सामग्री पर जाएँ

बृहद्दैवज्ञरञ्जनम्/लग्नप्रकरणं

विकिस्रोतः तः

अथ एकोनत्रिंशं लग्नप्रकरणं प्रारभ्यते ।
त्रैलोक्यप्रकाशे-
लग्नं देवः प्रभुः स्वामी लग्नं ज्योतिः परं मतम् ।
लग्नं दीपो महान् लोके लग्नं तत्त्वं दिशन् गुरुः ॥ १ ॥
म्लेच्छेषु विस्मृतं लग्नं कलिकालप्रभावतः ।
प्रभुप्रभावमासाद्य जैनधर्मेऽवतिष्ठति ॥ २ ॥
तुलानुमुख्ययंत्राणि तिष्ठंति किल ताजिके ।
षड्वर्गशुद्धिमाख्याति लग्ननिश्चयमिच्छता ॥ ३ ॥
नारदः -
त्रुटेः सहस्रभागो यो लग्नकालः स उच्यते ।
ब्रह्मापि तं न जानाति किं पुनः प्राकृतो जनः ॥ ४ ॥
लल्लः-
न तिथिर्न च नक्षत्रं न योगो नैंदवं बलम् ।
लग्नमेव प्रशंसंति गर्गनारदकश्यपाः ॥ ५ ॥
ज्योतिःसागरे-
लग्नं जीवो मनश्चंद्रः शरीरं तिथिभादिकाः ।
जीवे पुष्टे फलं पुष्टं नष्टे नष्टं विदुर्बुधाः ॥ ६ ॥
भुवनदीपके-
इंदुः सर्वत्र बीजांभो लग्नं च कुसुमप्रभम् ।
फलेन सदृशोंऽशश्च भावा: स्वादुफलं स्मृतम् ॥ ७ ॥
ज्योतिर्विवरणे—
लग्नवीर्यं विना यत्र यत्कर्म क्रियते बुधैः ।
तत्फलं विलयं याति ग्रीष्मे कुसरितो यथा ॥ ८ ॥
रेणुकः –
यथा जन्मलग्नाच्छुभं वाशुभं वा फलं ज्ञायते तद्वदेवं प्रकल्प्यम् ।
सदा सर्वकार्ये बुधैर्लग्नवीर्यं विचिंत्यं विना तेन कार्यं न किंचित् ॥ ९ ॥
श्रीपतिः –
आदौ हि संपूर्णफलप्रदं स्यान्मध्ये पुनर्मध्यफलं विचिंत्यम् ।
अतीव तुच्छं फलमस्य चांते विनिश्चयोऽयं विदुषामभीष्टः ॥ १० ॥
विरोधमभिषेकं च राज्ञां साहसकर्म च ।
धात्वाकरादिसंबंधं मेषलग्ने प्रसिद्ध्यति ॥ ११ ॥
वृषोदये विवाहश्च ध्रुवं वेश्मप्रवेशनम् ।
कुमारीवरणं दानं क्षेत्रारंभादि चेष्यते ॥ १२ ॥
कलाविज्ञानसंबंधं वृषलग्नोदितं च यत् ।
विभूषणादिकं कर्म कर्तव्यं मिथुनोदये ॥ १३ ॥
वापीकूपतडागादिवारिबंधनमोक्षणे ।
पौष्टिकं कर्म यत्किंचित्सर्वं सिद्ध्यति कर्किणि॥१४॥
वणिक्क्रियाद्यं पण्यं च कर्षणं नृपसेवनम् ।
परयोगश्च मेषोक्तं यश्च कंठीरवे हितम् ॥ १५ ॥
औषधं शिल्पिविज्ञानं भूषणादि चरं स्थिरम् ।
कर्तव्यं पौष्टिकारंभं कन्यालग्ने प्रसिद्ध्यति ॥ १६ ॥
कृषिकर्म वणिक्सेवा यात्राकर्म तुलोदये ।
प्रसिद्यंवौति हि सर्वाणि तुलाभांडाश्रितानि च ॥ १७ ॥
साहसं दारुणोग्रं च राजसेवाभिषेचनम् ।
चौर्यकर्म स्थिरारंभाः कर्तव्या वृश्चिकोदये ॥ १८ ॥
प्रस्थान पौष्टिकोद्वाहाः सवाहनपरिग्रहाः ।
चापलग्ने विधेयाः स्युः चरकर्मप्रसिद्धये ॥ १९ ॥
क्षेत्राश्रयाण्यंबुयात्रा बंधमोक्षौ च वारिणाम् ।
दासीचतुष्पदोष्ट्रादि कर्तव्यं मकरोदये ॥ २० ॥
नौचर्योदकयानं च कर्म ध्रुवचरं तथा ।
बीजसंग्रहणोप्ती च कर्तव्यं कलशोदये ॥ २१ ॥
विद्यालंकृतिशिल्पादि कृष्यंबु पशुकर्म च ।
