल वारणः प्रकाममन्यक्षितिपालवारणः ।
गजेन्द्रशिक्षां समुपेत्य सांप्रतं मदोऽपि नैनं गमयत्यसांप्रतम् ॥ १.११ ॥
विनाङ्कुशेनापि विनापि वेणुना न विक्रियां याति विनापि सादिना ।
मया गृहाणेति पुनः प्रचोदितो गजोऽयमद्याज्ज्वलितानयोगुडान् ॥ १.१२ ॥

ततः समारुह्य पराभवन्मदं गजेन्द्रमेनं तुहिनाचलोपमं ।
ननु स्वयं रत्नपरीक्षणक्षमः परीक्षतां जातकुतूहलो भवान् ॥ १.१३ ॥

अथ प्रभासस्तं कुञ्जरवरं शरत्कालधवलमिव दिवाकरो बलाहकमधिरुह्य सान्तःपुरपरिवारः प्रमदवनक्रीडामनुभवितुं प्रातिष्ठत ॥

अथ सरसि सलीलं तोयमङ्गे क्षिपन्तीं विशदनिगडभङ्गं खण्डयन्तीं मृणालम् ।
स मृदुगतिरपश्यद्दन्तिनीं दन्तिराजः स्फुटितमभिमृशन्तीं पुष्करं पुष्करेण ॥ १.१४ ॥

कमलगहनमध्ये तां स दृष्ट्वा करेणुं गजपतिरभिजघ्ने रागशल्येन चित्ते ।
स्खलितपरुषवाचा वार्यमाणोऽपि यन्त्रा त्वरिततरमधावत्सापि भीता प्रतस्थे ॥ १.१५ ॥
करिणमनुपतन्तं प्रस्थितां तां करेणुं विदधतमिव लेखां पाण्डरां विग्रहेण ।
त्वरितमनुपतन्तः सप्तिभिर्वायुनुन्नं वहनमिव तटस्थाः किं चिदैक्ष्यन्त भृत्याः ॥ १.१६ ॥
न कदा चिदहं त्वया निरस्ता किमिदं निष्करुणत्वमीदृशं ते ।
इति षट्चरणावली मुहूर्तं रुदतीवानुजगाम तस्य मार्गम् ॥ १.१७ ॥
गजमङ्कुशपातभिन्नकुम्भं स नियन्ता न शशाक तं निरोद्धुम् ।
पुरुषोऽपि न शक्यते नियन्तुं किमु तिर्यग्मदनान्धमन्दबुद्धिः ॥ १.१८ ॥

क्षिप्रमेव च गवलमलिनदावाग्निधूमधूसरगिरिगह्वरान्तमतिविषमभूभागमिभकुलोन्मूलिततरुशिखरपर्यस्तशकुनिकुलायपतितभग्नाण्डकपालशबलितैकदेशं व्याघ्रोपयुक्तोज्झितमृगकडेवरपिशितविघसावलीनगृध्रवायसजंबुकमतिपरुषचीरीविरावभीषणमरुणसारथिकिरणसंतापितभूधरशिखरोपलजालमसत्सङ्गतमिवानभिरामं सा हस्तिनी भीता यत्प्रविवेश सोऽपि च रागवशात्कण्टकिवंशतरुशाखास्खलनाभिघातक्षतोरुजङ्घभुजवक्षःस्थलप्रसृतशोणितमवनिपतिमुद्वहन्नगणयंस्तानङ्कुशप्रहारांस्तदेवारण्यं प्रपेदे ॥


पक्वोदुम्बररागपाटलमुखच्छायैः क्षणं निश्चलैर्घण्टाशब्दकुतूहलात्तरुगतैः शाखामृगैर्वीक्षितः ।
मातङ्गः पतिताङ्कुशः कुशचयश्यामां विहाय स्थलीमुद्ग्रीवैश्च गृहीतशष्पकवलैर्दृष्टो मुहूर्तं मृगैः ॥ १.१९ ॥

ततः स हस्तिदमकः तं राजानमुवाच ।
देव गजपतिरयमिदानीमनङ्कुशतया दुर्जन इव लज्जाविरहात्सुतरामविधेयः ।
यदि कथं चिदयं दुष्टहस्ती कस्य चित्तरोरधस्ताद्यायात्तत्तस्य शाखामवलम्ब्य देवेनात्मा स्थिरयितव्य इति ।
स राजा पतितकिरीटकेयूरहारांशुकः शुकास्वादितसिन्दूरानुरञ्जितप्रमदाधरानुरूपफलामनिष्फलजीविताशः कथमपि न्यग्रोधशाखिनः शाखां चिरविरहपर्युत्सुकामिव दयितां घनमाश्लिक्षत ।
अवतस्थे च तरुवरस्य स्कन्धे ॥

यातस्य द्विरदपतेरनोकहानां शाखाग्रैर्विलुलितकर्णचामरस्य ।
दूरत्वान्नयनपथातिगस्य तारं तं घण्टाध्वनिमशृणोन्न भूमिपालः ॥ १.२० ॥

अथ तस्य नृपतेः शुद्धान्तसीमन्तिन्यो बाष्पपरिप्लुतेक्षणाः प्रविश्य भवनं भुवनपतिशोकवशादवनितलगताः पुनः पुनरिति परिदेवनां कर्तुमारेभिरे ।

पतितः क्व चित्क्षितिरजःपरुषे गिरिगह्वरे पृथुशिलाविषमे ।
स निरायुधोऽद्य वसुधाधिपतिः कथमागमिष्यति वनात्सभयात् ॥ १.२१ ॥
विनिपातभग्नशिथिलांसभुजः स तृषाथवा प्रबलया ग्लपितः ।
कुशसूचिभिन्नमृदुपादतलः कथमद्य पास्यति पिपासुरपः ॥ १.२२ ॥

अवितर्कितां स गमितः करिणा कथमापदं परिवृतोऽपि जनैः ।
अथवा सुखासुखफलस्य विधेरतिवर्तते क इव नाम पथः ॥ १.२३ ॥
यदि तस्य किं चिदशिवं नृपतेर्वयमप्यभीष्टमरणा नियतम् ।
हतयूथपं न खलु केसरिणा करिणीकुलं गिरिवने रमते ॥ १.२४ ॥
आधोरणः समुपगम्य स नाम दिष्ट्या स प्राणितीति कथयेद्वसुधातलेन्द्रः ।
भूयोऽपि तं स्मितमनोहरवक्त्रचन्द्रं पश्येम नाम नृपतिं श्रियमुद्वहन्तम् ॥ १.२५ ॥

इति तान्यवरोधनानि विलापपराणि नयनजलक्षलितपत्रलेखानि समाश्वास्यामात्यजनः सपरिजनः कर्णीरथानधिरुह्य क्रमेण गत्वा तां तस्य गजपतेश्चरणविन्यासपरिमृदितलोष्टदर्भां मदलवनिपाताधिवासिततृणाङ्कुरपर्यन्तां परिभ्रमन्मधुकरगणां पदवीमनुससार ॥

लुलितविलूनसूत्रनिचयच्युतगुरुतरलं परिमलपाण्डुमौक्तिकगुणस्थगितमृदुतृणम् ।
उपगिरि हारमैक्षत ततः स नरपतिजनः स्थितचकितातिशुक्लभुजगद्युतिमुषमभितः ॥ १.२६ ॥

हारदर्शनाच्च नियतमासन्नो देव इति मन्यमानास्तेऽमात्याः स्तोकमन्तरं गत्वा तस्य न्यग्रोधस्याधस्तात्तं राजानं पिपासाक्षामपरिपाण्डुशरीरमालुलितमौलिमतितीक्ष्णकण्टकतरुविटपाभिपातजनितवेदनमपश्यन् ।
अवतीर्य च कर्णीरथेभ्यस्तुरगेभ्यश्च प्रमुदितमनसो बिसविवरविनिःसृतमिव सचीपतिं दिवौकसः सादरमुपासां चक्रिरे ।
स च नरपतिरशेषं तमेव वृत्तान्तं तेभ्योऽकथयत् ।
अथ तेऽमात्याः प्रीतास्तं दशरथतनयमिव रथवरमारोप्य तस्मादरण्यप्रदेशात्पुनस्तन्नगरमनिन्युः ।
आगते च तस्मिन्नवनिभुजि प्रभावतीं राजधानीं प्रतीतहृदयाः पौरास्तोरणावबध्यमानसुरभिविविधकुसुममालानिलीयमानद्विरेफामुत्क्षिप्तध्वजपताकां गन्धोदकाधिवासितरथ्यान्तरां प्रवृत्तचित्रनृत्तोत्सवामकुर्वन् ।
सोऽपि च हस्ती तस्यां वासितायां कृतमदनकुतूहलः समदहलधरलीलामिवाभ्यस्यन् पुनस्तेन हस्तिपकेन भयलज्जाविमूढमनसा तस्य राज्ञः सकाशमनिन्ये ॥

दृष्ट्वा ततस्तस्य नराधिपस्य त्रासान्नियन्तारमुदीर्णकम्पम् ।
कोपादभूतां नयने क्षणेन विकोशरक्तोत्पलरक्तरागे ॥ १.२७ ॥

क्रोधराहुकलुषीकृतवदनेन्दुश्चावोचद्राजा ।
अरे दुरात्मन् हस्तिपकाधम किं भवानुपक्षिप्तः केन चिद्यदेनमदान्तं दुष्टहस्तिनं मामारोपितवानसि ।
ननु प्रोक्तवांश्च भवान् यथायं कुञ्जरवरो ममाज्ञया ज्वलितानप्ययोगुडानश्नीयादिति पश्याम इदानीं ते सत्यम् ॥

अथाभिनवघर्मांशुसंनिभाद्दन्तिनः पुरः ।
आकृष्य हुतभुङ्मध्यान्न्यवेशयदयोगुडान् ॥ १.२८ ॥
बभाषे च महामात्रं मन्त्रिभिश्चकितैर्वृतः ।
अवतीर्य गजं दीप्तानादयैनानयोगुडान् ॥ १.२९ ॥
स तथेति प्रतिश्रुत्य गृहीत्वा वेणुमग्रतः ।
गृहाणेत्यवदन्नागं न चासौ वामतां ययौ ॥ १.३० ॥
तमयोगुडमादित्सुमालोक्य च मतङ्गजम् ।
संयातमब्रवीद्राजा वार्यतामिति कुञ्जरः ॥ १.३१ ॥
तेन हस्तिदमकेन कुञ्जरे वारितेऽथ पुनरूचिवान्नृपः ।
देहमात्रकविनिग्रहे क्षमो न त्वयं चपलचित्तनिग्रहे ॥ १.३२ ॥


अथ शुद्धावासो देवो विहायसि स्थित्वा यद्ययमवनिपतिर्बुद्धानां भगवतां गुणपरंपरां शृणुयात्ततो निःसंशयेन बुद्धत्वाय प्रणिधानं कुर्यादिति ।
तदिदमत्र प्राप्तकालमिममेव महामात्रमनुप्रविशामीति विचिन्त्य क्षणादेव तच्छरीरमनुप्रविवेश ।
ततः संयातस्तं राजानमुवाच

कृशीकृताङ्गास्तपसा फलाशिनः स्मरेण नीता मुनयोऽपि विक्रियाम् ।
मनोदमस्तैरपि चेन्न शक्यते प्रकर्तुमन्येन कथं करिष्यते ॥ १.३३ ॥

राजोवाच
कः खलु चित्तदमने शक्तः स्यात् ।

संयात उवाच

बुद्धा नाम जगन्नाथा भूता भाविन एव च ।
ते हि स्वपरचेतांसि शक्ता दमयितुं ननु ॥ १.३४ ॥

तस्य बुद्ध इति श्रुत्वा वाक्यं तस्मान्निषादिनः ।
बहुत्वमिव संप्राप्तः प्रसादः पुलकोद्गमैः ॥ १.३५ ॥

राजोवाच ।
भद्र ननु कथ्यतां तावत्किंप्रभावा बुद्धा इति ।

संयात उवाच ।


अविद्यातिमिरान्धानां पुनर्भवनिवृत्तये ।
यत्तद्बोध्यं पदं शान्तं तद्बुद्धं तैस्तथागतैः ॥ १.३६ ॥

ततः स राजा प्रमुदितमनाः पुनरुवाच ।
नन्वाख्यायतां तावत्कथं बुद्धत्वमधिगम्यत इति ।
संयात उवाच ।

दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितैः ।
घटमानैः प्रयत्नेन बुद्धत्वं प्राप्यते नृभिः ॥ १.३७ ॥

अथ स राजा बुद्धत्वाधिगममार्गमुपलभ्य प्रणिधिमिति चकार ॥

ततोऽहमाशु भूयासं भूयोभिः सत्त्वशान्तये ।
गुणैर्दानादिभिर्युक्तो बुद्धो बोद्धव्यकोविदः ॥ १.३८ ॥
प्रणिधिमिति महान्तं बोधिसत्त्वे विशुद्धे कृतवति कृतबुद्धौ बुद्धिमन्तो ननन्दुः ।
स्वबलविलयचिन्तावागुरामध्यवर्ती मृग इव शरविद्धो विव्यथे पुष्पकेतुः ॥ १.३९ ॥

मनःक्षेत्रे रूढं प्रणिधितरुमानन्दितजनं समुद्भूतप्रायप्रथमकरुणापुष्पसमयम् ।
क्रमेणाच्छिन्नेच्छाविभवमहता दानपयसा फलार्थी भूपालः प्रतिदिनमसिञ्चत्तरुमिव ॥ १.४० ॥
अलंकुर्वाणस्य क्षितिपचरितं व्योमविपुलं बिभित्सोर्दुर्भेदं पिहितजगदज्ञानतिमिरम् ।
वितेने राजेन्दोः प्रणिधिशरदारम्भविमला भृशं दानज्योत्स्ना प्रणयिकुमुदानन्दजननी ॥ १.४१ ॥

भृत्यान् भृशं च कलभानिव पालयन्तं लक्ष्मीं चिराय करिणीमिव रञ्जयन्तम् ।
दानार्थिनः प्रणयिनः परिवव्रुरेत्य तं नृपतिं मधुकरा इव वारणेन्द्रम् ॥ १.४२ ॥
दुरासदो वह्निरिवाभवत्पुरा य एव संरम्भविजिह्मितेक्षणः ।
स एव बोधौ विनिबद्धनिश्चयो जनस्य जज्ञे ह्रदवन्नराधिपः ॥ १.४३ ॥
अपेतमात्सर्यतमः शरीरिणां क्रमात्स्वभावान्तरमेति मानसम् ।
य एव धूमो नयनप्रबाधनः स एव मेघत्वमुपैति संचितः ॥ १.४४ ॥

अतिदानपरायणस्य राज्ञः प्रददौ भृत्यजनोऽपि तस्य दानम् ।
ऋतुरेव स तादृशो हि कश्चित्तरवो भूरिफला भवन्ति यत्र ॥ १.४५ ॥
अवलोक्य नृपं गुणानुरक्तं प्रकृतीनामपि जायते गुणेच्छा ।
शशिनः प्रभयानुविध्यमानो विमलं वारि ददाति चन्द्रकान्तः ॥ १.४६ ॥
सगुणेन जनेन युज्यमानः सुमनाः को न भवेद्गुणानुरागी ।
मुनिगोचरमेत्य मन्दबुद्धिस्त्यजति व्यालमृगोऽपि रौद्रभावम् ॥ १.४७ ॥

इति बुद्धगुणानुरूपवर्णां गिरमाकर्ण्य मनोहरां नियन्तुः ।
अभवद्भवबन्धभङ्गहेतुः प्रणिधिः प्राक्तन एष शाक्यसूनोः ॥ १.४८ ॥

तदेवं श्रुतसुगतगुणमाहात्म्याः पुरुषविशेषाः शरीरिणां संसारदुःखोच्छित्तये बुद्धत्वाधिगमाय वीर्यसंनाहमाबद्धवन्त इति विचिन्त्य सम्यक्संबोधिलाभाय घटमानेन धीमता प्रथममेव दानपारमितायां यत्नः करणीय इति ॥

प्रभासजातकं समाप्तम् ॥




__________________________________________________________________________




२. बदरद्वीप


यः परदुःखैर्दुःखी तद्विच्छित्त्यै कृतप्रतिज्ञश्च ।
जगदर्थमीहमानः स एव सहते स्वदुःखानि ॥ २.१ ॥

तद्यथानुश्रूयते
विबुधगणाश्रमभूतायां नयप्रतापविजितसर्वसामन्तेन ब्रह्मदत्तेन राज्ञाधिष्ठितायां वाराणस्यां राजधान्यामुपचितविविधपुण्यसंभारोऽनेकशास्त्रकलाकौशलप्रख्यातकीर्तिस्त्यागदाक्षिण्यक्षमादीनामधिष्ठानं गुणानां सुहृत्प्रणयिबन्धुजनप्रियः सुप्रियो नाम बोधिसत्त्वः सार्थवाहो बभूव ।

दातव्यमिति सर्वेभ्यः सर्वदा सर्वमेव च ।
प्रतिज्ञेयमभूत्तस्य सर्वसत्त्वानुकम्पिनः ॥ २.२ ॥

लोकव्यसनमुच्छेत्तुमत्यन्तं कृतचेतसाम् ।
प्रतिज्ञा सत्त्वमहती महतामेव जायते ॥ २.३ ॥

प्रह्लादितजनस्त्यागस्तस्य चेतसि पप्रथे ।
इन्दोरिव शरत्काले ध्वान्तभेदी महोदयः ॥ २.४ ॥

अस्मदर्थमयं धत्ते भोगान् पुण्यबलार्जितान् ।
इत्यर्थेष्वर्थिनस्तस्य ममतामाललम्बिरे ॥ २.५ ॥

अस्यामनेन सुधिया प्रणिधानबीजमुप्तं मनोभुवि जिनत्वफलाय नूनम् ।
प्राग्दानपारमितयेति स पुण्यकर्मा सोत्कण्ठयेव सहसा घनमालिलिङ्गे ॥ २.६ ॥

इत्युपचितकुशलमूलस्य महाप्रदानप्रवृत्तस्य सत्त्वार्थं प्रति करुणाप्रतोदसंचोदितमनस्तुरङ्गस्य व्यवसायरथाधिरोहिणो बोधिसत्त्वस्य

न मोक्ष्यत्ययमह्नाय दानपारमितामिति ।
शेषाः पारमितास्तस्य तस्थुरुत्कण्ठिता इव ॥ २.७ ॥

अथ स महात्मा निदाघदिनकरकिरणैरिव जलाशयमापीयमानमनुदिवसमर्थिभिरल्पावशेषं कोशसारमालोक्य याचनकजनाशां विफलामशक्नुवन् कर्तुं रत्नद्वीपगमनाभिलाषी विविधपण्यपरिपूरितमुच्छ्रितशीतपटस्खलितमृदुपवनमतिनिपुणकर्णधारावलम्बितकर्णमाप्तपरिजनाधिष्ठितमनेकवणिग्जनपरिवृतो वहनमारुह्य

फुल्लातसीकुसुमसंस्तरसंनिकाशमाकाशमागतमिवोदकतां समन्तात् ।
भास्वद्भुजङ्गमणिदीपसहस्रमन्तर्गम्भीरदुर्गमजलं जलधिं जगाहे ॥ २.८ ॥

वहनगतिवशाच्च निमज्जत इव वेलातटशाखिनः क्षणमेव समवलोक्य पवनबलोदीर्यमाणमहातरङ्गविषममग्रतो धावन्तमिव च क्रमेण महासमुद्रमुत्तीर्य रत्नद्वीपमागम्य विविधानि रत्नान्यादाय सह तैर्वणिग्भिरविघ्नेन सुप्रियः पुनः प्रतिनिवृत्य सार्थं स्थलपथेन नेतुमारेभे ।

एतं समेत्य विमुखो न गतोऽर्थिवर्गश्चेतोऽस्य वैरिणि सुते च समानवृत्ति ।
एवं गुणानभिदधद्गुणलालसस्य सार्थं न तस्करगणोऽपि मुमोष तस्य ॥ २.९ ॥

शुचिशीलविभूषणे जने जगदर्थप्रतिबद्धचेतसि ।
अपि धर्मपराङ्मुखो जनः सुहृदीवाभ्युपयाति भद्रताम् ॥ २.१० ॥

ततः स महात्मा वाराणसीमुपगम्य प्रीतमनोभिर्बन्धुभिरालोक्यमानः स्वभवनमनुप्रविश्य तेन रत्नद्वीपादुपात्तेन स्वापतेयेनार्थिजनसंमाननामनुदिवसमकरोत् ।

महात्मनस्तस्य परार्थसंपदः प्रयच्छतो दानमुदारचेतसः ।
अवन्ध्यभूरिप्रणयैः समागतैरभूद्गृहद्वारमशून्यमर्थिभिः ॥ २.११ ॥

अथ स महात्मा कदाचिद्वरशयनीयमुपगतः क्षणदायामिदमचिन्तयत् । इदमपि न पर्याप्तमेवमर्थिजनप्रतिपूजनायां द्रविणमिति । कीदृशं पुनर्यात्राफलं साधयेयं येन मे सततमव्यवच्छिन्नदानप्रतीतमनसोऽर्थिनः स्युरित्यपि नामेयं त्वरितमपयायान्निशीथिनी यतोऽहं संमानयेयमर्थिवर्गमिति ।

सर्वो जन्तुः काङ्क्षति ग्लानिकाले खेदार्तो वा चित्तसौख्याय निद्राम् ।
एषा दातुर्दानविघ्नं करोतीत्यासीत्साधोस्तस्य निद्रैव दुःखम् ॥ २.१२ ॥

अथ स महासत्त्वो निद्रावशमुपगतः स्वप्ने विमलकिरणचक्रवालाभ्युद्गतपरिवेषनिमग्नमूर्तिमलिकुलाभिनीलशिथिलकेशपाशावच्छादितैकांसदेशां कमलपलाशाभिताम्रायताक्षीं कनककलशानुरूपपयोधरोपरिकीर्णहारमणिप्रभासमुद्द्योतितवक्षःस्थलामभिनवबन्धुजीवकुसुमाभिरक्ताधरां त्रिवलीसोपानाधिरोहणविजिह्मीकृतप्रतनुरोमराजिकामिन्दुकान्तिमिव मूर्तिमतीं कर्णाभरणमणिप्रभाभ्यक्तकपोलपत्त्रलेखां तनुधवलोत्तरीयसंवृताङ्गीं शरच्चन्द्रिकाप्रभापरिगतामिव कार्तस्वरप्रतिमामप्रतिरूपां देवतामपश्यत् । सा चैनमभिव्यज्यमानदशनमणिकिरणावभासितानना स्फुटमधुरेण वचसेदमभ्यधात् ।

प्रयास्यतीयं तनुतां क्रमेण दानातिरागात्तव कोशसम्पत् ।
क्षपाक्षये क्षीणशशाङ्कशोभे निवर्तमानेव समुद्रवेला ॥ २.१३ ॥

त्वयि प्रयास्यन्ति ततो गतोदये निपात्य दृष्टिं विमुखत्वमर्थिनः ।
अपास्तकेकाश्च्युतचारुचन्द्रिकाश्चिरं मयूरा इव शारदाम्बुदे ॥ २.१४ ॥

क्षयं गतायामिति कोशसंपदि त्वमर्थिनः प्राप्य शुचं गमिष्यसि ।
इयं तु दित्सा भवतः प्रथीयसी कदाचिदप्येष्यति नैव विक्रियाम् ॥ २.१५ ॥

गते क्षयं दारुणि चञ्चलार्चिषः क्षयं प्रयाति द्युतिराशुशुक्षणेः ।
प्रकाममभ्यासविवर्धितोदया न चैव दित्सा महतां विपत्स्वपि ॥ २.१६ ॥

अयं परिक्षीणधनोऽपि नार्थिनः करोति याच्ञाश्रयभङ्गकातरान् ।
इति प्रकाशीकृतनिश्चयो जनैर्जनो न कृच्छ्रेऽपि जहात्युदारताम् ॥ २.१७ ॥

इति तथ्यमहं ब्रुवे भवन्तं भवविच्छेदि पदं गवेषयन्तम् ।
व्यवसायतनुत्रमाशु बद्ध्वा बदरद्वीपमुपेहि लोकभूत्यै ॥ २.१८ ॥

शृणु तत्र मयोपदिश्यमानं गमनं भूधरनागयक्षभीमम् ।
बहुभिश्च पयोधिभिर्निरुद्धं यदलं साधयितुं त्वमेव शक्तः ॥ २.१९ ॥

मलयाचलरोहिणी सुधेति स्थिरवीर्यौषधिरस्ति पुण्यगन्धा ।
हविषा परिपच्य तामशान श्रमतृष्णाभिभवक्षुधाक्षयाय ॥ २.२० ॥

पञ्चद्वीपशतान्यतीत्य सरितस्तास्ताश्च भीमाम्भसस्तीर्त्वा च प्लवमध्यगो जलनिधीन् पुण्येन वीर्येण च ।
तुङ्गस्योपरि भूभृतोऽस्ति महती नाम्ना महौघौषधिस्तामादाय महाभुजङ्गमविषच्छेदाय यायास्ततः ॥ २.२१ ॥

पुरस्ताच्च सूचिभेद्यं वेत्रवनमतिक्रम्य जलधितीरे भूधरकन्दरान्तरावस्थितं ताराक्षं नाम राक्षसं द्रक्ष्यसि ।

सुप्तस्य जाग्रत इव ज्वलिताग्निदीप्तेर्यस्याक्षिणी तपनमण्डलतुल्यतारे ।
आपिङ्गपक्ष्मपरिवेष्टितवर्त्मलेखे निद्राक्षये मुकुलिते इव चाप्रकम्पे ॥ २.२२ ॥

सुप्तस्य तस्य घननिश्वसितानिलेन प्रम्लानपाण्डुकुसुमास्तरवो भवन्ति ।
जिह्वा विनिष्पतति चास्यपुटात्स्फुरन्ती विद्युल्लता जलधरादिव भीमनादात् ॥ २.२३ ॥

ततो यक्षभुजगशान्त्यर्थमतीतबुद्धभाषितानि सूत्रपदानि पठता भवता गन्तव्यम् । गत्वा च नातिदूरे रोहितकं नाम विविधोद्यानकुसुमसुरभिपवनमनेकरत्नप्रभोद्भासितजलधितटभूधरान्तरमुच्चावचजनसंबाधविपणिमार्गममरपुरप्रतिमं पुरं द्रक्ष्यसि । तत्र च पौर्णमासीनिशाकरप्रियदर्शनो विविधगुणौघो माघनामा सार्थवाहः । स ते बदरद्वीपस्य पन्थानमुपदर्शयिष्यति । स च महासार्थवाहो गाढग्लानतया सिंहशार्दूलभीषणाचलवनान्तराणि बहूनि योजनानि गत्वा कालकर्मणा योक्ष्यते । न च भवता तत्रापि विषादः करणीयः ।

प्रेर्यमाणाः करुणया धीराः सत्त्वहितं प्रति ।
बद्ध्वोत्साहमयं वर्म साधयन्ति समीप्सितम् ॥ २.२४ ॥

पश्चाद्देवतानुभावात्पुण्यप्रभावाच्च दूरमतिक्रम्य हिमगिरिशिखरानुकारिप्राकारपरिवेष्टितं रजतनगरं पिहितद्वारं द्रक्ष्यसीति । तत्र च भवता पुनस्तान्येव सूत्रपदानि पठितव्यानि । ततः स्वयमेव तद्द्वारमपावृतकपाटं भविष्यति ।


ततो निर्यास्यन्ति स्तनकलशभारेण गुरुणा प्रकामं क्लाम्यन्त्यः स्फुटदशनभासः स्मितवशात् ।
अरालभ्रूलेखाः कुवलयदलश्यामनयनाश्चतस्रः किन्नर्यस्तनुधवलदिव्यांशुकभृतः ॥ २.२५ ॥

तासु च मृदुहसितकटाक्षभ्रूविलासप्रकाशितमन्मथास्वपि भवता भगिनीसंज्ञा करणीया । ताश्च भवतो बदरद्वीपस्य पन्थानं दर्शयिष्यन्ति । ततो बदरद्वीपाधिपतिः किन्नरराजो देवताप्रोत्साहितो भवते चिन्तामणिं दास्यति । तत्र च वैडूर्यमयस्य नगरस्यान्तिकजातमुपवनमागतमकृष्टोप्तस्य शालेरतुषं फलमश्नन्तमुदितमिव शरद्वलाहकं वलाहकनामानमश्वराजं द्रक्ष्यसि । स त्वां विहायसा कृतार्थं वाराणसीमानेष्यतीत्यभिधाय सा देवतान्तरधीयत । बोधिसत्त्वोऽपि च कल्याणस्वप्नदर्शनात्परं प्रमोदमुद्वहन्नियमेनाहं बदरद्वीपयात्राफलमासादयिष्यामीति विचिन्त्य देवताः पूजयित्वा श्रमणब्राह्मणकृपणेभ्यश्च दानानि दत्त्वा यथादेवतोपदिष्टं चतुर्दशभिः संवत्सरैर्बदरद्वीपमागम्य किन्नराधिपतिसकाशात्तं चिन्तामणिमासाद्य चिन्तयामास । अपि नाम स तुरगपतिरागच्छेदिति ।

विचिन्तितं तेन च पुण्यकर्मणा परार्थनिष्पत्तिनिबद्धचेतसा ।
परिस्फुरन् राशिरिवेन्दुरोचिषां स चाश्वराजस्त्वरितं समाययौ ॥ २.२६ ॥

समेत्य चोवाच स मानुषीं गिरं दुकूलसूत्राकृतिसान्द्रकेसरः ।
इतः पुरात्सागरशैलदुर्गमान्नयामि कं त्वां विषयं विहायसा ॥ २.२७ ॥

तं सुप्रियः प्रियगुणो गुणिनां प्रवेकः प्रोवाच वाजिवरमिन्दुमरीचिशुभ्रम् ।
मत्तद्विरेफशबलोपवनान्तरालां वाराणसीं नयतु मां द्रुतमश्वराजः ॥ २.२८ ॥

उक्तस्तुरङ्गपतिनाथ स धीरसत्त्वः पृष्ठं ममेदमधिरुह्य भव स्थिराङ्गः ।
रत्नं स्ववाससि निबध्य च शुद्धरश्मि तं पक्षिराजसमरङ्घसमारुरोह ॥ २.२९ ॥

भिन्दन् खुरैः प्रविरलान् क्वचिदम्बुवाहान् सौदामनीसमवभासपिशङ्गिताङ्गः ।
उत्पत्य खं स्तिमितसागरवारिनीलं वाराणसीमवततार स वाजिराजः ॥ २.३० ॥

तं च स्वभवनसमीपेऽवतार्य वलाहकः पुनर्बदरद्वीपमेव प्रत्याययौ । बोधिसत्त्वोऽपि च प्रविश्य प्रमुदितमनोभिः प्रणयिभिः सुहृद्बन्धुभिः प्रत्युद्गतः स्वभवनमन्यस्मिन्नहनि बहिर्निष्क्रम्य तं चिन्तामणिं ध्वजाग्रमारोप्येदमुवाच ।

यद्यदिच्छति यो द्रव्यमिह मानुषदुर्लभम् ।
तत्तच्चिन्तामणिरयं सम्यक्तस्मै प्रयच्छतु ॥ २.३१ ॥

तदा च तस्मिन् देशे निर्व्यापारकृषीवलजनमनुदकतया धवलजलदशकलशबलदिक्कान्तमुपरतगोकडेवरावस्थितवायसगणमत्याकुलदरिद्रवर्गमपर्याप्तभैक्षोपहारं महद्दुर्भिक्षमासीत् । ततः स जनकाय उपेत्य सुप्रियमुवाच । धान्यमेव तावदयं मणिवरः प्रवर्षत्विति । तथास्त्विति चोक्तं बोधिसत्त्वेन विचिन्त्य विलोकितश्चासौ महामणिः ।

क्वचित्तरुपलाशेषु स्खलता व्योमपातिना ।
धान्येन महता भूमिर्बभूव च निरन्तरा ॥ २.३२ ॥

ततो विचित्रा मणयः स्फुरत्त्विषः शुचिद्युतीन्याभरणानि चासकृत् ।
विकम्पितान्यापतता नभस्वता तनूनि वासांसि च पेतुरम्बरात् ॥ २.३३ ॥

अथो विचित्राभरणाम्बरस्रजः प्रवृत्तनानोत्सवतूर्यनिस्वनाः ।
सविस्मयास्तं जनतानुकम्पिनं पुरस्कृतं तुष्टुवुरित्थमर्थिनः ॥ २.३४ ॥

अहो बतात्यद्भुतमेतदीहितं परोपकाराय गृहीतजन्मनः ।
अहो यशोभिस्तव कुन्दपाण्डुभिस्तिरस्कृतेयं हसतीव मेदिनी ॥ २.३५ ॥

अवश्यमस्त्येव जनस्य तादृशी स्वभाग्यसंपत्कुशलावलम्बिनः ।
भवादृशानां जगदर्थकारिणां यदेवमुत्पत्तिरवन्ध्यजन्मनाम् ॥ २.३६ ॥

निर्वासितमहादुःखो दत्ताक्लिष्टमहाफलः ।
विपाक इव धर्मस्य सुखहेतुस्त्वमर्थिनाम् ॥ २.३७ ॥

तदेवमात्मदुःखमगणयित्वा जगत्सुखविधायिनो महाकारुणिका न प्रतिज्ञामवसादयन्ति महात्मान इति स्वसुखनिरपेक्षेण परार्थनिष्पादनपटुना बोधिगामिना भवितव्यमिति ॥

॥ बदरद्वीपजातकं द्वितीयम् ॥



__________________________________________________________________________


॥ ३ धर्मकामजातकम् ॥


नान्यत्र बोधिसत्त्वादज्ञानतमोनिरस्तये योग्यः ।
कश्चित्सुभाषितमणिं चिक्राय प्राणमूल्येन ॥ ३.१ ॥

तद्यथानुश्रूयते
बोधिसत्त्वः किल श्रुतशीलादिगुणाभिलक्षिते क्षितितलालङ्कारभूते भूतानुकम्पिनि सततप्रवृत्तब्रह्मघोषाग्निहोत्रसमिद्दर्भकर्मान्ते विनीतशिष्यपरिवृताध्यापके ब्राह्मणकुले लोकहिताय व्यायच्छमानो वशित्वादुदपादि । प्रतिदिवसमापूर्यमाणकान्तिश्च स महात्मा

यथा यथा संववृधे जगत्प्रियः शशीव भिन्दंस्तिमिरं मरीचिभिः ।
तथा तथा तन्महतीं महाकुलं जलं पयोधेरिव वृद्धिमाययौ ॥ ३.२ ॥

कश्चिदेव महाभाग्यो जायते संमतःसताम् ।
तरुलतेव वंशश्रीर्यमालम्ब्य विवर्धते ॥ ३.३ ॥

तस्य च महानुभावस्य कृतोपनयनसंस्कारस्य प्रमादबहुले यौवने वर्तमानस्य विनिवृत्तव्यसनदोषस्य परामवेक्ष्य धर्मकामतां धर्मकाम इत्येव ज्ञातयोऽनुरूपं नाम चक्रुः ।

प्रायेण प्राणिनो लोके गुणिनो वा गुणस्य वा ।
नामापि पुण्यनिर्जातं प्रयाति रमणीयताम् ॥ ३.४ ॥

सुभाषितं तस्य सुभाषितार्थिनः कुतश्चिदाकर्णयतो विपश्चितः ।
नितान्तमानन्दथुचित्रकर्मकृच्चकार रोमोद्गमबिन्दुवर्तनाम् ॥ ३.५ ॥

पूतेन लोकमवभासयता समन्तात्कान्तेन भिन्नतमसा प्रथितागमेन ।
शुद्धेन कस्य हृदयं शशलक्ष्मणेव न ह्लाद्यते सुपुरुषस्य सुभाषितेन ॥ ३.६ ॥

शुश्राव भिन्नतिमिरं तिमिरान्तकारी यस्मात्सुभाषितमतीव सुभाषितज्ञः ।
प्रख्यातबुद्धिमहिमा महतां सदःसु प्रीतः परं शतसहस्रमदात्स तस्मै ॥ ३.७ ॥

स च महात्मा यत्र यत्र गच्छति स्म तत्र तत्र जनेन प्रतिपूज्यते स्म । ततः कदा चिद्
अन्यतमो दुष्टचेतास्तदपकारचिकीर्षया ब्राह्मणस्तस्य महात्मनस्तं लाभसत्कारविशेषमनुदिवसमभिवर्धमानमसहमानः सामर्षं त्वरितपदं तत्सकाशमाजगाम ।

असंप्राप्यान्यतः पूजां गुणलभ्यामसज्जनः ।
अन्यस्मै मान्यमानाय पण्डितायाभ्यसूयति ॥ ३.८ ॥

स च दुरात्मा राक्षस इव ब्राह्मणरूपधारीतं महासत्त्वमुपगम्येदमभ्यधात् ।

श्रुतं मयातीव सुभाषितप्रियो भवान् किल ज्ञानविशेषवित्तगः ।
अतोऽस्म्यवज्ञातजनस्त्वदन्तिकं सुभाषितप्राभृतवानुपागतः ॥ ३.९ ॥

परिभ्रमन् गन्धवतीः शिलीमुखो विहाय फुल्लाः सहकारमञ्जरीः ।
मदं पिपासुः समुपैति दन्तिनो गुणान्तरं तत्र स पश्यति ध्रुवम् ॥ ३.१० ॥

अथ बोधिसत्त्वः सुभाषितोपायनवन्तं तं ब्राह्मणमालोक्य प्रहर्षप्रोद्भिद्यमानपुलकशोभः समुत्थाय स्वागतं सुभाषितमहारत्नवणिजे ब्राह्मणाय । वयं सुभाषितमणीनां क्रेतार इत्युक्त्वा तं द्विजातिमात्मीये महत्यासने समुपवेश्य स्वयमवनौ निषसाद । ततो धर्मकामं सुहृदस्सविस्मयमेवमूचुः ।

श्रोष्यामीति सुभाषितानि भवतो जातं मुखं सस्मितं श्रुत्वा यास्यति साश्रु लोचनयुगं प्रीत्या श्रियं कामपि ।
अह्नश्छेदवशात्सुगन्धि कुमुदं मन्दं समुन्मीलति प्राप्येन्दोः किरणानपास्ततमसः शोभां परां पुष्यति ॥ ३.११ ॥

अथ धर्मकामः सबहुमानमालोकयंस्तं ब्राह्मणमवोचत् । अभिधातुमर्हत्याचार्यः शुश्रूषमाणाय शिष्यायेति । अथ स पापीयानेनमुवाच । यदि भवान्महति खाते निर्धूमज्वलनपरिपूरिते सुभाषितरत्नलोभादात्मानं मुञ्चेत्ततोऽहमिदं सुभाषितमश्रुतपूर्वमतिमनोहरमभिदध्यामिति । अथ बोधिसत्त्वः सत्त्वपरिबृंहितमतिरिदमभ्यधात् । महाब्राह्मण । नेदं दुष्करमात्मदुःखानपेक्षिणां मादृशानाम् । किं तु ।

सुभाषितं जगदुदयाय सज्जनान्महीरुहात्फलमिव संचिनोम्यहं ।
गते मयि ज्वलनवतीं महाखदामयं जनः कथमिव तद्ग्रहीष्यति ॥ ३.१२ ॥

ब्राह्मण उवाच ॥ श्रावयित्वेदं सुभाषितमखिलस्य जनकायस्य ततोऽग्निखदायामात्मानं मोक्ष्यसि । बोधिसत्त्व उवाच । यथा आच्य रोचते तथास्तु ।

अनवतीर्य चिराय दुरुत्तरं सुविपुलं व्यवसायमहोदधिम् ।
क्षपितमोहमहातिमिरः कथं जगति बोधिमणिः सुलभो भवेत् ॥ ३.१३ ॥

तदहमेष सुभाषितलालसो जलमिव प्रविशामि हुताशनम् ।
न मम धर्मकथाहृतचेतसो हुतवहोऽपि करिष्यति वेदनाम् ॥ ३.१४ ॥

इति निगद्य सुखातमखानयद्दहनवच्च नृभिस्तदकारयत् ।
निरगमच्च बहिर्भवनान्तरात्सपदि तेन सह द्विजरक्षसा ॥ ३.१५ ॥

हुतभुजि ज्वलिते च महामतिर्निपतितुं कृतनिश्चयमानसः ।
सखिभिरश्रुपरीतविलोचनैः स रुरुधे परिरभ्य सुहृत्तया ॥ ३.१६ ॥

अथ धर्मकामं सुहृदो ज्ञातयश्च विषादाश्रुपूर्णनयनाः सगद्गदमेवमूचुः ।
किमिदमिति सुभाषितरसेनानपेक्षितक्कार्यो दुष्प्रापमिदममलकुलोत्पन्नमुडुपतिकिरणविशुद्धयशोऽधिष्ठानं मानुष्यमवमन्य ज्ञातिजनं चात्यन्तदुःखभागिनं कृत्वात्मानं परित्यक्तुमिच्छसि । ननु विनिवर्त्यतामियममार्गयायिनी बुद्धिः । पश्यतु भवान् ।

ये नाम वल्लभतरास्सततं जनस्य पुत्रादपीष्टफलदाद्दयिताज्जनाच्च ।
क्रीणासि तैरसुभिरात्मसुखानपेक्षी कस्मात्सुभाषितमतीव सुभाषितज्ञः ॥ ३.१७ ॥

अथ बोधिसत्त्वस्तस्य जनकायस्य सुभाषितगुणाविष्करणेन धर्मदेशनामिति चकार ।

विज्ञानमुज्ज्वलयति प्रतिभां तनोति तत्त्वं प्रकाशयति कापथमुच्छिनत्ति ।
साधोः सुभाषितमहो परिचीयमानं कल्याणमित्रमिव किं न हितं करोति ॥ ३.१८ ॥

यत्रोदिते विमलधाम्नि विवस्वतीव पुम्नां मतिः कमलिनीव विबोधमेति ।
अत्यन्तभिन्नतिमिरं सुधिया परस्मात्तद्ग्राह्यमात्मनिमयेनकथं न सूक्तम् ॥ ३.१९ ॥

तस्मादहं दहनदाहमचिन्तयित्वा ताथागतीं गतिमनुप्रतिपत्तुमिच्छन् ।
प्रज्ञागुरुं गुरुमिवालघुसूक्तहेतोः प्रीतः शरीरगुरुदक्षिणयार्चयामि ॥ ३.२० ॥

मानुष्यं देवभूयं वा प्राप्यते सुकृताश्रयात् ।
कदाचिल्लभ्यते पुम्भिः सुभाषितरसायनम् ॥ ३.२१ ॥

तन्न मे कुशलपक्षावलम्बिनो भवन्तो विघ्नमुत्पादयितुमर्हन्तीति तान् सुहृदो बान्धवांश्च सानुनयं विनिवार्य ज्वलनसात्कर्तुमात्मानं तरुस्कन्धमारुह्य तं ब्राह्मणमुवाच । आचार्य प्रोच्यतामधुना तत्सुभाषितमिति । ब्राह्मण उवाच ।

प्रदानपटुभिर्नित्यं शीले च विमले स्थितैः ।
अत्यन्तवीर्यसंनाहैः प्राप्यते पदमक्षयम् ॥ ३.२२ ॥

अथ बोधिसत्त्वः प्रमुदितमनास्तां गाथामुद्गृह्य तस्मै जनसमूहाय श्रावयामास । ततस्ते सुहृदस्तमेनमर्थमूचुः ।

परं प्रमोदं जनयेत्पुनः पुनः तवैव सूक्तं कुशलावलम्बिनः ।
विषादहेतुत्वमुपागतं यतो दुरुक्तमस्माकमिदं ततो ननु ॥ ३.२३ ॥

अथ तत्र प्रकृतिकरुणार्द्राशयो मातृग्रामस्तस्य साधोरसंबन्धोऽपि शोकवशादेवं परिदेवनपरो बभूव ।

सुगन्धिना वाङ्मधुनाधिवासितं परिस्फुरन्दन्तमरीचिकेसरम् ।
मुखाम्बुजं श्रीमदिदं हुताशनः कथं न्वयं निष्करुणोऽस्य धक्ष्यति ॥ ३.२४ ॥

विशुद्धचामीकरगौरमग्निना परीयमाणं परिकूणितेक्षणम् ।
शरीरमस्येदमहो भविष्यति प्रदग्धदारुप्रतिमं मलीमसम् ॥ ३.२५ ॥

उद्यत्सिमसिमाशब्दमनलान्तरवर्तिनः ।
श्यामीभवदिदं गात्रं द्रष्टुं कोऽस्याद्य शक्ष्यति ॥ ३.२६ ॥

द्विधेव क्रियमाणानां वेणूनां पर्वनिःस्वनम् ।
बान्धवाः कथमस्यास्थ्नां श्रोष्यन्ति स्फुटतां ध्वनिम् ॥ ३.२७ ॥

अमी समीरणासङ्गचलत्पल्लवपाणयः ।
मा धाक्षीरेनमित्यग्निं वारयन्तीव पादपाः ॥ ३.२८ ॥

बाष्पतोयाविलाक्षाणां विदारयति नो मनः ।
बन्धूनामस्य दीनानां हा हेत्येकाक्षरं वचः ॥ ३.२९ ॥

इह गोष्ठी कृतानेन दत्तं धनमिहार्थिने ।
इत्यस्य सुहृदः साधोर्देशयिष्यन्ति सास्रवः ॥ ३.३० ॥

ज्ञातेयेन विनास्माकं दुःखं दहति मानसम् ।
सुहृदो ज्ञातयो वास्य धारयिष्यन्त्यसून् कथम् ॥ ३.३१ ॥

तन्नेदमतिकरुणं रौद्रं कर्मास्य दुष्करकारिणः शक्यते द्रष्टुमित्यभिधाय स स्त्रीजनो गृहाभिमुखः प्रतस्थे । ततो बोधिसत्त्वः प्रणिधिमेवमाविश्चकार ।

न प्रार्थये पदमहं शुभलभ्यमैन्द्रं विद्याधराधिपतितां न च नापि राज्यम् ।
भूयासमस्य जगतः सुगतत्वमाप्य दुःखक्षयार्थममुना कुशलोदयेन ॥ ३.३२ ॥

इत्युक्त्वा तेन महात्मना मुक्तश्चात्मा । सद्य एव च सोऽग्निरुपशान्तज्वालाकलापधूमसंघातः सुरभिकमलोद्भेदगन्धाधिवासितदिगन्तरालं कमलिनीपलाशस्थितविमलसलिललवं स्फटिककणाकीर्णमरकतशिलानुरूपमलिकुलचक्रवाकमिथुनहंसकादम्बोपशोभितं पद्माकरत्वमगमत् ।

कृतार्थमिव पद्मत्वं मन्यमाने कुशेशये ।
सोऽपि च स्थितमात्मानमद्राक्षीद्धीमतां वरः ॥ ३.३३ ॥

पादोपान्तभ्रान्तमत्तद्विरेफः शान्तो धर्मं धर्मकामो ब्रुवाणः ।
शोभां गाढं पद्मपत्त्रायताक्षः पद्मासीनः पद्मयोनेर्दधार ॥ ३.३४ ॥

एष स्वप्नः स्यादियं किं नु माया वह्निः क्वायं क्वेदमम्भोरुहत्वम् ।
इत्याश्चर्यं विस्मयाक्षिप्तचित्ताः तं पश्यन्तस्ते जना वाचमूचुः ॥ ३.३५ ॥

तेषां तमालोकयतां जनानामम्भोजमध्यस्थितमुन्नतेच्छम् ।
हर्षाश्रुणासंभवता क्षणेन रुषेव शोकाश्रुजलं निरस्तम् ॥ ३.३६ ॥

पतितमथ नभस्तः कीर्णकिञ्जल्कगन्धं समनुगतमलीनां पङ्क्तिभिः पुष्पवर्षम् ।
अभवदपि च मारः पौष्पमाधायपार्श्वे धनुरुपहितशोकःपाणिविन्यस्तवक्त्रः ॥ ३.३७ ॥

अथ स ब्राह्मणो ज्वलिताङ्गारमध्यगतमिवात्मानं ष्णनिश्वासाभितप्तमुखान्तरालः कथमपि धारयन्निदमवोचत् ।

गम्भीरे क्षितिविवरे परिस्फुरन्तं पश्यामि ज्वलनमिवाग्रतो महान्तम् ।
एषा च ज्वरपरितर्जितातिदुःखा मेदिन्यां मम विनिमज्जतीव मूर्तिः ॥ ३.३८ ॥

तीव्राग्निं नरकमिमं पतिष्यतो मे त्वं भूयाः शरणमिहाद्य धर्मकाम ।
तुङ्गेच्छाः परहितवेधसो महान्तस्त्वादृष्काः सुहृदि रिपौ च तुल्यभावाः ॥ ३.३९ ॥

अथ बोधिसत्त्वस्तदनुकम्पया सत्याधिष्ठानमकरोत् ।

येन सत्येन सत्त्वार्थं बोधिचर्यां चराम्यहम् ।
तेन मा स्म गमद्विप्रो नरकं ज्वलितानलम् ॥ ३.४० ॥

इति बोधिसत्त्वेनाभिहितःस ब्राह्मणः सद्य एव हरिचन्दनानुलिप्तमिवात्मानं प्रमुमुदे ।

