तूर्यगीतादिनिर्घोषैर्दीपोज्ज्वलनकर्म तत् । निवेद्यं तु शिवायाथ लब्धानुज्ञस्ततो गुरुः ॥ ४२ ॥ प्राग्ज्वालिताञ्छक्तिदीपानेकीकृत्य क्रमेण तु । मनोन्मनीशरावस्थान् नीत्वा दीपतरोरधः ॥ ४३ ॥ स्वातः शुक्लाम्बरः शुद्धः सुवेषः परिचारकः । शक्तिदीपं गृहीत्वोर्ध्वमारोहेद् दीपपादपम् ॥ ४४ ॥ तदग्रस्थमहावर्त्या शक्तिदीपं नियोजयेत् । ततः प्रारभ्य सर्वास्ता दीपमालाः समन्ततः ॥ ४५ ॥ प्रभूतस्निग्धवर्त्याढ्या ज्वालयेयुः क्षणादिव । प्रासादाङ्गेषु सर्वेषु परिवारालयेषु च ॥ ४६ ॥ मण्डपेषु च सालेषु प्रभूतस्नेहपूरितान् । दीपान् प्रज्वाल्य संपूज्य गतिवाद्यादिमङ्गलैः ॥ ४७ ॥ उत्सवप्रतिमापूर्वयात्रां प्राग्वत् प्रवर्तयेत् । कृत्वा प्रदक्षिणं सर्वदीपानामालयाद् बहिः ॥ ४८ ॥ ज्वलत्स्वेव प्रदीपेषु पञ्चकृत्व स्त्रिरेव वा । अन्तः प्रवेश्य देवेशं ततो भृतबलिं क्षिपेत् ॥ ४९ ॥ इत्थं कृत्वैकरात्रं वा त्रिरात्रं पञ्चरात्रकम् । सप्तरात्रान्तकं नीचकनिष्ठात्तमोत्सवे ॥ ५० ॥ दिवा विशेषपूजां च कल्पयेत् प्रतिवासरम् । यात्रां चैव यथापूर्व ग्रामादेस्तु प्रदक्षिणम् ॥ ५१ ॥ ततस्तु तीर्थयात्रान्ते रुपनं चोपपत्तितः । कृत्वा तु दक्षिणां दद्यादन्नाद्यं नाप्नवारितम् || ५२ ॥ एवं दीपोत्सवं मक्त्या ये वा परन्ति मानवाः । तेऽपीह भोगान् संप्राप्य स्वर्ग यान्ति(विरेप: निरेन)सः ॥५३॥ यदि वक्रसहस्राणां सहस्राणि भवन्त्विह | आयुध ब्रह्मणस्तुल्यं वक्तृत्वं च बृहस्पतेः ॥ ५४ ॥ 1. 'बीजं नि' ख. पाड.
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९३
दिखावट