यात्रोद्वाहाभिषेकाद्यं कार्यं मीनोदये बुधैः ॥ २२ ॥
शुद्धेषु मेषाद्युदयेषु कर्मण्येतानि सिद्ध्यंति यथोदितानि ।
क्रूरग्रहालोकनयोगदुष्टेष्वेतेषु कर्मोदितमुग्रमेव ॥ २३ ॥
विलग्नहोराद्रेष्काणनवांशद्वादशांशकः ।
त्रिंशांशश्चेति षड्वर्गाः ससौम्यग्रहजः शुभः ॥ २४ ॥
बृहज्जातके –
क्षितिजसितज्ञचंद्ररविसौम्यसितावनिजाः ।
सुरगुरुमंदशौरीयमगुरवश्च गृहांशकपाः ॥ २५ ॥
नीलकंठ :-
ओजे रवींद्वोः सम इंदुरव्योर्होरे गृहार्धं प्रमिते विचिंत्ये ।
द्रेष्काणपाः स्वेषु नवर्क्षनाथा क्रिये (१) ण (१०) तौलीं(७)दुभतो ( ४ ) नवांशाः ॥ २६ ॥
वाराहः –
कुजरविजगुरुज्ञशुक्रभागाः पवन(५)समीरण(५) कौर्पि(८)जूक (७) लेया: (५) ।
अयुजि युजिभे विपर्ययस्थाः शशिभवनालिझषांत्यमृक्षसंधिः ॥ २७ ॥
श्रीपतिः –
वर्गे शुभे लग्नगतेपि सौम्ये सपौष्टिकं कर्म बुधैः प्रदिष्टम् ।
लग्नप्रपन्ने पुनरुग्रवर्गे स्यात्कर्मणः क्रूरतरस्य सिद्धिः ॥ २८ ॥
घटमिथुनकुलीरा धन्विगोमीनकन्या इह शुभभवनत्वाद्राशयः सप्त सौम्याः ।
अलिघटमृगसिंहाजाश्च पापास्पदत्वान्मुनिभिरभिहितास्ते प्रायशः क्रूरभावाः ॥ २९ ॥
सौम्योग्रतैषां न खलु प्रकृत्या योगेन सा साध्वितरग्रहाणाम् ।
क्रूरोपि सौम्यः स शुभाश्रितः स्यात्सौम्योपि पापाश्रितमुग्रमेव ॥ ३० ॥
ग्रहासन्नावलोकाभ्यां राशेर्भावोनुवर्तते ।
ग्रहोत्थस्तद्विहीनोसौ स्वभावमुपसर्पति ॥ ३१ ॥
प्रायः शुभा न शुभदा निधनव्ययस्था धर्मांत्यधीनिधनकेंद्रगताश्च पापाः ।
सर्वार्थसिद्धिषु शशी न शुभो विलग्ने सौम्यान्वितोपि निधनं न शुभं च लग्नम् ॥ ३२ ॥
लघुजातके –
मेषाद्याश्चत्वारः सधन्विमकराः क्षपाबला ज्ञेयाः ।
पृष्ठोदया विमिथुनाः शिरसान्ये ह्युभयतो मीनाः ॥ ३३ ॥
मेषवृषधन्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च ।
कीटः कर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ ३४ ॥
मकरस्य पश्चिमार्धं कुंभो मीनश्च जलचराः ख्याताः ।
मिथुनतुलाधरकन्या द्विपदाख्या धनुषि पूर्वभागश्च ॥ ३५ ॥
पुंस्त्री क्रूराक्रूरौ चरस्थिरद्विस्वभावसंज्ञाश्च ।
अजवृषमिथुनकुलीराः पंचमनवमैः सहेंद्राद्याः ॥ ३६ ॥
तनुधनसहजसुहृत्सुत रिपुजायामृत्युधर्मकर्मायाः ।
व्यय इति लग्नाच्चतुरस्राख्येष्टमचतुर्थे ॥ ३७ ॥
अधिपयुतो दृष्टो वा बुधजीवनिरीक्षितश्च यो राशिः ।
स भवति बलवान्न यदा दृष्टो युक्तोपि वा शेषैः ॥ ३८ ॥
होरामकरंदे –
भवनमथ तदर्द्धे दृक्च सप्तांशकाख्यौ तदनु च नवभागो द्वादशास्त्र्यंशदंशः ।
भवति भवनमध्ये सप्तवर्गाभिधोयं बलमपि मुनिमुख्यैः प्रोक्तमस्यानुपूर्वम् ॥ ३९ ॥
राजमार्तंडे-
शुष्कमार्द्रं दहत्येधो महादीप्तो यथानलः ।
तिथ्यादीनां फलं तद्वल्लग्नदोषं विनिर्दहेत् ॥ ४० ॥