कल्याणमित्रमागम्य जगदर्थविचक्षणम् ।
प्रयाति विलयं सद्यः पापं पापकृतामपि ॥ ३.४१ ॥

अथ बोधिसत्त्वः प्रमुदितमनोभिः सुहृद्बन्धुप्रणयिभिरालोक्यमानो दानशीलादिसमुत्तेजनाय धर्म्यां कथां चकार ।

आगमतोऽनुमानाच्च द्वयानिश्चयकारणात् ।
विशेषनिश्चयोत्पत्तेः प्रत्यक्षं बलवत्तरम् ॥ ३.४२ ॥

महापरित्यागमिमं सविस्मयश्चिरं विलोक्येव मम स्फुरच्छिखः ।
कृशानुरन्वक्षमयं शरीरिणां प्रफुल्लपद्माकरतामुपागतः ॥ ३.४३ ॥

ततः समालोक्य महान्तमद्भुतं प्रभावमेनं विपुलस्य कर्मणः ।
शुभाशुभस्यास्ति फलं सुखासुखं विचिन्त्य चेदं विजहीत कापथम् ॥ ३.४४ ॥

प्रमादनिद्राविनिमीलितात्मनां शरीरिणां सौपायिकी प्रबोधना ।
विपश्चितां तु स्फुटबुद्धिचक्षुषां सति प्रबोधे किमिव प्रबोध्यते ॥ ३.४५ ॥

हितोन्मुखानामपि धर्म्यया गिरा भृशं प्रबोधं जनयन्ति साधवः ।
गतेर्विशेषो भवति प्रसर्पतां प्रतोदसंचोदनया हि वाजिनाम् ॥ ३.४६ ॥

बहुच्छलं पालयता गृहाश्रमं न धीमता विश्वसनीयमण्वपि ।
न युज्यते स्वप्तुमनाहिताङ्कुशप्रचण्डमत्तद्विरदाधिरोहिणः ॥ ३.४७ ॥

सुतप्रलापा भवनं समृद्धिमद्विलासलावण्यविभूषिताः स्त्रियः ।
प्रसङ्गिनां सर्वममेधसामिदं शमानुकूलस्य निरोधकं पथः ॥ ३.४८ ॥

कथं चिदष्टाभिरपोढमक्षणैरवाप्य मानुष्यमिदं सुदुर्लभम् ।
शमाय यो न त्वरते प्रमादभाग्नियोजनीयोऽनडुहामसौ धुरि ॥ ३.४९ ॥

इदमवाप्तमवाप्यमिदं पुनः कृतमिदं करणीयमिदं नृणाम् ।
इति मनोगृहचित्रणया क्षयं व्रजति नैव मनोरथवर्तिका ॥ ३.५० ॥

विषयोपभोगमवसानदारुणं परिरभ्य चन्दनमिवाहिवेष्टितम् ।
सुखमित्यभूतपरिकल्पनानुगा बहुदुःखजालमधिशेरते जनाः ॥ ३.५१ ॥

धिगहो तिरस्कृतमविद्यया जगत्सकलं कलङ्कितमनङ्गजैर्मलैः ।
यदिदं समेत्य मरणारिगोचरं गजसुप्तिकामिव विधाय तिष्ठति ॥ ३.५२ ॥

हृतसत्पथं निवरणारिभिः शठैरविचिन्त्य संततमनित्यताभयम् ।
अनुशासनं प्लवमपास्य सौगतं विनिमज्जति व्यसनसागरे जगत् ॥ ३.५३ ॥

प्रतिक्षणं क्षयमुपयातिजीवितं प्रशाम्यतो वपुरिव कृष्णवर्त्मनः ।
अतः सदा विषयपराङ्मुखीमिमां त्वरावतीं कुरुतमतिं हितं प्रति ॥ ३.५४ ॥

इति वचनमयुक्तन्यायमुक्तं मया चेदनुभवत यथेष्टं कामसौख्यानुबन्धम् ।
अथ तु गुणवदेतत्साधवः चिन्तयित्वा श्रयत विषयतृष्णां रोधिनींशान्तिमग्र्याम् ॥ ३.५५ ॥

इति धर्मदेशनां कृत्वा बोधिसत्त्वःससुहृज्जनो गृहं प्रविवेश ।

तदेवं सुभाषितरत्नपरीक्षापटुना तेन भगवता प्राणैरपि सुभाषितानि क्रीतानीति विचिन्त्य सततमेव दुःखोच्छेदमिच्छता प्राज्ञेन धर्मकथाश्रवणे महानादरः करणीयः । कल्याणमित्रसेवा चाभिलषितफलनिष्पादिनी भवतीति तदनुवर्तिना भवितव्यमिति ॥

॥ धर्मकामजातकं नाम तृतीयम् ॥



__________________________________________________________________________



४. शश


तिर्यग्योनिगतैरपि सद्भिः प्राणाः परार्थमुत्सृष्टाः ।
को नाम पुरुषभूतः सक्तिं धनमात्रके कुर्यात् ॥ ४.१ ॥

तद्यथानुश्रूयते
स्तिमितनिलीनशुकसंघातहरितशाद्वलोपगूढभूभागे विविधशिखरितरुच्छायोपविष्टरोमन्थायमानहरिणगणे भ्रमदलिकुलोपगीयमानकुसुमितलतासंपर्कसुरभिपवनाकम्प्यमाननिर्झरवारिधौतशिलातलपर्यन्ते मुनिजनमनोऽनुकूले कूलविटपिलताकिसलयास्खलितसरित्तरङ्गाहतकुमुदधवलफेनशेखरालंकृतसलिले सलिलचरविहङ्गोन्नादितपद्मिनीवने क्वचिदचलवनान्तरे बोधिसत्त्वः शशो भवति स्म । तस्य च तत्र सहवासगुणादभिवृद्धसौहृदः प्रशमोपचयशान्तेन्द्रियग्रामो ग्राम्योपभोगपराङ्मुखमनाश्चीराजिनाषाढकमण्डलुमात्रपरिग्रहः कष्टतपास्तापसः सहायो बभूव ।

शान्तौ समानधर्माणौ समदुःखसुखोदयौ ।
तावन्योन्यमपश्यन्तौ न रेमाते सुहृत्तमौ ॥ ४.२ ॥

बाल्ये शशेन रहितः कंचित्कालं भवत्यनुष्णांशुः ।
न तु तेन शशाकृतिना कदाचिदपि स व्रती सुहृदा ॥ ४.३ ॥

साप्तपदीनं सख्यं भवति सतां प्रकृतिशुद्धचित्तानाम् ।
किमुतान्योन्यगुणकथाविश्रम्भनिबद्धभावानाम् ॥ ४.४ ॥

भवति शमाभिरतानां पुंसां धर्माय पाटवं बुद्धेः ।
प्रतनुमनसां तिरश्चां धर्मारम्भे कुतः संज्ञा ॥ ४.५ ॥

शशजातिरहो क्वेयं क्वेदं वाक्सौष्ठवं क्व च शमोऽयम् ।
अभवदिति देवतानां शश एव सविस्मयं चेतः ॥ ४.६ ॥

अथ कदाचिदसलिलतया परिपाण्डुषु सासूयकृषीवलजनावलोक्यमानेषु विश्रान्तविद्युल्लताविलासेषु पवनबलविच्छिन्नसंघातेषु जलदेषु दिनकरकिरणापीतसावशेषसलिलेषु परिम्लानगर्भलघुशालिच्छन्नेषु केदारेषु सकृत्पूरविच्छेदप्रतनुजलविमुक्तविपुलतरपुलिनतटावस्थितस्फुटितोत्तानशुक्तिपुटास्व्सरित्स्वाघर्मक्लमविनिबद्धश्वासप्रचलत्कण्ठेषु मदकालेऽपि विनिवृत्तनृत्तव्यापारेषु नीलकण्ठेषु निम्नप्रविरूढशुष्कशष्पाङ्कुरायां वसुमत्यामलब्धतृणाहारतया परिक्षामकुक्षिषु मन्दगमनचलितशिथिलसास्नासु क्षीरक्षयलघूध्नीषु परिदुर्बलवत्सासु वत्सतरीषु शाकप्रायकदन्नाभ्यवहारकृशपरुषाङ्गेषु दरिद्रजनेषु दुर्भिक्षदोषपराङ्मुखीकृतातिथिजनसत्कारेषु ग्रामेषु क्वचित्क्वचिच्छ्रूयमाणमन्थानशब्देषु गोकुलेषु स तापसस्तं शशमवोचत् । अहो कृतोपकारमपि विपत्सु नानुवर्तन्ते प्रकृतिलघवः प्राणिनः । पश्यतु भवानयं हि ।

आसारेण विभिन्नचन्द्रकमणिं तन्वन् कलापं मुदा लास्यं लासकवत्पुरा विरचयन् स्तौतीव यं केकया ।
तस्मिन्नेव शिखी निरम्भसि घने चक्षुःप्रदानालसः प्रायेणोदयवन्तमेव भजते स्वार्थप्रवीणो जनः ॥ ४.७ ॥

निस्तोया विरलीभवन्ति जलदा विच्छिन्नमैन्द्रं धनुः श्रूयन्ते न कलापिनां गिरिगुहासंसर्गदीर्घा गिरः ।
सर्वं वस्तु निसर्गभङ्गुरमिति ध्यात्वेव शोकाच्चिरं विद्युल्लासिकया विलासमधुरं लास्यं परित्यज्यते ॥ ४.८ ॥

जातं क्षीणफलं फलद्रुमवनं शोषं गता वीरुधः प्रम्लानानि शनैर्बिसानि बिसिनीपङ्के खरत्वं गते ।
योऽप्यासीद्बदरेङ्गुदीफलचयः स्वल्पो ममात्रोटजे क्षीणः सोऽपि सुदुष्कराय तपसे यात्रां करिष्ये कथम् ॥ ४.९ ॥

आहारेण विना प्रतिक्षणमयं देहः क्लमं गच्छति क्लान्त्या चेतसि योगिनः प्रतिहते स्थैर्यं समाधेः कुतः ।
प्राज्ञस्यापि समाधिहीनमनसस्तत्त्वाभिमुख्यं कुतस्तत्त्वादर्शनबद्धमोहतिमिरः पश्चाद्वृथा श्राम्यति ॥ ४.१० ॥

त्यक्त्वा ततोऽजिनकमण्डलुवल्कलानि स्थास्यामि बान्धवजनेन सह स्वगेहे ।
दुर्भिक्षदोषमपवाह्य पुनर्वनान्ते वत्स्यामि वत्सल चिरं भवता सहात्र ॥ ४.११ ॥

अथ बोधिसत्त्वश्चिरसंवासाभिवर्धितप्रेमार्द्रहृदयस्तमृषिमुवाच ।

आलानमुन्मूल्य सुखाभिकाङ्क्षी यातः कथंचिद्द्विरदो वनान्तम् ।
विस्मृत्य भूयोऽङ्कुशपातदुःखं जनान्तमेवेच्छति गन्तुमज्ञः ॥ ४.१२ ॥

शमेन मेधावितया तपोगुणैः श्रुतेन च ज्ञेयपथानुगामिना ।
मुनींस्त्वमन्यानभिभूय वर्तसे रविः प्रदीपानिव दूरमंशुभिः ॥ ४.१३ ॥

इति त्वमालोकितशास्त्रनिश्चयोऽप्यनन्धकारेण विवेकचक्षुषा ।
प्रवेष्टुकामो विषयारिगोचरं कथं प्रमाद्यन्निव नाम लक्ष्यसे ॥ ४.१४ ॥

तमोविनिर्भेदि पथां प्रकाशकं मनःप्रसादं जनयच्छरीरिणाम् ।
न वेत्ति धन्धः सुधियां सुभाषितं प्रसादि जात्यन्ध इवेन्दुमण्डलम् ॥ ४.१५ ॥

स्वबुद्धिदीपेन विना तमस्विनीं सुखानुषक्तिं त्यजतीति का कथा ।
गृहस्थतायां रमयन्ति यन्मनोविशुद्धसत्त्वास्तदसांप्रतं महत् ॥ ४.१६ ॥

द्विसन्ध्यमाज्याहुतिगन्धवासितैर्निवेशितान्तर्बदरेङ्गुदीफलैः ।
जलाशयालीनशरारिसारसैस्तरूपगूढैरुटजैरलंकृताः ॥ ४.१७ ॥

तपस्विकन्योद्धृतकुम्भवारिणा प्रसिच्यमानोद्गतबालपादपाः ।
तटद्रुमच्छायनिरुद्धसिन्धवः समुच्छ्वसत्पुष्पसुगन्धिवायवः ॥ ४.१८ ॥

परिभ्रमत्तापसपुत्रकानुगैः क्वचिन्मृगैः खण्डितवीरणाङ्कुराः ।
जपाच्चलच्छ्मश्रुनिरुद्धकन्धरैस्तपोधनैराश्रितशैलगह्वराः ॥ ४.१९ ॥

अहो दृढस्नेहनिबद्धचेतसामसत्सुखास्वादलवानुषङ्गिणाम् ।
न नाम पर्युत्सुकयन्ति रागिणाममेधसां चित्तमुपत्यका भुवः ॥ ४.२० ॥

अकुशलजनसेव्यं कापथं प्राप्य मोहात्स्खलति नियतमज्ञः स्नेहपाशानमुक्त्वा ।
सुकृतिभिरनुयाते संविदानोऽपि मार्गे यदरजसि न तिष्ठत्येतदप्राप्तमत्र ॥ ४.२१ ॥

बहुव्यसनदोषमपि नाम गार्हस्थ्यमवेत्य कथमिमां शमानुकूलां विमुक्तिमार्गप्रकाशिनीं प्रव्रज्यामपास्य सुखलवहेतोर्महत्प्रतिभयं दुःखपातालं प्रवेष्टुमिच्छसि । यच्च भवताभिधीयते पुनरहं तपोवनमागमिष्यामीति नेदं श्रद्धीयते । कुतः । प्रचुरविघ्नो हि गृहवासः ।

इन्द्रियार्थवशगस्य कामिनीः पश्यतः स्मितविलासभूषणाः ।
अप्यखण्डफलदे तपोवने रागिकस्य हृदयं निवेक्ष्यते ॥ ४.२२ ॥

अपि च महर्षे विषयानुवर्तिनो हि प्राणिनो महान्ति व्यसनान्यनुभवन्ति । पश्य ।

मृगो मृगयुगीतेन नीयते शरगोचरम् ।
विषयास्वादलुब्धानां भवन्त्येव विपत्तयः ॥ ४.२३ ॥

शलभः प्रयाति पतितो विभावसौ गुरुदाहदुःखमुपगम्य पञ्चताम् ।
कमनीयरूपहृतचेतसां कथं न भविष्यति व्यसनमङ्गिनां पुनः ॥ ४.२४ ॥

यदि नाददीत बडिशस्थमामिषं शकली क एनमुदकात्समुद्धरेत् ।
सुखलुब्धबुद्धिरनुबद्धमग्रतो न भयं विलोकयति बालिशो जनः ॥ ४.२५ ॥

कमले निमीलति शिलीमुखः स्थितः समुपैति कृच्छ्रमतिगन्धलालसः ।
गजबन्धकीमनुसरन् वनात्करी सहते प्रतोदनिशिताङ्कुशव्यथाम् ॥ ४.२६ ॥

विपदां पदं तनुधियां विमोहनं स्थिरबुद्धिभिः परिहृतं महात्मभिः ।
यदि वः सनातनसुखस्पृहास्त्यतो विषवज्जहीत विषयाहिगोचरम् ॥ ४.२७ ॥

ऋषिरुवाच । सत्यमनेकेषां परिभवादीनां
दोषशराणां शरव्यभूतो गृहवासः सुखलवास्वादमोहितात्मभिर्न शक्यते परित्यक्तुम् । किं तु ।

शश सुहृत्तम शीलयशोनिधेर्भवत एव गुणा ननु तादृशाः ।
मम भविष्यति यैर्हृतचेतसः पुनरिहागमनं शममिच्छतः ॥ ४.२८ ॥

बोधिसत्त्व उवाच । यद्यवश्यमेव गन्तुमभिलषितं तथाप्येकमिमं दिवसमिहोषित्वा श्वः स्वमभिप्रायमनुष्ठातासि । ततः स मुनिरेवं चिन्तयामास । नियतमयं मां निमन्त्रयितुकामः ।

जम्बूवनं क्वचिदनेन फलाभिरामं दृष्टं भवेत्किमथवा फलितोऽत्र चूतः ।
पाकाभिताम्रसुकुमारफलाधिवासो शैलान्तरे क्वचिदुदुम्बरपादपो वा ॥ ४.२९ ॥

अथ शशस्तां रजनीमतिवाह्य प्रभातसमये कृत्स्नं तद्वनं परिभ्रम्यालब्धमूलफलश्चिन्तयामास ।

अस्मिन्नभुक्तवति सक्षुधि दुर्बलाङ्गे शान्ते मुनौ समसुखव्यसने सुसख्यौ ।
भोक्ष्ये तृणं कथमहं हरितं वनान्ते पास्यामि शीतविमलं सलिलं कथं वा ॥ ४.३० ॥

अथवा सत्यस्मिन्नर्थिजनसाधनक्षमे शरीरे किमहमशक्त इव विषण्णमनास्तिष्ठामि । ततस्तमृषिमुपगम्योवाच । महर्षे प्रतिपाल्यतां तावन्मुहूर्तं यावदहमाहारजातं किंचिदुपहरामि । ततः स मुनिरचिन्तयत् । परिक्षीणकन्दमूलफलेऽस्मिन् वने कीदृशी पुनराहारोपहरणशक्तिरस्य स्यात् । अथ स महात्मा ज्वलिताङ्गारराशिमवलोक्य प्रणिधिमेवमभिवर्धयामास ।

यथार्थिनः क्षुदुपशमाय निर्व्यथस्त्यजाम्यसून् हुतभुजि चञ्चलार्चिषि ।
तथा जगद्व्यसननिरस्तिकारिणीं सुदुर्लभां दशबलतामवाप्नुयाम् ॥ ४.३१ ॥

मुक्तः स्वात्मा परार्थे प्रमुदितमनसा चिन्तयित्वेति तेन क्लेशच्छेदाय शान्तं पदमभिलषता प्राणिनां बान्धवेन ।
शान्तज्वालाकलापः स च वनदहनस्तस्य पुण्यानुभावात्प्रेङ्खत्तोयोर्मिलेखं प्रचलदलिकुलं प्राप पद्माकरत्वम् ॥ ४.३२ ॥

अथ स मुनिः कष्टमित्युक्त्वा दहननिर्वापणाय गृहीतसलिलकमण्डलुस्त्वरितमुपगम्य तं महात्मानं विकसितपुण्डरीकमध्येऽवतिष्ठमानं धर्मं देशयन्तमपश्यत् ।

अधिष्ठितं तेन भृशं शशेन रराज तद्वारिणि पुण्डरीकम् ।
शरत्प्रसन्ने नभसि प्रसन्नं प्रकाशलक्ष्मेव शशाङ्कबिम्बम् ॥ ४.३३ ॥

ततः स मुनिस्तं शशं पुण्डरीकावस्थितमालोक्य विस्मितमनाः स्तुतिमिमां प्रव्याजहार ।

अहो परार्थप्रतिपत्तिदक्षिणं यशोनिधेः कर्म तवेदमद्भुतम् ।
अचिन्त्यमाहात्म्यविशेषसंश्रयो महामतिः कोऽपि शशायते भवान् ॥ ४.३४ ॥

अयं प्रदीप्तः क्व समीरसारथिः क्व चात्र राजीववनत्वमीदृशम् ।
महात्मनां पुण्यबलैरधिष्ठितो विषद्रुमोऽप्योषधिवृक्षतामियात् ॥ ४.३५ ॥

ततः स महात्मा तस्मात्पुण्डरीकादवतीर्य प्रविष्टश्च तेन सह मुनिना पर्णशालाम् । विदितबोधिसत्त्ववृत्तान्तेन च विस्मितमनसा मघवता समन्तादञ्जनाचलनीलजलधरपटलपिहितदिनकरमचिरप्रभाप्रकाशपरिपिञ्जरदिगन्तरमम्बरतलमकारि ।

ततो ववुः प्रचलितवारिशीकराः समन्ततः कुटजभिदः समीरणाः ।
विरेजिरे समुदितपङ्क्तिभिः फलैः शुकाश्रिता गिरिसहकारपादपाः ॥ ४.३६ ॥

समुद्गते मधुकरवेणुनिस्वने मृदङ्गवद्ध्वनति च वारिनिर्झरे ।
ननर्त खं नवजलदं विलोकयन् स्थितो गिरेरुपरि मयूरलासकः ॥ ४.३७ ॥

मनोहरं धनुरवतत्य वज्रिणो निपातितस्फुटबहुशीकरेषवः ।
वितेनिरे स्फुरदचिरप्रभासयः पयोधराः क्षपितनिदाघविद्विषः ॥ ४.३८ ॥

परिभ्रमद्भ्रमरनिपातकोपितः समुच्छ्वसत्प्रतरुणकेतकाश्रितः ।
श्वसन्नयोवलयसरूपविग्रहः पुनः पुनः फणमतनोद्भुजङ्गमः ॥ ४.३९ ॥

दयिताविरहोत्सुकोत्सुकैः पथिकैः शैलपथद्रुमाश्रितैः ।
परिशुश्रुविरेऽल्पयाचिनां जलधारान्तरचारिणां गिरः ॥ ४.४० ॥

ददृशुः पथिकाङ्गनाः स्फुरन्तीं तडितं वारिमुचि प्रवेपिताक्ष्यः ।
उपरि द्विरदस्य वायुनुन्नां ध्वजबद्धामिव कौङ्कुमीं पताकाम् ॥ ४.४१ ॥

शिखिचन्द्रकमिश्रकाशवंशं क्वचिदावर्तपरिभ्रमच्छिलीन्ध्रम् ।
अभवज्जलमाविलं नदीनां तटजम्बूफलपातभिन्नफेनम् ॥ ४.४२ ॥

जम्बूफलैः शबलितानि सरित्तटानि पश्यन् भुवश्च मृदुशाद्वलरम्यशोभाः ।
पर्णोटजे क्वणति वारिकणाभिघातात्तिष्ठन् सह प्रमुमुदे स मुनिः शशेन ॥ ४.४३ ॥

पप्रच्छ तमथानेन व्यवसायेन भूयसा ।
स्थानं दिव्यसुखाकाङ्क्षी किमैन्द्रं विजिगीषसे ॥ ४.४४ ॥

आचचक्षे शशस्तस्मै धीरचेतास्तपस्विने ।
बुद्धत्वमहमिच्छामि प्राणिनां दुःखशान्तये ॥ ४.४५ ॥

स मुनिस्तमुवाचाथ यदा बुद्धो भविष्यसि ।
तदा स्यां तव शिष्योऽहं स चास्मै प्रत्यपद्यत ॥ ४.४६ ॥

तदेवं तिर्यग्गतोऽप्यसौ भगवान् बोधिसत्त्वचर्यां चरन् प्राणैरपि परोपकारं कृतवानिति बुद्धे भगवति प्रसादपरायणैर्भवितव्यमिति ।

॥ शशजातकं चतुर्थम् ॥


__________________________________________________________________________


५. चन्द्रप्रभ


को विस्मयं न नीतः शिरसस्त्यागेन बोधिसत्त्वस्य ।
अथवा फलानुरूपाः प्रायो महतां समारम्भाः ॥ ५.१ ॥

तद्यथानुश्रूयते
हुतवहसखबलसमुदीरितमहातरङ्गस्य क्षीरोदजलधेरनुकारिणा हिमगिरिहारेणाभ्यलंकृतायाः कौबेर्या दिग्वध्वाः प्रमनसा पत्त्रलेखेव विश्वकर्मणा लिखिता विविधजनसंबाधा पवनविधूयमानोपवनकुसुमगन्धाधिवासितदिगन्तराला सदा सुभिक्षत्वात्परिपूर्णकोषकोष्ठागारा श्रीरिव नगररूपेणावस्थिता भद्रशिला नाम राजधानी येयमधुना तक्षशिलेति ख्यातिमागता । तस्यां च नीतिभुजबलपराजितान्यराजसामन्तः समुद्र इव सरितां सर्वसंपदामाश्रयः सर्वविद्यानां पात्रभूतो भूतानुकम्पी विमलवदनेन्दुशोभाह्रेपितचन्द्रप्रभश्चन्द्रप्रभो नाम राजा बभूव ।

श्रियमरिपुरनारीपद्मिनीनां हरन्ती सखिजनकुमुदानां ह्लादमुत्पादयन्ती ।
निशि मनुजपतीन्दोस्तस्य देहप्रभैव क्षपिततिमिरजाला दीपकार्यं चकार ॥ ५.२ ॥

तस्य च राज्ञो लोकोत्तरेयमखिलजनविस्मयकारिणी प्रतिज्ञाभूत् ।

यदि मां मृगयेत कश्चिदर्थी नयने प्राणनिबन्धनं शिरो वा ।
भवभङ्गकरं पदं यियासुः प्रणयच्छेदमहं न तस्य कुर्याम् ॥ ५.३ ॥

बोधिसत्त्वस्य च दशशतवसोरिवारुणः सततपुरःसरोऽमात्यगणप्रधानो महाप्रज्ञो महाचन्द्रो नामामात्यो बभूव ।

परस्परगुणालापौ परस्परहितोन्मुखौ ।
न कदाचिदभूतां तौ परस्परवियोगिनौ ॥ ५.४ ॥

अथ कदाचिन्महाचन्द्रो रात्रौ निद्रावशमुपगतो दग्धपलाशराशिनीलपरुषच्छविभिरनलज्वालाकलापकपिलकेशश्मश्रुभिः केसरिनखरकुटिलतीक्ष्णकररुहैः सलिलाध्मातगुरुजलधरबृहत्कुक्षिभिरयःस्तम्भपीवरततभुजोरुभिः शशिकलाकुटिलदंष्ट्राविभक्तसृक्कान्तैः स्फुरदचिरप्रभाविजिह्मभ्रूभङ्गैः सरुधिरपुरुषचर्मावच्छादितकौपीनैर्यातुधानैः स्वप्ने तस्य नृपतेरपह्रियमाणं विगलितचूडामणिं मौलिमपश्यत् । प्रतिविबुध्य च विमनस्क एवमचिन्तयत् । अहो कटुविपाकोऽयं मया स्वप्नो दृष्टः । स्वामिनश्च नः प्रतिज्ञा शरीरमपि याचितेनार्थिने मया दातव्यमिति । तद्यावत्तस्य नृपतेर्न कश्चिच्छिरो मृगयते तावदनेकानि रत्नमयानि शिरांसि शिल्पिभिः कारयामीति । तैरेव कंचिच्छिरोयाचकं बहिरेव प्रतिपूज्य विसर्जयिष्यामीति ।

भूपालः पृथिवीमेनां पालयन् पालितेन्द्रियः ।
कृतात्मा सुचिरं जीवञ्जीवयत्वखिलं जनम् ॥ ५.५ ॥

अथ महाचन्द्रोऽमात्यमुख्यः शिरांसि रत्नमयानि कारयित्वा बहिरेव याचनकजनं विचारयामास केनार्थ इति । ततो गन्धमादनपर्वते वानरानूकमुखः परिणतनालिकेलवल्कलपरुषविरलकेशश्मश्रुरकृतभ्रूकुटिरपि कृतभ्रूकुटिरिव दग्धस्थूणासितकर्कशच्छविः प्रस्थितजलौकःकुटिलस्थूलसिराजालविषमजङ्घोरुभुजो भुजग इव प्रकृतिरौद्रो रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म । तस्य चिन्ता समभवत् । चन्द्रप्रभः किल राजा सर्वंददस्तद्गच्छामि तावत्तं राजानं शिरोयाचनेन व्यर्थप्रतिज्ञं करिष्यामीति । कस्य नामास्ति शिरःप्रदाने शक्तिरिति विचिन्त्य क्रमेण भद्रशिलामाययौ ।

विचचाल ततः सभूधरा मुहुराघूर्णितसागरा धरा ।
सरितो जलमुद्धुराविलं चलपाठीनविकम्पितान्तरम् ॥ ५.६ ॥

न विरेजतुरिन्दुभास्करौ रजसा धूसरदर्पणाकृती ।
अभवन् ककुभः समन्ततो मलिनाः प्रोषितभर्तृका इव ॥ ५.७ ॥

अनृतावपि शाखिनामभूत्कुसुमं पाण्डुपलाशकेसरम् ।
ववुरुद्धतपांसुसंचयाः शिखिलेशानुगता इवानिलाः ॥ ५.८ ॥

अभवत्सचराचरा धरा मलिनक्षामजनाकुलाकुला ।
क्षणदा परिधूम्रतारका शशिनीवास्तसमीपमागते ॥ ५.९ ॥

वनेऽश्नतीनामपि कोमलं तृणं क्षणाद्गवां क्षीरमगात्परिक्षयम् ।
धवित्रधूतोऽपि निवेशिताङ्गतिर्मखेषु जज्वाल न यज्वनां शिखी ॥ ५.१० ॥

अथ विविधान्यजन्यानि विलोक्य भद्रशिलानिवासी जनः किमिदमिति समाशङ्कमानः पर्याकुलतामाजगाम । ये तु तत्र निपुणतरास्ते राज्ञो विनाशमासन्नमुत्प्रेक्षमाणास्तुमुलमनसो भूत्वा परस्परमेवमूचुः ।

उत्पातजनितं कृच्छ्रं मा भूदस्य महीभुजः ।
यस्याश्रित्य भुजच्छायां देहिनः शेरते सुखम् ॥ ५.११ ॥

अथ साश्रुलोचना नगरदेवता महाचन्द्रायामात्याय निवेदयामास । रौद्राक्षो नामायं ब्राह्मणोऽस्य राज्ञः शिरो याचितुमागतस्तन्निवार्यतां केनचिदुपायेनेति । अथामात्यस्तानि रत्नमयानि शिरांस्यानीय रौद्राक्षमुवाच । महाब्राह्मण येनार्थस्तदहमेव ते प्रतिपादयामि । किं भवतो राज्ञा दृष्टेन प्रयोजनमिति ॥

भवति तनुधनादपीष्टलाभो यदि पुरुषात्किमतो महाधनेन ।
यदि गजपदमात्रखाततोयं हरति तृषं वद सागरेण कोऽर्थः ॥ ५.१२ ॥

ब्राह्मण उवाच ।
न स्थूलक्षीरधाराः सितजलदरुचः प्रार्थये गाः सवत्साः किंचित्कर्णावधूतभ्रमदलिनिवहान्नैव मत्तद्विपेन्द्रान् ।
नालंकारान् प्रसन्नस्फुटकिरणमणीन्नापि वासोविशेषान् याचे मूर्धानमस्मादहमवनिभुजः सर्वदोऽयं किलेति ॥ ५.१३ ॥

अमात्य उवाच ।
अमूनि ते रत्नमयानि साधो ददामि भक्तिप्रवणः शिरांसि ।
न चेदमीभिस्तव कृत्यमस्ति मदीयमद्यैव शिरो गृहाण ॥ ५.१४ ॥

स्वाम्यर्थं बिभ्रतः प्राणान् भृत्यस्य स्थिरचेतसः ।
तद्धेतोः साधनीभूतास्ते चेन्ननु कृतार्थता ॥ ५.१५ ॥

ब्राह्मण उवाच । किमनेन पुनरुक्तेन । अभिचारुके कर्मणि पृथिवीपतिशिरसा मम प्रयोजनम् । अथ चन्द्रप्रभो दिव्येन चक्षुषा तं शिरोयाचनकं बहिरवस्थितमालोक्य प्रियसुहृदमिव प्रत्युद्गम्य तममात्यमुख्यमभिहितवान् । अलमलमर्थिनः प्रणयमुपहत्य । संसारसागरोत्तरणाय सेतुभूताः खलु बोधिसत्त्वानामर्थिनः ।

उत्तितीर्षोरुदन्वन्तं दूरपारं दुरुत्तरम् ।
यो भिनत्ति प्लवं बद्धं कथं स सुहृदुच्यताम् ॥ ५.१६ ॥

तस्माद्धर्मसहायेन पुंसा धर्मानुवर्तिनः ।
उत्साह एव कर्तव्यो धर्मविघ्नो न युज्यते ॥ ५.१७ ॥

ईदृशो न भवेदर्थी यदि मोक्षस्य कारणम् ।
बोधिसत्त्वस्य पूर्येत दानपारमिता कथम् ॥ ५.१८ ॥

इत्युक्त्वा खड्गमाकृष्य ब्राह्मणस्यार्पयन्नृपः ।
मम च्छिन्धि शिरो विप्र प्रोक्तवानिति चाव्यथः ॥ ५.१९ ॥

क्व ब्राह्मणः क्व हृदयं करुणापरोक्षं चण्डालसंगतमिवाहमनेन मन्ये ।
यज्ञोपवीतमिति तस्य चिरं विचिन्त्य विप्रस्य वक्षसि सलज्जमिवावतस्थे ॥ ५.२० ॥

अथ स ब्राह्मण उवाच ।
नाहममात्यसुहृद्बन्धुजनपरिवृतस्य भवतः शक्नोमि शिरश्छेत्तुम् । एकाकी भवान् भवितुमर्हतीति । ततः स राजा सशपथं विनिवर्त्य तं बाष्पसलिलपरिप्लुताक्षं जनसमूहं तेन निस्त्रिंशपाणिना ब्राह्मणेनानुगम्यमानो रत्नगर्भं नामोद्यानमगमत् । अथ महाचन्द्रोऽमात्य इति परिदेवनापरिदीनाक्षरमुवाच ।

अपगतशिरसं निरीक्षितुं मनुजपतिं बत कोऽद्य शक्ष्यति ।
उपहतयजमानसत्क्रियं क्रतुमिव पुण्यजनैरुपप्लुतम् ॥ ५.२१ ॥

इदमवनिभुजा विनाधुना पुरमतिदीनजनं न भास्यति ।
भ्रमदलिकुलसंकुलं गजैः सलिलमिवोद्धृतफुल्लपुष्करम् ॥ ५.२२ ॥

तद्यावदस्य नृपतेर्न शृणोमि मृत्युं प्राणानहं प्रथममेव जहामि तावत् ।
एवं विचिन्त्य स समाधिबलेन धीमान् स्वायंभुवीं गतिमगात्स्वतनुं विहाय ॥ ५.२३ ॥

धन्यः स एव पुरुषः समवाप्य सौख्यं वृत्तं प्रकाश्य जगतीन्दुमरीचिशुभ्रम् ।
प्राप्तामवेक्ष्य सुहृदां महतीं विपत्तिं प्राप्नोति यः प्रथममेव शरीरभङ्गम् ॥ ५.२४ ॥

अथ रत्नगर्भमाक्रीडं प्रविष्टे राजनि महानाक्रन्दशब्दोऽन्तःपुरे समभूत् । प्रविश्य च तदुद्यानं स ब्राह्मणस्तं राजानमवोचत् । एवमवस्थितस्य स्वस्थरूपस्य भवतो नाहमसिं कण्ठे पातयितुं शक्नोमि । राजोवाच । ब्राह्मण ततो मामत्र सदापुष्पे चम्पकतरौ बधान । स च तथा ब्राह्मणः कृतवान् । अथोद्यानदेवतास्तं रौद्रकर्माणमेवमूचुः ।

निशितं वसुधाभर्तुरसिं कथमनागसः ।
अस्य नाम जगद्बन्धोस्त्वं कण्ठे पातयिष्यसि ॥ ५.२५ ॥

अकारणक्रौर्यविरूक्षमानसः शिरो यदि च्छेत्स्यति भूपतेर्भवान् ।
तवाप्यशन्या स्फुरितस्फुलिङ्गया शिरः करिष्याम इदं विजर्जरम् ॥ ५.२६ ॥

अथ स राजा ताः प्रमदवनदेवताः सानुनयमिति वारयामास । न खलु मम भवतीभिरनुत्तरां संयक्संबोधिं जिगमिषोर्महानन्तरायः करणीयः । अनुमोदनया हि पुण्याप्तिर्भवत्यतोऽन्यथा कुशलपक्षहानिरेव ।

अर्थिभ्यो याचमानेभ्यो दत्तानां शिरसां मया ।
अमुना शिरसाद्येदं सहस्रं परिपूर्यते ॥ ५.२७ ॥

इति बोधिसत्त्ववचनमाकर्ण्य ता देवतास्ततः स्थानात्प्रतिजग्मुः । अथ स राजा प्रणिधिमेवमकरोत् ।

शिरःप्रदानात्कुशलं यदस्माच्चिराय विस्मापितसर्वलोकात् ।
अवाप्य बोधिं मम तेन शान्तौ भवेयुरस्थीनि तिलाणुकानि ॥ ५.२८ ॥

अस्मिन् पुरे भद्रशिलाभिधाने शिरांसि दत्तानि मया च यस्मिन् ।
स्थाने भवेत्तत्र मनोऽभिरामे स्तूपो महान् देहभृतां हिताय ॥ ५.२९ ॥

इति कृतप्रणिधेर्वसुधापतेरकरुणः करुणामृदुचेतसः ।
स भुजगद्युतिना सहसासिना कमलवन्मुखपङ्कजमच्छिनत् ॥ ५.३० ॥

छिन्ने ततः शिरसि भूमिपतेः क्षणेन निर्मुक्तफुल्लकुसुमाश्रुकणानुबद्धाः ।
जघ्नुः स्वपल्लवकरैरनिलावधूतैरात्मानमुत्सुकतयेव लतातरुण्यः ॥ ५.३१ ॥

निर्भिन्नफेनवलयं पवनेन वाता- व्यालोलवीचिभुजकम्पितपद्मवक्त्रम् ।
तस्मिन्नभूदुपवने नलिनीवधूनां वृन्दं सशोकमिव षट्पदकूजितेन ॥ ५.३२ ॥

दिष्टान्तं गतवति राज्ञि राजधानी निःश्रीकप्रचुरजनाकुला न रेजे ।
निःशब्दस्तिमितशरारिचक्रवाका यातेऽस्तं दिवसकरे मृणालिनीव ॥ ५.३३ ॥

अथ गतवति तस्मिन् भूभुजि ब्रह्मभूयं चलति जलधिवेला निस्वनाक्रन्दवत्याः ।
रुदितमिव पृथिव्या दूरमुत्क्षिप्य तुङ्गौ कपिलधवलभासौ मेरुकैलासबाहू ॥ ५.३४ ॥

स च ब्राह्मणस्तत्केशेषु शिरः समवलम्ब्य तस्मादुपवनान्निर्गन्तुमारेभे । ततो भद्रशिलानिवासी जनः शोकवशादेवमुवाच ।

सिंहासनस्थस्य नृपस्य भृत्यैर्यदुन्मुखैर्दृष्टमुदीर्णहर्षैः ।
तन्नीयते म्लानसरोरुहाभं द्विजेन केशेषु शिरो गृहीतम् ॥ ५.३५ ॥

अपि च ।

यः पूर्वाचलसंस्थितस्य शशिनः शोभां वहन् भूयसीं दृष्टः सादरमुन्मुखैः करिवरस्कन्धस्थितो राजभिः ।
कण्ठच्छेदविसारिसान्द्ररुधिरव्यादिग्धवक्षःस्थलः श्येनैः सोऽयमधोमुखैः क्षितिपतिर्भ्राम्यद्भिरालोक्यते ॥ ५.३६ ॥

दीनाश्चितां सुमहतीं सचिवा रुदन्तः कर्पूरचन्दनतुरुष्कवतीं विधाय ।
तस्मिन्निवेश्य नृपतिं व्यजनानिलेन मन्त्रैर्हुतं हुतवहं ज्वलयां बभूवुः ॥ ५.३७ ॥

अथ तां ज्वलन्तीं चितामालोक्य परिदेवमानः स जनकाय एवमवोचत् । अहो भगवत्यनित्यता नाम निर्विशेषा ।

मन्दं दत्तविलेपना शशभृतः कान्तिं हरन्ती पुरा या स्पृष्टा प्रमदाङ्गुलीकिसलयैर्गोरोचनाधारिभिः ।
सेयं पातितवासवध्वजनिभा राज्ञः शमालम्बिनी लोलाभिः परिमृश्यते हुतवहज्वालाङ्गुलीभिस्तनुः ॥ ५.३८ ॥

तदेवं स्वशिरःपरित्यागोऽप्यस्खलितमनसा बोधिसत्त्वभूतेन भगवता कृत इति विचिन्त्य बोधिमिच्छतान्येनापि त्यागपरायणेन साधुना भवितव्यमिति ।

आचख्यौ भगवांश्चेदमर्हतामर्हतां वरः ।
जातकं जितसंसारमहादुःखपरंपरः ॥ ५.३९ ॥

तदा चन्द्रप्रभो नाम बभूवाहं महीपतिः ।
अमात्यः शारिपुत्रोऽभूद्देवदत्तश्च स द्विजः ॥ ५.४० ॥

॥ चन्द्रप्रभजातकं पञ्चमम् ॥


__________________________________________________________________________



६. रूप्यावती


स्त्रीत्वेऽपि बोधिसत्त्वश्छित्त्वा मांसं ददौ निजाद्देहात् ।
किमुताधिकसत्त्वबले परार्थकुशले मनुष्यत्वे ॥ ६.१ ॥

तद्यथानुश्रूयते
विविधोपवनश्यामपर्यन्ता धनदायमानवणिग्जनपरिपूर्णविपणिमार्गा गान्धारविषयतिलकभूता विभूषणमिव क्षितेरुत्पलावती नाम राजधानी येयं पुष्कलावतीत्यधुना ख्याता । तस्यां च बोधिसत्त्वः प्रथमयौवनोपचीयमानकान्तिलावण्यशोभा देवतेव स्वभवनस्य रूप्यावती नाम स्त्री बभूव ।

उपशान्ततया परोपकारप्रतिपत्त्या मनसश्च पाटवेन ।
अतिविस्मयकारिणी जनानां करुणा मूर्तिमतीव सा बभासे ॥ ६.२ ॥

अथ कदाचित्तत्र देशे कुशलमूलक्षयात्परिक्षीणकोशकोष्ठागारावलोकनपरिदीनजनमरुणसारथिकिरणसंतापविलीनसावशेषहिमगिरितुहिनमतुहिनतया परिशुष्यत्सरित्सलिलमसलिलतया च परिम्लानकेदारं तदवलोकनविषण्णकृषीवलजनमपरिपूर्णातिथिमनोरथमतिदुर्बलगोपालानुगम्यमानपरेतावशेषविरलगोगणमाहारपरायणदरिद्रजनमसज्जनसंगतमिव पीडाकरमतिमहद्दुर्भिक्षमभवत् ।

विनिमग्नमनोज्ञचूचुकाः शुचिचामीकरकुम्भसंनिभाः ।
कठिनत्वमनन्धसां जहुः प्रमदानां गुरवः पयोधराः ॥ ६.३ ॥

परिहीनमृजासु बिभ्रतीष्वधिकं बाहुलतासु तानवम् ।
अगमन् परिदीनचक्षुषां शिथिलत्वं वलयानि योषिताम् ॥ ६.४ ॥

परिरूक्षशिरोरुहाकुलानि क्षणदाभङ्गशशाङ्कधूसराणि ।
वदनानि बभूवुरङ्गनानां विगतभ्रूललितस्मितोदयानि ॥ ६.५ ॥

उपलिप्य मृदा गृहान्तरालं शिशवे पर्युषितं प्रदाय भोज्यम् ।
गृहिणी न तथात्मनानुतेपे गृहिणं वीक्ष्य यथा क्षुधावसन्नम् ॥ ६.६ ॥

मृतवत्सतया निरस्तचारी कवलव्याहृतिकम्पमानसास्ना ।
गृहिणीं गृहमागता वनाद्गौरधिकं साश्रुविलोचनां चकार ॥ ६.७ ॥

परिदुर्बलतां क्रमाद्गतानामतृणाहारतया शनैर्गतीनाम् ।
अधिकं शिथिलत्वमागतेषु क्षयमूधःसु गवां पयो जगाम ॥ ६.८ ॥

आदश्य किंचिदधरं परिदुर्बलेन लाङ्गूलमूलमवलम्ब्य समाकुलेन ।
उच्चिक्षिपे कथमपि प्रकटास्थिसंधिर्गोपालकेन जरती सुरभिः कृशाङ्गी ॥ ६.९ ॥

क्षीणान्नपानो मृतगोधनोऽपि पटच्चरप्रावृतपाण्डुगात्रः ।
जनो न तस्मिन् विषये विमोक्तुं गृहान्निवासोपहतः शशाक ॥ ६.१० ॥

अथ रूप्यावती क्वचिदवचरके प्रसूतिवशादधिकतरप्रज्वलितक्षुदग्निसंतापितशरीरां निम्नतरकपोलनयनकुक्षिरन्ध्रामभिव्यक्तपर्शुकापङ्क्तिमतिमलिनजर्जरवसनसंवृताङ्गीमात्मस्नेहगौरवादपेततनयस्नेहां तदेवापत्यं जिघांसन्तीं कांचित्सैरन्ध्रीमपश्यत् । आलोक्य च तामुक्तवती । भगिनि किमिदमतिनृशंसं कर्म कर्तुकामासीति । सा योषिदेवमचिन्तयत् । इयं खलु रूप्यावती दानशीला करुणावती च । ततो यद्यहमस्याः कथयेयमिमं वृत्तान्तं नियतमेषा मम क्षुत्प्रतीकारं कुर्यादिति विचिन्त्योवाच । भगिनि बाढमस्मि प्रसवाभिवृद्धेन क्षुदग्निना परिगतशरीरा । तदिच्छामि पुत्रकमिमं भक्षयितुमिति ।

सुतमप्यौरसं नाम द्विषन्तमिव पश्यताम् ।
आत्मस्नेहो हि सत्त्वानां धर्माधर्मौ न पश्यति ॥ ६.११ ॥

अथ रूप्यावती करुणाप्रवर्तितबाष्पाविललोचनोत्पला तां स्त्रियमिति बभाषे ।

करुणरोदनमात्रविभावितव्यथमिमं कुटिलाकुलकेशकम् ।
अकरुणे कथमत्स्यसि बालकं हरिणशावमनोहरनेत्रकम् ॥ ६.१२ ॥

द्रुतगतिप्रचलोच्चशिखण्डके क्षितिरजःपरुषेक्षणपक्ष्मणि ।
परसुतेऽपि शिशौ मृदुचेतसां भवति वत्सलता खलु योषिताम् ॥ ६.१३ ॥

हसितविस्फुरिताधरपल्लवं कृतविशेषकमायतलोचनम् ।
कथमिदं स्खलिताकुलसंकथं सुतमुखं न निरीक्षितुमिच्छसि ॥ ६.१४ ॥

कुर्वन्तमश्वगमनाभिनयं शिशुत्वाद्दण्डाश्वकस्थमलिनाकुलकाकपक्षम् ।
हासस्फुरद्दशनकुड्मलपङ्क्तिशोभं का योषिदिच्छति विलोकयितुं न पुत्रम् ॥ ६.१५ ॥

व्याकोशतुण्डकमुदाननवीक्षमाणमाहारकाङ्क्षिणमुदीरितरूक्षशब्दम् ।
पुष्णाति शावमनुगामिनमादरेण काकी क्षुधा परिगतापि सती किमु स्त्री ॥ ६.१६ ॥

अपि च । कदाचिदयं जनः श्रुत्वा कोपवशादियं सा पुत्रघातिनीति पिशाचीमिव भवतीमस्माद्देशान्निर्वासयेत्ततो विरम्यतामस्मात्साहसादिति ।

मृगशावमिव व्याघ्री भक्षयित्वेममर्भकम् ।
कथं प्रज्वलितान् पापे भक्षयिष्यस्ययोगुडान् ॥ ६.१७ ॥

सा प्रोवाच । किं करवाणि भगिनि यन्न शक्नोमि सोढुमेनं सर्वाङ्गीणं क्षुदग्निमिति । अथ रूप्यावतीत्थमचिन्तयत् । यदि नामाहमेनं बालकमादाय यास्यामि नियतमेषा प्राणवियोगमेष्यति । अथास्याः क्षुत्प्रतीकारार्थमन्नमतिचिरादानेष्यामि तत एषा पुत्रकमिमं प्राणैर्वियोजयिष्यति ।

कालातीतं निष्फलं कर्म कुर्वन्मोहाल्लोकः केवलं खेदमेति ।
वोढुं युक्तं तावदेवातपत्रं तिग्मज्योतिर्यावदस्तं न याति ॥ ६.१८ ॥

तदिदमत्र प्राप्तकालं स्वमांसेनैनां प्रीणयिष्यामीति ॥

असारात्सारमादेयं शरीरात्पातुकादितः ।
स्रोतोभिन्नचलन्मूलात्फलं तटतरोरिव ॥ ६.१९ ॥

ततः सा योषित्पुनरुवाच । भगिनि गम्यतां नाहं तव पुरस्तादिमं बालकं प्रमापयितुं शक्नोमि । अथ रूप्यावती तामवोचत् । आनीयतां तावद्यदि ते किंचिदत्र शस्त्रमस्ति । सा च रूप्यावत्याः शस्त्रमर्पयामास ।

