त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । ऊधस्यं तु नपि क्षीरे त्रिषु तूधोभवादिके । ऊरव्यस्तु द्वयर्वैश्ये त्रिषु तूरुभवे भवेत् ॥ २७९ ॥ ऊरुजस्तु द्वयोर्वैश्य ऊरुजाते पुनस्त्रिषु । ऊषणो ना कटुरसे विज्ञेयस्त्रि तु तद्वति ॥ २८० ।। क्लीबं तु मरिचे शुण्ठावूषणाख्ये च कर्मणि । पिप्पल्यां तूषणा स्त्री स्यादुर्णायुस्तु द्वयोः क्रिमौ ॥ २८१ ॥ मेषाख्यपशुजातौ स्यान्ना तु तल्लोमनिर्मिते । कम्बले क्षीणभङ्गे च रभसः प्रोक्तवानमुम् ॥ २८२ ॥ वेदकीर्तितगन्धर्वभेदेऽथोर्जखति त्रिषु । ऊर्जस्वत् स्त्री तु नद्यां स्यादूर्जस्वत्यथ ना भवेत् ॥ २८३ ॥ ऋषभो वृषभे कर्णरन्ध्रे नक्रस्य पुच्छके । स्वराणामपि सप्तानां षड्जादीनां क्वचित् स्वरे || २८४ ॥ एकाहक्रतुभेदे च सामभेदेषु केषुचित् । अर्हत्तीर्थकराणां च कस्मिंश्चिन्मत्तहस्तिनि ॥ २८५ ॥ शृङ्गिसंज्ञे च भैषज्ये केचिच्छ्रेष्ठेऽपि मन्वते । अन्ये शब्दात् परः श्रेष्ठ इत्यूचू रभसः पुनः ॥ २८६ ॥ वराहपुच्छे च स्त्री तु नराकारस्त्रियां भवेत् । ऋषभा शुकशिम्ब्यां च रभसेन प्रकीर्तिता ॥ २८७ ॥ कीबे त्वृजीकं वज्रे स्यादृषिभेदे परे नरि । एधितं तु बने क्लीबलिङ्गमौणादिका विदुः ॥ २८८ ॥ ना स्याद् गिरिसरिद्वाहेऽथैकाङ्गो ना बुधग्रहे । त्रिस्त्वेकावयवे काणे त्वेकाक्षो मेद्यलिङ्गकः ॥ २८९ ।। १. 'योगि' क. पाठ: ↑ 'ऊर्षायुमो क्षणाभने मेषकम्बलमेषयोः' इति मेदिनी । 3.
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७३
दिखावट