सामग्री पर जाएँ

हर्षचरितम्/पञ्चमोच्छ्वासः

विकिस्रोतः तः

नियतिर्विधाय पुंसां प्रथमं सुखमुपरि दारुणं दुःखम्‌।

कृत्वा लोकं तरला तडिदिव वज्रं निपातयति ॥ १ ॥

पातयति महापुरुषान्सममेव बहूननादरेणेव ।

परिवर्तमान एकः कालः शैलानिवानन्तः ।२॥