छित्त्वा ततः स्तनयुगं निशितेन तेन शस्त्रेण हेमकलशाकृति वान्तरक्तम् ।
तस्यै ददौ युवतये क्षुदुपप्लुतायै रूप्यावती स्वतनुदुःखमचिन्तयन्ती ॥ ६.२० ॥

हरन्ति प्राणिनां दुःखमात्मदुःखानपेक्षिणः ।
परदुःखेन बाध्यन्ते न स्वदुःखेन ते यतः ॥ ६.२१ ॥

तच्च स्तनयुगं तस्यै योषिते प्रदाय रूप्यावती स्वभवनान्तरं प्रविवेश ।

स्तनद्वयच्छेदविसारिशोणितप्रदिग्धहाराम्बरमेखलागुणा ।
वपुष्मती लोहितचन्दनार्चिता बभूव हेमप्रतिमेव साङ्गना ॥ ६.२२ ॥

अथ रूप्यावतीं भर्ता ससंभ्रममुत्थायासनात्पप्रच्छ ।

केनेदं तव कल्याणमकल्याणेन सुन्दरि ।
शरीरं राक्षसेनेव कृतं कृत्तपयोधरम् ॥ ६.२३ ॥

सा तं वृत्तान्तं पत्ये निवेद्य पुनरुवाच । शीघ्रमार्यपुत्रस्तस्यै प्रसवाभिवर्धितक्षुदग्नये योषिते दातुमर्हत्यन्नपानमिति । स च रूप्यावतीभर्ता विस्मितमनास्तथेत्यभिधाय ।

सुस्वादु सर्वपात्रीणं करुणापात्रभूतया ।
तयोक्तं प्राहिणोदन्नं तस्यै दुर्गतयोषिते ॥ ६.२४ ॥

अथ सा जनतालोक्य रूप्यावत्यास्तदद्भुतम् ।
विस्मयाच्चालयामास मुहुरङ्गुलिपल्लवान् ॥ ६.२५ ॥
इदं चाभिदधौ लोकस्तां तवानेन कर्मणा ।
त्यागे प्रोत्साहितं नूनं चेतो मत्सरिणामपि ॥ ६.२६ ॥

दानपारमिता यासौ श्रूयते बोधिमिच्छताम् ।
सा त्वं लोकोपकाराय ध्रुवं मूर्तिमती स्थिता ॥ ६.२७ ॥

स्त्रीत्वं क्वेदं बुद्धिरेषा क्व तीक्ष्णा क्वायं त्यागः सौकुमार्यं क्व चेदम् ।
अस्याः साध्व्याः सर्वदानातिगेन त्यागेनान्ये ह्रेपितास्त्यागवन्तः ॥ ६.२८ ॥

अथ रूप्यावत्या भर्ता सत्याधिष्ठानमिति चकार ।

यथा नान्यस्य पुंसोऽपि श्रूयते दानमीदृशम् ।
तथा तेनाशु सत्येन स्तां मे पत्न्याः पयोधरौ ॥ ६.२९ ॥

इत्युक्ते गृहिणा तेन सत्याधिष्ठानकारिणा ।
स्तनभारालसं तस्या वक्षः पुनरजायत ॥ ६.३० ॥

लोकस्य दानसलिलेन तृषं हरन्ती दन्तांशुकेसरमनोहरवक्त्रपद्मा ।
तस्मिन् पुरे गुरुपयोधरचक्रवाका रूप्यावतीकमलिनी पुनराबभासे ॥ ६.३१ ॥

अथ सुरपतिः किं पुनरनेन सर्वलोकत्यागातिशायिना त्यागेन रूप्यावती माममरपुरात्प्रच्याव्य स्वयमेव देवाधिपत्यं कर्तुकामा स्यादिति विचिन्त्य साशङ्कमनास्तस्यास्तं भावं जिज्ञासमानः प्रसारितजलधरपटलाभिनीलमन्तरीक्षमवगाह्योत्पलावतीं राजधानीमवतीर्य मृणालसूत्रधवलयज्ञोपवीताभ्यलंकृतवक्षःस्थलं कण्ठेगुणीकृताक्षमालमबलानयनशबलकृष्णाजिनतिरस्कृतस्कन्धैकदेशं दक्षिणकरविन्यस्तपल्लवपुटकं द्विजातिरूपमभिनिर्माय भिक्षार्थी नाम रूप्यावत्या भवनमागमत् । अथ रूप्यावती विविधं भक्ष्यभोज्यमादाय शक्राय द्विजातिमूर्तये प्रायच्छत् । प्रस्तावपूर्वकं चैनां सुरपतिरुवाच ।

तव स्तनपरित्यागसंभूतेन विसारिणा ।
शङ्खच्छेदावदातेन यशसालंकृतं जगत् ॥ ६.३२ ॥

किमैन्द्रममुना स्थानं तपसा विजिगीषसे ।
कुतूहलवशाद्भद्रे पृच्छामि भवतीमहम् ॥ ६.३३ ॥

आचख्ये सुरपतयेऽथ सा यथावद्वाञ्छामि त्रिभुवनशान्तये जिनत्वम् ।
एतेन द्विज मम सूनृतेन सद्यः पुंभावो जगति गुणाश्रयस्तथास्तु ॥ ६.३४ ॥

इत्युक्ते वचसि जगाम सा नरत्वं शक्रोऽपि स्वपुरमगात्प्रतीतचेताः ।
निर्वृत्तं जगति तदद्भुतं विदित्वा लोकश्च स्थिरतरनिश्चयो बभूव ॥ ६.३५ ॥

श्मश्रूद्गमं प्रविरलाञ्जनचूर्णनीलमाविर्भवन्तमवलोक्य तदाननेन्दौ ।
सद्यः पयोधरयुगं गजकुम्भपीनमन्तर्दधे पृथुनि वक्षसि लज्जयेव ॥ ६.३६ ॥

बोधिसत्त्वस्य च रूप्यावत इति लोके नाम प्रख्यातिमगात् । अथोत्पलावत्यां राजधान्यां कदाचिदपुत्रो राजा पञ्चत्वमुपजगाम । कालगते च तस्मिन् राजनि राहुगृहीतरजनिकरेव निशीथिनी सा पुरी न रराज । राजविनाशाभिवृद्धशोकाश्चामात्याः केषुचिदहःस्वतीतेषु शुद्धान्तजनमाश्वास्य पौरवर्गमेवमूचुः । अनायकत्वादयं देशः कदाचिदरातिभिरागत्य निःस्वापतेयः क्रियेत । प्रदीप्तगृहनिर्वापणाय कूपखननमिव चातीतकालमायासहेतुरेव च नः समीहितं स्यादिति । तदिदमत्र प्राप्तकालमयं रूप्यावतः कुमारः सकलराजलक्षणोपेत आभिगामिकगुणसंपन्नश्च तदिममेवाधिपत्यायाभिषेक्ष्याम इति ।

तस्याभिषेकमथ चक्रुरुदीर्णहर्षाः पौराः परोपकृतितत्परमानसस्य ।
सार्धं च चामरयुगेन मनोऽभिराममुच्चिक्षिपे परिजनेन सितातपत्रम् ॥ ६.३७ ॥

तच्चक्रिरे विपणितोरणबद्धमालं शैलालिनामभिनयेन मनोऽभिरामम् ।
गन्धाम्बुसेकसुरभीकृतमार्गरथ्यं पौराः कुबेरभवनेन पुरं समानम् ॥ ६.३८ ॥

काले जलं जलधराः प्रददुः प्रकाममीतिः कदाचिदपि न व्यसनं चकार ।
तत्र प्रशासति नयेन महीं महीशे शुश्राव दुःखमिति नैव जनः कदाचित् ॥ ६.३९ ॥

कृष्या विना बहुफलः कलमो बभूव वृक्षाः सदा कुसुमभूरिफला बभूवुः ।
तस्मिन् सुराजनि पृथाविव पाति राज्यमुस्राः स्वयं दुदुहिरेऽतनुदुग्धधाराः ॥ ६.४० ॥

अच्छिन्नदानपरिपूर्णमनोरथेन शक्तित्रयोदयवता विजितेन्द्रियेण ।
नानागुणाभरणभूषितविग्रहेण राजन्वती क्षितिरभूत्क्षितिपेन तेन ॥ ६.४१ ॥

आरुह्य सो ’थ मणिचारु नरेन्द्रसिंहः सिंहासनं नृपनमस्कृतपादपद्मः ।
पद्मानुकारिवदनः प्रविवेकधर्मो धर्मं दिदेश परमार्थफलं जनाय ॥ ६.४२ ॥

दानस्य पश्यत विपाकमहत्त्वमेतदत्रैव मे युवतितामपनीय येन ।
उद्भावितं प्रथितजन्मफलं त्रिवर्गं लोकाधिपत्यरमणीयमिदं नरत्वम् ॥ ६.४३ ॥

दानद्रुमात्कुसुममात्रमिदं प्रसूतमन्यद्भविष्यति फलं विपुलं परत्र ।
एतद्विचार्य बहुधार्थिवसुन्धरायां शीलामलानखिलदाननिधीन्निधत्त ॥ ६.४४ ॥

न स्युर्गुणपयःसिक्ता यद्यर्थिक्षेत्रभूमयः ।
दाता दानफलाकाङ्क्षी दानबीजं क्व रोपयेत् ॥ ६.४५ ॥

बन्धुभ्यो येऽतिरिच्यन्ते कीर्तिपुण्यप्रदायिनः ।
त्रासयेत्कोऽर्थिनः प्राज्ञो भ्रूभङ्गभुजगेन तान् ॥ ६.४६ ॥

एकः प्राह गिरं मुहुः स्तुतिमतीमेकस्तु रूक्षाक्षरामेकः सादरमीक्षते धनमदात्सावज्ञमेवापरः ।
एकः साधु ददाति पुण्ययशसी वस्त्वेकमेवापरो दूरं मां प्रति याचिता विजयते दातारमेभिर्गुणैः ॥ ६.४७ ॥

दिशः कर्तव्याश्चेद्गुणकुसुममालासुरभयः पुनर्भोक्तुं हृद्यं फलमतनु वाञ्छास्ति यदि वा ।
अतः संरोप्यन्तां प्रणयिजनभूमावुदयिनो महाकीर्तिच्छायाः प्रतिदिवसमेवार्थतरवः ॥ ६.४८ ॥

वर्षाणि षष्टिमथ लोकमनुप्रविश्य कृत्वार्थिनां गुणवतां च सुखान्यभीक्ष्णम् ।
कीर्त्या दिशः कुमुदपाण्डुरयावभास्य जन्मान्तरं गुरुबलः स नृपो जगाम ॥ ६.४९ ॥

तदेवं स्त्रीत्वेऽपि तेन भगवता स्वमांसानि दत्तानि को नाम मनुष्यभूतो बाह्ये वस्तुन्यपेक्षां कुर्यादिति त्यागिजनप्रोत्साहनाय वर्णनीयमिति ।

॥ रूप्यावतीजातकं षष्ठम् ॥



__________________________________________________________________________





७ श्रेष्ठिजातकम्


बहिरङ्गमपि द्रव्यं कृच्छ्राद्गुणिनेऽपि दीयते नीचैः ।
प्रियमपि देहं सन्तस्तिर्यग्भ्यो पि प्रयच्छन्ति ॥ ७.१ ॥

तद्यथानुश्रूयते
श्रूयमाणमनोहरायां दृश्यमानविस्मयकरायामुत्तरापथसारभूतायां विकसितकमलोत्पलवनाभ्यलङ्कृतोपवनायां पवनविधूयमानसुरगोष्ठध्वजपताकायामुत्पलावत्यां राजधान्यां बोधिसत्त्वोऽन्यतमदमरपुरमिव पारिजात उत्पद्यमानः श्रेष्ठिकुलमशोभयत् ।
अथ श्रेष्ठी प्रधानपुत्रजन्मलब्धप्रमोदः प्रवृत्तचित्रोत्सवविशेषे विविधातोद्यध्वनिश्रवणप्रनृत्तमयूराभ्यलङ्कृताजिरे बलिसखमधुपरिस्रवन्मदाभिरज्यमानयुवतिकपोले मणितोरणावबध्यमानविविधसुरभिस्रजि प्रियाख्यानप्रतीतपरिजने स्वभवने समन्वितसुहृद्बन्धुवर्गे महदर्थिभ्यो विश्राणनमदात् ।

श्रेष्ठ्यात्मजस्य प्रभया हिमांशोरहारि कान्तिः परितः स्फुरन्त्या ।
यतस्ततोऽस्य स्वजनोऽनुरूपं चकार चन्द्रप्रभ एव नाम ॥ ७.२ ॥

तं च पिता बालशशिनमिव प्रतिदिवसमुपचीयमानकान्तिशोभमन्यतमस्मै श्रुतशीलादिगुणप्रकाशनाम्ने शास्त्रकाव्यकलाग्रहणाय गुरवे निवेदयामास ।

तदन्तेवासिनो सोऽथ मेधया च श्रुतेन च ।
नाचिरेणैव कालेन विजिग्ये विजितेन्द्रियः ॥ ७.३ ॥

तस्य मेधां समालोक्य सर्वशिष्यातिशायिनीम् ।
साधुवादपरः प्रश्ने गुरुरासीत्सविस्मयः ॥ ७.४ ॥

भिन्नान्धकारपटला प्रकाशितपथापथा ।
विद्या तत्राधिकं रेजे ज्योत्स्नेव कुमुदाकरे ॥ ७.५ ॥

दिव्येन चक्षुषा दृष्ट्वा यं यं निधिमवाप सः ।
प्रायच्छत्प्राप्तकल्याणो निःशेषं तं तमर्थिने ॥ ७.६ ॥

स्वसत्त्वसदृशं तेन तथा दानमदीयत ।
नाश्रूयन्त यथा वाचो देहीति पुनरर्थिनाम् ॥ ७.७ ॥

अथ तस्य गुरोस्तानि पञ्चमात्राणि शिष्यशतानि चन्द्रप्रभमेवमूचुः ।
अहो प्रणयिनामुपरि भवतो महतीमनुकम्पां मन्यामहे ।
यदि कश्चिदर्थी भवन्तमसूनपि मृगयते नियमेन तान् तस्मिन् भवान् प्रयच्छेदिति ।
बोधिसत्त्व उवाच ।
मा मैवं याचनक एव दातारमनुकम्पया विशिनष्टि कुतः ।

पात्रीकृत्य य आत्मानं दातृश्रेयोविधित्सया ।
सहते प्रार्थनादुःखं तादृङ्नास्त्यनुकम्पकः ॥ ७.८ ॥

कीर्तिमत्र फलं प्रेत्य द्वयमर्थी प्रयच्छति ।
धनमात्रमदात्तस्मात्प्रदातुः स विशिष्यते ॥ ७.९ ॥

देहीति निगदन्नर्थी लघुरित्यभिधीयते ।
नास्तीति निगदन् दाता ततो लघुतरो ननु ॥ ७.१० ॥

यात्यन्तमुपकाराय दातुः कल्पलतायते ।
प्रकाशितफलश्लाघ्या सा लघ्वी कथमर्थिता ॥ ७.११ ॥

यदि न स्युरमी जगद्विभूत्यै परितः पुण्यपयःसृजोऽर्थिमेघाः ।
न हि दातृपयोधयो भवेयुर्गुणमुक्तागुरुकीर्तिकुक्षिभाजः ॥ ७.१२ ॥

ततस्ते शिष्याः पुनरपि बोधिसत्त्वं पप्रच्छुः ।
कथ्यतां तावत्किमनेन महाप्रदानफलेन शातक्रतवीं श्रियमिच्छति भवानुत चक्रवर्तित्वमिति ।
बोधिसत्त्व उवाच ।
न खलु मे प्रकृतिभङ्गुरं पदमभिलषति बुद्धिः ।
पश्यन्तु भवन्तः ।

यद्यद्भवपटमध्ये रूपं संस्कारशिल्पिभिः क्रियते ।
उन्मार्ष्टि तत्तदेषा क्रुद्धेवानित्यता चपला ॥ ७.१३ ॥

अध्यासितं सुकृतिभिः कामद्वेषपराङ्मुखैः ।
भवाग्रमपि नागम्यं कृतान्तस्य दुरात्मनः ॥ ७.१४ ॥

क्षीयते पाल्यमानापि प्राणिनामायुषः स्थितिः ।
चित्रकर्मणि विन्यस्ता वर्तिकेव क्षणे क्षणे ॥ ७.१५ ॥

नचिरं दीप्यते लक्ष्मीः प्राप्य क्रूरामनित्यताम् ।
चतुष्पथप्रदीपस्य शिखेव पवनाहता ॥ ७.१६ ॥

मूढाः सिंहीमिवोद्विग्नाः के चित्पश्यन्त्यनित्यताम् ।
तामेवान्ये कृतधियः सृगालीमिव निर्भयाः ॥ ७.१७ ॥

न दुनोति मनो मृत्युः कृतपुण्यस्य धीमतः ।
वितपत्यध्वगं नार्कश्छत्रच्छायातिरस्कृतम् ॥ ७.१८ ॥

मदमानतमोनिमित्तमेते कुपितव्यालदुरासदाः सदैव ।
विभवाः क्षणवर्तिनः प्रजानामनुबन्धा इव शब्दशास्त्रभाजः ॥ ७.१९ ॥

जगदिति सचराचरं विदित्वा सलिलरयाहतफेनराशिकं तु ।
अपगतमदमानमोहजालाः सपदि घटध्वमजन्मने पुमांसः ॥ ७.२० ॥

ततोऽहमत्यन्तमेव लोकदुःखक्षयायानुत्तरां सम्यक्संबोधिमिच्छामीति ।
अथ ते शिष्याः प्रमुदितमनसः पुनरेवमूचुः ।
किं बहुनाभिहितेन ।

भ्रूमध्यस्थं स्फुरितकिरणं बिभ्रदूर्णाशशाङ्कं संतन्वानं विजिततमसां मण्डलं दीधितीनाम् ।
उत्पश्यामस्तव गुणमहत्सौगतं भावि रूपं हेमच्छेदद्युति तनुभृतां मुक्तिमार्गप्रकाशि ॥ ७.२१ ॥

सर्वथा वयमपि प्राप्तसंबोधेस्तव शिष्या भवेम इति ।
बोधिसत्व उवाच ॥

अरण्यानीं बहुव्यालां निस्तितीर्षन् प्रयत्नवान् ।
गन्तुकामः शिवं स्थानं को वा नेच्छत्यनुप्लवान् ॥ ७.२२ ॥

प्रपन्नोऽस्माकमनेन महात्मनामृतसंविभाग इति विचिन्त्य जातप्रीतिषु गतेषु शिष्येषु स्वानालयान् कदा चिदुपगह्वरगतो बोधिसत्त्व एवं चिन्तयामास ।
कृतः खलु मयालमर्थोऽर्थिजन इदानीं स्वमांसशोणितेन तिरश्चः प्रीणयामीति विचिन्त्य शस्त्रमादाय मधुसर्पिषी च बन्धूनामकथयित्वा माहारजनवसनानुरूपसंध्यायवनिकातिरस्कृतायामपरस्यामाशायां घनीभवत्तिमिरतिरोधीयमानायां जगत्यां भवनान्तरज्वाल्यमानप्रदीपप्रभासंपर्काद्द्विगुणमुखशोभेषु तरुणीजनेषु गृहीतविशेषमण्डनासु सललितभ्रूलेखोत्क्षेपावलोकनहसितविलासबडिशाकृष्टकामिजनहृदयमीनासु गणिकासु सखीजनदीयमानसंदेशश्रवणावहितनिश्चलनयनासु शम्भलीषु प्रियजनसंकेतसमुत्सुकासु तिलकावलोकनकुतूहलाद्दर्पणतलविन्यस्तदृष्टिषु कामिनीषु ट्¦श्रूयमाणक्षीरधाराशब्दासु गोपिनीरुद्धवत्सोल्लेहनचलितकिङ्किणीसास्नासु वत्सतरीषु चत्वरोपविष्टरोमन्थनसुखविनिमीलितनयनैर्विपणिवृषभैः संरुद्धमार्गेषु नगररथ्यान्तरेषु समदहलधरकपोलाभिपाटलरागे पूर्वाचलशिखरमधितस्थुषि शशलक्ष्मणि कुमुदवनप्रबोधगन्धाधिवासितपवने प्राप्ते प्रदोषसमयेऽद्यतमङ्गतभर्तृकाकेशपाशपरुषधूमधूसरीकृतविविधपादपमुन्मुखपापजम्बुकीविरावविवृतवदनविवरविनिःसृतहुतवहावभासप्रकाशीकृतशूलप्रोतपुरुषस्कन्धनिलीनपिशिताध्मातनिश्चलगृध्रभासकङ्कमतिरौद्रलामागणावकृष्यमाणार्धदग्धचितामध्यस्थितपुरुषकडेवरं क्व चिन्निशाचरोपयुज्यमानमानुषपिशितशब्दश्रवणविगलितभूतगणमुखलालालवमन्यत्र डाकिनीकरावलम्बितकर्तनीविच्छिद्यमानपुरुषसक्थिविगलितरुधिरधारासंसिक्तभूतलमनिभृतहुतवहज्वालाङ्गुलीसंतर्जनादिवापसृतमहान्धकारं क्व चिदभिनवकुमुदावदातपरिपाण्डुशिरःकपालतरलमन्यत्र श्माशानिकभिक्षुसमालोक्यमानप्रमदाकडेवरावलग्नगोमायुगणं क्व चिद्दिव्यावादिकालिखितमण्डलपर्यन्तस्थितदिक्पालविकोशीकृतविमलनिस्त्रिंशसंक्रान्तस्फुरितहुताशनप्रतिबिम्बाभीलदर्शनं महाश्मशानमाजगाम ।
मैत्रीमन्त्रकृतशरीररक्षं च बोधिसत्त्वं न तत्र रक्षोऽङ्गनाजनश्छलयितुं शशाक ।
स च महात्मा श्मशानैकदेशे मृगधूर्तकाकार्षणविचलितप्रकाशोदरान्त्रजालक्रव्यवृक्कापर्शुकासंधिमनिलोद्धूतचिताभस्मकणपरिपाण्डुरीकृतव्याकुलकेशपाशां श्येनापहृताधरतया विभाव्यमानविकृतदशनमालामुपरतां प्रमदामालोक्य संविग्नमनास्तद्गतस्तिमितदृष्टिरिदमवोचत् ।
अहो रागिणामदूरदर्शिनी बुद्धिर्येषामीदृशेऽपि वैराग्यहेतौ स्त्रीकडेवरे रागोत्पत्तिर्भवतीति ।


मनोहरे यत्र विनिश्चलेक्षणे प्रियेण सिन्दूरविशेषकः कृतः ।
इहाद्य तत्रैव विलासिनीमुखे मुहुः शृगालेन पदं निधीयते ॥ ७.२३ ॥

स्मितेन ये किं चिदुदीरितत्विषो मनो हरन्ति स्म जनस्य रागिणः ।
श्ववायसालुप्तविजर्जराधरास्त एव दन्ता विकृतत्वमागताः ॥ ७.२४ ॥

अगान्मुदं ये दयितो विलोकयन् सषट्पदाम्भोजपलाशचारुणी ।
कृते खगैस्ते हृतमांसशोणिते विलोचने व्यालबिलानुकारिणी ॥ ७.२५ ॥

चिराय यौ पल्लवकोमलच्छवी सपत्त्रलेखावकरोत्सखीजनः ।
कपोलयोरस्थ्यवशेषयोस्तयोः क्व सा गताद्यैव मधूकपाण्डुता ॥ ७.२६ ॥

स्पृष्टं प्रियेण सुखकुञ्चितलोचनायाः संजातरोमपिटकं यदभूत्तरुण्याः ।
एतत्(?)पयोधरयुगं रुधिराभिताम्रैस्तत्सारमेयदशनैः परिभिद्यतेऽद्य ॥ ७.२७ ॥

कान्तोऽंसदेशगलिताकुलकेशपुष्पामालिङ्ग्य यां सुखमशेत निमीलिताक्षीम् ।
किं तां श्मशानवसुधाशयने शयानां नाश्लिष्यति प्रियतमां सहसा समेत्य ॥ ७.२८ ॥

स्नाय्वस्थिमांसरुधिरान्त्रमये कुपिण्डे (?) स्त्रीसंज्ञके प्रचुरदोषभुजङ्गकीर्णे ।
अस्मिन्नभूतपरिकल्पहतो जनोऽयं वैराग्यवस्तुनि वृथा खलु रागमेति ॥ ७.२९ ॥


ते तीक्ष्णदुर्जननिकारशरैर्न विद्धा धीरास्त एव शमसौख्यभुजस्त एव ।
सीमन्तिनीविषलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ ७.३० ॥

अथ तत्राभ्युच्छ्रितधूमराशियूपे मानुषवसोपायनाहुतिनिपातजनितज्वालिताङ्गारच्छीकारशब्दे प्रारब्धभण्डकाविरावाभिचारुकमन्त्रकर्मणि श्मशानाध्वरे निशितेन शस्त्रेणाङ्गानि परितक्ष्य मधुघृताभ्यामभ्यज्य
स्रवत्कीलालधारार्द्रं भुज्यमानं पिपीलिकैः ।
आत्मानमात्मनैवासौ निनाय पशुतां प्रभुः ॥ ७.३१ ॥

तत्र च कलङ्कपरुषपिण्डितसंनाहमलिनच्छविः करिरुधिरोपदिग्धमृगपतिनखरकुटिलरक्ततीक्ष्णतुण्डः कुपितभुजगनयनसदृशविलोचनो लोहकन्धुवापरुषनखरः खरविरसध्वानसंत्रासितान्यपक्षिगणः कठिनपक्षशब्दसंसूच्यमानगतिरुच्चङ्गमो नाम पक्षी ।

स्कन्धं स तस्य विहगः सहसाधिरुह्य स्थाणोरिवाचलसमुच्छ्रितविग्रहस्य ।
आकृष्य नेत्रमरविन्दपलाशतुल्यं भूयो मुमोच रुधिराकुलपक्ष्मलेखम् ॥ ७.३२ ॥

स्नेहेन शावमनुपालयितुं कृतास्था शार्दूलमप्यभिमुखं प्रयाति ।
स्निग्धापि नाम करुणाजननी परार्थनिष्पत्तये कथमबाधत बोधिसत्त्वम् ॥ ७.३३ ॥

अथ स विहङ्गमो बोधिसत्त्वं पप्रच्छ ।
नियतमाकृष्यमाणेऽस्मिन्मया नयने महतीं वेदनामनुभवति भवानिति ।
बोधिसत्त्व उवाच ।
यदि केन चिदनुपयुक्तं मे शरीरं क्षयमगमिष्यत्ततो ममाभविष्यत्पीडा ।
संप्रति त्वेवमुपयुज्यमानमनेकैः सत्त्वैरालोक्य परां प्रीतिमनुभवामीति ।

यदि शरीरमिदं व्यसनास्पदं व्रजति साधनतां मुहुरङ्गिनाम् ।
बहुमतं महतामिति रत्नवद्भुजगवद्बहुदोषमतोऽन्यथा ॥ ७.३४ ॥

अथ बोधिसत्त्वो भक्षयन्तु मां यथासुखं क्रव्याशिन इति विचिन्त्य मृगमिवात्मानं दर्शयामास ॥

समुपागतैरथ वयोभिरविततविरावभैरवैः ।
तस्य पिशितमसकृत्क्षपितं न तु चित्तधैर्यमभवत्पराङ्मुखम् ॥ ७.३५ ॥

असवः शरीरमथ तस्य गुणकुसुमगन्धवासितम् ।
वासतरुमिव खगाः पतितं विजहुः कथं चिदुदितव्यथाकुलाः ॥ ७.३६ ॥

ततो स्तशिखरिशिरसः सुचिरपरिभोगमलिनमिव कुन्दावतंसमुडुपतिमपनीय गतायां क्षपाङ्गनायां जवाकुसुमशेखर इव दिवसमुखहस्तेनावबध्यमाने पूर्वाचलशिरसि घर्मांशौ दिवसकरकिरणहस्तसंस्पर्शसुखाभिव्यज्यमानकमलनालकण्टकरोमाञ्चासु विनिद्रासु कमलिनीविलासिनीषु कुररविरुतानुकारिषु विमुच्यमानेषु नगरद्वारकपाटेषु प्रतिविबुध्य बोधिसत्त्वस्य पितानिष्टशङ्काव्यथिथमनाः ससुहृत्परिजनबन्धुवर्गस्तनयान्वेषनव्याकुलस्तत्तच्चिन्तयामास ।

निशि किमहिना दष्टः स्यान्मे सुतः स परिभ्रमन्नुत विकरुणैर्भूषां हृत्वा हतः प्रतिरोधकैः ।
रदनपरिघक्षुण्णोरस्कः क्षितीश्वरदन्तिना किमथ गमित[ः] स्तम्भं भङ्क्त्वा पुरं समवर्तिनः ॥ ७.३७ ॥

क्रमेण चोपगम्य श्मशानैकदेशे गृध्रैरवलुप्यमानमांसं बोधिसत्त्वं कथमपि प्रत्यभिज्ञाय स जनः श्रेष्ठिने निवेदयामास ।
कष्टमयमसौ महात्मा पञ्चत्वमुपगतो यथा तर्क्यते तथा नियतमनेनात्मा तिर्यग्भ्यो निवेदित इति ।
तच्च श्रुत्वा स श्रेष्ठी परशुनिकृत्त इव पादपो निपपात ।
चिरेण च प्रतिलब्धसंज्ञ इति विलापपरो बभूव ।

विलोक्य गृध्रैरिममित्थमात्मजं विलुप्यमानं शिथिलास्थिबन्धनम् ।
अहो विधेर्दुश्चरितेन भूयसा तथापि च प्राणिमि कर्कशाशयः ॥ ७.३८ ॥

दया तिरश्चामुपरीयमीदृशी स्वदेहदानेन यदि प्रकाशिता ।
समुज्झता मां पितरं निरागसं कथं त्वया निष्करुणत्वमीहितम् ॥ ७.३९ ॥

मृदूपधाने शयने मनोहरे सुखं शयित्वा धवलोत्तरच्छदे ।
इहाद्य शेषे कथमस्थिसंकुले चिताधरित्रीशयने सभस्मनि ॥ ७.४० ॥

यातेऽत्र पुत्रक दिवं करुणासहाये त्वय्युत्सुकीकृतजने स्वसुखानपेक्षे ।
गोष्ठीषु सद्गुणकथाकुसुमार्चितासु श्रोष्यामि कस्य वचनानि मनोहराणि ॥ ७.४१ ॥
त्वं मे निवापसलिलाञ्जलिमश्रुमिश्रमुत्कः प्रदास्यसि किलेति विचिन्तितो यः ।
स्नेहार्द्रशुद्धमनसापि स नाम भूत्वा भग्नस्त्वया किमिति वत्स मनोरथो मे ॥ ७.४२ ॥

इति श्रेष्ठी चिरं विलप्य बोधिसत्त्वशरीरेऽग्निसत्कारं कृत्वा प्रस्रुतनयनोदकाभिषिक्तमुखः शून्य इव साक्रन्दशब्दं स्वभवनमाजगाम ।


प्रतिदिशमथ मेरोः कुञ्जविस्तीर्णशब्दाः कनकपटहभेरीदुन्दुभीस्ताडयित्वा ।
अमुचदमरसंघस्तत्र निर्वाणवह्नौ सुरभिकुसुमवर्षं बोधिसत्त्वास्थिराशौ ॥ ७.४३ ॥

तदेवं तेन भगवता बोधिसत्त्वचर्यां चरता परार्थ आत्मा बहुशः परित्यक्त इति विचिन्त्य बुद्धे भगवति परः प्रसादः करणीय इति ॥


॥ श्रेष्ठिजातकं सप्तमम् ॥




__________________________________________________________________________



८. पद्मकजातकम्

तत्याज बोधिसत्त्वस्तृणमिव देहं परार्थसंसिद्ध्यै ।
स्वसुखन्नापेक्षन्ते परसुखसंपादिनो धीराः ॥ ८.१ ॥

तद्यथानुश्रूयते
शरदपगतजलधरसंघातायां दिवीव चन्द्रमाः ।
सकलाशसिमण्डलकिरणावभासितायां क्षपायामिव कुमुदवनविकासः ।
प्रमदवनभूमाविव च कमलाकरः ।
प्रथमयौवनसमृद्धाविव विनयः ।
स्फुटमधुराक्षरपदायां वाचीवार्थः ।
शरच्चन्द्रिकयेव दीर्घत्वमागतया विमलसलिलया स्पष्टमीनकुलाकुलया तटतरुकुसुमपरागपरिपिञ्जरीकृतफेनपङ्क्तिरसनाकलापया वराणसया निम्नगयालङ्कृतायां प्रकृतिरमणीयायां वाराणस्यां राजधान्यां स्फुरितदशनमणिकिरणावभासाभ्यलङ्कृतवदनपद्मः पद्मको नाम राजा बोधिसत्त्वो बभूव ॥

कान्त्या च रूपेण च तेजसा च प्रह्लादसंमोहनतापहेतून् ।
अवज्ञया यो युगपज्जिगाय शशाङ्कपुष्पायुधघर्मरश्मीन् ॥ ८.२ ॥

विहङ्गमानां फलिनीव पादपे शिलीमुखानामिव पद्मिनीवने ।
वनीपकानां जगदेकबान्धवे बभूव यस्मिन् सुहृदीव निर्वृतिः ॥ ८.३ ॥

जगदर्थसाधनसमुद्यतात्मनः करुणापरिग्रहविशुद्धमेधसः ।
प्रविवेश यस्य हृदयं न मत्सरः कृतमन्त्ररक्षमिव वेश्म पन्नगः ॥ ८.४ ॥

त्यागेन सत्त्वमहता प्रथितेन यस्य व्याप्तासु दिक्षु विनिवारितमत्सरेण ।
शुश्राव याचकजनस्य न जातु लोको देहीति लाघवकराणि पुनर्वचांसि ॥ ८.५ ॥

हृदयतुहिनशैलात्त्यागसानोः प्रवृत्तां समुपहतरजस्कां स्नापिताशेषलोकाम् ।
सकलभुवनवन्द्यो यः परार्थैककार्यः शशिकिरणविशुद्धां कीर्तिगङ्गां जगाह ॥ ८.६ ॥

कस्यापदपनेयाद्य प्रीणनीयो धनेन कः ।
को निधेयः शिवे मार्गे यस्याभूदीदृशी स्थितिः ॥ ८.७ ॥

आत्मानं भवविच्छित्त्यै सुवर्त्मनि निधित्सताम् ।
न परार्थादृते कश्चिद्व्यापारोऽन्यो महात्मनाम् ॥ ८.८ ॥

भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य ।
अभिसस्रुरुदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तमम्बुराशेः ॥ ८.९ ॥

अपरस्परदिण्डिमैः स्वनद्भिः करिणो (१७ ) यस्य वितन्यमानकोपाः ।
वशगाः परितः प्रयाणकाले कथमप्यङ्कुशधारिणां बभूवुः ॥ ८.१० ॥

भयवशादुपशान्तमदोदयाः शिथिलितासिशरासनमुष्टयः ।
मृगपतेरिव दर्पमरातयो युधि गजा इव यस्य न सेहिरे ॥ ८.११ ॥

प्रथिततेजसि यत्र परस्परं प्रणयसौख्यविवर्धितसंपदः ।
विटपिनीव खगाः फलदे प्रजाः सततमेव सुखाय विशश्रमुः ॥ ८.१२ ॥

अथ कदा चित्तस्य राज्ञो देशे धातुवैषम्यादुपचीयमानोदराग्निः प्रतिदिवसमापाण्डुदुर्बलशरीरो निरोजस्को जनकायो महता रोगेण जग्रसे ।
बोधिसत्त्वाज्ञया च भिषजः सादरमपि चिकित्सां कुर्वन्तो न तं व्याधिमपहर्तुं तस्य जनस्य शेकुः ।
अथ स राजा तान् वैद्यानुवाच ।
केनोपयेनायं जनस्य व्याधिरपहर्तुं शक्यः स्यादिति ।
भिषज ऊचुः ।
देव यदि रोहीतमत्स्यमांसं स्यात्ततः शक्नुयामो वयमेनं जनमनातङ्कं कर्तुमिति ।
अथ स राजा परमपि प्रयत्नं कुर्वन्न कुतश्चिद्रोहीतमत्स्यमुपलेभे ॥

ततः कदा चित्स बहिर्विनिर्ययौ मतङ्गजस्कन्धगतः क्षितीश्वरः ।
सितातपत्रप्रतिवारितातपः प्रकीर्णकभ्रान्तिविकम्पितांशुकः ॥ ८.१३ ॥

नोल्लाघिनस्तमथ भृत्यजनानुयातं स्कन्धस्थितं गजपतेः क्षितिपं विलोक्य ।
उत्क्षिप्य दीनवदनाः सहसैव हस्तांस्त्रायस्व नो नृप गदादिति वाचमूचुः ॥ ८.१४ ॥

अथ बोधिसत्त्वस्तेषां व्याधिमतां तुमुलमनसां करुणमाक्रन्दशब्दमाकर्ण्य दुःखायमानहृदयो दयापरिचयादुद्गतबाष्पसलिलतिरोहिताक्ष इदमचिन्तयत् ।
किं मम राज्यसुखेन यत्र मे विषयनिवासिनामियमवस्थितिः ।
प्रविश्य च भवनमाहूय सचिवानिदमवोचत् ।
इच्छाम्यहं ज्यायस्तनयाभिषेकं कर्तुमिति ।
अथामात्या ऊचुः ॥

नवयौवनकर्कशे शरीरे द्विषतां भङ्गकरे पराक्रमे च ।
सति चाभ्युदये परार्थहेतौ किमकाले भवतो वनं यियासा ॥ ८.१५ ॥

राजोवाच ।
न खल्वेवं यथा भवन्तस्तर्कयन्तीति ।
अमात्याः पुनरूचुः ।
कोऽभिप्रायो देवस्य ।
राजोवाच ।
दुःस्वप्नदर्शनादागताशङ्कोऽहमेवं तर्कयामि ।
कदा चिदतर्कितैवेयमनित्यता समागम्य मां विनाशयेत् ।
अतः पुत्रमभिषिक्तं द्रष्टुमिच्छामीति ।
अमात्याः प्रोचुः ।
यदाज्ञापयति देव इति ॥

अथ समुच्छ्रितकाञ्चनतोरणे गृहवरे वरतूर्यपटुध्वनौ ।
अभिषिषेच सुतं सुतवत्सलः क्षितिपतिः क्षितिपालनमस्कृतः ॥ ८.१६ ॥

अथ स कुमारः पितरमागम्योवाच ।
आज्ञापयतु तातः कथं मया व्यवहर्तव्यमिति ।
राजोवाच ।
श्रूयतां वत्स ।
सर्वथा न कदा चिदायुष्मता प्रणयिणामुपरि निरादरेण भवितव्यमिति ।
पश्य ॥

निन्दाहेतुः सद्गतीनां निरोद्धा शून्यागारं जालिनीयातुधान्याः ।
श्रेयःसेतुध्वंसनोऽम्भःप्रवाहो लोभान्धानां मत्सरो वैरिभूतः ॥ ८.१७ ॥

पूर्वं नीचाः स्वापतेयप्रसक्ता दग्ध्वात्मा(१७ )नं मत्सराज्याशनेन ।
भ्रूभङ्गार्चिर्ज्वालरूक्षैर्वचोभिर्नास्तीत्यन्ते याचितारं दहन्ते ॥ ८.१८ ॥

ते धीमन्तस्ते सुजन्मानऽ जन्मान्यत्वे ते न पश्यन्त्यपायान् ।
नीतो नात्मा यैरयं दुःखहेतोर्वल्मीकत्वं मत्सराशीविषस्य ॥ ८.१९ ॥

इभ्योऽपि प्रतिषेधपांसुमलिनां यो वक्ति दैन्यां गिरं दूरात्तं जनमर्थिनः परिहरन्त्याशाविसंवादकम् ।
तृष्णाशोषिततालवोऽपि पथिका न स्नानपानक्रियाः कुर्वन्त्यप्यमले जनङ्गमगृहद्वारोदपानाम्भसि ॥ ८.२० ॥

दीर्घैः श्मश्रुभिरन्धकारवदना दूरप्रविष्टेक्षणाः वार्यन्ते पुरुषैरुपात्तलगुडैः प्रेता यदम्भोऽर्थिनः ।
तत्त्वज्ञस्तदुवाच मत्सरफलं बन्धुः प्रजानां जिनः संचिन्त्येति परोपकारविमुखी पुंसा न क्ऽ मतिः ॥ ८.२१ ॥

अपि च वत्स ।
लोके बहुमानमिच्छता त्वया सत्यत्यागश्रमादाक्षिण्यादिभिर्गुणमणिभिरात्माभ्यलङ्कर्तव्यः ॥

गुणीयन्तः शान्ता जगदहितविच्छेदपटवो विरूढप्रेमाणो गुणिषु सुधियः सूनृतगिरः ।
परिष्वक्ता लक्ष्म्या न च मदकलङ्केन मलिना निलीयन्ते पुम्भिः पुरुषगणनादौ सुपुरुषाः ॥ ८.२२ ॥

धुरां ये वोढारः सकलजगदाधिश्रमनुदो धियो येषां स्वच्छा रुच इव मणीनां वितमसः ।
प्रियं कर्तुं वाञ्छन्त्यसुभिरपि ये च प्रणयिनां कथं ते नाधेयाः प्रथमगणनायां गुणवताम् ॥ ८.२३ ॥

न च भवता प्रचुरपुरुषेणेव गुणवत्स्वनादरेण भवितव्यम् ।
पश्य ॥

अनुष्णांशुं दृष्ट्वा गुणिनमिव संप्राप्तमतिथिं पयोवृद्ध्या सिन्धुः प्रथयति मुहुः संभ्रममिव ।
न वर्धन्ते तोयान्युदयवति तत्रैव सरसां प्रमोदाविर्भावो महति महतामेव भवति ॥ ८.२४ ॥

अथ प्रकाशीभवदुडुगणशबले नभसि रचितशशिविशेषकायां पूर्वस्यां दिशि शलभकुलपतनविचलितदीपशिखाङ्गुलीसंतर्जितेनेव नवजलनीलावभासा तमसा विमुक्तान्तरेषु भवनेषु वासयष्टिविलीननिश्चलेषु ताम्रचूलेष्वगुरुधूपामोदाधिवासितेषु विलेपनव्यापारचलितमुखरवलयालङ्कृतहस्तपद्माभिरबलाभिरध्यासितमृदुशयनीयतलेषु वासगृहेषु प्रविरलजनक्रयविक्रयायां क्व चिदपि वीथीयमानापणावीथ्यां बोधिसत्त्वस्तनयमनुशिष्य दीपिकालोकावभास्यमानालेख्यशोभां भवनस्योत्तमां भुवमारुह्य विसर्जितसर्वान्तःपुरजनस्तस्यां वराणसायां नद्यामात्मानं मुमुक्षुरेवमुवाच ॥

अस्यां नद्यां महाकायः सितरत्नामलाम्भसि ।
रोहीतः स्यामहं मत्स्यो लोकस्य व्याधिशान्तये ॥ ८.२५ ॥

इति प्रजार्थं परिवर्धितोदयां दयाविशेषानुगतां गुणातनुम् ।
तनुं मुमोच स्फुरिताकुलाम्बरां वराणसायां सरिति क्षितीश्वरः ॥ ८.२६ ॥

अथ भूपतिः स विरराज पयसि निपतन् स्वमन्दिरात् ।
कल्पतरुरिव सुमेरुतटात्त्रिदशेश्वरद्विप[महा]विषाणघट्टितः ॥ ८.२७ ॥

पतितेऽथ भूभुजि समीरलुलितधवलाकुलाम्बरे ।
वारि चलितशफरीनिवहं (१८ ) चलचक्रवाकमुदलङ्घयत्तटं ॥ ८.२८ ॥

तस्यां स नद्यां पतितः क्षणेन समुत्थिताम्बुध्वनिभीषणायाम् ।
हिमाद्रिसानोरनुरूपकायो रोहीतमत्स्यः समभून्नरेन्द्रः ॥ ८.२९ ॥

स च महात्मा सितसिकतामनोहरं पुलिनमुत्तीर्य यदि मामयं जनकायः प्राणेभ्यो वियोजयेत्ततो दुष्कृतफलेन युक्तो दुर्गतिपरायणः स्यादिति ।
तदिदमत्र प्राप्तकालं स्वयमेव सर्वेन्द्रियनिरोधं कृत्वा जीवितं परित्यक्ष्यामीति विचिन्त्य प्राणानत्याक्षीत् ।
अथ कलुषसलिलाभिषिक्तसितद्विरदकुम्भाकृतावस्तगिरिशिखरावलम्बिनि शिशिरांशौ प्रतनुपांसूपदिग्धस्फटिकमणिनिभासु प्रविरलीभवन्तीषु तारासु ।
संमीलत्सु कुमुदगहनेषु विनिद्रीभवत्सु कमलाकरेषु हरितालरसेनेव बालातपेन परिच्छुरितेषु गिरिशिखरेषु नरपतिशून्यं शयनं शयनपालिकाजनादुपलभ्यामात्याः ।
क्व पुना राजा गतः स्यादिति भवनसमीपजातमुपवनमालोक्य समन्ततः परिभ्रमन्तो ददृशुर्वराणसायाः समुद्रपत्याः पुलिने मुक्ताराशिमिव दीर्घीकृतं रोहीतमत्स्यम् ।
ते च शुश्रुवुरदृश्यवपुषो गगनस्थस्य दिवौकसो गम्भीरां भारतीम् ॥

आतङ्कदुःखविच्छित्त्यै जनस्यास्य स भूपतिः ।
मुक्त्वात्मानं नदीतोये गतो रोहीतमत्स्यताम् ॥ ८.३० ॥

अथ तेऽमात्यास्तच्छ्रुत्वा शोकदुःखव्यथितमनस इदमूचुः ।
अहो करुणया राजानमात्मानं सत्त्वहितार्थमेव परित्याजयन्त्या सकला वसुधेयमनाथीकृतेति बहुविधमिति विलप्य शून्यमनसः स्वानालयानभिजग्मुः ॥

उपलभ्य च वृत्तान्तममात्येभ्यस्तमाकुला ।
देवी प्रस्रुतबाष्पाक्षी व्यलपत्तस्य भूपतेः ॥ ८.३१ ॥

श्रुतेऽपि नाम त्वयि लोकबान्धवे स्वयं गतोऽसाविति भूपतिर्दिवम् ।
तथापि चानिष्ठितिदुःखभागिनीं जिजीविषा मां न विहातुमिच्छति ॥ ८.३२ ॥

तवानुकम्पासुकुमारचेतसो न जातु रूक्षं हृदयं द्विषत्यपि ।
इमं विहायानुगतं विनागसा गतोऽसि कस्मादनुरागिणं जनम् ॥ ८.३३ ॥

विमुञ्च हे चण्डि रुषं महीयसीमिति ब्रुवाणः प्रमदाजनाग्रहः ।
अकारणेर्ष्याकुपितामधोमुखीं प्रसादयिष्यत्युपगम्य कोऽद्य माम् ॥ ८.३४ ॥

विधाय कर्णे विकचं नवोत्पलं निवेश्य चारूनलकांस्तरङ्गिणः ।
मनोहरं मण्डनभूमिकास्थितः क्रमेण को मे तिलकं करिष्यति ॥ ८.३५ ॥

अकारि येनाङ्कनिवेशलालिता प्रियेव या रागवती प्रियेण मे ।
चिराय सा तेन विनाद्य वल्लकी भविष्यति ध्यानवतीव कुक्कुहा ॥ ८.३६ ॥

य ऊढवांस्तस्य मुखेन्दुशोभया स्थितैकपद्मस्य जलस्य तुल्यताम् ।
स एव शोकादिव हा भविष्यति प्रभातचन्द्राकृतिरेस दर्पणः ॥ ८.३७ ॥

मनोहरं पञ्जरमध्यवर्तिने प्रदाय तुभ्यं परिणामि जाम्बवम् ।
शिरीषनिर्यूहनिभं प्रियेण मे विनाद्य कस्त्वां शुक पाठयिष्यति ॥ ८.३८ ॥

अपेतसख्यः स गतो मम प्रियो न केशपाशेन पुनः प्रयोजनम् ।
चिराय वैधव्यविधानशंसिनी ममाद्य वेणी किमियं न बध्यते ॥ ८.३९ ॥

क्षणादथान्तःपुरसुन्दरीजनो निशम्य देव्याः परिदेवनामिति ।
विसर्जितादर्शविलोकनादरो मनोहरां मण्डन(१८ )रसिकां जहौ ॥ ८.४० ॥

विहाय का चिन्नयनान्तसङ्गिनीं द्रुतं शलाकां नयनाञ्जनोत्सुका ।
विषादवत्यर्धसमाप्तमङ्गना व्यनीनिजद्बाष्पवती विशेषकम् ॥ ८.४१ ॥

विकासिनीं केसरपुष्पमालिकां शिरोरुहेभ्यः परिमुच्य विक्लवा ।
सुगन्धिमन्या कणभेदपिञ्जरां व्ययुक्त का चित्सहकारमञ्जरीम् ॥ ८.४२ ॥

विलोलमालाभरणाकुलांशुका निपेतुरन्याः कुटिलाकुलालकाः ।
भ्रमद्द्विरेफाः प्रलयानिलाहता मनोहराः कल्पलता इव स्त्रियः ॥ ८.४३ ॥

निशम्य काश्चित्परिचारिकाजनात्सबाष्पनेत्राः क्षितिपस्य पञ्चताम् ।
प्रदोषपद्मिन्य इवानिलाकुला निपत्य भूमाउ निमिमीलुरङ्गनाः ॥ ८.४४ ॥

अन्या शनैः परिजनेन विलोक्यमानमालिख्य तं नरपतिं विजितेन्दुकीर्तिम् ।
उत्सङ्गसंस्थमबला रुदती विषादात्तत्याज चित्रफलकं सह वर्तकाभिः ॥ ८.४५ ॥

केशान् विलुच्य सुरभीन् परिलूनसूत्रैः फुल्लैः क्व चित्प्रविरलैः कुसुमैः परीतान् ।
काश्चिद्विभिन्नवलयैः कमलाभिताम्रैराजघ्निरे मुहुरुरांसि करैस्तरुण्यः ॥ ८.४६ ॥

अथ तेऽमात्याः शोकवशादागतबाष्पसलिलबिन्दुना करुणविलापेन तेन ज्येष्ठपुत्रेण निवापसलिलाञ्जलिं दापयित्वा तदन्तःपुरं कथं चिदाश्वास्य तं व्याधिग्रस्तं जनमूचुः ।
क्रियतां तस्य राज्ञोऽभिप्रायः ।
एवं हि स पूजितो भविष्यति ।
अथ स जनकायः शस्त्रैश्छित्त्वा तस्य रोहीतमत्यस्यस्य मांसमानीय वैद्याभिहितेन क्रमेणोपयुज्य तस्माद्व्याधेः प्रमुमुचे ॥

तदेवं स भगवान् बोधिसत्त्वभूतः सत्त्वार्थं दुष्कराणि कृतवानिति को नाम तस्मिन्महाकारुणिके भगवति बुद्धे सचेता जनो भक्तिमान्न स्यादिति ॥


॥ पद्मकजातकमष्टमम् ॥





__________________________________________________________________________


...