वसिष्ठः –
यात्रालग्नादिकेंद्रेषु शून्येषु शुभखेचरैः ।
निष्फलं गमनं तस्य जारजातस्य पिंडवत् ॥ ४१ ॥
संहिताप्रदीपे –
प्राधान्यमत्रोदयशीतभान्वोः स्थितं द्वयोरेव जगत्प्रसिद्धम् ।
तत्रापि केचिद्बलवद्विलग्नं व्याचक्षते शैत्यकरं तथान्यैः ॥ ४२ ॥
दोषैर्महद्भिर्निहते विलग्ने हन्येत वीर्ये शशिनि त्विषोपि ।
चित्ते हि दोषोपहते नराणां शरीरमाप्नोति सुखं न किंचित् ॥ ४३ ॥
यथा विलग्नं गुणवर्जितं स्यात्तदा बलीयानपि किं मृगांकः ।
यतो नितांतं गुणवानपीह दैवन हीनोप्यतिदुर्बलः स्यात् ॥ ४४ ॥
यतो हृषीकं मनसा समेतमर्थं न गृह्णाति न तेन हीनम् ।
यच्चंद्रदोषोपहतं दिनं स्यात्तस्मिन्विलग्नादि कथं विचिंत्यम् ॥ ४५ ॥
आदौ हि चंद्रस्य बलं विचिंत्यं लग्नस्य पश्चादथ सप्तवर्गः ।
किं चंद्रवीर्येण विनेतराणि कुर्वंति सत्यायुषि लक्षणानि ॥ ४६ ॥
इत्थं विवादो विदुषां बहूनां परस्परं भिन्नमतैर्वचोभिः ।
प्रधानमस्येति न वक्तुमेति शास्त्राणि विज्ञाय पुरातनानि ॥ ४७ ॥
प्रायेण सर्वत्र विलोकयंति चांद्रं बलं गोचरतो विशुद्धम् ।
लोकोक्तितश्चंद्रबलं प्रधानं शास्त्रेषु मुख्यं खलु लग्नमेव ॥ ४८ ॥
यत्रोदितं लग्नबलं प्रधानं विलोक्यमिंदोरपि तत्र वीर्यम् ।
पुष्टं फलं स्यादुभयोर्बलाप्तौ लग्नाब्जयोरन्यतमेन मध्यम् ॥ ४९ ॥
अत्रापि मांडव्यमुनेर्विशेषं प्रायेण चंद्रस्य बलं विलोक्यम् ।
समुत्सुके कर्मणि लग्नवीर्यं तात्कालिक चाप्यनयोरलाभे ॥ ५० ॥
सप्ताश्वि (२७) निघ्ना दिनयातनाडी षष्ठ्या विहृत्याप्तफलं वियोज्यम् ।
वारे तिथौ भे च रवौ च ते स्युस्तात्कालिका वारतिथींदुसूर्याः ॥ ५१ ॥
इत्याद्यनुसाराल्लग्नमेव शुभाशुभदायकमतः लग्नसाधनज्ञानावश्यकत्वम् तच्च ग्रहलाघवीतो लग्नानयनं कुर्यात् ग्रंथविस्तारभयतो नात्रास्माभिर्निरूप्यते ।
लल्ल:-
क्रूरैर्लग्नयुतं त्याज्यं मंगलेष्वखिलेष्वपि ।
जन्मांगादष्टमं क्रूरं लग्नगं संत्यजेच्छुभे ॥ ५२ ॥
नारदः-
भृगुः षष्ठाह्वयो दोषो लग्नात्षष्ठगते सिते ।
उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत् ॥ ५३ ॥
कश्यपः –
कुजाष्टमो महादोषो लग्नादष्टमगे कुजे ।
शुभत्रययुतं लग्नं त्यजेत्तुंगगतं यदि ॥ ५४ ॥
षडष्टेंदुर्महादोषो लग्नादष्टमषष्ठगे ।
चंद्रस्योच्चेथवा पूर्णे मृत्युकारी स मंगले ॥ ५५ ॥
व्यासः –
लग्नाधीशे नीचगे शत्रुगे वा रन्ध्रे चास्तं संगते वक्रगे वा ।
तल्लग्नं वै संत्यजेत्सर्वकार्ये कुर्यात्कार्यं चेत्तदा मृत्युभीतिः ॥ ५६ ॥
शाकल्यसंहितायाम्-
शांतिकं पौष्टिकं विद्यायानभोजनपूर्वकम् ।
जीवितेच्छुर्न कुर्वीत जातु लग्नेष्टमे स्वभात् ॥ ५७ ॥
फलप्रदीपे –
जन्मस्थोरिगृहाधिपोथ मरणाधीशोथवा मृत्युदः लग्नस्याधिपतिस्तथारिगृहगे वा मृत्युदो मृत्युगः ।
