देवतासूत्रम्
देवतासूत्रम् [[लेखकः :|]] |
देवतासूत्रम् (१५४२.५)
एवं मया श्रुतमेकस्मिं समये भगवां च्छ्रावस्त्यां विहरति स्म ( १५४२.६) जेतवनेऽनाथपिण्डदस्यारामे अथान्यतमा देवता अतिक्रान्तवर्णा अतिक्रान्तायां रात्र्यां येन भगवांस्तेनोपसंक्रान्ता ( १५४२.७) उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा । अथ तस्या देवताया वर्णानुभावेन सर्वं जेतवनमुदारेणावभासेन ( १५४२.८) स्फुटमभूत् । एकान्ते निषण्णा सा देवता तस्यां वेलायामिमां गाथामभाषत
किं नु तं निशितं शस्त्रं किं वा हालाहलं विषम् ।
को नु प्रज्वालितो वह्नि किं वा तद्दारुणं तमः १ ( १५४३.१)
भगवानाह ।
दुष्टा वाङ्निशितं शस्त्रं रागो हालाहलं विषम् ।
द्वेषः प्रज्वालितो वह्नि ऽविद्या तद्दारुणं तमः २
देवता प्राह ( १५४३.२)
गृहीतं किं नु मर्त्येन किं वा तद्यदिहोज्झितम् ।
अभेद्यं कवचं किं नु किं वा तीक्ष्णमिहायुधम् । ३
भगवानाह ।
गृहीतं यत्स्वयं दत्तं यद्गृहे तदिहोज्झितम् । ( १५४३.३)
अभेद्यं कवचं क्षान्ति प्रज्ञा तीक्ष्णमिहायुधम् । ४
देवता प्राह ।
को न्वसौ प्रोच्यते चौरो धनं किं वा सतां मतम् ।
के वा सदेवके लोके प्रोच्यन्ते मुषिता इति । ५ ( १५४३.४)
भगवानाह ।
वितर्कः कुशलश्चौरो धनं शीलं सतां मतम् ।
ते चापि मुषिता लोके यैः शीलं विनिपातितम् । ६ ( १५४३.५)
देवता प्राह ।
को न्वसौ सुखितो ज्ञेय को वा यः परमेश्वरः
को वा विभूषितो नित्यं ब्रूहि को वा विडंबितः ७
भगवानाह । ( १५४३.६)
अल्पेच्छः सुखितो ज्ञेयः संतुष्टो परमेश्वरः
शीलवां विभूषितो नित्यं भ्रष्टशीलो विडंबितः ८
देवता प्राह ।
किं स्विदग्निर्न दहति न भिनत्ति च मारुतः ( १५४३.७)
किं स्विन्न क्लेदयन्त्यापः प्लावयन्तो वसुन्धराम् । ९
भगवानाह ।
पुण्यमग्निर्न दहति न भिनत्ति च मारुतः
पुण्यं न क्लेदयन्त्यापः प्लावयन्तो वसुन्धराम् । १० ( १५४३.८)
देवता प्राह ।
किं स्विद्राजा च चौराश्च स्पन्दमाना समुद्यता ।
नापहर्तुं शक्नुवन्ति स्त्रिया वा पुरुषस्य वा । ११ ( १५४४.१)
भगवानाह ।
पुण्यं राजा च चौराश्च स्पन्दमाना समुद्यता ।
नापहर्तुं शक्नुवन्ति स्त्रिया वा पुरुषस्य वा । १२
देवता प्राह ।
वत्सलो बान्धवः कोऽसौ को वा दुष्टाशयो रिपुः ( १५४४.२)
किं वा तद्दारुणं दुःखं किं वा परमं सुखम् । १३
भगवानाह ।
वत्सलो बान्धवः पुण्यं पापं दुष्टाशयो रिपुः ( १५४४.३)
नारकं दारुणं दुःखं शुद्धा भावः परमं सुखम् । १४
देवता प्राह ।
केनायमावृतो लोकः केन लोको वशीकृतः
केन त्यजति मित्राणि केन स्वर्गं न गच्छति । १५ ( १५४४.४)
भगवानाह ।
अज्ञानेनावृतो लोको मोहेन च वशीकृतः
लोभात्त्यजति मित्राणि संगात्स्वर्गं न गच्छति । १६ ( १५४४.५)
देवता प्राह ।
किं तत्प्रियमपथ्यं च किं वा पथ्यं न च प्रियं
को वा पीडाकरो व्याधिः कोऽसावेको भिषग्वरः । १७
भगवानाह ।
कामाः प्रिया अपथ्याश्च मोक्षः पथ्यो न च प्रियः ( १५४४.६)
रागः पीडाकरो व्याधिर् बुद्धश्चैको भिषग्वरः । १८
देवता प्राह ।
केन मित्राणि वर्धन्ते केन शाम्यन्ति शत्रवः ( १५४४.७)
केन स्वर्गमवाप्नोति केन मोक्षं च गच्छति । १९
भगवानाह ।
त्यागान्मित्राणि वर्धन्ते मैत्र्या शाम्यन्ति शत्रवः
शीलात्स्वर्गमवाप्नोति ज्ञानान्मोक्षं च गच्छति । २० ( १५४४.८)
देवता प्राह ।
इदं संशयमद्यापि मम त्वं छेत्तुमर्हसि ।
अस्माल्लोकात्परं लोकं को गतोऽत्यन्तवंचितः । २१ ( १५४५.१)
भगवानाह ।
विद्यमानेषु भोगेषु पुण्यं येन न संचितम् ।
अस्माल्लोकात्परं लोकं सो गतोऽत्यन्तवंचितः । २२
देवता प्राह ( १५४५.२)
चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतम् ।
सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् ॥ २३
इत्युक्त्वा सा देवता भगवतो भाषितम् ( १५४५.३) अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ता ॥
अल्पदेवतासूत्र = अद्स्
एवं मया श्रुतमेकस्मिं समये भगवां च्छ्रावस्त्यां (अ १५४५.४) विहरति स्म जेतवने अनाथपिण्डदस्यारामे अथान्यतमा देवता अतिक्रान्तवर्णा अतिक्रान्तायां रात्र्यां येन भगवांस्(अ १५४५.५) तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा अपीदानीं तस्या देवताया वर्णानुभावेन (अ १५४५.६) सर्वं जेतवनमुदारेणावभासेन स्फुटमभूत् । एकान्ते निषण्णा सा देवता तस्यां वेलायां गाथामभाषत ॥
किंशीलाः किंसमाचाराः के गुणाः केन कर्मणा । (अ १५४५.७)
के .ए .इहादि .. प्राज्ञाः के जना स्वर्गगामिनः १
तस्या शास्ता व्याकार्षी देवता .. .. .. .. ..ः (अ १५४५.८)
श्रूयतां देवते मह्यं ये जना स्वर्गगामिनः २
प्राणातिपाताद्विरता सुशीलाः संयमे रताः
येन हिंसन्ति भूतानि ते जनाः स्वर्गगामिनः ३