__________________________________________________________________________



११. मृग


तृणमिव जीवितमिष्टं करुणानुगताः परार्थमुज्झन्तः ।
कठिनमनसामपि मनो नयन्ति मृदुतां महात्मानः ॥ ११.१ ॥

तद्यथानुश्रूयते
स्वच्छसलिलतया चन्द्रिकयेव द्रवीभूतया मृदुपवनप्रेरिततरङ्गसंघातया चक्रवाकमिथुनोपशोभितपुलिनया वराणसया निम्नगयाभ्यलंकृताचलान्तरे विविधतरुच्छायापिहितजलाशयजले सुकुमारशाद्वलहरितभूभागे क्वचिदरण्ये बोधिसत्त्वो मृगयूथाधिपतिर्बभूव ।

क्षीरोदफेनधवलेन तनूदरेण पृष्ठेन च भ्रमरसंहतिमेचकेन ।
ताराविलासशबलस्फुरिताग्रपक्ष्मा रेजे कटाक्ष इव यो गहनान्तभूमेः ॥ ११.२ ॥

तस्यैवंविधस्य बोधिसत्त्वस्य किंचिद्रूपलावण्यप्रमाणानुकारी देवदत्तस्तत्समीपचारी नातिमहतो मृगयूथस्याधिपत्यं चकार ॥

ताभ्यामधिपतिभ्यां ते पालिते तृणमश्नती ।
शङ्कावियोगविश्रब्धं मृगयूथे विचेरतुः ॥ ११.३ ॥

अथ कदाचित्सात्मीभूतमृगयाव्यसनो ब्रह्मदत्तो नाम राजा निर्गम्य वाराणस्यास्तिर्यगुरःस्थलविनिवेशितधन्वा वाजिवराधिरोही सदृशानुयात्रस्तुरगखुरसमुद्धतपांसुपरिधूसरनयनपक्ष्मा दिवसकरसंतापजनितस्वेदकणाक्रान्तललाटदेशः ससैन्यध्वनिसंत्रासोत्पतितमयूरतित्तिरिचकोरवनकृकवाकूनि विषमोन्नतानि निम्नभूमिभागानि क्वचित्पदातिचरणसंत्रासितहरिणखुरविन्यासचकितस्फुरितशफरीकुलविमुक्तस्रवन्तीतटसलिलानि मत्तगजपतिकपोलनिकषणसंक्रान्तमदाधिवासिततरुस्कन्धसमीपभ्रान्तमधुकरगणानि तटविटपिशाखावलग्नशुष्कककुभाक्षफलमद्गुबलाकापिच्छपरिमिश्रकाशकुशवंशतरुपर्णसंचयसूच्यमानचिरातिक्रान्तगिरिसरित्पूराणि पल्वलपङ्कविनिमग्नव्याघ्रपदानि पक्वोदुम्बरगन्धाधिवासितगह्वराणि पवनचलिततनुपताकाकुटिलभुजगसृतिभिरङ्कितमार्गपांसूनि वनान्तराणि विलोकयन् किंचिदतिक्रम्य तन्मृगयूथद्वयं विश्रब्धस्थितं सैन्येन परिवेष्टयामास ।

अथ विलोक्य चमूं धृतकार्मुकां चलखलीनसमुच्छ्रितनिस्वनाम् ।
अशरणाः परिभिन्नकदम्बका भयवशेन मृगाः परिदुद्रुवुः ॥ ११.४ ॥

अवलोक्य समन्ततः परीतान्नृपसैन्येन मृगान् स बोधिसत्त्वः ।
शरधेः शरमुद्धरन्तमारादवनीशं समुपेत्य संबभाषे ॥ ११.५ ॥

युगपन्मृगसंक्षयाय कस्माद्धनुरेतत्क्रियते त्वया सबाणम् ।
दिवसे दिवसे महानसं ते मृगमेकैकमहं विसर्जयिष्ये ॥ ११.६ ॥

निजगाद महीपतिस्ततस्तं यदि सत्यं मृग तत्तथा करिष्ये ।
न करिष्यसि चेदिमां व्यवस्थां प्रहरिष्यामि ततो मृगेषु भूयः ॥ ११.७ ॥

प्रतिपद्य गतेऽथ भूमिपाले धवलच्छत्त्रनिवारितार्कतापे ।
निजगाद समेत्य बोधिसत्त्वो हरिणांस्तान् पुनरेकतामुपेतान् ॥ ११.८ ॥

युगपत्समुपागते विनाशे यदि लभ्येत पुनः क्रमः स साधुः ।
क्रममेत्य चिराय शान्तिहेतुं भविता नाम कदाचिदन्यदेव ॥ ११.९ ॥

गजकुम्भविभेदपण्डितानां बलिनां केसरिणामपि द्विषन्तः ।
क्षपयन्ति शरैरसून्नरेन्द्राः किमु दर्भाग्रभुजां वने मृगाणाम् ॥ ११.१० ॥

सितमणिशुचिभिस्तमो विभिन्दञ्जगदवभास्य मरीचिभिः शशाङ्कः ।
पतति विगतकान्तिरस्तशैलात्क्षणविशरारव एव सर्वभावाः ॥ ११.११ ॥

सलिलमुरुतरङ्गं रंहसा क्षोभयित्वा हरति जलधिमध्यात्पन्नगं वैनतेयः ।
अतिपतति न कश्चित्कर्मणां कोविदोऽपि प्रथितगुरुबलोऽपि प्राक्तनानां विपाकम् ॥ ११.१२ ॥

इति कर्मगतिं ज्ञात्वा विज्ञानपटवो बुधाः ।
प्राणात्ययेऽपि नायान्ति विषादं धीरचेतसः ॥ ११.१३ ॥

अथ यूथपतिद्वयसमादेशात्ताभ्यां यूथाभ्यामहन्यहन्येकैको मृगस्तस्य राज्ञो भोजनपक्तिकाले महानसमगात् । एवं च कतिपयेष्वहःस्वतिक्रान्तेषु देवदत्तयूथवर्तिन्याः समापन्नसत्त्वाया हरिण्याः प्राप्तो गमनवारः । ततः सा स्वयूथपतिमागम्योवाच । स्वामिन्नियतं श्वः प्रसवित्री भवितास्मि । ततः प्रसूय वने मृगशावं विनिक्षिप्य गन्तास्मि । मया खलु तत्र युक्तं मर्तुम् । नैतेन गर्भस्थेन शावकेनेति । देवदत्तो यूथपतिरुवाच । तत्कतमोऽन्यो मृगस्तव वारे प्राप्ते गमिष्यति । सर्वथा त्वयैव गन्तव्यमनात्मज्ञा भवती या ममाज्ञां लङ्घयतीति । तेन यूथपतिना निर्भर्त्सिता सापसृत्य मृगी चिन्तयामास । योऽयं द्वितीयो यूथपतिरयमतिकारुणिकस्तस्मादेनमपि तावदभ्यर्थयिष्ये । गत्वा च बोधिसत्त्वमुवाच ।

मम यूथपते वारः प्राप्तो गन्तुं नृपालयम् ।
आसन्नप्रसवा चास्मि तदेनं रक्ष शावकम् ॥ ११.१४ ॥

प्रसूतमात्रमालीनमवलिह्य च जिह्वया ।
स्तनं च पाययित्वाहं शावं चञ्चलनेत्रकम् ॥ ११.१५ ॥

वनान्ते शङ्खशकलच्छायैर्दशनकुड्मलैः ।
स्पृशन्तं शाद्वलशिखां विलोक्य च पुरःस्थितम् ॥ ११.१६ ॥

मम यूथपते यूथे भगिन्यस्ति कनीयसी ।
गमिष्यामि कृतार्थाहं तस्यां निक्षिप्य पुत्रकम् ॥ ११.१७ ॥

इति पुत्रलालसां तां हरिणीमभिधायिनीं समालोक्य ।
यूथपतेरारूढं सुतरामनुकम्पया हृदयम् ॥ ११.१८ ॥

अपरिचितेऽप्यनुकम्पा दुःखिनि सुतरां विवर्धते साधोः ।
जलसिक्तमूलजाला लतेव वृक्षं समालम्ब्य ॥ ११.१९ ॥

यस्यैवास्त्यनुकम्पा दीनं शरणागतं समालोक्य ।
तद्व्यसनभङ्गहेतुं स एव कुरुते परं यत्नम् ॥ ११.२० ॥

तामूचिवानथ मृगीं मृगयूथनाथो भद्रे परित्यज शुचं मनसि स्फुरन्तीम् ।
त्वं तिष्ठ निर्वृतिमुपेत्य वने चरन्ती यास्याम्यहं नरपतेः स्वयमेव वेश्म ॥ ११.२१ ॥

बालं शिरीषहरितं तृणमादशन्तं चन्द्रांशुजालविमलं सलिलं पिबन्तम् ।
संक्रीडमानमिह पुत्रकमेणशावैः सार्धं चिरं समवलोकय चञ्चलाक्षम् ॥ ११.२२ ॥

आश्वास्य तामिति मृगीं स जगाद धीरस्त्राता यथाद्य हरिणी मरणान्मयेयम् ।
दुःखात्पुनर्भवकृताज्जनतां तथैव त्रायेय मारजयिनीं समवाप्य बोधिम् ॥ ११.२३ ॥

इत्युक्त्वा स यूथपतिरुदराक्रान्तिबद्धोष्मणः खुरपुटोत्खातरजस्कान्मृगरोमन्थनोज्झितबदरास्थिनिचितपर्यन्ताद्वसतिस्थानात्प्रागेव समुत्थाय विमनसा यूथेनानुगम्यमानो वाराणसीमभितः प्रतस्थे ।

विकोशपुष्पास्तमथाकुलाकुलाः कलैरलीनां विरुतैर्विसारिभिः ।
विधूतशाखाग्रकरा नभस्वता निवर्तयामासुरिवाचलद्रुमाः ॥ ११.२४ ॥

विमुच्यमानं सुहृदेव तेन तन्मृगेण वाताहतलोलपल्लवम् ।
विसारिचीरीविरुतं समन्ततो वनं रुरोदेव समुत्सुकोत्सुकम् ॥ ११.२५ ॥

अथ बोधिसत्त्वो वाराणसीसमीपमागम्य किंचिद्विलम्ब्य तन्मृगयूथमित्युवाच । निवर्त्यतामिदानीम् । सुलभवियोगानि हि लोकसंगतानि । सुचिरमपि वसन्तकालरमणीयमरविन्दवनमुपास्य हिमसमयपरिम्लानपलाशकेसरकर्णिकमपगतगन्धमपहाय गच्छत्येव प्रकृतिचञ्चला श्रीः । अवभास्य च प्रावृट्कालजलदपटावगुण्ठितानि दिग्वधूमुखानि लास्यमिव च दर्शयित्वा विरक्ता इव वेश्याङ्गनाः शरत्कालविगलितसलिललघूनपगतविभवान् कामुकानिव परित्यजन्ति जलधरानचिरप्रभाः । क्षणदामुखविशेषकः शिशिरांशुरपि प्रभातसमये परित्यज्यते सहजया कान्त्या । सर्वथा न तत्किंचिज्जगति विद्यते यन्नान्योन्यवियोगि स्यादिति विचिन्त्य धर्मपरायणैर्युष्माभिर्भूत्वा सम्यगात्मा परिपालनीय इति । तच्च मृगयूथं स्थित्वा बोधिसत्त्वमा चक्षुर्विषयाद्गच्छन्तमवलोक्य पितृवियोगादिव शोकशल्यक्षतहृदयं शून्यमिव तद्वनं प्रत्याजगाम । बोधिसत्त्वोऽपि च हरिणवराहमहिषाजास्थिनिचये लग्नश्वगणकलहभीषणमुत्पतितावलीनसरघाकुलमांसपेशीकमुपनिहितनिशातकर्तनीकं मृगागमनप्रतीक्षिभिरौरभ्रिकैराकीर्णसूनास्थानमागम्यावतस्थे । ते च तद्वधाधिकृताः पुरुषा यूथपतिमादाय राज्ञे दर्शयामासुः ।

अथाभाषत तं राजा हरिणं हरिणेक्षणः ।
अपरिक्षीणयूथस्त्वं वद किं स्वयमागतः ॥ ११.२६ ॥

बोधिसत्त्व उवाच ।

गर्भिणी हरिणी देव शरणं मामुपागता ।
पुत्रदर्शनकाङ्क्षिण्यास्तस्या वारेऽहमागतः ॥ ११.२७ ॥

पुत्रकं द्रष्टुमिच्छन्त्याः पूरयित्वा मनोरथम् ।
एण्यास्तस्याः परं प्रीतो मन्येऽहं मृत्युमुत्सवम् ॥ ११.२८ ॥

हरिणीं हरिणं चात्र यातुमालोक्य मृत्यवे ।
यन्मे समभवद्दुःखं तदद्य न भविष्यति ॥ ११.२९ ॥

तस्मात्प्रमापय नरेश्वर मामिदानीमौरभ्रिकैः कथय देव विलम्बसे किम् ।
अत्यायतेन करुणाकवचेन बद्धं चेतो भिनत्ति न विषादशरो ममेदम् ॥ ११.३० ॥

अथ स राजा तस्य तां परार्थप्रतिपत्तिपटीयसीमनुकम्पां विचिन्त्य विस्मितमतिरुपालब्ध इव लज्जया बोधिसत्त्वमुवाच । साधु साधु यूथपते ।

परार्थनिष्पत्तिनिबद्धचेता मृगाकृतिस्त्वं पुरुषप्रधानः ।
परोपघाताय निबद्धयत्ना वयं खलु व्यालमृगैः समानाः ॥ ११.३१ ॥

अथ बोधिसत्त्वो विप्रतिसारवन्तं राजानमवेत्य जातविश्रम्भमुखमित्युवाच ।

शरणमुपगतं कृतापराधं रिपुमपि पासि किल व्युदस्य कोपम् ।
कथय कथमनागसां मृगाणामुपरि पतन्ति तवेषवो निशाताः ॥ ११.३२ ॥

प्रहृतं न त्वया युद्धे द्विषत्यपि पराङ्मुखे ।
निहंसि भयवित्रस्तान् हरिणान्नश्यतः कथम् ॥ ११.३३ ॥

जहीहि मृगयाक्रीडामसत्संकल्पवर्धिताम् ।
नरकाग्नेः स्फुरद्दीप्तेर्भवित्री येयमाहुतिः ॥ ११.३४ ॥

अथ स राजा प्रमुदितमनास्तं यूथपतिं महति सिंहासन आरोप्य सविनयं नीचैरासनमधिष्ठाय प्रोक्तवान् । अहो सुभाषितं क्रियतां मे मोहतिमिरापनोदिनी धर्मदेशनेति । ततो बोधिसत्त्वः सकलया राजपर्षदावलोक्यमानस्तं राजानं संराधयन्नित्युवाच ।

सुभाषितप्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया ।
गुणेष्वतृप्तिर्गुणवत्सु चादरो विरूढमेतच्चरितं महात्मनाम् ॥ ११.३५ ॥

नितान्तमाविष्कृततुङ्गतेजसी उभे मनुष्यस्य मनुष्यलक्ष्मणी ।
अदैन्यमापत्स्वपि चित्तगौरवादपत्रपा चार्यपथप्रकाशिनी ॥ ११.३६ ॥

खलाः प्रकृत्यैव मलीमसाशया वृथा परेषामयशःसु जाग्रति ।
स्वचित्तशुद्धौ विनिविष्टबुद्धयो बुधाः पुनस्तेषु भृशं दयालवः ॥ ११.३७ ॥

नरेषु तुल्योदयपौरुषेष्वपि क्रिया न सर्वस्य परोपकारिणी ।
परिस्फुरज्ज्योतिषि निर्घने नभस्यगस्त्य एवाम्बु करोति निर्विषम् ॥ ११.३८ ॥

विचिन्त्यमानोऽपि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः ।
यदा तु चक्षुःपथमेति देहिनां तदामृतेनेव मनांसि सिञ्चति ॥ ११.३९ ॥

यस्यायामि परोपकारसलिलस्रोतो न विच्छिद्यते धीचक्षुश्च वियोगि यस्य तमसा द्वावेव तौ जाग्रतः ।
अन्येषां पशुधर्मणां परहितव्यापारदुर्मेधसां तुल्ये रात्र्यहनी प्रमत्तमनसामज्ञाननिद्रावताम् ॥ ११.४० ॥

संसारे भ्रमतो महान्धतमसे संतिष्ठमानस्य वा साधोः साधुफले नितान्तमहती द्वे एव ते मां प्रति ।
यत्र प्रोज्झ्य गृहं तपोवनमभिप्रस्थीयते श्रेयसे यस्मिन् वा क्रियते विवेकपटुभिः साकं कथा सूरिभिः ॥ ११.४१ ॥

भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः संपदः पट्वी यस्य च धीस्तमःप्रहतये द्वावेव तौ प्राणितः ।
यस्त्वात्मंभरिरुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवाकृतिभृतः सत्ताप्यसत्ता ननु ॥ ११.४२ ॥

कृच्छ्राल्लब्धमपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापमेति पुरुषश्चित्तानलं ज्वालयन् ।
दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी तेऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यगल्पेच्छता ॥ ११.४३ ॥

मोहच्छेदि सुभाषितं विनयति द्रव्यं विनैव श्रमादद्रव्ये तु भवन्त्यपि स्फुटपदा व्यर्थोपदेशा गिरः ।
कर्मारेण पटीयसापि विघनव्योमेन्द्रनीलच्छविः श्रीगर्भः क्रियते कलङ्कपरुषाद्घण्टीकृतान्नायसः ॥ ११.४४ ॥

इति गुणागुणान्तरविदा महाराजेन सत्पथाश्रयिणा भवितव्यमिति । अथ स राजा धर्मकथामृतास्वादप्रीणितमना दत्तमृगाभयः सबहुमानमिति बोधिसत्त्वं प्रशशंस ।

उत्पादे सति लोक एष मरणव्याधिश्रमैर्बाध्यते तृष्णातन्तुनिबन्धनस्य जगतो भूयस्त एवाधयः ।
इत्यच्छिन्नपुनर्भवप्रतिभयः संसार आ निर्वृतेर्युष्मत्संगमहेतुरित्यवमतो नायं सदोषोऽपि नः ॥ ११.४५ ॥

अथ बोधिसत्त्वः सिंहासनादवतीर्य राजानमापप्रच्छे ।

मया विना नृवर विषण्णमानसं समाकुलं हरिणकुलं भविष्यति ।
अकण्टकां चिरमनुशाधि मेदिनीं व्रजाम्यहं त्वरितपदं तदन्तिकम् ॥ ११.४६ ॥

ततः स यूथपतिः क्षितिपालानुमतस्तदेव वनमाजगाम ।

अथ यूथपतिं विलोक्य दूरान्मुदितं तन्मृगयूथमुत्सुकाक्षम् ।
दशनाग्रगृहीतशष्पदर्भं त्वरितं प्रत्युदियाय बद्धपङ्क्ति ॥ ११.४७ ॥

विनिमीलितलोचनेव यासीद्धरिणी यूथपतौ गते वनान्तात् ।
समुपेयुषि सैव तत्र धीरे पुनरुन्मीलितलोचनेव जाता ॥ ११.४८ ॥

आगम्य साथ हरिणी हरिणप्रधानमित्थं जगाद मुदिता चलितायताक्षी ।
प्रह्लादयन्मम मनः शिशुरेष दावे संक्रीडते हरिणनाथ तव प्रसादात् ॥ ११.४९ ॥

बोधिसत्त्वोऽपि च तन्मृगयूथद्वयमाश्वास्य परां प्रीतिमुपजगाम । तदेवं परहितपरायणः स भगवांस्तिर्यग्भूतोऽप्यासीदिति विन्चिन्त्य तदुपारोपितप्रसादा भवत यूयमिति ॥

॥ मृगजातकं प्रथमम् ॥



__________________________________________________________________________




१२. मयूर


शीलं परिपालयता त्राताः सत्त्वा मयूरभूतेन ।
प्राणभयाद्येन पुरा कस्तत्र न रोपयेद्भक्तिम् ॥ १२.१ ॥

तद्यथानुश्रूयते
सुरभिकमलवनच्छन्नमहाविमलसलिलेन प्रह्लादितसिद्धजनमानसेन मानसेन महासरसा सकलशशिमण्डलबिम्बेनेवालंकृतैकदेशे त्रिपथगासलिलनिपातक्षोभितभूर्जदेवदारुनमेरुवने प्रस्रुतानेकप्रस्रवणे तुहिनोपचयस्थूलतरशिखरसहस्रतया रजतस्तम्भैरिवोपरिसमाकीर्णे केसरिसंत्रासप्रस्थितचमरयूथस्फुरितवालसंघातोपवीज्यमाननिकुञ्जे निर्झरसलिलप्रक्षाल्यमानशिलातले कुसुमितलताप्रान्तभ्रान्तमुखरमधुकरगणसंगीते साभिषेक इव राजमाने भूधरवरे हिमवति धौतेन्द्रनीलविमलदण्डाकृतिशिरोधरः शङ्खच्छेदावदातापाङ्गदेशः स्फुटितपारिभद्रककुसुमाभिरक्ततुण्डो विपुलविचित्रपक्षतिरिन्दीवरपलाशाकीर्णतरुणशिरीषकुसुमसंघातानुरूपबृहत्कलापः सुवर्णावभासो नाम बोधिसत्त्वो मयूराधिपतिर्बभूव ।

मयूरवरमुत्पाद्य तं विचित्रतनूरुहम् ।
विस्मिता इव पश्यन्तो बभूवुः कर्मशिल्पिनः ॥ १२.२ ॥

मेघारम्भे जातनृत्यानुरागं पश्यन्तीनां तं मयूराधिराजम् ।
स्तोकोद्द्योता ह्रीमतीनामिवासन्मन्दा विद्युल्लासिकानां विलासाः ॥ १२.३ ॥

मृदङ्गवद्ध्वानिनि वारिनिर्झरे द्विरेफवीणासु कलस्वनासु च ।
लतावनान्तर्गृहके मनोहरे ननर्त चित्रं स मयूरलासकः ॥ १२.४ ॥

परिस्फुरच्चन्द्रकरत्नमण्डलस्तटान्तमारुह्य यदा ननर्त सः ।
समीरणाधूतवनो हिमाचलस्तदा विभाति स्म किरीटवानिव ॥ १२.५ ॥

कान्तं वितन्वति कलापमनङ्गवध्वा चित्रे विशेषक इवालिखिते धरित्र्याम् ।
तत्र स्थिता शिखिनि सिद्धविलासिनीनां गाढं कुतूहलवशान्न ततर्प दृष्टिः ॥ १२.६ ॥

आपाण्डुमेघपटलावृतदिङ्मुखान्ते मुक्तामलाम्भसि शरत्समयेऽभ्युपेते ।
यस्यां स चन्द्रकमणीनसृजत्कलापी भूरिन्द्रनीलशकलैरिव सा बभासे ॥ १२.७ ॥

कान्ते विचेरुषि शनैरपुलाकपक्षे यूथानुयातगमने कुशलैकपक्षे ।
तस्मिन्महीधरवरस्य मयूरराज इन्द्रायुधैः शबलितेव मही रराज ॥ १२.८ ॥

अथ कदाचिदनिलबलविभिद्यमानकुसुमगन्धाधिवासितदिङ्मुखेषु भ्रमदलिकुलशबलेषु कलभरदनपरिपाण्डुषु रामणीयकं गतेषु केतकेषु कुटजककुभनीपकदम्बकुसुमसुरभीकृतनिकुञ्जेष्विन्द्रगोपकाभ्यलंकृतमरकतहरितशाद्वलश्यामवनभूमिषु नयनरम्येषु महीधरेषु स्फुरिततडिद्वलयलाञ्छितोदरेषु दर्शितेन्द्रायुधेषु धाराशरनिपातप्रोद्वासितनिदाघवैरिषु नभःपिधायिषु जलधरेषु शिशिरशीकरस्पर्शापनीतदिवसकरसंतापेषु परित्यजत्सु चन्दनद्रुमान् फणिषु प्रथमपूरप्रियतमतरङ्गहस्तावलुच्यमानफेनावतंसासु कलुषसलिलवसनपिधीयमानविपुलपुलिनजघनासु मत्तास्विव प्रागल्भ्यमुपगतासु सरिदङ्गनासु सबाष्पप्रोषितभर्तृकाजननयनावलोक्यमानेषु मेघध्वनिप्रमुदितेषु विमुक्तमधुरारावेषु गृहमयूरेषु नवजलदसलिलकणनिपातजनितकणकणाशब्देषु तालतालीनालिकेरवनेषु स मयूरराजः प्रभातसमये तनुजलकणगुरुकृतकलापः श्रुतिहृदयहारिणीं केकां विमुञ्चन्नभःशोभार्थमिवोत्पत्य वाराणसीसमीपेन प्रागात् । तस्यां च पुरि ब्रह्मदत्तेन राज्ञा सह सुप्तप्रतिविबुद्धा परस्परपरिष्वङ्गापहृतविलेपना किंचित्परिपाटललोचनोत्पलानुपमा नाम तस्य राज्ञो देवी पप्रच्छ ।

वद कस्य ध्वनिरयं तारस्ताराधिपानन ।
येन प्रतार्यमाणेन मम प्रह्लादितं मनः ॥ १२.९ ॥

राजोवच । देवि सुवर्णावभासो नाम मानुषालापो मयूरराजो हिमवति कृताधिवासस्तस्यैष नभसा संचरमाणस्य प्रकृतिमनोहरः कनकमरकतेन्द्रनीलवैडूर्यराशिप्रभास्वरस्य स्वरः । पुनः सकुतूहला देव्युवाच । कुतः पुनरसौ मयूराधिपतिर्देवस्य श्रुतिपथमागत इति । राजोवाच ।

पुरुषाणां तिरश्चां वा गुणा एव प्रकाशकाः ।
भिन्नान्धकारनिवहा मणीनामिव रश्मयः ॥ १२.१० ॥

मयूराकृतिमास्थाय कोऽपि केनापि हेतुना ।
नयनोत्सवभूतोऽसौ स्थितो गौरीगुरोर्वने ॥ १२.११ ॥

शिखियूथाधिपतिना तेनालंकृतगह्वरः ।
नाथवन्तमिवात्मानं मन्यते तुहिनाचलः ॥ १२.१२ ॥

गर्जितेन प्रयच्छन्तः साधुवादमिवाम्बुदाः ।
बद्धनृत्तं तमीक्षन्ते स्फुरद्भिस्तडिदीक्षणैः ॥ १२.१३ ॥

घनसमयनाटकादावाहूता बर्हिसूत्रधारेण ।
सहसा तडिदात्मानं दर्शयति नटीव सविलासम् ॥ १२.१४ ॥

अथानुपमा तेन तस्य मयूराधिपतेः श्रुतिहारिणा स्वरेणाक्षिप्तहृदया मृदुहसितभ्रूलताक्षेपपरावर्तनावलोकनक्रीडापरिबृंहितैर्विलासैस्तं राजानं वशीकृत्योवाच । देव क्रियतां यत्नस्तस्य मयूराधिपतेर्ग्रहणाय । क्रीडनकोऽस्माकमन्तःपुरे भविष्यति ।

अन्तःपुरमध्यगतस्फुटचन्द्रकधारिणा मयूरेण ।
विविधमणिकर्णपूरेव तेन नो गृहमही भवतु ॥ १२.१५ ॥

राजोवाच । देवि न किलासौ शक्यते ग्रहीतुम् । देव्युवाच ।

सृजतः सुरभीन्मदाम्बुबिन्दून् बलिनोऽपि द्विरदान् वशं नयन्ति ।
पुरुषाः पटुवीर्यबुद्ध्युपायाः किमुत स्वल्पबलोदयान् विहङ्गान् ॥ १२.१६ ॥

ह्रियते बडिशेन वारिमध्यात्पृथुरोमा नयनाध्वनश्च्युतोऽपि ।
किमुपायवतामसाध्यमस्ति व्यवसाये हि सति क्रियाः फलन्ति ॥ १२.१७ ॥

भवतोऽस्ति मतिर्विशेषपट्वी बहवः सन्ति विपश्चितः सहायाः ।
सफलीक्रियते न चेन्ममेच्छा भवता स्नेहपराङ्मुखोऽसि नूनम् ॥ १२.१८ ॥

शावान् कुलायकगतान् परिपातुकामा नद्याः प्रगृह्य तनुपक्षपुटेन तोयम् ।
दावानलं किल सिषेच मुहुः कपोती स्निग्धो जनो न खलु चिन्तयति स्वपीडाम् ॥ १२.१९ ॥

अथ स राजा मा देवि क्रोधं कार्षीरकार्यमपि त्वदर्थे कुर्याम् । अतः करोम्यहं तद्ग्रहणाय यत्नमित्युवाच ।

विलासिनीनां मदनानुकर्षिणा विलासपाशेन निबद्धमानसः ।
शुभाशुभान्वेषणसुप्तचेतनः प्रयात्यनिघ्नोऽपि हि निघ्नतां जनः ॥ १२.२० ॥

अमर्त्यतेजोऽवयवानवाप्य या तिलोत्तमेति प्रथिता सुराङ्गना ।
त्रिलोकनाथोऽपि तयात्मशोभया चतुर्मुखत्वं गमितस्त्रिलोचनः ॥ १२.२१ ॥

तपोनिधिं गाधिसुतं तपोवने महाधियं मेनकया हृतेन्द्रियम् ।
अवज्ञयाकृष्य मृणालकार्मुकं शरेण विव्याध हसन्मनोभवः ॥ १२.२२ ॥

यदेधते लाघवहेतुरर्थिता पतन्ति यन्मूर्ध्नि निकारपांसवः ।
स्पृशन्त्यधिक्षेपशराश्च यन्मनस्तदङ्गनाभिः क्रियते शरीरिणाम् ॥ १२.२३ ॥

आबध्य व्यवसायवर्म पुरतो विन्यस्य तृष्णाचमूमारोप्य प्रसभं नितान्तकठिनं निर्व्रीडताकार्मुकम् ।
अर्थित्वाहवमध्यमेत्य विवशाः सीमन्तिनीभिः कृता नीचेभ्योऽपि सहन्त एव पुरुषा भ्रूभङ्गबाणव्रणम् ॥ १२.२४ ॥

अथ स राजा शाकुनिकानाहूयावोचत् । अस्ति सुवर्णावभासो नाम हिमवति मयूराधिपतिस्तं भवन्तः शीघ्रमानयन्तु । न चेदानेष्यथ ततः सर्वानेव भवतस्तीक्ष्णेन दण्डेनान्तकसकाशं प्रहेष्यामीति । ते च मरणभीतास्तथेति प्रतिश्रुत्य कंचिन्निपुणतरं शाकुनिकमभ्यर्थ्य विसर्जयामासुः । स च शाकुनिकः क्रमेण हिमाचलमागम्य विज्ञाय तस्य मयूराधिपतेर्गोचरभूमिं विरचय्य पाशानेकान्तेऽवतस्थे ।

प्रालेयाद्रेस्तुङ्गसानोरुपघ्ने न्यस्तं यद्यत्तेन शाकुन्तिकेन ।
तेनात्यर्थं बर्हिणा दृष्टमात्रं तत्तद्दूराच्चिच्छिदे पाशजालम् ॥ १२.२५ ॥

अथ हिमवति दूरस्था दिव्यचक्षुषो मुनयस्तं बोधिसत्त्वप्रभावमालोक्य विस्मितमनस एवमूचुः ।

दृष्ट्यानेन श्रीमता पुण्यधाम्ना छिन्नाः पाशा गाढबन्धा यथेमे ।
साधोरस्य प्राप्तबोधेस्तथैव प्रज्ञाशस्त्रं छेत्स्यति क्लेशपाशान् ॥ १२.२६ ॥

अथ स शाकुनिकः पाशच्छेदविषण्णमनाः समुपगम्य कृताञ्जलिस्तस्मै मयूराधिपतये तां क्रूरां राजाज्ञामाख्यायाब्रवीत् ।

प्राणविच्छेदभीतानां शरण्य शरणार्थिनाम् ।
श्वेतापाङ्गपते भूयास्त्वमेव शरणं हि नः ॥ १२.२७ ॥

दृष्ट्या च्छिन्नास्त्वया पाशाः शङ्खच्छेदसितान्तया ।
स त्वमीदृक्प्रभावः सन् कथमस्मान्न पास्यसि ॥ १२.२८ ॥

तमालोकयतो दीनं मग्नं बन्धुमिवापदि ।
आपुपूरे मनस्तस्य दुःखेन करुणात्मनः ॥ १२.२९ ॥

न त्रास्यते कथं सत्त्वान् धीरोऽयं व्यसनादिति ।
शीलपारमिता तस्मिन्निःसंदिग्धेव तस्थुषी ॥ १२.३० ॥

मां चेन्न संत्यजसि बोधिमवाप्तुकाम एतान्मयूरवर पाहि नरेन्द्रदण्डात् ।
तं शीलपारमितया जनितप्रसादमित्थं कृपा शिखिनमुक्तवतीव साध्वी ॥ १२.३१ ॥

अथ बोधिसत्त्वस्तान्मरणभीतान् प्रति दुःखायमान ईदृशमचिन्तयत् ।

मधुरस्वरः सुरुचिराङ्गरुहो यदि नाभविष्यमहमत्र वने ।
न नरेश्वरादकरुणप्रकृतेर्भयमागमिष्यदिति शाकुनिकान् ॥ १२.३२ ॥

इति मन्निमित्तमयमार्तमना व्यसनं न यावदुपयाति जनः ।
परिचोदितः क्षितिभुजा मरणात्परिपालयामि खलु तावदिमम् ॥ १२.३३ ॥

अकारणे वा सति वापि कारणे समेत्य यन्नाम परो विनश्यति ।
अनेकधिग्वादशरक्षतात्मना किमीदृशा तस्य जनस्य जन्मना ॥ १२.३४ ॥

इति बोधिसत्त्वश्चिन्तयित्वा तमुवाच । गच्छतु भवानग्रतस्तस्मै राज्ञे निवेदयितुं ममागमनमिति । अथ स शाकुनिकः प्रमुदितमनास्त्वरितमागम्य न्यवेदयदिदानीमेवास्मदनुकम्पया देव स मयूराधिपतिरागच्छतीति । ततः स राजा सह देव्या पौरजनेन च कुतूहलवशात्तदागमनप्रतीक्षी पुनः पुनरन्तरीक्षमालोकयामास । सोऽपि च मयूरराजः समाश्वास्य विनिवर्त्य चानुगामिनं मयूरगणमम्बरतलमुत्पत्य सहसैवोपगम्य प्रकृतिमधुरया केकया सकलं वाराणसीजनमानन्दयामास । ततस्तस्य तां केकामाकर्ण्य नियमेन स मयूराधिपतिरागच्छतीति विचिन्त्य प्रमुदितमनसो नूपुरविरावसंत्रासितकपोतपालीनिलीनपारावतमिथुनाः द्रुततरगमनविगलितकर्णावतंसकाः काश्चिदनवसितविशेषकाङ्कितललाटमध्याः सिन्दूराभिताम्राङ्गुलयो द्रुतगमनविघ्नकारिणे गुरुनितम्बभरायात्यसूयन्त्यः किंचिद्गत्वा चापरा गुरुजनावलोकनव्रीडिताः पुनस्त्वरितां गतिमवरुन्धानाः प्रहर्षविकसन्नयनकुवलयपलाशप्रान्तस्पृष्टश्रवणान्ताश्च काश्चिदपराः पुनरर्धालिखितं चित्रफलकमपास्य क्षीणप्राणप्रायप्रान्तवर्तिकाः करण्डकेषु विनिक्षिप्य सितजलदतुहिनकुन्दमृणालस्फटिकरजतधवलानि सौधतलान्यारुरुहुरपराश्च स्त्रियो वातायनान्यभिजग्मुः ।

अथ जालगवाक्षवर्तिनीनामबलानां वदनैर्विशालनेत्रैः ।
शिखिदर्शनजातसंभ्रमाणां बहुचन्द्रेव भृशं पुरी रराज ॥ १२.३५ ॥

कौतूहलादनिलवेल्लितकाकपक्षा रंहस्विनो हरिणशावमनोहराक्षाः ।
आलोकिताः प्रमनसा जननीजनेन निर्जग्मुरुन्नतमुखाः शिशवो गृहेभ्यः ॥ १२.३६ ॥

क्रीडां विहाय च मनोहरकन्दुकोत्थां स्वेदावबद्धकणचारुललाटदेशाः ।
किंचित्कुचोद्गमसमुन्नमितोत्तरीया निश्चक्रमुः प्रतनुबाहुलताः कुमार्यः ॥ १२.३७ ॥

अयमयमिति बर्ही दर्शनप्रोन्नताभिः स्फुटनखमणिभाभिः पद्मपत्त्रारुणाभिः ।
स्मितरुचिरमुखीनां राजसीमन्तिनीनां किसलयितमिवासीदङ्गुलीभिः पुरं तत् ॥ १२.३८ ॥

क्षणाच्च सुरासुरसंग्रामात्क्षुरप्रनिकृत्तदण्डः केतुरिव विविधमणिविचित्रस्तस्य राज्ञो भवनान्तरालमलंकुर्वन् स मयूरराजो निपपात ।

युगपदथ जनानां विद्रुमाकारतुण्डे शिखिनि गुरुकलापे दृष्टयस्तत्र पेतुः ।
ददति धनमुदारे क्षिप्रमाशाः समन्तादभिलषितफलानामर्थिनां दातरीव ॥ १२.३९ ॥

राजा च राजमहिषी च मयूरराजमालोक्य तं तुतुषतुः समवाप्य कामम् ।
लोकस्य दुर्लभमवाप्य हि वस्तु किंचित्खिन्नं प्रमोदमुदमुद्वहतीव चेतः ॥ १२.४० ॥

ततः प्रमुदितमनाः स राजा तं मयूरराजं राजार्हे रदनपादे समुपवेश्यासने पश्चादासनमध्यतिष्ठत् । अथ बोधिसत्त्वो मधुरगम्भीरेण स्वरेण तं राजानमित्याबभाषे ।

जित्वेन्द्रियाणि बलवन्ति बलेन बुद्धेर्युञ्जन्मुहुः प्रणयिनां प्रणयं फलेन ।
एतां समुद्रवसनां व्यसनान्यपास्य भुपाल पालय चिरं पृथिवीं नयेन ॥ १२.४१ ॥

तव धर्ममयाः कच्चिदेधन्ते धर्मसेतवः ।
अगाधं दुःखजलधिं यानालम्ब्योत्तरिष्यसि ॥ १२.४२ ॥

रन्ध्रावलोकिभिः क्रूरैर्दुर्गृहीतैरिवाहिभिः ।
कच्चिद्दृष्टमहादोषैर्विषयैर्नातिबाध्यसे ॥ १२.४३ ॥

भृत्येषु च विनीतेषु कलत्रेषु सुतेषु च ।
कच्चित्ते कुशलं राजन् देहे चात्र यशोनिधौ ॥ १२.४४ ॥

राजोवाच ।

भवत्यकुशलं तावन्मयूराधिप देहिनाम् ।
परार्थपटुना यावत्संगमो न भवादृशा ॥ १२.४५ ॥

संचरन्मुरजमेघनिस्वनं नर्तकीतडिदलंकृतान्तरम् ।
त्वामवाप्य शिखिराज मन्दिरं वारिवाहसमयायते मम ॥ १२.४६ ॥

कान्तामुखस्य तिलको नभसः शशाङ्कः स्वच्छप्रभस्य मणिराभरणस्य शुद्धः ।
जातश्चिराभिलषितोऽस्य मयूरनाथ मद्वेश्मनश्च महतस्त्वमलंकरिष्णुः ॥ १२.४७ ॥

इत्यभिसंराध्य स राजा दीपप्रभावभासितभवनान्तराले प्राचीवधूगृहीतशशिदर्पणे विभाव्यमानतारकाकुमुदवनाभ्यलंकृतनभःसरसि प्राप्ते च क्षणदामुखे सुरभिकुसुमपल्लवास्तीर्णं मयूराधिपतये मृदु शयनीयमादिदेश । दिवसे दिवसे च परिपाकसुरभिमृदूनि फलानि प्रायच्छत् । अथ कदाचित्काले गच्छति स राजा किंचित्करणीयमुद्दिश्य बोधिसत्त्वमनुपमाया देव्या हस्ते निक्षिप्य नातिमहता सैन्येनानुगम्यमानस्तुरगखुरपुटोत्खातमार्गपांसुपरिधूसरकिसलयकुसुममञ्जरीकाणि वनान्तराणि कुर्वन्नमलसलिलवाहिनीतटवेतसच्छायानिलीननिश्चलबकबलाकावलोक्यमानचकितशफरीकुलाकुलतटपयस्काः त्वरितरथचरणध्वनिसंत्रासरसितचक्रवाकमिथुनपरित्यज्यमानसितपुलिनास्तास्ताः समुद्रपत्नीरालोकयंस्त्रस्तसारङ्गोत्पतनसाचीकृतानि चटुलबहुनयनानीव दिगन्तराणि पश्यन् प्रसृतगोकुलदशनच्छिद्यमानशष्पाङ्कुरानिक्षुवणोपरुद्धाननेकांश्च ग्रामसीम्नोऽतिक्रम्य किंचिद्देशान्तरं जगाम ।

साथ क्षितीशमहिषी महिषीविषाणधूम्रालकाकुलमुखी परिपाण्डुराङ्गी ।
वातायनप्रसृतमायतपक्ष्मलेखं चक्षुश्चिरं व्रजति धूर्तविटे बबन्ध ॥ १२.४८ ॥

दृष्ट्वा च तां सुनयनां नयनाभिरामां भित्तेः समीपमगमद्विटपुङ्गवोऽसौ ।
पार्श्वानि वीक्ष्य चकिता च पुनः पुनः सा कर्णोत्पलं सुरभि तस्य मुमोच गात्रे ॥ १२.४९ ॥

आदाय तत्कुवलयं विकसत्पलाशमाघ्राय मूर्ध्नि च निवेश्य स जृम्भमाणः ।
अस्तं विवस्वति गते विवशः कथंचित्तस्याः क्रमेण नयनानुगतः प्रतस्थे ॥ १२.५० ॥

गत्वा ततः स गणिकाभवनं विलासी गाढं वितानहृदयः शयने निविश्य ।
निश्वाससूचितमनोभवबाणपातस्तस्याः प्रकाममुदकण्ठत वीतधैर्यः ॥ १२.५१ ॥

ऊचे विटो गणिकया परिहासपूर्वं पश्यामि शून्यमिव सांप्रतमार्यपुत्रम् ।
धूर्तस्ततः स निजगाद निगूढभावो द्यूते जितोऽहमिति तेन वितानता मे ॥ १२.५२ ॥

अथ स विटस्तां वर्षशतोपमां रजनीं मन्यमानस्तद्गतमनाः समुत्थाय रहसि कस्मैचित्सुहृदे तं वृत्तान्तमावेदयामास । श्रूयतां वयस्य ह्यो मया यदनुभूतमिति । येयं राज्ञोऽग्रमहिषी निमेषमात्रेण मानुषीति लोके वर्ण्यते सलीलमालोकयन्त्या कर्णादादाय ।

वातायनं समवलम्ब्य विलासवत्या हासस्फुरद्दशनरत्नमयूखभासा ।
नाम्ना तयानुपमयोत्पलमुत्पलाक्ष्या रूपेण चानुपमयोपरि मे विमुक्तम् ॥ १२.५३ ॥

सा वातयानमुखसंगतचन्द्रवक्त्रा चन्द्रप्रभां दशनरत्नरुचा हरन्ती ।
भ्रूकार्मुकेण सविलासमुदीरितेन चक्षुःशरं मयि विमुक्तवती कृशाङ्गी ॥ १२.५४ ॥

तच्चिन्त्यतां तावत्संगमोपाय इति । अथ सुहृद्विहस्योवाच । कदाचित्काकतालीयमिदं भवेत्त्वं च नृपतिभवनभित्तिसमीपमनुप्राप्तस्तस्याश्च कथमपि किमप्यालोकयन्त्याः । स्वयमेव तवोपरि कर्णोत्पलं पतितं स्यादतो मा भवान् गणिकाविटजनमध्यमागम्यात्मानं हास्यवस्तु कार्षीत् । तत्परित्यज्यतामयमसद्विकल्पः । यद्यपि च कामयमानया राजमहिष्या तवोपरि कर्णोत्पलं पातितं स्यात्तथापि न युज्यत एवेयमुत्कण्ठा । दुर्लभकामिनीजनसमागमोपायचिन्ता हि पुरुषस्य महतीमरतिमुत्पादयति । निद्रामपहरत्यङ्गानि दुर्बलयति भोजनरुचिमपास्यति । हितवादिनामपि सुहृदामुपदेशं नाभिनन्दति प्रवृद्धनवसलिलौघसरिदिव तटलतां धर्मस्थितिमुन्मूलयति रम्याण्यपि द्वेष्टि । सज्जनगुणकथाभ्यसूयिनी सर्वथा प्रतिसंख्यानबलेनेयमभावं शक्यते नेतुमिति । विट उवाच । अनेकदेहलीलङ्घना जघनसंपर्कनिष्णातबुद्धयो मादृशा धूर्तपुरुषाः कथं सकामामकामां वा सीमन्तिनीं न ज्ञास्यन्ति । श्रूयतां वयस्य । श्रवणकण्डूयनस्तनप्रकाशनलज्जापरावृत्तावलोकनहसितादयो हि भावाः स्त्रीणां सकामं हृदयमाविष्कुर्वन्तीति । किमत्र संदेहेन । सुहृदुवाच । यद्येवं खगपतिरिव प्राकारमपि लङ्घयित्वा भवान्नृपतिभवनं रात्रौ प्रविशेत् । किं न्वकृतसंकेता तत्रभवती राजमहिषी प्रतिबोध्यमाना त्वया ।

विनीतनिद्राकुललोचनोत्पला प्रवेपिताङ्गी जघनच्युताम्बरा ।
ससाध्वसा कोऽयमिति प्रभाषिणी भविष्यति व्याघ्रभयान्मृगीव सा ॥ १२.५५ ॥

ततः परिजनकोलाहलप्रबुद्धकाञ्चुकीये राजकुले नायतिक्षममेतत्कर्म पश्यामि । एवं च तयोर्मिथो विचारयतोरेव मृदुगमनचलितमुखरनूपुरमनोहरचरणकमलयुगलविन्यासेनार्चयन्तीव वसुधातलमभिनयगतिमिव दर्शयन्ती चकितहरिणनयनस्पर्धिना सविलासावलोकनद्विगुणशोभेन कर्णसुहृदा चक्षुषा ह्रेपितमिव किंचिदवनतं कर्णोत्पलं नियच्छन्ती स्थूलमुक्ताहारमणिप्रभोद्द्योतितगुरुपयोधरा पयोधरविरहप्रकाशनिशाकरा निशेव मूर्तिमती किंचिदातपजनितस्वेदकणजालकाक्रान्तविशेषकान्ता विशेषकान्तबकुलमालिकापरिपूरितकेशहस्ता हस्तावलम्बितशिथिलमेखलाकलापा कलापिचन्द्रकमध्यनीलमुत्तरीयमुद्वहन्ती प्रतनुमेचकया रोमराज्या विपुलगम्भीरनाभिनिम्नतामिव दिदृक्षमाणयोपशोभितत्रिवलीतरङ्गविषममध्या मध्याह्नसमयदिवसकरकिरणालिङ्गितेव कमलमाला गमनपरिश्रमवशादीषत्परिम्लानसुकुमारशरीरयष्टिः कर्पूरसुरभिताम्बूलरागारुणाधरा परिणतलवलीफलाभिपाण्डुकपोलतलालिखितपत्त्रलेखा विग्रहवतीव लक्ष्मीर्लक्ष्मीवती नामानुपमरूपानुपमया देव्या प्रहिता वचनकुशला कुशलशिल्पिघटितेव कनकप्रतिमा दूती । समागम्याभिवाद्य च तद्विटद्वयमुपविश्य विज्ञाय च तयोर्निर्यन्त्रणसुहृत्तां विश्रब्धमेव राजमहिषीवृत्तान्तमाचष्टे ।