जन्मर्क्षोदयलग्नतोष्टमगृहं वा द्वादशांशोदयं यात्राद्येष्वखिलं धिया किल बुधैश्चिन्त्या भशुद्धिः सदा ॥ ५८ ॥
रत्नहारे-
नीचे लग्नपतिस्तथारिगृहगः शत्रोः कटाक्षं गतस्तद्युक्तोपि पराजिते रिपुगृहे युक्तेथ वा नैधने ॥ ५९ ॥
गर्गः –
अंशाधिपजन्मपती लग्नपतिश्चास्तमुपगतो यस्य ।
यात्रा समये मरणं तस्य भवति कतिपयाहेन ॥ ६० ॥
मांडव्यः –
लग्नेशेऽस्तंगते रोगो रन्ध्रे मृत्युर्व्यये व्ययः ।
षष्ठे शत्रुभयं घोरं नीचे भंगोरिभे भयम् ॥ ६१ ॥
रेणुकः-
लग्नाधिपः केन्द्रगतो बलिष्ठः स्वोच्चादिवर्गे शुभवर्गसंस्थः ।
करोति कर्तुर्बहुलार्थसिद्धिं विपर्ययेनैव विपर्ययं च ॥ ६२ ॥
स्वगृहादिवर्गगः खेटो मित्रषड्वर्गगोथः वा ।
लग्नेशः कार्यसिद्ध्यै स्यादेतत्सर्वं मुनेर्मतम् ॥ ६३ ॥
चंडेश्वरः-
ये लग्नदोषाः कुनवांशदोषा दृष्टेः कृता वृष्टिनिपातदोषाः ।
लग्ने गुरुस्तान् विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥ ६४ ॥
वसिष्ठः –
पापोपि लग्नाधिपतिस्त्रिषष्ठलाभस्थितः स्थानबलाधिकश्च |
लग्नोत्थदोषान् निखिलान्निहंति पापानि यद्वत्परमाक्षरज्ञः ॥ ६५ ॥
गुरुः स्वोच्चे स्ववर्गे वा यातः शुभः पापोपि वा भवेत् ।
बलवान् दोषविच्छेत्ता हरिरेको यथा गजान् ॥ ६६ ॥
गुरुः सर्वगुणोपेतो लग्नकेंद्रस्ववर्गः ।
दोषाघौघविनाशाय भक्त्या शंभोः प्रणामवत् ॥ ६७ ॥
वसिष्ठोपि –
शुक्रो दशसहस्राणि बुधो दशशतानि च ।
लक्षमेकं तु दोषाणां गुरुः केंद्रे व्यपोहति ॥ ६८ ॥
न सकलगुणसंपल्लभ्यतेल्पैरहोभिर्बहुतरगुणयुक्तं योजयेन्मंगलेषु ।
प्रभवति नहि दोषं भूरिभावे गुणानां सलिलमिव हि वह्नौ संप्रदीप्तेंधनाढ्ये ॥ ६९ ॥
श्रीपतिः –
समस्तगुणसंपदां न खलु लब्धिरल्पैर्दिनैर्गुणप्रचुरता तथा बहुमता च दोषाल्पता ।
न भूरिगुणसंचये प्रभवतीह दोषोऽल्पको प्लुदर्चिषि हुताशने सलिलबिंदुरेको यथा ॥ ७० ॥
एकोपि हंति गुणलक्षमपीह दोषः कश्चिद्गुणो न हि भवेद्यदि तद्विरोधी ।
मद्यस्य बिंदुरिह पावनपंचगव्यं संपूर्णमंत्र कलशं मलिनीकरोति ॥ ७१ ॥
संहिताप्रदीपे –
दोषैर्विहीनमखिलैश्च गुणैः समेतं नो लभ्यते गुणशतैर्विदुषापि लग्नम् ।
तस्मादभूतगुणसंयुतममल्पदोषं देयं विलोक्यमवलोक्य मतं बहूनाम् ॥ ७२ ॥
गुणैः प्रभूतैः सहिते विलग्ने दोषो लघीयानफलत्वमेति ।
तुषारराशौ निहितो यदि स्याद्धुताशनः किं कुरुते विकारम् ॥ ७३ ॥
एकोपि दोषो गुणराशिहंता भवेद्विरोधी न परो गुणश्चेत् ।
तीर्थांबुपूर्णं कलशं यथैको बिंदुः सुराया कुरुतेऽपवित्रम् ॥ ७४ ॥
इति श्रीमद्गयादत्तज्योतिर्विदात्मजरामदीनज्योतिर्वित्कृते संग्रहे बृहद्दैवज्ञरंजने लग्नकथनं नाम एकोनत्रिंशं प्रकरणं समाप्तम् ॥ २९ ॥