पुष्पायुधप्रतिनिधे भवनान्तगामी दृष्टो यदानुपमयासि नरेन्द्रपत्न्या ।
सा मे सखी करतलार्पितवक्त्रपद्मा कार्श्यं तदाप्रभृति पाण्डुरतां च धत्ते ॥ १२.५६ ॥

तनुतरममृणालपङ्कपाण्डु च्युतधृति सांप्रतमङ्गमुद्वहन्त्याः ।
मनसि मनसिजः शरानशेषानविरतमस्यति मे वयस्य सख्याः ॥ १२.५७ ॥

कुसुमशयनमूष्मणाङ्गजेन प्रतिदिवसं वितपत्यनङ्गतन्वी ।
उपवनमपि चारु वीक्षमाणा न च रमते हरिणीव यूथमुक्ता ॥ १२.५८ ॥

इति कुसुमधनुःशराहताङ्गीमविरतनिश्वसितस्फुरत्कपोलाम् ।
अवनमितमुखीं ह्रिया सुगात्रां रमय सखीं वचसापि तावदद्य ॥ १२.५९ ॥

अथावसितवचनायां तस्यां दूत्यां स तस्य वयस्यो विहस्यावोचत् । अवश्यमेव स्फुटितसहकारमञ्जरीको वसन्तसमयः कोकिलया सह युज्यते । सिद्धास्ते मनोरथा इति । विट उवाच । सर्वथा कृतार्थोऽस्मि सखि कथ्यतां तावत्कतमस्मिन् प्रदेशे कस्यां वा वेलायां मयानुपमा द्रष्टव्येति । दूत्युवाच । किंचिदासन्ने प्रसुप्तजने निशीथे योऽसौ बहिःप्राकारसमीपरोही न्यग्रोधस्तमधिरुह्य तस्यैव नृपतिभवनभित्तिसंश्लिष्टप्रमदवनोपरिप्रसृतशाखयावतीर्य वयस्येन तत्र सुवर्णावभासाय मयूराधिपतये दीर्घिकातटचित्रशालावस्थिताहारसलिलोपनयनच्छलेनानुपमा चिरमात्मानं विनोदयन्ती समभिगमनीयेति । विट उवाच । सखि मद्वचनादेवमनुपमा वक्तव्या ।

उपरि ममोत्पलमसितं कर्णादादाय यत्त्वया मुक्तम् ।
जीवितमिव तद्दयितं म्लानमपि न संत्यजाम्येतत् ॥ १२.६० ॥

तथास्त्विति च प्रणम्य गतायां तस्यां वचनहार्यां बहुलपक्षान्धकारतिरस्करणदुरालक्ष्येषु पथिषु श्रूयमाणसुप्तगजनिश्वासेष्वालानस्थानेषु प्रथमयामिकजनप्रोत्थाप्यमानद्वितीयजागरणाधिकृतेषु गुल्मकपुरुषेषु निश्चलपतत्रिगणाध्यासितशाखाकुलायेषु वितपिषु स्थाणुमप्यालोक्य पुरतः पुरुष इति शङ्कमानः सुरभिवर्णकानुलिप्तः स विटः प्रथमजलधरनीलपटावगुण्ठितशरीरो वामकक्षावलम्बितनिशितकरवालः सह तेन सुहृदा प्रत्यासन्नेऽर्धरात्रे समुपगम्य दूत्युपदिष्टेनोपायेन पुनर्दर्शनायेति सुहृदमामन्त्र्य प्रमदवनं प्राविशत् । अथ तमागच्छन्तमालोक्य गृहीतसविशेषमण्डनानुपमा चिन्तयामास । नियतमवतरन्नयमनया वटशाखयानेन मयूरेण दृष्टः । कदाचिदयमिमं वृत्तान्तमागताय राज्ञे निवेदयेदिति । तदेनं शिखिनं विषसंपृक्तेनाहारेणाभावमेव नेष्यामीति विचिन्त्य ।

शिखिने विषसंपृक्तमाहारमुदकं च सा ।
ददावस्ववशीभूता रागेण च भयेन च ॥ १२.६१ ॥

अपेतकौलीनभयः सुखाशया विमोहितः पुण्यसपत्नभूतया ।
अनात्मवान् किं न करोत्यसांप्रतं गतत्रपो रागपरायणो जनः ॥ १२.६२ ॥

स च मयूराधिपतिः किंचित्तिक्तमाहारमुदकं चास्वाद्य नियतमनुपमयानेन पुरुषेण सह संगममभिलषन्त्या जातशङ्कया मह्यं विषं दत्तम् । तदिदमत्र प्राप्तकालम् ।

एतौ स्त्रीपुंसौ जातरागान्धबुद्धी यावद्वाधूक्यं सांप्रतं नोपयातः ।
धर्म्यां कुर्वाणः संकथां कापथघ्नीं तावद्वैराग्यं नेतुमेनौ यतिष्ये ॥ १२.६३ ॥

इति विचिन्त्य स महात्मा तं विटमाजुहाव । महात्मन्निहोपविश्य मत्संकथया विनोद्यात्मानं यथाभिप्रेतमनुष्ठास्यसीति । स च विटः कुतूहलवशादुपगम्य मयूराधिपतिसमीपे समुपविवेश । सापि च राज्ञी किंचित्तमालोक्य ससाध्वसा तूष्णीमेवावतस्थे । ततो बोधिसत्त्वस्तयोरुपविष्टयोः पुरस्तादिति वैराग्यसंबन्धिनीं कथामकरोत् ।

अहो हास्यज्योत्स्नापरिचयमनोज्ञो मुखशशी सलीलप्रस्थानं स्तनयुगलमुच्छ्रायि सुभगम् ।
नरस्येत्थं मोहात्परयुवतिरूपं कलयतः प्रसंख्यानाभावात्कुसुमधनुरन्तः प्रविशति ॥ १२.६४ ॥

निरुन्धाना हस्तं मम रहसि नीवीशिथिलिनं भविष्यत्येवं सा प्रथमतरलज्जानतमुखी ।
इति स्त्रीसङ्गार्थं बहुविधविकल्पान्धमनसः शरीरं रन्ध्रेक्षी प्रतिदिनमनङ्गः क्रशयति ॥ १२.६५ ॥

आगच्छेत्पुनरद्य सा गुरुभयात्तस्याः कुतोऽभ्यागमः शर्वर्यामथवाहमेव चकितं गच्छामि सुप्ते जने ।
दूत्याप्यद्य चिरं कृतं किमु मनस्तस्या निवृत्तं भवेदित्यारूढविकल्पनाकुलधियः किं तत्सुखं कामिनः ॥ १२.६६ ॥

संकल्पात्

प्रभवत्यनङ्गदहनस्तापस्ततो जायते संतापादरतिः स्मृतेः प्रमथनी स्मृत्या विना ह्रीः कुतः ।
ह्रीभङ्गाद्वचनीयतापरिभवः क्लेशेषुविद्धात्मनोः स्यातामाधिमतोः कदा नु सुखिनी स्त्रीपुंसयोश्चेतसी ॥ १२.६७ ॥

अक्षाणां वशमागतः सुखमिति व्यामोहितश्चिन्तया कामार्तः परयोषिते स्पृहयति व्रीडाविहीनो जनः ।
श्लिष्यन्तीं स्त्रियमायसीं हुतवहज्वालास्फुलिङ्गाकुलां सोढुं शक्ष्यति तां कथं नु नरके प्रादुर्भवद्वेपथुः ॥ १२.६८ ॥

इति परदारासङ्गं बहुदोषमवेत्य धैर्यमालम्ब्य ।
भगिनीसंज्ञां कृत्वा तस्मात्प्राज्ञो निवर्तेत ॥ १२.६९ ॥

तदेवमल्पस्य नाम सुखस्य हेतोरनेकानलज्वालासहस्रालिङ्ग्यमानविकूणिताक्षाणामशुभकर्मकारिणामार्तनादकरुणं तीक्ष्णक्रकचपाट्यमानशिरसां चापरेषां
रुधिरधारोक्षितज्वलितभूतलं क्रूरयमपुरुषोद्गूर्णलोहमुद्गराभिघातविचूर्ण्यमानपुरुषशरीरास्थिध्वानभीषणमयःशाल्मलीकण्टकपरिभिद्यमानैरपरैश्च मुहुरभिनिस्वनद्भिरुपचितपर्यन्तं नरकमिच्छन्त्यमेधसः पतितुमित्यहो महदेतदज्ञानम् । अथासौ विटस्तेन मयूराधिपतिना नरककथां वर्ण्यमानामाकर्ण्य संविग्नमना विनिवर्तितपरदाराभिलाष उवाच ।

अहो त्वदेनां नरकोपवर्णनां प्रकाममाकर्ण्य मुहुर्भयंकरीम् ।
उदर्चिषं नारकजातवेदसं विलोकयामीव समुत्थितध्वनिम् ॥ १२.७० ॥

तदद्यारभ्य रागान्धजनचित्तापहारिणे ।
नमोऽस्तु परदाराय सुगतिद्वाररोधिने ॥ १२.७१ ॥

शुभाशुभपथाख्यानव्यक्तीकृतविनिश्चयः ।
आचार्यमिव पश्यामि भवन्तमनुशासकम् ॥ १२.७२ ॥

इमां च राजमहिषीमखण्डितपतिव्रताम् ।
अपेतरागतिमिरो मन्येऽहं भगिनीमिव ॥ १२.७३ ॥

अथानुपमा तस्य भगिनीति वचनमुपश्रुत्य परां व्रीडामुपगता तां च बोधिसत्त्वधर्मदेशनामवधार्य संविग्नमतिरिदमुवाच । मया खलु मन्दभाग्यया नरकगामिन्या कामरागवशगयास्मै मयूराकृतये महर्षये विषसंपृक्तमन्नमुदकं च विश्राणितं तत्कथमिदानीं कर्तव्यमिति । तां च विप्रतिसारवतीमालोक्य बोधिसत्त्वो धीरयामास ॥

मैत्रीमन्त्रेण मे नित्यं शरीरमभिमन्त्रितम् ।
नैव हालाहलेनापि विषेनायाति विक्रियाम् ॥ १२.७४ ॥

देवि मा स्म गमः शङ्कां मदपायकृतामिति ।
न चाहं कथयिष्यामि किंचिदीदृङ्महीभुजे ॥ १२.७५ ॥

अथानुपमा तद्वचनमाकर्ण्य परं परितोषमुपजगाम । सोऽपि च विटस्तं मयूराधिपतिमभिवाद्य विनिवृत्तपरदारव्यसनस्तेनैव न्यग्रोधेन स्वनिलयमगात् । अथ प्रभातसमये ब्रह्मदत्तः समापय्य स्वराज्यकरणीयमागम्य प्रविश्य च स्वभवनं प्रागेव मयूराधिपतिमगात् । परस्परकुशलवार्त्तां च नृपतिमयूराधिपती पप्रच्छतुः । अथान्यस्मिन्नहनि राजानं शिखिपतिरेवमुवाच ।

मम विरहविषाददीनचित्तं न पिबति वारि फलं न चापि भुङ्क्ते ।
जलधरसमयेऽपि वीतनृत्तं शिखिकुलमाकुलतां ध्रुवं प्रयातम् ॥ १२.७६ ॥

इति नरवर पालय त्वमेनां भुवमखिलां विजितेन्द्रियारिवर्गः ।
अहमपि हिमवन्तमिन्दुगौरं त्वदनुमतः शिखिपालनाय यामि ॥ १२.७७ ॥

इति तमभिदधानमिन्द्रनीलच्छविगलमायतचारुबर्हभारम् ।
कथमपि गमनाय यूथनाथं नगरवरादनुमन्यते स्म राजा ॥ १२.७८ ॥

नृपतिनाथ समुत्सुकचेतसा पुरजनेन च तेन विलोकितः ।
अभजताम्बरमम्बुदसंवृतं शिखिवरः शिखिनां हितकाम्यया ॥ १२.७९ ॥

अथ विलोक्य मनोहरमम्बरे शिखिनमायतबर्हभरालसम् ।
अमुचदुत्सुकतां समुपागतं नयनवारिकणानवरोधनम् ॥ १२.८० ॥

तीव्रे मनोधृतिभिदि प्रियविप्रयोगे रूढं यदश्रु मतिलोचनसंनिरोधे ।
तन्मूर्तिमन्नियतमाधिहुताशतापाद्दुःखं द्रवीभवति सङ्गवतो जनस्य ॥ १२.८१ ॥

दृष्ट्वा ततश्चलकलापशिरोधरं तं दूरान्मयूरवृषभं नभसा व्रजन्तम् ।
प्रत्युद्ययुश्चलितपक्षपुटाः प्रतीताः केकाः कलाः कलगिरः शिखिनः सृजन्तः ॥ १२.८२ ॥

अथ शिखिनि समेते तत्र भूपालपार्श्वाद्गुणवति सुहृदीव प्राप्तसर्वाभिलाषे ।
तुहिनगिरिरुदग्रं प्रीतिमाविश्चकार प्रविसृतहिमहासः शष्परोमोद्गमेन ॥ १२.८३ ॥

बोधिसत्त्वोऽपि च समेत्य तन्मयूरयूथं चिरविरहपर्युत्सुकं पक्षाभ्यामालिङ्ग्य समाश्वासयामास ।
तदेवमात्मनि निरपेक्षेण तेन भगवता बोधिसत्त्वभूतेन प्राणाः प्राणात्ययात्परिपालिता इति विचिन्त्य सुगतिभवनद्वारप्रकाशिनि प्रदीपभूते शीले भवद्भिरादरः करणीय इति ।

॥ इति मयूरजातकम् ॥




__________________________________________________________________________


...

__________________________________________________________________________



१९. हस्तिन्


जानाति क्षान्तिफलं य एव रागादिशान्तिमन्विच्छन् ।
कुरुते स एव धीरः प्रहरत्यपि वैरिणि क्षान्तिम् ॥ १९.१ ॥

तद्यथानुश्रूयते

विविधतरुकुसुमगन्धाधिवासितदिगन्तराले रेवासलिलक्षालितविपुलान्तरीयशिलातले पवनचलितवेणुवनपलाशसलसलाशब्दसंत्रासोत्कर्णचलितमृगकुले क्वचिदनलप्रसूतभयोत्पतितशकुनिगणे क्वचिदुच्छ्रितशिखरस्थितधवलबलाहकच्छायाश्यामीकृतनितम्बे क्वचिदिभयूथभज्यमानशल्लकीगन्धसुरभीकृतनिकुञ्जे क्वचित्पुलिन्दीजनसमुच्चीयमानपतितविरलमयूरचन्द्रके चन्द्रकिरणविमलसलिलप्रस्रवणेऽन्यत्र तापसकन्यकागणानीयमानलताकुसुमसमुद्भ्रान्तालिकुलोपगीते शुकहरितशाद्वलरमणीयवसुधातले विन्ध्यभूभृति शरज्जलधराकृतिबृहद्देहः शेषभुजगानुरूपकरः कमलाभिताम्रपुष्करः क्षुण्णाभिनवमुस्तासुरभिमदलेखाश्यामकपोलः सुसंस्थितनखपादः कलधौतरचितकुम्भाकृतिकुम्भः क्षमाङ्कुशविनिवारितामार्गप्रस्थितिः स्थितिरिव सर्वगुणानां षड्दन्तो गन्धहस्ती बोधिसत्त्वो गजयूथाधिपतिर्बभूव ।

रेजे स यूथपतिरिन्दुमरीचिगौरो मुक्ताविपाण्डुरदनः पृथुपीनकुम्भः ।
पुञ्जीकृतः पशुपतेरिव नृत्तकाले हासो महानपहृतक्षणदान्धकारः ॥ १९.२ ॥

वाताहतानि कुसुमानि समुत्सृजन्तः किञ्जल्करेणुपरिपिञ्जरकेसराणि ।
तं शाखिनस्तुहिनशैलसितं गजेन्द्रं भक्त्याभितुष्टुवुरिव भ्रमरस्वरेण ॥ १९.३ ॥

विहाय दूरात्कुसुमानि शाखिनां हसत्पलाशानि कुशेशयानि च ।
कपोलयोस्तस्य मदाम्बुदिग्धयोः शनैरलीयन्त मुदा शिलीमुखाः ॥ १९.४ ॥

निरन्तरं पीनकपोलशोभितं समन्ततो वासितदिङ्मुखान्तरम् ।
स यूथभर्ता पिबतः शनैर्मदं न कर्णतालैर्भ्रमरानवारयत् ॥ १९.५ ॥

मनोहरमविच्छिन्नं प्राज्यं याचनका इव ।
जगृहुः षट्पदास्तस्माद्दानं दानपतेरिव ॥ १९.६ ॥

तेन च यूथपतिना समाश्रितो विन्ध्यगिरिः कनकगिरेरप्यात्मानमभ्यधिकमिवामन्यत । तच्च गजयूथं सम्यक्तेन परिपाल्यमानं राजन्वदिव राज्यमनुदिवसमवर्धत ।

तस्य भद्रा सुभद्रा च प्रकृत्या भद्रचेतसः ।
दयिते दयितक्षान्तेर्द्वे करेणू बभूवतुः ॥ १९.७ ॥

अथ कदाचिदनिलचलितपताककुटिलविद्युल्लतापरिस्फुरणसंमीलितविपुलाक्ष्याः सलिलभरगुरुजलधरगर्जितसंत्रासप्रवेपिताङ्घ्र्याः तनुभुजलतोत्क्षेपोन्नततरगुरुपयोधरायाः खड्गप्रभावभासितदक्षिणभुजं कल्पतरुकुसुममाजिघ्रन्तं दयितमालिङ्गन्त्याः पतितकर्णोत्पलायाः शिथिलकेशपाशच्छन्नांसदेशायाः पवनचलितमुत्तरीयमवरुन्धत्याः स्फुरिताभरणमणिकिरणावभासितशरीरयष्टेर्नभसा गच्छन्त्या विद्याधर्याः किसलयसुकुमारात्पाणेः परिभ्रष्टमभिनवमामोदाधिवासितदिगन्तरालमलिकुलपरिगीतं कनकसूचीसदृशकेसरं रथचक्रप्रमाणं हरितालकपिलमकरन्दमरविन्दं मानससरःसंभूतं तस्य गजपतेरेकाकिनस्तत्राचलवरे विहरतः पुरस्तात्पपात । तच्च कमलमादाय स एवमचिन्तयत् । भद्रायाः सुभद्रायाश्च मे पत्न्योर्या प्रथममागमिष्यति तस्यै प्रसादमहं दास्यामि ।

परिभ्रमद्भृङ्गकुलाकुलान्तरं सुगन्धिकिञ्जल्कविकीर्णकेसरम् ।
इदं हसच्चारुपलाशसंचयं मुदा प्रदास्यामि महाकुशेशयम् ॥ १९.८ ॥

अथ सुभद्रायै प्रथममागतायै तत्कनकमयमम्भोरुहं स गजपतिः प्रायच्छत् । सापि च तदाघ्राय सबहुमानं शिरसि निवेशयामास । पश्चाच्च भद्रा समुपगम्य तत्सुभद्रायाः कुम्भमध्यावस्थितमरविन्दमालोक्य नियतमिदमम्भोरुहमस्यै सपत्न्यै मामवमन्यानेन यूथपतिना दत्तमिति विचिन्त्य परामीर्ष्यामागम्य तं द्विरदपतिमपहायान्यत्र विजहार ।

सा यत्र दृष्टमहनि द्विरदेन तेन दत्तं सुगन्धि विकचं कमलं सपत्न्यै ।
तत्रेर्ष्यया परिगता न तृणं जघास नाम्भः पपौ ग्लपितमूर्तिरुदन्ययापि ॥ १९.९ ॥

असद्विकल्पनाहुत्या को नाम समना जनः ।
ईर्ष्यावह्निशिखामिद्धामात्मदाहाय वर्धयेत् ॥ १९.१० ॥

ते सुखं शेरते धीरा नामार्गेण प्रयान्ति ते ।
न मनोगृहमध्यास्ते येषामीर्ष्याभुजङ्गमी ॥ १९.११ ॥

अथ भद्रा विन्ध्यशिलातले तरुच्छायापिहितविनिबद्धपर्यङ्कध्याननिश्चलनयनमालिखितमिव मत्तचकोरविलोचनरक्तचीवरप्रावृताङ्गं प्रत्येकबुद्धमालोक्य सरसः कुसुमान्यानीयार्चयामास ।

क्षिप्ताभिरूर्ध्वमथ वाशितया स भास्वांस्ताभिर्मुनिः कुमुदपङ्क्तिभिराबभासे ।
उद्भासिनीभिरचिरद्युतिभासिताङ्गः संध्यापयोधर इवोपरि तारकाभिः ॥ १९.१२ ॥

अथ सा हस्तिनी विन्ध्याचलतटमारुह्य यदस्मात्प्रत्येकबुद्धार्चनकुशलमूलात्फलं तेनाहमस्य गन्धहस्तिनो वधाय राजमहिषी स्यामिति विचिन्त्यात्मानं मुमोच । तस्याश्च शरीरभारपरिभग्नतरुशाखायाः पतनशब्दमाकर्ण्य ।

उत्पेतुः प्रचलितचन्द्रका मयूराः शार्दूलो दृशमुदमीलयत्प्रसुप्तः ।
संत्रासात्तृणकवलं विहाय दूरादुत्कर्णं मृगकुलमाकुलं बभूव ॥ १९.१३ ॥

सा च कालं कृत्वान्यतरस्य राज्ञो जातिस्मरा दुहिता बभूव । किंचिदुद्भिद्यमानस्तनमुकुलां च तां त्रिवलीसोपानमालाधिरोहणजातखेदेनेव नवयौवनशिल्पिना समन्मथमुपचीयमानशरीरलावण्यां प्रारब्धलज्जाहसितविलासामलिकुलश्यामकेशपाशां कनकच्छेदावदातां श्रियमिव मूर्तिमतीं पिता कस्मैचिदेव नृपतये प्रायच्छत् । सा च तं राजानमनन्यस्त्रीसदृशैरबलागुणैरपहृतेन्द्रियं कृत्वा कदाचिच्चन्दनानुलिप्तस्तनगात्री निश्वासपरिकुञ्चिताधरपुटा ज्वरितामिवात्मानं दर्शयामास । यदा च भिषग्भिश्चिकित्स्यमानापि तथैव ज्वरच्छद्मना परिचेष्टते स्म तदा तस्या भर्ता भृशमरतिमाजगाम । सा चैनमुवाच ।

नैष ज्वरो मे हरिचन्दनेन जीमूतशीतेन न मारुतेन ।
प्रयाति शान्तिं स्फटिकामलेन न चांशुजालेन निशाकरस्य ॥ १९.१४ ॥

विन्ध्याचलेऽस्ति द्विरदाधिराजः श्वेताम्बुदाभो गुरुषड्विषाणः ।
मृणालशुक्लेषु महत्सु तस्य दन्तेषु सन्ति क्षितिपाल मुक्ताः ॥ १९.१५ ॥

लिप्येत ताभिर्यदि मे शरीरं पिष्टाभिरम्भःकणनिर्मलाभिः ।
तद्दन्तशय्या यदि मे क्रियेत दाहज्वरस्यास्य ततः शमः स्यात् ॥ १९.१६ ॥

अथ स राजा नियतमनया देव्या जातिस्मरया जात्यन्तरे श्रुतो दृष्टो वा विन्ध्यवनवासी गन्धहस्तीति निश्चयमुपेत्य व्याधमाहूयावोचत् ।स्ति विन्ध्याचले षड्दन्तो गन्धहस्ती । यदि तस्य दन्तानानेष्यसि ततोऽहं भवन्तं महतार्थेन योजयिष्यामीति । व्याध उवाच । यथा शक्ष्यामि तथा करिष्यामीति । देव्युवाच । अहमुपायं जानामि यथासौ गन्धहस्ती विश्रम्भमायातीति ।

दृष्ट्वा प्रव्रजितं शान्तं काषायाम्बरधारिणम् ।
सुशिष्य इव मेधावी प्रणम्यार्चयति द्विपः ॥ १९.१७ ॥

परिधाय ततः सम्यक्काषाये वाससी त्वया ।
आहन्तव्यः शरेणासौ विषदिग्धेन मर्मणि ॥ १९.१८ ॥

स च तथेति प्रतिश्रुत्य काषायवसनसंभृताङ्गः सशरं धनुरादाय विन्ध्याचलमगमत् । अथ तमचलवनान्तरे संचरन्तमालोक्य तद्गजयूथं साशङ्कमिभाधिपतये निवेदयामास ।

काषायवसनः कोऽपि स्फुलिङ्गकपिलेक्षणः ।
लोहस्तम्भवपुः सत्त्वांस्त्रासयन्निव लक्ष्यते ॥ १९.१९ ॥

बोधिसत्त्व उवाच । न खलु काषायवासः शङ्कनीयम् । पश्यन्तु भवन्तः ।

अपत्रपा शान्तिपथस्य सूचकं ध्वजो मुनीनां मदभङ्गकारणम् ।
कषायरक्तं यदि देहभूषणं जनस्य विश्रम्भनिमित्तमम्बरम् ॥ १९.२० ॥

अथ तस्य यूथस्य नातिदूरेऽवस्थितः स व्याधस्तरुणात्मानमावृत्य धनुरारोपयामास ।

तं संदधानमिभराजविनाशनाय ज्यायां शरं शितफलं तुचिसारमय्याम् ।
शाखाकरैः किसलयाङ्गुलिभिस्तरूणां विन्ध्यो न्यवारयदिव श्वसनावधूतैः ॥ १९.२१ ॥

मदमुकुलितनेत्रं कर्णविन्यस्तहस्तं विटपिनि निकषन्तं दानदिग्धं कपोलम् ।
विदितकुशलमार्गं मार्गणेन द्विपेन्द्रं मृगरिपुरुपकण्ठं वायुकुम्भे जघान ॥ १९.२२ ॥

अथ निपतितकार्मुकोत्तरीयं द्विरदगणेन रुषानुगम्यमानम् ।
गजपतिरुपगूढवान्मृगारिं सुतमिव तं परिसान्त्वयन् भयार्तम् ॥ १९.२३ ॥

क्व रिपुरयमहो कृतापकारो द्विरदपतेः करुणा क्व चेदृशीयम् ।
क्षितिधरगहनान्तदेवतानां ध्रुवमिति चेतसि विस्मयो बभूव ॥ १९.२४ ॥

निशितशरविभिन्ने तत्र मातङ्गनाथे स्रुतरुधिरलवाङ्कं धूनयत्यास्यमीषत् ।
तदमुचदिभयूथं शल्लकीनां सुगन्धीनुपगतगुरुशोकं पल्लवानर्धदष्टान् ॥ १९.२५ ॥

तमुज्जहाराथ शरं गृहीत्वा करेण किंचिन्नतपुष्करेण ।
बलात्सुभद्रा करिणः करेणुः कोपं पतेः क्षान्तिरिव स्फुरन्तम् ॥ १९.२६ ॥

विषादिनी तस्य गजाधिपस्य बाणव्रणं शोणितलेशदिग्धम् ।
विच्छिन्नमुक्तागुणसंनिभेन सिषेच सा पुष्करशीकरेण ॥ १९.२७ ॥

विगाहमानः सलिलं पिपासया मदेन को मे सुरभीकरिष्यति ।
इति स्फुटावर्ततरङ्गनिस्वना भृशं विचुक्रोश शुचेव नर्मदा ॥ १९.२८ ॥

तवाद्य कच्चिद्विशिखक्षतोद्भवा तनुत्वमायाति गजेन्द्र वेदना ।
इति भ्रमन्त्यश्चटुलाः कपोलयोः शनैरपृच्छन्निव भृङ्गपङ्क्तयः ॥ १९.२९ ॥

विसारिकालागुरुधूमधूसरैर्विलोलविद्युद्वलयाङ्कितोदरैः ।
घनैर्ललाटंतपमुष्णदीधितिं समावृणोत्तस्य सुखाय वासवः ॥ १९.३० ॥

प्रसन्नरेवाजलसङ्गशीतलः प्रफुल्लनानाकुसुमाधिवासितः ।
समागतो बन्धुरिव द्विपाधिपं शरेण विद्धं व्यजति स्म मारुतः ॥ १९.३१ ॥

अथ गजपतिर्यदि कथंचिदन्तकालं करिष्यामि तदिदं गजयूथमनाथतां यास्यतीति विचिन्त्य सत्याधिष्ठानमिति चकार ॥

अपकारिण्यपि प्रेम यथास्मिन्मृगलुब्धके ।
तथानेनाद्य सत्येन क्षयमायातु मे विषम् ॥ १९.३२ ॥

अथ सत्याधिष्ठानप्रभावात्सद्य एवापगतशरमूर्च्छावेदनः स गजपतिरभूत् । तं च तथा स्वास्थ्यमागतमालोक्य स व्याधः प्रणम्य तं राजमहिषीवृत्तान्तमाख्यायाभ्युवाच ।

दन्तार्थं दन्तिनां नाथ क्रूरेणाक्रूरमानस ।
आहतोऽसि हतद्वेष मयापात्रेण पत्त्रिणा ॥ १९.३३ ॥

इति श्रुत्वा वचस्तस्य व्याधस्य द्विरदाधिपः ।
उच्चखान विषाणानि करेणादाय निर्व्यथः ॥ १९.३४ ॥

बभार स करस्तस्य निबद्धरुधिरस्रुतिः ।
सक्तबन्धूकमालायाः पुण्डरीकस्रजः श्रियम् ॥ १९.३५ ॥

तेनैव सत्यवाक्येन तस्य नाथस्य दन्तिनाम् ।
उत्पेदिरे क्षणाद्दन्ताः शङ्खच्छेदार्जुनाः पुनः ॥ १९.३६ ॥

अथ पुनारदनोद्भवविस्मितः करिपतेः सितवारिधरत्विषः ।
स रदनानुपगृह्य वनान्तरान्मृगरिपुः क्षितिपालगृहं ययौ ॥ १९.३७ ॥

अथ दन्तावलोकनप्रमुदितमनाः स राजा तं लुब्धकं यथाप्रतिपन्नेनार्थेन योजयामास । सापि च राज्ञी तं छद्मज्वरमपास्य तानि विषाणानि दृष्ट्वा जातपश्चात्तापा तमीर्ष्यावृत्तान्तमन्यजन्मानुभूतं पत्ये निवेद्य बाष्पसलिलव्याप्तनयनोत्पला तत्तद्विललाप ।

अहो धिगीर्ष्यां गुणपक्षघातिनीं यया मया मोहितमन्दचित्तया ।
वने वसंस्तापसशान्तमानसः स यूथभर्ता गमितो यमक्षयम् ॥ १९.३८ ॥

महात्मना येन चिराय पालितं न शक्यते स्मान्यगजैः प्रबाधितुम् ।
समाकुलं तेन विनाद्य दन्तिना कथं नु तन्नागकुलं भविष्यति ॥ १९.३९ ॥

निरन्तरं यस्य मदं पिपासवः परिभ्रमन्ति स्म मुहुः कपोलयोः ।
समाकुलास्तेन विनाद्य षट्पदाश्चिरादुपैष्यन्ति मृणालिनीवनम् ॥ १९.४० ॥

अभून्मुहुस्तस्य गजाधिपस्य यः कपोलकाषेण परिस्फुरत्त्वचः ।
चिराय तं तन्मदलेशवासितं ध्रुवं सुभद्रा न जहाति शाखिनम् ॥ १९.४१ ॥

समुद्रवेलारशनाविभूषिते समुच्छ्वसत्कोमलशाद्वलांशुके ।
दधासि मां किं पतिमुख्यघातिनीं क्षिते विदारं न ददासि किं नु मे ॥ १९.४२ ॥

अथ तां राज्ञीं तथा विलापपरां स व्याधो धीरयामास । मा देवि शोकं कार्षीः । सत्याधिष्ठानमाहात्म्येन स महात्मा पुनरुद्भूतमनोहरमहाविषाणः समपगतशरविषवेगः सत्त्वोपकाराय प्राणान् बिभ्रत्करोत्येव तस्य महतो गजयूथस्याधिपत्यमिति ॥

अथ वचनमिदं निशम्य तस्मान्नृपमहिषी प्रमनाः पुनर्बभूव ।
क्षितिपतिरपि विस्मयं जगाम द्विरदपतेः करुणां मुहुर्विचिन्त्य ॥ १९.४३ ॥

तदेवं क्षान्तिफलमभिलषन्तः करुणात्मकाः शस्त्रेणापि प्रहरति वैरिणि सत्यामपि शक्तौ क्षमन्त एव महात्मान इत्यवधार्य क्षमायामादरः करणीय इति ॥

॥ हस्तिजातकं नवमम् ॥


__________________________________________________________________________



२०. चन्द्र


अपहृतदंष्ट्र इवाहिःक्षाम्यति शक्त्या विना सरोषोऽपि ।
सति सामर्थ्ये नोज्झति यः क्षान्तिं स क्षमी ज्ञेयः ॥ २०.१ ।

तद्यथानुश्रूयते
पराक्रमनीतिप्रभावविजितान्यराजसामन्तः प्रभूतहस्त्यश्वकोशसंपदुपेतस्तेजस्वी धीरः शुश्रूषादिभिः प्रज्ञागुणैरधिष्ठितस्त्रिवर्गानुकूलप्रकृतिः प्रकृतिदक्षिणो दक्षिणापथाधिपतिः कलिङ्गराजो नाम राजा बभूव ।

भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य ।
अभिसस्रुरुदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तमम्बुराशेः ॥ २०.२ ॥

अपरस्परडिण्डिमैः स्वनद्भिः करिणो यस्य वितन्यमानकोपाः ।
वशगाः परितः प्रयाणकाले कथमप्यङ्कुशधारिणां बभूवुः ॥ २०.३ ॥

तस्यैवंविधबलोदयस्य नरपतेः सपत्नैरखण्डितमानस्य खण्डधारो नाम द्विजातिरमात्यो बभूव । स च राजा कुलसंततिविच्छेदभीरुः कदाचिदनेकान् देवताविशेषांस्तनयार्थमुपयाचते स्म । ततः खण्डधारस्तं राजानमुवाच । प्रविशतु देवोऽन्तःपुरमहं देवस्य पुत्रार्थं देवतां समुपासिष्ये राज्यं च प्रतिपालयिष्यामीति । तथेति च राजाभिधायान्तःपुरं प्रविश्य विषयपरायणो बभूव । खण्डधारोऽपि च स्वनामाङ्कं सर्वपरिच्छेदजातं राज्यमनुशशास । कलिङ्गराजोऽपि च विविधनृत्तगीतावलोकनश्रवणापहृतहृदयः सुरपतिरिवाप्सरोगणपरिवृतोऽवरोधनजनमध्यगतो विजहार ।

मनोहरावार्द्रमधूकपाण्डू समुद्गिरन्ताविव कान्तिमिन्दोः ।
कस्याश्चिदादर्शनिबद्धदृष्टेः सपत्त्रलेखावकरोत्कपोलौ ॥ २०.४ ॥

अपश्यदन्यां स्तिमितायताक्षीं स्मितेन किंचिच्चलिताधराग्राम् ।
नवोत्पलावस्थितमुत्पलेन तिरोदधानां चकितं द्विरेफम् ॥ २०.५ ॥

पराङ्मुखीं कांचिदधिष्ठितासनां मनोहरालेख्यपटावलोकिनीम् ।
उपेत्य निःशब्दपदं स भूपतिश्चकार हस्तद्वयसंवृतेक्षणाम् ॥ २०.६ ॥

विधुन्वतीं पाणिमलं मयेति भियास्वनामस्फुरिताभिधानाम् ।
स्तनौ दुकूलेन तिरोदधानां जग्राह दूतीमपि वेपिताङ्गीम् ॥ २०.७ ॥

त्वमेव मे भाविनि जीवितं परं निधेहि दृष्टिं मयि वल्गुहासिनि ।
इति ब्रुवन् कांचिदवाङ्मुखीं स्थितां प्रसादयामास कथंचिदङ्गनाम् ॥ २०.८ ॥

किंचिच्चलन्मुखरनूपुरभूषणेन पादेन कुट्टिमतलं लिखतीं सलीलम् ।
कर्णे जगाद किमपि प्रमदां हसन्तीं लक्ष्यीकृतोऽन्यवनितानयनेषुपातैः ॥ २०.९ ॥

अथ तस्य नरपतेरेवमखण्डविषयसुखानुभाविनस्ताः शुद्धान्तमत्तकाशिन्यो
विविधमृदुहसितकथाक्रोधेर्ष्याभ्रूभङ्गमनोहरैर्विलासैरतीव हृदयमाचिक्षिपुः ॥

परिहासकालचलितोन्नतभ्रुवः स्मितचन्द्रिकापरिगताननेन्दवः ।
त्रिवलीविजिह्मतनुरोमराजयो न मनो हरन्ति वद कस्य योषितः ॥ २०.१० ॥

स्फुरितप्रकाशदशनावलीरुचः परितः क्षरन्त्य इव कान्तिमैन्दवीम् ।
न हरन्ति कं नु लवलीसुगन्धयः प्रमदाजनस्य मदमण्डना गिरः ॥ २०.११ ॥

वदनेन्दवः श्रवणरुद्धदृष्टयः परपुष्टकण्ठरुचयः शिरोरुहाः ।
परिणामितालफलसंनिभाः स्तना न मनोहरं किमिव नाम योषिताम् ॥ २०.१२ ॥

न गतास्त एव लघुतां जगत्त्रये सुखिनस्त एव सुधियस्त एव च ।
बहुदोषसर्पनिचितानि संश्रिता न विलासिनीविषलतावनानि ये ॥ २०.१३ ॥

अथ काले गच्छति देव्यापन्नसत्त्वा बभूव ।

तस्या गुणनिधौ वृद्धिं याते गर्भे दिने दिने ।
अग्रयोः संभृतक्षीरौ जग्मतुः श्यामतां स्तनौ ॥ २०.१४ ॥

जानुनोरुपरि न्यस्य पाणी पल्लवकोमलौ ।
दृष्ट्वा भर्तारमुत्तस्थौ सा कथंचिदिवासनात् ॥ २०.१५ ॥

अद्य प्रसविनी स्यान्नु श्वो वेति सकुतूहलः ।
पुत्रार्थी भूपतिः स्निग्धं तामपश्यत्पुनः पुनः ॥ २०.१६ ॥

अथ विशुद्धेऽहनि साक्ष्णां निधिमिव स्वप्रभयावभासितनृपतिभवनान्तरममरकुमाराकारमखिलभुवनालंकारभूतं तनयमसूत ।

शरीरप्रभया चान्द्रीं स जहार यतः प्रभाम् ।
तस्याकारि ततो नाम चन्द्र इत्येव बन्धुभिः ॥ २०.१७ ॥

अन्यासामपि त्रिंशन्मात्राणां राज्ञीनां तनया जज्ञिरे । अथाष्टवर्षदेशीयांश्चन्द्रेण कुमारेण सह कुमारान् क्षत्रविद्याग्रहणाय कस्मैचिद्गुरवे निवेदयामास । सर्वांश्च तान् कुमारान्मृगयादिव्यसनपरायणाननेकैः कलागुणैस्तेजसा भुजबलेन च चन्द्रः कुमारोऽतिशिष्ये ।

जायन्ते गुणबान्धवाः सुमतयः श्लाघ्यं गरिम्णां पदं रूढं लाघवदोष एव महतां केषांचिदा जन्मनः ।
दृश्यन्ते हि नरा महत्यपि कुले जाताः समानाः शुना किं नोदन्वत इद्धरत्ननिचयाच्छम्बूक उत्पद्यते ॥ २०.१८ ॥

समाना नीलता सत्यं शिखिचन्द्रेन्द्रनीलयोः ।
सा तु रत्नगता श्लाघ्या कल्याणं हि सदाश्रयः ॥ २०.१९ ॥

विद्यन्ते न गुणाः पुंसि क्वचिदाकृतिमत्यपि ।
इन्द्रनीलाकृतिं काचो वहन्नपि न तद्गुणः ॥ २०.२० ॥

अथ स राजा बोधिसत्त्वं यौवराज्येऽभिषिच्य तेभ्योऽपि च कुमारेभ्यः किंचिद्देशमदात् । अथ च चन्द्रो मनुजाधिपानुमतः सह भ्रातृभिः स्वदेशं गत्वा खण्डधारनामाङ्कानि दृष्ट्वोवाच । सर्वथा नाममात्रेणास्मत्पिता राजा खण्डधार एवात्राधिपतिरिति । कुमारा ऊचुः । नन्वपनीयेदं खण्डधारनाम स्वानि स्वानि स्वदेशे नामानि वयं सर्वोपकरणेषु लेखयामः । तथेति च प्रतिपन्ने चन्द्रेण प्रथमं चन्द्रनामारोप्य पश्चादात्मीयानि नामानि ते लेखयामासुः । तच्च तथा निर्वृत्तं विज्ञाय खण्डधारः परं कोपमागम्य ब्राह्मणान् संनिपात्य रहस्यवोचत् । अपहृतमनेन मे राजपुत्रेणाधिपत्यम् । तदिदमत्र प्राप्तकालं केनचिदुपांशुना चन्द्रः प्राणैर्वियोजनीय इति । पश्यन्तु भवन्तः ।

लघीयः प्राज्यं वा फलमभिमतं प्राप्तुमनसा निरीहेण स्थातुं क्षणमपि न युक्तं मतिमता ।
कुलालो दण्डेन भ्रमयति न चेच्चक्रमनिशं शरावः कुम्भो वा न हि भवति सत्यामपि मृदि ॥ २०.२१ ॥

ब्राह्मणा ऊचुः । त्वमेवोपायमत्र वस्तुनि शक्तोऽधिगन्तुमिति । खण्डधार उवाच । यद्येवं ततो यदि कथंचिदयं राजा स्वप्नं भवतामग्रतो निवेदयेत्ततो युष्माभिर्वक्तव्यं देव खण्डधारः स्वप्नफलाभिज्ञः । स एष प्रष्टव्य इति । तथेति च ब्राह्मणाः प्रतिपेदिरे । अथ कदाचित्स राजा स्वप्नदर्शनोद्विग्नहृदयस्तेभ्यो ब्राह्मणेभ्यः स्वप्नं निवेदयामास । ब्राह्मणैश्च खण्डधारः स्वप्नाध्यायवेदीति निर्दिष्टः । ततः स राजा खण्डधारमाहूय स्वप्नमिति निवेदयामास ।

स्वप्ने किलाद्य पुरमेतदशेषमन्त्रैरावेष्टितं परिविधूसरदीनलोकम् ।
बद्ध्वा निपीडिततनुः कुनयेन चाहं क्षिप्तश्चिताभुवि कडेवरसंकुलायाम् ॥ २०.२२ ॥

तदस्य तावत्स्वप्नस्य गुरवः फलमाख्यातुमर्हन्तीति । खण्डधार उवाच । देव कष्टः खलु स्वप्नस्य विपाको दृश्यते ।

राज्याद्वा महतो भ्रंशं स्वप्नस्तत्सूचयत्ययम् ।
मासद्वयेन गन्तव्यं दिष्टान्तमथवा त्वया ॥ २०.२३ ॥

श्रुत्वा वचस्तस्य स भूमिपालो विप्रस्य विप्रोषितकान्तिशोभः ।
मर्तव्यमित्यागतसाध्वसत्वान्नोद्यानभूमौ न गृहेऽभिरेमे ॥ २०.२४ ॥

विचिन्त्यमानं मरणं प्रकृत्या करोति दूरेऽपि मनोविषादम् ।
समुत्फणाशीविषदुर्निरीक्ष्यं शरीरिणां किं पुनरत्युपोढम् ॥ २०.२५ ॥

अथ स राजा खण्डधारमुवाच । भवेत्पुनः कश्चिदुपायो येनाहं राज्यपरिभ्रंशं न प्राप्नुयामकालमरणं वेति । खण्डधार उवाच । तेन खलु देवः श्रोतुमर्हत्युपायमिति । सह चन्द्रेण कुमारेण सर्वकुमारा यज्ञकर्मण्यालब्धव्या अन्ये च चतुष्पदाः प्राणिनः ।

तल्लोहितस्य शुकतुण्डविलोहितस्य पूर्णां वितानभुवि पुष्करिणीं विशालाम् ।
भूपाल यद्यवतरिष्यसि तन्न राज्याद्भ्रंशं गमिष्यसि परेतपतेर्वशं वा ॥ २०.२६ ॥

अथ स राजा पुनरपि मे जीवतः पुत्रा गुणवत्तरा भविष्यन्तीति विचिन्त्य तान् कुमारान्निगडबद्धानानीय खण्डधारमुवाच । प्रारभ्यतामाध्वरं कर्मेति ।

ततः कुमारेषु भृशं विषादिषु प्रवर्तिते कर्मणि साप्ततन्तवे ।
महीभुजो ज्येष्ठसुताद्विनाकुलः स मन्त्रिधूर्तो निजगाद पार्थिवम् ॥ २०.२७ ॥

नृचन्द्र चन्द्रः स भवच्छरीरजो बलावलिप्तो यदि नागमिष्यति ।
तदा शुभध्वंसि विधानमाध्वरं भविष्यतीदं न फलाय भूयसे ॥ २०.२८ ॥

राजोवाच । गुरुजनभक्तः खलु चन्द्रः कुमारस्तन्न ममाज्ञां लङ्घयिष्यति । दूतमस्मै प्रहेष्यामीति । तथेति च प्रतिपन्ने खण्डधारेण स राजा दूतमाहूयोवाच । गच्छ यत्र तत्रावस्थितं चन्द्रं ब्रूहि शीघ्रं भवता मत्सकाशमागन्तव्यमिति । तथेति स च दूतः परिगृहीतराजशासनो बोधिसत्त्वसकाशमाजगाम । स च महात्मा सपरिजनः सुरभिमासप्रारब्धसहकारमञ्जरीकमतिमुक्तकाशोकतिलकगन्धाधिवासितलतामण्डपमखण्डशोभं विलासवसतिमिव वसन्तलक्ष्म्याः किंचिदुद्यानं प्रविश्यात्मानं विनोदयामास । प्रतीहारनिवेदितोऽभ्यनुज्ञातप्रवेशश्च दूतः प्रततबाष्पकणवर्षिणा मुखेन प्रणम्य चन्द्रं कथमपि तमनेकसत्त्वविनाशायोपचरितमध्वरवृत्तान्तमाख्याय तां राजाज्ञां निवेदयामास । ततो बोधिसत्त्वं सुहृदो बान्धवाश्चैवमूचुः । सर्वमिदं तव नाशाय दुरात्मनः खण्डधारस्य च्छन्दविचेष्टितम् । महाधूर्तस्य यतेरिव शान्ता च शरीरक्रिया राक्षसस्येव चाशुद्धमन्तःकरणम् । अहो दुरात्मनां चरितानि सर्वथा ।

प्रशान्तवेषेऽपि विरूक्षमानसे न दुर्जने विश्वसनीयमण्वपि ।
बको हि तिष्ठन्नपि निश्चलस्तटे परिस्फुरन्तीं शफरीं न हन्ति किम् ॥ २०.२९ ॥

उपनयति विषादं धैर्यमप्याश्रितानां जनयति परिमोहं तापमन्तर्विधत्ते ।
अहिविषमिव दंशप्राप्तमेकान्ततीव्रं चरितमभजनीयं दुःसहं दुर्जनस्य ॥ २०.३० ॥

तदाज्ञापयतु कुमारो यावदेनं दुरात्मानं रक्षोवृत्तिमफलब्राह्मणनामानं खण्डधारकं बद्ध्वानयामः परेतनाथवशं वा प्रापयाम इति । बोधिसत्त्व उवाच । सत्यं ममापि खण्डधारं प्रति किंचिदभ्युत्थितः कोप आसीत् । स तु मे हुतवह इव सलिलधारया क्षमयोपशान्तिं नीतः । यदि चास्मत्प्राणैर्गुरवश्चिरजीविनो भवन्ति ननु कृतार्था वयमिति तदलमत्रभवतां खण्डधारं प्रति कोपेन यास्याम्येवाहम् । अथ स दूतो विस्मयादित्यवोचत् । अहो महदाश्चर्यं सर्वथा कुमारः परमार्थक्षमी । कुतः ।

उत्तिष्ठन्तं यस्य वैरिक्षयाय क्रोधव्यालं क्षान्तिविद्या रुणद्धि ।
श्रेयःप्राप्तो बद्धशुद्धाशयानां लब्धालोकः सोऽग्रणीः क्षान्तिभाजाम् ॥ २०.३१ ॥

अथ बोधिसत्त्वो बाष्पसलिलकणमुचा स्वपरिजनेनानुगम्यमानो रथवरमारुह्य यज्ञमध्यगतं पितरमागम्य चोवाच ।

त्यक्तोऽस्मि यदि तातेन स्वजीवितगवेषिणा ।
मम देहमिमं यज्ञपशुतामुपकल्पय ॥ २०.३२ ॥

मया त्यक्तोऽसि पुत्रेति ब्रुवाणस्य महीपतेः ।
चन्द्रस्योपरि दुःखेन निपेतुर्बाष्पबिन्दवः ॥ २०.३३ ॥

यदा चिरमपि स्थित्वा गन्तव्यं मृत्युगोचरम् ।
तदा परविनाशेन को वाञ्छेदायुषः स्थितिम् ॥ २०.३४ ॥

अथ खण्डधारस्तानृत्विज उवाच । शृण्वन्तूपाध्यायाः प्रथमाहुतौ पात्यमानायां चन्द्रः कुमारः प्रागानद्धव्यः पश्चादिमे कुमारा इति ।
इति ब्रुवाणमुद्ग्रीवाः खण्डधारं व्यलोकयन् ।
कुमाराः सुकुमाराङ्गाः शार्दूलं हरिणा इव ॥ २०.३५ ॥

अथ ते कुमाराः कृताञ्जलयो बोधिसत्त्वमिति विज्ञापयामासुः ।

त्वयि स्थिते भ्रातरि लोकवत्सले महात्मनि ज्यायसि तुङ्गचेतसि ।
पशूनिवास्मान् कथमेष निर्घृणो यमक्षयं नेष्यति खण्दधारकः ॥ २०.३६ ॥

अथ तेषां भ्रातॄणां वचनमाकर्ण्य दुःखायमानहृदयो बोधिसत्त्वो मैत्रीसमन्वितं समाधिमाललम्बे ।

समाधिना तस्य विशुद्धचेतसः समाहतानां च समाहितात्मनः ।
भुजङ्गनीलानि सविस्मयात्मनां नृपात्मजानां निगडानि पुस्फुटुः ॥ २०.३७ ॥

निगडस्फुटनविस्मिते च तस्मिन् राजनि किमिदमिति च जातविमर्शे तत्र खण्डधारके ।

उदियाय पयोगुरुः पयोदः पिदधद्द्यां शितिकण्ठकण्ठनीलः ।
स्फुरितप्रभया तडिद्भृकुट्या कुपितो राक्षसवज्जगर्ज चोच्चैः ॥ २०.३८ ॥

खगमुक्तविभग्नपादपानि ध्वनिमन्ति प्रचलच्छिलातलानि ।
शिखराणि निपातयन् गिरीणां प्रववौ वह्निसखः प्रचण्डवेगः ॥ २०.३९ ॥

प्रमुमोच ततो घनाघनं तद्घनजालं घनमश्मनां समूहम् ।
भृशमाकुलचेतसां द्विजानां मखमध्ये प्रणवध्वनिः शशाम ॥ २०.४० ॥

परिपाटलयन् पयोधराणामुदराणि प्रभया पयोगुरूणि ।
द्रुतमस्तमियाय पार्थिवस्य व्यसनं द्रष्टुमशक्नुवन्निवार्कः ॥ २०.४१ ॥

कुपितैरिव शातकुम्भकुम्भाः क्रतुभूमौ निहिताः प्रताड्यमानाः ।
उपलैस्त्वरितं दिवः पतद्भिः कृतभङ्गाः परिचक्वणुश्चलन्तः ॥ २०.४२ ॥

प्रशशाम भयादिवाध्वराग्निः परितः प्रस्फुरिताकुलस्फुलिङ्गः ।
गलितश्लथपाण्डुधूमजालो गगनादश्मभिराहतः पतद्भिः ॥ २०.४३ ॥

करिणां गुरुलोहकोशबद्धा रदनाः श्लिष्टमृदस्तटाभिघातात् ।
उपलाभिहताः परिक्वणन्तो मुमुचुः प्रस्फुरितत्विषः स्फुलिङ्गान् ॥ २०.४४ ॥

निपपात शिखी निवासयष्टेः कृकवाकुर्विरसं ररास भीतः ।
उपलाभिहताश्च लोलनेत्रा विविशुश्छेकमृगा गृहोदराणि ॥ २०.४५ ॥

शिशिरं जलदानिलं पिपासुः पृथुवल्मीकविनिर्गतार्धभोगः ।
फणमाशु सफूत्कृतं वितन्य प्रविवेशाश्मभिराहतो भुजङ्गः ॥ २०.४६ ॥

परिहृत्य तु बोधिसत्त्वमारात्सकुमारं निपतत्सु वेगवत्सु ।
उपलेषु नृपः सखण्डधारो भवनं भीतजनाकुलं प्रतस्थे ॥ २०.४७ ॥

सचिवस्य महीपतेश्च यातोस्तडिदुद्द्योतविभावितेऽर्धमार्गे ।
अशनिः शिरसी बिभेद भेदच्युतमस्तिष्कलवोपदिग्धकेशे ॥ २०.४८ ॥

मृतमश्रुमती जनान्निशम्य क्षितिपालं क्षितिपालपूजिताज्ञम् ।
मृदुचित्ततयातिदुःखभारात्सहसा जीवितमुत्ससर्ज देवी ॥ २०.४९ ॥

अथ भीतजनोज्झितान्तरालं भवनं भूमिपतेः स्फुटत्कपाटम् ।
उपलाभिहतं पपात सद्यः कनकस्तम्भविभङ्गजातनादम् ॥ २०.५० ॥

मृतौ भवेतामथ किं नु जीवितौ शठाशयौ पार्थिवखण्डधारकौ ।
इति स्फुरद्भिः परितः पयोधरा रुषेव विद्युन्नयनैर्व्यलोकयन् ॥ २०.५१ ॥

अथ प्रभातसमये बोधिसत्त्वः पित्रोरग्निसंस्कारं कृत्वा दत्तनिवापसलिलाञ्जलिः संविग्नमतिरहो सूक्तमिदं बुद्धानां भगवतामुत्पन्नप्रध्वंसिनः सर्वभावा इति विचिन्त्य तान् भ्रातॄनुवाच ।

मां पुत्रवृक्षं संवृद्ध्यै सा सिक्त्वा स्नेहवारिणा ।
अनवाप्तफला मत्तः क्व याता जननी मम ॥ २०.५२ ॥

पृथिवीं पृथिवीपालः पालयित्वा पिता मम ।
क्व यातः खण्डधारेण सह खण्डितधर्मणा ॥ २०.५३ ॥

स्मरणीयविभूतीदं पतितस्तम्भतोरणम् ।
शोचन्तीव गुरोः सद्म विच्युताः शालभञ्जिकाः ॥ २०.५४ ॥

इमा विषमसंपातस्फुटिता गलितेष्टकाः ।
आत्मानमिव शोचन्ति धूसराश्चित्रभित्तयः ॥ २०.५५ ॥

किं नु संगीतशालेयमुत वासगृहं भवेत् ।
कृच्छ्रादित्यनुमीयन्ते भागा भग्नस्य वेश्मनः ॥ २०.५६ ॥

आसीदिह गृहं स्थाने श्रीमत्तस्य महीपतेः ।
इत्युत्सुको जनः शोकादन्येभ्यः कथयिष्यति ॥ २०.५७ ॥

निःश्रीकमुपलाघातपरेतशुककोकिलम् ।
इदं च भवनोद्यानं ध्यायतीव महीपतेः ॥ २०.५८ ॥

अनिष्ठितसुखाशानां विपत्तिं प्रतिपालयन् ।
इतिशब्दः समाप्त्यर्थः सोत्कण्ठ इव तिष्ठति ॥ २०.५९ ॥

पुंसामच्छिन्नकृत्यानां करिष्यति करोति च ।
चकार च समाप्त्यर्थमितिशब्दमनित्यता ॥ २०.६० ॥

स्थितायां मय्यपि व्योम नित्यमित्यभिधीयते ।
इत्यूर्ध्वमिव पश्यन्ती क्रोधात्तिष्ठत्यनित्यता ॥ २०.६१ ॥

अपराधीनवृत्तित्वादुपलब्धमनःशमाः ।
अपास्तबान्धवस्नेहा निःसङ्गाः सुखमासते ॥ २०.६२ ॥

संकल्पाद्विषयाभिलाषिणि जने तृष्णा करोत्यास्पदं तृष्णाबद्धमना निकारमलिनं बध्नाति सेवाञ्जलिम् ।
सेवार्तः परमारिराधयिषया निघ्नो भवत्यन्धवन्निघ्नो दुःखपरम्परापरिभवक्लेशैरधिष्ठीयते ॥ २०.६३ ॥

कृच्छ्राल्लब्धमपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापमेति पुरुषश्चित्तानलं ज्वालयन् ।
दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी तेऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यगल्पेच्छता ॥ २०.६४ ॥

ततोऽहं राज्यमुत्सृज्य बहुव्यसनकण्टकम् ।
शान्त्यै शान्तिपथस्थानं गमिष्यामि तपोवनम् ॥ २०.६५ ॥

अथाभिषिच्यानुजमाहितक्रियं द्विजातिभिर्भ्रातरमुद्यताशिषम् ।
विहाय लक्ष्मीं तपसो विवृद्धये वनाय वव्राज स धीरमानसः ॥ २०.६६ ॥

तदेवं तेन भगवता बोधिसत्त्वभूतेनापकारिण्यपि क्षमा न शिथिलीकृतेति विचिन्त्य श्रेयोगवेषिभिः क्षान्तिबलैर्भवितव्यमिति ॥

॥ चन्द्रजातकं दशमम् ॥


__________________________________________________________________________


...


__________________________________________________________________________





२२. मृग


न विना वीर्यात्तन्वपि फलमीप्सितमाप्यते जगद्भूत्यै ।
इति खेदमगणयित्वा व्यायच्छन्ते महाभागाः ॥ २२.१ ॥

तद्यथानुश्रूयते
क्वचिदमलसलिलवाहिन्या वेतसपङ्क्तिश्यामतीरलेखया मद्गुकुलानुगम्यमानचकितमीनकुलाकुलाम्भस्तलया प्रसारितदुकूलधवलपुलिनया निम्नगया परिक्षिप्तभूधरपार्श्वे क्वचिद्दावानलार्धदग्धपरिणतामलकाक्षबदराकीर्णवसुधातले मरकतसूचीहरितदर्भाङ्कुरोपचिते क्वचिद्वराहावतरणसंत्रासपरिप्लुतदर्दुरपरिमुच्यमानपल्वलतटान्तेऽन्यत्र मृगपिशिताध्मातप्रसुप्तशार्दूलाध्यासितगुहामुखे विविधवल्लीवलयपरिवेष्टितनिम्नकुटिललेखाङ्किततरुस्कन्धे घनपलाशवंशीवनरोधान्धकारनिकुञ्जे गहनान्तरे बोधिसत्त्वो मृगयूथाधिपतिर्बभूव । तेन च महात्मना राज्यमिव सद्वृत्तेन नरपतिनानुपाल्यमानं हरिणयूथमकुतोभयं महतीं वृद्धिमगमत् ।

हरिणं हरकण्ठनीलपृष्ठं हरिसत्त्वं हरितं तृणं दशन्तम् ।
सदसत्पथवेदिनं मृगास्ते तमुपाध्यायमिवान्वगुः सुशिष्याः ॥ २२.२ ॥

अथ कदाचित्प्रियमृगयस्य तन्मृगयूथं व्याधसकाशात्कस्यचिदवनिपतेः श्रुतिपथमाजगाम । स च राजा गृहीतधन्वा तुरगवराधिरोही सैन्यपरिवृतस्तद्वनमागम्य दूरात्तं मृगयूथमालोकयामास ।

विहाय रोमन्थनमुन्मुखस्थिरः स कृष्णसारः शरपातशङ्कितान् ।
मृगान्निनीषुं शरगोचरं नृपं विलोकयामास चमूपुरःसरम् ॥ २२.३ ॥

विलोक्य संभूतखलीननिस्वनं जिघांसु तत्सैन्यमधिज्यकार्मुकम् ।
मृगैः परीतो भयलोलदृष्टिभिः स यूथभर्तेदमचिन्तयद्ध्रुवम् ॥ २२.४ ॥

महीपतिः पाति सुखं सुखार्थिनीं प्रजामनुत्पन्नभयां शुभाश्रयात् ।
अचिन्तयित्वात्मगतं परिश्रमं स रक्षिता यो व्यसनेऽपि रक्षति ॥ २२.५ ॥

अमून् भयभ्रान्तविलोललोचनान् परिस्रवच्छोणितसिक्तभूतलान् ।
मृगान् पुरस्तात्पततः स्फुरत्तनून् विलोकयिष्यामि कथं शराहतान् ॥ २२.६ ॥

मृगांस्तदेनान्मृगयाविनोदिनो न यावदाघ्नन्ति शितैः शिलीमुखैः ।
बलेन तावद्भयलोलचक्षुषां प्रयत्नमेषां करवाणि रक्षणे ॥ २२.७ ॥

इदं वनमनेन सैन्येन सर्वतः परिक्षिप्तं तत्कतमया दिशा मृगयूथं निर्वाहयामीति समन्ततोऽवलोक्याचिन्तयत् । भवतु लब्ध उपायः । इमां गिरिसरितमुल्लङ्घ्य स्वस्ति मृगेभ्यः स्यादिति तर्कयामि । न चैकेन क्रमेणैते हरिणाः शक्यन्त एतां शीघ्रसलिलवाहिनीं समुद्रपत्नीमुल्लङ्घितुमिति । तदिदमत्र प्राप्तमस्याः सरितो मध्यावस्थितस्य मम पृष्ठे क्रमं दत्त्वा सुखमेते मृगा यास्यन्तीति विचिन्त्य क्वचित्तटतरुशिखाप्रस्खलितसलिलायाः परिभ्रमदावर्तमध्यभ्रान्तविशीर्णफेनसङ्घायास्तस्याः क्षितिधरसरितो मध्यमवगाह्य स्थिरयित्वात्मानं स महात्मा तान्मृगानुवाच ।

परिप्लुत्य तटादस्माद्दत्त्वा पृष्ठे क्रमं मम ।
यात यातभयाः शीघ्रं स्वयूथ्याः संकटादितः ॥ २२.८ ॥

शरीरं विशरारुत्वाद्धर्माभावाच्च फल्गु मे ।
युष्मन्निर्वाहणात्सारं लप्स्यते सुचिरादिदम् ॥ २२.९ ॥

परोपकारविमुखो यदा कायः कलिस्तदा ।
यदा त्वन्यद्धितालम्बी कायरत्नमिदं तदा ॥ २२.१० ॥

परिपातुमहं भयात्समर्थो यदि युष्मान्नृपसैनिकानुबद्धान् ।
सफलोऽद्य भवेत्ततः पृथिव्यां मम यूथाधिपतित्वशब्द एषः ॥ २२.११ ॥

आगम्यतां तदधुना ननु तावदेव युष्मासु यावदिषवो न पतन्ति शाताः ।
पृष्ठं ममाचलसरिज्जलसेतुभूतमारुह्य निस्तरत सैन्यभयादमुष्मात् ॥ २२.१२ ॥

अथ ते हरिणा मरणभीता यूथपतिपृष्ठे क्रमं दत्त्वा नदीसलिलमुल्लङ्घ्य द्वितीयं कूलमुपगन्तुमारेभिरे ।

यथा यथा तस्य भृशं निपेतुः पृष्ठे मृगास्त्रासविलोलनेत्राः ।
तथा तथासौ मृगयूथभर्ता खुरान् स्थिरत्वं प्रसभं निनाय ॥ २२.१३ ॥

रुधिरमथ मृगाणां पत्युरुत्खातमांसात्खुरपुटपरिभिन्नात्तस्य चक्षार पृष्ठात् ।
मृगकुलमचलान्तं गच्छदालोक्य चारात्स रुजमगणयित्वा प्रीतिमेवाललम्बे ॥ २२.१४ ॥

परिपालितसत्त्वानामुपायेन बलेन वा ।
रुणद्धि महतां दुःखमन्तःप्रीतिपरम्परा ॥ २२.१५ ॥

अथ स राजा हरिणनिस्तरणाय सरित्सलिलमध्यसंक्रमीभूतात्मानं यूथपतिमालोक्य विस्मयमागम्य शरासनेषु शरान् संदधानं सेनाजनमुवाच । यः खलु कश्चिन्मृगमाहन्यात्सोऽस्मद्द्रोहीति ।

अथाववादमाकर्ण्य स जनस्तस्य भूपतेः ।
बाणविश्लेषिणः सद्यश्चकार धनुषो गुणान् ॥ २२.१६ ॥

बोधिसत्त्वोऽपि च किं नु निस्तीर्णाः सर्वे मृगाः स्युर्न वेति पश्चादालोकयन्नपश्यदेकमतीव भयचञ्चलाक्षमतिक्रान्तं यूथमालोकयन्तमसामर्थ्यादनुत्सहमाणं क्रमं दातुं कतमया दिशा गच्छामीति दोलायमानहृदयं हरिणशावकमालोक्य च परमां करुणामाललम्बे ।

जहीहि शङ्कां न हि बोधिसत्त्वो भवन्तमुत्स्रक्ष्यति बालमेकम् ।
द्विरेफशब्दैरिति पुष्पवन्त आश्वासयामासुरिव द्रुमास्तम् ॥ २२.१७ ॥

अथ यूथपतिः प्रत्युत्तीर्य तस्मात्सलिलात्तं मृगशावकमुवाच ।

अङ्गाधिरुह्य मत्पृष्ठं विमुञ्च मरणव्यथाम् ।
भवन्तं सरितः पारं नेष्याम्यहमितस्तटात् ॥ २२.१८ ॥

उद्धर्तुं वीर्यमारब्धं येन लोकं भवार्णवात् ।
स त्वां नोत्तारयिष्यामि कथमेकं नदीजलात् ॥ २२.१९ ॥

अथ तेनाधिरूढोऽसौ मृगशावेन वीर्यवान् ।
जगाहे करुणालम्बी सरितं वीचिमालिनीम् ॥ २२.२० ॥

अमूनि पृष्ठे तव विक्षतानि रुजं न गाढां जनयन्ति कच्चित् ।
इति ब्रुवाणेव समुत्तरन्तं परामृशत्तं सरिदूर्मिहस्तैः ॥ २२.२१ ॥

अथ यूथाधिपतिस्तं मृगशावकमुत्तार्य तस्याः सरितः प्रहर्षविशाललोचनया मात्रा संयोजयामास ।

कृत्वाथ जानुनी भूमौ मृगशावः पिपासितः ।
जग्राह त्वरितं मातुः संभूतप्रस्रुती स्तनौ ॥ २२.२२ ॥

सा चैनं परिवृत्तास्या स्तन्यपानचलाननम् ।
आलिलेह मुहुः स्नेहाज्जिह्वया चलिताग्रया ॥ २२.२३ ॥

अथ बोधिसत्त्वः परिश्रमवशात्खुरक्षतवेदनया चावसन्नशरीरप्रयत्नः ।

कथंचिदन्विष्य खुराङ्कशाद्वलां शनैर्मृगाणां पदवीं समाकुलः ।
निविश्य मन्दं रुधिरोक्षितः क्षितौ क्षणं विशश्राम स संभृतश्रमः ॥ २२.२४ ॥

इमां दशां निर्घृणयाद्य वत्स सत्या जनन्यापि मयासि नीतः ।
इति क्षताङ्गं करुणानुतापाद्भृशं रुरोदेव तमीक्षमाणा ॥ २२.२५ ॥

स च राजा तां सरितमुत्तीर्य सपरिजनस्तुरगादवतीर्य विस्मितमनास्तं महात्मानमुपससाद । स यूथाधिपती राजानमालोक्याब्रवीत् ।

अभ्युत्थानार्हमालोक्य यत्त्वां नाहं समुत्थितः ।
नादाक्षिण्यं तदेतन्मे श्रमेणास्म्यवसादितः ॥ २२.२६ ॥

अथ स राजा सविस्मयमुपविश्य कुशलं पृष्ट्वा यूथपतिमिति संराधयन्नुवाच ।

निर्व्रीडैः परमुपहन्तुमुद्यतास्त्रैर्भोगेच्छातिमिरनिरुद्धबुद्धिनेत्रैः ।
धर्मज्ञो हरिणमुनिः कृपासहायो मादृक्षैर्नरपशुभिस्त्वमर्चनीयः ॥ २२.२७ ॥

बिभर्ति भृत्यान्नृप आत्मरक्षणं विधित्सुरायोधनकालनिर्भयान् ।
स्वयूथरक्षापटुना तु सर्वथा नयेन ते भूमिभुजां जितो नयः ॥ २२.२८ ॥

चित्रं किमत्र बहवो यदि भूमिपालं भृत्या रणान्तरगतं परिपालयन्ति ।
एकेन नाम हरिणा बहवस्त्वयामी यत्पालिताः खलु तदद्भुतमेतदत्र ॥ २२.२९ ॥

बहुगुणकरुणान्विता तवेयं गुणविकलां करुणावियोगलघ्वीम् ।
हरिण हरिणता विशेषलाभादवहसतीव मनुष्यतां ममैताम् ॥ २२.३० ॥

इत्यभिसंराध्य स राजा यूथपतिमपृच्छत् । कीदृशं पुनरनेन परोपकारपटुना वीर्येण भवान् पदमभिलषति । बोधिसत्त्व उवाच ।श्रूयतां महाराज ।

बुद्धत्वमधिगन्तुं मे वीर्यं वीर्यवतां वर ।
यथाशक्ति मृगत्वेऽपि सतीदं नावसीदति ॥ २२.३१ ॥

यथा मयामी हरिणा भयाकुलाः प्रतारिता भीमरयान्नदीजलात् ।
तथा बहुक्लेशसमाकुलं जगत्प्रतारयेयं भवदुःखतोयधेः ॥ २२.३२ ॥

न च महाराज शक्यते वीर्यपराङ्मुखेन बलवताप्यभिलषितं पदमभिगन्तुम् । पश्य ।

आलस्यात्ससहायोऽपि न गच्छत्युदयं जनः ।
हस्ताग्रात्स्खलितो भूमौ तोयार्द्र इव कन्दुकः ॥ २२.३३ ॥

अपि च ।

विपश्चिताप्यलसधिया सुखाश्रयं न शक्यते पदमभिगन्तुमुच्छ्रितम् ।
अवाहितं वहनमरित्रधारिभिश्चिरादपि व्रजति न पारमम्बुधेः ॥ २२.३४ ॥

राजोवाच । सम्यगभिहितं मृगयूथाधिपतिना । कुतः ।

जातस्यापि कुले विशुद्धयशसि प्रख्यातभोगोदये प्राप्तस्यापि सभासु पण्डितधुरामग्र्यां विपश्चित्तया ।
आलस्यान्न मनोरथः सकृदपि प्राप्नोति पुंसः फलं लक्ष्यं नैति गुणार्पितोऽपि विशिखः क्षेप्तुः प्रयत्नाद्विना ॥ २२.३५ ॥

तदित्थं वीर्यावलम्बिना भवता शक्यमधिगन्तुं बौद्धं पदमिति ।

ये शान्तं पदमारुरुक्षव इह क्लेशैरभिन्नाशयास्त्वत्तः प्राक्कृतिनः कृतप्रणिधयो बोधौ घटन्ते जनाः ।
तेषां वर्त्मनि वाजिनामिव परिश्रान्त्या शनैर्धावतामाजानेय इवोज्झितश्रमभयो भावी भवानग्रिमः ॥ २२.३६ ॥

बिभ्राणं परिवेषिणीं वितमसां देहत्विषां संहतिं धर्मं धर्मकथाभिलाषिणि मुहुः प्रख्यापयन्तं जने ।
छिन्नक्लेशनिबन्धनं गुणधनैरभ्यर्चितं सूरिभिस्त्वां बुद्धत्वमुपागतं गतभवं द्रक्ष्यन्ति धन्या जनाः ॥ २२.३७ ॥

इति स राजा बोधिसत्त्वमभिसंराध्योवाच । अहो भवन्तमेवं धर्माभिमुखमालोक्य ममापि धर्माभिलाष उत्पन्नः ।

तदाचक्ष्व महाबुद्धे धर्मं धर्मविदां वर ।
सेव्यमानेन शुद्धेन येन यायां न दुर्गतिम् ॥ २२.३८ ॥

बोधिसत्त्व उवाच । यद्येवमतः श्रोतुमर्हति महाराजः ।

अवद्याद्विनिवृत्तिश्च प्रवृत्तिश्च शुभाश्रये ।
धर्मतत्त्वमिदं सम्यगाख्यातं ख्यातबुद्धिभिः ॥ २२.३९ ॥

स्फुटीकृतेऽपि तत्त्वेऽस्मिन् प्रकाशितशुभाशुभे ।
यो गच्छति विमार्गेण सोऽन्धः सत्यपि चक्षुषि ॥ २२.४० ॥

इति प्रज्ञाप्रदीपेन विलोकितमहापथः ।
भजस्व भजमानानि कर्माणि क्लेशहानये ॥ २२.४१ ॥

क्षितीश क्षपिताज्ञान क्षितिं धर्मेण पालय ।
तीक्ष्णदण्डाद्भूमिपालान्नित्यमुद्विजते जनः ॥ २२.४२ ॥

यदि यशसि मृणालभङ्गशुक्ले जगदवभासिनि तेऽस्ति काचिदिच्छा ।
फलमभिमतमाप्तुकामता वा बिभृहि गुणाभरणं ततो विशुद्धम् ॥ २२.४३ ॥

अथ स नरपतिरहो भवतोऽनया धर्मदेशनया प्रह्लादितमिदं मे हृदयमित्यभिधाय परां प्रीतिमाजगाम ।

ततो यूथपतेस्तस्य खुरक्षतसमुत्थया ।
आविष्टस्य रुजा गुर्व्या निमिमीलतुरक्षिणी ॥ २२.४४ ॥

तस्याथ नृपतिः कृत्वाचितां चन्दनदारुभिः ।
अग्निसंस्कारमकरोत्कृतिनः पुण्यजन्मनः ॥ २२.४५ ॥

अथ तत्र गते सुहृदीव दिवं हरिणे करुणाविमलप्रकृतौ ।
अनुशोच्य चिरं वसुधाधिपतिः पुरमागमदाशु वितानमनाः ॥ २२.४६ ॥

तस्मिन्मृगे मृगवधूसदृशेक्षणाभिः सत्त्वोपकारकुशले कुशलान्विताभिः ।
ज्ञाताविव व्युपरते विरतक्रियाभिरच्छिन्नमश्रु मुमुचे वनदेवताभिः ॥ २२.४७ ॥

प्रावेपताथ वसुधा चलिताद्रिशृङ्गा वातानिलेन परिवर्धितसागरोर्मिः ।
भ्रान्तद्विरेफशबलश्च विकीर्णगन्धो मन्दारपुष्पनिकरो नभसः पपात ॥ २२.४८ ॥

निर्वाणकाले च भगवता भिक्षूनां पुरस्तादिदं जातकमभ्यधायि ।

मृगयूथाधिपस्तत्र वनेऽभूवमहं तदा ।
परिव्राट्च सुभद्रोऽयं बभूव मृगशावकः ॥ २२.४९ ॥

भगवतश्च प्राक्परिनिर्वृते तत्र सुभद्रे परिव्राजके भिक्षवः पप्रच्छुः । कानि पुनः कर्माणि सुभद्रेण कृतानि यत्सर्वश्रावकेभ्यः पश्चादर्हत्फलं प्राप्य प्रथममेव च भगवतः परिनिर्वृत इति । भगवानाह ।

काश्यपो नाम बुद्धोऽभूज्ज्ञेयसागरपारगः ।
नाम्नाशोकोऽभवद्भिक्षुः स्वस्रीयस्तस्य तायिनः ॥ २२.५० ॥

सुलभं मे परं ज्योतिर्मातुले सुगते सति ।
अशोकः परिचिन्त्येति न व्यायच्छत मुक्तये ॥ २२.५१ ॥

देशान्तरमशोकेऽथ गते गतपुनर्भवः ।
काश्यपो निर्वृतौ चेतः कृतवान् कृतिणां वरः ॥ २२.५२ ॥

ततः स्थितेऽशोकतरोरधस्तादशोकभिक्षौ विनिबद्धशोका ।
महीरुहे तत्र कृताधिवासा मुमोच मुक्ताद्युति देवताश्रु ॥ २२.५३ ॥

भविष्यतीत्यद्य विचिन्तयन्त्या जिनस्य निर्वाणमनिर्वृतायाः ।
पपात पाराशरिणः शरीरे तस्यास्रमुष्णं वनदेवतायाः ॥ २२.५४ ॥

निरभ्रमेतद्गगनं कुतो नु ममेदमम्भः पतितं शरीरे ।
इति ब्रुवन्नुन्मुखमीक्षमाणः स देवतां तां रुदतीमपश्यत् ॥ २२.५५ ॥

पप्रच्छ चैनां परिदीनदीनां किं देवते रोदिषि जातशोका ।
सा चास्य कण्ठस्खलिताभिधाना भिक्षोः कथंचित्कथयां बभूव ॥ २२.५६ ॥

महामुनिः कारुणिको जगद्धितं विहाय दग्धानुशयेन्धनो वशी ।
प्रदाय निर्वास्यति काश्यपोऽधुना जनाय शोकं कृपणेति रोदिमि ॥ २२.५७ ॥

अकम्पिते वादिवचःपतङ्गकैः परिप्रकाशीकृतसत्पथापथे ।
मुनिप्रदीपे परिनिर्वृतिं गते जगत्त्रयव्यापि तमो भविष्यति ॥ २२.५८ ॥

निशम्य चेदं वनदेवतावचः स मर्मणीवाभिहतः शितेषुणा ।
पपात भूमौ विनिमीलितेक्षणश्चिरात्समुत्थाय च पर्यदेवत ॥ २२.५९ ॥

अपृच्छदेनं वनदेवतोत्सुका प्रचक्ष्व भिक्षो किमिति प्ररुद्यते ।
स मातुलो मे भगवानिति व्यथां कथं न यास्यामि स चेदमब्रवीत् ॥ २२.६० ॥

मनोहरं वाक्कुसुमं जिनद्रुमाद्गृहीतमत्यल्पमिदं प्रमादिना ।
जगत्त्रयक्लेशपरंपराहरं मया न लब्धं फलमल्पबुद्धिना ॥ २२.६१ ॥

इदं मनःसद्मनि मे कृताश्रयं निरोधकं मुक्तिपथस्य दारुणम् ।
विभिद्य कस्मान्न गतोऽसि निर्वृतिं तथागतेन्दोर्वचनांशुभिस्तमः ॥ २२.६२ ॥

अथ सा देवता तं भिक्षुमिदमवोचत् । अलमलमतिविषादेन । यावन्न निर्वाणमुपगच्छति स भगवांस्तावदेव भवन्तं मन्त्रप्रभावादाकाशेन नेष्यामीति । अनुकम्पितः स्यामहं भवत्येत्युक्तवति तत्र तथागतभागिनेये सा देवता तस्मादशोकान्मन्त्रपरिजप्तानि कुसुमान्यादाय ममैनमशोककुसुमाञ्जलिमीक्षमाणो नभसा गच्छन्तीं मामनुगच्छेत्युवाच ।

अथान्वगात्तां नभसा स देवतामशोकपुष्पाञ्जलिबद्धलोचनः ।
क्षणेन चागम्य तथागतान्तिकं जगाद बाष्पं विसृजन्मुहुर्मुहुः ॥ २२.६३ ॥

प्रमादिनं बालमपेतधीप्लवं निमग्नमज्ञानमहापयोनिधौ ।
मुनीन्द्र मां दुःखमहोर्मिपीडितं क्षणादनुत्तार्य कथं नु गच्छसि ॥ २२.६४ ॥

इति ब्रुवाणं परिगद्गदाक्षरं क्षरन्तमस्रं कलुषीकृतेक्षणम् ।
क्षणाद्विमोक्षाय निवर्त्य कापथात्पथा विशुद्धेन निनाय तं जिनः ॥ २२.६५ ॥

अथार्हत्फलभागिनं भागिनेयं कृत्वा सकलं च लोकं वचनांशुभिः प्रकाश्य काश्यपः सम्यक्संबुद्धः परिनिर्ववौ । परिनिर्वृते च तत्र भगवति शोकवशीकृतेषु सुरासुरकिन्नरमहोरगयक्षमनुष्येषु नभसः परिपतति मन्दारकुसुमवर्षे सा देवता शोकवशादिति तत्तद्विलपितुमारेभे ।

सिंहासनोपविष्टस्य वाक्पुष्पानि विमुञ्चतः ।
कस्य श्रोष्यति लोकोऽयं धर्मार्थी धर्मदेशनाम् ॥ २२.६६ ॥

त्वयि नाथ परं ज्योतिः प्राप्तेऽस्तमिव भास्करे ।
तमसा दुर्निवारेण निमीलितमिदं जगत् ॥ २२.६७ ॥

अद्य त्वयि गते शान्तिमशान्तेन मनोभुवा ।
जगन्मोहयितुं नूनं पुनरारोपितं धनुः ॥ २२.६८ ॥

गते मुनौ शान्तिमनाश्रया वयं क्व विश्रमिष्याम उदीर्णमन्यवः ।
गुणैरिति ज्ञेयपथानुगामिना मुनीन्द्र विक्रुष्टमिव त्वया विना ॥ २२.६९ ॥

भवन्तं बोधाय प्रणिधिमवलम्ब्य त्रिभुवने भ्रमन्तं सत्त्वार्थं स्थिरधियमहं नोज्झितवती ।
परित्यज्य त्वं मां किमिति जननीं वत्सल गतः प्रयाते त्वय्येवं रुदितमिव दीनं करुणया ॥ २२.७० ॥

अथ स भिक्षुरभ्यधात् । अलमलं देवते विषादेन न क्वचिदियमनित्यता न प्रहरति यत्रेदृशस्यापि भगवतो वज्रगुरुसारस्याभाव
इति । अथ सा देवता कथंचिदात्मानं धीरयित्वा प्रणिधिमिति चकार ।

मामागम्य यथानेन भिक्षुणासादितं फलम् ।
तथा शाक्यमुनेः शिष्यः पश्चिमः स्यामहं तदा ॥ २२.७१ ॥

अर्हत्फलं समासाद्य निर्वाणसमये मुनेः ।
तस्मात्प्राक्परिनिर्वायां सोढुं शोकमशक्नुवन् ॥ २२.७२ ॥

अथ भगवांस्तेषां भिक्षूणां पुरस्तादिदं वर्णयित्वा पुनरुवाच ।

यासावशोकनिलया बभूव वनदेवता ।
स परिव्राट्सुभद्रोऽयं भद्रचेता महामतिः ॥ २२.७३ ॥

प्रणिधानवशादेष मम श्रावकतां गतः ।
प्रथमं मम निर्वाणात्तस्मादेव च निर्वृतः ॥ २२.७४ ॥

इति जातकमेतदद्भुतं विधिवच्छाक्यमुनिप्रकाशितम् ।
विदुषां मनसः प्रशान्तये प्रथनीयं मधुराभिधायिना ॥ २२.७५ ॥

परहितकरणार्थं ख्यापितातिप्रतिज्ञैरपि विपदि न मुक्तो वीर्यसंनाहबन्धः ।
इति परिविगणय्य प्राप्तुमत्यन्तनिष्ठां भुवनहितविधाने मा स्म गातालसत्वम् ॥ २२.७६ ॥

॥ इति मृगजातकम् ॥


__________________________________________________________________________


...


__________________________________________________________________________



२४. मूलिकजातकम्


रिपुमपि नोपेक्षन्ते करुणामृदुचेतसो गदग्रस्तम् ।
लोकस्य बन्धुभूताः किं पुनरच्छिन्नजन्मानम् ॥ २४.१ ॥

तद्यथानुश्रूयते
समधिगतवेदवेदाङ्गतिहासः परमार्थज्ञः परमार्थाभिलाषी सर्वसत्त्वानुकम्पी मूलिको नाम ब्राःमणो बोधिसत्त्वो बभूव ।
स च महात्मा व्याधिमतां व्याधिप्रशमनाय हिमवन्मन्दरपरियात्रसह्यविन्ध्यवनान्तराण्योषधिनिमित्तं विचचार ।

आलोकयन्नथ भुजङ्गमवेष्टितानि सान्द्राणि चन्दनवनानि निदाघकाले ।
शृङ्गाग्रविस्खलनजर्जरिताग्रजालं बभ्राम सिद्धनिलयं मलयं कदा चित् ॥ २४.२ ॥

हारीततुण्डपरिखण्डितविद्युतानि पश्यन्नवानि मरिचानि दरीमुखेषु ।
जिघ्रन् समीरचलितं कुसुमाधिवासमध्यास्त खेदविगमाय शिलां स धीरः ॥ २४.३ ॥

कृतपरिश्रमविनोदश्च समुत्थाय महौषधीनां खनित्रेण मूलानि चखान ।
बद्ध्वा च महान्तमौषधभारं गच्छाम्यधुनाउषधप्रदानेन जनमनामयं करिष्यामीति विचिन्त्य मलयात्प्रतिष्ठमानो गाढग्लानिपरिपाण्डुतनुशरीरमुपान्तनिहितकमण्डलुपात्रं परिणततृणसंस्तरोपविष्टमग्रतोनिषण्णहरिणमिथुनमभिनवसंध्यासदृशचीवरप्रावृताङ्गमुपशान्तेन्द्रियं प्रत्येकबुद्धमद्राक्षीत् ॥

आलोक्य शान्तमथ तं विनयावलम्बी स्कन्धान्महान्तमवतार्य स मूलभारम् ।
भक्तिप्रसादभरमुद्गिरतेव दूरादालग्नभूमिरजसा शिरसा ववन्दे ॥ २४.४ ॥

.... .... .... .... २४.५

स ब्राह्मणश्चैनमपृच्छदेवं पश्याम्यहं ग्लानशरीरमार्यम् ।
आरूढरोगाभिभवप्रतन्व्या प्रत्येकबुद्धस्तमुवाच वाचा ॥ २४.६ ॥

इदं च वल्मीकसमं शरीरमुत्पादितं कर्मपरंपराभिः ।
कुर्व्वद्भिराधिं जगतामनेकैरध्यासितं व्याधिभुजङ्गमैश्च ॥ २४.७ ॥

इयं जराकेशरिणी यदा च शरीरमाक्रामति मानकस्य ।
मदं विषादाद्विगतेन्द्रियार्थस्तदास्य चित्तद्विरदो जहाति ॥ २४.८ ॥

ततो परो मृत्युरकारणारिः कुटीरकं देहमयं भनक्ति ।
भग्ने हि यस्मिन् भवति क्षणेन सर्वक्रियाणां विरतिर्जनस्य ॥ २४.९ ॥

इमैस्त्रिभिर्मृत्युजरागदारिभिः प्रबाध्यते कर्मसमीरितैर्जनः ।
अनन्तरक्लेशहुताशसम्भवो भवो यमार्यैरत एव नेष्यते ॥ २४.१० ॥

इति विचार्य विचारपटुर्भवान् प्रतिभयान् भुजगप्रतिमान् भवान् ।
शमपथे विनिवेश्य मनोरथं समधिरोहतु वीर्यमयं रथं ॥ २४.११ ॥

अथ बोधिसत्त्वः अहो सुभाषितमित्यभिधाय तं प्रत्येकजिनमभिमन्त्र्याब्रवीत् ।

सुभाषितमणेः प्राप्तिरविद्यातिमिरच्छिदः ।
नान्यत्र स्वच्छगम्भीरधीतोयान् साधुसागरात् ॥ २४.१२ ॥

सुपुरुषपरिचोदितस्य धर्मे पटुतरतां पुरुषस्य याति वीर्यं ।
वहनमिव समीरणप्रणुन्नं सलिलनिधौ स्थितदक्षकर्णधारं ॥ २४.१३ ॥

ततोऽहं भदन्तं तावत्परिचरिष्यामि यावदस्माद्ग्लान्यान्महाकान्तारादिव समुत्तीर्ण इत्यभिधाय गगनमध्यप्रत्यासन्ने स्फुरदङ्शुमण्डले विवस्वति तरुच्छायानिलीनेषु श्वासवशपरिस्फुरत्प्रकाशजिह्वातालुषु श्वेतापाङ्गेषु पल्वलसलिलावतरणसमुत्सुकेषु सजलजलधरनीलेषु वनमहिषयूथेषु सुरभिशिशिरचन्दनतरुविटपान् सुतरां परिवेष्टयत्सु भुजगेषु तीक्ष्णतरातपालिङ्गनसंतप्तपांसुनिकरेषु पथिकजनविमुच्यमानेष्वध्वसु मलयतरुगृहपतिविश्राणितं परिपाकमृदुसुरभिविविधफलपिण्डपातमानीय ।

स पलाशैः पलाशस्य महदातपवारणम् ।
कृत्वा प्रत्येकबुद्धस्य दधारातपशान्तये ॥ २४.१४ ॥

न चिन्तयति यः खेदमुपायकुशलो वणिक् ।
लभते विपुलं लाभं चतस्रः संभ्रमन् दिशः ॥ २४.१५ ॥

बोधिसत्त्वो विचिन्त्येति तस्य कर्तुमुपासनाम् ।
न क्षुधं नातपं तीव्रं न च खेदमजीगणत् ॥ २४.१६ ॥

बुधानुपासीत न चेज्जगद्गुरूनावाप्नुयान्नैव जनः सुभाषितम् ।
धनाय यो गच्छति रत्नमेदिनीं स युज्यते रत्नविशेषसम्पदा ॥ २४.१७ ॥

इति स परिचरंस्तमार्यवृत्तं कुशलफलोपचयाय धीरसत्त्वः ।
प्रतिदिवसमुपाचितप्रसादः सफलममन्यत साध्वजन्मलाभम् ॥ २४.१८ ॥

अथ स प्रत्येकजिनो बोधिसत्त्वस्य द्विगुणतरप्रसादजननार्थमम्बरतलमुत्पत्य तत्तत्प्रातिहार्यमदर्शयत् ॥

परिविस्फुरदङ्शुपरीततनुः पयसीव ततान नभस्यमले ।
शुशुभे च सुवर्णगिरिप्रतिमः कमलासनमध्यगतः स वशी ॥ २४.१९ ॥

प्रविवेश मुहुः परिभिद्य महीमुदियाय शनैः सवितेव पुनः ।
अनयच्च स योगबलाद्बहुतां युगपद्भुजयोः सलिलज्वलनौ ॥ २४.२० ॥

स्पृशति स्म विलोलनखद्युतिना कमलप्रतिमेन करेण रविम् ।
बहुतामगमद्गतजन्मभयस्सलिलेष्विव शुद्धवपुस्तपनः ॥ २४.२१ ॥

तमिति प्रसमीक्ष्य महर्द्धिबलं द्युतिमन्तमनुष्णमरीचिमिव ।
सुचिरं स्तिमितीकृतनेत्रयुगो द्विजमुख्यतमः स जगाद मुदम् ॥ २४.२२ ॥

तं प्रातिहार्यरमणीयतरप्रभावं प्रत्येकबुद्धमवलोक्य दृढप्रसादैः ।
विद्याधरैर्मुमुचिरे नभसा व्रजद्भिः पुष्पाणि केशररजःकपिशोदराणि ॥ २४.२३ ॥

अथ बोधिसत्त्वः क्षितितलविनिहितजानुः प्रमोदापूर्यमाणहृदयः शिरसि विनिवेशिताञ्जलिस्तं प्रत्येकजिनं प्रभास्वरैर्वचनमणिभिरभ्यर्चयामास ॥

इमामालोक्य भवतः प्रातिहार्यवतीं तनुम् ।
ब्रह्मापि विस्मयं यायान्मादृक्किमु पृथग्जनः ॥ २४.२४ ॥

दर्शितप्रातिहार्येण भवता दीप्ततेजसा ।
इदमध्यासितं व्योम द्विसूर्यमिव लक्ष्यते ॥ २४.२५ ॥

योगिनां त्वादृशामेतदृद्धिमाहात्म्यमद्भुतम् ।
परानुग्रहनिष्पत्तिपटूनां व्यक्तिमर्छति ॥ २४.२६ ॥

आत्मार्थं भासते नेन्दुः प्राचीमुखविशेषकः ।
परार्था एव महतामुदयाः शुद्धचेतसाम् ॥ २४.२७ ॥

यदि नाहमुपागमिष्यमेनं मलयं चन्दनपादपान्धकारम् ।
न भवत्समुपासनासमुत्थं कुशलं मुक्तिपथस्य बीजमाप्स्यम् ॥ २४.२८ ॥

मदनुग्रहकाम्यया दधानस्तनुमेतामतनुप्रभावगुर्व्वीम् ।
मलयाद्रिवनान्तरे स्थितोऽसि क्षपितक्लेश गदच्छलेन नूनम् ॥ २४.२९ ॥

दधतीद्धरुचो मणिं समुद्राः स्फटिकच्छेदसितं पयः पयोदाः ।
महतीं फलसम्पदं च वृक्षाश्चिरमायुश्च भवादृशाः परार्थम् ॥ २४.३० ॥

वाक्तन्तुभिस्तव गुणस्तुतिपुष्पमालां संग्रन्थ्य यत्कुशलमूलफलं मयाप्तम् ।
प्रज्ञास्पदं दशबलत्वमवाप्य तेन भूयासमस्य जगतो भवभङ्गहेतुः ॥ २४.३१ ॥

अथ स प्रत्येकबुद्धः तस्य ब्राहमणस्य बुद्धत्वाय प्रणिधिमाकर्ण्य प्रमुदितमनास्तत्रैवान्तरधीयत ।
बोधिसत्त्वोऽपि च महान्तमिव लाभमधिगम्य

प्रत्येकबुद्धपदपांसुमसौ निवेश्य मूर्ध्नि प्रसादसमुदीरितरोमकूपः ।
आत्तौषधिर्मलयशैलवनान्तरालाल्लोकस्य रोगमपनेतुमगाज्जनान्तम् ॥ २४.३२ ॥
तदेवं स भगवान् बोधिसत्त्वभूतः सकललोकस्य क्लेशव्याधिमपहर्तुकामः करुणाप्रोत्साहितवीर्यबलः स्वखेदमगणयित्वा ग्लानं प्रत्येकबुद्धं परिचचारेत्यतः कुशलफलमभिलषता कुलपुत्रेण ग्लानपरिचर्यायान्नानादरेण भवितव्यमिति ॥


॥ मूलिकजातकं चतुर्थम् ॥




__________________________________________________________________________


...


__________________________________________________________________________



२६. जाज्वलिजातकम्

ध्यानप्रदीपभासा लब्धालोकोऽपि नैति निर्वाणम् ।
यद्बोधिं प्राप्तुमनास्तत्सत्त्वहितानुबन्धाय ॥ २६.१ ॥

तद्यथानुश्रूयते ।
समधिगतवेदतत्त्वो विविधशास्त्राभ्यासविमलमतिरनेकासु विद्वत्सदःसु प्रसृतकीर्तिः स्वसमयव्यापारपरायणो गृहाश्रममध्यावसन् कदा चित्बोधिसत्त्वो जाज्वली नाम ब्राह्मणो बभूव ।
स च महात्मा विदितगार्हस्थ्यदोषः प्रशमसुखाभिलाषी परिपूर्णविभवेऽपि भवने रतिमलभमानः कदा चिदेवमचिन्तयत् ॥

विभवे सति जायते मदः सति तस्मिन् प्रशमः कुतो भवेत् ।
असति प्रशमे गतत्रपो मलिनं कर्म समीहते जनः ॥ २६.२ ॥

मुहुरप्रियसंप्रयोगदुःखं मुहुराधिः प्रियविप्रयोगकाले ।
द्रविणार्जनखिन्नमानसानां यदि वाञ्छा विफला ततो विषादः ॥ २६.३ ॥

गृहिणामिति नित्यमाकुलानां स्वजनस्नेहनिबद्धमानसानाम् ।
सुखमित्यफलाभिमानभाजां तनुरप्यस्ति न निर्वृतिर्गृहेषु ॥ २६.४ ॥

गृहसंज्ञकमित्यपास्य कष्टं त्वरितं बन्धनमेतदात्मकामः ।
तपसामभिवृद्धये वनान्तं प्रशमस्थानमहं ततः श्रयिष्ये ॥ २६.५ ॥

इति स चिन्तयित्वा महात्मा परित्यज्य गृहवासं स्तिमितसलिलवाहिन्या कुसुमिततटतरुशोभितया शास्त्राभ्यासनिर्मलयेव प्रज्ञया निम्नगयालङ्कृतभूधरैकदेशे विस्रब्धहरिणगणदशनदष्टशाद्वलरमणीये नलिनीवननिलीनकलहंसकादम्बचक्रवाकोपशोभिते योगिमनोऽनुकूले क्व चिदतिमहति वनान्तरे कृष्णाजिनशबलीकृतवक्षःस्थलः स्थानविशेषलाभपरितुष्टयेव ब्राह्म्या श्रियालिङ्गितमूर्तिर्मूर्तिमानिव संतोषः कं चिद्विटपिनमाश्रित्य योगाबद्धमनास्तपश्चरितुमारेभे ॥

ध्यानैकतानमनसा विजितेन्द्रियेण संतोषलाभसुखिना करुणान्वितेन ।
यस्तेन संश्रित उदारधिया द्विजेन मेने मुदेव स तरुस्तरुतां कृतार्थाम् ॥ २६.६ ॥

तृणास्तरणमास्तीर्य नासाप्राहितलोचनः ।
दध्यौ स ध्यायिनामग्र्यो ध्येयमेकाग्रमानसः ॥ २६.७ ॥

वीर्यपारमितामार्गवाहनोपचितश्रमम् ।
ध्यानपारमिता धीरं व्यशिश्रमदिवाथ तम् ॥ २६.८ ॥

कामेभ्योऽकुशलेभ्यश्च धर्मेभ्योऽवस्थितं पृथक् ।
सवितर्कविचारं च विशुद्धात्मा विवेकजम् ॥ २६.९ ॥


कृतप्रीतिसुखास्वादमास्वादितशमामृतः ।
स लेभे प्रथमं ध्यानं ध्याता मार्गस्य लब्धये ॥ २६.१० ॥

अवितर्काविचारं च विचारकुशलस्ततः ।
सोऽध्यात्मसंप्रसादाच्च द्वितीयं ध्यानमाददे ॥ २६.११ ॥

विरज्य च शनैः प्रीतेः स्मृतिमान् समुपेक्षकः ।
धीरः कायसुखास्वादी तृतीयं ध्यानमाप सः ॥ २६.१२ ॥

उपेक्षापरिशुद्धं च प्रहाणात्सुखदुःखयोः ।
विरागाच्च ततः प्रीतेश्चतुर्थं ध्यानमाययौ ॥ २६.१३ ॥

एवमसावुत्पादितचतुर्ध्यानो मूर्तिवत्येव करुणयालिङ्गितमूर्तिरुपशमपरायणस्तत्र वने तिरश्चामपि बन्धुरिव विश्रम्भहेतुरासीत् ॥

मृगाः कपोताः शिखिनश्चकोराः भद्राशया व्यालमृगाश्च ते ते ।
विहृत्य शिष्या इव काननान्ते विशश्रमुस्तस्य समीपमेत्य ॥ २६.१४ ॥

अथ तस्य महात्मनः कदा चिदाबद्धपर्यङ्कस्य चरणसमीपावस्थितमृगमिथुनस्य ध्याननिश्चलनयनस्य प्रत्यासन्नप्रसवा कपोती तृणानि तनूनि च दारुशकलानि चञ्च्वादाय विनिबद्धजटाकलापमौलौ शिरसि निलीय किञ्चिन्निम्नमध्यकुलायं रचयित्वा तत्राण्डानि मुक्त्वा तृणबीजाश्वत्थफलाद्याहारकाङ्क्षिणी नभः समुत्पत्य वनान्तरेषु विहृत्य पुनः पुनरागम्य च तान्यण्डान्यवष्टभ्यावतस्थे ॥

ततः कपोतीतनुपिञ्छसंकुले तदङ्गसंपीडनसंभृतोष्मणि ।
कुलायकेऽण्डानि विपाटलाङ्गकाः कपोतपोताः परिभिद्य निर्ययुः ॥ २६.१५ ॥

विलोक्य शावानथ तान् कपोतिका मुहुर्जिघत्साविवृताग्रतुण्डकान् ।
अचिन्तयित्वा महतीं निजां क्षुधं प्रियङ्गुनीवारफलैः पुपोष सा ॥ २६.१६ ॥

कपोतकास्ते प्रभवत्तनूरुहा गृहीतबीजामवलोक्य मातरम् ।
मुहुर्मुखानि प्रच(२)लाग्रपक्षकाः प्रसारयामासुरुदीरितस्वराः ॥ २६.१७ ॥

ध्यानावसानसमयेऽथ समित्फलार्थं शान्तेन्द्रियो जिगमिषुः स मुनिर्वनान्तम् ।
दृष्ट्वा गृहीततृणवृक्षफलां कपोतीं तस्थौ कुलायवति मूर्ध्नि निलीयमानाम् ॥ २६.१८ ॥

अथ बोधिसत्त्वो नियतमत्र मम जटाभारे विरचिततृणकाष्ठशकलालया प्रसूतेयं कपोती ।
यदि चाहमुत्थाय समिधां कन्दमूलफलानां चाहरणाय गमिष्यामि ततो नियतमेषा तपस्विनी स्थानमिदमागम्य ॥

अनीक्षमाणाद्य कपोतपोतकानिमान् प्रकाशीकृतताम्रतालुकान् ।
निलीय वृक्षेषु शुचा मुहुर्मुहुर्नभः समुत्पत्य परिभ्रमिष्यति ॥ २६.१९ ॥

अहो जन्मशतभ्रान्तिवासनैषानुवर्तते ।
तिरश्चामप्यपत्येषु संरूढो यदपह्नवः ॥ २६.२० ॥


यदि न स्युरपत्यानि मित्रं वा बन्धुरेव वा ।
स्वताक्षः स्यात्स्वताभावान्निर्बीजोऽपह्नवः कुतः ॥ २६.२१ ॥

असत्यपह्नवे चेतः परिवृण्वन्ति नाधयः ।
असत्स्वाधिषु निःसङ्गः सुखमास्ते शमान्वितः ॥ २६.२२ ॥

उत्पाद्यापत्यसंज्ञानि दुःखानि क्लेशमोहितः ।
खेदमेति जनो मूढः पश्चात्तापेन तापितः ॥ २६.२३ ॥

अनस्यनिच्छन्नपि गौर्बलीयसा यथा बलाच्छाकटिकेन योज्यते ।
शुभाशुभेनैष कुबुद्धिरस्यते तथा भवोदन्वति कर्मणा जनः ॥ २६.२४ ॥

तस्मात्कपोतशिशवो न भवन्ति यावदस्मज्जटालयगताः प्रविरूढपक्षाः ।
ध्यानामृतोपचितचित्तशरीरतुष्टिः तिष्ठामि तावदिह निश्चलमूर्तिरेव ॥ २६.२५ ॥

इति विचिन्त्य बोधिसत्त्वः कपोतशावकानुकम्पया क्षुधमविगणय्य पुनः पर्यङ्कमाबध्य ध्यानसुखेनात्मानं प्रीणयामास ।
प्रविरूढपक्षेषु कपोतशावकेषु मात्रा सह गगनमुत्प्लुत्य गतेषु तत्समीपनिवासिनी देवता समुपगम्य बोधिसत्त्वमालोक्य विस्मयसमध्यासितमतिरहो महात्मनोऽस्य महर्षेः सत्त्वेष्वनुकम्पा यत्प्राक्तनात्ध्यानादुत्थाय कपोतकपरिरक्षणाय पुनरपि ध्यानेनात्मानं निश्चलीकृत्यायमवस्थितः ॥ न चैष महात्मा गतेष्वप्येतेषु कपोतकेषु कुलायमिमं शिरस्तः समपनेष्यति ।
तदहमेवास्य जटामुकुटविरचितमेनं कपोतालयमपनेष्यामीति विचिन्त्य ॥

विकीर्णमन्तः क्व चिदण्डखण्डैः सा तं कुलायं मुनिसत्तमस्य ।
शनैः शनैः पल्लवकोमलेन करद्वयेनापनिनाय मूर्ध्नः ॥ २६.२६ ॥

गतायां च तस्यां देवतायां बोधिसत्त्वो ध्यानाच्चित्तमपनीय शिरसो लघुत्वमवेत्यैवं चिन्तयामास ॥

प्ररूढपक्षेषु कपोतकेषु गतेषु मात्रा सह काननान्तम् ।
केनापि भक्तिप्रवणेन नूनं तदालयो मे शिरसोऽपनीतः ॥ २६.२७ ॥

इति विचिन्त्योत्थाय स महात्मा समित्कुशकुसुमफलान्यानीय कृताभिषेकः ॥

हुत्वाग्निं स्फुरदुदितार्चिषं दिनार्धे व्यापङ्कं फलमुपयुज्य बद्धगन्धम् ।
नासाग्रस्थितनयनस्तरोरधस्तादारेभे पुनरपि योगमेकचित्तः ॥ २६.२८ ॥

तदेवं ध्यानविलोकिततत्त्वः क्षमोऽपि निर्वाणमुपगन्तुं स भगवान् बोधिसत्त्वभूतो लोकहिताय बहूपद्रवेऽपि संसारे परिभ्रान्तवानिति विचिन्त्य बुद्धे भगवति परः प्रसाद उत्पादनीय इति ॥

॥ जाज्वलिजातकं षष्ठम् ॥




__________________________________________________________________________


...


__________________________________________________________________________





३२. सिंह


तृणमपि रक्षन्ति बुधा यत्नेन महीयसान्यनिक्षिप्तम् ।
प्रज्ञागुरवः किं पुनरश्रान्ताः प्राणिनिक्षेपम् ॥ ३२.१ ॥

तद्यथानुश्रूयते
धौतरजतस्तम्भानुरूपसतुहिनशिखराग्रस्खलनपरिजर्जरीकृतजलधरस्य मुक्ताचूर्णनिकरधवलप्रालेयोपरिव्याधगणानुसृतचमरखुरमार्गस्य हरवृषभविषाणोल्लेखविषमीकृतविविधकुक्षेरनेकभूर्जसरलदेवदारुनमेरुपद्मकवनश्यामनिकुञ्जस्य प्रसृतनिर्झरसलिलक्षालितमूलभूमेः क्षणदासमयज्वलितमहौषधित्वात्कृतप्रदीपसहस्रस्येव विद्याधरमिथुनपरिभोगसुरभीकृतमानससरस्तीरपर्यन्तलतागृहकान्तरस्य क्वचित्केसरितलप्रहारविनिपातितभीतप्रस्फुरितन्यङ्कुचरणक्षेपोत्खाततृणस्य क्वचिदुमाचरणतलालक्तकाण्कितशाद्वलश्यामभूमेरन्यत्र शकुनितुण्डखण्डितपरिणततरुफलाकीर्णोपवनान्तरस्य पवनवितन्यमानोच्चावचकुसुमगन्धसुरभेः सुरभिमासप्रारब्धविटपिमुकुलाङ्कुरस्य कुररविनिपातशब्दभीतशकुनिकुलविमुच्यमानगङ्गातीरसलिलस्य सलीलकिन्नरमिथुनगीतश्रवणनिश्चलमृगकुलस्य तुङ्गशिखरतया क्षीरसागरस्येवोच्चतामुपगतस्य हिमगिरेरेकदेशे सादरमिव तरुभिः कुसुमार्चितद्वारशिलातलां
हरिततृणाङ्कुरोद्भेदश्यामपर्यन्तां विकचकमलेन सरसाभ्यलंकृतसमीपामनतिमहतीं गुहामध्यावसन्नतिबहलहरिद्रासलिलाभिषिक्तदुकूलसूत्रपरिपिङ्गकेसरनिरुद्धकन्धरः किसलयसुकुमारलोलतरजिह्वः किंचित्परिम्लानातिमुक्तककुसुमराशिपरिपाण्डुविग्रहः शशिकलाकोटिकुटिलतीक्ष्णदंष्ट्रः पृथूरस्कः पीवरप्रकोष्ठः प्रतनुमध्यः स्फुरितखदिराङ्गारकपिलनयनयुगलः श्येनतुण्डवृजिननखाङ्कुरः श्यामप्रान्तवालधिरलंकार इव तुहिनगिरेरनिन्दिताङ्गो नाम कदाचिदनुत्त्रासितद्विरदमृगो मृगाधिपतिर्बोधिसत्त्वो बभूव ।

अवेत्य तस्याथ निसर्गभद्रतां मुनेरिव प्राणिषु भद्रचेतसः ।
स्वभावभद्राः कमनीयलोचना मुदा मृगा बन्धुमिवैनमन्वयुः ॥ ३२.२ ॥

शमान्वितः केसरवल्कलाकुलो मृगानुयातो मृगराजतापसः ।
शनैः स निष्क्रम्य गुहोटजान्तराच्चखाद पक्वानि फलानि शाखिनाम् ॥ ३२.३ ॥

फलोपयोगाय वनान्तरे चरन् स खेलगामी चलचारुकेसरः ।
महागृहस्थैरतिथिप्रियैरिव प्रतीक्ष्यते स्मातिथिवन्महीरुहैः ॥ ३२.४ ॥

गुहान्तरान्निष्पततो हिमात्यये प्रकाशतालोरतिमात्रजृम्भणात् ।
ततान तस्याङ्गसुखं पुरः शनैर्दिवाकरः प्राभृतवन्नवातपम् ॥ ३२.५ ॥

अयं मृगाणां पतिरत्र भूधरे पतत्रिणां तार्क्ष इवोरुविक्रमः ।
इतीव तस्योपरि जातसंभ्रमा निशाकरच्छत्त्रमधारयन्निशा ॥ ३२.६ ॥

पपौ स यस्यां सरिति क्षपाकरप्रसन्नमम्भः शिशिरं तटस्थितः ।
कृतार्थमात्मानममन्यतेव सा स्फुटं जहासेव च फेनपङ्क्तिभिः ॥ ३२.७ ॥

हिमाचलस्तेन विशुद्धचेतसा महात्मना केसरिणा समाश्रितः ।
महान्तमात्मानमतीव भासतो मुदेव मेने कनकाचलादपि ॥ ३२.८ ॥

क्व च भुवनभयंकरं हरित्वं क्व च करुणास्य गरीयसी मृगेषु ।
इति मुनिमिव तं स्थितं हिमाद्रौ मृगरिपवोऽपि मृगाधिपं प्रणेमुः ॥ ३२.९ ॥

अथ कदाचित्तस्य मृगपतेरवनिपतेरिव सलीलमासन्नकुसुमितलतानर्तकीकिसलयाङ्गुलिसमाहन्यमानमधुकरश्रेणिवीणाशब्दरमणीये प्रसृतनिर्झरमृदङ्गध्वनिप्रवर्तितमयूरलासके गुहाद्वारे समुपविष्टस्य पुरस्तान्निष्पीदितालक्तकगुलिकापरिपाटलमुखमभिनवामलकीफलानुरूपनयनमात्तपरिणतोदुम्बराभ्यां शावकाभ्यामध्यासितस्कन्धं फलरसार्द्रमलिनकराङ्गुलीकं वानरमिथुनमभिप्रणम्योवाच ।

अनिन्दितमहो कर्म तव वाक्कायचेतसाम् ।
अनिन्दिताङ्ग इत्येतत्त्वन्नामानुगुणं स्मृतम् ॥ ३२.१० ॥

अहो त्यागक्षमावीर्यगाम्भीर्यकरुणादयः ।
त्वद्गुणाः गुणिनां श्रेष्ठ मुनीनप्यतिशेरते ॥ ३२.११ ॥

अहो वृत्तेन शुद्धेन भवतः शुद्धचेतसः ।
परं मार्दवमानीतं क्रूराणामपि मानसम् ॥ ३२.१२ ॥

धन्योऽयं धन्यहिमवान् हिमच्छन्नशिलातलः ।
इति धीरस्वभावेन यस्त्वया समुपाश्रितः ॥ ३२.१३ ॥

तस्मादिमौ शिशू भीमव्यालदर्शनभीरुकौ ।
निक्षिप्य त्वयि गच्छावो वनमावां फलार्थिनौ ॥ ३२.१४ ॥

उपादाय फलं यावदाव्रजावो वनान्तरात् ।
रक्षणीयौ त्वया तावदेतौ चपलगात्रकौ ॥ ३२.१५ ॥

कापेयं चपलत्वं च तुल्यकालमिदं द्वयम् ।
तस्मादाभ्यां कृता बाधा सोढव्या भवता क्षणम् ॥ ३२.१६ ॥

दुःखान्यपि गरीयांसि परार्थप्रतिपत्तये ।
सहन्त एव धीमन्त आत्मसौख्यानपेक्षिणः ॥ ३२.१७ ॥

भयमिच्छति यो हर्तुमत्यन्तं भीरुचेतसाम् ।
मनःसंतापिनीं पीडां स कथं न सहिष्यते ॥ ३२.१८ ॥

इति समभिहितः स तेन सिंहः कपिमिथुनेन सुताभिरक्षणाय ।
नृप इव पररक्षणक्षमोऽपि क्षणमिदमाकुलतां गतः प्रदध्यौ ॥ ३२.१९ ॥

शक्यते हि महानपि कनकराशिरन्यनिक्षिप्तोऽभिरक्षितुम् । कथमिमौ चपलप्रकृती वानरशिशू रक्षणीयाविति । अथ वा येन मया सकलमेव संसारभयाज्जगत्परिपालनीयं सोऽहमेतौ न परिपालयिष्यामीति न तु युक्तमिदं मया वितर्कयितुमिति स महात्मा विनिश्चित्य तत्प्रवङ्गमिथुनमुवाच ।

तद्गच्छतं तुहिनशैलमिमं विगाह्य तुङ्गैः स्नुभिर्गगनमध्यमिवोल्लिखन्तम् ।
स्वादूनि शीघ्रतरमानयतं फलानि प्रेम्णा शिशुद्वयमिदं परिपालयामि ॥ ३२.२० ॥

अथ तत्कपिमिथुनं बोधिसत्त्वसमीपे तत्पुत्रकद्वयं विनिक्षिप्य सान्त्वयित्वा च त्वरिततरगमनं फलोपनयनाय हिमवद्वनान्तराणि परिबभ्राम । अचिरगतयोश्च तयोः कप्योस्तस्मिन्महात्मनि केसरिणि पितरीव तौ कपिशावौ प्रेमाबबन्धतुः । अनिन्दिताण्गश्च ताभ्यां परिणतिस्वादूनि शिथिलदशनप्रान्तगृहीतानि फलानि प्रायच्छत् । तौ च प्रकृतिचपलतया तस्य महात्मनस्तां तां विहेठनां चक्रतुः ।

गुहाजिरोपान्तवने मनोहरे हरेः सुषुप्सोः सुखशीतमारुते ।
रुतेन तौ वानरशावकौ मुहुर्मुहूर्तनिद्रासुखमस्य जघ्नतुः ॥ ३२.२१ ॥

निद्रानिमीलिते किंचित्पुनस्तस्य विलोचने ।
अङ्गुलिभ्यां तुतुदतुः स्फुलिङ्गापिङ्गतारके ॥ ३२.२२ ॥

सुखं तस्योपविष्टस्य स्थित्वाचकितमन्तिके ।
प्रान्ते लाङ्गूलमादाय समाचकृषतुर्मुहुः ॥ ३२.२३ ॥

सटां व्यालम्ब्य पृष्ठं च तस्यारुह्य पुनः पुनः ।
सहजाच्चापलाद्दूरमुत्पत्योत्पत्य पेततुः ॥ ३२.२४ ॥

विद्यमानेष्वपि पुरः प्रभूतेषु फलेषु तौ ।
जिघत्सोराननात्तस्य समाचिक्षिपतुः फलम् ॥ ३२.२५ ॥

इति दुश्चेष्टितं तत्तत्तयोर्वानरशावयोः ।
करुणाभद्रचित्तत्वात्स सेहे पुत्रयोरिव ॥ ३२.२६ ॥

सर्वत्र समचित्तानां सुखदुःखानपेक्षिणाम् ।
सतां सर्वधुरीणानां न क्वचित्खिद्यते मनः ॥ ३२.२७ ॥

अथ कदाचिदतिपरुषविपुलपक्षसंघातः कुटिलकर्कशनखाग्रः प्रकृतिरौद्रनयनः क्वचिदलब्धपिशिताहारः परिभ्रम्य गगनतलं निशातक्षुरतीक्ष्णतुण्डः क्षुरको नाम गृध्रः सशब्दवेगः सहसावपत्य तौ बोधिसत्त्वसमीपवर्तिनौ फलास्वादेन चलितधवलतनुदन्तपङ्क्ती वानरशिशू भयविवृतविकृतमुखकौ विरसतरव्याहृती चरणाभ्यामादाय त्वरिततरमन्तरीक्षमुत्पत्य हिमगिरिशिखरे व्यलीयत । बोधिसत्त्वोऽपि च कष्टं कष्टमित्यभिधाय यद्यहमेनं गृध्रं पराक्रमेणाभिद्रवेयं पुनरयमुत्पत्यान्यत्र विषमतरे शिखरे निलीय प्रवगशिशुद्वयमिदं विपादयेत् । सर्वथा नेदं कपिशिशुद्वयं मया शक्यते द्रष्टुम् ।

अभिवर्धितवेदनाकुलाक्षं विरसव्याहृतिलक्ष्यतालुरन्ध्रम् ।
उदरस्रुतशोनितार्द्ररोम क्षुधितश्येनविलुप्यमानमांसम् ॥ ३२.२८ ॥

अनेन गृध्रेण विलुप्तमांसके प्रकाममस्मिन् कपिशावकद्वये ।
फलान्युपादाय तयोरुपेतयोः किमद्य शक्ष्याम्यभिधातुमग्रतः ॥ ३२.२९ ॥

पातुं गतौ चपलकौ सरसो जलं नु वृक्षं फलार्थमभिरुह्य नु किं निविष्टौ ।
स्यातामिमां किमथ वाद्रिगुहां प्रविष्टौ व्यालेन केनचिदुतात्र विपादितौ तौ ॥ ३२.३० ॥

तूष्णीं स्थितो मृगपते किमधोमुखस्त्वमाचक्ष्व ताविह शिशू क्व गतौ भवेताम् ।
इत्थं तयोः प्रवगयोः परिदीनदृष्ट्योः श्रोष्यामि विह्वलपदानि कथं वचांसि ॥ ३२.३१ ॥

उपलभ्य चिरात्तयोरभावं सुतयोः कुन्दविपाण्डुदन्तपङ्क्त्योः ।
समुपेत्य शुचा करिष्यतस्तौ बडिशोत्तारितमीनवेपनानि ॥ ३२.३२ ॥

तदिदमत्र प्राप्तकालं मन्ये ।

यावद्व्याघ्रनखाङ्कुराकृतिभृता चञ्च्वा विभिद्योदरे गृध्रोऽयं कपिशावयोर्भयवतोरन्त्राणि नाकर्षति ।
गत्वा तावदहं हिमाद्रिशिखरप्रान्तं निवेश्योन्मुखः सान्त्वेनैनमुपायपूर्वकमहं नेष्यामि धर्म्यां स्थितिम् ॥ ३२.३३ ॥

इति विचिन्त्य स महात्मा गृध्रसमीपमागम्योवाच । भो शकुनिवर मम हस्ते पितृभ्यामेतौ शावकौ निक्षिप्तौ तन्न युक्तं भवतो विवृतदशनदीनमुखकौ विरसस्वरौ विपादयितुमेनाविति ।

नूनं तवाप्यपत्यानि भूतपूर्वाणि सन्ति वा ।
यादृशो भवतस्तेषु स्नेहोऽन्यस्यापि तादृशः ॥ ३२.३४ ॥
इति कारुण्यमालम्ब्य मा वधीः कपिशावकौ ।
तृप्तिरात्यन्तिकी नास्ति भुक्त्वाप्येनौ तवातुरौ ॥ ३२.३५ ॥

धिगहो जीवितं तस्य धिगात्मस्नेहमीदृशम् ।
यः शरीरकलेः पुष्टिं करोति परहिंसया ॥ ३२.३६ ॥

अज्ञानाज्जायते स्नेहः सदोषेऽपि शरीरके ।
तत्पुष्टये करोत्यज्ञो निमित्तकर्म दुर्गतेः ॥ ३२.३७ ॥

आत्मात्मीयविनाभावाद्यः शून्यं सर्वमीक्षते ।
तस्याभूतविकल्पोत्थं न रुणद्धि मनस्तमः ॥ ३२.३८ ॥

तमोऽभावाद्यदा तत्त्वमासादयति कोविदः ।
तदा भवति मोक्षाय शुभाशुभपराङ्मुखः ॥ ३२.३९ ॥

सिंहान्नान्यो मांसभुक्कश्चिदस्ति क्रूरो वेति स्पष्टमेतत्पृथिव्याम् ।
सैंहीं कष्टां योनिमप्याश्रितोऽहं नेच्छाम्येतां प्राणिहिंसामधर्म्याम् ॥ ३२.४० ॥

मृगमिह गहने मृगेन्द्रजुष्टे मृगरिपुणाभिहतं स्वयं मृतं वा ।
खगवर नभसि भ्रमन्निरीक्ष्य द्रुतगतिरत्स्यसि तस्य मांसमेत्य ॥ ३२.४१ ॥

क्षुधमपि महतीं ततोऽधिवास्य ज्वलनशिखामिव देहमुत्तपन्तीम् ।
नरकनिपतनाय मा स्म कार्षीरकुशलमीदृशमुज्झिताप्रमादः ॥ ३२.४२ ॥

अन्तःसत्त्वास्थिसंधिस्फुटनतटतटाशब्दहुंकारभीमाः संतन्वन्तः स्फुलिङ्गानिकरमुरुशिखालोहितध्यामभीमाः ।
लोलज्वालाकलापा नरकहुतभुजः सूरिभिः कथ्यमानाः कुर्वन्त्याधिं जनस्य श्रवणमपि गताः किं पुनः संस्पृशन्तः ॥ ३२.४३ ॥

आयस्यां कूणिताक्षं ज्वलितहुतवहस्पर्शसंतापितायां कुम्भ्यां गाढं नदन्तं क्वथितपरिचलत्तैलपूर्णास्यकण्ठम् ।
आलोक्यालेख्यभित्तौ लिखितमपि नरं नारकं पच्यमानं हिंस्रोऽपि क्रूरभावात्क इव न विरमेद्दुर्गतिप्राप्तिहेतोः ॥ ३२.४४ ॥

श्रुत्वा दुर्गतिदुःखानि विरमत्यशुभान्न यः ।
सोऽनद्धापुरुषाकारः पाषाणहृदयोऽपि वा ॥ ३२.४५ ॥

अथ स गृध्रो बोधिसत्त्वधर्मदेशनाप्रसादितमतिरभिप्रणम्योवाच । मृगपते प्रकाशितमिदं भवता बाललक्षणम् । पण्डितलक्षणमिदानीं व्याख्यातुमर्हसीति । अथ बोधिसत्त्वः प्रसन्नमनसमेनमवेत्योवाच । यद्येवमतः श्रूयतां पण्डितलक्षणमिति ।

अलाभे लाभे वा सुहृदि हितवाचि द्विषति वा स्तुतौ निन्दायां वा महति विभवे वा विपदि वा ।
विकारं यो नायात्युपशमविशुद्धेन मनसा स्थितः स प्राज्ञानामुपरि सवितेव द्युतिमताम् ॥ ३२.४६ ॥

अथवा किमनेन भवतः पण्डितलक्षणश्रवणेन । विमुच्येतामेतौ कपिशावकावात्मानमेवाहं ते प्रदास्यामीति ।

त्वमद्धि मांसं पिब शोणितं च ममाक्षिणी चोद्धर निश्चलस्य ।
इतीदमुक्त्वा विनिमीलितेक्षणश्चिरं विनिष्कम्पतनुर्बभूव सः ॥ ३२.४७ ॥

दध्वान दुन्दुभिरथ ध्वनिना दिगन्तानापूरयन् सुरपतेः पुरमध्यवर्ती ।
गृध्राय दत्ततनुमानमितैः शिरोभिः सिंहं स्थिता नभसि तुष्टुविरे च सिद्धाः ॥ ३२.४८ ॥

चचाल भूश्चलितसुवर्णभूधरा विसिस्मिये त्रिदशगणः सवासवः ।
उदीरितस्तुतिभिरहीश्वरैरपि प्रपातितास्तदुपरि पुष्पवृष्टयः ॥ ३२.४९ ॥

अथ केसरिणो गुहान्तिके निदधौ वानरशावकौ खगः ।
नखभिन्नतनू विनिश्चलौ भयमूर्च्छाविनिमीलितेक्षणौ ॥ ३२.५० ॥

शनैरुपागम्य च बोधिसत्त्वमुत्थापयामास स गृध्रवर्यः ।
स्थितोऽग्रतस्तस्य विनीतभावो जगाद भक्त्या स्तुतिमीदृशीं च ॥ ३२.५१ ॥

दयालुता क्वेयमहो तवोच्छ्रिता क्व सिंहतेयं जगतो भयंकरी ।
चिराय केनापि विशेषहेतुना भवान्मुनिः कोऽपि मृगाधिपायते ॥ ३२.५२ ॥

प्रज्ञावलम्बि यस्यैव समदुःखसुखं मनः ।
स एव प्राणमूल्येन क्रीणात्यापद्गतं परम् ॥ ३२.५३ ॥

त्वादृशा न भवेयुश्चेत्स्थिराः सज्जनसेतवः ।
दुःखोदन्वति मज्जेयुरगाधे महति प्रजाः ॥ ३२.५४ ॥

इमामाकर्ण्य कल्याणीं भवतो धर्मदेशनाम् ।
अद्यारभ्य करिष्यामि वैरिष्वपि दयामहम् ॥ ३२.५५ ॥

पृच्छामि च भवन्तं किं पुनरनेन तपसा पदमभिलषसीति । बोधिसत्त्व उवाच ।

अनादिसंसारविवर्तनश्रमप्रबाधनादुःखपरंपराहतम् ।
जगत्समुद्धर्तुमिदं भवोदधेस्तथागतत्वाय ममायमादरः ॥ ३२.५६ ॥

गृध्र उवाच । ईदृङ्महाप्रज्ञस्य भवतो न दुर्लभं बौद्धं पदं सर्वथा ।

गम्भीरैरदुरासदैः सदसतां विज्ञातृभिः कर्मणां शास्त्राविष्कृतबुद्धिभिः परहितव्यापारसक्तात्मभिः ।
साध्वीनामवगन्तृभिर्भवभिदां ताथागतीनां गिरां मोहच्छेदि भवे भवे भवतु नो युष्मद्विधैः संगतम् ॥ ३२.५७ ॥

गुहान्तिके मया तत्र स्थापितौ कपिशावकौ ।
तस्मान्मामधुना साधो विसर्जयितुमर्हसि ॥ ३२.५८ ॥

बोधिसत्त्व उवाच । अहो पटुविज्ञानोऽसि यत्त्वयायमस्मदुपदेशो गृहीतः ।

बोध्यं बन्धुगिरा स्फुटीकृतमपि स्थूलं न गृह्णाति यः सूक्ष्मे वस्तुनि तस्य शास्त्रविषये व्यर्थं मतिः खिद्यते ।
द्रष्टुं यस्य न शक्तिरस्ति भवनद्वारं प्रकाशे सति च्छिद्रं सूक्ष्मतरं स जाततिमिरः सूच्याः कथं द्रक्ष्यति ॥ ३२.५९ ॥

उपदेष्टरि सत्यपि प्रमादी न हि बालो मतिवामतां जहाति ।
ऋजुतामुपनीतमप्यभीक्ष्णं पुनरागच्छति वक्रतां श्वपुच्छम् ॥ ३२.६० ॥

उपदिष्टपथः प्रसन्नशास्त्रैरनवाचीनमतिर्न यात्यमार्गम् ।
पटुभद्रमनाः परीतदेहः पटुभिर्वेणुधरैरिव द्विपेन्द्रः ॥ ३२.६१ ॥

अयमक्षगणः सुसंयतो न विकारं कुरुते विपश्चितः ।
सुगृहीतफणो भुजङ्गमो न हि शक्नोत्यपराद्धुमण्वपि ॥ ३२.६२ ॥

अपकारफलं जनस्य गाढं पदमैश्वर्यमसज्जने तनोति ।
हरितालमहेर्निषिक्तमन्तर्वदने तीव्रतरं विषं करोति ॥ ३२.६३ ॥

जितमिन्द्रियवैरिभिः प्रमादाज्जनमिच्छा विनिपातयत्यनर्थे ।
प्रविलीनसुवर्णदर्शनीया शलभं दीप्तिरिव स्फुरन्तमग्नौ ॥ ३२.६४ ॥

अविपश्चितमिन्द्रियार्थसक्तिः पुरुषं पातयति स्वधर्ममार्गात् ।
श्लथबन्धनरुद्धनाभिमूलं फलमग्रादिव पादपस्य पक्तिः ॥ ३२.६५ ॥

न चेद्भवेयुः प्रकृतिप्रबाधना विषद्रुमाशीविषशस्त्रवह्नयः ।
असज्जनस्याविलतीक्ष्णचेतसः समा भवेत्केन पुनः सहोपमा ॥ ३२.६६ ॥

अकारणक्रोधक उष्णभाषणः खलो भृकुट्या विषमीकृतेक्षणः ।
अनेकरन्ध्रोत्थितभीमपन्नगः करोति वल्मीक इवाधिकं भयम् ॥ ३२.६७ ॥

निशातया रोषशिलातले दृढं परोपघाताय मुदाभ्युदीर्णया ।
दुनोति कं नाम न गोचरं गतं गतत्रपो वागसिधारया खलः ॥ ३२.६८ ॥

शठत्वसंनाहभृतः खलाश्चिरं दुरावराश्चेन्द्रियसैन्यमध्यगाः ।
अरुंतुदाः साधुजनेऽपि निष्कृपाः कृपाणधारामिव पातयन्ति गाम् ॥ ३२.६९ ॥

बुधो न विश्वासमियादसज्जने विनीतवेषेऽपि मनोज्ञवाच्यपि ।
सुरूपदेहोऽपि कलस्वनोऽपि सन्न किं मयूरः स्फुरतोऽत्ति पन्नगान् ॥ ३२.७० ॥

यदीष्यते चित्तकुटुम्बपोषणं चिराय वा धीमहिषीविवर्धनम् ।
अतो विपश्चिज्जलदोदये सति प्रकीर्यतां सद्गुणबीजमात्मनि ॥ ३२.७१ ॥

चिराय सत्संगतशुद्धमानसो न यात्यसत्संगतमात्मवान्नरः ।
मनोहरेन्दीवरपुष्पगोचरो न जातु भृङ्गः कुणपे निलीयते ॥ ३२.७२ ॥

रणगतस्य यथा रतिरुद्भवत्यनपराद्धशरस्य धनुष्मतः ।
गुणशरैरतिदूरनिपातिभिः प्रहतदोषरिपोः सुधियस्तथा ॥ ३२.७३ ॥

अतिविशुद्धमहार्यमकृत्रिमं गुणविभूषणमार्यजनार्चितम् ।
समुपलभ्य नरस्य न जायते सुरवराभरणेष्वपि विस्मयः ॥ ३२.७४ ॥

सुखमत्यन्तमन्विच्छन् गुणानां वा समुद्भवम् ।
असज्जनमतस्त्यक्त्वा कल्याणं मित्रमाश्रयेत् ॥ ३२.७५ ॥

न जातु प्रीतये साधोरनार्यजनसंगतम् ।
स्नातस्य तीर्थसलिलैः शुक्लेतरमिवाम्बरम् ॥ ३२.७६ ॥

संपर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां क्रूरोऽपि प्रकृतिं विहाय मलिनामालम्बते भद्रताम् ।
यत्तृष्णाग्लपितोऽपि नेच्छति जनः पातुं तदेव क्षणादुज्झत्यम्बुधरोदरस्थितमपां पत्युः पयः क्षारताम् ॥ ३२.७७ ॥

तद्गम्यतां यथासुखमिति बोधिसत्त्वेनाभिहितः स पक्षी तं महात्मानं प्रदक्षिणीकृत्य गगनतलमुत्पत्य परिभ्रमन् ददर्श रुधिराभिरक्तनखमुखश्मश्रुणा व्याघ्रेणोपयुज्यमानमांसमुपचितमेदःपीवरस्कन्धमभिनवमुस्तास्वादनसुरभीकृतवदनान्तरालमवनितलोत्किरणमलिनकुटिलदंष्ट्राद्वयमीषत्पङ्कोपदिग्धशरीरमनतिदूरावस्थितगृध्रमण्डलपरिवृतमुपान्ततरुनिलीनमुखरवायसगणावलोक्यमानं वराहतरुणम् । आलोक्य चैवमचिन्तयद्यावदयं व्याघ्रः कृताहारपर्याप्तिर्भूत्वा स्वनिलयं गच्छति तावदहमेकान्ते तिष्ठामीति स्थित्वा च क्रमेण ।

शार्दूले प्रमनसि तत्र लब्धतृप्तौ संगत्या स्ववसतिमागते सलीलम् ।
वाराहं पलमुपयुज्य बद्धमेदः श्येनोऽपि स्वनिलयमाजगाम तूर्णम् ॥ ३२.७८ ॥

मृगपतिरपि भानौ किंशुकोत्तंसरागे स्थितवति कनकाद्रेर्मूर्ध्नि भास्वन्मयूखे ।
तरुविटपकुलायालीनचञ्चद्विहङ्गचलितमृदुसटान्तः स्वं निवासं जगाम ॥ ३२.७९ ॥

दृष्ट्वा च तौ क्षुरकनखविभिन्नतनू तनूभूतचेष्टौ मूर्च्छावशविनिमीलितनयनौ कपिशिशू दुःखायमानहृदयो भवतु सलिलाभिषेकेणानयोर्मूर्च्छापनोदं करिष्यामीति विचिन्त्य ।

निरुद्धमम्भस्तटसेविभिर्विभिर्निरन्तरं पल्लवविद्रुमैर्द्रुमैः ।
शनैरुपेतालि कुशेशयाशया व्यगाहतापिञ्जरकेसरः सरः ॥ ३२.८० ॥

अवगाह्य च तत्सरो महद्द्रुतमुत्तीर्य विलम्बिकेसरः ।
स गुहान्तिकमागमन्मुहुश्चरणन्यासविभुग्नशाद्वलम् ॥ ३२.८१ ॥

शितगृध्रनखक्षताङ्गयोरथ शाखामृगशावयोस्तयोः ।
उपरि त्वरितं स केसरं सलिलस्रावि दुधाव केसरी ॥ ३२.८२ ॥

हरिकेसरवारिसिच्यमानौ गुरुमूर्च्छापगमादुपेतसंज्ञौ ।
उदमीलयतां विलोचनानि स्फुरितोत्तानमुखौ प्रवङ्गशावौ ॥ ३२.८३ ॥

गृध्रातिभीतपरिवेपितकातराङ्गौ तौ तस्थतुर्मृगपतेश्चरणान्तमेत्य ।
आलोलपल्लवमनोहरयाथ सोऽपि स्नेहेन तौ रसनया मुहुरालिलेह ॥ ३२.८४ ॥

वृन्तच्युतं परिणतं फलमादयित्वा प्रेम्णा मुहुः स्वतनयाविव सान्त्वयित्वा ।
खद्योतदीपतरलां स्वगुहां प्रविश्य सुष्वाप तौ स परिरभ्य सुखं निशायाम् ॥ ३२.८५ ॥

क्रमेण च परिम्लानमालतीकुसुमशेखरपरिधूसरनिशाकरपरिमुच्यमानपश्चिमदिग्भागायां स्ववसतिस्थानोत्थितमात्रहरिणदशनादश्यमानतृणाङ्कुरायां पूर्वसंध्यासंरज्यमानसागरसलिलायां प्रविरलीभवन्नक्षत्रगणायां कमलवनप्रबोधरमणीयतरसलिलाशयायां तरुविटपावतरणचलितशिखिकलापमनोहरतरवनान्तरायामपगतायां रात्रौ गुहासमीपतरुलताकुसुमपर्यन्तसंचारिणीभिरलिकुलावलीभिः सादरमुपगीयमान इवानिन्दितकर्मानिन्दिताङ्गः ।

तपने तपनीयकुम्भवद्दिशमाक्रामति शातमन्यवीम् ।
शनकैः कपिशावकान्वितः स्फुरितालम्बिसटो विनिर्ययौ ॥ ३२.८६ ॥

अथ गृहीतफलं फललुब्धकौ स्वतनयाववलोकयितुं मुदा ।
मृगपतेर्वसतिं द्रुतमुत्सुकं प्रवगयोर्मिथुनं द्रुतमागमत् ॥ ३२.८७ ॥

उपगतं गतमानमदोदयो मृदुपदं मृदुवाक्करुणान्वितम् ।
कृतनमस्कृति तन्मिथुनं हरिः कुशलपूर्वमभाषत लोकवित् ॥ ३२.८८ ॥

कपिशावकयोः सर्वं यथावृत्तमनुक्रमात् ।
ततश्चरममाचख्यौ गृध्रापहरणं तयोः ॥ ३२.८९ ॥

अतिक्रान्तामथ श्रुत्वा व्यापदं पुत्रयोः शुचा ।
गृध्रक्षतानि गात्राणि तयोः पस्पृशतुः कपी ॥ ३२.९० ॥

ऊचतुश्चेदमार्द्रार्द्रं स्तुतियुक्तं मृगाधिपम् ।
भवता रक्षता पुत्रावावामपि सुरक्षितौ ॥ ३२.९१ ॥

तन्वन् धर्मकथागङ्गां चिह्नितो गुणसानुभिः ।
यशस्तुहिनसंछन्नो जङ्गमस्त्वं हिमाचलः ॥ ३२.९२ ॥

ये न मान्ति तनोरन्तरसंख्या भवतो गुणाः ।
मन्ये केसरतां प्राप्य तेऽमी बहिरवस्थिताः ॥ ३२.९३ ॥

स्तिमितमुदधेः क्षुभ्णात्यम्भः पतत्रिपतिः पतञ्जलदपटलच्छन्नस्येन्दोः प्रसर्पति न द्युतिः ।
तव पुनरघव्युच्छेदिन्यां स्थितौ स्थितमन्यतां न तु गमयितुं चेतः शुद्धं रजस्तमसी क्षमे ॥ ३२.९४ ॥

पालयित्वा सुतावेतावावयोर्यच्छुभं त्वया ।
प्राप्तं तेनातिमहता लभस्व प्रार्थितं फलम् ॥ ३२.९५ ॥

तदिमावुपगृह्य पुत्रकौ भवता यत्नवताभिपालितौ ।
बहुबन्धुपरीतगह्वरां वसतिं याव वनान्तरे निजाम् ॥ ३२.९६ ॥

तेन प्रोक्तौ यातमित्युत्सुकौ तौ कृत्वा भक्त्या वन्दनां तस्य साधोः ।
शान्तस्थानात्पुत्रकारूढपृष्ठौ मन्दं मन्दं जग्मतुः काननान्तम् ॥ ३२.९७ ॥

यातोः पित्रोः पृष्ठमध्याधिरूढौ लग्नौ गाढं स्कन्धरोम्णां समूहे ।
व्यावर्त्येषल्लोचनान्युत्सुकौ तौ भूयो भूयो दृष्टवन्तौ मृगेन्द्रम् ॥ ३२.९८ ॥

तं निक्षेपं सर्वनिक्षेपसारं सारप्रज्ञागोचरः सोऽर्पयित्वा ।
स्कन्धाद्भारं स्थापयित्वेव भूमौ खेदच्छेदाद्भूयसीं प्रीतिमाप ॥ ३२.९९ ॥

नान्यत्कष्टतरं किंचित्प्राणिनिक्षेपधारणात् ।
प्रत्यर्पणाच्च तस्यैव नान्यदस्ति सुखं नृणाम् ॥ ३२.१०० ॥

तदेवं तेन भगवता तिर्यग्गतावपि वर्तमानेन सुचिरमभिरक्षितः प्राणिनिक्षेपः । तदवस्थेनापि च प्रज्ञापरिचयः कृत इति विचिन्त्य

यस्तेन धर्मनिक्षेपो निक्षिप्तः साधु तायिना ।
पालनीयः स युष्माभिरत्यन्तं सुखमिच्छुभिः ॥ ३२.१०१ ॥

॥ इति सिंहजातकम् ॥




__________________________________________________________________________


...


__________________________________________________________________________




३५. शाक्यसिंह


विजहति दिव्यमपि सुखं त्रिभुवनहितकाम्यया महात्मानः ।
परदुःखं हि गरीयो दुःखयति दयावतां चेतः ॥ ३५.१ ॥

तद्यथानुश्रूयते
सकलपारमिताधिगमात्प्रत्यासन्नबोधिः स्वप्रभयावभासिताङ्गः कदाचिद्बोधिसत्त्वस्तुषितभवने समुदपादि । स च महात्मा तन्निवासिनां देवानां धर्म्यया कथया सन्मार्गमभिप्रकाश्यैवमचिन्तयत् । कृतयुगे हि धर्मपरायणो लोकः सुखमवतार्यते सत्पथम् । अस्मिंस्तु कलियुगे मदमानलोभरागद्वेषमोहवशीकृताः प्राणिनः सुखलवमोहितात्मानो दुर्गतिपरायणाः । तन्मया युक्तं बोधिमवगम्य संसाराज्जगदुद्धर्तुमिति । मध्यदेशे च श्रद्धाविशुद्धमना लोकः । यश्चैष शुद्धोदनः कपिलवस्तुनि महानगरे नरपतिरयमतीव सच्चरितेन महर्षीनप्यतिशेते । तदस्यैवाग्रमहिष्या मायायाः कुक्षौ जन्मपरिग्रहं करिष्यामीति विचिन्त्य निशि सुप्तायाः स्वप्ने ।

कृत्वा हिमाद्रिधवलं गुरुषड्विषाणं दानाधिवासितमुखं द्विरदस्य रूपम् ।
शुद्धोदनस्य वसुधाधिपतेर्महिष्याः कुक्षिं विवेश स जगद्व्यसनक्षयाय ॥ ३५.२ ॥

अथ देवी महामाया राज्ञे तं स्वप्नं निवेदयामास । देव स्वप्ने किल ममाद्य शरदम्बुधरावदातः षड्दन्तो गजेन्द्रो दक्षिणं कुक्षिं भित्त्वोदरं प्रविष्ट इति । ततः स राजा तं स्वप्नं स्वप्नफलविदां द्विजातीनां पुरस्ताद्वर्णयामास । ते च ब्राह्मणास्तमूचुः । महाराज चक्रवर्ती ते पुत्रो भविष्यतीति । स च राजा प्रतीतमनास्तान् द्विजातीन् सत्कृत्य विससर्ज ।

सान्तःपुरजना देवी कदाचिदथ लुम्बिनीम् ।
जगामानुमते राज्ञः संभूतोत्तमदोहदा ॥ ३५.३ ॥

शाखामालम्बमानायाः पुष्पभारावलम्बिनीम् ।
देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ ॥ ३५.४ ॥

तं जातमात्रमथ काञ्चनयूपगौरः प्रीतः सहस्रनयनः शनकैरगृह्णात् ।
मान्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान्निर्मले च विनिपेततुरम्बुधारे ॥ ३५.५ ॥

संस्थापितो बलभिदा जगदेकनाथो धीरः क्रमेण भुवि सप्तपदानि गत्वा ।
अत्यद्भुतां गिरमिमां निजगाद शान्तां जन्मेदमन्त्यमिति मे तमसामभावात् ॥ ३५.६ ॥

तस्य प्रभाथ मुषिताशिशिरांशुदीप्तिः शान्तात्मनो वसुमतीमवभासयन्ती ।
इद्धैः पतङ्गशशिनोः किरणैरभेद्यं भीमान्धकारनरकेषु तमो बिभेद ॥ ३५.७ ॥

अयमयं महात्मा धर्मराजोऽभिषिक्त इति प्रमुदितमनोभिरमरैश्चाम्बरतले दुन्दुभयोऽभिजघ्निरे । शिबिकां चाधिरुह्य देवी बोधिसत्त्वमादाय स्वभवनमगमत् । अथात्यद्भुतविस्मितमनाः शुद्धोदनः सर्वबन्धनमोक्षं कारयित्वा समुच्छ्रितध्वजपताकविचित्रविपणिमार्गमतिसुरभिगन्धोदकोक्षितवसुधातलमभिनवकुसुमोपहारशबलरथ्यान्तरं कपिलवस्तुनगरमकारयत् ।

शबलहरिणकृत्तिच्छादितस्कन्धदेशं निचयमनलभासामुद्वहन्तं जटानाम् ।
असितमनसितानां कर्मणां संनिधानं क्षितिपतिरशृणोत्खादापतन्तं जनेभ्यः ॥ ३५.८ ॥

अथ स राजाभ्युत्थाय तं महर्षिं विदितबोधिसत्त्वजन्मानं प्रविशन्तमभिगम्याभिवाद्यार्घप्रदानादिना च सत्कारेण सत्कृत्य कृतासनपरिग्रहं चैनं कुशलं पृष्ट्वा धात्र्यङ्कगतं बोधिसत्त्वं दर्शयन्नुवाच । भगवन् दृश्यतां तावदयं मे तनयः किं दीर्घायुः स्यादिति । अथासितो बोधिसत्त्वमालोक्य चैवमचिन्तयत् ।

यथायं लक्षणैः स्पष्टैर्भूषणैरिव भूषितः ।
जगद्दुःखापनोदाय तथा बुद्धो भविष्यति ॥ ३५.९ ॥

यदायं भविता बुद्धो यास्यामि मरणं तदा ।
श्रोष्यन्त्यस्मात्कथां धर्म्यां ये ते धन्याः शरीरिणः ॥ ३५.१० ॥

इति चिन्तयतस्तस्य महर्षेः शुद्धचेतसः ।
नयने नतपक्ष्माग्रे बभूवतुरुदश्रुणी ॥ ३५.११ ॥

अथ शुद्धोदनः साश्रुनयनमसितमवलोक्य ससंभ्रममुवा-
च । नियतमयमल्पायुः । तेन भगवान् साश्रुलोचनः सम्वृत्तः । कष्टमविकसितमेव मे तनयकमलमिदमन्तकद्विरदपतिरुन्मूलयिष्यति । असितोऽब्रवीत् । अलमलं महाराज शोकेन । अहमात्मानमनुशोचामि । यदायं विषयानुत्सृज्य जरामरणग्रस्तान् देहिनोऽवलोक्य संविग्नमनास्तपोवनं गत्वा बुद्धो भविष्यति तदाहं पञ्चत्वमुपयास्यामीत्यतो मम शोकेन साश्रुमिदं चक्षुः कृतमित्यभिधाय गते तस्मिन्महर्षौ सिद्धार्थ इति नाम बोधिसत्त्वस्य कृत्वाचिरेणैव कालेन गुरुसकाशादधिगतसर्वविज्ञानस्य तस्य सदृशात्कुलाद्यशोधरां नाम वरयित्वा वधूमानिनाय । कथमयं जरामरणरोगानभिज्ञ एव मे तनयः स्यादिति विचिन्त्य शुद्धोदनोऽन्तर्भवन एवान्तःपुरमध्यवर्तिनमविच्छिन्ननृत्तगीतावलोकनश्रवणपरायणं बोधिसत्त्वं कारयामास । स च यशोधरायां राहुलं नाम तनयं जनयित्वा कदाचिद्गीतोपनिबद्धानि प्रमदवनानि श्रुत्वा बहिर्निष्क्रमणाय बुद्धिं कृत्वा पित्राभ्यनुज्ञातो रथवरमधिरुह्य कृतशोभां कपिलवस्तुवीथीमालोकयन् परिचचार ।

श्रुत्वाथ तं परिजनान्नयनाभिरामं साक्षान्मनोभवमिव श्रवणायताक्षम् ।
तद्दर्शनं प्रति समुत्सुकमानसानां चेष्टा बभूव विविधा नगराङ्गनानाम् ॥ ३५.१२ ॥

अथ काचिदसमाप्तमण्डनार्द्रतिलकाभ्यलंकृतललाटमध्या श्रवणपरिच्युतकुवलयोत्थायाञ्जितैकविलोचना गृहीतशलाकेन कमलानुकारिणा हस्तेन पश्यैनमनङ्गानुकारिणं कुमारं गच्छन्तमिति सख्यै दर्शयामास । काचित्पुनरहो भाग्यवती यशोधरा यास्य धर्मचारिणीति विचिन्त्य चिरमेनं स्तिमितनयनापश्यत् । अपरा पुनः करद्वयावलम्बितगवाक्षस्तम्भशालभञ्जिकेव भृशमशोभत । किमेवं राजपुत्रदर्शनकुतूहलादतित्वरितं गच्छसि । समुत्क्षिपैनमर्धबद्धं स्तनतटात्पतन्तं हारमयं त्वमहो चपलेति ब्रुवाणः कुपितो गुरुजनः पश्यति । किमिति निर्व्रीडासीति काचिदपरामुपालब्धवती । काचित्पुनर्गुरुपयोधरैकदेशे संस्पर्शेनार्धापावृतं कपाटमनुजग्राहेव । नैकाकिन्यास्तवैव कुमारदर्शनकुतूहलं दीयतां तावदन्तरमहमपि कुतूहलवती राजपुत्रं द्रष्टुकामा काचिदित्यभाषत ।

कुमारं द्रष्टुकामानां तासामिति विसर्पणात् ।
मेखलानूपुरध्वानो भवनेषु व्यतन्यत ॥ ३५.१३ ॥

गच्छन्नरेन्द्रतनयोऽथ पथि क्रमेण दण्डार्पितप्रचलपाणिमपेतकान्तिम् ।
वृद्धं व्यलोकयदतीव सितोत्तमाङ्गं शुद्धाधिवासपरिनिर्मितमानताङ्गम् ॥ ३५.१४ ॥

अथ बोधिसत्त्वः सारथिमपृच्छत्कथय तावत्कः पुनरयमारोपितधनुरानतपरिदुर्बलाङ्गः परिणतकाशकुसुमसितशिरसिजः शिरःप्रकम्पेण किमपि प्रलयन्निवालोक्यते । सारथिरुवाच । कुमार जरा नाम सर्वलोकव्यापिनी शरीरेन्द्रियपाटवहारिणी मदनकथातिरस्करणी कुपितेव यूनां यौवनमदमुत्सारयति ययैष इमामवस्थां नीत इति । अथ स महात्मा पुनरुवाच । यदि जरा तारुण्यमेवं विनाशयति का नाम रतिरस्मिन् परिणामिनि देहे । सूत उवाच । कुमार न केवलं जरा व्याधिरपि धातुक्षोभसंभूतो देहिनां महाननर्थः । ततोऽपरो मृत्युर्नाम सर्वक्रियापहरणपटुरनर्थतरो यः परिचिन्त्यमानोऽपि शरीरिणां महद्दुःखमुत्पादयति । बोधिसत्त्व उवाच ।

त्रिभिरिमैरनुबद्धमहो जगन्मरणरोगजरारिभिरन्वहम् ।
महति नाम भये सति दारुणे कथमिदं विषयैकपरायणम् ॥ ३५.१५ ॥

इति निवर्तय सूत रथं लघु व्रज गृहाय पुनः किमिहास्यते ।
मरणरोगजरापरिशङ्किनो मम भविष्यति नोपवने रतिः ॥ ३५.१६ ॥

अथ राजा संविग्नमनसं बोधिसत्त्वं श्रुत्वा तां चासितस्य वाचमनुस्मृत्य भविष्यत्तनयवियोगाशङ्कितमनाः सारथये संदिदेश । प्रमदवनमेव कुमारो नेतव्य इति । स च सारथिः प्रसभमेनमुपवनमेव प्रविश्याभिहितवान् । द्रष्टुमर्हत्यायुष्मानिह हि ।

किंचित्किंचित्कुसुमहसितव्यक्तिशोभावतीनां मन्दं मन्दं मलयमरुता सर्पता नर्तितानाम् ।
आभान्त्यासामुपवनलताकन्यकानां विजिह्माः पर्यन्तेषु भ्रमदलिकुलश्रेणिवेण्यः क्वणन्त्यः ॥ ३५.१७ ॥

अथ बोधिसत्त्वो रथादवतीर्य जरामरणरोगचिन्तापर्याकुलमतिरन्तःशल्य इव द्विरदपतिरित्यब्रवीत् ।
धैर्यच्छिदस्

तनुधियां विरसावसानाः शान्तात्मभिः परिहृता भुजगा इवोग्राः ।
यूनोऽपि मन्मथपरस्य जगत्सपत्नाः पर्याकुलं न हि मनो विषया हरन्ति ॥ ३५.१८ ॥

अथ स राजा नृत्तगीतकुशलाः प्रकाशाङ्गना बोधिसत्त्वहृदयापकर्षणाय तदुपवनं प्राहिणोत् । ताश्च कुमारमभिगम्य मदजनितप्रागल्भ्यास्तां तां चेष्टामाविश्चक्रुः । अथ काचिदेनमुक्तवती पश्य कुमार ।
वान्त्य्

एते मलयानिलाः सुरभयः पुष्पद्रुमाकम्पिनश्चूतस्य भ्रमरः प्रदक्षिणयति प्रोद्भेदिनीं मञ्जरीम् ।
चापारोपणदीर्घसूत्रकमिमं स्वस्थं त्वया स्थीयते शङ्के चोदयतीति पुष्पधनुषं तारध्वनिः कोकिलः ॥ ३५.१९ ॥

अपि च ।
स्वरजःकृताङ्गरागा बाला सहकारमञ्जरीकन्या ।
भ्रमरवरेण भ्रमता क्षणमिव परिहीयते तन्वी ॥ ३५.२० ॥

अपरा पुनरेनमुवाच ।

शिलीमुखं भुक्तलतावधूजनं विलोक्य तत्पुष्परजोविधूसरम् ।
समीरणाकम्पितबालपङ्कजा मुहुर्मुहुस्तर्जयतीव पद्मिनी ॥ ३५.२१ ॥

काचित्त्वेनमब्रवीत् ।

गच्छाम्यहं तव कृते कुसुमानि यावदेतानि सूक्ष्ममकरन्दनिरन्तराणि ।
मद्दृष्टिबाधिनमशान्तगतिद्विरेफं दूरात्कुमार विनिवारय तावदेव ॥ ३५.२२ ॥

अपरा पुनः सहासमभितः स्थित्वैनमभ्यधात् ।

आधूतं बकुलज्यया मधुकरव्याधूतकिञ्जल्कया विन्यस्योरसि शङ्खभङ्गधवलच्छायं धनुः कौसुमम् ।
गाम्भीर्यादवधीरयन्तमबलास्त्वामाजिघांसुः स्मरः पौष्पं बाणमृजूकरोति नियतं संमीलितैकेक्षणः ॥ ३५.२३ ॥

बोधिसत्त्व उवाच । अलमलं भगिन्य एभिरसत्प्रलापैः । न खलु मम संविग्ने मनसि सलिलधारा इव हुतभुजि शृङ्गारकथाः समवकाशमधुना लभन्ते ।

भगिन्य इति तत्तस्य निशम्य वचनं स्त्रियः ।
मुखानि नमयामासुस्त्रपया त्यक्तविभ्रमाः ॥ ३५.२४ ॥

ह्रीतं तद्युवतिकदम्बकं विदित्वा संविग्नं नृपतनयं च शुद्धबुद्धिम् ।
तूणीरे नियतमिषून्निधाय पौष्पान् सव्रीडं धनुरवतारितं स्मरेण ॥ ३५.२५ ॥

अथ बोधिसत्त्वस्तत्र प्रमदवने रतिमलभमानोऽस्तमुपेयुषि सवितरि रथवरमधिरुह्य ताश्चाङ्गना भवनमाजग्मुः । ततो बोधिसत्त्वः शृङ्गारकथामवमन्यमानः शयनतले विनिविश्य जरामरणरोगानेव मनसि निधाय चिन्तापरो बभूव । ततः शुद्धावासैस्तस्य महात्मनः संवेजनाय शयनपालिकानां सद्य एव निद्रावक्तव्यता क्रियते स्म । तत्र च कासांचिदविरलशब्दश्वासवशप्रकाशदशनानि विगलितलालालवव्याप्तपर्यन्तानि वदनान्यभूवन् । अन्परासां च कुट्टिमतलपर्यस्तानि प्रशिथिलविगलितदुकूलतया प्रव्यक्तोरूणि पयोधरोपरिव्यवकीर्णहाराणि निक्षिप्तविषमभुजलतानि मृतानामिव शरीराण्यासन् । अपरा च मुरजपुष्करविनिवेशितद्विगुणबाहूपधानविनिहितानना विष्टराद्विनिपत्य तथैव शिष्ये । कस्याश्चिन्निद्रापहृताङ्गुलियत्नात्करादधरविश्लिष्टप्रथमरन्ध्रः प्रमदानयनतारकानीलो वंशः पपात । <द्विरदविलोडितानामिव कमलिनीनां विविधावस्थं तासां च रूपमालोक्य हसितमिव यष्टिप्रदीपैः> । अथ बोधिसत्त्वस्तासां युवतीनां निन्दां कृत्वाभ्युत्थाय निष्क्रम्य च्छन्दकमुत्थाप्योवाच ।

इमं समुत्तर्तुमना भवार्णवं तपोवनं गन्तुमहं समुद्यतः ।
अतस्त्वमस्मद्व्यवसायसिद्धये महाजवं कन्थकमश्वमानय ॥ ३५.२६ ॥

छन्दकश्च शुद्धाधिवासैश्चोद्यमानस्तद्राजशासनमनादृत्य तथेति प्रतिश्रुत्य वामकक्ष्याविनिहितासिः कन्थकमश्ववरमानिना-
य । बोधिसत्त्वाधिरूढं तमश्वं पश्चाद्वध्र्यावलम्बिना च्छन्दकेन सह यक्षकुमाराः करतलविनिहितखुरं प्रभातसमये नभसा महर्षेरराडस्याश्रमसमीपमवतारयामासुरिति ।

अथ व्युदस्याभरणानि विग्रहात्स भासितानि स्फुटरत्नतेजसा ।
तरङ्गिनः कोकिलकण्ठमेचकांश्चकर्त खड्गेन शनैः शिरोरुहान् ॥ ३५.२७ ॥

तं छन्दकः समवलोक्य निरस्तभूषं स्वच्छं जलाशयमिवापहृतारविन्दम् ।
संतापितः प्रबलशोकहुताशनेन मुक्तानिभान्नयनवारिकणान्मुमोच ॥ ३५.२८ ॥

बोधिसत्त्व उवाच । न खलु धर्मोन्मुखे सुहृदि स्वजने वा तपोवनाभिप्रस्थिते विषादं कर्तुमर्हति सज्जनः । तद्गच्छ मम गुरुजनमेवं ब्रूहि ।

अथवेयं तनुः क्षीणा तीव्रेण तपसा मम ।
मया वा तत्पदं लब्धं यद्दृष्टं तत्त्वदर्शिभिः ॥ ३५.२९ ॥

छन्दकश्च तथेति बोधिसत्त्वमभिप्रणम्याश्वमाभरणानि चादाय क्रमेण नगरमागम्य तं बोधिसत्त्वसंदेशं नरपतये निवेदयामास । श्रुत्वा च तस्य विनिश्चयं सहान्तःपुरेण शुद्धोदनो बहुविधं विललाप । बोधिसत्त्वश्च लुब्धकरूपधारिणो देवपुत्रात्स्वेन शशिकिरणरुचिना वसनयुगेन काषाये वाससी क्रीत्वा परिधाय शनैः शनैरराडस्याश्रमं जगाम । दृष्ट्वा च बोधिसत्त्वमागच्छन्तमराडः स्वागतं स्वागतमित्यभिधाय स्वमुटजमानीय वेत्रासने समुपवेश्य कुशलपूर्वकमालापं चकार । ततो बोधिसत्त्वस्तमपृच्छत् ।


कीदृशो भवतां धर्मः कथं वा सोऽधिगम्यते ।
तत्त्वं मे द्रष्टुकामाय वक्तुमर्हति सत्तमः ॥ ३५.३० ॥

अराड उवाच । श्रोतुमर्हति महाभाग इति । प्रकृतिविकारयोर्जन्मजरामृत्यवस्तत्त्वमित्यभिहितम् । प्रकृतिश्च पञ्च महाभूतान्यहंकारो व्यक्तं चेति । विकारश्चेन्द्रियाणि तदर्थाश्च पाणिपादवाक्पायूपस्थं मन इत्यस्य क्षेत्रं विजानाति । तत्क्षेत्रज्ञ इत्यभिधीयते । क्षेत्रज्ञं चात्मानमवचक्षते तत्त्वविदः । यच्चोत्पादावसानान्मरणधर्मात्मकं तद्व्यक्तमिति बोद्धव्यमव्यक्तमेतद्विपर्ययादिति । अज्ञानं कर्म तृष्णा च संसारहेतवो विज्ञेयाः । त्रितये चावस्थितो जन्तुर्न सत्त्वमतिक्रम्य वर्तते । विप्रत्ययाहंकारसंदेहाभिसंप्लवाविशेषानुपायसङ्गाभ्यवपाताः । विप्रत्ययो नाम विपरीतप्रवर्तनम् । अहमभिदधाम्यहं वेद्मीत्येवमाद्यहंकारः । यस्त्वसंदिग्धानपि भावान्मृत्पिण्डवदेकीभावेन पश्यति स संदेह इति मन्तव्यः । यदेव चाहं तान्येवामूनि मनोबुद्धिकर्माणि । यश्चैष गणः सोऽहमित्यभिसंप्लवमुदाहरन्ति । अविशेषः पुनः प्रतिबुद्धाप्रतिबुद्धयोरविशेषज्ञता प्रकृतीनां च सोऽविशेष इति बोद्धव्यः । स्वाहाकारवषट्कारप्रोक्षणाभ्युक्षणादयो ह्यनुपाय इति बोद्धव्यः । यत्र वस्तुनि सक्तिमुपेत्यमेधा मनोवाग्बुद्धिकर्मभिः सोऽभिष्वङ्ग इत्यभिधीयते । ममेदमस्याहमिति यद्दुःखमभिमन्यते सोऽभ्यवपातः । प्राणिनां संसारहेतुरालस्यं नाम । तमो मोहो मृत्युजन्मनी । महामोहः काम इति संज्ञितः । तामिस्रं च क्रोध इत्यवगम्यताम् । विषादः पुनरन्धतामिस्रमभिधीयते । अनयाविद्यया पञ्चपर्वया बालिशो बद्धमना जात्यादौ महति दुःखे पुनः पुनरावर्तते । तत्र चाहं द्रष्टा श्रोता मन्ता कार्यकारणं चेत्येवमवगम्य संसारे परिभ्रमति । एभिश्च हेतुभिर्जन्मस्रोतःप्रवृत्तिर्दृष्टा हेत्वभावाज्जन्माभाव इति । तत्र च मोक्षकामः प्रतिबुद्धाप्रतिबुद्धौ व्यक्ताव्यक्ते च जानीयात् । एतच्चतुष्टयमवगम्य क्षेत्रज्ञः सर्वदुःखनिर्मुक्तः पदमक्षरमवाप्नोतीति ।

त्यक्त्वादितो भवनिबन्धनमादिबीजमादाय लिङ्गमपवृत्तसुखाभिलाषः ।
संतोषवान् पदमनुत्तममाप्तुकामः शीलं विशुद्धमुपगृह्य वसेद्वनान्ते ॥ ३५.३१ ॥

पश्चाच्च रागवैराग्यप्रभवे भयक्षेमे विदित्वा निगृह्य सर्वेन्द्रियग्रामं मनःशममालम्ब्य ततः कामेभ्यो विविक्तं व्यापादादिभ्यश्च विवेकजं प्रथमं ध्यानं सवितर्कमाप्नोति । स चैवंविधेन कामद्वेषविगर्हिणा शमेनान्वितो ब्रह्मलोकमधिगच्छति । तांश्च वितर्कान्मनःसंक्षोभकरानवेत्य तद्विरहितं प्रीतिसुखात्मकं द्वितीयं ध्यानमासादयति । तया च प्रीत्या ह्रियमाणमना देवेष्वाभास्वरेषूपपद्यते । यः पुनस्तस्मात्प्रीतिसुखाच्चित्तमुच्चालयति स तृतीयं सुखप्रीतिरहितं ध्यानमाप्नोति । तत्तृतीयध्याननिमग्नमनाश्च शुभकृत्स्नेष्वमरेषु जन्म प्रतिलभते । तादृशं च सुखमासाद्य यो व्यपेक्षां करोति स चतुर्थं सुखदुःखविरहितं ध्यानमुपलभते । तच्च दीर्घत्वादायुषः केचिन्मुक्तिमेवाध्यवस्यन्ति । कस्मात्सुखदुःखविच्छेदाच्चेतसश्चाव्यापारात् । अस्य च ध्यानस्य बृहत्फलैर्देवैः सामान्यं फलमाचक्षते विद्वांसः । तस्माच्च समाधेर्व्युत्थितः शरीरिणां दोषानालोक्य शरीरविनिवृत्तिहेतोर्ज्ञानमधिगच्छति । तदपि च ध्यानमपहाय विशेषकाङ्क्षी रूपादपि विरज्यते । यानि चास्मिन् दुःखानि शरीरे विद्यन्ते तान्यादौ बुद्ध्या समवलोकयंस्ततो घनेष्वपि द्रव्येष्वाकाशाधिमुक्तिमुत्पादयति । आकाशगतं चात्मानमभिसंक्षिप्यानन्तमाकाशमालोकयन् विशेषादधिगमादात्मकौशलादात्मानमात्मनि संक्षिप्य किंचिन्नास्तीत्याकिंचन्य इति संज्ञामुपगतः शरीरविरहान्मुक्त इत्यभिधीयते । बोधिसत्त्व उवाच ।

यदि चेतयितास्त्येव कुतो मुक्तिर्भविष्यति ।
तस्मिन् सति प्रवर्तन्ते कुशलाकुशलक्रियाः ॥ ३५.३२ ॥

यथा च सलिलभूमिविरहान्न बीजं केनचित्प्रविरूढमालोकितं तत्प्रत्ययाच्च दृष्टं विरोहदेवमात्मापि गृहीतव्यः । कर्माज्ञानतृष्णात्यागाच्च यो निश्चीयते मोक्षः सति चात्मनि तत्परित्यागं नोपलभामहे । तदपरित्यागाच्च कुतो मोक्ष इत्यहंकारपरित्यागश्च सत्यात्मनि कुतो भवेत् । सति चाहंकारे स्थितमेवेदं जन्मस्रोतसीत्यभिधाय ।

अराडस्याश्रमात्तस्मान्निष्क्रम्य स महामतिः ।
तपोभिर्दुष्करैस्तीव्रैः शोषयामास विग्रहम् ॥ ३५.३३ ॥

नानेन तपसा तत्त्वाधिगमो भवतीति च मत्वोत्थाय परिदुर्बलशरीरो बोधिसत्त्वो नैरञ्जनायां सरिति स्नात्वा सुनन्दाप्रतिपादितं पिण्डमभ्यवहृत्य कालेन भुजगराजेनाभिष्टुतः ।

स चाषपङ्क्त्याततनीलपक्षया परीतदेहः परिपाटलाङ्गया ।
सरोरुहाणां प्रचलत्पलाशया स्रजेव नीलोत्पलपत्त्रमिश्रया ॥ ३५.३४ ॥

अथ मन्दपदं गत्वा धीमान् हेमाचलद्युतिः ।
अधस्ताद्बोधिवृक्षस्य निषसाद स बोधये ॥ ३५.३५ ॥

ततो दुहितृभिः सार्धं चापमादाय कौसुमम् ।
आजगाम मनोयोनिस्तस्य क्षोभयितुं मनः ॥ ३५.३६ ॥

आजिघ्रन्ती पुरस्तस्य मालतीकुसुमं नवम् ।
काचिन्न्यमीलयत्कांचिद्दृष्टिमालोलतारकाम् ॥ ३५.३७ ॥

सखीकर्णेऽभिधायान्या किमपि स्मितपूर्वकम् ।
तत्र लीलावती रामा काशयन्ती मुखं ययौ ॥ ३५.३८ ॥

सकामा दर्शयन्त्यन्या जगादेति जिनर्षभम् ।
रामायाः श्लथकाञ्चीकं नितम्बस्रस्तमंशुकम् ॥ ३५.३९ ॥

क्व च यौवनमेतदिन्दुकान्तं क्व च ते तपसे मनोऽभिलाषः ।
भज काममतो निवर्तयस्व वद किं तपसः फलं त्वयाप्तुम् ॥ ३५.४० ॥

हितकाम्यतया ब्रुवे भवन्तं किमतः परमाप्तुमिच्छसि त्वम् ।
गृहिधर्ममबाधिनं महान्तं न विहाय किमन्यदस्ति पुण्यम् ॥ ३५.४१ ॥

त्वदधिगमसमुत्सुकासु धीमन् किमियमदयिता मनोहरास्वपीति ।
मुखलवदन्ती कामिनी कामुकां वदनकमलानि नखेन खण्डयन्ती ॥ ३५.४२ ॥

यदा च तासु बोधिसत्त्वः सावज्ञमपि दृष्टिविषाणि विक्षिपत्स्वपि नानाचेष्टानि दर्शयत्सु ध्यानस्तिमिताक्ष एव तस्थौ तदा मारः प्रव्याजहार । भीषयित्वैनमुत्थापयतेति ।

ततः सिंहमुखः कश्चित्फूत्कारेण पुनः पुनः ।
बोधिसत्त्वस्य त्रासार्थं वह्नेः कणान् व्यसर्जयत् ॥ ३५.४३ ॥

ते कृशानुकणास्तस्य किंकरस्य मुखोज्झिताः ।
निपतन्तः क्षणाज्जग्मुः प्रफुल्लपुष्पतां मुनेः ॥ ३५.४४ ॥

शतवक्त्रेण तीक्ष्णाग्रां क्षेप्ता शक्तिं यदाक्षिपत् ।
विकसत्केसरव्यूहो बभूवोत्पलशेखरः ॥ ३५.४५ ॥

दंष्ट्राधरेण चान्येन विद्युदापिङ्गलत्विषा ।
क्षिप्तान्ययोगुडोष्णानि पुष्पाणि ब<भू>वुः क्षणात् ॥ ३५.४६ ॥

अन्येनाभ्युद्यतो बाहुः सखड्गः पिङ्गचक्षुषा ।
लोहस्तम्भसमुच्छ्रायः क्षणान्निश्चलतां ययौ ॥ ३५.४७ ॥

अथ मदनविजेतुः सिद्धमन्त्रानिलेन <जलधितटगवह्निः> किंकराणां समूहः ।
असितगतिसखेन प्रेर्यमाणः समन्ताद्<इव विरसविकीर्णः> क्षीणरोचिःशतोऽभूत् ॥ ३५.४८ ॥

ततः सैन्यभग्नाद्विषादवति कुसुमकेतौ भगवांश्चतुर्थध्यानाद्व्युत्थायेदमचिन्तयत् ।

आत्मनश्चेत्सुखाद्दुःखात्पुण्यं पापं प्रसूयते ।
कथं न भद्रता नित्यं धर्माभावे च देहिनाम् ॥ ३५.४९ ॥

रूपसौभाग्यभाग्यादिभेदः कथमिहेष्यते ।
यदि पूर्वकृतं नास्ति कथमत्र शुभाशुभौ ॥ ३५.५० ॥

कर्मणां हेतुकं कर्म चेत्सारादि न कल्पयेत् ।
अहेतुकं जगत्स्याच्चेत्कः कर्मस्वकतां वदेत् ॥ ३५.५१ ॥

सुखहेतुः सुखं स्याच्चेद्दुःखं दुःखस्य हेतुकम् ।
तपसा दुष्करेणैवं कथं मुक्तिर्भविष्यति ॥ ३५.५२ ॥

ईश्वरः कारणं केचिदबुधाः संप्रचक्षते ।
कथं न समता लोके समवर्तीश्वरो हि सः ॥ ३५.५३ ॥

इत्येवमबुधाः केचिदस्तिनास्तिप्रवादिनः ।
कुदृष्टिकर्मतो हीना जायन्ते नरकेष्वपि ॥ ३५.५४ ॥

सुदृष्टिकर्मतो भद्रा आर्यज्ञानप्रवेदिनः ।
स्वर्गलोकं गताः केचित्कायवाक्चित्तसंयमात् ॥ ३५.५५ ॥

अहो भवरतो लोकः क्लेशसंघैर्विहन्यते ।
जराव्याधिविपन्नश्च मृतः पुनः प्रजायते ॥ ३५.५६ ॥

अथ बोधिसत्त्वस्यैवमभवत् । कस्मिन् सति जरामरणं भवति किं च प्रत्ययात् । पुनरेवमभवत् । यदुताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानमुपादानप्रत्ययो भवो भवप्रत्यया जातिर्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्त्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्यानिरोधात्संस्कारनिरोधः संस्कारनिरोधाद्विज्ञाननिरोधो विज्ञाननिरोधान्नामरूपनिरोधो नामरूपनिरोधात्षडायतननिरोधः षडायतननिरोधात्स्पर्शनिरोधः स्पर्शनिरोधाद्वेदनानिरोधो वेदनानिरोधात्तृष्णानिरोधस्तृष्णानिरोधादुपादाननिरोध उपादाननिरोधाद्भवनिरोधो भवनिरोधाज्जातिनिरोधो जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । इत्येवं बोधिसत्त्वस्य प्रज्ञाचक्षुरुदपादि ।

अथासौ भगवान् बुद्धः प्रज्ञालोकप्रकाशकः ।
वैहायसं समुद्गम्य सिंहनादं ननाद च ॥ ३५.५७ ॥

सिंहोऽहं वादिजन्तूनां विरजस्को निरास्रवः ।
दुःखस्यान्तं करिष्यामि सत्त्वानां निरहंकृतिः ॥ ३५.५८ ॥

ततश्चकम्पे सधराधरा धरा वेलां व्यतीत्य प्रससार सागरः ।
संसक्तमन्द्राशयसौम्यनिस्वनाः दिवौकसां दुन्दुभयः प्रसस्वनुः ॥ ३५.५९ ॥

दिशः प्रसन्नाभरणाश्चकाशिरे मार्तण्डचन्द्रौ शरदीव रेजतुः ।
परिभ्रमच्चन्दनचूर्णरञ्जितं पपात पुष्पं नभसः सुगन्धिमत् ॥ ३५.६० ॥

समाययुर्विस्मयफुल्ललोचना दिवौकसस्तत्र सहाप्सरोगणैः ।
ववौ मनोज्ञात्मगुणः समीरणो मनःसु हर्षो जगतां व्यजृम्भत ॥ ३५.६१ ॥

उदीरिता हर्षपरीतमानसैर्महद्भिर्भूतगणैः सविस्मयैः ।
बुद्धस्य धर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः ॥ ३५.६२ ॥

अहो बतौदार्यमहो सुबुद्धिता <विशुद्धिताम्> पश्य यथास्य चेतसः ।
अहो स्वसौख्येषु <निसङ्गता> मतेर्नमोऽस्तु तेऽत्यद्भुतधैर्यविक्रम ॥ ३५.६३ ॥

सनाथतां साधु जगद्गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया ।
अमोघरूपा बत पुण्यसंचयाश्चिरस्य धर्मेण खलूर्जितं जितम् ॥ ३५.६४ ॥

सर्वबुद्धाश्च बुद्धाय वदन्तः साधु साध्विति ।
सौवर्णरत्नच्छत्त्राणि प्रयच्छन्ति स्म सुश्रिये ॥ ३५.६५ ॥

अथ सर्वदेवगणा बोधिसत्त्वं बोधिमण्डनिषण्णं प्राप्ताभिज्ञं जितमारबलं जयोद्गतच्छत्त्रध्वजपताकं पुरुषवैद्यं विगतभयसिंहं सुदान्तनागं त्रैविद्यप्राप्तं दशबलविक्रमं पूर्वप्रणिधिबोधिप्राप्तं विदित्वाभिसंपूजयन्त इति प्रार्थयामासुः ।

नाथोद्य जगतां धीर मारहन्तर्जिनर्षभ ।
अन्धभूते जगत्येवं प्रज्ञादीपं प्रकाशय ॥ ३५.६६ ॥

क्षुत्पिपासाहते लोके दुर्दृष्टिविकलाशये ।
सर्वपारमितामेघैर्धर्मामृतं प्रवर्षय ॥ ३५.६७ ॥

इति तुष्टाः सर्वे च देवगणाः प्राञ्जलयस्तत्रैव तस्थुः ।

ततोऽत्र कामावचराः सुवक्त्राः सुगन्धपुष्पाक्षतलाजतोयैः ।
सौवर्णकुम्भैश्च सगीतवाद्यैस्तस्याभिषेकं सफलं प्रचक्रुः ॥ ३५.६८ ॥

अथ तथागतो महानन्दः सर्वसत्त्वानां धर्मं देशयामीति ततः समुत्थाय चरितुं प्रचक्राम । अथ मारो भगवन्तं समेत्योवाच ।

परिनिर्वातु बुद्धः संश्चित्तसंकल्पवर्जितः ।
महान्तो मुनयः प्राज्ञा निर्वाणं हि ययुर्व्रतैः ॥ ३५.६९ ॥

एवमुक्तेऽथ मारेऽस्मिन् भगवांस्तमुवाच सः ।
अहं तावन्न पापीयन्नागमिष्यामि निर्वृतिम् ॥ ३५.७० ॥

यावन्न भिक्षवो धीरा दान्ताः प्राज्ञा विशारदाः ।
आर्यज्ञानप्रसंबोधा भविष्यन्ति बहुश्रुताः ॥ ३५.७१ ॥

यावन्न त्रीणि रत्नानि लोके संप्रथितानि च ।
दानपारादिभिः शक्ता बोधिसत्त्वा जितार्थिनः ॥ ३५.७२ ॥

भविष्यन्ति न मे यावद्बोधिप्राप्ता जितारयः ।
तावत्पापिष्ठ यास्यामि निर्वाणं न क्षयान्तकृत् ॥ ३५.७३ ॥

एवमुक्तेऽथ शाक्येन्द्रेऽधोमुखः कुसुमायुधः ।
हतोऽहमिति काष्ठेन विषसाद महीं लिखन् ॥ ३५.७४ ॥

अथ मारकन्यकाः पितरं विषादवन्तं दृष्ट्वा सहसैत्य प्रत्यभाषन्त ।

<दुर्मनासि> कथं तात प्रोच्यतां यद्यसौ नरः ।
रागपाशेन तं बद्ध्वा कुञ्जरं वानयामहे ॥ ३५.७५ ॥

<आनयित्वा> च तं शीघ्रं करिष्यामि वशं तव ।
तात मा गा विषादं तं नरोऽयं किमतो भयम् ॥ ३५.७६ ॥

मार आह ।
अर्हन् स सुगतो लोके न रागस्य वशं व्रजेत् ।
विषयं मे व्यतिक्रान्तं तस्माच्छोचाम्यहं भृशम् ॥ ३५.७७ ॥

ततस्ताः स्त्रीचापल्यादविदितप्रभावा बोधिसत्त्वस्य प्रभूतयौवनमत्तकाशिन्यः पितुर्वचनमनुश्रुत्य बोधिसत्त्वमुपसंक्रान्तास्तन्मनः संक्षोभयितुं प्रचक्रमिरे ।

बभाष शक्येन्द्रमनिन्दिताधरा विलासिनी तं मधुरप्रलापिनी ।
स्तनौ प्रकाश्य द्विपकुम्भनिर्जितौ मुखेन चन्द्रं कमलं च हासिनी ॥ ३५.७८ ॥

एकातपत्रं जगतः प्रभुत्वं नवं वयः सौम्यवपुश्च कान्तम् ।
<एतांश्च> हित्वा तपसा किमर्थं रमस्व कामं मम काम्यदेहे ॥ ३५.७९ ॥

अन्या सुरामा मृगशावकाक्षी शनैः शनैस्तं मदविह्वलाङ्गी ।
गत्या जयन्ती गजराजहंसौ किंचिद्विहस्याथ मुनिं बभाषे ॥ ३५.८० ॥

सौवर्णमुक्ताभरणाङ्गभूषं त्वदर्थमेवेह बिभर्मि राजन् ।
प्रभुङ्क्ष्व कामं तपसः फलं तत्कामे प्रसक्ता मुनयो ह्यटन्ते ॥ ३५.८१ ॥

आच्छाद्य वस्त्रेण मुखार्धभागं निबध्य दृष्टिं मुनिवंशकेतौ ।
तस्थौ तदग्रे किमपि प्रवक्तुं विकाशयन्ती कमलं सलीला ॥ ३५.८२ ॥

लोकानुकम्पा तव चेन्मतं स्याद्विहाय मातापितरौ च <मित्रान्> ।
वने वसंस्त्वं कमिवोद्धरिष्येरिति प्रगल्भं मनसीव तस्याः ॥ ३५.८३ ॥

कुर्वन्ति भावानि मुनिं विजेतुं यथा यथा ताः स्म विलासवत्यः ।
तस्थौ निरीहे निरहंकृतौ च तथा तथासौ स्तिमितायताक्षः ॥ ३५.८४ ॥

एता मुनेर्<भावविदर्शयन्त्यो >मनोऽथ हर्तुं न च शक्नुवन्त्यः ।
तपोऽपराधाज्जरसा निपीतं वपुर्विरूपं तमसाभिजग्मुः ॥ ३५.८५ ॥

ततस्ताः पितुरन्तिकं गत्वैवमाहुः ।

सत्यं वदसि नस्तात न रागेण स नीयते ।
विषयं नो व्यतिक्रान्तं वयं शोचामहेऽपि तत् ॥ ३५.८६ ॥

तत्साधु नस्तातेदं जराजर्जरशरीरमन्तर्धापय । मार आह ।

नाहं पश्यामि तं लोके पुरुषं सचराचरे ।
बुद्धस्य यो ह्यधिष्ठानं शक्नुयात्कर्तुमन्यथा ॥ ३५.८७ ॥

तं गत्वा त्वरितं यूयं प्रार्थयध्वं गुणाम्बुधिम् ।
स वः पौराणकं कायं करिष्यति यथामतम् ॥ ३५.८८ ॥

ततस्तास्तथागतं प्रार्थयित्वा लब्धपौराणाधिकसुन्दरदेहाः स्वभवनं ययुः । अथ दुर्दिने संजाते मुचिलिन्दनागराजः स्वभवनान्निष्क्रम्य भगवतः <काये शीतार्तं> मा भूदिति सप्तभिः फणैराच्छाद्य दुर्दिने व्यतिक्रान्ते तथागतं प्रणम्य स्वभवनं जगाम । ततश्चरकपरिव्राजकवृद्धश्रावकगौतमनिर्ग्रन्थाजीविकादयस्तं तथागतं न्यग्रोधमूलस्थं प्रणिपत्योचुः । अपि भगवता गौतमेनैतत्सप्ताहदुर्दिनं सम्यक्सुखेन व्यतिनामितमिति । भगवानाह ।

सुखं विवेकतुष्टस्य सदा शान्तौ स्थितस्य च ।
सुखं विरागतो लोके पापानां समतिक्रमात् ॥ ३५.८९ ॥

ततस्तथागतो ध्यानसुखवेदी तारायणमूले तस्थौ । तन्मुहूर्ते त्रपुषभल्लिकौ वणिजौ विविधपण्यं गृहीत्वा दक्षिणापथादुत्तरापथं गच्छन्तौ काषायसंवृतशान्तदेहं तथागतं पश्यन्तौ प्रहर्षजातौ तत्पादौ शिरसाभिवन्द्य मधुपायसपूर्णपिण्डपात्रं तस्मै प्रददतुः । अथ तथागतस्य भोजनकालं ज्ञात्वा चत्वारो <महाराजानः> सपरिवाराः पुष्पधूपगन्धमाल्यविलेपनतूर्यताडावचरसंगीतकैः पूजां कृत्वा सर्पिमण्डपात्राणि प्रयच्छन्ति स्म । अथ भगवांस्तानि पात्राणि प्रतिगृह्य मङ्गलवाक्यपूर्वं तानुवाच ।

श्रीर्वोऽस्तु दक्षिणे हस्ते श्रीर्वो वामकरे स्थिता ।
श्रीर्वोऽस्तु सर्वलोकेषु मालेव शिरसि स्थिता ॥ ३५.९० ॥

स्वस्ति कुर्वन्तु वो देवास्तिष्ठतां गच्छतां पथि ।
मतिर्धर्मे सदा भूयात्पापे म भूत्कदा चन ॥ ३५.९१ ॥

लब्धार्थाः सततं यूयं नीरोगाः परमायुषः ।
अनेन कर्मणा बौद्धा भवन्तु सुगतात्मजाः ॥ ३५.९२ ॥

इति श्रुत्वा मुनेर्वाक्यं चित्तपद्मप्रकाशिकाः ।
बुद्धे धर्मे च संघे च ते नित्यं शरणं ययुः ॥ ३५.९३ ॥

अथ तथागतस्यैतदभवत् ।

दुष्करेण मया बोधिः प्राप्तेयं परमार्थतः ।
देशयेयं परेभ्यश्चेन्न ते जानन्त्यलं ततः ॥ ३५.९४ ॥

इति निश्चित्य सारज्ञस्तूष्णीभावं ययौ मुनिः ।
मूर्खानां मण्डले संस्थो मौनत्वाद्विप्रशोभते ॥ ३५.९५ ॥

अथ खलु शिखी ब्राह्मणस्तथागतरश्मिसंचोदितः सार्धं शक्रादिदेवगणै रात्रौ दिव्यावभासेनावभास्य तथागतमभिवन्द्य च धर्मदेशनतायै प्रार्थयामास ।

मोहान्धे भगवांल्लोके प्रज्ञादीपं प्रदीपय ।
क्षुत्पिपासाहते लोके धर्मामृतं प्रवर्षय ॥ ३५.९६ ॥

यतो बोधिं समासाद्य दुष्करेणैव <तापसा> ।
ध्यानसुखेषु लीनोऽसि लोकोऽयं प्रलयं व्रजेत् ॥ ३५.९७ ॥

अथ तथागतस्तं शिखिनं ब्राह्मणं तूष्णीभावेनाधिवासयति स्म । तस्मिन्नेव समये मागधानां पापाचारत्वान् <महोत्पातम्> उदपादि । पुनरपि शिखी ब्राह्मणस्तथागतमेतदवोचत् ।

भगवन्मगधे देशे महोत्पातसमाकुलाः ।
भवन्ति विकला लोका भूतयक्षैरुपद्रुताः ॥ ३५.९८ ॥

तेषां पापाग्निशान्तये धर्मामृतं प्रवर्षय ।
यथापूर्वं प्रतिज्ञातं साफल्यं कुरु सांप्रतम् ॥ ३५.९९ ॥

अथ भगवांस्तं सर्वावन्तं लोकधातुं बुद्धचक्षुषावलोकयन्नधमोत्तममध्यमां लोकस्थितिं दृष्ट्वा देशयेयं वा न वेति विचिन्तयन् करुणया संचोदितः शिखिने ब्राह्मणाय धर्मदेशनतया
स्वीकृतवान् धर्मं देशयिष्यामीति । ततः शिखी ब्राह्मणः प्रमुदितमना मुनेश्चरणौ वन्दित्वा स्वभवनं ययौ । अथ बोधिवृक्षदेवता प्रणम्यैवमाह । क्व भगवन् धर्मचक्रं प्रवर्तयिष्यसीति । तथागत आह । वाराणस्यां मृगदाव इति । कुतः ।

काशी पुण्यवती भूमिः सुभिक्षा सुजनाश्रया ।
यत्र देवाः सदा सन्त्यप्यमरा मर्तुमिच्छया ॥ ३५.१०० ॥

अपि च ।

तत्र प्रवर्तितं चक्रं पूर्वबुद्धैस्तथागतैः ।
अनागताश्च तत्रैव वर्तयिष्यन्ति धर्मकम् ॥ ३५.१०१ ॥

ततो वाराणसीं गमिष्यामीति प्रस्थितं तथागतमाजीवको दृष्ट्वा प्रणामं कृतवान् । तेनैव सार्धं विविधां संमोदनां कथां कृत्वा भगवतः क्व गमनाभिप्रायमित्यभ्यनुयुक्तस्तथगतश्चैनमवोचत् ।

वाराणसीं गमिष्यामि गत्वा वै योगिनां <पुरिम्> ।
अन्धभूतस्य लोकस्य धर्मोल्कां संप्रकाशये ॥ ३५.१०२ ॥

गच्छ गौतमेत्युत्थाय स आजीवको दक्षिणाभिमुखः प्रक्रान्तः । तथागतोऽपि वाराणसीमभिगच्छन् गङ्गामहानदीं विहायसा तीर्त्वानुपूर्वेण जनपदचारिकां चरन् पात्रचीवरमादाय वाराणसीं महानगरीं पिण्डाय प्राविक्षत् । तस्यां पिण्डाय चरित्वा कृतभक्त ऋषिपतने मृगदावे देवताभिः प्रज्ञप्तरत्नसिंहासने पर्यङ्कमाभुज्य समाधिस्तिमितविग्रहस्तस्थौ । ततः पञ्चका भद्रवर्गीया भिक्षवस्तथागतस्य पादौ शिरोभिर्<वन्द्य> प्राञ्जलयो निषेदुः । अथ तथागतदेहाद्रश्मिर्निश्चरन् सर्वावन्तं लोकधातुमवभास्य संचोदयति स्म ।

मानुषं दुर्लभं प्राप्य क्षणसंपत्सुदुर्लभा ।
तथागतस्य चोत्पत्तिरुदुम्बरसुदुर्लभा ॥ ३५.१०३ ॥

अद्य काशीं गतो बुद्धो लोकानां दुःखशान्तये ।
तद्वो धर्मे मतिः कार्या समायातात्र सत्वरम् ॥ ३५.१०४ ॥

ततः समन्ताद्दिग्भ्यः पूर्वप्रणिधानसमन्वागता बोधिसत्त्वगणाः
शक्रब्रह्मादिलोकपालाः सुरासुरयक्षगन्धर्वगरुडकिन्नरमहोरगनागराजमनुष्याश्च स्वस्वभवनादागत्य तथागतस्य महतीं पूजां प्रकुर्वन्तश्चरणयोर्निपत्य भगवन्तमभिसंमुखास्तत्रैव तस्थुः । ततो धर्मचक्रप्रवर्तनो नाम बोधिसत्त्वो भगवन्तं प्रदक्षिणीकृत्य प्रणम्य सर्वरत्नमयं सहस्रारं नानासुगन्धिपुष्पदामसंयुक्तं तथागतपूजार्थमुपनामय्य कृताञ्जलिपुटो धर्मचक्रप्रवर्तनायैनं प्रार्थयामास ।

भगवन्मुनिशार्दूल जितमार जिनर्षभ ।
पूरय धर्मशङ्खां च कुतीर्थमृगभीतये ॥ ३५.१०५ ॥

यस्त्वं पूर्वादिभिः पूर्वं प्रणिधिं कृतवानिति ।
बुद्धो भवेयं लोकेषु सत्त्वदुःखप्रशान्तये ॥ ३५.१०६ ॥

तत्कुरु भगवन्नाथ प्रतिज्ञायाश्च पूरणम् ।
नो चेद्भगवांश्छास्ता भवदुःखाकुलं जगत् ॥ ३५.१०७ ॥

दीपंकरप्रसादेन बुद्धो भवसि सांप्रतम् ।
दुःखाग्निदीपितं लोकं दृष्ट्वामृतं प्रवर्षय ॥ ३५.१०८ ॥

ब्रह्माद्या लोकपालाश्च श्रोतुकामाः समागताः ।
दुःखमूलप्रहाणाय धर्मचक्रं प्रवर्तय ॥ ३५.१०९ ॥

अथावोचन्महाबौद्धः शाक्यसिंहो दयोदधिः ।
पर्षदं च समालोक्य भिक्षूनालभ्य पञ्चकान् ॥ ३५.११० ॥

अविद्याबीजसंभूतः स्कन्धाङ्कुरः प्ररोहति ।
पुण्यपापरसं पीत्वा भववृक्षो महान् भवेत् ॥ ३५.१११ ॥

तस्य फलं महत्स्वादु परिणामं विषायते ।
<तदेवं विषफलं ज्ञात्वा> त्यक्तव्यं दूरतो बुधैः ॥ ३५.११२ ॥

विषवृक्षाङ्कुरं दग्धुं बीजमेव प्रदह्यताम् ।
अविद्याबीज<दग्धेन> भवान्मुक्तिर्भवेद्ध्रुवम् ॥ ३५.११३ ॥

इत्येवं भगवान् बुद्धः पुरुषदम्यसारथिः ।
धर्मचक्रं प्रवर्त्याथ पुनर्धर्मं दिदेश सः ॥ ३५.११४ ॥

श्रावकाणां चतुःसत्यमार्यमष्टाङ्गमार्गिकम् ।
आदावन्ते च मध्ये च कल्याणं ब्रह्मचर्यकम् ॥ ३५.११५ ॥

ततः प्रहर्षादिव साचलाचला मही चकम्पे निभृतार्णवांशुका ।
वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश्चकाशिरे ॥ ३५.११६ ॥

प्रसक्तमन्दस्तनिताः प्रहासिनस्तडित्पिनद्धाश्च घनाः समन्ततः ।
परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तमेनं कुसुमैरवाकिरन् ॥ ३५.११७ ॥

समुद्वहन् धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः ।
मुदा प्रवृत्तैरविभक्तभक्तिभिस्तमर्चयामास कृशांशुकैरिव ॥ ३५.११८ ॥

अथ <सर्वावते धातौ> बभूवुर्ब्रह्मचारिणः ।
बुद्धस्य वचनं श्रुत्वा बुद्धधर्मपरायणाः ॥ ३५.११९ ॥

ततः सर्वे समुत्थाय पुजां कृत्वा जगद्गुरोः ।
सनाथं स्याज्जगच्चाद्य इति प्रोक्ता ययुर्मुदा ॥ ३५.१२० ॥

भगवानपि सकलसत्त्वोद्धारं करिष्यामीति समुत्थाय जनपदचारिकां प्रचरति स्म ।
तदेवमयं भगवांस्त्रिभुवनहितकाम्यया दिव्यसुखमपि विजह्य दुष्करं कृतवानिति बुद्धे परः प्रसादः करणीयः । सत्कृत्य च तद्धर्मं श्रोतव्यमेवं दुष्करेण <बोधिप्राप्तवान्> इति । एष राजकुमारो राज्यसुखतृप्तो दिव्यस्त्रीपरिभोगविरतः सकलराज्यभोग्यानि तृणवद्विजह्य परदुःखेन दुःखी दुष्करचर्यां चरन् बलवन्तं मारं <विजित्वा> सम्यक्संबोधिमपि प्राप्तो बुद्धो बभूव । अयमेव भगवाञ्छाक्यसिंहस्त्रिभुवननाथ इति बोधिगवेषिणा पुरुषेण राज्यसुखमपि विरमणीयम् । दुष्करेणापि भवितव्यं मारमपि जेतव्यमिति बोधिसत्त्वेन बोधिवाञ्छया भवितव्यमिति ॥

॥ इति शाक्यसिंहतथागतजातकं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=जातकमाला_(हरिभट्टः)&oldid=368835" इत्यस्माद् प्रतिप्राप्तम्